अतो वेदेन वेदान्तवचनेन च मानितम्
इदं ते पात्रं इत्यादिश्रुत्यर्थः
युक्तिमल्लिका
अतो वेदेन वेदान्तवचनेन च मानितम् ।
सर्वैर्मान्यं मतमिदं माननीयो गुरुश्च नः ।। ६५१ ।।
सुरोत्तमटीका
अतः पूर्वोक्तप्रकारात् । इदं मतं तत्ववादिमतम् ।। ६५१ ।।
युक्तिमल्लिका
यद्वायोः पवमानस्य पूयमानाभिधस्य च ।
सूक्तस्थर्चामियं चर्चा तद्वायुस्तुतिरेव नः ।। ६५२ ।।
सुरोत्तमटीका
यद्यस्मात् पवमानस्य पूयमानाभिधस्य च सूक्तस्थर्चामियं चर्चा वायोरेव चर्चा । तत्तस्मादियं चर्चा नः वायुस्तुतिरेवेति सम्बन्धः । वायुस्तुतेरुक्तऋक्चर्चायाश्च एकवाक्यतायाः प्राक् प्रदर्शितत्वादिति भावः ।। ६५२ ।।
सत्यप्रमोदटीका
इयं वार्योर्गुणस्थापनपरा ।। ६५२ ।।
युक्तिमल्लिका
स्पष्टं मध्वाभिधानांकाः सप्तर्चोऽत्र विचारिताः ।
अष्टर्चस्तच्चरित्रांकाश्चक्राङ्कैका हरस्य वाक् ।। ६५३ ।।
सुरोत्तमटीका
सप्तर्चः समध्व आयुवते, उन्मध्व ऊर्मिः, विद्वान्मध्वः, मध्वो अंशुः सिंहन्नसन्तं मध्वो अयासं, प्रधारामध्वः, अस्मभ्यमिन्दविन्द्रयु-र्मध्व इति सप्तर्चः । अष्टर्चः । प्रसेनानीः प्रावीविपत्, सोमः पवते, ब्रह्मा देवानां, येन देवाः पवित्रेण, यत्ते पवित्रमर्चिषि, चमूषच्छ््येन, पवित्रन्त इति प्रधानभूता अष्टर्चः । अपूर्व्यः ईक्षेण्यास इति आद्यन्तयोर्मिलित्वा एका ऋक् । अजीतये, अहतये, ऊर्ध्वो गन्धर्वः, प्राजापत्यम्, उभाभ्यां देवसवितः, त्रिभिष्ट्वं देवसवितः इति अङ्गभूताष्षडृचः । तथा चाङ्गभूता ऋग्भिस्सह तच्चरित्राङ्काः मध्वचरित्रवर्णनपराः चतुर्दश ऋचः पूर्वोक्तसप्तश्रुतिवत् स्पष्ट-मध्वनामाङ्काभावेऽपि मध्वस्य चरित्रं मध्वप्रथमावतारद्वयचरित्रं मध्वमूलरूप-चरित्रं तप्तमुद्राधारणाख्यमध्वाचारं च वायुस्तुताविव वर्णयतीत्यर्थः । एवं च मिलित्वा पवमाने पूयमाने च मध्वगुणप्रतिपादिका ऋचः एकविंशति सङ्ख्याताः । चक्राङ्का चक्रस्य अङ्कः चिह्नप्रतिपादनमित्यर्थः । यस्याः सा । हरस्य वागित्युपलक्षणम् । काण्वानां शतपथब्राह्मणवचनं च ग्राह्यम् ।।६५३।।
सत्यप्रमोदटीका
अष्ट प्रधानाः अङ्गभूताः षट् तथा च मिलित्वा चतुर्दशेति ध्येयम् । हरस्येत्युपलक्षणम् । शतपथब्राह्मणमपि ग्राह्यम् ।।६५३।।
युक्तिमल्लिका
वायुस्तुतौ च मध्वाख्या सकृदेव प्रकाशिता ।
असकृन्मध्वसन्नाम्नी सेयं वायोर्महास्तुतिः ।। ६५४ ।।
सुरोत्तमटीका
पूर्वं पवमानपूयमानसूक्तयोः प्रसिद्धवायुस्तुतिसाम्य-मुक्तम् । इदानीं ततोऽप्यतिशयमाह ।। वायुस्तुतौ चेति ।। सकृत् मध्वाख्यं मन्त्रसिद्धमिति श्लोके एकवारम् । असकृत् उक्तविधया सप्तश्रुतिषु सप्तवारं, मध्वसन्नाम्नी मध्व इति समीचीननामवती । सेयं पवमानपूयमानसूक्ताख्य-ऋङ्मण्डली ।। ६५४ ।।
सत्यप्रमोदटीका
‘मध्वाख्यं मन्त्रसिद्धमि’ति वायुस्तुतौ प्रतिज्ञातं अनेकासां ऋचां मण्डल्या उदाहरणेन समर्थिता । अतः ‘तां मन्त्रवर्णै-रनुवर्णनीयामि’त्युक्तमपि दिक्प्रदर्शनेन उपपादितमित्याह महास्तुतिरिति ।। ६५४ ।।
