अतश्श्रुतिपुराणस्थनिर्गुणाख्या हरिं प्रभुम्
निर्गुणश्रुतिविचारः
युक्तिमल्लिका
अतश्श्रुतिपुराणस्थनिर्गुणाख्या हरिं प्रभुम् ।
निर्गुणब्रह्म मद्दासीसङ्ग्येवासीन्न मत्प्रियम् ।। ७८८ ।।
अहं पतिव्रतैवासं तत्रोपक्रमवागियम् ।
उपसंहारवाक्चेेयं सदा त्वत्पक्षपातिनी ।
साक्षिणीति निगद्यात्ममनश्शौद्ध्यं प्रबोध्य च ।। ७८९ ।।
अन्यार्थशून्या मान्यार्थमुक्त्वा शरणमीयुषी ।
स्वस्वामिनो गुणान्हित्वा जग्रास प्राकृतान्गुणान् ।। ७९० ।।
सुरोत्तमटीका
युक्तियुक्तत्वादिममेवार्थं श्रुतिपुराणस्थानिर्गुणवागपि वक्तीति साहित्यमुद्रयाह ।। अत इति ।। यौक्तिकत्वादित्यर्थः । निर्गुणब्रह्म सर्वधर्मशून्यं परोदीरितं ब्रह्म मद्दासीसङ्गि ममदास्योः दुर्जनानामन्धन्त-मोदानाख्यमदभिमतकर्मकर्त्र्योरापातप्रतीत्यसज्जनभ्रान्त्योरेव सम्बन्धवदासीत् मत्प्रियं मम स्वारसिकार्थभूतं न । पतिव्रतापत्यौ त्वय्येव व्रतवती तत्र मदीय-पातिव्रत्ये उपक्रमवाक् एको देव इत्यादिका श्रुतावुपसंहारवाक् ससर्वदृगुप-द्रष्टेत्यादिका । त्वत्पक्षपातिनी सगुणं त्वामेव स्पष्टं वदन्ती साक्षिणी साक्षिभूता । तदननुगुणमर्थं मध्यस्था निर्गुणवाक् न वक्तीति सुप्रसिद्धमेवेति भावः । उपलक्षणं चैतत् । समाख्यास्मृत्या तदनुसारिण्या निर्गुणश्चेति श्रुत्या च साक्षाद्धरिपदेन सगुणस्य तवैवाभिधानाच्च । मनश्शौद्ध्यं जारोपमनिर्गुण-ब्रह्माद्यविषयत्वरूपशुद्धताम् । सर्वधर्मवैधुर्याख्यान्यार्थशून्या । मान्यार्थं दोषरूपहीनगुणाभावम् । अर्थमित्यनेन भर्तुर्मनश्शङ्कापरिहाराय तन्मनः प्रियद्रव्यदानमिवेति ध्वनितम् । उक्त्वा प्रभुं हरिं शरणमीयुषीति सम्बन्धः । स्वपत्न््नयां व्यभिचारशङ्किनं पतिं प्रति पतिव्रतायास्तस्याः वचनमिवेदं वचनम् । स्वस्वामिनः भर्तुर्नारायणस्य गुणान् सौन्दर्यादीन् । जग्रास । प्राकृतान् गुणानित्यनेन स्वभर्तुः प्रीत्यै तद्भोजनपात्रस्थतदुपेक्षिताल्पान्नेनैव ग्रासं कुर्वती-वेति ध्वनितम् ।। ७८८-७९० ।।
सत्यप्रमोदटीका
इदानीं निर्गुणश्रुतिः, प्रणयकलहावसाने वेदमुख्याभि-मानिनी रुक्मिणीव कृष्णं प्रति, आत्मनो विष्णुगुणप्रतिपादन एव महातात्पर्यं निवेदयतीति शृङ्गारमुद्रयाऽऽह अतः श्रुतीत्यारभ्य इति निर्गुणवागित्यन्तेन (श्लो.८५०) ग्रन्थेन । श्रुतिपुराणस्था सदागममुख्याभिमानिनी, निर्गुणाख्या निर्गुणा नित्यमुक्तेत्याख्याऽभिधानं यस्याः सा महालक्ष्मी रुक्मिणी । अन्यत्र निर्गुण इत्याख्या पदम् । हरिं प्रभुं पतिं कृष्णम् । शरणमीयुषी प्राकृतान्गुणान् जग्रासेति योजना । दुर्गारूपेण त्वद्द्वेषिणस्तमसि पातनार्थं ममाज्ञा-वशत्वाद्दास्यौ इव स्थिते आपातप्रतीतिपाशुपतादिदुरागमोक्ती तयोः सङ्गि विषयः । न मत्प्रियं न मत्तात्पर्यविषयः । शिशुपालादिरिवेति ध्वनिः । पतिव्रतैव विष्णोस्तव गुणोत्कर्ष एव महातात्पर्यवती । आसम् अस्मि भविष्यामि च । तत्र तात्पर्ये । उपक्रमवाक् एको देव इत्यादिवाक् । अन्यत्र ‘श्रुत्वा गुणान् भुवनसुन्दरे’ति प्रेमसन्देशः । उपसंहारवाक् ‘स सर्वदृगुपद्रष्टा’ इत्यादिका । अन्यत्र तदुहानुकम्पेत्यादिका । उपलक्षणं सर्वाणि तात्पर्य-लिङ्गानि । अन्यार्थशून्य निरवकाशा । जग्रास निराकृतवती ।।७८८-७९०।।
युक्तिमल्लिका
नैर्गुण्येनैव गुणिता नैर्गुण्यं च न चेन्नञौ ।
सगुणत्वं स्थिरीकृत्य विरुद्धार्थत्वकारकौ ।। ७९१ ।।
सुरोत्तमटीका
इदानीं निर्गुणश्रुतेरापातरमणीयार्थकथने महाननर्थस्स्या-दित्याह ।। नैर्गुण्येनैवेति ।। नैर्गुण्येन निर्गुणत्वाख्यगुणेन गुणिता गुणवत्ता । अन्ततो गुणस्यैव कथनाद्व्याहतिरिति भावः । नञौ नैर्गुण्यं नेत्यत्र विद्यमानौ निषेधार्थकौ द्वौशब्दौ स्थिरीकृत्य द्वौनञौ प्रकृतमर्थं सातिशयं गमयत इति वचनात्सगुणतामेव दृढीकृत्य पुनर्व्याहतार्थत्वकारकौ ।। ७९१ ।।
सत्यप्रमोदटीका
नञौ निषेधार्थकौ शब्दौ । स्थिरीकृत्य सातिशयम् । विरुद्धार्थत्वकारकौ सगुणत्वप्रतिपादकौ ।। ७९१ ।।
युक्तिमल्लिका
बद्धसेतुनिरुद्धाम्भस्सेतुभङ्गे स्रवेद्ध्रुवम् ।
यथा हि निर्गुणत्वस्य त्यागे सर्वगुणागमः ।
घटाभावक्षयो नाम घटस्यागतिरेव हि ।। ७९२ ।।
सुरोत्तमटीका
अलौकिकमपीममर्थम् अतिस्पष्टत्वाल्लौकिके दृष्टान्ती-करोति ।। बद्धसेत्विति ।। यथा निर्गुणत्वस्य गुणनिवारकगुणाभावस्य छेदे नञन्तरेण निषेधे सर्वगुणागमः अतिशयेन गुणप्राप्तिः । गुणाभावोनेत्युक्ते सुतरां गुणप्राप्तिरिति यावत् । तथा जलनिरोधक सेतुभङ्गे सर्वजलं स्रवे-दित्यर्थः। दृष्टान्तान्तरं चाह ।। घटाभावेति ।। ७९२ ।।
सत्यप्रमोदटीका
अत्र दृष्टान्तद्वयं सेतुभङ्ग इति घटाभावक्षय इति च । सेतुः प्रवाहस्य निषेधः तद्भङ्गः द्वितीयो निषेधः । प्रागभावविपत्तिरेव च प्रतियोग्यापत्तिः ।। ७९२ ।।
युक्तिमल्लिका
सङ्कोचे परसङ्कोचश्श्रेयान्मुख्यार्थलाभतः ।। ७९३ ।।
सुरोत्तमटीका
संकोचे भावगुणमात्रनिषेधरूपे । परसंकोचः तत्व-वाद्युक्त गुणत्रयनिषेधरूपः । मुख्यार्थलाभतः मुख्यवृत्तिलभ्यार्थलाभतः । अखण्डार्थवादिना परेण लाक्षणिकार्थत्वकथनात्तदलाभ इति भावः ।। ७९३ ।।
सत्यप्रमोदटीका
परपक्षे तत्ववादिपक्षे सङ्कोचः हेयगुणनिषेधरूपः मुख्यार्थलाभतः अभिधावृत्तिलभ्यगुणोत्कर्षलाभतः । अखण्डार्थस्य शब्द-बाह्यत्वेन मायिपक्षे नैरर्थक्यमेव ।। ७९३ ।।
युक्तिमल्लिका
कपिञ्जलाधिकरणन्यायानुसरणादपि ।
अनन्तसुगुणच्छेदात् त्रिगुणच्छेदनं वरम् ।। ७९४ ।।
सुरोत्तमटीका
कपिंजलाधिकरणन्यायानुसरणात् कपिंजलानालभेतेत्यत्र बहुत्वार्थकविभक्त्यंत कपिञ्जलपदस्य शतसङ्ख्याककपिञ्जलपक्षिपरत्वसम्भवेपि बहुहिंसाभयेन त्रित्वे पर्यवसानकरणन्यायानुसरणादित्यर्थः ।। ७९४ ।।
सत्यप्रमोदटीका
यावतो विना कपिञ्जलानित्यत्रत्यबहुवचनानिर्वाह-स्तावतस्त्रीनेवालभेतेति न्यायः कपिञ्जलाधिकरणन्यायः । तदनुसरणेन यद्गुणनिषेधं विना निर्गुणपदानुपपत्तिस्तेषामेव त्रयाणां प्रकृतिगुणानां निषेधः इत्यनुसरणेन । तत्र यागीयत्वेनालम्भनस्य हिंसात्वेऽपि यथा न प्रत्यवाया-पादकत्वं एवं अत्रापि श्रौतत्वेन गुणत्रयनिषेधस्य न निर्गुणपदास्वारस्या-पादकत्वं प्रत्युत भगवदुत्कर्षपर्यवसायित्वेन स्वारस्यातिशयसम्पादकत्वमेवेत्यपि न्यायसाम्यं विभावनीयम् ।। ७९४ ।।
युक्तिमल्लिका
किञ्च निर्गुणतां स्वार्थं क्षिपन्तीं सगुणश्रुतिः ।
अबाध्यस्वार्थवर्गेण कपोले ताडयिष्यति ।। ७९५ ।।
सुरोत्तमटीका
यदिच निर्गुणश्रुतिः स्वार्थनिर्गुणत्वमपि निषेधति तदाऽतत्वावेदकत्वेन दुर्बला तत्वावेदकतया प्रबलसगुणश्रुत्यैव बाध्या-स्यादित्याह ।। किञ्चेति ।। ७९५ ।।
सत्यप्रमोदटीका
स्वार्थं निर्गुणश्रुत्यर्थम् । निर्गुणतां निर्गुणत्व-लक्षणगुणमपि । क्षिपन्तीं निषेधन्तीम् । अत एव नैरर्थक्यलक्षणमप्रामाण्यं प्राप्नुवन्तीम् । स्वयं प्राप्तमरणावस्थाया निर्गुणत्वश्रुतेर्नान्यबाधनक्षमत्वमिति भावः । अथ एवम्भूताऽपि यदि स्वार्थं सगुणश्रुतेरर्थं क्षिपेत् निराकरणाय प्रवर्तेत तर्हि क्षिपन्तीं तत्प्रतिक्षेऽपोद्यतां तां, सगुणश्रुतिः अबाध्यस्वार्थवर्गेण अबाध्येन निरवकाशत्वलक्षणबलवता, स्वार्थवर्गेण स्वसमानार्थकसगुण-वाक्यसमूहेन बहुत्वनिमित्तकेन बलवत्त्वेनापि सहितेन, कपोले ताडयिष्यति आभासीकरिष्यति, आपातार्थं त्याजयित्वा प्राकृतगुणराहित्यमर्थं स्थापयिष्यति ।। ७९५ ।।
युक्तिमल्लिका
यद्यभावोऽस्ति भावस्याप्यभावाभावता न किम् ।
सर्वं नास्तीति वदता किमभावोऽपि रक्ष्यते ।। ७९६ ।।
सुरोत्तमटीका
निर्गुणश्रुतेरभावरूपनिर्गुणत्वानिषेधकत्वे दूषणान्तरं चाह ।। यद्यभावोऽस्तीति ।। तर्हीति शेषः । अभावाभावो भाव एवेत्यार्याणां वागुक्तविधया भावस्याप्यभावाभावतया सोऽप्यङ्गीकार्य इति भावः । प्रकारान्तरेणापि भावस्याङ्गीकार्यत्वमुपपादयति ।। सर्वमिति ।। सर्वशब्दसङ्कोचे कारणाभावादित्यर्थः ।। ७९६ ।।
सत्यप्रमोदटीका
प्राग्दूषितमप्यभावद्वैतमतं दोषान्तरोक्त्यै पुनश्शङ्कते यदीति । परिहरति भावस्यापीति । गुणाभावाभावस्याप्यभावत्वाविशेषे-णाङ्गीकारापत्त्या गुणानां द्वौ नञाविति न्यायेन सातिशयं प्राप्तेरिति भावः ।। सर्वमिति सर्वं खल्विदं ब्रह्मेतिवाक्यस्य ब्रह्मव्यतिरेकेण सर्वं नास्ति इत्यर्थं वदता परेण । यद्वा किञ्चन नास्तीत्यसङ्कोचेन सर्वं निषिध्यत इति वदता । रक्ष्यते सर्वशब्दकिञ्चन शब्दयोः सङ्कोचाश्रयणेनेति भावः ।। ७९६ ।।
युक्तिमल्लिका
नेहनानेतिवाक्यार्थरूपत्वाच्चेत्ततोऽपि किम् ।
अर्थत्यागे श्रुतेरप्रामाण्यं स्यादिति धीर्यदि ।
गुणश्रुतीनां बह्वीनां नाप्रामाण्याद्बिभेषि किम् ।। ७९७ ।।
सुरोत्तमटीका
संकोचे कारणमाशङ्कते ।। नेहनानेति ।। वाक्यार्थ-त्वेऽपि कुतो न तदभाव इति पृच्छति ।। ततोऽपि किमिति ।। ततोऽपि वाक्यार्थत्वेऽपि । परमुखेनैव स्वापेक्षितं न्यायमुद्घाटयति ।। अर्थत्याग इति ।। श्रुतेः नेहनानेति श्रुतेः । उत्तरमाह ।। गुणश्रुतीनामिति ।। श्रुत्यप्रामाण्या-द्भीतेन सकलश्रुत्यप्रामाण्याद्भेतव्यम् । श्रुतित्वाविशेषादिति भावः ।। ७९७ ।।
सत्यप्रमोदटीका
नेहनानास्ति वाक्यं साक्षादभावरूपसर्वं बोधयति । अतः सङ्कोचः इति पराभिप्रायं अनुवदति नेहेति ।। निषेधवाक्यानां प्रमितेतरनिषेधकत्वमेवेति न्यायं परमुखेन वाचयितुं पृच्छति ततोऽपीति । अभावस्य प्रमितत्वेऽपीत्यर्थः । किं तन्निषेधे को दोषः । अर्थत्यागे श्रुत्यन्तरप्रमितार्थप्रतिषेधे । श्रुतेः तदर्थप्रमापकश्रुत्यन्तरस्य । अप्रामाण्यं स्यात् । न च श्रुतेरप्रामाण्यं वक्तुं युक्तम् । अतो न तदर्थनिषेध इति विपर्ययपर्यवसानमनुसन्धेयम् । यदीत्यनन्तरं तर्हि श्रुतौ श्रद्धावांस्तदप्रामाण्या-द्भयशीलस्त्वमिति शेषः । किं न बिभेषीत्यपहासः । सावकाशां एकां श्रुतिं पश्यसि । निरवकाशा बह्वीः सगुणश्रुतीः न पश्यसीति नूनं चतुरे ते विलोचने इति ध्वनिः ।। ७९७ ।।
युक्तिमल्लिका
एवं सगुणवाद्युक्तयुक्तित्यागो न मे गुणः ।
इति मत्वा निर्गुणाख्या भेजे हरिपदाम्बुजम् ।। ७९८ ।।
सुरोत्तमटीका
निर्गुणश्रुतिरपि युक्तिप्रिया इमामेव युक्तिमनुसन्धाय सकलश्रुतिप्रामाण्यरक्षायै त्रैगुण्यवर्जितमित्यादिस्मृतिसमाख्यया दुर्गुणानेव निषेधतीत्याह ।। एवमिति ।। ७९८ ।।
सत्यप्रमोदटीका
युक्तित्यागः ब्रह्ममीमांसायां ‘सर्वधर्मोपपत्तेश्च’ इति सूत्रव्युत्पादितोपपत्तिसिद्धकल्याणगुणप्रतिषेधः । न मे गुणः महातात्पर्य-विरुद्धः । निर्गुणाख्या नित्यमुक्ताख्या श्रुत्यभिमानिनी लक्ष्मीः ।। ७९८ ।।
युक्तिमल्लिका
किं च निर्गुणशब्देन लक्ष्यं चेन्निर्गुणं कथम् ।
मुख्यार्थबाधमूलैव लक्षणेति सतां मतम् ।। ७९९ ।।
सुरोत्तमटीका
प्रकारान्तरेण श्रुतेः परमते निर्गुणार्थकत्वं नायातीत्याह ।। किञ्चेति ।। मुख्यार्थबाधमूलैव मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनादिति वचनान्निर्गुणत्वरूपमुख्यार्थबाधमूलैव । एवं च लक्षणावादी मायावाद्येव ममार्थं बाधितवान् ।। ७९९ ।।
युक्तिमल्लिका
वाच्यत्वं न परो वक्ति तेन स्यान्मे गतिर्वृथा ।
इत्याद्यालोच्य सा वाणी प्राणेशमतमन्वगात् ।। ८०० ।।
सुरोत्तमटीका
वाच्यत्वं मुख्यतो निर्गुणशब्दवाच्यत्वम् । परो मायावादी । तेन मुख्यपक्षस्य परैरनङ्गीकारात् लक्षणापक्षेच मदर्थस्यैव बाधेन । सा वाणी निर्गुणतावाणी । प्राणेशमतं मुख्यवृत्त्या त्रिगुणवर्जितत्वरूपाबाधितार्थ-प्रतिपादकमुख्यप्राणमतम् ।। ८०० ।।
युक्तिमल्लिका
वाच्यत्वेनैव गुणिता वाच्यत्वे निर्गुणोक्तितः ।
लक्ष्यत्वेनैव गुणिता लक्ष्यत्वे निर्गुणोक्तितः ।
नोभयं चेदशाब्दत्वधर्मेण स्याद्धि धर्मिता ।। ८०१ ।।
सुरोत्तमटीका
श्रुतेरालोचनान्तरमाह ।। वाच्यत्वेनेति ।। वाच्यत्वेनैव वाच्यत्वाख्यधर्मेणैव । एवं लक्ष्यत्वेऽपि द्रष्टव्यम् । लक्ष्यत्वेऽपीत्युपलक्षणम् । गौणत्वेऽपीति द्रष्टव्यम् । नोभयं चेत् सगुणत्वभीत्या उक्तधर्मद्वयं त्यज्यते चेत् । अशाब्दत्वधर्मेण शब्दाबोध्यत्वरूपधर्मेण । मुख्यामुख्यवृत्त्योरभावे शब्दाबोध्यत्वरूपधर्मस्य बलात्प्राप्तेरिति भावः । एवं च धर्ममुपजीव्यैव मम प्रवृत्तिर्निवृत्तिर्वा स्यात् । अतः कथमुपजीव्यं धर्मं रुणद्धि ।। ८०१ ।।
सत्यप्रमोदटीका
किञ्च वाच्यत्वे लक्ष्यत्वे उभयहीनत्वे वा पक्षत्रयेऽपि तत्तद्धर्मप्राप्त्या सर्वथा निर्गुणशब्दव्याघात एवेत्याह वाच्यत्वेनेति
।। ८०१ ।।
युक्तिमल्लिका
व्यावहारिकतायां च बाधाद्धर्मो न सोऽर्थकृत् ।
गुञ्जापुञ्जाग्निना कुञ्जे किं जायेत हिमौषधम् ।। ८०२ ।।
सुरोत्तमटीका
धर्माणां व्यावहारिकतायाम् उक्तधर्माणां बाधाद्व्याव-हारिकपक्षेऽपि बाधावश्यम्भावात् सः बाधितो धर्मः अर्थकृत् ममोपजीव-नाख्यकार्यकारी । बाधितादर्थक्रियाभावे दृष्टान्तमाह ।। गुञ्जापुञ्जेति ।। गुञ्जापुञ्जाग्नितः गुञ्जापुञ्जे आरोपिताग्नितः । हिमौषधं शीतनिवृत्तिः ।। ८०२ ।।
सत्यप्रमोदटीका
व्यावहारिकधर्माङ्गीकारान्न पदस्य निरर्थकत्वम् । पारमार्थिकतदनङ्गीकारान्न निर्गुणत्वव्याघातः इति मायिनः पक्षान्तरमाशङ्ग्य श्रुतिसाध्वी स्वयं समाधत्त इत्याह व्यावहारिकतायामिति । बाधात् धर्माणां बाध्यत्वस्य अपरिहारात् । सः धर्मः बाध्यो धर्मः । न अर्थकृत् मम निर्गुण-पदस्य सार्थकत्वसम्पादको न भवति । तदेव बाधकोक्त्या द्रढयति गुञ्जा-पुञ्जेति । बाध्येनाग्निनेति यावत् । कुञ्जे लतावृतप्रदेशे । हिमौषधं शीत-निवृत्तिरूपार्थक्रिया ।। ८०२ ।।
युक्तिमल्लिका
इति सर्वं समालोच्य श्रुतिस्सा व्याहतेर्भयात् ।
अव्याहतगतिं विष्णुमव्याजस्नेहतोऽभजत् ।। ८०३ ।।
सुरोत्तमटीका
सा श्रुतिः निर्गुणश्रुतिः । व्याहतेरिति जात्येकवचनम् । अव्याहतगतिं ब्रह्माण्डखर्परनिरोधेऽपि तद्भेदस्यैव कृतत्वादव्याहतगतिम् । अपौरुषेयतया प्रामाण्यनियमात् अहमप्यव्याहतगतिः । अतोऽयमेव मत्सम्बन्धयोग्य इति अव्याजस्नेहत इत्यनेन तन्मनःप्रियसार्वज्ञादिगुणा-नामच्छेदिका । तदनपेक्षितदोषरूपसत्वादिगुणानामेव च्छेदिकेति ध्वनितम् । अव्याहतगतिमित्यनेनापि अतिद्रढीयसा खर्परेणापि यस्य गतिरूपगुणो न व्याहतः निर्गुण इति कोमलवर्णपदात्मिकाऽहं कथं श्रौततया दृढतरसार्व-ज्ञादिगुणान्व्याहन्मीत्यपि ध्वनितम् ।। ८०३ ।।
सत्यप्रमोदटीका
सर्वं सर्वेषु पक्षेषु व्याहतितादवस्थ्यम् । सा निर्गुणाख्या । व्याहतेः तन्निमित्तकाप्रामाण्यात् । अव्याहतगतिम् अबाध्य-महिमानम् । अव्याजस्नेहतः मुख्यार्थसादृश्यं सम्बन्धं वाऽनिमित्तीकृत्य परममुख्यवृत्त्यैव । अभजत् प्रतिपादयति । अन्यत्र ‘आदरादलोप’ इति सूत्रोक्तदिशा नित्यमुक्ताऽपि गुणलोभादेव विष्णुमेवाश्रिता रमा इति हृदयम् ।। ८०३ ।।
युक्तिमल्लिका
मृषा चेन्निर्गुणत्वं स्यात्सगुणत्वश्रुतेर्बलात् ।
सत्या सगुणता तर्हि सिद्ध्येदद्वैतवत्तव ।। ८०४ ।।
सुरोत्तमटीका
