यस्यर्चो मध्वनामाङ्काश्श्लोकानेकादशागृणन्


 

वायोरवतारवर्णकपुराणवाक्यानि

युक्तिमल्लिका

यस्यर्चो मध्वनामाङ्काश्श्लोकानेकादशागृणन् ।

स मध्वो वैदिकाचार्यो गुरुर्जयति दुर्जनान् ।। ७१३ ।।

सुरोत्तमटीका

 यस्य मध्वस्य ऋचः पूर्वोक्ताः मध्वनामाङ्काः, मध्व इति नाम्नः अङ्को यासु ताः । एकादश पवमानपूयमानस्थाः सप्त, अन्यत्र विद्यमानाश्चतस्रः । एवमेकादश ।। ७१३ ।।

सत्यप्रमोदटीका

 एकादश ऋचः अगृणन् इति सम्बन्धः । वैदिकः वेदप्रतिपाद्यः आचार्यः तदर्थोपदेशकश्च गुरुः मुख्यः ।। ७१३ ।।

युक्तिमल्लिका

वायोर्दिव्यानि रूपाणि पद्मत्रययुतानि च ।। ७१४ ।।

त्रिकोटिमूर्तिसंयुक्तस्त्रेतायां राक्षसान्तकः ।

हनुमानिति विख्यातो रामकार्यधुरन्धरः ।। ६१५ ।।

स वायुर्भीमसेनोऽभूद् द्वापरान्ते कुरूद्वहः ।

कृष्णं सम्पूजयामास हत्वा दुर्योधनादिकान् ।। ७१६ ।।

सुरोत्तमटीका

 वायोरवतारप्रतिपादकवायुपुराणवचनानि सङ्गृह्णाति ।। वायोर्दिव्यानि रूपाणीत्यादिना ।। वायोः मूलरूपवायोः । पद्मत्रययुतानि दिव्यानि रूपाणि विष्णोः सेवार्थं सन्तीत्यर्थः । पद्मं महापद्ममिति सङ्ख्या-विशेषस्य नाम ।। ७१४–७१६ ।।

सत्यप्रमोदटीका

 वायुपुराणवचनानि तदवतारप्रतिपादकानि सङ्गृह्णाति वायोरित्यादिना । पद्मेति सङ्ख्याविशेषः । चशब्दः पूर्वोक्ता न केवलं त्रय इत्यर्थकः ।। ७१४–७१६ ।।

युक्तिमल्लिका

द्वैपायनस्य सेवार्थं बदर्यां तु कलौ युगे ।

वायुश्च यतिरूपेण कृत्वा दुःशास्त्रखण्डनम् ।। ७१७ ।।

सुरोत्तमटीका

 व्रतिरूपेण आस्ते इति शेषः । कृत्वा दुश्शास्त्र-खण्डनमित्येतदन्तं वाक्यं भागान्तरस्थम् । ततः कलियुगे प्राप्त इति सार्धस्तु वायुपुराणे मध्वमहिमप्रतिपादकाध्यायस्थ इति विवेको द्रष्टव्यः ।। ७१७ ।।

सत्यप्रमोदटीका

 कृत्वा आस्ते इति शेषः ।। ७१७ ।।

युक्तिमल्लिका

ततः कलियुगे प्राप्ते तृतीयो मध्वनामकः ।

भूरेखादक्षिणे भागे मणिमद्गर्वशान्तये ।

धिक्कुर्वंस्तत्प्रभां सद्योऽवतीर्णोऽत्र द्विजान्वये ।। ७१८ ।।

इत्याद्याः सूक्तयो वायुपुराणस्थाः सहस्रशः ।

अवतारत्रयं वायोः कथयन्ति महात्मनः ।। ७१९ ।।

सुरोत्तमटीका

 तत्प्रभां भूमावुत्पन्नमणिमन्नामकदैत्यस्य विद्याख्यप्रभाम् ।। ७१८,७१९ ।।

सत्यप्रमोदटीका

 भागान्तरगतं वाक्यं तत इति । तत्प्रभाम् अप्रांशुनूत्नोपपदाधिवासजस्य अहङ्कारं पादतलोटजरचितदुर्भाष्यं च

।। ७१८, ७१९ ।।

युक्तिमल्लिका

अतः श्रुतिस्मृतिस्तुत्यचित्रचारित्रविस्तृतेः ।

मध्वस्यैव मतं युक्त्याऽन्वितं परममङ्गलम् ।। ७२० ।।

सुरोत्तमटीका

 अतः उक्तयुक्तिश्रुतिस्मृतिमूलत्वात् ।। ७२० ।।

सत्यप्रमोदटीका

 अतः मन्त्रवर्णैः अनुवर्णनीयत्वात् ।। ७२० ।।