लक्षणस्य तटस्थत्वकथापि व्याहता तव

यतइत्यत्रपञ्चम्याउपादानार्थत्वनिरासःलक्षणस्यतटस्थत्वदूषणम्

युक्तिमल्लिका

लक्षणस्य तटस्थत्वकथापि व्याहता तव ।

यद्व्याप्तं लक्ष्यमात्रे स्यादलक्ष्ये नैव वृत्तिमत् ।। १४८ ।।

तल्लक्षणं नास्य साधारणो धर्मोऽपि तत्किल ।

कथमन्यगतो धर्मो लक्षणं स्यात्तदीर्यताम् ।। १४९ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि लक्षणताटस्थ्यं दूषयति ।। लक्षण-स्येति ।। तव तटस्थत्वकथेति सम्बन्धः । तामेव व्याहतिं दर्शयितुं लक्षणस्वरूपं निरूपयति ।। यद्व्याप्तमिति ।। यद्वस्तुलक्ष्यमात्रे सकललक्ष्येषु । अलक्ष्ये लक्ष्यादतिरिक्ते । वृत्तिमद्वर्तमानम् । तल्लक्षणं तदेवलक्षणम् । अस्य घटादे-र्धर्मिणस्साधारणः इतरसाधारणः द्रव्यत्वपृथिवीत्वादिः । तल्लक्षणं न किलेति सम्बन्धः । अतिव्याप्तत्वादिति भावः । एवमेकशफत्वं रक्तघटत्वं वा असम्भवादव्याप्तत्वाच्च न लक्षणमित्यप्यनुसन्धेयम् । अस्त्विदं लक्षणं प्रकृते-किमागतमित्यत आह ।। कथमिति ।। अन्यगतः ब्रह्मणोन्यस्मिन्जडेऽ-ज्ञानेस्थितः धर्मः जगदुपादानत्वम् । ब्रह्मणि सर्वथाऽभावेनासम्भवात् । अन्यत्र सत्त्वेनातिव्याप्तेश्च । अतो यदलक्षणं तदेवलक्षणमित्युक्तत्वाद्व्याहतिः । अन्यथा घटस्याप्यातानवितानात्मकत्वं लक्षणं स्यादिति भावः ।। १४८,१४९ ।।

सत्यप्रमोदटीका

 तटे ब्रह्मान्ये अज्ञाने विद्यमानं, ब्रह्मण्यविद्यमानं, तटस्थलक्षणमिति परेणाभिप्रेयते । तदेतद् व्याहतमिति प्रतिजानीते लक्षणेति । तत्समर्थनाय ‘यो धर्मो लक्ष्ये व्याप्त्या वर्तते न वर्तते चान्यत्र स धर्धो-लक्षणमित्युच्यते’ इति पद्धत्युक्तं लक्षणस्वरूपं अनुवदति यदिति । त्वदुक्तं तु सपथतदन्यथाभूतं अलक्षणमेवेत्याह कथमिति ।। १४८,१४९ ।।