अधुना निर्गुणत्वं मिथ्या सत्यं वेति विकल्पं मनसि निधायाद्यं दूषयति ।। मृषाचेदिति ।। मृषा मिथ्या । औतवत् तवाद्वैतवत् भेदमिथ्यात्वे ऐक्यश्रुत्या प्रतिपादितभेदविरुद्धैक्यसत्यत्ववत् । अन्यथा तदपि न स्यादित्यात्मीय एव बाणो भवन्तं प्रहरतीति भावः ।। ८०४ ।।
सत्यप्रमोदटीका
किं च निर्गुणत्वं मृषा सत्यं वा । आद्ये आह मृषा चेदिति । निर्गुणवाक्यस्यातत्वावेदकत्वप्राप्त्यादुर्बलेन तेन सगुणश्रुतेरबाधा-त्तदर्थसगुणतायाः सत्यत्वं सिध्यतीत्याह तर्हि सिध्येदिति । तत्र पराभिमतं दृष्टान्तमाह तवाद्वैतवदिति । भेदवाक्यानामतत्वावेदकत्वेन दौर्बल्यात्तद-बाधादैक्यवाक्यैरद्वैतं सिध्यतीति यथा त्वयोच्यते तथैवेत्यर्थः ।। अतत्वावेदकं तु न तत्वस्य बाधकमिति प्रसिद्धमित्याह हीति । तत्र युक्तिमाह अतत्वेति । बाधकत्वं प्रति प्राबल्ये सति विरोधित्वं व्यापकम् । न चात्र तदुभयमस्तीत्याह अतत्त्वेति । अतो व्याप्यनिवृत्तिरावश्यकीति भावः ।। ७०४, ७०५ ।।
युक्तिमल्लिका
अतत्वावेदकं वाक्यं न हि तत्वस्य बाधकम् ।
अतत्वतत्वयोश्चैव न विरोधोऽस्ति कश्चन ।। ८०५ ।।
सुरोत्तमटीका
तत्र युक्तिमाह ।। अतत्वावेदकमिति ।। हीत्यनेन नास्तीति विप्रलम्भकवाक्याद्घटास्तिताया अपायादर्शनादिति प्रसिद्धिमाह । अत्रापि मूलीभूतयुक्तिमाह ।। अतत्वतत्वयोरिति ।। आरोपितरजतत्वस्या-नारोपितशुक्तित्वस्य च विरोधादर्शनादिति भावः
।। ८०५ ।।
युक्तिमल्लिका
न मृषा निर्गुणत्वं चेन्निर्गुणत्वश्रुतिर्गता ।
तेनैव सगुणत्वाप्तेर्भावमात्रनिषेधने ।
अन्योन्याभावभेदस्य पट्टबन्धो भविष्यति ।। ८०६ ।।
सुरोत्तमटीका
द्वितीयपक्षं दूषयति ।। न मृषेति ।। तेनैव निर्गुणत्व-रूपगुणेनैव । भावमात्रनिषेधने निर्गुणपदेन स्वार्थभूतमभावमनिषिध्य भावमात्र निषेधने अन्योन्याभावभेदस्य अन्योन्याभावाख्यभेदस्य पट्टबन्धो भविष्यति । अभावरूपतया तस्याप्यवश्यमङ्गीकार्यत्वं स्यादिति भावः ।। ८०६ ।।
सत्यप्रमोदटीका
द्वितीये आह नेति । गता स्वार्थपरा न भवति । कुत इत्यत आह तेनैवेति । निर्गुणत्वगुणेनैव । ननु न स्वार्थहानिः । निर्गुणपदस्य भावरूपगुणमात्रनिषेधकत्वाङ्गीकारात् । निर्गुणत्वस्य गुणाभाव-रूपत्वेन तत्सत्यत्वेऽपि मदभिमतभावाद्वैतमतस्याक्षतेरिति पक्षान्तरमाशङ्कते भावेति । दूषयति अन्योन्याभावेति । भेदस्त्रिविधः । पृथक्त्वं, अन्योन्या-भावः स्वरूपं चेति परमतमाश्रित्यान्योन्याभावभेदस्येत्युक्तम् । अन्योन्या-भावश्चासौ भेदश्चेति विग्रहः । तेन पृथक्त्वस्य तार्किकैर्गुणत्वेन परिगणितस्य भावरूपत्वेन निर्गुणपदेन तन्निषेधेऽपि अन्योन्याभावस्याभावत्वेन तदनिषेधा-दुभयसंमत्या तत्सत्यत्वस्याक्षुण्णत्वात्पट्टबन्ध इत्युक्तम् । अप्रतिभटराजवदिति ध्वनिः ।। ८०६ ।।
युक्तिमल्लिका
बन्धध्वंससदाभावौ विरुद्धौ यत्सदातनौ ।
मन्त्रिणौ मन्त्रशक्त्या तं सदा बोधयतो नृपम् ।। ८०७ ।।
सुरोत्तमटीका
अभावान्तरापत्त्याऽप्यनिष्टमाह ।। बन्धध्वंसेति ।। बन्धस्य ध्वंसात्यन्ताभावौ सदातनौ नित्यौ मुक्त्यनन्तरमपि सदा विद्यमाना-वित्यर्थः । विरुद्धौ सार्वज्ञासार्वज्ञवदेकत्रानवस्थितौ । सदा भेदसाधकौ । ध्वस्तबन्धस्य नित्यमुक्तस्य चैक्यायोगादिति भावः । मन्त्रिणौ यतस्त्वसौ नित्यमुक्तोऽयं च बन्धान्मोक्षं तत एवाभिवांछेदिति मन्त्रवन्तौ । विरुद्धा-वित्यनेन अविरुद्धौ राजपुरुषावेकीभूय कदाचिद्राजानमेव नाशयतः । तयोर्विरोधेतु राज्ञ एव स्थैर्यमिति लोके दृष्टम् । तद्वदिहापि सहावस्थित्याऽ-विरुद्धधर्मौ न भेदप्रापकौ । प्रत्युतैक्यस्यैव साधनकौ । गोत्वाश्वत्ववत् सहानवस्थितौ तु स्वधर्मिणोर्भेदस्यैव साधकाविति ध्वनयति । मन्त्रशक्त्या द्वासुपर्णेत्यादिमन्त्रशक्त्या नृपं भेदं बोधयतः प्रतिपादयतः । मुक्तौ सदा विद्यमानविरुद्धधर्माभ्यां मुक्तावपि सर्वदा जीवपरयोर्भेद इति भावः ।। ८०७ ।।
सत्यप्रमोदटीका
बन्धध्वंसः नित्यमुक्तत्वाभावः जीवे सदातनः । संसारे विशेष्याभावेन मुक्तौ विशेषणाभावेन विशिष्टाभावस्यानुगतिर्द्रष्टव्या । बन्धसदाऽभावः परमात्मनि सदातनः । अभावात्मकतासम्पादनाय नित्य-मुक्तत्वमित्यनुक्त्वा सदाऽभाव इत्युक्तम् । विरुद्धौ ध्वंसस्य सत्प्रतियोगिक-त्वात् अत्यन्ताभावस्य असत्प्रतियोगिकत्वात्सहानवस्थितौ ।। मन्त्रिणौ पृथगधिकरणोदाहृतकौशिकश्रुतिरूपमन्त्रानुग्रहवन्तौ । मन्त्रशक्त्या आगमिक-त्वेन क्षुद्रोपद्रवरहितव्याप्तिपक्षधर्मतारूपसामर्थ्येन तं अन्योन्याभावं बोधयतः अनुमापयतः । विलक्षणकार्यविनियुक्तयोस्तन्निर्वाहाय सहानवस्थानं मन्त्रिणो-र्भूषणमेव ।। ८०७ ।।
युक्तिमल्लिका
भटौ चाग्रेसरौ तस्य रिपुसेनामुखागतौ ।
अल्पज्ञत्वबहुज्ञत्वाभावौ चोभयपार्श्वगौ ।। ८०८ ।।
सुरोत्तमटीका
भृत्यावप्याह ।। भटौचेति ।। रिपुसेनामुखागतौ अभाव-द्वैतवादिनो भेदरिपोर्मायावादिनो मुखादागतौ स्वाङ्गीकृताभावरूपतया मायावादिनाप्यनिवार्याविति । स्वसेनातो बलाद्गृहीतं भटं सैव सेना पुनर्न निहन्तीति लौकिकम् । अल्पज्ञत्वबहुज्ञत्वाभावौ किंचिज्ज्ञत्वस्य बहुज्ञत्वस्य च अभावौ द्वौ मायिमते संसारकालीनयोर्जीवेश्वरनिष्ठयोः किञ्चिज्ज्ञत्वसर्वज्ञत्वयो-र्भावधर्मयोर्मुक्तौ निवृत्तावपि संसारकालीनयोरभावरूपयोर्मुक्तावप्यनुवृत्त्या जीवेश्वर भेदसाधकत्वात्तदैक्यबाधकत्वाच्च भटावित्युक्तम् । नहि संसारेऽ-पीश्वरेऽल्पज्ञत्वाभावः जीवे सर्वज्ञत्वाभावश्च नास्तीति परो वक्ति ।। ८०८ ।।
सत्यप्रमोदटीका
रिपुसेना अभावद्वैतं तस्या मुखागतौ अङ्गीकारेणैव प्राप्तौ । अल्पज्ञत्वाभावः सदेश्वरनिष्ठ; । बहुज्ञत्वाभावः सदा जीवनिष्ठः इत्येतौ अभावरूपौ व्यावर्तकधर्मौ । भटौ भेदसाधकौ ऐक्यबाधकौ । उभयपार्श्वगौ । अन्योन्याभावपार्श्वयोरनुयोगिप्रतियोगिनोर्जीवेश्वरयोः नित्य-सम्बन्धिनौ ।। ८०८ ।।
युक्तिमल्लिका
पृथक्त्वं तु गुणं भावभेदं हन्त्वैक्यवाक्तव ।
अभावधर्मवद्भेदोऽप्यभावात्माऽस्तु निर्भयः ।। ८०९ ।।
सुरोत्तमटीका
तर्ह्यैक्यवाक्यस्य का गतिरित्यतः परोदीरितन्यायेनैव गतिमाह ।। पृथक्त्वं त्विति ।। तवैक्यवाक् एकमेवाद्वितीयमित्यैक्यवाक् । भावभेदं भावरूपभेदं हन्तु । अभावधर्मवत् निर्गुणवाक्येन बोधिताभावधर्मवत् अभावात्मा अन्योन्याभावात्मा । अस्त्विति न केवलं ममाज्ञा अद्वितीय-पदेनाभावरक्षणार्थं भावरूपं द्वितीयं त्वमेव हंसीत्यपि द्रष्टव्यम् । पृथक्त्वमिति तार्किकमर्यादयोक्तम् । अस्मन्मतेतु विभागं भावभेदम् ।। ८०९ ।।
सत्यप्रमोदटीका
नन्वेकत्वश्रुत्या तावद्भेदः प्रतिषेध्यः । सा चेदभाव-द्वैतमते नान्योन्याभावप्रतिषेधिका तर्हि तस्या निरर्थकत्वमेव स्यादित्यतस्त-त्सार्थक्यप्रकारं पररीत्यैवाह पृथक्त्वमिति । पृथक्त्वं भावरूपो गुणोऽन्योन्या-भावातिरिक्त इति तार्किकैरुपगमात् । तवेत्युक्त्या, वस्तुत एकपदस्य ‘एके मुख्यान्यकेवला’ इत्यनेकार्थस्य भेदनिषेधकत्वमेव नेति भावः । सर्वथाऽ-न्योन्याभावस्यैक्यवाक्यान्न बाधभय इत्याह निर्भय इति । तत्र हेतुमाह अभावात्मेति । दृष्टान्तमाह अभावधर्मवत् इति
।। ८०९ ।।
युक्तिमल्लिका
अन्योन्याभावातिरिक्तं पृथक्त्वं तत्ववादिना ।
निषेद्धुं शक्यते जीवे विभागाख्या भिदा तथा ।। ८१० ।।
सुरोत्तमटीका
ननु भवन्मते पृथक्त्वस्याङ्गीकारात्कथं तन्निषेध इत्यत आह ।। अन्योन्याभावेति ।। अन्योन्याभावातिरिक्तं तार्किकेण भावरूप-गुणतयाऽङ्गीकृतमिति यावत् । तत्ववादिना अन्योन्याभाव एव पृथक्त्वमिति वदता निषेद्धुं शक्यते । युक्तिहीनतयाऽस्माभिस्त्यक्तं तत्पृथक्त्वं अस्मन्मतस्य श्रौतत्वसंपादनाय तवैक्यश्रुतिरपि निषेधत्विति भावः । विभागाख्याभिदाच निषेद्धुं शक्यत इत्यावृत्त्या योज्यम् । बिम्बप्रतिबिम्बतया सदाऽविभक्तयोः तन्निषेधस्य न्याय्यत्वात्
।। ८१० ।।
सत्यप्रमोदटीका
अस्त्वेवं पररीत्या । स्वमते तु नैषा गतिरेकत्वश्रुतेः सम्भावनार्हा ।
‘पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन् कल्पयन्ति चेत् ।।
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः’ ।।
इति परप्रक्रियाखण्डनेन भेदस्यैकरूपत्वव्यवस्थापनादिति तत्राह अन्योन्या भावातिरिक्तमिति । कुसमयप्राप्तमप्रामाणिकमेव पृथक्त्वं प्रतिषेध्यमस्त्वित्याह शक्यते इति । यद्वैतदस्वरसादाह विभागाख्येति । भेदो हि स्थानमति-भेदाद्यनेकरूपः । स्वरूपभेदस्यैकरूपत्वेन तन्निरासासम्भवेऽपि विभागाख्य-भेदस्य निषेधः स्वमतेऽपि श्लिष्ट इति नैकत्वश्रुतिविरोधः स्वरूपभेदस्येत्याह विभागेति । असंयुक्तत्वं स्थानभेद इति यावत् । तस्य च निषेधः सयुजाविति श्रुतिसिद्ध एव ।। ८१० ।।
युक्तिमल्लिका
तयोरन्य इति प्रोक्तस्त्वन्योन्याभाव इष्यते ।
श्रुतिप्रामाण्यरक्षायै नैर्गुण्ये त्वद्विवेकवत् ।। ८११ ।।
सुरोत्तमटीका
प्रामाणिकत्वाच्च नाभावस्य निषेध इत्याह ।। तयोरिति ।। श्रुतिप्रामाण्यरक्षायै अन्योन्याभाव इष्यत इति सम्बन्धः । नैर्गुण्ये त्वद्विवेकवत् श्रुतिप्रामाण्यरक्षायै अभावं विना भावमात्रनिषेधाख्यविवेकवत् ।। ७११ ।।
सत्यप्रमोदटीका
तयोरन्य इत्यनेन ‘तयोरन्यः स्वाद्वत्त्यननश्नन्योऽभि-चाकशीति’ इति श्रुतिं सङ्गृह्णाति । अत्रान्यशब्दोऽन्योन्याभाववत्पर इत्याह प्रोक्तस्त्विति । विधावन्योन्याभावो निषेधे पृथक्त्वमित्यर्थभेदाश्रयण-मस्वरसमिति चेत् । तर्हि तवापि विधौ अभावधर्माणां, निषेधे भावधर्माणां गुणशब्दार्थतया ग्रहणात् निर्गुणशब्दस्यार्थभेदाश्रयणमस्वरसम् । अथ न मत्पक्षेऽस्वारस्यम् । निर्गुणश्रुत्याऽभावधर्माणामपि निषेधे स्वव्याघातेना-प्रामाण्यापत्तिः । अतस्तत्प्रामाण्यरक्षायै विवेकाश्रयणमवश्यमिति चेत् । समं ममापीत्याह श्रुतीति । सर्वथा भेदनिषेधे अन्योन्याभावविधात्रीणां द्वा सुपर्णेत्यादिबहुश्रुतीनामप्रामाण्यापत्तेरिति हृदयम् । इदं च प्रतिबन्दीग्रहणं स्वपक्षेऽस्वारस्यमभ्युपेत्य । वस्तुतस्तु निर्गुणशब्देन सत्त्वादिगुणनिषेधेऽ-स्वारस्यप्रसक्तिरेव नेत्यनुसन्धेयम् ।। ८११ ।।
युक्तिमल्लिका
आत्महत्येव यल्लोके परहत्याऽपि दूषणम् ।
अतस्स्वव्याहतेर्भीतौ भयं भेदश्रुतेर्न किम् ।। ८१२ ।।
सुरोत्तमटीका
स्वाप्रामाण्यमिव पराप्रामाण्यमपि दोषायेत्यत्र दृष्टान्त-माह ।। आत्महत्येति ।। ८१२ ।।
सत्यप्रमोदटीका
इयांस्तु विशेषः । त्वद्रीत्या निर्गुणश्रुत्याऽभावधर्म-निषेधे स्वव्याघातेन स्वाप्रामाण्यापत्तिः । ऐक्यश्रुत्या भेदनिषेधे परासां भेदश्रुतीनामप्रामाण्यापत्तिः न तु स्वस्याः । तथा चैकत्रात्महत्या । अपरत्र सुबहुपरहत्या । तथा च हत्यादोषस्य साम्ये सति दर्शितवैषम्यमकिञ्चि-त्करमित्याह आत्महन्येति । इयमप्युपेत्योक्तिः । यथाऽस्मत्पक्षे निर्गुणश्रुतेर-प्रामाण्यप्रसक्तिरेव न तथोपपादितमधस्तात् ।। ८१२ ।।
युक्तिमल्लिका
ज्ञातत्वाभावधर्मित्वपूर्वात्सा न बिभेति किम् ।। ८१३ ।।
सुरोत्तमटीका
अभावमङ्गीकुर्वतैव तन्निष्ठज्ञातत्वप्रमेयत्वादिभावधर्माणां ब्रह्मनिष्ठाभावाधिकरणत्वादिभावधर्माणां चावश्यमङ्गीकार्यत्वेन भावमात्र-निषेधोऽपि न युक्त इत्याह ।। ज्ञातत्वेति ।। ८१३ ।।
सत्यप्रमोदटीका
ब्रह्मणि सर्वथा भावधर्मनिषेधोऽशक्य एवेत्याह ज्ञातत्वेति । निषेधार्थं ब्रह्मणो ज्ञातत्वस्याभावधर्मधर्मित्वस्येत्यादीनां भावधर्माणां, तथाऽभावस्याभावत्वप्रमेयत्वाश्रितत्वादीनां भावधर्माणां उप-निपातादित्याह ज्ञातत्वेति । यथोक्तं वादावल्यां ‘न ह्यज्ञाते धर्मिणि कस्यचिद्धर्मस्य विधानं निषेधो वा युज्यते’ इति ।। ८१३ ।।
युक्तिमल्लिका
व्यवस्थितादियं तत्त्वंपदार्थत्वाच्च ते श्रुतिः ।
कथं न भीता भेदं वा विशेषं वा विना वद ।
विशेषो नास्ति भावस्ते भेदोऽभावो गतिर्ध्रुवा ।। ८१४ ।।
सुरोत्तमटीका
तत्त्वमसीत्यैक्यश्रुतिरपि जीवावाचकतत्पदेन ब्रह्मैव व्यपदिशन्ती ब्रह्मावाचकत्वंपदेन च जीवमेव व्यपदिशन्ती कथं तयोर्भेदमात्रं निवारयेत् । अन्योन्यावाचकपदबोध्ययोर्घटपटयोर्भेदाविनाभूतत्वदर्शनादित्याह ।। व्यवस्थितादिति ।। इयं ते श्रुतिरिति सम्बन्धः । विशेषं वेति स्वमत-रीत्योक्तम् अहमपि विशेषमङ्गीकरोमीति वदन्तं प्रत्याह ।। विशेष इति ।। भावः भावरूपो विशेषो नास्ति । तेनाभावः अन्योन्याभावरूपो भेद एव गतिरिति सम्बन्धः ।। ८१४ ।।
सत्यप्रमोदटीका
अभावद्वैतवादे तत्वमसि श्रुतिरप्यन्योन्याभावपरैवेत्याह व्यवस्थितादिति । तत्त्वंपदे तावदपर्याये । अतस्तत्पदस्येश्वर एवार्थस्त्वंपदस्य च जीव एवेति व्यवस्थितिः । इयं च भेदकार्यत्वाद्भेदं तदभावे तत्प्रतिनिधिं विशेषं वाऽऽक्षिपेत् । तत्र भावरूपत्वाद्विशेषस्तव मते नास्ति । अतोऽ-न्योन्याभावात्मा भेदोऽङ्गीकार्य एवेत्याह ध्रुवेति ।। ८१४ ।।
युक्तिमल्लिका
व्यावहारिकभेदाच्च नात्र तत्त्वंपदार्थता ।
यत्सत्ययोरैक्ययोग्यचितोरेव कथा तव ।। ८१५ ।।
सुरोत्तमटीका
व्यावहारिकभेदाद्व्यवस्थोपपत्तिरित्याशङ्क्य पारमार्थिकैक्य बोध समसमयवर्तिन्याः व्यवस्थाया अपि पारमार्थिकत्वावश्यंभावादित्याह ।। व्यावहारिकभेदादिति ।। चितोरैक्ययोग्यचिन्मात्रयोः कथा व्यपदेशः तत्त्वंपदाभ्याम् ।।८१५ ।।
सत्यप्रमोदटीका
अस्याः श्रुतेस्तत्त्वावेदकत्वं ब्रुवाणेन परेण उक्त-व्यवस्थायास्तन्निर्वाहकभेदस्य वा व्यावहारिकत्वं दुर्वचमित्याह यदिति । यस्मादित्यर्थः ।। ८१५ ।।
युक्तिमल्लिका
यद्वा ब्रह्मस्थितैक्यस्य भावरूपस्य तद्रिपोः ।
निर्गुणोक्तिश्शिरश्छिन्द्यात्तेनैवास्याः पराभवे ।। ८१६ ।।
सर्वज्ञशर्वशक्तित्वश्रुतिरर्थबलोर्जिता ।
पट्टं बध्नाति भेदस्य हन्ति चास्य विरोधिनम् ।। ८१७ ।।
सुरोत्तमटीका
प्रकारान्तरेणाप्यैक्यश्रुतेर्भेदश्रुतिबाधकता नास्तीत्याह ।। यद्वेति ।। निर्गुणोक्तिः त्वद्रीत्या ब्रह्मनिष्ठभावधर्मनिषेधिका निर्गुणोक्तिरिति यावत् । तद्रिपोर्भेदरिपोः भावरूपस्य ब्रह्मस्थितैक्यस्य ब्रहमधर्मभूतैक्यस्य शिरश्छिंद्यात् निर्गुणश्रुतिरेवैक्यश्रुतिबाधिकेति यावत् । एवमपि न भेदस्य हानिः । तेन भावरूपैक्येनैवास्याः निर्गुणश्रुतेः पराभवे ऐक्यश्रुत्या निर्गुण-श्रुतिबाधने । सर्वज्ञत्वादिश्रुतिः अबाधितार्था सती भेदस्य पट्टं बध्नाति । अस्य भेदस्य विरोधिनं ऐक्यं हन्ति च । सर्वज्ञासर्वज्ञयोरैक्यायोगात् । एवं त्वदैक्य-श्रुतेः प्रामाण्येऽपि भेदश्रुतेरेव जयः । निर्गुणश्रुतेः प्रामाण्येऽपि भेदश्रुतेरेव जय इति भावः ।। ८१६,८१७ ।।
सत्यप्रमोदटीका