युक्तिमल्लिका
इदं ते पात्रमित्यृक्च मध्वं स्तौत्यष्टमेऽष्टके ।। ६५५ ।।
शतक्रतो बहुज्ञानपरमैश्वर्य हे हरे ।
इन्द्राख्या ते सने दाने योग्यवित्तानि यस्य तत् ।
सन वित्तं ज्ञानभक्तिविरक्त्यादिगुणोर्जितम् ।। ६५६ ।।
सुरोत्तमटीका
इदं ते पात्रमित्यनेन इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो । पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभि हर्यन्ति देवा इति श्रुतिं गृह्णाति । इदं च इन्द्रनामकपरमात्मानं प्रति वेदपुरुषस्य वचनम् । अयमर्थः । हे शतक्रतो अपरिमितज्ञानपरिपूर्ण इन्द्र परमैश्वर्यसंपन्न परमात्मन् । सने स्वभक्तेभ्यो रुद्रादिभ्यो दाने योग्यानि वित्तानि ज्ञानभक्तिवैराग्यादीनि यस्य तत् सनवित्तम् । अलौकिकदिव्यज्ञानभरितमित्यर्थः । इदं उपरि वक्ष्यमाणं मध्वाचार्याख्यं ते तव पात्रं सन्निधानयोग्यं स्थानं, मुख्यप्राणरूपे लोकगुरौ मध्वाचार्ये त्वं सदा सन्निहितोऽसीत्यर्थः । य एवायं मुख्यप्राणः तमुद्गीथमुपासांचक्रिर इति श्रुतेः । अन्यथाऽलौकिकमन्येष्वविद्यमानमिदं ज्ञानं तत्रैव कथं स्यादिति सूचनाय सनवित्तमित्युक्तम् ।
एना एनेन सर्वप्राणिषु प्रेरकतया स्थितेनानेन दत्तं सोमं सोमरसं पिब सोमपायिनां मुखे स्थित्वा सीत्कारवायुरूपेणानेन मुखान्तःप्रवेशितं सोमरसं वा पिब । अग्न्यन्तर्यामितया स्थितेनानेन एतेन मुखाख्यपात्रेणेत्यर्थः । पिबेति वा । सर्वं स पूतमश्नाति स्वदितं मातरिश्वनेति श्रुतेः, रसं दासस्य जिह्वायामश्नाति कमलोद्भवेति स्मृतेश्च । इदंपदेन परामृष्टः क इत्यत आह ।। पूर्ण आहावो मदिरस्य मध्व इति ।। मदिरस्य मत्तः इरं ईरणं यस्य तस्य वेदोत्पन्नज्ञानस्येत्यर्थः । मत् मथनं वेदशास्त्राणां पर्यालोचनमित्यर्थः । तदुत्पन्नज्ञानस्य वा । पूर्णः संपूर्णः । मदिरेणेति वक्तव्यं मदिरस्येति षष्ठी तस्य ज्ञानस्य पवमानपूयमानरूपमध्वसम्बन्धस्यापि ज्ञापनार्थम् । अनन्तवेदोत्पन्न-ज्ञानेन संपूर्ण इत्यर्थः । आसमंतात् हावः तस्य ज्ञानस्य हवनं तत्तद्योग्यतानु-सारेण दानं यस्य सः ज्ञानयज्ञे स्थित्वा ज्ञानाख्यरसस्य भूमिस्थऋष्यादि-शिष्यप्रशिष्येषु हवनकर्तेत्यर्थः । यो मध्वः इदं ते पात्रमिति पूर्वेण सम्बन्धः ।
न केवलं भूमिस्थशिष्येष्वेव ज्ञानदाता मध्वः किंतु स्वर्गस्थदेवेष्वपीत्याह ।। यमिति ।। यं मध्वं विश्वेदेवाः इत् इत्थं ऋष्यादिशिष्यवदेव अभि अभितः हर्यन्ति ज्ञानरससङ्ग्रहाय प्राप्नुवन्ति । यं अभितः स्वसभासु व्यवहरन्ति वा अभितः वेदशास्त्रादिषु विद्यमानान् यद्गुणानेव समाहरन्ति वा । शिवमुखैरेकतो देववृन्दैः शुकमुखैरन्यतः सन्मुनीन्द्रैरिति वचनात् ।। ६५५,६५६ ।।
सत्यप्रमोदटीका
