यथोल्मुकाद्विष्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात्

यथोल्मुकाद्विष्फुलिङ्गादितिश्लोकार्थः

 युक्तिमल्लिका

यथोल्मुकाद्विष्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् ।

अप्यात्मत्वेनाभिमताद्दाहकोग्निः पृथङ्मतः ।। ४०३ ।।

भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात् ।

आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञितः ।। ४०४ ।।

सुरोत्तमटीका

 इदानीं तृतीयस्कन्धे कपिलाख्याने विद्यमानविस्पष्टभेद-वचनमुद्धरति ।। यथेति ।। उल्मुकात् अङ्गारात् । स्वसम्भवात् स्वस्मादग्ने-स्सम्भवो यस्य सः । अनेन जन्यजनकभावरूपभेदकधर्मं सूचयति । आत्मत्वेन अग्नित्वेन । वह्निना दह्यमानकाष्ठादिष्वयमग्निरिति लोकस्याभिमानादिति भावः। दाहक इत्यनेन तत्रापि दाह्यदाहकभावरूपभेदकधर्मं सूचयति । मतः विवेकिनां सम्मतः । उल्मुकविष्फुलिङ्गयोस्सकाशाद्दाह्यदाहकभावेन पृथक् धूमाज्जन्यजनक भावेन पृथगिति विवेकः । प्रधानात्प्रकृतेः । जीवसंज्ञिता-च्चैतन्यात् । आत्मा व्याप्तः । द्रष्टा साक्षी भगवान्षड्गुणैश्वर्यपरिपूर्णः । ब्रह्मसंज्ञितः पूर्णगुणसंज्ञितः । द्रष्टृत्वं जडभेदकम् । अन्यज्जीवभेदकं तथोल्मुकादिव भूतेन्द्रियान्तःकरणात्पृथक् । विस्फुलिङ्गादिव प्रधानात्पृथक् । धूमादिव जीवात्पृथगिति भगवानप्यग्निरिव त्रितयादपि पृथगिति योजना । वस्तुतस्तु चेतनाचेतनात्मक जगतो भिन्न इति भावः ।। ४०३,४०४ ।।

सत्यप्रमोदटीका

 यथेत्यादिश्लोकद्वयं (भा.तृ.३९ अ.श्लो.३९,४०) कपिलाख्याने विद्यमानं तत्र पूर्वश्लोके— ‘यथा पुत्राच्च वित्ताच्चे’त्यत्र देहात्मनोः स्फुटतरं विवेकः समर्थितः । अत्र ब्रह्मणः प्रकृतिप्राकृताभ्यां जीवाच्च भेदः सोपपत्तिकं समर्थ्यते । ‘अप्यात्मत्वेनाभिमतात्’ इति विमतिः सूचिता । उत्तानदृशां अभिन्नत्वेन प्रतीयमानादित्यर्थः । विमतं ब्रह्म, तद्विरुद्धधर्माधिकरणत्वात् यथाऽग्निः उल्मुकात् । न चासिद्धिः । ब्रह्मणो द्रष्टृत्वात् भूतेन्द्रियादेश्चातथात्वात् । नापि दृष्टान्तः साधनविकलः । अग्नेर्दाहकत्वात् । उल्मुकस्य दाह्यत्वात् । एवं ब्रह्म प्रधानभिन्नं तत एव तद्वदेव । जीवसंज्ञितात् ‘अहमित्येव यो वेद्यः स जीव इति संज्ञितः । स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः’ इति श्रुत्या साक्षिप्रत्यक्षेण च बन्धदुःखाधिकरणात् । आत्मा अन्तर्यामी । ‘यो विज्ञाने तिष्ठन् एष ते आत्माऽन्तर्यामी’ इति श्रुतेः । द्रष्टा सर्वज्ञः । ‘न हि द्रष्टुर्दृष्टेः विपरिलोपो विद्यते’ इति श्रुतेः । ब्रह्मसंज्ञितः– ‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणाः’ इति श्रुतेः गुणपूर्णः । जीवस्त्वनेवंविधः प्रमितः । तथाच प्रयोगः जीवब्रह्मणी, पृथक्, उक्तरूपविरुद्धधर्माधिकरणत्वात् अग्न्युल्मुकवत् इति । एवं स्वसम्भवादित्युक्तं जन्यजनकभावरूपविरुद्धधर्माधिकरणत्वं प्रयोग-त्रयेऽपि हेतुरनुसन्धेयः ।। न चानुमानानां अप्रयोजकता । प्रकृतिप्राकृतानां परमात्माधीनत्वस्य ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्’ इत्यादि श्रुतिप्रमितत्वात् । एवं जीवस्येशाधीनत्वस्य भिन्नोऽचिन्त्यः परमो जीवसङ्घात्’ इति सोपपत्तिकश्रुतिनिर्णीतत्वात् । न च भेदस्यापारमार्थिकत्वम् । ‘पृथ-गात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ।’ इति तज्ज्ञानस्य मोक्षहेतुत्वोक्तेः ।। ४०३,४०४ ।।