किञ्चैक्यश्रुतिर्भावरूपमैक्यं वक्ति । निर्गुणश्रुतिस्तु भावनिषेधपरा भावत्वादैक्यं प्रतिवक्ति । एवं विरोधे स्थिते, उभयोः प्रामाण्यस्याप्रामाण्यस्य वाऽयोगात् अन्यतरस्य प्राबल्यमाश्रित्य तेन तदितरस्य बाधोऽवश्यं वक्तव्यः । तत्र विचार्यते कस्य प्राबल्यमिति । निर्गुणोक्तिः प्रबला चेदाह ब्रह्मेति । ऐक्यस्य शिरश्छिन्द्यात् । कुत इत्यत आह तद्रिपोरिति । तत्रापि हेतुमाह भावरूपस्येति । ऐक्यबाधे फलमाह पट्टं बध्नाति भेदस्येति । भेदस्य निराबाधा सिद्धिरित्यर्थः । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतर-विधिनान्तरीयकत्वात् । अस्तु तर्हि ऐक्यश्रुतिरेव प्रबलेति पक्ष इति तत्राह तेनेति । ऐक्येनेत्यर्थः । अस्याः निर्गुणश्रुतेः । पराभवे बाधे । सर्वज्ञेति । सगुणश्रुतिरित्यर्थः । अर्थबलोर्जिता अबाधितार्था । अर्थाद्विरुद्धधर्माकरणत्व-रूपहेतुबलेनोर्जिता च । पट्टं बध्नाति भेदस्येत्यस्यात्रापि पक्षे योजना । तथा च पक्षद्वयेऽपि भेदसिद्धिरविकलेत्याशयः ।। ८१६, ८१७ ।।
युक्तिमल्लिका
किं च सङ्कोचमार्गेण पलायनपरां श्रुतिम् ।
प्रबलानन्तसगुणश्रुतिः कोणे क्वचित्क्षिपेत् ।। ८१८ ।।
सुरोत्तमटीका
पूर्वं निर्गुणश्रुतेर्भावमात्रपरत्वेन सङ्कोचे गुणत्रयपरत्वेन सङ्कोच एव श्रेयानित्युक्तम् । अधुना प्रकारान्तरेण दूषयति ।। किञ्चेति ।। श्रुतिं निर्गुणश्रुतिम् । प्रबला असंकुचितस्वस्वगुणाभिधानात् प्रबला । अनन्ते-त्यनेन बहुत्वेनापि प्राबल्यं सूचयति ।। क्वचित्कोणे गुणत्रयाख्यकोणे । स्वबोध्यसार्वज्ञादिगुणान्विहाय गुणत्रयनिषेधपरामेव कुर्यादिति भावः ।।८१८।।
सत्यप्रमोदटीका
सङ्कोचमार्गेण भावधर्ममात्रनिषेध इति प्रकारेण । पलायनपरां गुणमात्रनिषेधप्रकारं जहतीम् । श्रुतिं निर्गुणश्रुतिम् । प्रबला वक्ष्यमाणप्रकारेण प्रसक्तिसम्पादकत्वेन उपजीव्यत्वात्, पदिन्यायेन विशेष-विषयकत्वेन निरवकाशत्वाच्च स्वभावबलवती, अनन्ता बहुत्वनिमित्तकबलवती च सगुणश्रुतिः क्वचित्कोणे भावधर्मेष्वपि सार्वज्ञादिगुणान्विहाय गुणत्रय-निषेधार्थकत्वे क्षिपेत् स्थापयेत् ।। ८१८ ।।
युक्तिमल्लिका
व्यावहारिकता चात्मधर्माणां स्यात्तदैव हि ।
यद्यहं प्रतिषेधामि नो चेत्तेस्युरबाधिताः ।। ८१९ ।।
सुरोत्तमटीका
ननु भगवति सार्वज्ञादिभावरूपगुणप्रतिपादकानां श्रुतीनां व्यावहारिकगुणपरत्वेन शतमप्यंधानां न पश्यतीति न्यायेन दुर्बलत्वान्निर्गुण-श्रुतिरेव सङ्कुचितवृत्तिरपि अबाध्यार्थत्वाद्बाधिकास्यादित्याशङ्कां निर्गुणश्रुते-रभिप्रायमुद्घाटयन्परिहरति ।। व्यावहारिकताचेति ।। अहं निर्गुण इत्याकारा । प्रतिषेधामि भगवद्गुणान्निराकुर्यां तदैवात्मधर्माणां व्यावहारिकता स्यादिति सम्भन्धः । नोचेन्न प्रतिषेधामिचेत् ते श्रौतागुणाः अबाधिताः स्युः ।।८१९।।
सत्यप्रमोदटीका
मायिमते दोषान्तरं वक्तुं श्रुतिसाध्व्या विमर्शमाह व्यावहारिकतेत्यारभ्य स्वभर्तृवदित्यन्तैरष्टभिः श्लोकैः । इदमत्राकूतं निर्गुण-श्रुतेः आत्मधर्माणां व्यावहारिकताऽपरपर्यायबाध्यता परेणाभिलषिता । तत्र द्वौ प्रकारौ सम्भावितौ । असङ्कोचेन भावधर्ममात्रनिषेधरूपमुख्यार्थाश्रयणेन वा लक्षणया चिन्मात्रबोधनेन वा । तत्र द्वितीये न परस्याभिलषितसिद्धिरित्याह यदीति । न ह्यखण्डार्थपरवाक्येन धर्माणां निषेधः सम्भवति । स्वरूप-मात्रपरस्य निषेधाद्युदासीनत्वात् । नो चेत् चिन्मात्रबोधिका चेदिति यावत् । ते आत्मधर्माः ।। ८१९ ।।
युक्तिमल्लिका
अहं च मुख्यतस्स्वार्थपरैवान्यविरोधिनी ।
न हि गङ्गापदं लक्ष्ये तीरे स्वार्थविरोध्यपि ।
तीरत्वघोषावासत्वपार्थिवत्वादिकं क्षिपेत् ।। ८२० ।।
सुरोत्तमटीका
अहं च लोकमर्यादया मुख्यवृत्त्या स्वार्थपरा धर्मा-न्निषेधामि वा उत मायिमतरीत्या लक्षणया वृत्त्या स्वार्थपरा निषेधामिवेति विकल्प्य द्वितीयपक्षे दोषं वदन्ती आद्यमेव पक्षं स्थिरीकरोति ।। अहं चेति ।। हि यस्मात् गङ्गापदं तीरे लक्षणया प्रवृत्तं लक्ष्ये स्वलक्ष्ये तीरे स्वार्थविरोधि स्वार्थस्य प्रवाहस्य विरोध्यपि तत्राविद्यमानमपि तीरत्वपार्थिवत्वादिकं न क्षिपेत् न निराकुर्यात् । तस्मान्मायावाद्युक्तरीत्या स्वरूपमात्रलक्षणया ब्रह्मस्वरूपमात्रप्रतिपादिकाऽहं वस्तुगत्या मम मुख्यार्थभूतनैर्गुण्यविरोधिनोऽपि भगवद्गुणान्ननिषेद्धुं शक्ता तेन मुख्यतस्स्वार्थपरैवान्यविरोधिनी मदर्थनैर्गुण्य-विरोधिभूतगुणविरोधिनी । धिङ्मायिमतं लोकमर्यादैवाश्रयणीयेति यावत् ।। ८२० ।।
सत्यप्रमोदटीका
अगत्या तेनाद्यप्रकार एवानुसरणीय इत्याह अहं चेति । विरोध्याकारसमर्पणेन विनाऽऽकारान्तरप्रतिक्षेपोऽलौकिक इत्यत्र लोकदृष्टान्तमाह न हीति ।। ८२० ।।
युक्तिमल्लिका
अतश्शाब्दत्वादिधर्मबलादन्यनिषेधिका ।
कथं तानेव बाधेऽहं हसिष्यति सहोदरी ।
कृतघ्नं दूषयन्ती वागुपजीव्यविरोधिनीम् ।। ८२१ ।।
सुरोत्तमटीका
अतो मुख्यवृत्तेरावश्यकत्वात् । शाब्दत्वं शब्दाभि-धेयत्वम् । आदिपदेन बोध्यत्वादिकं ग्राह्यम् । अन्यनिषेधिका भावधर्म-निषेधिका अहं तानेव मदुपजीव्यशाब्दत्वादिभावरूपधर्मानेव कथं बाधे कथं निवारयामि । यदि निषेधामि तर्ह्युपजीव्यविरोधिनीं मां सहोदरी मया सह भगवदुदरनिस्सृता कृतघ्नं दूषयन्ती कृतघ्ने नास्ति निष्कृतिरित्यादिका वाक् हसिष्यति । ननूपजीव्यमपि शाब्दत्वादिकं बाध्यत्वान्निषेद्धुं शक्यते इति चेत् तत्र वक्तव्यं किं बलात्तेषां बाध इति । निर्गुणोक्तिबलादेवेति चेत् न । सार्वज्ञादिगुणनिषेधार्थं मुख्यवृत्त्या प्रवृत्तया निर्गुणोक्त्या सार्वज्ञादिगुण-निषेधकाल एव न शाब्दत्वादिकमपि निषेद्धुं शक्यम् । स्वदन्तभङ्गस्यैव प्रसङ्गेन परदंशनासामर्थ्यात् । तद्बाधानन्तरं च नहि तद्बाधिका । विरम्य व्यापारायोगात् । शाब्दत्वादेस्तदाप्यावश्यकत्वाच्च बाधकान्तरं च नास्तीत्य-बाध्यमेव शाब्दत्वादिकम् ।। ८२१ ।।
सत्यप्रमोदटीका
भावमात्रनिषेधरूप आद्यः प्रकारोऽपि न विचारसह उपजीव्यविरोधापत्तेरिति वक्ति अत इति ।। अर्थे निर्गुणत्वे शाब्दत्वादिकं, एवं स्वस्मिन्निर्गुणशब्दे शब्दत्वादिकं इत्यपि ग्राह्यम् । यथोक्तं न्यायामृते सामान्येन मिथ्यात्वनिरासभङ्के ‘श्रुत्या स्वस्वरूपस्वप्रामाण्यतद्धेतु-योग्यताऽऽदेर्मिथ्यात्वाबोधने प्रत्यक्षादिसिद्धतत्सत्यत्वोपजीवने ब्रह्मेतर-सर्वमिथ्यात्वासिद्धेः । बोधने श्रुतिबोध्यार्थस्य तात्विकत्वासिद्धेः’ इति । शाब्दत्वादीन्भावधर्मानुपजीव्य पुनर्भावधर्ममात्रनिषेधे उपजीव्यविरोधः स्फुटः । अस्तूपजीव्यविरोध इत्यत आह हसिष्यति सहोदरीति । सहोदरी पञ्चम-वेदत्वेन परिगृहीता, ‘कृतघ्ने नास्ति निष्कृतिः’ इत्युपजीव्यविरोधस्य महा-प्रत्यवायापादकत्वं स्थापयन्ती स्मृतिः । श्रुतीनामुच्चारयितुः स्मृतीनां निर्मातुश्च भगवत एकत्वेन तासां सहोदरीत्वम् । हसिष्यति स्वानुकूलार्थे योजयिष्यति ।। ८२१ ।।
युक्तिमल्लिका
बाध्यस्य चोपजीव्यत्वमबाध्यं चोपजीवकम् ।
न श्रुतं न हि सत्सर्पो रज्जुसर्पोपजीवकः ।। ८२२ ।।
सुरोत्तमटीका
एवं दूषणे विद्यमानेऽपि तुष्यतु दुर्जन इति न्यायेन दूषणान्तरमाह ।। बाध्यस्येति ।। रज्जुसर्पोपजीवकः रज्जुसर्पस्योपजीवकः
।। ८२२ ।।
सत्यप्रमोदटीका
न श्रुतम् । अप्रामाणिकमिति यावत् । यो येनाबाध्यो न स तदुपजीवक इति एतत् दृष्टान्तेन स्पष्टयति न हीति । स्वोपजीव्यस्य भावधर्मस्य ।। ८२२, ८२३ ।।
युक्तिमल्लिका
ततोऽपि निर्गुणत्वं न स्वोपजीव्यस्य बाधकम् ।। ८२३ ।।
तस्माच्छाब्दत्वबोध्यत्वधर्मित्वादिगुणानुगा ।
एकत्र च्छिन्नधारेण कुठारेणापरं वने ।। ८२४ ।।
तज्जातीयं कथं छिन्द्यां मन्दाशङ्कितदुर्गुणान् ।
छिनद्मि मन्दधाराऽपीत्यगान्निर्गुणवाग्बहिः ।। ८२५ ।।
सुरोत्तमटीका
ततः लोकेऽप्युपजीव्यस्य बाध्यत्वादर्शनात् । तस्मा-दुपजीव्यबाधायोगात् । एकत्र शाब्दत्वादौ भावधर्मे छिन्नधारेण तन्निषेद्धु-मशक्तेन कुठारेण नञा । वने आरण्यके । अपरं सार्वज्ञादिकं तज्जातीयं भावत्वेन तज्जातीयं कथं छिन्द्याम् । प्रामाणिके कस्मिंश्चिद्भावधर्मे कुण्ठित-शक्तिना नञा कथं प्रामाणिकं भावान्तरं निषेद्धुं शक्यमिति भावः । मन्द-धारापि प्रामाणिकभावधर्मेऽल्पीभूतधारापि मन्दाशङ्कितदुर्गुणान्मन्दैराशङ्कित-दुर्गुणान् भगवत्यप्रामाणिकान्सत्वादिभावगुणान्वा सार्वज्ञाद्यभावरूपगुणान्वा निषेधामीति प्रामाणिकेभ्यो बहिरगादिति सम्बन्धः ।। ८२३-८२५ ।।
सत्यप्रमोदटीका
गुणानुगा तन्निषेधासमर्था । एकत्र शाब्दत्वादौ । कुठारेण निषेधार्थकनिरितिशब्देन । वने आरण्यकाद्यनन्तश्रुतिप्रतिपाद्ये परमात्मनि । अपरं सार्वज्ञाद्यनन्तभावगुणसमुदायम् । छिन्द्याम् निराकुर्याम् । आशङ्कितेति वस्तुगत्याऽविद्यमानेत्यर्थः । छिनद्मि अत्यन्ताभावप्रतियोगित्वेन ज्ञापयामि । बहिः प्रमितान्यनिषेधकत्वेन अगात् व्यवस्थिता ।।८२४,८२५।।
युक्तिमल्लिका
उपजीव्यसजातीयास्सर्वेपि ह्युपजीव्यवत् ।
भर्तुस्सहोदरास्सर्वे किं न पोष्यास्स्वभर्तृवत् ।। ८२६ ।।
सुरोत्तमटीका
भावत्वादिना सजातीयत्वेऽपि उपजीव्यत्वेन साजात्यं नास्तीति मन्दाशङ्का मा भूदिति सदृष्टान्तमाह ।। उपजीव्यसजातीया इति ।। ८२६ ।।
सत्यप्रमोदटीका
ननु शाब्दत्वादीनामुपजीव्यत्वेऽपि सार्वज्ञादीनां न तथात्वम् । भावत्वेन सजातीयत्वादिति चेत् किं तावता । नोपजीव्यत्व-जातीयत्वमेवोपजीव्यत्वमित्यत आह उपजीव्यसजातीया इति । उपजीव्य-वदिति । उपजीव्यसदृशाः । तद्वदेवाबाध्या बाधकाश्चेत्यर्थः । प्राबल्योपेता इति यावत् । उक्तं हि न्यायामृते प्रत्यक्षस्योपजीव्यत्वेन प्राबल्यविवरणभङ्गे ‘दृष्टं च नरशिरःकपालाशुचित्वागमस्य तच्छुचित्वानुमानादुपजीव्यशुचित्व-ग्राहिशब्दसाजात्यमात्रेण प्राबल्यमि’ति । अत्र भावत्वेन सजातीयत्वं द्रष्टव्यम् । उक्तन्यायं निदर्शयति भर्तुरिति । तदुक्तं भागवते ‘स्त्रीणां तु पतिदेवानां तच्छुश्रूषाऽनुकूलता । तद्बन्धुष्वनुवृत्तिश्चे’ति ।। ८२६ ।।
युक्तिमल्लिका
किञ्च सर्वज्ञत्वपूर्वापूर्वसर्वगुणा हरौ ।
तत्तच्छतिप्रसक्ताश्चेन्निषेध्यास्स्युर्न चान्यथा ।। ८२७ ।।
सुरोत्तमटीका
अधुना सर्वज्ञत्वादीनामेव साक्षादुपजीव्यत्वं वक्तु-मुपक्रमते ।। किं चेति ।। सर्वज्ञत्वपूर्वास्सर्वज्ञत्वसर्वेश्वरत्वादयः । अपूर्वाः भगवत्येव विद्यमानाः सर्वगुणाः तत्तच्छतिभिः सार्वज्ञादिश्रुतिभिः प्रसक्ताश्चेत् । अन्यथा प्रसक्त्यभावे ।। ८२७ ।।
सत्यप्रमोदटीका
यद्वैतदस्वरसात्साक्षादुपजीव्यत्वमेवात्रेति समर्थयते किञ्चेत्यादिना षड्भिः । येन विना यस्यानुत्थितिस्तत्तस्योपजीव्यमिति लक्षणान्तरमनुरुध्य निषेध्यसमर्पकत्वेनोपजीव्यत्वमाह सर्वज्ञत्वेति । अपूर्वाः भगवदेकनिष्ठाः श्रुत्येकसमधिगम्याश्च सर्वे अनन्ताः प्रत्येकं पूर्णाश्च । तत्तच्छतिप्रसक्ताः अनन्तापर्यायवैदिकशब्दैर्योगवृत्त्या प्रतिपाद्याः । अन्यथा योगेनाप्रतिपाद्यत्वे
।। ८२७ ।।
युक्तिमल्लिका
तत्तच्छ्रौतपदान्येषां प्रसक्त्यै स्युस्तदैव हि ।
यदि मुख्यतयैवैतानभिदध्युर्गुणानपि ।। ८२८ ।।
सुरोत्तमटीका
तत्तच्छ्रौतत्पदानि सर्वज्ञादिपदानि एषां सार्वज्ञादीनां मुख्यतया मुख्यवृत्त्या अभिदध्युः ब्रूयुः ।। ८२८ ।।
सत्यप्रमोदटीका
उपपादयति तत्तदिति । मुख्यतयैव योगेनैव । न त्वज्ञरूढ््या लक्षणादिना वा । न हि तथात्वे गुणप्रसक्तिः ।। ८२८ ।।
युक्तिमल्लिका
मुख्या वृत्तिश्च गुणिनि तत्तत्सत्तामपेक्षते ।
कथं तत्रैव तद्धर्मसत्तापेक्षावती पुनः ।। ८२९ ।।
तांस्तत्रैव निषेधामि याऽहं तदुपजीविनी ।
यदा यत्र घटस्तत्र तदा किं तन्निषेधनम् ।। ८३० ।।
सुरोत्तमटीका
गुणिनि ब्रह्मणि तत्तत्सत्तां सार्वज्ञादिसत्ताम् । सर्वज्ञत्व-सहिते स शब्दो मुख्यः । तद्रहिते सर्वज्ञशब्दः तीरे गङ्गाशब्दवत् अमुख्य एव । एवं च तत्रैव ब्रह्मण्येव तद्धर्मसत्तापेक्षावती । अपूर्वाणामन्यत्र सत्ता-योगात् । तान् सार्वज्ञादीन् । तदुपजीविनी ब्रह्मणि सर्वज्ञत्वादिसत्त्वोपजीविनी ।। ८२९,८३० ।।
सत्यप्रमोदटीका
मुख्या वृत्तिः अवयवार्थं निमित्तीकृत्य प्रतिपादकत्व-रूपा योगवृत्तिः । तत्तत्सत्तां अवयवार्थभूतगुणसत्ताम् । अन्यथा श्रुतेरर्थ-सत्ताघटितप्रामाण्यस्यैवायोगात् । यद्देशकालयोः यत्प्रमितं न तद्देशकालयोस्तन्निषेध इत्येतन्निदर्शयति यदेति।।८२९, ८३० ।।
युक्तिमल्लिका
इत्थं प्रसञ्जकं वाक्यं यस्मादासीत्प्रसाधकम् ।
अतोऽपि सा श्रुतिस्सर्वा ह्युपजीव्यैव मे भवत् ।। ८३१ ।।
सुरोत्तमटीका
फलितमाह ।। इत्थमिति ।। ८३१ ।।
सत्यप्रमोदटीका
ननु न प्रसञ्जकत्वरूपोपजीव्यत्वमात्रेण प्राबल्य-सिद्धिः । तथा सति नेदं रूप्यमिति धियो निषेध्यसमर्पकत्वेनेदं रूप्यमिति धीरूपजीव्येति तस्या अपि प्राबल्यसिद्धेः । किन्तु प्रमाणत्वेन परीक्षितत्वे सति निर्णीतत्वविशिष्टम् । सत्यमेवम् । प्रकृते च प्राबल्यप्रयोजकं विशिष्ट-मेवास्ति । तेन सगुणवाक्यानां प्राबल्यं सिध्यत्येवेत्याह इत्थमिति । प्रसाधकम् अर्थ सत्त्वव्यवस्थापकप्रामाण्योपेतम् । अपौरुषेयत्वेन श्रुतीनां स्वतः प्रमाण-त्वात् । उपजीव्यैव प्रबलैव ।। ८३१ ।।
युक्तिमल्लिका
बिभेमि तद्विरोधाय त्रिगुणास्तु जडात्मकाः ।
जीवेषु प्रमिता भ्रान्त्या प्राप्ता ब्रह्मणि निर्मले ।
निरवद्यश्रुतिस्थेम्ने निषेध्या इत्यगाद्बहिः ।। ८३२ ।।
सुरोत्तमटीका
तद्विरोधाय उपजीव्यसार्वज्ञादिश्रुतिविरोधाय । तर्हि कस्य निषेधो ममार्थस्स्यादित्यत आह ।। त्रिगुणास्त्विति ।। निर्मले ब्रह्मणि भ्रान्त्या प्राप्ता इत्यनेन तत्रैव तत्सत्ता नोपजीव्येति सूचयति ।। ८३२ ।।
सत्यप्रमोदटीका
तद्विरोधाय गुणनिषेधात् । तर्हि प्रकृतिगुणानामपि कथं निषेध इत्यत आह त्रिगुणास्त्विति । जीवेषु प्रमिताः बन्धकत्वेनेति शेषः । एवं प्राप्ता इत्यत्रापि । निषिध्यन्ते । तन्निमित्तको लेपरूपदोषः ईश्वरे आरोप्य निषिध्यते इति यावत् । प्रामाणिकत्वेन गुणानामेव निषेधायोगात् । अप्रामाणिकस्यैवात्यन्ताभावप्रतियोगित्वमग्रे भेदसौरभे स्पष्टीकरिष्यते ।।८३२।।
युक्तिमल्लिका
अभावशेषे याऽप्याशा सुगुणद्रोहिणां हरेः ।
तस्याश्चोक्तात्मधर्माणां पक्षपातो भयङ्करः ।। ८३३ ।।
सुरोत्तमटीका
अभावशेषे अभावावशेषे । सर्प इति ध्वनिः । हरे-स्सुगुणद्रोहिणां मायिनाम् । तस्याः शेषाशायाः उक्तात्मधर्माणां विषये पक्षपातः उक्तविधयानिर्गुणश्रुतेराग्रहः । गरुड इति ध्वनिः ।। ८३३ ।।
सत्यप्रमोदटीका
सुगुणा भावभूता तेभ्यो द्रुह्यन्तीति तेषाम् । तन्निषेधायाभावशेषमभिलषतां मायिनाम् । तस्याः शेषाशायाः । वानर-प्रतिषेधाय सर्पास्त्रं प्रयोक्तुरिन्द्रजित आशाया इवेति ध्वनिः । उक्ता आत्म-धर्माः ज्ञानानन्दादयः । यद्वा, उक्तात्मानो ये धर्माः शाब्दत्वज्ञेयत्वादयः । तेषां पक्षपातः । उपजीव्यत्वेन तदपरित्यागे आग्रहः । अन्यत्र पक्षिश्रेष्ठस्य गरुडस्योपनिपातः आत्मधर्माणां परमात्मसेवार्थं युद्धधर्मनिरतानां वानराणाम् । पक्षपातः स्नेहः ।। भयङ्करः अभावद्वैतदूषकः । अन्यत्र सर्पास्त्रविनाशकः ।। ८३३ ।।
युक्तिमल्लिका
अभावे गौरवं प्राहुर्भावे च लघुतां बुधाः ।
चित्रं श्रुत्यङ्गना धत्ते शिलां न किल मालिकाम् ।। ८३४ ।।
सुरोत्तमटीका