‘इदं ते पात्रं सन वित्तमिन्द्र पिबा सोममेना शतक्रतो । पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः’ इति मन्त्रं व्याख्याति शतेति । क्रतुशब्दार्थः ज्ञानेति । शतेत्यस्य बह्विति । पूर्णेत्यर्थः बहोर्भावः भूमा पूर्ण इत्युक्तेः । इन्द्रशब्दार्थः परमैश्वर्य इति । सनशब्दस्य वित्तार्थकत्वे निष्पत्तिमाह सने इति । वित्तं चालौकिकमेवात्र विवक्षितमित्याह ज्ञानेत्यादि ।। इममेवार्थं प्रपञ्चयति ।। शतक्रतवित्यादिना ।। परमैश्वर्येति इन्द्राख्येत्यस्योपपादकम् ।। ६५५–६५७ ।।
युक्तिमल्लिका
इदं मध्वाभिधं पात्रं सन्निधानपदं ध्रुवम् ।
न चेदेतादृशज्ञानपूर्तिरत्र कुतो भवेत् ।। ६५७ ।।
स त्वं न चेदिति प्रोक्तं देववाक्यमनुस्मर ।। ६५८ ।।
सुरोत्तमटीका
सत्वं न चेदिति प्रोक्तमित्यनेन,
सत्वं न चेद्धातरिदं निजं भवेत् विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः ।।
इति भागवतस्थब्रह्मवाक्यं गृह्णाति । उक्तभागवतवचनानुसारेण श्रुतिरपि प्रवृत्तेति भावः । अयं श्लोकार्थः । अज्ञानभिदापमार्जनम् अज्ञानविपरीत-ज्ञाननाशनम् । सत्वं सत्वगुणात्मकम् । इदं ब्रह्मणि मयि विद्यमानं विज्ञानं विशिष्टं ईश्वरादन्यत्रालोचने सति सर्वविषयं ज्ञानं मनोवृत्तिरूपज्ञानं निजं तव सन्निधानाज्जातम् । न चेत् गुणप्रकाशैः ब्रह्मादिषु विद्यमानगुणप्रकाशैः भवान् येन केन पुरुषेणानुमीयते । न केनाप्यनुमीयत इत्यर्थः । यच्छब्दोऽत्र किं-शब्दार्थे । उपरि कथ्यमानं येनेतिपदमत्रापि सम्बध्यते । अन्यथा अन्वयस्या-पूर्णत्वात् ।
इदं ज्ञानं केनचित्पुरुषविशेषेणोपदिष्टम्, अनित्यज्ञानत्वे सत्यतिशयित-ज्ञानत्वात् । व्यतिरेकेण भगवज्ज्ञानवत्, लौकिकघटादिज्ञानवद्वेति ब्रह्मादिषु विद्यमानज्ञानविशेषं दृष्ट्वा यतस्तवानुमानं कुर्वन्ति अतस्तज्ज्ञानं त्वत्सन्निधानोत्पन्नं भवेत् ।
ननु चक्षुरादिनैव भगवज्ज्ञानं भवेत् किमनुमानेनेत्यत उक्तम् ।। प्रकाशत इत्यादिना ।। अगुणः सत्वादिगुणरहितो भवान् । यस्य कस्य पुरुषस्य, येन केन साधनेन प्रकाशते । न केनापीत्यर्थः । सत्वादिगुणत्रयात्मकजगत एव सर्वेश्वरत्वभ्रान्त्या वेदस्यापि तद्विषयत्वभ्रमेणान्यथासिद्धत्वात् । अतो ब्रह्मनिष्ठज्ञानविशेषेण भगवदनुमानावश्यम्भावादवश्यं ब्रह्मनिष्ठज्ञानं भगव-त्सन्निधानोत्पन्नं भवेदिति श्लोकार्थः । अतः श्रुतिरपि ज्ञानविशेषभरितत्वा-न्मध्वाचार्यशरीरं भगवत्सन्निधानपात्रत्वेन वर्णयति ।। ६५८ ।।
सत्यप्रमोदटीका
ध्रुवमिति सन्निधानस्य अव्यभिचरितपूर्णतामाह । तत्र कार्यानुमानं एतादृशेति । प्रोक्तं भागवते चतुर्मुखेन गर्भस्तुत्यवसरे (१०-३-३५) ।
सत्वं न चेद्धातरिदं निजं भवेत् ।
विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः ।। इति ।
अत्र चतुर्मुखनिष्ठविशेषज्ञानस्य भगवत्सन्निधानपात्रत्वनिमित्तकत्वशंसनेन प्रकृतोपयोगः स्पष्टः ।। ६५७, ६५८ ।।
युक्तिमल्लिका
एनाऽनेन प्राणतया सर्वत्र व्यापिनाऽर्पितम् ।
सोमं यज्ञरसं सर्वं पिब पूर्णोऽपि तत्प्रियात् ।
मानयज्ञरसं दिव्यज्ञानाख्यं रसमेव वा ।। ६५९ ।।
सुरोत्तमटीका
तत्प्रियात् तव सोमरसार्पकमुख्यप्राणे प्रियात् ।।६५९।।
सत्यप्रमोदटीका