युक्तिमल्लिका

तृतीयस्कन्धगैषा वाग्जडाज्जीवात्पृथक्कृतम् ।

अद्वितीयश्रुतेरर्थं तृतीयं ब्रह्म शंसति ।। ४०५ ।।

सुरोत्तमटीका

 अनेनैव वाक्येन प्रयोजनान्तरं च सिद्धमित्याह ।। तृतीयस्कन्धेति ।। एषा वाक् जडाज्जीवात्पृथक्कृतम् । अत एव तृतीयं ब्रह्म अद्वितीयश्रुतेरर्थं शंसतीति योजना । नेति नेत्यात्मा गृह्य इति श्रुत्या नञ्द्वयेन जडं न जीवो नेति आत्मनस्तृतीयकोटौ प्रवेशनवत् मयापि परमात्मन-स्तृतीयकोटौ प्रवेशनात् एकमेवाद्वितीयमिति श्रुतिरपि मत्समाख्यया ब्रह्म द्वितीयं न किं तु तृतीयमेवेति ब्रह्मणस्तृतीयकोटौ प्रविष्टत्वमेव वक्ति न तु द्वितीयाभावमिति स्वविरुद्धैक्यवचनस्य गतिकथनपूर्वकमनया वाचा भगवति जीवजडभेदस्साधित इति भावः ।। ४०५ ।।

सत्यप्रमोदटीका

 अनेनैव भागवतश्लोकेन ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुतेर्मायावादिकल्पितः ऐक्यपरः अर्थोऽप्यपहसित इत्याह तृतीयेति ।। जडात् विजातीयात् । जीवात् सजातीयात् । मायावादिनो हि अत्र वाक्ये एवकारेण सजातीयभेदः निषिध्यते, अद्वितीयशब्देन च विजातीयभेदः इत्याहुः । इह च भागवते जीवजडाच्च भेदः सुदृढतया समर्थितः । तत्कथमिवाद्वितीयश्रुतिः भेदं निषेद्धुं शक्नुयादिति भावः । का तर्हि अद्वितीयश्रुतेरेतच्छ्लोकानुगुणोऽर्थ इत्यत आह तृतीयमिति । अनेन अद्वितीयपदं न प्रसज्यप्रतिषेधार्थकं किन्तु न द्वितीयं किन्तु तृतीयं इति पर्युदासार्थकमेव व्याख्येयं इति भावः ।।४०५।।

युक्तिमल्लिका

तस्माद्भेदमभेदोक्तेरर्थं चाहेति मे मतिः ।। ४०६ ।।

सुरोत्तमटीका

 एतदेव विशदयति ।। तस्मादिति ।। तस्मादुक्त-विधयाऽर्थद्वयस्यापि लाभात् ।। ४०६ ।।

सत्यप्रमोदटीका

 तस्मादिति एवमर्थान्तरस्यापि सम्भवादिति भावः । अभेदोक्तेः अभेदपरतयाऽद्वैतिभिरभिमतोक्तेः । भेदमर्थं चेति योजना । चशब्देन, प्रसज्यप्रतिषेधार्थकत्वाश्रयणेऽपि ‘अद्वितीयपदस्य सजातीयवस्त्वन्तरनिषेध-परत्वात्’ इति वादावल्युक्तमर्थं समुच्चिनोति ।। ४०६ ।।

युक्तिमल्लिका

अप्यात्मत्वेनाभिमतादित्यज्ञान्यभिमानजाम् ।

अश्रद्धेयामैक्यबुद्धिं गर्हार्थोऽपिरगर्हयत् ।। ४०७ ।।

सुरोत्तमटीका

 दृष्टान्ते आत्मत्वेनाभिमतादपीत्युक्तया दार्ष्टान्तिकेऽपि ब्रह्मत्वेनाभिमतादपीति सिद्ध्यति । अन्यथा तथेत्युक्तदृष्टान्तसाम्याभाव-प्रसङ्गात् । निषेधस्य प्रसक्तिपूर्वकत्वनियमाच्च । ततश्चेदं सिद्धमित्याह ।। अपीति ।। अज्ञान्यभिमानजां अज्ञानिनां अद्वितीयं ब्रह्मेति श्रुत्या ब्रह्मणि जीवजडाभेदं वदतां मायावादिनामभिमानजाम् । भागवतवाक्यसमाख्यया सम्भवद्वाक्यार्थापरिज्ञानादज्ञानिनामित्युक्तम् । अपिस्सम्भावनान्ववसर्गगर्हा समुच्चयेष्विति वचनात् गर्हार्थः अपिः । अपिरिति शब्दः ।। ४०७ ।।