भावाभावयोः भाव एवावशेषार्हः लघुत्वात् । नत्वभावो गुरुत्वादित्येतत् साहित्यमुद्रयाऽऽह ।। अभाव इति ।। ८३४ ।।
सत्यप्रमोदटीका
गौरवं तज्ज्ञानस्य धर्मिप्रतियोगिबोधपराधीनत्वात् । लघुता तन्निरपेक्षज्ञानविषयत्वात् । गौरवमनादरणीयमित्येतत्साहित्यमुद्रया रञ्जयति चित्रमिति । शिलां गुर्वीं स्वानर्थकरीम् । किलेत्यपहासे ।। ८३४ ।।
युक्तिमल्लिका
भावो हि योषितां भूषा भावो वाचां च भूषणम् ।
तं भावं वाग्वधूरेषा दूषयेत्केन हेतुना ।। ८३५ ।।
सुरोत्तमटीका
प्रकारान्तरेण भाव एव श्रुतेरपेक्षित इत्याह ।। भावो-हीति ।। भावः शृृङ्गारचेष्टा । वाचाञ्च भावः अभिप्रायः । वाग्वधूः वाग्रूपा वधूः । तं भावं द्विविधं भावम् ।। ८३५ ।।
सत्यप्रमोदटीका
तं उभयविधम् । एषा उभयरूपा । किमाक्षेपे ।। ८३५ ।।
युक्तिमल्लिका
किञ्च किञ्चनशब्दस्य भावं यो वेत्ति कञ्चन ।
अभावशेषं स कथं दोषं न मनुते बुधः ।। ८३६ ।।
सुरोत्तमटीका
अभावशेषवादिनो दूषणान्तरमाह ।। किंचेति ।। भावं किमपि नास्तीति भावम् ।। ८३६ ।।
सत्यप्रमोदटीका
परपक्षे किञ्चनशब्दस्य भावमात्रार्थाश्रयणेऽस्वारस्यं च दोषः इत्याह किञ्चेति । स्वमते तु गुणक्रियाऽवतारादीनां सर्वेषामपि ग्रहणान्न स इत्यपि मन्तव्यम् ।। ८३६ ।।
युक्तिमल्लिका
स्वव्याहतिभयात्स्वार्थं नाभावं यर्हि वारयेत् ।
न मारयेत्तर्हि नित्यां स्वां च भावस्वभाविनीम् ।। ८३७ ।।
सुरोत्तमटीका
अभावशेषपक्षे पुनरपि दूषणमाह ।। स्वव्याहति-भयादिति ।। तर्हि भावस्वभाविनीं भावरूपाम् । नित्यां यावद्ब्रह्मविष्ठितं तावती वागिति ब्रह्मसमानयोगक्षेमतया सदातनां स्वां नेहनानेति श्रुतिं च न मारयेत् न बाधेत । बोध्यार्थ इव बोधकश्रुतिरप्यबाध्यैव भवेत् । नह्या-लोकाभावे घटबोधो दृष्टः । अतो भावोऽप्यवशेषणीय इत्यर्थः । स्वार्थे स्वत्वाभिमानाद्धि तव स्वव्याहतिरित्युपचारः । अस्मदुक्तस्वात्मबाधनं तु मुख्यतस्स्वव्याहतिरित्यवश्यं वर्जनीयेति भावः ।। ८३७ ।।
सत्यप्रमोदटीका
स्वशब्दः स्वीये स्वस्मिश्च व्युत्पन्नः । श्रुतेश्च द्वयी गतिः । अभावनिषेधः भावनिषेधश्च । तत्राद्ये स्वीयस्य विषयस्य निषेधा-न्निर्विषयत्वलक्षणामानत्वप्राप्त्या स्वव्याहतिः । द्वितीये भावात्मिकायाः स्वस्या एव निषेधप्राप्त्या स्वव्याहतिः । अतः स्वव्याहतेर्बिभ्यता अभावधर्मा यथा न वारणीयास्तथा भावात्मकं श्रुतेः स्वस्वरूपमपि न मारणीयमित्याह स्वेति ।। व्याहतेरुभयत्राविशेषादिति भावः ।। ८३७ ।।
युक्तिमल्लिका
मानत्वधर्मनाशस्स्यादभावप्रतिषेधने ।
धर्मिनाशो भवेद्धन्त भावार्थप्रतिषेधने ।। ८३८ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि अभावशेषणात् भावशेषणमेव न्याय्य-मित्याह ।। मानत्वेति ।। भावार्थप्रतिषेधने श्रुतिरूपधर्मिनाशः।। ८३८ ।।
सत्यप्रमोदटीका
वस्तुतस्तु नाविशेषः । एकत्र धर्ममात्रहानिः अपरत्र धर्मिणः स्वरूपस्यैव हानिरिति विशेषस्यैव सद्भावादित्याह मानत्वेति
।। ८३८।।
युक्तिमल्लिका
सति धर्मिणि धर्मस्य चिन्तामाहुर्विपश्चितः ।
धर्मिनाशाद्भयं नो चेद्धर्मनाशेन किं भयम् ।। ८३९ ।।
सुरोत्तमटीका
उक्तार्थे पूर्वेषां संमतिमाह ।। सतिधर्मीणीति ।। ८३९ ।।
सत्यप्रमोदटीका
तत्र द्वितीयः पक्षो यत्नतः परिहरणीयो ‘धर्मिनाशा-द्धर्मनाशो वरं’ इति विपश्चितां वचनादित्याह सतीति । ‘आत्मार्थे पृथिवीं त्यजेदि’ति न्यायात् ।। ८३९ ।।
युक्तिमल्लिका
यदि तत्वज्ञानतायै न बोध्यस्य निषेधनम् ।
तदर्थमेव तर्ह्यज्ञ बोधकं च न बाध्यताम् ।। ८४० ।।
सुरोत्तमटीका
प्रकारान्तरेण परशङ्कामनूद्य दूषयति ।। यदीति ।। तत्वज्ञानतायै तद्वतितत्प्रकारकज्ञानत्वार्थम् । तदर्थं तत्वज्ञानोत्पत्त्यर्थम् । बाष्पारोपितधूमात् वह्निप्रमितेरदर्शनात् । सद्धूमादेव तत्प्रमितिदर्शनाच्च । अत्रापि त्वदुक्ता धर्मचिन्ता । अस्मदुक्तातु धर्मिचिन्तेति प्रबला ।। ८४० ।।
सत्यप्रमोदटीका
वेदस्तत्वावेदकः । तद्बोध्यस्याभावस्य तत्वतायामेव तथात्वं सिध्यति । अतो नाभावस्य निषेध इति शङ्कते यदीति । परिहरति तदर्थमिति । बोध्यसिद्ध्यर्थमेव । न हि वन्ध्यासुतवचसाऽर्थसिद्धिरिति भावः ।। ८४० ।।
युक्तिमल्लिका
वक्तृत्वगुणबाधे हि श्रुतेर्बाधे न बोधकम् ।
नेह नानेति वाक्ये तु साक्षाद्बाधान्न बोधकम् ।। ८४१ ।।
सुरोत्तमटीका
ननु निर्गुणश्रुतौ भावरूपभगवद्गुणबाध एव । नतु श्रुति-स्वरूपबाधः । अतोऽनुक्तोपालम्भ इत्यत आह ।। वक्तृत्वेति ।। वक्तृत्व-गुणबाधे हरेर्भावरूपवक्तृत्वगुणबाधे उच्चारकाभावेन श्रुतेरेवाभावे सति न बोधकम् । साक्षाद्बाधात् भगवतोऽन्यस्य साक्षान्निषेधात् । साक्षात्परंपरयावा श्रुतिबाधस्तूभयत्रापि सम इति नोक्तदोष इति भावः ।। ८४१ ।।
सत्यप्रमोदटीका
ननु नेहनानेति वाक्येन भावमात्रनिषेधात्स्वस्यापि निषेधप्राप्त्याऽस्तु तस्य वन्ध्यासुतवचस इवाबोधकत्वं, निर्गुणश्रुतिस्तु भगव-द्गुणमात्रनिषेधपरा । अतो न तया श्रुतिस्वरूपबाधः नितरामबोधकत्वमिति मन्दाशङ्कां निराह वक्तृत्वेति । शब्दो न सत्तया बोधकः किं तु ज्ञात-करणम् । तज्ज्ञानं चोच्चरितस्य । उच्चारकश्चादिवक्ता भगवान् । ‘यो वेदांश्च प्रहिणोति तस्मै’ इति श्रुतेः । ततश्चेश्वरे वक्तृत्वगुणनिषेधे उच्चारणाभावेन बोधकत्वं न सिध्यतीत्याह न बोधकमिति ।। वक्तृत्वेत्युपलक्षणम् । बुद्धिशक्त्यादिभावगुणेत्यपि ग्राह्यम् । एतेनैतदपि निरस्तम् । उच्चारणाभावेऽपि न श्रुतिस्वरूपं हीयते । तस्य नित्यत्वेन विष्णुबुद्धाववस्थितेः । तदुक्तं ‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगा’ इति । नापि तद्बोधकत्वम् । अर्थप्रतिपादनादिशक्तेस्तत्स्वभावत्वात् । अतः ‘श्रुतेर्बाधे न बोधकमि’त्युक्त मसदिति । भावधर्ममात्रनिषेधे बुद्धेरपि निषेधेन तद्बुध्द्यवस्थानायोगात् । एवं शक्तेरपि निषेधेन तच्छक्यस्य स्वभावस्यापि बोधकत्वस्यानवस्थानादेव । तदुक्तं गायत्रीनयानुव्याख्याने ‘तादृशत्वाच्च तच्छक्तेरि’ति । तत्रैव सुधायां च ‘तादृशी खल्वीश्वरशक्तिः । यन्नित्यानित्यस्वभावास्वभावविषया । अन्यथा सर्वेश्वरत्वहानेः’ इति । अतः साधूक्तं ‘श्रुतेर्बाधे न बोधकमि’ति ।। अस्तु वा श्रुतिस्वरूपम् । तथाऽपि तदुच्चारणाभावे तव तेन त्वदद्वैतबोधासिद्धिरेव । शब्दस्य ज्ञातकरणत्वादित्युक्तमेवेति यत्किञ्चिदेतत् । इयानेव विशेषो वाक्य-द्वयस्येत्याह त्विति । निर्गुणवाक्येन तु वकृतत्वगुणनिषेधद्वारा । बोधकत्वा-भाव उभयत्र सम इति स्थितम् ।। ८४१ ।।
युक्तिमल्लिका
सतोऽपि दोषतो दोषस्स्वासत्त्वे किं न दुष्टता ।। ८४२ ।।
सुरोत्तमटीका
स्वस्वरूपहानिर्महादोष इत्यत्र लौकिकदृष्टान्तमाह ।। सतोऽपीति ।। सतोऽपि चक्षुरादेर्दोषतः काचादिदोषात् दोषः प्रमाजनकत्वा-भावः । स्वासत्त्वे चक्षुष एवाभावे दुष्टता प्रमाजनकत्वाभावो न किं भवेदेवेत्यर्थः । नकिमित्याक्षेपेण पूर्वत्र धर्म्यंशप्रमाजनकत्वमात्रमस्ति । अत्र तु तदपि नास्तीति सूचितम् ।। ८४२ ।।
सत्यप्रमोदटीका
तदेव विशदयति सत इति । निर्गुणश्रुतिपक्षे विद्य-मानस्यापि श्रुतिस्वरूपस्य । दोषतः योग्यताऽऽदिभावधर्मनिषेधेनापतिता-योग्यताऽदिदोषतः । दोषः यथार्थज्ञानजनकत्वाभावः । कथञ्चिज्ज्ञान-जनकत्वेऽपि यथार्थत्वरूपविशेषणाभावाद्विशिष्टाभावः । स्वासत्त्वे नेह-नानास्तिश्रुतिपक्षे । किं न दुष्टता उभयाभावादेव विशिष्टाभावः सिध्यत्येव । यद्वा वाक्यद्वयेनापि श्रुतिस्वरूपस्यैवोक्तदिशाऽसत्त्वम् । सतोऽपीति तु कैमुत्यव्युत्पादनार्थम् ।। ८४२ ।।
युक्तिमल्लिका
धर्मी स(र्वा)त्त्वात्मना रक्ष्यो न चेद्बह्मैव शाम्यति ।
तदिहेति पदात्सच्चेत्तत्पदं चात एव सत् ।। ८४३ ।।
सुरोत्तमटीका
उक्तमर्थमुपसंहरन्नेव बाधकं चाह ।। धर्मीति ।। ब्रह्म ऐक्यस्य त्वदभिलषितनिषेधस्य च धर्मिभूतं ब्रह्म । तद्ब्रह्म । इहेति पदान्नेह नानेत्यत्र विद्यमानात् । तत्पदं इहेति पदम् । अत एव ब्रह्मस्थापकत्वादेव । सत् अबाध्यम् ।। ८४३ ।।
सत्यप्रमोदटीका
किञ्च ब्रह्मणि धर्मनिषेधार्थमपि नेहनानेति वाक्येन स्वस्वरूपं सर्वथा रक्ष्यम् । अन्यथा धर्मिणो ब्रह्मणोऽपि तेनासिध्द्या कुत्र धर्मान्निषेधेत् । यत्र क्वापि धर्मनिषेधे ब्रह्मणि तदसिद्धेः इत्याह धर्मीति । ननु न धर्मिणो ब्रह्मणोऽसिद्धिः । इहेति पदेन तत्सिद्धेरिति मन्दः आशङ्कते तदिति । परिहरति तत्पदमिति । अत एव बोध्यस्य ब्रह्मणः सत्त्वादेव । करणस्य सत्यत्वे विषयस्य सत्त्वं इति यद्यपि न नियमो भ्रमस्थलीयदुष्टकरणे व्यभिचारात् तथाऽपि विषयसत्त्वे करणसत्त्वनियमेनेहेतिपदसत्त्वमेष्टव्यं समान-न्यायेन निषेधसिध्द्यर्थं पदान्तरसत्त्वमपीत्याशयः ।। ८४३ ।।
युक्तिमल्लिका
व्यावहारिकसत्त्वेन वोधकं यदि बोधकम् ।
व्यावहारिकसत्त्वेन बोध्यस्याप्यस्तु बोध्यता ।। ८४४ ।।
सुरोत्तमटीका
शङ्कते ।। व्यावहारिकसत्त्वेनेति ।। उत्तरमाह ।। व्यावहारिकेति ।। बोध्यस्य ब्रह्मणः ऐक्यस्य च ।। ८४४ ।।
सत्यप्रमोदटीका
स्यादेतत् । नेह नानेतिवाक्येन न स्वस्य स्वघटकेह-पदस्य वा स्वरूपेण निषेधः येनासाधकत्वम् । किन्तु पारमार्थिकत्वाकारेणैव । व्यावहारिकसत्त्वं त्वनुमतम् । अतो न धर्मिणो ब्रह्मणोऽसिद्धिः नापि धर्म-निषेधस्य इत्याशङ्कते व्यावहारिकेति । वोधकं इहपदं वाक्यं च । बोधकं ब्रह्मणः तद्धर्मनिषेधस्य च । परिहरति व्यावहारिकसत्त्वेनेति । बोध्यस्य ब्रह्मणः धर्मनिषेधस्य च । न च निषेधस्य व्यावहारिकसत्त्वमिष्टमेवेति वाच्यम् । तस्य ब्रह्म स्वरूपत्वाभ्युपगमात् अन्यथाऽद्वैतहानेः । श्रुतेरतत्त्वा-वेदकत्वापत्तेश्च ।। ८४४ ।।
युक्तिमल्लिका
घटधीरिव तद्धीश्च स्यादविद्यानिवर्तिका ।। ८४५ ।।
सुरोत्तमटीका
ननु बोध्यस्य व्यावहारिकत्वे अतत्वावेदकं ज्ञानं कथम-विद्यानिवर्तकमित्यत आह ।। घटधीरिति ।। घटधीः व्यावहारिकघटज्ञानम् । घटाधिष्ठानचैतन्यावरकाज्ञानस्येव । तद्धीः व्यावहारिकब्रह्मधीः ।। ८४५ ।।
सत्यप्रमोदटीका
अतत्वावेदकत्वं साध्यतयाऽभिहितं नत्वापाद्यतयेति भ्रान्त्या शङ्कमानं प्रत्याह घटधीरिति । अयमाशयः । श्रुतेरतत्वावेदकत्वे तज्जन्यज्ञानस्यापारमार्थिकत्वं प्राप्नोति । ब्रह्मज्ञानस्य चापारमार्थिकत्वे न तेन तदज्ञाननिवृत्तिरिति शास्त्रस्य निष्प्रयोजनत्वमापद्यते । ज्ञानस्याज्ञाननिवर्तकत्वे पारमार्थिकत्वमेव तन्त्रमिति नियमादिति किल शङ्कितुरभिप्रायः । न स युक्तः । घटज्ञानस्यापारमार्थिकत्वेऽपि तदज्ञाननिवर्तकस्य दृष्टेस्त्वन्नियमस्यैवा-योगादिति । तदेतदाह घटधीरिति । तद्धीः व्यावहारिकब्रह्मधीः । इदं च साधकत्वमिति शङ्कितुरभिप्रायमभ्युपेत्योक्तिः । वस्तुतस्त्वज्ञानानिवृत्तिरपि अस्माभिरेवापाद्यत इति ध्येयम् ।। सत्ताप्रभेदस्यानङ्गीकारादिति भावः ।।८४५।।
युक्तिमल्लिका
एवं च यदि बोध्यस्य तत्वतायां भरो मम ।
बोधकस्यापि तद्भावे भरोऽवश्यमपेक्षितः ।। ८४६ ।।
सुरोत्तमटीका
एवं च प्रयोजनाभावेऽपि बोध्यस्य ब्रह्मणः । भरस्त-वाग्रहः । ममेत्युत्तरार्धेन सम्बध्यते ।। ८४६ ।।
सत्यप्रमोदटीका
श्रुतेर्विमर्शप्रकारमुपसंहरति एवं चेति ।। ८४६ ।।
युक्तिमल्लिका
न हि वन्ध्यासुतं सूते नाप्यात्मानं जिघांसति ।
अतो भावाभावतया न विभागो ममोचितः ।। ८४७ ।।
सुरोत्तमटीका
अधुना बोधकश्रुतेरेव बाध्यत्वमावश्यकमित्यन्यापदेशे-नाह ।। नहीति ।। वन्ध्या आरोपितस्त्रीत्ववती दारुमयीयोषा । एवमारोपिता श्रुतिः सुतस्थानीयं तत्वज्ञानं न जनयेत् । यद्वा वन्ध्यास्त्री स्वयं विद्यमानाऽपि अदृष्टाख्यसहकारिमात्रविरहात् सुतं न जनयति । किं वाच्यं तदा स्वरूपत एवाविद्यमाना कार्यं न कुर्यादिति । नापि लोके आत्मानं कोऽपि जिघांसति । अतश्श्रुतिरपि न स्वात्मनाशाय प्रयतते । अतोऽपि बोधकमबाध्यमेवेति भावः। श्रुतिस्स्वाभिप्रायमुपसंहरति ।। अत इति ।। अतो भावस्याप्यावश्यकत्वात् ।। ८४७ ।।
सत्यप्रमोदटीका
अत्र तर्कद्वयं विवक्षितम् । यदि भावाभावतया विभज्य भावधर्मानेवाहं यदि निषेधेयं तर्हि बोधकत्वलक्षणमातृत्वरूपभावधर्म-निषेधेन मम वन्ध्यात्वापत्त्या ज्ञानरूपसुतजननीत्वं न स्यात् । शब्दत्वरूप-धर्मनिषेधेन स्वहत्या च कृता स्यात् इति । आद्ये व्याप्तिं निदर्शयति नहीति । द्वितीयेऽपि तां निदर्शयति नापीति । अत्र वन्ध्येत्यस्य नानुषङ्गः । यः कोऽपि विवेकीत्युपस्कर्तव्यम् ।। तर्कद्वयस्यापि पर्यवसानं अत इति ।। ८४७ ।।
युक्तिमल्लिका
तद्यत्र नास्ति तत्तत्र निषेधामीति वागियम् ।
त्रैगुण्यवर्जिते विष्णौ गुणत्रयमदूषयत् ।। ८४८ ।।
सुरोत्तमटीका
इयं वाक् निर्गुण इति वाक् ।। ८४८ ।।
सत्यप्रमोदटीका
तत् तस्मात् भावधर्माणां प्रमितानां निषेधायोगात् । तत् प्रमितेतरम् ।। इति विमृश्येति शेषः । इयं निर्गुणवाक् नेहनानास्तीति वाक् च । त्रैगुण्यवर्जिते । ‘गुणेभ्यश्च परं वेत्ती’ति इति गीतोक्तेः । स्वगत-भेदविवर्जिते च । एवं धर्मानिति श्रुतेः । गुणत्रयं स्वगतभेदं च ।। ८४८ ।।
युक्तिमल्लिका
ह्रीमत्या मम सङ्कोचगमनं नैव दूषणम् ।
गुणिनां गुणनिन्दा तु महादोषप्रदा किल ।। ८४९ ।।
सुरोत्तमटीका
श्रुतिः गुणत्रये सङ्कोचं शृृङ्गारमुद्रया घटयति ।। ह्रीमत्या इति ।। अभिमानिश्रीदेवीमादाय ह्रीमत्या इत्युक्तम् । सङ्कोचगमनं कुलस्त्रीणां तु लज्जावशाद्राजमार्गं विहाय संकुचितमार्गेण गमनं युक्तमिति ध्वनिः । गुणिनां पुंसां गुणनिन्दा गुणापलापः
।। ८४९ ।।
सत्यप्रमोदटीका
ह्रीमत्या; पूर्वोत्तरविरोधात्प्रमाणान्तरविरोधाच्च बिभ्यत्याः । सङ्कोचगमनं गौणाद्यर्थस्याप्याश्रयणम् । तदुक्तं ‘प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवादि’ति ।। ८४९, ८५० ।।
युक्तिमल्लिका
इति निर्गुणवाग्धर्मवशीकृतमतिः प्रभोः ।
धर्मनिर्मूलनं धर्मं न मे न इति मे मतिः ।। ८५० ।।
सुरोत्तमटीका
इति निश्चित्य धर्मवशीकृतमतिः धर्मैस्सार्वज्ञादिधर्मैः वशीकृतमतिः । धर्मेण पुण्येन वशीकृतमतिरिति ध्वनिः ।। ८५० ।।
युक्तिमल्लिका
अपि चैकत्वधर्मस्य सत्त्वे भावगुणोऽस्ति ते ।
तदभावे गतं शास्त्रमैक्यमेकत्वमेव यत् ।। ८५१ ।।
सुरोत्तमटीका
अधुना मायावाद्युक्तार्थकथने निर्गुणैक्यश्रुत्योः परस्पर-विरोधेनाप्रामाण्यं स्यादिति भीता स्वप्रामाण्यसंपादकमेवमतमनुससारेत्याह ।। अपि चेति ।। ब्रह्मण्येकत्वाख्यगुणस्य सत्त्वे ऐक्यवाक्यार्थतया सद्भावे । त इति मायिनं प्रति श्रुतेरुक्तिः । तथा च निर्गुणश्रुतेरर्थशून्यत्वेनाप्रामाण्यं स्यादिति भावः । तदभावे तस्य एकत्वगुणस्याभावे मायावादिमते भावगुण-निषेधकनिर्गुणश्रुत्या संपादिते सति शास्त्रमैक्यप्रतिपादकतयाऽभिमतवाक्यं गतमर्थशून्यमभूदित्यर्थः । तत्र निमित्तमाह ।। ऐक्यमिति ।। यद्यस्मादेकत्व-मैक्यमिति पर्यायस्तस्माद्गतमिति पूर्वेणान्वयः ।। ८५१ ।।
सत्यप्रमोदटीका