एना इत्यस्यार्थः व्यापिनेत्यन्तेन । सोमं यज्ञरसं दिव्यज्ञानाख्यं रसं वा । पाने प्रयोजनं मध्वे प्रीत्यतिशय एवेत्याह तत्प्रियादिति ।। ६५९ ।।
युक्तिमल्लिका
योऽयं मध्वो मध्वनामा मदिरस्य मदीरणात् ।
जातस्य वेदशास्त्रादेर्मथनादुदितस्य वा ।। ६६० ।।
ज्ञानस्य पूर्णः सम्पूर्णः केवलं करणं न तत् ।
तत्सम्बन्ध्यपि तज्ज्ञानं तद्गुणस्यापि बोधनात् ।। ६६१ ।।
इति ज्ञापयितुं षष्ठी तच्च योगिषु सर्वतः ।
जुह्वदाहावनामा सन्वर्तते व्याससन्निधौ ।। ६६२ ।।
सुरोत्तमटीका
तद्गुणस्य मुख्यप्राणगुणस्य बोधनात् पवमानादौ बोधनात् । षष्ठी मदिरस्येति षष्ठी । तत् ज्ञानयज्ञे सोमरसस्थानीयं ज्ञानं जुह्वत् हवनं कुर्वन् । अत एव आहावनामा आसमन्तात् योगिषु ज्ञानरसं जुहोतीति व्युत्पत्त्याप्याहावनामेति ग्राह्यम् ।। ६६०–६६२ ।।
सत्यप्रमोदटीका
इदं शब्दार्थः मध्व इति । ज्ञानार्थकत्वे निमित्तद्वयं मदीरणात् मया पवमानादौ प्रतिपादनात् इति, मथनादुदितस्य इति च । मदिरेणेति वक्तव्ये मदिरस्य पूर्ण इत्युक्तेः प्रयोजनं सम्बन्ध्यपीति ज्ञापयितुं इति । तत् ज्ञानं आ सर्वतः । योगिषु जुह्वत् । अत एव आहावनामा ।। ६६०–६६२ ।।
युक्तिमल्लिका
मुनिमात्रगुरुर्नासाविदित्थं यमभिस्थिताः ।
हर्यन्ति मनसाऽऽकृष्य ध्यायन्ति सकलाः सुराः ।। ६६३ ।।
सुरोत्तमटीका
आकृष्य स्वहृदयगुहां प्रत्याकृष्य । हर्यन्तीत्यस्यार्थकथनं ध्यायन्तीति । गुणोपसंहारात्मकध्यानस्य हृञ्धात्वर्थत्वसम्भवादिति भावः ।। ६६३ ।।
सत्यप्रमोदटीका
इत् इत्थम् । अभि अभिस्थिताः । ‘उपसर्गाः क्रियाऽसन्निधाने ससाधनां क्रियामाहुरिति तत्त्वनिर्णयटीकोक्तेः । हर्यन्ति गुणोपसंहारपूर्वकं ध्यायन्ति । व्याहरन्ति । प्राप्नुवन्ति च ।। ६६३ ।।
युक्तिमल्लिका
अभितो वा व्याहरन्ति तमीदृक्सुगुणं सुराः ।
यद्वाऽभितः प्राप्नुवन्ति चेप्सया शास्त्रसम्पदाम् ।। ६६४ ।।
सुरोत्तमटीका
हर्यन्तीति छान्दसपदं, व्याहरन्ति अभिलपन्ति । अत्रापि हृञ् धात्वर्थत्वं घटयितुं व्याहरन्तीत्युक्तम् । ईप्सया ज्ञानेच्छया ।। ६६४ ।।
युक्तिमल्लिका
हर्यन्नुषसमित्यादौ प्राप्त्यर्थोऽस्ति यतो हृञिः ।
अन्यार्थशून्या वागेषा किं न ब्रूते गुरुं मम ।। ६६५ ।।
सुरोत्तमटीका
हर्यन्नित्यस्य प्राप्त्यर्थत्वे वैदिकप्रयोगं दर्शयति ।। हर्यन्नुषसमित्यादाविति ।। अनेन हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः । विद्वांश्चिकित्वान्हर्यश्ववर्धस इन्द्रविश्वा अभिश्रिय इति श्रुतिं गृह्णाति । अयमर्थः । हे हर्यश्व हरिद्वर्णाश्वसमेत । इन्द्र इन्द्रनामकपरमैश्वर्यसंपन्न परमात्मन् विद्वान् सर्वज्ञः चिकित्वान् जगत्सृष्ट्यादिकं कुर्वंस्त्वं उषसं उषः कालं हर्यन् प्राप्नुवन् । अर्चयः स्नानसन्ध्यावन्दनादिना भगवत्पूजां सज्जनमुखेन अकारयः । सूर्यं उषः कालोपरि उद्यन्तमादित्यं हर्यन् प्राप्नुवन् तद्बिम्बे सन्निधानं कुर्वन्नित्यर्थः । विश्वाः समस्ताः अभि अभितो विद्यमानाः श्रियः नानाश्रीमतस्सप्तद्वीपान् दिशो वा वर्धसे तत्रत्यसज्जनानामभिवृद्धये अरोचयः प्राकाशयः । सूर्ये स्थित्वा स्वमरीचिभिः सकलं जगदभासय इत्यर्थः । यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकमिति स्मृतेः । एवं च एतच्छ्रुतिसमाख्यया हर्यन्तीत्यत्रापि प्राप्नुवन्तीत्यर्थो घटत इति भावः