सत्यप्रमोदटीका

 एवं तर्हि ‘अहं ब्रह्मास्मी’ति श्रुतेरैक्यपरतया औतिभि र्व्याख्याने किं निमित्तमित्यतस्तेषामविवेक एव निमित्तमित्याह अपीति । तदुक्तं तत्त्वनिर्णये ‘अहं ब्रह्मास्मीत्यादि तु अन्तर्याम्यपेक्षये’त्यादि । तट्टीकायां च तदेवं मुख्यामुख्यत्वाभ्यां पिण्डविषयं शब्दं अविवेकिनो बाह्येषु जीवादिष्वेव प्रयुञ्जते यथा दहतिशब्दं काष्ठे । प्राज्ञास्तु अमुख्यमंशमनादृत्य मुख्यार्थे हरौ प्रयुञ्जते’ इति । ‘सङ्घातान्न विविच्यते’ इति सप्तमस्कन्ध-तात्पर्योक्तमात्रानुसन्धेयम् । तदेतदभिप्रेत्याह अगर्हयदिति ।। ४०७ ।।

युक्तिमल्लिका

परपक्षं प्रतिक्षिप्य स्वपक्षस्थापनोद्यता ।

यदियं वाक्ततश्चैषा केषां तोषाय नेष्यते ।। ४०८ ।।

सुरोत्तमटीका

 यद्यस्मात् ।। ४०८ ।।

युक्तिमल्लिका

भगवत्त्वेन नैर्गुण्यमखण्डार्थं च संज्ञया ।

निराचष्ट ब्रह्मनिष्ठां स्पष्टमाचष्ट चान्यताम् ।

अनुवादित्वशङ्काया गर्भस्रावोऽभवत्ततः ।। ४०९ ।।

सुरोत्तमटीका

 अस्मादेव वाक्यात् मतान्तरखण्डनप्रकारमप्याह ।। भगवत्त्वेनेति ।। ऐश्वर्यादिषड्गुणपूर्णत्वेनेत्यर्थः । ब्रह्मसंज्ञित इत्यत्रोक्तसंज्ञया वाचकशब्देन सम्यङ्मुख्यतः ज्ञायते प्रतिपाद्यतेऽर्थोऽनेनेति व्युत्पत्त्या मुख्य-वाचकशब्द एव हि संज्ञापदेनोच्यते । अखण्डार्थम् । अखण्डस्सत्यादि-पदवाच्यसत्यत्वादिरहितः अर्थस्सत्यादि पदानामर्थो यस्मिन्वादे सोऽखण्डार्थः । तम् । ब्रह्मणि सकलशब्दलक्षणापक्षमिति यावत् । ब्रह्मनिष्ठामन्यतां स्पष्टमाचष्ट च । पञ्चम्यन्तजीवादिभ्यः प्रतियोगिभ्यो भगवान्पृथगिति भगवन्निष्ठभेदस्यैव साधनात् । ततस्तस्माद्धेतोः । अनुवादित्वशङ्कायाः भेदवाक्यस्य प्रत्यक्ष-सिद्धभेदानुवादित्वशङ्कायाः । ब्रह्मनिष्ठभेदस्यैव साधितत्वेन तस्य चास्मदादि-प्रत्यक्षाविषयत्वेनोक्तशङ्काया एवानुत्थानादिति भावः ।। ४०९ ।।

सत्यप्रमोदटीका

 परपक्षप्रतिक्षेपप्रकारमेवाह भगवत्त्वेनेति ।। संज्ञया ब्रह्मसंज्ञितः इत्यत्रोक्तेन गुणपूर्णत्वरूपपरममुख्यार्थवाचकेन संज्ञाशब्देन अखण्डार्थं सर्ववैदिकशब्दानां लक्षणया निर्विशेषचिन्मात्रपरताम् । न हि गङ्गापदलक्ष्यं तीरं गङ्गापदसंज्ञितमिति कोऽत्यनुन्मत्तो निर्दिशतीति भावः । ब्रह्मनिष्ठां ब्रह्मधर्मिकाम् । अन्यतां जीवादिप्रतियोगिकं अन्योन्याभावलक्षणं स्वरूपभेदम् । पृथगित्युक्तपृथक्त्वस्य अन्योन्याभावस्वरूपभेदापरपर्यायत्वस्य अदृश्यत्वनयाऽनुव्याख्याने समर्थितत्वादिति भावः । स्पष्टं उल्मुकादिदृष्टान्त-प्रदर्शनेन अविनाभावसमर्थनेनेति भावः । अनुवादित्वेति ।। ‘न च जीवेश्वर-भेदः सिद्ध इत्यनुवादकत्वं भेदवाक्यानाम् । आगमं विना ईश्वरस्यैवासिद्धेः’ इति तत्त्वनिर्णयोक्तेरिति भावः ।। ४०९ ।।