अन्तरङ्गं पूर्वपदविरोधं च श्रुतिर्विमृशतीत्याह अपि चेत्यादित्रिभिः ।। पूर्वपदं एकपदं एकत्वरूपं भावधर्मं विदधाति । सः सन्वाऽअसन्वा । नाद्यः इति वदति भावेति । द्वितीये दोषमाह शास्त्रं तव विमतं श्रुतितन्मीमांसाशास्त्रम् । गतं अनारम्भणीयं स्यादिति शेषः । अयथा-भूतैकत्वप्रतिपादकत्वे इति भावः । यद्वा तव शास्त्रं श्रुतिमीमांसे अन्यथा-व्याकुर्वन्मायावादिशास्त्रम् । गतं अनारम्भणीयमेवेति मायावादखण्डनटीकोक्त-रीत्या द्वेधा योज्यम् । ननु एकशब्द एकत्वमेव विदधाति न त्वैक्यम् । अतो निर्गुणपदेनैकत्वनिषेधेऽपि मच्छास्त्रविषयैक्यस्यानिषेधान्नोक्तदोष इत्यत आह यदिति यस्मादेकत्वमैक्यमिति चानर्थाञ्तरमिति भावः ।। ८५१ ।।
युक्तिमल्लिका
सुन्दोपसुन्दन्यायेन निर्गुणैक्यश्रुती मिथः ।
विरोधेन हते कुर्यान्मायामततिलोत्तमा ।। ८५२ ।।
सुरोत्तमटीका
इदानीं साहित्यमुद्रया फलितमाह ।। सुन्दोपसुन्देति ।। मायामततिलोत्तमा मायावादिमताख्यतिलोत्तमा तिलोत्तमाख्याप्सरःस्त्री स्वार्थे परस्परविरोधमुत्पाद्य सुन्दोपसुन्दौ घातयामासेति पौराणिकी कथा । तदुक्तार्थेषु तेन मध्वमुनिना उक्तार्थेषु त्रिगुणवर्जितत्वरूपसादृश्याद्यर्थेषु अवर्ततेति सम्बन्धः । अविरुद्धार्थान्तरकथनेऽपि जगत्सत्यत्ववादिनः तस्य मते स्वमिथ्यात्वाभावात् जीवन् भद्राणि पश्यतीति न्यायेन तमेवानुससारेति भावः ।। ८५२,८५३ ।।
सत्यप्रमोदटीका
कुर्यादित्यापादनम् । यदि मायामतं प्रमाणं स्यात् तर्हि श्रुत्योर्मिथो विरोधेनाप्रामाण्यं स्यात् । न च तद्युक्तम् । अतो मायामत-प्रमाणमेवेति तर्को ध्येयः । तिलोत्तमेति व्यतिरेकदृष्टान्तः । सा मोहनेन दुष्टौ घातयित्वा स्वयं सद्गतिमाप । मायी तु नित्यशुद्धवाचौ कलङ्कयितुमुद्यतोऽधो-गतिमवाप ।। ८५२ ।।
युक्तिमल्लिका
इत्याद्यालोच्य नैर्गुण्यश्रुतिरैक्यश्रुतिं सखीम् ।
आदाय भारतीप्राणनाथं शरणमीयुषी ।
स्वमिथ्यात्वभयाभावात्तदुक्तार्थेष्ववर्तत ।। ८५३ ।।
सत्यप्रमोदटीका
इत्याद्यालोच्य ‘एवं विमृश्याव्यभिचारिसद्गुणं’ इति भागवतोक्तरीत्या समुद्रमथनकाले इव विचार्य । ऐक्यश्रुतिं उपलक्षणम् । ‘सर्वे वेदा युक्तयः सुप्रमाणा’ इति भाष्योदाहृतसर्वशाखा आदाय एकस्मिन्न-विरुद्धार्थे तात्पर्यवत्वेन स्वीकृत्य भारती वेदमुख्याभिमानिनी महालक्ष्मीः । प्राणनाथं स्वस्याः परविद्यात्वसम्पादसूत्रकृतं शरणं ईयुषी अनुग्राहकत्वेन स्वीकुर्वाणा । तदुक्तार्थेषु ‘तद्गुणसारत्वात्तु तद्व्यपदेश’ इत्यादिभिः सूत्रै-र्निर्णीतार्थेषु । अवर्तत अनुकूलतया सदा वर्तते । यद्वा भारती ‘वेदविद्या च पार्षती’ इत्युक्ता वायुपत्नी । प्राणनाथं मध्वम् । भयाभावात् एक विंशति-कुभाष्यभयाभावात् । तदुक्तार्थेषु भाष्योक्तार्थेषु । अन्यत्समम् । एतेन श्रुतीनां जडत्वात् विमृश्य ईयुषी इत्याद्युक्तो विरम्य व्यापारः कथमिति शङ्काऽ-नवकाशः । अभिमानिदेवतानामपि सज्जनबोधनायैव विमर्शप्रदर्शनम् । स्वयं सन्देहाभावात् । अतः ‘तद्वाक्यस्याग्रतो भवेदि’ति अनुव्याख्यानसुधोक्तरीत्या परीक्षकबुद्धय एव प्रामाण्यावधारणायैवं क्रमेण प्रवर्तन्त इति भावः अनुसन्धेयः ।। ८५३ ।।
युक्तिमल्लिका
विद्वत्प्रयोगबाहुल्याच्छब्दस्यार्थोऽभिधीयते ।
पदलभ्यत्वतो नैव यद्वा तद्वा निगद्यते ।। ८५४ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि निर्गुणपदस्य हरिरेवार्थ इत्याह ।। विद्वदिति ।। पदलभ्यत्वतः पदसमासलभ्यत्वतः । यद्वा तद्वा अप्रामाणिक-मित्यर्थः ।। ८५४ ।।
सत्यप्रमोदटीका
किञ्च निर्गुणशब्दस्य चिन्मात्रबोधकत्वं किमभिधा-वृत्त्या लक्षणया वा । नाद्यः अभिधाया ज्ञापकस्य प्रयोगस्याभावादित्याह विद्वदिति । यथोक्तं ‘प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते’ इति । विद्वद्रूढेर-विद्वद्रूढ््यपेक्षया बलीयस्त्वज्ञापनाय विद्वत्प्रयोगेत्युक्तम् । तदुक्तं चन्द्रिकायां ‘रूढित्वाविशेषेऽपि विद्वद्रूढेरेवासम्भाविताज्ञानमूलाया बलीयस्त्वोपपत्तेश्चे’ति ।। निमित्तं पदलभ्यमस्तीत्येतावता विद्वांसो यत्र क्वचिदप्रामाणिकेऽर्थे पदं न प्रयुञ्जत इत्याह पदेति । यदाहुः ‘प्रयोगे सति निमित्तानुसरणं, न तु निमित्त-मस्तीति प्रयोग’ इति ।। ८५४ ।।
युक्तिमल्लिका
न हि पङ्कजशब्देन भेकं लोकोऽनुमन्यते ।
किं वा सुवर्णशब्देन वह्निः केनापि कथ्यते ।। ८५५ ।।
सुरोत्तमटीका
तत्र दृष्टान्तमाह ।। नहीति ।। पङ्काज्जातः पङ्कज इति योगसम्भवेऽपि भेकं मण्डूकम् । दृष्टान्तान्तरमाह ।। किं चेति ।। सुष्टु वर्णो यस्येति व्युत्पत्तिसम्भवेऽपि वह्निः कथ्यते किं वेति सम्बन्धः । पदयोग-सम्भवेपि भेकादौ विद्वत्प्रयोगाभावात् न तत्पदं प्रयोक्तुं शक्यत इति भावः ।। ८५५ ।।
सत्यप्रमोदटीका
तदेव निदर्शनाभ्यां द्रढयति न हीति किं वेति च ।। ८५५ ।।
युक्तिमल्लिका
अशब्दे ते प्रयोगो न प्रयोगबहुता कुतः ।। ८५६ ।।
सुरोत्तमटीका
अशब्दे ते तव शब्दावाच्ये ।। ८५६ ।।
सत्यप्रमोदटीका
प्रकृतोपयोगमाह अशब्दे इति । ते त्वया अवाच्य-त्वेनाभ्युपगते चिन्मात्रे । प्रयोगो न तथा सति शाब्दत्वापत्तेरिति भावः । नतरां विद्वत्प्रयोगः । नतमां तद्बाहुल्यम् । येनाभिधासिद्धिः ।। एतेन लक्षणापक्षोऽपि परास्तः । ‘सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः’ इति भगवत्पादीयोक्तेः ।। ८५६ ।।
युक्तिमल्लिका
श्रौतस्मार्तप्रयोगश्च हरावेव प्रदर्शितः ।
बलात्त्वया स नीतश्चेत्कूर्मरोम्ण्यपरो नयेत् ।। ८५७ ।।
सुरोत्तमटीका
प्रयोगो दर्शितः । एको देवस्सर्वभूतेषु गूढ इति श्रुत्या देवत्वादिगुणविशिष्टेहरावेव निर्गुणपदश्रवणात् । हरिस्तु निर्गुणस्साक्षादिति स्मृतौ स्पष्टं हरावेव निर्गुणपदप्रयोगाच्च । स निर्गुणशब्दः बलात्प्रयोगमनपेक्ष्य केवलं निर्गता गुणा यस्मादिति योगबलात् नीतश्चेत्सर्वधर्मशून्ये तव ब्रह्मणि प्रयुक्तश्चेत् अपरः त्वत्प्रतिवादी कूर्मरोम्ण्यपि नयेत् सर्वधर्मशून्ये तुच्छेऽपि सुवचत्वात् । विद्वत्प्रयोगाभावात् न तन्निर्गुणपदार्थ इति चेत् समं प्रकृतेऽपीति भावः ।। ८५७ ।।
सत्यप्रमोदटीका
श्रौतः केवलो निर्गुणश्चेत्यादिः । स्मार्तः निर्गुणं गुणभोक्तु च’ ‘योऽसौ निर्गुण इत्युक्तः’ इत्यादिः । एवेति मुख्यप्रयोग इत्यर्थः । ‘तं भजन्निर्गुणो भवेत्’ इति मुक्ते जीवे प्रयोगस्तु न मुख्यः । तदुक्तमनुव्याख्याने ‘इतो हि रूढताऽन्येषामुपजीव्यत्वमत्र हि’ इति । बलात् प्रयोगरहितान्निमित्तमात्रसद्भावात् । अपरः त्वत्प्रतिवादी । नयेत् तच्छब्द-प्रयोगः स्यादित्यापादयेत् । अतो निमित्तसद्भावमात्रेण न प्रयोगः नाप्यभिधा-वृत्तिरिति निष्टंकितम् ।। ८५७ ।।
युक्तिमल्लिका
तत्तत्पदार्थसामर्थ्यानुपमर्देन शब्दतः ।
अर्थो बोध्यो न शब्दस्य सत्त्वादर्थोपमर्दनम् ।। ८५८ ।।
सुरोत्तमटीका
नन्वस्तु हरौ निर्गुणपदप्रयोगः तथापि तेनैव तस्मिन् सर्वधर्मशून्यत्वरूपोऽर्थोपि सेत्स्यतीत्याह ।। तत्तत्पदार्थेति ।। ८५८ ।।
युक्तिमल्लिका
गुरौ गुरुपदं हि स्यादुपदेशादिकैर्गुणैः ।
भारेण तु शिलायां स्यात्कल्पनायां बहुत्वतः ।। ८५९ ।।
सुरोत्तमटीका
तत्र दृष्टान्तमाह ।। गुराविति ।। उपदेष्टरि गुरौ प्रयुक्तं गुरुपदं तस्मिन् विद्याभावाख्यलाघवमेव प्रतिषेधति । न तु तद्गतभारा-भावाख्यलाघवमप्युपमर्दयति । नाप्येकत्वरूपलाघवम् । शिलायां च प्रवृत्तं गुरुपदं तस्यां भाराभावाख्यलाघवमेव प्रतिषेधति । न तु तन्निष्ठविद्याभावाख्य लाघवमप्युपमर्दयति । नाप्येकत्वरूपलाघवम् । कल्पनायां च प्रयुक्तं गुरुपदं तस्यामेकत्वरूपलाघवमेव प्रतिषेधति । न पुनर्विद्याभावाख्यलाघवं भाराभाव-रूपलाघवं चोपमर्दयति । एवं हरौ प्रयुक्तं निर्गुणपदमपि सङ्कोचमाश्रित्य तस्या योग्यगुणत्रयमेव निषेधति । न तु तद्गतसार्वज्ञादिगुणमप्युपमर्दयतीति भावः । कथमन्यथा अपशूद्राधिकरणे क्षत्रिये प्रयुक्तशूद्रशब्देन न तद्गत-क्षत्रियत्वोपमर्दनम् ।। ८५९ ।।
सत्यप्रमोदटीका
शब्दार्थयोर्मध्येऽर्थस्यैव प्राधान्यादर्थानुसारेणैव शब्दो नेयः । न तु पुनः शब्दस्य सम्भवदनेकेष्वर्थेषु यं कमपि गृहीत्वाऽर्थस्य क्लृप्त-स्वरूपोपमर्दनमिति सदृष्टान्तमाह तत्तदिति । गुरुपदस्यानेकार्थानाह गुरौ इति । पदं खलु स्वार्थे योग्यं स्वप्रवृत्तिनिमित्तं धर्मं समर्पयत्सत् तद्विरोधिधर्मं ततो व्यावर्तयतीति पदानां स्वभावः । तद्यथा । आचार्ये विद्योपदेष्टृत्वं समर्पयत्तस्मात्तद्विरोधिनं तत्वज्ञानाभावादिकं व्यवच्छिनत्ति । पाषाणे भारवत्त्वं व्यवस्थाप्य लाघवं निवारयति । मायिमतेऽज्ञानमिथ्यात्वे कल्पनागौरवं दोषं निरूपयत् कल्पनानां प्रामाणिकत्वैकत्वे निराकरोति । न तु पुनः तेषु तेष्वर्थेषु प्रामाणिकत्वेन विद्यमानानेव धर्मानपलपति । एवं निर्गुणपदं ‘बृहन्तो-ह्यस्मिन्गुणा’ इति श्रुतिसिद्धकल्याणगुणाकरे ब्रह्मणि प्रयुक्तं विष्णावनन्त-मङ्गलगुणान्समर्पयत्तद्विरुद्धं गुणत्रयबद्धत्वमेव निराकरोति न तु स्वेनैव प्रतिपादितज्ञानानन्दादीन्गुणानिति भावः ।। ८५८, ८५९ ।।
युक्तिमल्लिका
कन्यकाऽनुदरेत्युक्ते काष्ठैः संयोजयन्ति किम् ।। ८६० ।।
सुरोत्तमटीका
स्पष्टं दृष्टान्तमाह ।। कन्यकेति ।। कन्यकाऽनुदरेत्युक्ते निर्गुणपदसत्त्वेन सर्वथा गुणशून्यत्ववत् अनुदरपदसामर्थ्येन सर्वथा उदरा-भावमर्थं परिकल्प्य मृतेति दाहार्थं काष्ठं संयोजयंति किमित्युपहासः । किन्तूदरशब्दस्य सङ्कोचमाश्रित्य प्रतीतोदरानुपमर्देन स्थूलोदराभावमेवार्थं कल्पयन्ति । तथा निर्गुणपदस्यापि सङ्कोचमाश्रित्य श्रौतसार्वज्ञादिगुणानुप-मर्दनेन गुणत्रयशून्यत्वमेवार्थो वक्तव्य इति भावः ।। ८६० ।।
सत्यप्रमोदटीका
पदानामर्थसङ्कोचोऽपि प्रमाणाविरोधेनैव कार्य इत्याह कन्यकेति । अन्यथाऽतिप्रसङ्गमाह काष्ठैरिति । यावद्धर्मिभाविधर्मापलापे धर्म्यपलाप एव कृतः स्यादिति भावः ।। ८६० ।।
युक्तिमल्लिका
अशोभनगुणैः पूर्णे प्रयुक्ता निर्गुणाभिधा ।
सुशोभनगुणानेव निषेधति न तान्गुणान् ।। ८६१ ।।
सुशोभनगुणैः पूर्णे प्रयुक्तं तत्पदं हरौ ।
अशोभनगुणानेव निषेधति न शोभनान् ।। ८६२ ।।
सुरोत्तमटीका
अधुना निर्गुणपदस्यैव गुणिनिष्ठगुणानुपमर्दकतां तत्रा-विद्यमानगुणनिषेधकत्वं च सार्वजनीनप्रयोगेन लोके प्रदर्श्य हरावपि योजयति ।। अशोभनेति ।। अशोभनगुणैः पूर्णे दुर्जनबालकादौ ।। ८६१,८६२ ।।
सत्यप्रमोदटीका
निषेधस्य सर्वत्र प्रमितेरप्रतियोगिकत्व एव पर्यव-सायित्वमित्याह अशोभनेति सुशोभनेति च द्वाभ्याम् ।। ८६१,८६२ ।।
युक्तिमल्लिका
यस्मात्तत्पुरुषः श्रेष्ठस्तस्मादगुणसंज्ञया ।
गुणोऽप्रधानो नेतीशे प्रोक्ता सर्वप्रधानता ।। ८६३ ।।
सुरोत्तमटीका
किञ्च न विद्यन्ते गुणा यस्येति समासादपि गुणो न भवतीति तत्पुरुषस्य प्रबलत्वात् गुणशब्दस्याप्रधानार्थकत्वाच्च अगुणनिर्गुणादि-शब्दैस्सर्वोत्तमो हरिरिति सेत्स्यतीत्याह ।। यस्मादिति ।। ८६३ ।।
सत्यप्रमोदटीका
निर्गूणशब्दनिर्वचनेनैव सर्वप्रधानत्वमर्थो लभ्यते इत्याह । यस्मादिति । निरित्युपसर्गस्य निषेधोऽर्थः । निस् निषेधे च निश्चये’ इति मेदिनी । गुणशब्दस्य चाप्रधानेत्यर्थः । ‘गुणो मौर्व्यामप्रधाने’ इति मेदिनी । ‘रूपादावप्रधाने चे’ति हेम । गुणोऽप्रधानो न भवतीति निर्गुण इति तत्पुरुषः । नञ्द्वयमहिम्नाऽतिशयलाभेन सर्वप्रधानतालाभः । बहुव्रीहिस्तु अन्यपदार्थप्रधानत्वाज्जघन्यः । तत्पुरुषः समासः श्रेष्ठः । सचासौ पुरुषः परमात्मा च श्रेष्ठः । तस्मादित्यावृत्त्या योजना ।। ८६३ ।।
युक्तिमल्लिका
अप्रधानं जगदिदं सृष्टौ यस्माद्विनिर्गतम् ।
स निर्गुणो हरिस्सर्वस्रष्टृत्वाख्यमहागुणः ।। ८६४ ।।
सुरोत्तमटीका
अस्तु वा बहुव्रीहिः । तथापि निर्गताः सृष्टिकाले उदराद्बहिष्कृताः गुणाः अप्रधानभूताः ब्रह्माद्या यस्मादिति व्युत्पत्त्या निर्गुण-पदेनैव गुणसिद्धिरित्याह ।। अप्रधानमिति ।। ८६४ ।।
सत्यप्रमोदटीका
यद्वा निर्गतः सृष्टिकाल उदरात् गुणः अप्रधानः अशेषप्रपञ्चो यस्येति बहुव्रीह्याश्रयणेऽपि सर्वस्रष्टृत्वाख्यगुणलाभ इत्याह अप्रधानमिति ।। ८६४ ।।
युक्तिमल्लिका
शिवश्शक्तियुतश्शश्वत्त्रिलिङ्गो गुणसंवृतः ।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।। ८६५ ।।
ततो विकारा अभवन्षोडशामीषु वर्त्मसु ।
उपधावन्विभूतीनां सर्वासामश्नुते गतिम् ।। ८६६ ।।
हरिस्तु निर्गुणस्साक्षात्पुरुषः प्रकृतेः परः ।
स सर्वदृगुपद्रष्टातं भजन्निर्गुणो भवेत् ।। ८६७ ।।
सुरोत्तमटीका
अधुना भागवते हरौ प्रयुक्तनिर्गुणपदस्य त्रिगुण-वर्जितत्वमर्थं तत्रस्थयुक्तिभिरेव समर्थ्य तत्समाख्यया श्रुतेरपि स एवार्थ इत्याह ।। शिवश्शक्तियुत इत्यादिना ।। हि यस्मात् समस्तगुणसंपूर्णो हरिरेव भागवते निर्गुणः प्रोक्तः तस्मात् स्मृतिसमाख्यया समानार्थया व्यापी स एव देवः केवलो निर्गुणश्चेति कथ्यते ।। ८६५-८६८ ।।
सत्यप्रमोदटीका
भागवतसमाख्ययाऽपि प्रोक्तमर्थं समर्थयते शिव इत्यादिना मत्तभाषितमित्यन्तेन (श्लो.८७९) ग्रन्थेन । अत्रादौ ‘देवासुर-मनुष्येषु ये भजन्त्यशिवं शिवम् । प्रायस्ते धनिनो ब्रह्मन्न तु लक्ष्मीपतिं हरिमि’ति राज्ञः शुकं प्रति कृतं चोद्यं अनुसन्धेयम् । अशिवं बहिर्धियां तथा प्रतीयमानम् । ‘त्वमशिवोऽप्यनन्तर्धियामि’ति शिवस्तुतिवचनात् । वस्तुतः शिवं पवित्रम् । ‘तथाऽपि भवतः पदं शिवशिवेत्यदो जल्पतामि’त्यादि तत्रैवोक्तेः । ते धनिनः ‘ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमा-मयुरि’ति च । न तु लक्ष्मीपतिं हरिम् । त्रैलोक्यदानेऽपि बलेरैश्वर्यभ्रंशस्यैव जातत्वात् । ‘ब्रह्मन्यमनुगृह्णामि तद्वित्तं विधुनोम्यहं’ इति कण्ठत एव वामनोक्तितश्च । कपालिनः सेवयैश्वर्यलाभः लक्ष्मीपतेराराधनेन तु तद्भ्रंश इत्येतद्विरुद्धं कथमिति राज्ञश्चोद्याभिप्रायः । परिहरति शुकस्त्रिभिरिति तान्श्लोकान्पठति शिव इत्यादिना ।। ८६५-८६७ ।।
युक्तिमल्लिका
इति भागवते प्रोक्तो हरिरेव हि निर्गुणः ।
समस्तगुणसम्पूर्णश्श्रुत्या स्मृतिसमार्थया ।
केवलो निर्गुणश्चेति व्यापी देवस्य कथ्यते ।। ८६८ ।।
अतस्त्रिगुणशून्यत्वाद्गुणसर्वस्वबृंहितः ।
स एव निर्गुणं ब्रह्म शुद्धं ब्रह्म स एव नः ।। ८६९ ।।
सुरोत्तमटीका
अतःश्रुतिस्मृत्योरेकार्थत्वनियमात् स एव हरिरेव निर्गुणं ब्रह्म । केवल इत्यस्यार्थः शुद्धमिति । नोऽस्माकं तत्ववादिनाम्
।। ८६९ ।।
सत्यप्रमोदटीका
श्लोकान्प्रकृतोपयोगं दर्शयन्नेव व्याख्याति इतीति । प्रकृतेः पर इति समाख्यया लब्धोऽर्थो निर्गुण इति । पुरुषः सर्वदृगुपद्रष्टे-त्यस्याशयः समस्तगुणसम्पूर्ण इति । यथोक्तं गीतायां ‘उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः पर’ इति । गुणसर्वस्वबृंहितः इति शुद्धत्वे हेतुः ‘प्रच्युतोऽशेषदोषैः सदा पूर्तितः इत्युक्तेः