।। ६६५ ।।
सत्यप्रमोदटीका
प्राप्त्यर्थकत्वे वैदिकसमाख्यामाह ‘हर्यन्नुषसं’ इति उषःकालं हर्यन् प्राप्नुवन् इति तत्रार्थोक्तेः ।। ६६५ ।।
युक्तिमल्लिका
मध्वो वा नामेति वाक्च मरुत्सूक्ते तमुज्जगौ ।। ६६६ ।।
यद्यतो मुख्यमरुतो वैर्युग्रा ये कुमारकाः ।
अयासुर्भूतलं भीमहनूमन्मध्वनामकाः ।। ६६७ ।।
ये चिदेव जगत्युर्व्यौ रोदस्यौ पृथिवीं दिवम् ।
रेजयन्ति चरित्रेण राजयन्ति युगे युगे ।। ६६८ ।।
सुरोत्तमटीका
आचार्यविषये अतिस्पष्टं श्रुत्यन्तरं चाह ।। मध्वो व इति ।। तं मध्वम् । अनेन मध्वो वो नाम मारुतं यजत्राः प्रयज्ञेषु शवसा सामदन्ति । ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्रा इति श्रुतिं गृह्णाति । अयमर्थः । यद्यस्मात् उग्राः बाहुयुद्धे वाग्युद्धे चात्युग्राः हे हनूमद्भीम मध्वरूपवायोरवताराः उर्वी उर्वीं भूमिमित्यर्थः । सुपांसुलुगिति सूत्रात् । अयासुः आजग्मुः । तस्मात् उत्सं स्वचरणकमले उत्सुकं पुरुषं पिन्वन्ति सकलभाग्यसेचनं कृत्वा रक्षन्ति । पिन्वसेचन इति धातोः । स्वसत्यलोकं विहाय भूमिं प्रत्यागमनाद्भूमिस्थसज्जनरक्षकत्वं मुख्यप्राणस्य अवतारास्सुप्रसिद्धा भविष्यन्तीति काण्वोक्तिसत्यकरणात्काण्वरक्षकत्वं च सुप्रसिद्धमभूदिति भावः । ये केचित् एव । उर्वी उर्व्यौ उत्कृष्टे रोदसी द्यावापृथिव्यौ । रेजयन्ति राजयन्ति स्वचरित्रेण कान्त्या च प्रकाशयन्ती-त्यर्थः । चरित्रेणापि असुरजनमोहनाय स्वबन्धनसर्पबन्धनादिना कदाचि-च्छक्तिगूहनं कान्तेश्च बहुशोऽप्रकाशनं सूचयितुं रेजयन्तीत्यलौकिकपद-प्रयोगः । हे मरुतः तेष्ववतारेषु मरुद्गणाग्रगण्यत्वात् वः सम्बन्धी यः मध्वो नाम मध्वाख्यावतारः तं मारुतं मुख्यप्राणकुमारं मध्वाख्यावतारं यजत्राः याजकाः यज्ञरक्षकाः यजमानाद्याः ऋत्विजः सभ्याश्च यज्ञेषु क्रियमाणेषु सत्सु शवसा कठिणब्राह्मणखण्डार्थकथनरूपकर्मनिर्णयाख्यग्रन्थश्रवणजनितसुखेन प्रमदन्ति प्रकर्षेण सन्तोषं कुर्वन्तीति । छन्दःखण्डार्थवादी जितकुमतिकुल इत्यणुमध्वविजयवचनात्प्रसिद्धोऽयमर्थः ।। इममेवार्थमभिप्रेत्याह ।। यदिति ।। यदित्यस्यैवार्थकथनं यत इति ।। ६६६–६६८ ।।
सत्यप्रमोदटीका
मरुत्सूक्तगतं ‘मध्वो वो नाम मारुतं यजत्राः प्रयज्ञेषु शवसा मदन्ति । ये रेजयन्ति रोदसी चिदुर्वीं पिन्वनन्त्युत्सं यदयासुरुग्रा’ इति सुस्पष्टश्रुतिं व्याख्याति यदिति यत् यतः । ये वायोरवताराः त्रयः । चित् एव । उर्वीं उत्कष्टे । रोदसी द्यावापृथिव्यौ । रेजयन्ति भूषयन्ति ‘भूषितभूमिभागः’ इत्युक्तेः।अवनीं पावनतां नयन्तौ इति च।।६६६–६६८ ।।
युक्तिमल्लिका
पिन्वन्ति पालयन्त्युत्समुत्सुकं स्वपदाम्बुजे ।