युक्तिमल्लिका

काकोऽपि हि गृहस्थस्य गृहस्थो बोधयेद्गृहम् ।

गते तस्मिंस्तेन कृतमुत्तृणत्वं हि बोधकम् ।। १५० ।।

सुरोत्तमटीका

 ननु यथाकाकवद्देवदत्तगृहमित्यत्रान्य साधारणोपि काक उपलक्षणं तथेहापि स्यादित्यत आह ।। काकोऽपीति ।। गृहस्थस्य गृहमेधिनोदेवदत्तस्य गृहस्थः गृहेस्थितः । काकोपि हि देवदत्तगृहे यदा तिष्ठति तदैवोपलक्षको नतु गृहान्तरस्थितः । सोपि गोर्गोत्वमिव न लक्षणं किं तूपलक्षणमेव । तथासति काकवदिति पदप्रयोगस्यैवायोगादिति भावः । तस्मिन्काके । तेन गृहाद्गतेन काकेन । उत्तृणत्वं ऊर्ध्वं गतं तृणं यस्य तत् तस्य भावः उत्तृणत्वम् । बोधकं देवदत्तगृहस्य ज्ञापकम् । यदा काको देवदत्तगृहे तिष्ठति तदा गृहान्तरे च न । एवं चासाधारणत्वात्स एव तदा-बोधकः । गृहान्तरङ्गतस्तुस एव काको न पुनर्लक्षकः । तत्र तस्मिन्गृहेऽ-वर्तमानत्वमेव निमित्तम् । किं तु तेन तस्मिन्नेव गृहे कृतं यदुत्तृणत्वं तदेव पुनस्तद्गृहे लक्षकम् । तस्य तत्रैव विद्यमानत्वात् । गृहान्तरेऽभावाच्च । तदपि गृहान्तरे तेनैव काकेन कृतं चेल्लक्ष्यादन्यत्र गमनान्न लक्षकम् । एवं चात्रापि-तस्मिन्नेव गृहेविद्यमानो गृहान्तरेचाविद्यमान एव धर्मस्तद्गृहबोधक इत्यायातम् । त्वदभिलषितस्य तु ब्रह्मणि सर्वथाऽविद्यमानस्याज्ञान एव विद्यमानस्य जगदुपादानत्वस्य ब्रह्मलक्षणत्वेन किं चिन्निदर्शनमिति भावः ।। १५० ।।

सत्यप्रमोदटीका

 गृहस्थः । व्यावृत्तिधीकाले गृहसम्बन्धी । बोधयेत् । इतरव्यावृत्ततयेति शेषः । एवं बोधकमित्यत्रापि । उत्तृणत्वं गृहस्थमिति लिङ्गव्यत्ययेन योज्यम् । व्यावर्तकस्य व्यावर्त्यसम्बन्धः सर्वथा व्यावृत्तिधीकाले एवापेक्षित इति हृदयम् ।। १५० ।।

युक्तिमल्लिका

कदाचिद्गुरुसम्बन्धः कुरुसम्बन्ध एव च ।

गुरोष्टीका कुरोः क्षेत्रमित्यत्रापि हि वर्तते ।। १५१ ।।

सत्यप्रमोदटीका

 गुरूणां टीका, कुरूणां क्षेत्रमित्यादावपि इयमेव गतिरित्याह कदाचिदिति । इदं च मुखतः । गुरुकृतत्वं कुरुपालितत्वं वा व्यावृत्तिधीकालेऽपि विद्यमानमेवात्रापि व्यावर्तकमित्याशयः । तेन न पूर्वोक्त-नियमभङ्गः ।। १५१ ।।

युक्तिमल्लिका

सर्वथा तदसम्बद्धस्तत्रोपकुरुते कथम् ।

महिष्याः क्षीरवत्त्वे स्याद्गोवृषस्य तु किं फलम् ।

काकस्य कार्ष्ण्याद्धवलः प्रासादस्स्यान्न चेत्तव ।। १५२ ।।

सत्यप्रमोदटीका

 अन्यथाऽतिप्रसङ्गावाह महिष्या इति । काकस्येति च ।। १५२ ।।

युक्तिमल्लिका

किं चोपलक्षणं ह्येतल्लक्षणं तु न तादृशम् ।

घटस्य लक्षणं पश्य पटस्य ब्रह्मणस्य च ।। १५३ ।।

सुरोत्तमटीका

 युक्तिरस्तीति कृत्वा सर्वमिदं चर्चितम् । वस्तुतस्तु लक्षणगुणदोषचिन्तायां नेदमुदाहरणमित्याह ।। किञ्चेति ।। एतत्काकादिकम् । लक्षणमसाधारणधर्मत्वेन सर्वैर्व्यवह्रियमाणमित्यर्थः । तादृशमुपलक्षक काकादिसदृशम् । घटस्य पृथुबुध्नोदराकारत्वम् । पटस्यातानवितानात्मकत्वम् । ब्राह्मणस्य षट्कर्मार्हत्वं च लक्षणं पश्येत्यर्थः । नहीदमीदृग्वा सर्वं लक्षणं तत्र सर्वथाऽवर्तमानमन्यत्रैवच वर्तमानं दृष्टम् । तथा सत्येकशफत्वं गोर्लक्षणं किमिति नावक्ष्यन् ।। १५३ ।।