।। ८६८, ८६९ ।।
युक्तिमल्लिका
नैर्गुण्याख्यो महामोक्षो यत्पादभजनाद्भवेत् ।
शबलं ब्रह्म स किल गङ्गा यत्पदसङ्गतः ।
सद्यश्शुद्धिकरी नॄणां सोऽशुद्धः किल दुर्धियाम् ।। ८७० ।।
सुरोत्तमटीका
निर्गुणो भवेदित्युक्तो महामोक्षो यत्पादभजनात् तं भजन्नित्यत्रोक्तात् । स हरिः किलेत्युपहासः । गङ्गा यत्पादसङ्गतस्सद्यश्शुद्धि-करीति तु आपस्तेंऽघ्य्रवनेजन्यस्त्रींल्लोकान् शुचयो पुनन्नित्यादि भागवतोक्त-वाक्यान्तरार्थसङ्ग्रह इति द्रष्टव्यम् ।। ८७० ।।
सत्यप्रमोदटीका
‘तं भजन्निर्गुणो भवेदि’त्युक्तमोक्षप्रदत्वाच्चैवमित्याह नैर्गुण्येति । न वर्तन्ते यत्र रजस्तमस्तयोः सत्वं च मिश्रमि’ति गुणत्रया-तीतत्वान्महामोक्षस्य नैर्गुण्याख्या । ‘गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्म मृत्युजराव्याधिविमुक्तोऽमृतमश्नुते’ इति गीतोक्तेश्च । एवंविधस्य शबलत्वोक्तिरपहास्येत्याह किलेति । ‘गौणश्चेन्नात्मशब्दात्’ तन्निष्ठस्य मोक्षोपदेशात्’ इति सूत्रकृतैव प्रतिषेधात् । अन्यगतशुद्धिं प्रति स्वातन्त्र्याच्च तत्र महायोगेन शुद्धपदवृत्तिरित्याह गङ्गेति । तदुक्तं ‘स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ।। स्वातन्त्र्यं तत्र मुख्यं स्यादि’ति । अशुद्धः किल मायाशबलः किल । दुर्धियाम् । तदुक्तमनुव्याख्याने ‘कथं न जायते लज्जा’ इति ‘वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपी’ति च ।। ८७० ।।
युक्तिमल्लिका
मोक्षस्य निर्गुणत्वं च त्रैगुण्योज्खिततैव हि ।
समस्तधर्मशून्यत्वे मोक्षाय प्रयतेत कः ।। ८७१ ।।
सुरोत्तमटीका
निर्गुणो भवेदित्यत्र फलत्वेनोक्तनिर्गुणत्वं च त्रिगुण-वर्जितत्वमेवेति बहिरङ्गान्तरङ्गयुक्तिभ्यां साधयति ।। मोक्षस्येत्यादिना
।। ८७१,८७२ ।।
सत्यप्रमोदटीका
निर्विशेषब्रह्मभावस्य मोक्षोक्तिस्तस्य पुरुषार्थत्वमेव व्याहन्तीत्याह प्रयतेत क इति ।। ८७१ ।।
युक्तिमल्लिका
धर्माय यशसेऽर्थाय ज्ञानाय यतते जनः ।
लुप्त्यै समस्तभाग्यानां को नून्मत्तःप्रवर्तते ।। ८७२ ।।
सत्यप्रमोदटीका
एवंविधं मोक्षं महोन्मत्तोऽपि नेच्छति दूरे स्वस्था-त्मेत्याह धर्मायेति । प्रवर्तते इच्छति दूरे तत्साधनप्रयत्नः । महादुःखात्म-कत्वात् । तदुक्तं तत्वनिर्णये ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेदि’ति ।। ८७२ ।।
युक्तिमल्लिका
सगुणप्रीतिलभ्यस्य नैर्गुण्यं तद्वदेव हि ।
यथोपास्ते तथैवासौ भवतीति हि वेदवाक् ।। ८७३ ।।
सुरोत्तमटीका
सगुणस्य सार्वज्ञादिगुणयुक्तस्य हरेः प्रीत्या लभ्य-मोक्षस्य । तद्वत् हरिवत् । यथा हरिस्सगुण एव त्रिगुणशून्यत्वान्निर्गुणः तद्वत्स्यादिति भावः । तत्र श्रौतयुक्तिमाह ।। यथेति ।। ८७३ ।।
सत्यप्रमोदटीका
मोक्षो हि भगवदुपासनासाध्यः । भगवांश्च ज्ञानानन्दादिगुणवान् प्रकृतिगुणरहितश्च । यथा यथोपासते तथैव भवतीति च श्रुतिः। अतो मोक्षोऽपि स्वयोग्यज्ञानानन्दाद्यभिव्यक्तिमान् प्रकृतिबन्धरहित-श्चेत्याह सगुणेति । तद्वदेवेति च ।। ८७३ ।।
युक्तिमल्लिका
न हि निर्गुणशब्दोऽयं चिन्मात्रस्य विवक्षया ।
भाविनैर्गुण्यदृष्ट्या वा शिवस्यापि प्रसक्तितः ।। ८७४ ।।
सुरोत्तमटीका
अधुना हरिस्तु निर्गुणः प्रोक्त इत्यत्रोक्तनिर्गुणशब्दस्यापि गुणत्रयशून्यत्वार्थकत्वे युक्तिमाह ।। नहीति ।। चिन्मात्रस्य विशिष्टान्तर्गत-विशेष्यांशचिन्मात्रस्य । भाविनैर्गुण्यदृष्ट्या भविष्यन्मुक्तिकालीननैर्गुण्य-विवक्षयावा नहीति योजना । कुतो नेत्यत आह ।। शिवस्यापीति ।।एतादृशनिर्गुणत्वस्य तत्रापि सुवचत्वेन हरेरेव विशिष्य निर्गुणत्वकथने कारणाभावात्।। ८७४ ।।
सत्यप्रमोदटीका
ननु हरौ प्रयुक्तो निर्गुणशब्दो न मुख्यवृत्त्या । येन तस्यैव निर्गुणत्वसिद्धिः । किं तु लक्षणया चिन्मात्रपरः । यद्वा मायाऽपगमे तस्यैवोत्तरत्र नैर्गुण्यं भविष्यतीति भविष्यतीति दृष्ट्या । मैवम् । तथा सति हरिस्तु इत्यत्र तुशब्दोक्तस्य शिवाद्याद्वैलक्षण्यस्यासिध्द्या तद्वैयर्थ्यापत्तेरित्याह न हीति । कुत एवमित्यत आह शिवस्येति ।। उक्तप्रकारद्वयस्य तत्रापि साम्यादिति भावः ।। ८७४ ।।
युक्तिमल्लिका
अतो निर्गुणशब्दोऽयं हरौ त्रिगुणवर्जनात् ।
मुक्तोऽपि तेन तच्छब्दो गुणबद्धाश्शिवादयः ।। ८७५ ।।
सुरोत्तमटीका
अतः विशिष्य हरौ प्रयोगे कारणान्तरस्य वक्तव्यत्वात् (अयं निर्गुणशब्दः । तेन त्रिगुणवर्जितत्वार्थकनिर्गुणशब्दवाच्यत्वेन) मुक्तोऽपि तेन त्रिगुणवर्जितत्वेन प्रवृत्तिनिमित्तेन सः निर्गुण इति शब्दो यस्यासौ तच्छब्दः । गुणबद्धाश्शिवादयः । अत एव सगुणशब्दवाच्याः ।। ८७५ ।।
सत्यप्रमोदटीका
अतः नित्यमुक्ते हरौ तथा मुक्ते जीवे च निर्गुण-शब्दप्रयोगात् बद्धे शिवे च तदप्रयोगात् प्रत्युत गुणसङ्कृत इति प्रयोगात् । उभयत्र गुणशब्दो बन्धकत्रिगुणपर एवेत्याह हरौ मुक्तोऽपीति शिवादय इति च । आदिपदेन शिवोपासका ग्राह्याः ।। ८७५ ।।
युक्तिमल्लिका
प्रकृतेः पारगत्वोक्त्या निर्गुणोऽतद्गुणो हरिः ।
प्राकृताहंकृतेरुक्त्या सगुणस्तद्गुणश्शिवः ।। ८७६ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। प्रकृतेरिति ।। अतद्गुणः प्रकृतिगुण-रहितः अत एव निर्गुण इति योजना । तस्याः प्राकृताहङ्कृतेर्गुणास्सत्वादयो यस्यासौ तद्गुणः शिवस्सगुण इति योजना ।। ८७६ ।।
सत्यप्रमोदटीका
उभयत्र विद्यमानविशेषणपर्यालोचनयाऽप्येवमित्याह प्रकृतेरिति । प्रकृतेः पर इति निर्गुणत्वे हेतुगर्भं विशेषणम् । एवं त्रिलिङ्ग इति गुणसंवृतत्वे । त्रिलिङ्ग इत्यस्य विवरणं प्राकृतेत्यादि । अहं त्रिधेत्यत्र अहं शब्दस्य शिवविग्रहः अहङ्कारतत्वमर्थः ।। संवृतशब्दोऽपि स्वविशेषणीभूतगुण पदार्थ आवरणभूतगुणा एवेति व्यवस्थापयतीत्याह गुणेति ।। ८७६, ८७७ ।।
युक्तिमल्लिका
इत्येव सर्वथा वाच्यं न चेद्व्यर्थे विशेषणे ।
गुणसंवरणं चोक्तं भवेदावरणैर्गुणैः ।। ८७७ ।।
सुरोत्तमटीका
विशेषणे प्रकृतेः पर इति त्रिलिङ्ग इति विशेषणे उक्तं गुणसंवृत इत्यत्र ।। ८७७ ।।
युक्तिमल्लिका
सम्पत्तेः प्राकृतत्वेन तद्बद्धोपासनेन सा ।
तद्धीना तु न सेत्याह या वाक्सा वक्ति मन्मतम् ।। ८७८ ।।
सुरोत्तमटीका
देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् । प्रायस्ते धनिनो ब्रह्मन्नतु लक्ष्मीपतिं हरिमित्युक्तप्रश्नपरिहारोपयोगित्वेन च शिवस्य प्राकृत-गुणसंवृतत्वेन सगुणता हरेस्तद्रहितत्वेन निर्गुणता वक्तव्या । नान्यथेत्याह ।। संपत्तेरिति ।। सा संपत्तिः । या वागाह सा मन्मतं वक्तीति सम्बन्धः।। ८७८ ।।
सत्यप्रमोदटीका
सम्पत्तिः द्विविधा । ‘प्रायस्ते धनिन’ इति शिवो-पासना फलत्वेनोक्ता धनरूपा प्राकृता । ‘निर्गुणो भवेदि’ति हर्युपासना-फलत्वेनाभिहिता मोक्षसम्पत्तिः अप्राकृता इति । तत्राद्या स्वयं प्राकृतत्वेन प्रकृतिबद्धशिवोपासनया प्राप्येत्याह सम्पत्तेरिति । तद्बद्धेति प्रकृतिबद्धेत्यर्थः । सा धनसम्पत्तिः प्राप्येति शेषः । तद्धीना प्राकृतत्वहीना मोक्षसम्पत्तिः । तुशब्दो वैलक्षण्यपरः । न सा बद्धोपासनेन प्राप्या न भवति । ‘अनुत्तीर्णः स्वयं पङ्कादि’ति न्यायात् । किं तु नित्यमुक्तहर्युपासनेनैवेति शेषः । या वाक् शिवांशस्यैव शुकस्य परिहारोक्तिः । मन्मतं हरिरेव नित्यमुक्तत्वेन निर्गुणः न तु तदतिरिक्तं निर्धर्मकं किमपि ब्रह्मेति सिद्धान्तम् ।। ८७८ ।।
युक्तिमल्लिका
उपक्रमानुगुण्यार्थमर्थोऽत्रावश्यको ह्ययम् ।
न चेत्प्रक्रमरोधेन वाक्यं स्यान्मत्तभाषितम् ।। ८७९ ।।
सुरोत्तमटीका
अयं प्राकृतगुणसाहित्यराहित्यरूपः । प्रक्रमरोधेन उपक्रम विरोधेन ।। ८७९ ।।
सत्यप्रमोदटीका
उपक्रमेति । हरिशिवयोस्तदुपासनाफलयोश्च वैलक्ष्यण्ये मुखतः प्रतीयमानविरोधनिमित्तविषयकराज्ञःप्रश्नेत्यर्थः । आनुगुण्यार्थं परिहारस्य तत्साङ्गत्यर्थम् । अत्र परिहारवाक्ये । अयं अर्थः हरेर्मुक्तत्वं अत एव मोक्षदातृत्वम् । शिवस्य बद्धत्वं तत एव प्राकृतैश्वर्यमात्रदातृत्वं चेत्येवं पूर्वोक्तः आवश्यकः तात्पर्यविषयतया स्वीकार्यः । प्रक्रमः उपक्रमः । इदमुपलक्षणम् । अत्रैवोपसंहारे हरिणा वृकासुरभयाच्छिवस्य विमोचनकथोक्ते-श्चेति बोध्यम् । अभ्यासादिकमपि स्पष्टम् ।। ८७९ ।।
युक्तिमल्लिका
किं चाप्राकृतपुंसोऽस्य चिन्मात्राकारता ध्रुवा ।
स च सार्वज्ञादिधर्मा सर्वधर्मच्युतिः कदा ।। ८८० ।।
सुरोत्तमटीका
अप्राकृतपुंसः प्रकृतेः परः पुरुष इति चोक्तस्यास्य हरे-श्चिन्मात्राकारता अप्राकृतशुद्धचिद्रूपविग्रहता । सः चिन्मात्राकारः सर्वदृगुप-द्रष्टेत्याद्युक्तसार्वज्ञादिधर्मा चिन्मात्राकारेप्यविद्यमाना सर्वधर्मच्युतिः कदा स्यात् । न कदाचिदित्यर्थः ।। ८८० ।।
सत्यप्रमोदटीका
सर्वं वस्तु साकारमिति व्यवस्थापितं प्राक् । आकारो द्विविधः प्राकृतश्चिन्मयश्चेति । तत्र हरेः प्रकृतेः परत्वोक्त्या प्राकृताकार-प्रतिषेधे परिशेषेण चिन्मात्राकारता सिद्धेत्याह ध्रुवेति । सः चिन्मात्राकारः । सार्वज्ञादिधर्मा । ‘धर्मादनिजि’ति सूत्रादनिच्प्रत्ययान्तो बहुव्रीहिः । चितो नित्यत्वेन तत्स्वरूपभूतधर्माणामपि नित्यत्वमेवेति तन्निवृत्तिरसम्भाविनीत्याह कदेति न कदाऽपि इति भावः ।। ८८० ।।
युक्तिमल्लिका
स सर्वदृगिति प्रोक्तो वाक्येऽस्मिन्नेव सद्गुणः ।
एकस्साक्षी देव इति श्रुतिवाक्येऽपि सद्गुणः ।
अतस्त्वदर्थकथने स्वविरुद्धैव वाग्भवेत् ।। ८८१ ।।
सुरोत्तमटीका
इदानीं निर्गुणशब्दस्य गुणमात्रवैधुर्यार्थकत्वे तद्वाक्यस्थ-पदानामेव परस्परविरोध इत्याह ।। स सर्वदृगिति ।। ८८१ ।।
सत्यप्रमोदटीका
अन्यथा समाख्यायां भागवतवाक्ये, एको देवः इति श्रुतौ चोभयत्रान्तरङ्गविरोधमाह सर्वदृगिति एकः साक्षी देव इति च
।। ८८१।।
युक्तिमल्लिका
निषेद्धुमनुवादश्चेत्सिद्धं मम समीहितम् ।
अनूद्यते निर्गुणत्वमेक इत्यादिकोक्तितः ।
निषेद्धुमिति यच्छक्यं वक्तुं तद्वन्मयाऽपि हि ।। ८८२ ।।
सुरोत्तमटीका
निर्गुण इति निषेद्धुं एको देव इत्यादिरनुवाद इत्यत आह ।।निषेद्धुमिति ।। यद्यस्मात्तस्मात्सिद्धमिति सम्बन्धः।। ८८२ ।।
सत्यप्रमोदटीका
ननु न विरोधः निर्गुण इति निषेधाय गुणानामनु-वादादित्याशङ्क्य प्रतिबन्द्योत्तरमाह निषेद्धुमिति । समीहितम् । निर्धर्मकत्व-निषेधेन सगुणत्वस्य स्थापनम् । तत्कथमित्यत आह अनूद्यत इति । निषेद्धुमिति एकत्वादिगुणोक्त्या । तद्वत् स्वच्छन्दं एकमनुवादकं अपरं निषेधकमिति त्वद्रीत्यैव ।। ८८२ ।।
युक्तिमल्लिका
अभावस्य निषेधात्मा भावोऽपि हि विदां मते ।
बहुत्वान्मन्निषेधानां प्रबलत्वं च विद्यते ।। ८८३ ।।
सुरोत्तमटीका
ननु नञोऽभावाद्भवतां कथं निषेध इत्यत आह ।। अभावस्येति ।। बहुत्वादुक्तरीत्या एक इत्यादि गुणविधायकविशेषणानां सर्वेषामपि निर्गुणनिषेधरूपत्वात् ।। ८८३ ।।
सत्यप्रमोदटीका
एकत्वादीनां भावरूपत्वात्कथं तैर्निषेध इत्याशङ्कां निराह अभावस्येति । अस्तु तर्हि पक्षद्वयसाम्यादनिर्णय इत्यत आह बहु-त्वादिति । निषेधानां निर्गुणत्वनिषेधरूपाणामेकत्वादिविशेषणानाम् ।।८८३।।
युक्तिमल्लिका
समुच्चिनोति किं श्रौतश्चशब्दोऽन्यनिषेधने ।
यद्येकतापक्षपाती मध्यस्थातिक्रमस्तदा ।। ८८४ ।।
सुरोत्तमटीका
निर्गुण इत्यत्र दूषणान्तरं चाह ।। समुच्चिनोतीति ।। श्रौतः निर्गुणश्चेत्युक्तः । अन्यनिषेधने एकत्वादिकैवल्यान्तसकलनिषेधने । चशब्देनैक्यवादानुकूलत्वादेकत्वगुणस्समुच्चीयत इति चेत् तर्हि परस्परविरोध-स्संकोचोवा दुष्परिहरः । दूषणान्तरमाह ।। यदीति ।। एकतापक्षपाती एकत्वगुणसमुच्चायक इति यावत् । मध्यस्थानां कैवल्यादिदेवत्वान्ततदुभय-मध्यस्थगुणानां अतिक्रमः उल्लङ्घनम् । समीपस्थगुणानुल्लङ्घ्यातिदूरस्थगुण-समुच्चयोऽनुचित इति भावः ।। ८८४ ।।
सत्यप्रमोदटीका
चशब्दानुपपत्तिश्च परपक्षे समुच्चेयस्याभावादित्याह समुच्चिनोतीति । अन्येति एकत्वादिकैवल्यान्तसकलेत्यर्थः । एकत्वमपि गुणत्वान्निषेध्यमेव न तु समुच्चयार्हमित्याशयः । मध्यस्थान्देवत्वादीनतिक्रम्य दूरस्थैकत्वमात्रे पक्षपातात्तत्परिगृह्य तन्मात्रसमुच्चये दोषमाह यदीति ।। अतिक्रमः शाब्दमर्यादोल्लंघनापत्तिर्दोषः ।। ८८४ ।।
युक्तिमल्लिका
सङ्ख्यारूपो गुणस्सा हि धर्ममात्रगुणाः परे ।
प्रबलेन कृतस्नेहो दुर्बलान्न स गच्छति ।
स्थानभ्रंशं स्वार्थनाशं सहते न हि सोऽव्ययः ।। ८८५ ।।
सुरोत्तमटीका
दूषणान्तरमाह ।। सङ्ख्यारूप इति ।। सा एकता । परे देवत्वादयः धर्ममात्रगुणाः पदार्थधर्मतामात्रेण गुणशब्दवाच्याः । स्वनिर्गुण-शब्दः प्रबलेन मुख्यगुणेन निर्गुणपदादवश्यनिषेध्येन कृतस्नेहः तं समुच्चिन्व-न्नित्यर्थः । सः चशब्दः । दुर्बलात् गुणशब्दार्थत्वसाम्येन धर्ममात्रात् अति-विरोधं कर्तुम् असमर्थादित्यर्थः । न गच्छति नापयाति । अतिविरोधिनमपि समुच्चिन्वन्नविरोधिनस्तु सर्वथा समुच्चिनुयादिति भावः । नह्यत्यन्तविरोधिनं व्याघ्रं स्वगोष्ठे सङ्गृह्णन्ती गौस्स्ववत्सानेव मुञ्चतीति क्वापि दृष्टम् । किञ्च अव्ययः अव्ययसंज्ञः चशब्दः अतिस्थिर इति ध्वनिः । स्थानभ्रंशं स्वस्थाना-दन्यत्र गमनं स्वार्थनाशं समुच्चयाख्यस्वरसार्थपरित्यागं न सहते । व्ययशील-स्यैव स्वार्थनाशो नाव्ययस्येति ध्वनिः । अतस्स्वेतरनिषेधे च शब्दवैयर्थ्यम-परिहार्यमिति भावः ।। ८८५ ।।
सत्यप्रमोदटीका
तार्किकरीतिमाश्रित्य दोषान्तरमाह सङ्ख्येति । एकशब्दः एकत्वसङ्ख्यारूपं गुणं विधत्ते । तदुक्तं वादावल्यां एकमेवाद्वितीय-मितिश्रुतिव्याख्यानावसरे ‘तस्यैकत्वसङ्ख्याविधानपरत्वादि’ति । सङ्ख्या च तार्किकैः चतुर्विंशतिधा गुणान्विभजद्भिः गुणत्वेन परिगणितेति प्रसिद्धमित्याह हीति । परे देवत्वादयः । धर्ममात्रगुणाः उत्कर्षप्रयोजकधर्मत्वेन गुणशब्द-वाच्याः । मात्रशब्देन तार्किकपरिभाषितगुणत्वं व्यवच्छिनत्ति । प्रबलेन एकत्वेन कृतस्नेहः तं समुच्चिन्वन् दुर्बलात् गुणत्वेन तार्किकापरिगणितात् देवत्वादिधर्मसमुदायात् । ल्यब्लोपनिमित्तापञ्चमी । तमसमुच्चित्य । न गच्छति तानपि धर्मान्समुच्चिनुयादेवेति भावः । तथा च निर्गुणपदस्य स्वघटितवाक्यघटकेतरपदबोध्यधर्मनिषेधे न तात्पर्यमित्येव हृदयम् । न तु देवत्वादिगुणानां दौर्बल्यादावित्यवधेयम् ।। किञ्चैवं दूरस्थेन एकशब्देन चशब्दान्वये तस्याव्ययस्य स्थानभ्रंशः देवत्वादिधर्मनिषेधे समुच्चयरूपस्वार्थ-भ्रंशश्च स्याताम् । ‘यन्न व्येति तदव्ययम्’ इति लक्षणोपेतश्चशब्द एतदुभयं न सहते इत्याह स्थानेति ।। ८८५ ।।
युक्तिमल्लिका
एकत्वरूपमैक्यं च निषेध्यं स्यात्कथं तव ।
एकपात्रस्थपक्वान्ने पाकश्चैकविधो भुवि ।
अतस्तत्तद्गुणौघेषु त्यागोऽत्यागश्च नेष्यते ।। ८८६ ।।
सुरोत्तमटीका
स्वेतरसकलनिषेधे दूषणान्तरं चाह ।। एकत्वरूपमिति ।। तर्हि तन्मात्रानिषेधोऽस्त्वित्याह ।। एकपात्रेति ।। ८८६ ।।