पिविंमिविञ्चयुद्धातुं सेचनेऽर्थेऽनुशासते ।
पालनञ्चाखिलैरिष्टैः सेचनं यद्विदुर्बुधाः ।। ६६९ ।।
सुरोत्तमटीका
पिन्वन्तीत्यतः पूर्वं तत इति ग्राह्यम् । यद्यस्मात् ।। ६६९ ।।
सत्यप्रमोदटीका
उत्सं उत्सुकं स्वपदाम्बुजे इति योग्यतया सम्बन्धः । पिन्वन्ति उदाहृतानुशासनानुसारेण सिञ्चन्ति इष्टैः पालयन्तीति यावत् ।। ६६९ ।।
युक्तिमल्लिका
बलज्ञानाख्यकार्येषु तेषु पुत्रेषु हेऽनिलाः ।
मरुतो वः प्रियं मध्वो नाम मारुतमद्भुतम् ।। ६७० ।।
यजत्रा याजकाः सर्वे यज्ञेषूक्तिविशारदम् ।
सुखेन भरिताः सन्तो दृष्ट्वा श्रुत्वा च तद्वचः ।
प्रमदन्ति प्रहृष्यन्ति कर्मनिर्णयकोविदम् ।। ६७१ ।।
सुरोत्तमटीका
मध्वोनाम मध्व इति नामवान् यः तम् ।।६७०,६७१।।
सत्यप्रमोदटीका
हे मरुतः वः युष्माकम् । गणे अग्रगण्यत्वात्प्रियम् । मध्वनामानं मारुतम् । यजत्राः यजमानाद्या ऋत्विजः सभ्याश्च । यज्ञेषु कर्मार्थश्रुतिगहनार्थभावेषु विशारदं कर्मनिर्णयग्रन्थस्य प्रणेतारं दृष्ट्वा शवसा सुखेन भरिताः । प्रमदन्ति प्रहृष्यन्ति ।। ६७०–६७२ ।।
युक्तिमल्लिका
इति श्रुतिर्यच्चरित्रं वक्त्यत्रैव प्रचारितम् ।
स मध्वो वैदिकाचार्यः सिद्धः सद्विद्वदग्रणीः ।। ६७२ ।।
सुरोत्तमटीका
अत्र भूलोक एव ।। ६७२ ।।
युक्तिमल्लिका
तदस्येति श्रुतौ प्रोक्तो विष्णोस्तु परमे पदे ।
उत्स औत्सुक्यवान्मध्वः को वा सिद्धो निगद्यताम् ।
मध्वश्रुतेर्विष्णुभक्तिलिङ्गाच्चासौ गुरुर्हि नः ।। ६७३ ।।
यतः श्रुत्योरुक्रमस्य स हि बन्धुरितीर्यते ।
ततस्तं सा गुरुं मुख्यप्राणरूपं न्यरूरुपत् ।। ६७४ ।।
सुरोत्तमटीका
तदस्येति श्रुतावित्यनेन तदस्य प्रियमभिपाथो अश्यां नरो यत्र देवयवो मदन्ति । उरुक्रमस्य सहि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः इति श्रुतिं गृह्णाति । अयमर्थः । प्रियं सकलश्रुतिस्मृतीनां तत्प्रवर्तक-मुनीनां च हर्षकरं, तत् अकाले मृत्युमथनमित्यादौ प्रसिद्धम् । अस्य नारायणस्य अभिपाथः अभितः सर्वाङ्गेषु सम्बद्धं पाथ उदकं शिरआदि-सर्वाङ्गेष्वभिषिक्तं तीर्थोदकमित्यर्थः । नरः अहं अश्यां पानं कुर्याम् । अन्तः-शुद्धेरेव मुख्यत्वादश्यामित्युक्तम् । यत्र विष्ण्वङ्गसम्बन्धेनातिपाविततीर्थे । देवयवः ब्रह्मरुद्राद्या देवाः वैदिको देवपदपर्यायो देवयुशब्दोऽयम् । देवं नारायणं परिवारतया सदा युञ्जन्तीति व्युत्पत्त्या वा देवयवः । मदन्ति हर्षं कुर्वन्ति । देवानामपि पानादिना हर्षकरे विष्णुपादोदके मनुष्याणां कैमुत्य-द्योतनायेदमुदितम् । एवं च ब्रह्मादिमनुष्यान्तसकलवैष्णवानां विष्णुपादोदक-प्राशनं विहितमिति श्रुतेरभिप्रायः । अत एव अश्यामिति लुङ् । देवानां विष्णुपादोदकसेवनं प्रत्यक्षेण दर्शयितुं सकलदेवोत्तममुख्यप्राणावतारमध्वस्य विष्णुपादोदके प्रीतिं प्रतिपादयितुं श्रुतेरुत्तरार्धं प्रवृत्तम् । परमे उत्तमे विष्णोः नारायणस्य पदे पादे । उत्स उत्सुकः सः प्रसिद्धः मध्वः मध्वमुनिः इत्था इत्थं