युक्तिमल्लिका

तत्त्वसङ्ख्यानकार्याय योऽवतीर्णो महीतले ।

सोऽम्बां प्रत्याह नातत्वं तत्सर्वं परमार्थसत् ।। ४१० ।।

सुरोत्तमटीका

 यस्मादतत्वं नाऽह । तत्तस्मादिति सम्बन्धः । सर्वं भेदसद्गुणत्वमुख्यवाच्यत्वविरुद्धधर्मादिकम् ।। ४१० ।।

सत्यप्रमोदटीका

 कपिलोक्तेः आप्तोक्ततासाधनेन निरवकाशतामाह द्वाभ्यां तत्त्वेत्यादिना । तत्त्वदृगित्युक्त्या वक्त्रानुकूल्यं अम्बां प्रतीत्युक्त्या श्रोत्रानुकूल्यं तत्त्वसङ्ख्यानकार्यायावतीर्ण इत्युक्त्या प्रसङ्गानुकूल्यं चोक्तानि ध्येयानि ।। ४१० ।।

युक्तिमल्लिका

स्पष्टदृष्टान्तदृष्टत्वादम्बासम्बोधनत्वतः ।

तत्त्वदृक्कपिलोक्तित्वात्सेयं नैव पदाच्चलेत् ।। ४११ ।।

सुरोत्तमटीका

 शङ्कान्तरखण्डनं च सूचयन्नुक्तार्थमुपसंहरति ।। स्पष्ट-दृष्टान्तेति ।। सेयं वाक् दाहकोऽग्निः पृथगिति स्पष्टं दृष्टान्ते पृथक्पदवत्तया दृष्टत्वात् । आत्मा तथा पृथग्द्रष्टेति दार्ष्टान्तिकेऽपि अस्मादुक्तात्पृथगिति पदात् न चलेत् । पृथगिति पदं त्यक्त्वाऽपृथगिति पदच्छेदं न प्राप्नुयादित्यर्थः। तथा सति दृष्टान्तानानुगुण्यादिति भावः । उत्तरविशेषणद्वयात् । पदान्मुक्ति-पदात् । मुक्तिस्थानादिति यावत् । न चलेत् पारमार्थिकतया मुक्तिकालीनमेव भेदं प्रतिपादयेत् । न त्वमुक्तिकालीनमिति भावः ।। ४११ ।।

सत्यप्रमोदटीका

 नैव पदाच्चलेदिति निरवकाशतामाह ।। ४११ ।।

युक्तिमल्लिका

अस्पष्टहंसवाक्तस्मादस्माद्विस्पष्टवाक्यतः ।

अविनाभावमेवाह तत्सर्वमतिमङ्गलम् ।। ४१२ ।।

सुरोत्तमटीका

 अनयैव वाचा प्रयोजनान्तरं च सिद्धमित्याह ।। अस्पष्टेति ।। अस्मादिदानीमुक्तात् । तृतीयस्कन्धगत्वेन चतुर्थस्कन्धगहंस-वाक्यात् पूर्वकालीनाद्वा । यस्मादविनाभावमेवाह । तत्तस्मात्सर्वं भागवत-वाक्यमतिमङ्गलं भगवतो महिम्न एव प्रतिपादकत्वेन परममङ्गलमित्यर्थः ।।४१२।।

सत्यप्रमोदटीका

 अस्पष्टहंसवाक् ‘त्रयाणामेकभावानां यो न पश्यति वै भिदां’ इति वाक् । भिदाशब्दस्य अनेकार्थकत्वेन अस्पष्टत्वम् । वाक्यतः लोपनिमित्ता पञ्चमी । वाक्यमनुसृत्य । अविनाभावं स्थानैक्यं मत्यैक्यं वा । एवशब्देन स्वरूपाभेदं व्यवच्छिनत्ति । तत् तस्मात् । सर्वं भागवतवाक्यम् । अतिमङ्गलं परममङ्गलस्य विष्णोः महिम्न एव प्रतिपादकम् ।। ४१२ ।।