सत्यप्रमोदटीका
एकत्वं नात्र सङ्ख्या किं त्वद्वैतं इत्यत आह एक-त्वेति । अस्तु तावत् । एकत्वं निर्गुणशब्देन निषिध्यते न वा । द्वितीयेऽपि सर्वेपि न निषिध्यन्ते उत एकत्वमात्रम् । आद्ये अपसिद्धान्त इत्याह तवेति । औतवादिनः । द्वितीये सगुणत्वप्राप्त्या निर्गुणत्वव्याघातः । तृतीये अर्धजरतीयापत्तिरित्याह एकेति । उपसंहरति अत इति । त्यागः देवत्वादीनां अत्यागः एकत्वस्य । इष्यते प्रामाणिकैरिति शेषः ।। ८८६ ।।
युक्तिमल्लिका
आदिरन्त्येन सहितस्तन्मध्यपतितान्गुणान् ।
सङ्गृह्णात्यन्ततो नान्त्यः प्रत्याहारमनुस्मर ।। ८८७ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। आदिरिति ।। आदिः एकत्वगुणः अन्त्येन निर्गुणत्वेन सहितः तेनाऽनिषिद्ध इति यावत् । तन्मध्यपतितगुणान् देवत्वादीन् संगृह्णाति आत्मवदनिषिद्धान्करोति । अन्ततो विचार्यमाणे अन्त्यो निर्गुणत्वरूपधर्म एव न । सावकाशनिरवकाशयोर्मध्ये सावकाशस्यैवान्यथा-कार्यत्वादिति भावः । तत्र दृष्टान्तमाह ।। प्रत्याहारमिति ।। स हि आदि-मध्यवर्णान् संगृह्यान्त्यमेव वर्णमित्संज्ञया लोपयति । तद्वदिति भावः ।।८८७।।
सत्यप्रमोदटीका
किं चैकत्वादयः निरवकाशा बहवश्च निर्गुणत्वं तु सावकाशं एकं च । अतो दुर्बलत्वान्निर्गुणत्वस्यैव बाध इति व्याकरण-मुद्रयाऽऽह आदिरिति ।। ‘आदिरन्त्येन सहेता’ इति सूत्रस्यार्थतः सङ्ग्रहः । इत्स्थानीयस्य निर्गुणत्वस्यैव लोप इत्याह नान्त्य इति ।। ८८७ ।।
युक्तिमल्लिका
दूरस्थमर्त्यपानीयपानार्थं सेतुभेदने ।
तृषितानेकमध्यस्थतृप्तेः पश्चात्स तृप्यति ।। ८८८ ।।
तव प्रियैक्यरक्षार्थं सङ्कोचे तु नञः कृते ।
मम प्रियगुणौघस्य रक्षा पूर्वं भविष्यति ।। ८८९ ।।
सुरोत्तमटीका
निर्गुण इत्यत्र नञः संकोचेन त्वदभिलषितैकत्वगुण-रक्षणे मदभिलषित गुणानां प्रथमत एव रक्षा स्यादित्यत्र लौकिकं दृष्टान्त-मुक्त्वा दार्ष्टान्तिकमपि योजयति ।। दूरस्थेति ।। ८८८,८८९ ।।
सत्यप्रमोदटीका
किं चैकत्वादिगुणप्रवाहप्रतिबन्धकः सेतुरिवासौ निर्गुण शब्दः । तस्य च दूरस्थैकत्वरिरक्षा वर्तते । अस्यास्तृषाया निवृत्त्या तत्तृप्ति-स्तदा स्याद्यदा जलनिर्गमनार्थः सेतुभेदः कृतो भवेत् । कृते च तस्मिन् निःसृतो जलप्रवाहो दूरस्यैकत्वप्राप्तेः पूर्वमेव मध्ये विद्यमानकेवलत्व-साक्षित्वादिगुणांस्तर्पयेदेव । पश्चादेवैकत्वस्य तृप्त्याशेत्याह दूरस्थेति द्वाभ्याम्
।। ८८८, ८८९ ।।
युक्तिमल्लिका
इयं राजवधूः कामचारा वाराङ्गना न ते ।
स्वेच्छानुसारसञ्चारो मानच्छेदाय ते भवेत् ।। ८९० ।।
सुरोत्तमटीका
किञ्च ब्रह्मसूत्रानुसारेण श्रुतिर्व्याख्येया न स्वेच्छानु-सारेण । सूत्रं च भगवद्गुणानेवाङ्गीकरोति न प्रतिषेधति । अतश्श्रुतिरपि तथैव व्याख्येयेति साहित्यमुद्रयाऽऽह ।। इयमिति ।। इयं श्रुतिः । राजवधूः राज्ञोव-धूरिव वधूः तेनैव भर्तुः पोष्येत्यर्थः । कामचारेव कामचारा स्वकपोल-कल्पितेति यावत् । ते वाराङ्गनेव वाराङ्गना स्वार्थव्यभिचारवती । पौरुषेय-विद्येति यावत् । ते मानच्छेदाय अभिमानच्छेदाय । श्रुतेरेकदेशस्याप्रामाण्ये श्रुतित्वाविशेषादपरभागस्याप्यप्रामाण्यं स्यादिति प्रमाणच्छेदाय च । यद्य-स्मात् । एकत्यागं न मन्यत इति सम्बन्धः ।। ८९०,८९१ ।।
सत्यप्रमोदटीका
एकवाक्यं भंक्त्वा, तदेकदेशस्यानुवादकत्वेनातत्वा-वेदकत्वोक्तिः श्रुतेरशक्येत्याह इयमिति । या यस्मिन्नादरवती सा न तद्गुणापलापिनी राजवधूवत् व्यतिरेकेण वाराङ्गनावत् इति सामान्यव्याप्तिः । सर्वाऽपि श्रुतिः, प्रमाणमेव, नियतैकप्रकारत्वात् । व्यतिरेकेण विप्रलम्भक-मायिवाक्यवदिति प्रयोगोऽभिप्रेतः । मायिव्याख्या तु मुखतो ब्रह्मणो विषयत्वं ब्रुवन्ती, पुनस्तस्य नैर्गुण्यमाघोष्य छद्मना शून्यमेव तत्वं साधयन्ती वाराङ्गनामनुकरोति इत्याह त इति ।त्वद्भाष्यकारव्याख्येवेत्यर्थः।। ८९० ।।
युक्तिमल्लिका
व्यासश्श्रौतगुणाम्भोधौ नैकत्यागं च मन्यते ।
सर्वधर्मोपपत्तेश्चेत्याह यत्स्वयमञ्जसा ।। ८९१ ।।
सत्यप्रमोदटीका
चस्त्वर्थो व्यास इत्यनेन सम्बध्यते । यद्वाऽप्यर्थः । यथाश्रुतैव योजना । किमुताखण्डार्थत्वाश्रयणेन सर्वत्यागमिति कैमुत्यं द्योत्यते । कुत एवमित्यत आह सर्वेति । अञ्जसा स्वातन्त्र्ययुक्त्या सर्वदोषदूरत्वं सकलगुणपूर्तिं च प्रसाध्य ।। ८९१ ।।
युक्तिमल्लिका
वेद वेदार्थमखिलं वेदव्यासस्सतां पतिः ।
स हि श्रुतिसतीकण्ठसूत्रसूत्रकृदीश्वरः ।। ८९२ ।।
सुरोत्तमटीका
व्यासो न मन्यते चेत् वेदस्य किमायातमित्यत आह ।। वेदेति ।। वेदार्थं वेदेति सम्बन्धः । तत्र हेतुगर्भं विशेषणमाह ।। वेदव्यास इति ।। वेदानां व्यासो विस्तारो यस्मात्स इत्यर्थः । स्पष्टं च निमित्तमाह ।। स हीति ।। हि यस्मात् श्रुतिसत्याः कण्ठसूत्रस्थानीयब्रह्मसूत्रकृत् तस्माद्वेदार्थं वेदेति पूर्वेण सम्बन्धः ।। ८९२ ।।
सत्यप्रमोदटीका
वेदव्यासः एवेत्यध्याहारः ‘नान्यो मद्वेद कश्चने’ति भागवतात् ।। हीति ‘पुनस्तस्थार्थवित्तये । चकार ब्रह्मसूत्राणी’ति प्रसिद्धिमाह
।। ८९२ ।।
युक्तिमल्लिका
नञो विभज्य योगे तु श्रौतं तत्तन्निषेधनम् ।
समस्तनञ्विभागस्यायोगादार्थं निषेधनम् ।। ८९३ ।।
सुरोत्तमटीका
युक्त्यन्तरेणापि एक इत्यादिविधेरेव प्राबल्यमित्याह ।। नञ इति ।। आर्थं निर्गुण इति सामान्यतो गुणनिषेधे गुणत्वाक्रान्तत्वादे-कत्वादिगुणानां निषेधस्स्यादित्यर्थात्सिद्धमित्यर्थः ।। ८९३ ।।
सत्यप्रमोदटीका
नञः निषेधार्थकनिरित्युपसर्गस्य । विभज्य समस्त-निर्गुणपदात्पृथक्कृत्य । योगे एक इत्यादिपदैर्योगे । श्रौतं शब्दवाच्यम् । तन्निषेषधनं एकत्वादिगुणानां निषेधनं स्यादिति शेषः । न च तथा सम्भवतीत्याह समस्तेति । अयोगात् निरित्यस्यासामर्थ्यापत्त्या गुणपदेन समासायोगात् । आर्थं सामान्यनिषेधस्य यावद्विशेषनिषेधाविनाभावानु-सन्धानेनात एव विलम्बेनोपस्थितम् ।। ८९३ ।।
युक्तिमल्लिका
अतस्तवार्थिकादस्मान्निषेधान्मे विधिश्श्रुतः ।
बलीयांस्तन्निषेधाय दुर्बलोऽसौ न शक्नुते ।। ८९४ ।।
सुरोत्तमटीका
मे विधिः एको भवति देवो भवतीत्यादिविधिः श्रुत-स्साक्षाच्छति सिद्धो नत्वार्थिकः । असौ निर्गुणशब्दः ।। ८९४ ।।
सत्यप्रमोदटीका
अतः न्यायामृते प्रत्यक्षप्राबल्यव्युत्पादनावसरे निरूपितदिशा, असञ्जातविरोधित्वात्, शीघ्रगामित्वात्, विशेषविषयकत्वात्, निरवकाशत्वात्, उपजीव्यत्वात् बहुत्वाच्च । बलीयान् अतिप्रबलः । दुर्बलः पूर्वोक्तप्रकारशून्यः । असौ निर्गुणशब्दः ।। ८९४ ।।
युक्तिमल्लिका
एक इत्यादिशब्दानां नञ्योगादंशनाच्छतौ ।
सम्भावितक्रियायोगाद्भवतीत्येव योजना ।। ८९५ ।।
नचेद्वाक्यमपूर्णं स्यात्समस्तपदसंस्थितः ।
निषेधार्थो यतश्शब्दो बुधैश्छेत्तुं न शक्यते ।। ८९६ ।।
सुरोत्तमटीका
एकत्ववानेक इत्यादिना एकादिशब्देनैव विधिलाभेऽपि युक्त्यन्तरेण च तमाह ।। एक इति ।। यतो यस्मात् । निषेधार्थश्शब्दः नञ्शब्दः । अतः वाक्यमपूर्णम् । क्रियाभावादित्यर्थः ।। ८९५,८९६ ।।
सत्यप्रमोदटीका
नञ्योगादंशनात् इत्यत्र हेतुः समस्तपदसंस्थित इत्यादिः । सम्भावितेति । अस्तिभवत्योः सार्वत्रिकत्वात् । योगात् अध्याहारात् । तत्र बीजोक्तिः न चेदिति ।। ८९५, ८९६ ।।
युक्तिमल्लिका
पुनस्तेषामेव बाधे वाक्यं स्यान्मत्तभाषितम् ।
अतस्त्रिगुणशून्यत्वान्निर्गुणत्वं बलाद्भवेत् ।। ८९७ ।।
सुरोत्तमटीका
पुनः विधानानन्तरं तेषां गुणानाम् । अतः विहितगुण-निषेधायोगात् ।। ८९७ ।।
सत्यप्रमोदटीका
बलात् परिशेषात् ।। ८९७ ।।
युक्तिमल्लिका
अनुवादकलिङ्गं च यत्तदित्यादिकं न हि ।
भिन्नवाक्यतया यत्र निषेधस्तत्र तद्ध्रुवम् ।
एकवाक्ये निषेध तु नञ्लिङ्गमितरत्र तत् ।। ८९८ ।।
सुरोत्तमटीका
अनुवादकपक्षे दूषणान्तरं चाह ।। अनुवादकेति ।। आदिपदेन नञो ग्रहणम् । तत् यत्तदिति पदद्वयम् । एकवाक्यनिषेधे न सुरां पिबेदित्यादिके नञ् नञेव लिङ्गं अनुवादकलिङ्गम् ।। ८९८ ।।
युक्तिमल्लिका
मानसिद्धानुवादे तु तेनैव स्युर्गुणा हरेः ।
निषेधश्च न ते मानामानतादूषणं शृृणु ।। ८९९ ।।
सुरोत्तमटीका
अधुना मानसिद्धानुवादो वा अमानसिद्धानुवादो वेति विकल्प्य आद्यं दूषयति ।। मानसिद्धेति ।। तेनैव प्राचीनप्रमाणेनैव । ते निषेधश्च न । प्रमाणसिद्धानां ब्रह्मवन्निषेधायोगात् । द्वितीयं दूषयति ।। मानामानतेति ।। निर्गुणत्वे गुणनिषेधरूपे स्थिरे प्रामाणिके सति हि तेन गुणनिषेधेन । मानानां गुणप्रतिपादकप्रमाणानाम् । अन्यथाऽबाधितार्थकत्वेन तेषामप्रामाण्यायोगात् । तत्सत्त्वे गुणप्रतिपादकप्रमाणानामप्रामाण्यसत्त्वे । अन्यथा प्रामाणिकनिषेधायोगेन त्वदभिलषितनिर्गुणत्वमेव न सिद्धेत् । तथा चान्योन्याश्रयस्स्यादिति भावः ।। ८९९,९०० ।।
सत्यप्रमोदटीका
अनुवादाय प्राप्तिस्तावदावश्यकी । एकत्वादिगुणानां प्राप्तिः प्रमाणतः अन्यथा वा । आद्ये सिद्धं नः समीहितमित्याह तेनैवेति । प्रापकप्रमाणेनैवेत्यर्थः । तत्प्रमाणविरोधादेव गुणनिषेधो न सम्भवतीत्याह निषेधश्चेति । एकत्वादिपरप्रमाणानां प्रामाण्यं नोपेयते इति द्वितीयपक्षे दोषं प्रतिजानीते शृृण्विति ।। ८९९ ।।
युक्तिमल्लिका
निर्गुणत्वे स्थिरे तेन मानानां स्यादमानता ।
तत्सत्त्वे चाविरुद्धं ते निर्गुणत्वं स्थिरं भवेत् ।। ९०० ।।
सत्यप्रमोदटीका
अन्योन्याश्रयमाह निर्गुणत्व इति ।। ९०० ।।
युक्तिमल्लिका
निर्गुणोक्तौ गुणोक्त्यैव निषेध्यस्यानुवादनात् ।
एकत्वाद्यनुवादत्वकथा चेयं वृथा तव ।। ९०१ ।।
सुरोत्तमटीका
अधुना निर्गुण इत्यत्र गुणपदेनैव गुणमनूद्य निषेधात् पदान्तरेणानुवादो व्यर्थ इत्याह ।। निर्गुणोक्ताविति ।। ९०१ ।।
सत्यप्रमोदटीका
निर्गुणोक्तौ एकवाक्यनिषेधपक्षाश्रयणेन यत्त-दित्यादिलिङ्गाभावेऽपि अनुवादोपपत्तिरित्यभिप्राये इत्याशयः । दूषयति गुणोक्त्यैवेति । निर्गुणपदे वाक्यतुल्ये घटकं यद्गुणपदं तेनैवेत्यर्थः । निषेध्यस्य गुणस्य । एकत्वादीति अनुवादनार्थमन्यवाक्यानपेक्षणादिति पूरणीयम् ।। ९०१ ।।
युक्तिमल्लिका
वेदैकप्राप्तसार्वज्ञपूर्वसर्वगुणा हरेः ।
अमानत्वार्हवेदान्यमानप्राप्तो न कश्चन ।। ९०२ ।।
सुरोत्तमटीका
अधुना वेदेतरप्रमाणप्राप्तिमादायानुवादत्वमुच्यते उत समयप्राप्तिमादाय वा अथवा वेदप्राप्तिमादाय वेति विकल्प्य पक्षत्रयेऽपि दूषणमाह ।। वेदैक प्राप्तेत्यादिना ।। अमानत्वार्हेत्यनेन वेदेतरप्रमाणानां कदाचिदप्रामाण्यमपि सम्भावितं वेदस्य तु न कथंचिदिति ध्वनयति ।।९०२।।
सत्यप्रमोदटीका
गुणप्राप्तिर्न प्रत्यक्षानुमानपौरुषेयागमैरित्याह वेदैक-प्राप्तेति । तत्कुत इत्यत आह अमानत्वेति । अमानत्वार्हाणि अप्रामाण्य-शङ्काकलङ्कितानि च तानि वेदान्यमानानि च तैः प्राप्तः । न कश्चन एकोऽपि गुणः । किमु अनन्ताः । तथा हि न तावत्प्रत्यक्षेण प्राप्तिः । अतीन्द्रियत्वेन तदगोचरत्वात् । तदुक्तं अमानत्वार्हेति तद्विषयीकारित्वयोग्यताशून्येत्यर्थः । नाप्यनुमानं तत्प्रतिबद्धलिङ्गाभावात् कामचारित्वाच्च । नपि पौरुषेयवाक्येन । अज्ञानविप्रलम्भादिप्राप्तेः । अत्र विस्तरः ‘अन्यत्रादृष्टस्य सर्वज्ञत्वस्य’ इत्यादि तत्वनिर्णयतट्टीकयोः ।। ९०२ ।।
युक्तिमल्लिका
वाक्यार्थे तेऽप्यसन्देहात्समयप्राप्तताऽपि न ।
कथमित्थमपूर्वार्था गुणोक्तिरनुवादिका ।। ९०३ ।।
सुरोत्तमटीका
ते तवापि एष सर्वज्ञ इत्यादि सार्वज्ञादिभगवद्धर्म-प्रतिपादकवाक्यार्थे असंदेहादयं वा वाक्यार्थः अन्यो वेति सन्देहाभावात् समयप्राप्तता केवलसमयेनैव प्रसक्ततापि न । स्पष्टवाक्येनैव प्रसक्तिसद्भावात् अगतिकागतिः किमर्थमाश्रयणीयेति भावः । अपूर्वार्था वेदेतरप्रमाणासिद्धार्था कथमनुवादिकेति योजना । अन्यथा निर्गुणवाक्यस्याप्यनुवादकत्वप्रसङ्गात् ।। ९०३ ।।
सत्यप्रमोदटीका
नापि कुसमयेन प्राप्तिः । यत्र श्रुत्या प्राप्तिर्विप्रतिपन्ना ‘असदेवेदमग्रआसीदि’त्यत्र शून्यकारणत्वस्य ‘तत्वमसी’त्यदावैक्यस्य, तत्र प्राप्त्यर्थं कुसमयानुसरणेऽपि यत्रानूद्यार्थस्य श्रुत्यर्थतया सम्प्रतिपत्तिर्न तत्र कुसमयपर्यन्तधावनम् । यथा प्रकृत इत्याह वाक्यार्थ इति । तेऽपि गुणा-नामनुवाद इति वक्तुरपि । इत्थं गुणानां श्रुत्यनुपजीविमानान्तरेणाग्राह्यत्वात् ।। ९०३ ।।
युक्तिमल्लिका
श्रुतिप्राप्तस्य च श्रुत्या निषेधे मानता हता ।
एदद्बाधे सावकाशे निर्गुणैक्यागमे तव ।
विश्वासस्स्यात्कथं नॄणां गजे भग्ने क्व गर्दभः ।। ९०४ ।।
सुरोत्तमटीका
दूषणान्तरमाह ।। श्रुतिप्राप्तस्येति ।। मानतानिषेध्यश्रुतेः प्रमाणता । एतद्बाधे निरवकाशसगुणश्रुतेरप्रामाण्ये सावकाशे त्रिगुणवर्जितत्व-सादृश्यादिना सावकाशे निर्गुणैक्ययोरागमे । निरवकाशत्वेन प्रबलश्रुतीनाम् अप्रामाण्ये दुर्बलत्वच्छतेरप्रामाण्यं किं वक्तव्यमिति भावः । तत्र दृष्टान्तमाह ।। गज इति ।। ९०४ ।।
सत्यप्रमोदटीका
मानता प्रापकश्रुतेः इत्यध्याहारः । हता स्यादिति शेषः । न चापौरुषेयस्याप्रामाण्यं युज्यते अतो निषेधो न वक्तव्य इति विपर्यये पर्यवसातव्यम् । अथ ब्रूयान्नेदमनिष्टम् । निर्गुणश्रुत्या बाधाभ्युपगमादिति तत्रेदमुपतिष्ठते एतद्बाध इति । सगुणश्रुतेर्बाधे तथा च तत्रानाश्वासे सति तव त्वया निर्गुणपरत्वेनाङ्गीकृतस्यागमस्यापि ऐक्यागमस्यापि अप्रामाण्यं स्याद-विशेषादिति । अविशेषादिति मुखतः । वस्तुतस्तु सगुणश्रुतेर्निरवकाशत्वेन तयैव सावकाशनिर्गुणैक्यागमस्य बाधः तथा च तत्रानाश्वास एवेत्याह सावकाश इति । तत्र दृष्टान्तो गज इति ।। ९०४ ।।
युक्तिमल्लिका
हिमस्य भेषजं ह्यग्निरिति श्रुत्याऽप्यनूदिते ।
किमेकामानता वह्नेश्शीतता वा भवेद्वद ।। ९०५ ।।
अतोऽनुवादमात्रेण नार्थस्य स्याद्धि दूषणम् ।
बहुप्रमाणसंवादाद्दाढर्््यमेव भविष्यति ।। ९०६ ।।
सुरोत्तमटीका
इदानीमस्तु वा अनुवादकत्वं तथापि का हानिरिति दृष्टान्तमुखेनाह ।। हिमस्येति ।। अग्निर्हिमस्य भेषजमिति श्रुत्येत्यर्थः । एका मानता उभयोरन्यतरस्याप्रमाणता भवेत्किमिति सम्बन्धः । औद्धत्याद्भवेदिति वदन्तं प्रत्याह ।। वह्नेश्शीतता वेति ।। अप्रामाण्यस्यार्थायाथार्थ्यव्याप्तत्वेन अनुवादकश्रुतेरप्रामाण्ये वह्नेश्शीततावश्यं भवेदिति भावः । अतः अनुवादेऽ-प्यर्थाविघातात् । अनुवादमात्रेण निषेधशून्यानुवादेन । बहुप्रमाण संवादात् प्रत्यक्षश्रुतिरूपानेकप्रमाणसंवादात् ।। ९०५,९०६ ।।
सत्यप्रमोदटीका
‘बहुप्रमाणसंवादश्च दाढर्््यहेतुरेवे’ति तत्त्वनिर्णयोक्त-माह हिमस्येति । शैत्यबाधनिवारक उष्ण इति यावत् । एकामानतेति । समानविषयकत्वेनाधिगतार्थगन्तृत्वापत्त्याऽन्यतरस्याप्रामाण्यमित्यर्थः । यद्वा एकस्या अनुवादिन्याः श्रुतेरप्रामाण्यमित्यर्थः । इष्टापत्तिं अनुभवविरोधप्रदर्शनेन परिहरति वह्नेरिति ।।अतः अधिगतार्थगन्तृत्वस्य प्रमाणलक्षणत्वासम्भवात् ।। ९०५, ९०६ ।।
