आचार्यः पवनोऽस्माकमाचार्याणी च भारती । देवो नारायणः श्रीशो देवी मङ्गलदेवता

गुरुदेवतास्मरणम्  
युक्तिमल्लिका

आचार्यः पवनोऽस्माकमाचार्याणी च भारती ।

देवो नारायणः श्रीशो देवी मङ्गलदेवता ।। ९९९ ।।

सुरोत्तमटीका

भारत्याः भारतीपतेः, लक्ष्म्याः लक्ष्मीपतेश्च कृपया अस्य ग्रन्थस्य साधितत्वात् तान् सर्वान् स्वस्य गुरुत्वेन देवतात्वेन च स्तुवन् अन्ते वाचनिकं च मङ्गलमाचरति ।। आचार्य इति ।। ९९९ ।।

सत्यप्रमोदटीका

ग्रन्थस्य परममाङ्गलिकत्वसिद्धये अन्तेऽपि पुन-र्गुरुदेवतास्मरणरूपं मङ्गलमाचरति आचार्य इति । निरुपपदशब्देन आचार्य-वर्यत्वमाह ‘यथावद्व्याचिख्यासुर्भगवानाचार्यवर्यः’ इति तत्त्वप्रकाशिकोक्तेः । पवन इति निर्देशेन मध्वस्य मारुततृतीयावतारतायाः सौरभेऽस्मिन्नुदाहृत सुबहुलश्रुतिस्मृतिसिद्धतां स्मारयति । अनेन ‘आचिनोति हि शास्त्रार्थं आचारे स्थापयत्यपि स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते’ इति प्रमाणोक्तस्य आचार्यपदप्रवृत्तिनिमित्तस्य वायावेव मुख्यतः सद्भावमाह । आचार्याणी आचार्यस्य स्त्री । आनुक् ङीष् च । भरत प्रकाशरूपे विष्णौ नित्यनिरतो वायुः । तस्य पत्नी भारती एतद्ग्रन्थाभिमानिनी सकलवचनचेतोदेवता । साक्षात् देव इति सम्बन्धः । अग्निर्वै देवानामवमः विष्णुः परमः’ इति श्रुतेः देवोत्तम इत्यर्थः । ‘उद्भवः क्षोभणो देव’ इति सहस्रनामसु पाठात् । यद्वा साक्षाद्देवः एतद्ग्रन्थप्रधानप्रतिपाद्यः । ‘अत्र देवशब्दो देवतापर्यायः प्रतिपाद्य-देवतामाह’ इति प्रमेयदीपिकोक्तेः । साक्षादित्येतद्देहलीदीपन्यायेन देवीत्य-नेनापि सम्बध्यते । परमात्मनः प्रधानप्रतिबिम्बभूता । ‘आभासकात्वथ रमा’ इति भगवत्पादोक्तेः । मङ्गलदेवता स्वयं नित्यमाङ्गल्याश्रया । कटाक्षमात्रे-णेतरेषां माङ्गल्यप्रदा च । यथोक्तं ‘यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता स्यात्कमले तथा ते । कण्टाक्षसंस्पर्शनतो जनानाममङ्गलानामपि मङ्गलत्व-मि’ति । ‘देवी भाग्यात्मिका नृणामि’ति भगवत्पादोक्तेश्च । देवता-स्तुतिमात्रपरत्वादस्य पद्यस्य क्रियाभिसम्बन्धाभावो न दोषाय ।। येषां सानुग्रहप्रेरणयैव एवमीदृशी ग्रन्थमाला निरमायि तत्संस्मरणमात्रस्यैव परम-माङ्गलिकत्वादिति भावः ।। अनेन ग्रन्थस्य समर्पणं भारतीरमणमुख्यप्राणद्वारा मङ्गलदेवीरमणे श्रीहयग्रीवरूपे देवोत्तमे नारायणे इत्यपि निरूपितम् ।।९९९।।