पूर्वोक्तरीत्या विष्णुपादोदकप्राशनेन उरुक्रमस्य उत्कृष्टपादविक्षेपसहितस्य त्रिविक्रमस्य बन्धुर्हि । पुत्रतया शिष्यतया च बन्धुर्जातो हि । हीत्यनेना-स्मिन्नर्थे श्रुतिस्मृतिप्रसिद्धिं दर्शयति । एतदेवाभिप्रेत्याह ।। विष्णोरित्या-दिना ।। असौ श्रुतेरुत्तरार्धोक्तः गुरुर्हि वैष्णवाचार्यभूतः पूर्णप्रज्ञाचार्यो हीत्यर्थः । हिशब्देन लिङ्गश्रुत्योस्तत्रैव प्रसिद्धिं सूचयति ।। निमित्तान्तरं चाह ।। यत इति ।। सा श्रुतिः ।। ६७३,६७४ ।।
सत्यप्रमोदटीका
‘तदस्य प्रियमभिपाथो अश्यां नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः’ इति श्रुतिं व्याचष्टे यतः इत्यादिभिः । उरुक्रमस्य त्रिविक्रमस्य । बन्धुः प्रेष्ठः कुमारः शिष्यश्च । ईर्यते ‘सतो बन्धुमसति निरविन्दन्’ इति श्रुत्या ।। ६७३,६७४ ।।
युक्तिमल्लिका
यस्मिन्स्थिते स्थितोऽहं स्यां यद्गतौ च गतोऽस्म्यहम् ।
तं स्रक्ष्यामीति मन्वानः प्राणं सोऽसृजत प्रभुः ।। ६७५ ।।
इत्याहोपनिषद्यस्मात्तस्मात्प्रियकुमारकः ।
प्राण एव हरेर्बन्धुः स एवात्रापि कीर्त्यते ।। ६७६ ।।
सुरोत्तमटीका
ननु विष्णुबन्धुत्वोक्तावपि मुख्यप्राणस्यैवात्र कुतः प्राप्तिरित्यत आह ।। यस्मिन्निति ।। अनेन कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्स्थिते प्रतिष्ठास्यामीति सप्राणमसृजतेति श्रुतिं गृह्णाति । अत्र उरुक्रमस्य सहि बन्धुरिति श्रुतौ ।। ६७५,६७६ ।।
सत्यप्रमोदटीका
बन्धुशब्देन मुख्यबन्धुरेवात्र ग्राह्या इत्यत्र श्रौतयुक्तिं दर्शयति यस्मिन्निति । उपनिषद् ‘स प्राणमसृजत्’ इति रूपा । तस्मात् प्रधानाङ्गत्वात् ।। ६७५, ६७६ ।।
युक्तिमल्लिका
मुख्यस्यैव ग्राह्यतया तथा श्रौतसमाख्यया ।
हिशब्दोदितया विद्वत्प्रसिद्ध्या चापरो न सः ।। ६७७ ।।
सुरोत्तमटीका
तत्र निमित्तत्रयं सङ्गृह्याह ।। मुख्यस्येति ।। अन्येषां बन्धूनां सद्भावेऽपि मुख्यस्य मुख्यबन्धोरेव ग्राह्यतयेत्यर्थः । श्रौतसमाख्यया कस्मिन्न्वहमिति समाख्ययेत्यर्थः । विद्वत्प्रसिद्ध्या पूर्णप्रज्ञस्यैव मध्वत्व-प्रसिद्ध्येत्यर्थः।।६७७ ।।
सत्यप्रमोदटीका
अत्र युक्तित्रयं संगृह्णाति मुख्यस्येति ।। ६७७ ।।
युक्तिमल्लिका
देवानां प्रायपठितो देवश्रेष्ठो भवेदयम् ।
धर्मनिर्णयभूमित्वाद्बन्धुत्वाच्च महाप्रभोः ।। ६७८ ।।
सुरोत्तमटीका
निमित्तान्तरं चाह ।। देवानामिति ।। ६७८ ।।
सत्यप्रमोदटीका
देवानां देवयुशब्दितानाम् । धर्मः विष्णुपादोदकस्य वैष्णवैः सेवनीयत्वरूपः । निर्णयः स्वयमनुष्ठानेन प्रतिष्ठापनम् ।। ६७८ ।।
युक्तिमल्लिका
किञ्चेत्थेति पदाद्यत्र देवा देवयुसंज्ञिताः ।
यद्युञ्जन्ति परं देवं परिवारतया सदा ।
मदन्ति तत्र विष्ण्वङ्गाभिषिक्ते तीर्थ पाथसि ।। ६७९ ।।
सुरोत्तमटीका
यस्मात् तस्मात् देवयुसंज्ञिता इति सम्बन्धः । तत्र विष्णुपादोदके ।। ६७९ ।।
सत्यप्रमोदटीका