युक्तिमल्लिका
निषेद्धुमनुवादश्च मानसिद्धस्य नेष्यते ।
निषेध एवान्यगामी स्यादहिंसाश्रुतौ यथा ।। ९०७ ।।
सुरोत्तमटीका
निषेद्धुमनुवाद इति पक्षमाशङ्क्य दूषयति ।। निषेद्धु-मिति ।। मानसिद्धस्य । निरवकाशमानसिद्धस्य । अन्यगामी श्रुतिविहित-सार्वज्ञादिगुणेभ्योऽन्य गुणत्रयविषयः । तत्र दृष्टान्तमाह ।। अहिंसाश्रुतौ यथेति ।। यथा ‘‘न हिंस्यात्सर्वाभूतानी’’ति सामान्यश्रुतिर्विशेषश्रुतिविहित-याज्ञीयहिंसातिरिक्त विषया तथेति भावः । युक्त्यन्तरेणापि निषेद्धुमनुवादो न घटत इति सदृष्टान्तमाह ।। दृढेति ।। सा ‘‘अग्निर्हिमस्य भेषजमि’’ति श्रुतिः । यागवियोगात् भीर्यस्यास्सा स्वानूदितहिमभेषजत्वस्य निषेधे वह्ने-श्शीतलतापत्त्या तस्मिन्होमाख्ययागे वियोगस्स्यादिति भीतेति यावत् ।। ९०७,९०८ ।।
सत्यप्रमोदटीका
अनुवादोऽधिकविधानार्थः क्वचिद्दृष्टः यथा ‘दध्ना जुहोती’त्यादौ । न चासौ पक्षः परस्यात्र सम्मतः । अतो निषेधार्थ एव वक्तव्यः । गुणाश्च श्रुत्यैव सिद्धा इति समर्थितम् । श्रुतिः सर्वाऽपि प्रमाण-मिति च । प्रमाणसिद्धस्य निषेध इत्येव व्याहतमित्याह निषेद्धुमिति । तर्हि निषेधस्य का गतिस्तत्राह अन्यगामीति । प्रमितेतरविषयकः इत्यर्थः । तत्र दृष्टान्तः अहिंसेति ।। ९०७ ।।
युक्तिमल्लिका
दृढप्रत्यक्षसिद्धौष्ण्यं याऽनुवक्ति श्रुतिस्सती ।
न मुञ्चति निषेद्धुं सा यथा यागवियोगभीः ।। ९०८ ।।
सत्यप्रमोदटीका
न केवलं प्रत्यक्षसिद्धं श्रुतिरत्र न निषेधतीति किं तु तन्निषेधस्यासम्भव एवेत्याह दृढेति । तदुक्तं भगवत्पादैः ‘न च प्रत्यक्षसिद्ध-मन्येन केनापि बाध्यं दृष्टमि’ति । कथञ्चिन्निषेधे यागविधीनामानर्थक्या-पत्तिरित्याह यागेति । स्वभावहानौ अग्निस्वरूपस्यैव हानेरिति भावः ।। ९०८ ।।
युक्तिमल्लिका
एवं हरेर्हि सार्वज्ञं सा श्रौतं न निषेधति ।
दिव्येन्द्रियशरीरत्वं दिव्येच्छां च कृपालुताम् ।
नित्यत्वं ब्रह्मगुरुतां नित्यानन्दत्वमेव च ।। ९०९ ।।
सुरोत्तमटीका
दार्ष्टान्तिकेऽपि योजयति ।। एवमिति ।। एवं सार्वज्ञदि व्येन्द्रियशरीरत्वादिगुणनिषेधे वक्तुरेवाभावप्रसङ्गेन स्वोन्मूलनमेव स्यादिति भीत्या सा निर्गुणत्वश्रुतिः श्रौतं सार्वज्ञादिकं न निषेधति । श्रौतमिति युक्त्यन्तरसूचनायोक्तम् ।। ९०९ ।।
सत्यप्रमोदटीका
गुणनिषेधेऽप्यनिष्टमतिदिशति एवमिति । नित्यानन्द-त्वमेव चेत्यनन्तरं न निषेधतीत्यनुषञ्जनीयम् । सार्वज्ञस्य त्यागे कुत इतरेषां त्याग इत्यत आह श्रौतस्येति । श्रौतत्वाविशेषादिति भावः । तत्र लौकिक-न्यायमाह वंशस्येति ।। ९०९, ९१० ।।
युक्तिमल्लिका
वंशस्य यद्दशार्धं तत्स्वात्मनोऽपि भवेदिति ।
श्रौतस्यास्य त्यागसाम्यात्स्वार्थत्यागप्रसक्तितः ।। ९१० ।।
सुरोत्तमटीका
श्रौतमित्यनेन सूचितां युक्तिमाह ।। वंशस्येति ।। वंशस्य यद्दशार्धं तत्स्वात्मनोऽपि भवेदिति लोकसिद्धन्यायेनेत्यर्थः । अस्य सार्वज्ञादेः। स्वार्थनिर्गुणत्वत्यागप्रसक्तितः ।। ९१० ।।
युक्तिमल्लिका
उपदेष्टुरभावेन स्वाप्रचाराच्च शङ्किता ।
जगत्कर्तुरभावेन चाध्येतॄणामभावभीः ।। ९११ ।।
सर्वशक्तेरभावे च दैत्योपद्रवशङ्किता ।
सर्वेश्वरत्वाभावे च ब्रह्मासाध्याकृतेर्भयात् ।। ९१२ ।।
सुरोत्तमटीका
एवमिति साम्येनोक्तमर्थं प्रपञ्चयति ।। उपदेष्टुरिति ।। पूर्वोक्तसार्वज्ञाद्यभावे उपदेष्टुरभावेन जगत्कर्तुरभावे जगदन्तः पातिनामध्ये-तृणामभावात् भीः यस्याः सा । भगवतस्सर्वशक्तेरभावे दैत्योपद्रवशङ्किता हयग्रीवमधुकैटभादिदैत्योपद्रवशङ्किता । ब्रह्मासाध्यस्य कार्यस्य अकृतेः करणासम्भवात् ।। ९११,९१२ ।।
सत्यप्रमोदटीका
तत्र यागविधिमात्रानर्थक्यम् । अत्र तु स्वाभाव एवेति बहुतरमेवानिष्टमित्याह त्रिभिः उपदेष्टुरित्यादिना । ब्रह्मेति ब्रह्मणा चतुर्मुखेन असाध्यस्य वेदार्थनिर्णायकसूत्रप्रणयनादेः अकृतेः अकरणनिमित्तात् आत्मनोऽपरविद्यात्वप्राप्तेः भयात् शङ्कितेति समासाद्विविच्यानुषञ्जनीयम् ।। ९११-९१३ ।।
युक्तिमल्लिका
इत्थं श्रौतगुणेभ्यो यच्छ्रुत्या एव प्रयोजनम् ।
अत(स्ते) एषामभावं सा स्वाभावं मनुते सती ।। ९१३ ।।
सुरोत्तमटीका
इत्थं पूर्वोक्तप्रकारेण । अतस्स्वस्यैव प्रयोजनसद्भावात् । एषामुक्तभगवद्गुणानाम् ।। ९१३ ।।
युक्तिमल्लिका
प्राक्सृष्टेश्च सतस्तस्य सेहे नाज्ञानकार्यताम् ।
बाधां न सेहे नित्यां स्वां नित्यं धर्तुं यदीप्सितम् ।। ९१४ ।।
सुरोत्तमटीका
व्यावहारिकगुणाङ्गीकाराद्वक्तृत्वादिकं सम्भवतीति परस्याशां निराकरोति ।। प्राक्सृष्टेरिति ।। जगत्सृष्टेः प्राक्सतो विद्यमानस्य तस्य सार्वज्ञादिगुणसमूहस्य । जगत्सृष्ट्युपयोगिसार्वज्ञादिगुणानां सृष्टेः पूर्वं विद्यमानत्वादिति यावत् । तथा सति ब्रह्मणोऽप्यज्ञानकार्यत्वं स्यादिति भावः । नित्यामनाद्यनन्तकालीनाम् । यत्सार्वज्ञादिकं तस्य बाधां न सेह इति योजना । सदा अनन्तवेदधारणस्य सदा सर्वज्ञत्वं विना अयोगादिति भावः ।। ९१४ ।।
सत्यप्रमोदटीका
न च व्यावहारिकगुणाङ्गीकारादुक्तदोषनिस्तार इत्याह प्रागिति । ब्रह्माज्ञानकार्यं व्यावहारिकमिति परो मनुते । सार्वज्ञादिकं च ब्रह्मस्वरूपत्वात्प्रलयेऽपि सत् । न चोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतीर्विना ब्रह्मणः स्रष्टृत्वं सम्भवति । सृष्टेः प्राग्विद्यमानस्य कार्यत्वमेव न । न तरामज्ञानकार्यत्वम् । न तमां ब्रह्माज्ञानकार्यत्वम् । सर्वज्ञस्याऽज्ञताऽ-योगादित्याह न सेहे इति । श्रुतेरसंमतत्वात्तवैवाज्ञानकार्या गुणानां व्यावहारिकत्वकुकल्पनेति भावः ।। प्रागभावस्यैवाभावे त्रैकालिकनिषेधलक्षण-बाधस्तु सुदूरनिहित इत्याह बाधामिति ।विष्णुबुद्धिगानां वेदानामबाधः विष्णुबुद्धिरूपगुणाभावे कथं निर्वहेदिति भावः।।९१४ ।।
युक्तिमल्लिका
अमुख्यनित्यतायां च ब्रह्म ते स्यात्तथैव हि ।
विष्ठितं ब्रह्म यावत्ते तावद्वाक्किल विष्ठिता ।। ९१५ ।।
सुरोत्तमटीका
बहुकालीनत्वमेव श्रुतेर्नित्यत्वं न तु सार्वकालीनत्व-मित्याशङ्कां निराकरोति ।। अमुख्येति ।। किलेत्यनेन ‘‘यावद्ब्रह्म विष्ठितं तावती वागिति श्रुतिं सूचयति ।। ९१५ ।।
सत्यप्रमोदटीका
श्रुतेर्नित्यत्वं यावद्ब्रह्मकल्पं स्थितिमात्रमौपचारिकमिति नोक्तदोष इति शङ्कते अमुख्यमिति दूषयति ब्रह्मेति । तत्र युक्तिमाह यावदिति । ‘यावद्ब्रह्म विष्ठितं तावती वागि‘ति श्रुतेरर्थकथनम् । ‘सहस्रधा महिमानः सहस्रं’ इति पूर्वभागः । श्रुत्यर्थस्तत्वनिर्णयटीकायामेवमुक्तः । ‘यस्यसहस्रमपरिमिता महिमानः प्रत्येकमपि सहस्रधा अपरिमितविधाः तद्ब्रह्म यावद्देशकालव्यापितया विष्ठितं विशेषे स्थितं वाक् वेदवागपि तावती तावद्देशकालव्यापिनी’ इति ।। ९१५ ।।
युक्तिमल्लिका
उपसर्गस्तयोस्सर्गो नोत्सर्गश्चेति शंसति ।
तस्माच्छतेर्हि विच्छेदे बधिरं ब्रह्म ते भवेत् ।। ९१६ ।।
सुरोत्तमटीका
उपसर्गः वीत्युपसर्गः । तयोर्वाग्ब्रह्मणोः सर्गस्सृष्टिरुत्सर्गो नाशः । सृष्टिनाशै विना सर्वदा या स्थितिः सैव विशेषस्थितिः । उप-संहरति ।। तस्मादिति ।। विच्छेदे वक्तृश्रोतॄणामभावादिना अभावे । ते ब्रह्म बधिरमिव बधिरम् । यथा बधिरश्श्रुतिशून्यः तथा ब्रह्मापि स्वप्रतिपादक-श्रुतिशून्यमित्यर्थः ।। ९१६ ।।
सत्यप्रमोदटीका
वीत्युपसर्गः ब्रह्मवेदयोरुत्पत्तिनाशौ निषिध्योभयेषां निरुपचरितनित्यत्वमेव व्यवस्थापयतीत्याह उपसर्ग इति । श्रुतेः ब्रह्मण्येकैक-प्रमाणस्य विच्छेदे प्रलये नाशे । बधिरं प्रतिपादकप्रमाणाभावादङ्गोपाङ्ग-विकलम् । श्रुतेः करणे व्युत्पत्त्या श्रवणेन्द्रियस्येति ध्वनिः ।। ९१६ ।।
युक्तिमल्लिका
बधिरं च न तञ्जीवेत्सलज्जमिति मे मतिः ।। ९१७ ।।
सुरोत्तमटीका
सलज्जं शशशृृङ्गसाम्येन लज्जया सहितं तद्ब्रह्म न जीवे-दिति सम्बन्धः । प्रतिपादकश्रुत्यभावे ब्रह्मण एवाभावस्स्यादिति परमार्थः । सलज्जः पुरषस्स्वबाधिर्ये सति न जीवेदिति ध्वनिः ।। ९१७ ।।
सत्यप्रमोदटीका
बधिरं उक्तदिशा निरवयवम् । न जीवेत् । वन्ध्यासुतवत्सत्तामेव न लभेत ।। ९१७ ।।
युक्तिमल्लिका
अतः कर्तृत्वभोक्तृत्वफलदातृत्वपूर्वकात् ।
श्रुत्युक्तसर्वसर्वस्वादन्यत्किञ्चिन्निषेधति ।। ९१८ ।।
सुरोत्तमटीका
अतः उक्तविधया ब्रह्मगुणानामावश्यकत्वात् । भोक्तृत्व मानंदभोक्तृत्वं यज्ञभोक्तृत्वं वा । फलदातृत्वं स्वर्गापवर्गफलदातृत्वम् । भगवतः ज्ञानयज्ञकर्मयज्ञाख्ययज्ञभोक्तृत्वाभावे तत्फलदातृत्वाभावे च ब्रह्मकाण्ड कर्मकाण्डयोर्विफलत्वेन अनुपादेयत्वप्रसङ्गादिति भावः । अन्य त्प्राकृत-गुणादिकम् ।। ९१८ ।।
सत्यप्रमोदटीका
श्रुत्युक्तात् समन्वयाध्याये व्युत्पादितात् सर्वसर्वस्वात् निरवधिकानन्तानवद्यकल्याणगुणपूगात् अन्यत् किञ्चित् व्यतिरिक्तं क्षुद्रं प्राकृतगुणवत्त्वम् ।। ९१८ ।।
युक्तिमल्लिका
स्वयं संकुचितान्नोऽपि मानी ज्ञातिसुखं दिशेत् ।
अनेकश्रुतिरक्षार्थं पदमल्पनिषेधि तत् ।। ९१९ ।।
सुरोत्तमटीका
श्रुत्या श्रुत्यन्तरप्रामाण्यमेव रक्षणीयमित्येतल्लौकिक-दृष्टान्तेन प्रदर्शयति ।। स्वयं सङ्कुचितेति ।। तत्तस्मात्पदं अल्पनिषेधि त्रिगुणमात्रनिषेधि ।। ९१९ ।।
सत्यप्रमोदटीका
‘प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात्’ इत्यनु-व्याख्यानोक्तं लौकिकदृष्टान्तोक्त्या भूषयति स्वयमिति ।। ९१९ ।।
युक्तिमल्लिका
निषेधबलवत्त्वे तु भेदवाग्बाधिका तव ।
तादात्म्यप्रतिषेधत्वं भेदस्याखिलसम्मतम् ।। ९२० ।।
सुरोत्तमटीका
निषेधरूपत्वान्निर्गुणवाक्यं बलवदित्याशङ्कां परिहरति ।। निषेधेति ।। तव औतवादिनः ।। ९२० ।।
सत्यप्रमोदटीका
निषेधकत्वादेव निर्गुणश्रुतेर्बाधकत्वं, विधित्वादेव सगुणश्रुतीनां बाध्यत्वमित्येतन्निराह निषेधेति।तव ऐक्यवाक्यस्येति शेषः ।।
युक्तिमल्लिका
अन्धानां नास्तितावाक्यैर्बाध्यं स्यादस्तितावचः ।
शून्योक्तिर्ब्रह्मसत्त्वोक्तेर्बाधिकेत्यतिसङ्कटम् ।। ९२१ ।।
सुरोत्तमटीका
पुनरपि दूषणद्वयमाह ।। अन्धानामित्यादिना ।।९२१।।
सत्यप्रमोदटीका
शून्योक्तिः ‘असदेवेदमग्र’ इति श्रुतिः । ‘शून्यं तत्वमविज्ञेयमिति शून्यवाद्युक्तिर्वा ।। ९२१ ।।
युक्तिमल्लिका
विरुद्धार्थमतो बाध्यमविरुद्धं न बाध्यते ।
ओः पुच्छं हि कश्छिन्द्यान्मुखं छिन्दन्ति सर्वशः ।। ९२२ ।।
सुरोत्तमटीका
अतः निषेधरूपस्याप्रयोजकत्वात् । विरुद्धार्थं गुण-प्रतिपादकश्रुतिविघातकनैर्गुण्यार्थं हिंसकविषाख्यविरुद्धार्थवत्त्वं दृष्टान्ते द्रष्टव्यम् । तमेव दृष्टान्तमाह ।। ओः पुच्छमिति ।। ९२२ ।।
सत्यप्रमोदटीका
अतः तन्न्यायस्यातिप्रसङ्गदुष्टत्वात् । विरुद्धार्थं प्रबलप्रमाणविरुद्धार्थम् । पुच्छं विषाख्यविरुद्धार्थरहितम् । मुखं तादृश-विषयुक्तम् । अत्र बाधो नाशः । दार्ष्टान्तिकेऽत्यन्ताभावः । अभावमात्रेण साम्यम् ।। ९२२ ।।
युक्तिमल्लिका
सर्वधर्मैष सर्वज्ञस्सर्वस्येशान इत्यपि ।
श्रुतयस्स्मृतयोऽगायन्गुणानित्यादयो न किम् ।। ९२३ ।।
सुरोत्तमटीका
गुणप्रतिपादकवाक्यानि सङ्गृह्णाति ।। सर्वे धर्मे-त्यादिना ।। सर्वधर्मेत्यनेन सर्वधर्मा सर्वकर्मेति श्रुतिमुपादत्ते ।।९२३-९२५।।
सत्यप्रमोदटीका
सगुणवाक्यानां सुबहुत्वं सुप्रसिद्धतां चाह ।। ९२३ ।।
युक्तिमल्लिका
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।। ९२४ ।।
जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः ।
न शक्यन्तेनुसङ्ख्यातुमनन्तत्वाऽन्मयाऽपि हि ।। ९२५ ।।
सत्यप्रमोदटीका
स्वगुणानन्त्यप्रतिपादकभगवद्वाक्यान्येव पठति मय्य-नन्ते इति ।। ९२४, ९२५ ।।
युक्तिमल्लिका
इत्यादिभगवद्वाक्यं श्लोक्यं स हि भुजङ्गजित् ।। ९२६ ।।
सुरोत्तमटीका
श्लोक्यं अङ्गीकार्यमित्यर्थः । स भगवान् भुजङ्ग-जित्कालियमर्दनः । पूर्वोक्तनिर्गुणत्वाख्यसर्पमुखमर्दनशक्तिसूचनायेदं विशेषणम् ।। ९२६ ।।
सत्यप्रमोदटीका
भुजङ्गजित् पदप्रहारैः कालियस्य यमुनायाः अप-सारकः । एवं आनन्त्यबोधकपदप्रहारैः श्रुतिनद्या नैर्गुण्यविषपरिहारकः ।।
युक्तिमल्लिका
किञ्चानिर्गुणइत्येव पदच्छेदे लसत्पदम् ।
वाक्यं स्यान्नाङ्गविच्छेदस्तस्येत्यतिसमञ्जसम् ।। ९२७ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। किञ्चेति ।। लसत्पदं पूर्वोत्तरा-विरुद्धार्थपदम् । अङ्गविच्छेदः निर्गुणपदातिरिक्तसकलवाक्यावयवाप्रामाण्यम् । तस्य वाक्यस्य ।। ९२७ ।।
सत्यप्रमोदटीका
नवविधदृष्टान्तानुगुण्याय अददिति पदच्छेदवत् अनन्तसगुणवाक्यानुगुण्यायानिर्गुण इत्येव पदच्छेदोऽतिसमञ्जस इत्याह किं चेति ।। ९२७ ।।
युक्तिमल्लिका
समयप्राप्तनैर्गुण्यत्याजनं च फलं भवेत् ।। ९२८ ।।
सुरोत्तमटीका
समयप्राप्तस्य मायावादिसमयप्राप्तस्य नैर्गुण्यस्य त्याजनम् । फलमनिर्गुण इति पदच्छेदस्य फलम् ।। ९२८ ।।
सत्यप्रमोदटीका
एतत्पक्षे ‘नाशब्दमि’त्यत्रेव परपक्षप्रतिक्षेपस्यापि लाभः फलमपीत्याह समयेति ।। ९२८, ९२९ ।।
युक्तिमल्लिका
श्रुतिस्स्वोक्तगुणस्थेम्ने नैर्गुण्यं प्रतिषेधति ।
इति सङ्गतिरप्यस्ति वाक्यस्याप्येकवाक्यता ।। ९२९ ।।
सुरोत्तमटीका
सङ्गतिः गुणप्रतिपादकभागस्य नैर्गुण्यमतेन विरोधे आशङ्किते तदेव नेत्याहेति सङ्गतिः ।। ९२९ ।।
युक्तिमल्लिका
किञ्च निर्गुणतावाक्ते गुणमात्रनिषेधने ।
ज्ञानानन्दाद्यभिमतगुणानां स्यान्निषेधिका ।। ९३० ।।
सुरोत्तमटीका
निर्गुणशब्देन गुणमात्रनिषेधने मायावादिनः स्वस्याप्य-पेक्षितज्ञानानन्दादिगुणानामभावप्रसङ्गेन स्वमतविरोधस्स्यादित्याह ।। किञ्चेति ।। ते निर्गुणतावाक् निषेधिका स्यादित्युत्तरेणान्वयः ।। ९३० ।।
सत्यप्रमोदटीका
मायावादिना ब्रह्मभावरूपमोक्षस्य पुरुषार्थत्वसिद्धये, ब्रह्मणोखण्डज्ञानानन्दात्मकत्वं स्वीकृतम् । तथा च गुणमात्रनिषेधोक्तौ स्वाभिमतगुणानामपि निषेध आपद्यत इत्याह किं चेति ।। ९३० ।।
युक्तिमल्लिका
यद्यभिन्नं सुखं ज्ञानं गुणास्सर्वेऽप्यभेदिनः ।
सन्तु नेहेतिवाक्यस्य भयाद्गर्भगता हरेः ।। ९३१ ।।
सुरोत्तमटीका
ज्ञानानन्दादीनामभेदेन न तन्निषेधिका निर्गुणवागित्या- शङ्कां प्रतिबन्द्या परिहरति ।। यदीति ।। नेह नानेति वाक्यात् भीता गर्भगता-भूत्वाऽभेदिनः संत्विति योजना । नेहनानेति वाक्यबलात् ज्ञानानन्दादिवत् सार्वज्ञादीनामप्यभेदसाम्यादिति भावः । भीतोऽपि कस्यचिदुदरं प्रविशति तथा गुणा अपीति साहित्यमुद्रा ।। ९३१ ।।
सत्यप्रमोदटीका
ब्रह्मात्मकत्वात्तेषामनिषेधश्चेत्सार्वज्ञादीनामपि तथात्व-मेवेत्याह गुणाः सर्वेऽपीति । नेहनानेति वाक्यं ब्रह्मणि तद्भिन्नान्गुणान् प्रतिषेधतीत्युक्तम् । सार्वज्ञादीनामपि ब्रह्मस्वरूपत्वेन तद्वाक्यविरोधोऽपि परिहृत इत्याह संत्विति । बिडालभयान्मूषकशावका बिलमिवेति ध्वनिः । अकुतोभयं भगवदुदरमिति भावः ।। ९३१ ।।