सत्यप्रमोदटीका

 तिष्ठतु तावदुपलक्षणवार्ता । लक्षणस्थले त्वदीय-तटस्थत्वचोद्यस्यैवानवकाश इति निदर्शनैर्द्रढयति घटस्येति ।। १५३ ।।

युक्तिमल्लिका

व्यतिरेक्यनुमानं हि लक्षणं पक्षधर्मता ।

व्यावृत्तिश्च विपक्षेभ्यस्तस्य चावश्यकी न किम् ।। १५४ ।।

सुरोत्तमटीका

 ननु लक्षणस्याव्याप्त्यतिव्याप्त्यसम्भवाविधुरत्वे किं कारणमित्यतस्तद्बीजं दर्शयति ।। व्यतिरेकीति ।। हि यस्माल्लक्षणं व्यतिरेक्यनुमानम् । तस्य व्यतिरेक्यनुमानस्य पक्षधर्मता पक्षव्याप्तता । भागासिद्ध्यनैकान्तिकत्वस्वरूपासिद्धिपरिहाराय व्यतिरेकि हेतुभूतलक्षण-स्योक्तदोषत्रयवैधुर्यमावश्यकमिति भावः ।। १५४ ।।

सत्यप्रमोदटीका

 किं च लक्षणम् हेतुकृत्य खलु लक्ष्ये व्यावृत्तिः व्यतिरेकिणा साधनीया । तस्य लक्ष्यावृत्तित्वे गोः एकशफत्वमित्येव स्वरूपा-सिद्धिः, अलक्ष्यवृत्तित्वे शृङ्गित्वमित्यत्रेव अनैकान्तिकत्वं, लक्ष्यैकदेशावृत्तित्वे शबलमित्यत्रेव भागासिद्धिः इति दोषाः स्युः । सर्वथा त्वदभिमतं तटस्थं लक्षणमसाधकमेव स्यादित्याशयः ।। १५४ ।।

युक्तिमल्लिका

कथं सूत्राभिमतयोर्यत्तदोर्वृत्तिरुच्यताम् ।

यदुक्तलक्षणोपेतं तद्ब्रह्येति हि योजना ।। १५५ ।।

सुरोत्तमटीका

 सूत्रयोजनाऽयोगाच्च न लक्षणस्य तटस्थत्वमित्याह ।। कथमिति ।। सूत्राभिमतयोर्जन्मादिसूत्रेऽभिमतयो यत्तदोर्यच्छब्दतच्छब्दयोः । तच्छब्दस्य स्पष्टमनुक्तत्वादभिमतयोरित्युक्तम् । यत्तदोर्नित्यसम्बन्ध इति वचनात् यच्छब्दं प्रयुंजतस्तच्छब्दोप्यभिमतो भवत्येव । वृत्तिर्योजना । का इह कथंतेत्यत आह ।। यदुक्तेति ।। अस्य जन्मादि यतो भवति तद्ब्रह्मेति हि सूत्रयोजना । इयं च लक्षणस्याज्ञानगतत्वे कथं घटेतेति भावः ।। १५५ ।।

सत्यप्रमोदटीका

 जिज्ञास्यब्रह्मणे लक्षणजिज्ञासायां हि जन्मादिसूत्रं प्रवृत्तम् । तत्र यत इति यच्छब्दोक्तं ब्रह्मैव भवितुं युक्तं नैवाज्ञानं तस्याजिज्ञासितत्वेन असाङ्गत्यापत्तेरिति भावेन सूत्रयोर्योजनां दर्शयति यदिति ।। १५५ ।।