इत्था मध्वस्य आचरणप्रकारमनुसृत्य संज्ञायां योगं चाह यदिति पानेन हृष्यन्ति । अतः कैमुत्येन नरैः सेव्यत्वं सिध्यति । पाथसि विष्णुपादोदके । प्रोक्तः ‘अपिबदलवबोधो विष्णुपादोदकं तत्’ इति ।। ६७९, ६८० ।।
युक्तिमल्लिका
नित्यं सोऽशनवान्प्रोक्तस्तेन चानन्दतीर्थताम् ।
स्पष्टीकरोति वेदोऽसौ तस्य मध्वाख्ययोगिनः ।। ६८० ।।
सुरोत्तमटीका
समध्वः नित्यमशनवान्प्रोक्तः । तेन कारणेन । असौ सहि बन्धुरित्थेति वेदः । तस्य मध्वाख्ययोगिनः आनन्दतीर्थतां स्पष्टी-करोतीति सम्बन्धः ।। ६८० ।।
युक्तिमल्लिका
आनन्दरूपस्य हरेस्तीर्थं यस्य स एव हि ।
आनन्दतीर्थनामा स्यात्तस्माच्चास्मद्गुरुर्भवेत् ।
अतः श्रुतिरियं सूते मध्वरूपं गुरुं मम ।। ६८१ ।।
सुरोत्तमटीका
इत्थेति पदेन विष्णुपादोदकसेवित्वसूचनेऽपि कथं भवदभिमतानन्दतीर्थस्यैव लाभ इत्यत आह ।। आनन्दरूपस्येति ।। तस्मात् उक्तरीत्या इत्थं पदसत्त्वाच्च इत्थेति पदेन उत्तरार्धोक्तमध्वस्य विष्णुपादतीर्थ-सेवित्वस्य सूचनात् तच्च आनन्दरूपस्य हरेः साक्षाच्चरणतीर्थं यस्यासाविति व्युत्पत्त्या आनन्दतीर्थपदवाच्ये अस्मद्गुरावेव सम्भवतीति भावः । इयं श्रुतिः श्रुत्यभिमानिमहालक्ष्म्या मत्कुमारमध्वस्यैवात्र प्रतिपादनं भवेदिति बहुविध-निरवकाशयुक्तेः सूचनाय सूत इत्युक्तम् ।। ६८१ ।।
सत्यप्रमोदटीका
स्पष्टीकरणप्रकारमाह आनन्देति । सूते निर्धारयति । यद्वा श्रुतिः श्रीभूदुर्गारूपा अभिमानिनी । ‘दशप्रमतिं जनयन्त योषणः’ इत्युक्तेः । अत्र सूते इत्यस्य मुख्यार्थलाभः ।। ६८१ ।।
युक्तिमल्लिका
बत्थिेति श्रुतिर्वायोर्देवस्य प्रथमं वपुः ।
द्वितीयञ्च तृतीयञ्च वक्ति वाक्यत्रये क्रमात् ।। ६८२ ।।
सुरोत्तमटीका
बत्थिेति वर्गस्थायां यदीमनुप्रदिव इति ऋच्यपि वाय्वाख्यमध्वविषयतापूर्वसङ्गत्यापि प्रसिद्धेत्याह ।। बत्थिेति श्रुतिरिति ।। सहसो वेगवतो देवस्येति प्राथमिकवाक्ये वायोः स्पष्टं प्रस्तुतत्वात् वायो-रित्युक्तम् । यदीमुपह्वरते साधते मतिर्ऋतस्य धेना अनयन्त सस्रुतः । पृक्षोवपुः पितुमान्नित्य आशये द्वितीयमा सप्तशिवासु मातृषु । तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषण इति वाक्यत्रये यद्यपि प्रथमवाक्ये प्रथममिति पदं नास्ति तथाप्युत्तरवाक्यद्वये द्वितीयतृतीयपदसद्भावेन तद्बलात्पूर्ववाक्येऽपि प्रथममिति पदम् ऊह्यमिति भावः ।। ६८२ ।।
सत्यप्रमोदटीका
‘‘यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं’ इति भगवत्पादोक्तिं समर्थयते बत्थिेति । वायोः ‘सहसो वेगवतः’ इति विशेषणबलान्मूलरूपस्य ।। ६८२ ।।
युक्तिमल्लिका
तच्च प्रसिद्धसन्त्यागायोगादन्याप्रसिद्धितः ।
तत्त्ववाद्युदितं रूपत्रयमेवेति मे मतिः ।। ६८३ ।।
सुरोत्तमटीका
तत् वायोरूपत्रयं प्रसिद्धसन्त्यागायोगात् वायोरवतार-त्रयतया प्रसिद्धस्य हनुमद्भीममध्वाख्यस्य रूपत्रयस्य संत्यागायोगात् ।।६८३।।
सत्यप्रमोदटीका
‘न चाविरोधे प्रसिद्धः परित्यज्यते’ ‘न च प्रसिद्धार्थं विनाऽन्योऽर्थो युज्यते’ इति भाष्योक्तिमनुरुध्याह तच्चेति
।। ६८३ ।।