युक्तिमल्लिका

तल्लक्षणस्य ताटस्थ्ये ज्ञेयताऽपि तटे तव ।। १५६ ।।

सुरोत्तमटीका

 दोषान्तरं चाह ।। तदिति ।। तत्तस्मात् ब्रह्मणि योजनाऽयोगात् । अज्ञानस्यैव योजनीयत्वाच्च । तटेऽज्ञाने । यतो जन्मादि तदज्ञानमिति सूत्रवाक्यपर्यवसितार्थे सति प्राचीनसूत्रोक्तज्ञेयतापि तस्यैव स्यात् । अन्यथा सूत्रयोरसङ्गतेरिति भावः ।। १५६ ।।

सत्यप्रमोदटीका

 उक्तयोजनानङ्गीकारेऽसङ्गतिमाह तदिति ।। १५६ ।।

युक्तिमल्लिका

यदि लक्षणवन्मायाभ्रान्त्यधिष्ठानतैव ते ।

ब्रह्मलक्षणमाशास्यं तर्हि सूत्रकृतः प्रभोः ।। १५७ ।।

आरोपोस्या यत इति वचने का दरिद्रता ।

अन्तरा ब्रह्मसूत्राणि किमब्रह्मापि सूत्रितम् ।। १५८ ।।

सुरोत्तमटीका

 ननु जगदुपादानत्वमेव न लक्षणमुच्यते । येनोक्तदोष-स्सर्वोपि स्यात् । किं तु जगदुपादानमायारोपाधिष्ठानत्वमेव ब्रह्मलक्षण-मत्राभिप्रेतमिति शङ्कामनूद्यदूषयति ।। यदीति ।। लक्षणवत्या मायाया भ्रान्तेरारोपस्याधिष्ठानतैव । तर्हि प्रभोः कर्तुमन्यथाकर्तुं समर्थस्य सूत्रकृतः आरोपोस्या यत इति वचने सूत्रकरणे का दरिद्रतेति योजना । अल्पाक्षर-त्वादेरुभयत्र साम्यात्पूर्वोत्तरसूत्रसङ्गतेरत्राधिक्याच्चेति भावः । दरिद्रतेति वदता स्वगृहे धनरहितदरिद्रस्यैव परगृहधनाभ्यर्थनं दृष्टम् । त्वद्रीत्यैवोक्तस्वनिष्ठलक्षण सम्भवाद्ब्रह्म कुतस्स्वव्यावृत्त्यै अन्यलक्षणमर्थयत इति कल्पनेति सूचितम् । दोषान्तरं चाह ।। अन्तरेति ।। अन्तरेति मध्यवाचकमव्ययमिदम् । अन्तरान्तरेण युक्त इति वचनात् ब्रह्मसूत्राणीति द्वितीयाषष्ठ्यर्थे ब्रह्मसूत्राणां मध्य इत्यर्थः । अब्रह्म अज्ञानम् । एवं सत्यस्य सूत्रस्याज्ञानसूत्रत्वेन ब्रह्मसूत्रत्वाभावात् चकारब्रह्मसूत्राणि येषां सूत्रत्व मञ्जसेति स्मृतिविरोधश्च त्वद्व्याख्यानस्येति भावः ।। १५७,१५८ ।।

सत्यप्रमोदटीका

 त्वद्रीतेः सूत्राभिप्रेतत्वे जन्मादिसूत्रविन्यासः अन्यथैव स्यादित्याह यदिति । तदुक्तं सुधायां ‘‘तर्हि यतोऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात् । न तु जन्माद्यस्य यतस्तद्ब्रह्येति’’ इति । दरिद्रतेति स्वायत्ते शब्दप्रयोगे किमित्यमुख्यं प्रयुञ्ज्महीतिन्यायादिति भावः । सूत्राणां ब्रह्मसूत्रेत्यभिधानमेव मध्ये ब्रह्मभिन्नस्य अज्ञानस्य सूत्रणं विरुणद्धि इत्याह अन्तरेति । मध्ये इत्यर्थः ।। १५७,१५८ ।।

युक्तिमल्लिका

श्रुतेरनुसृतौ च स्यात्तटस्थं नैव लक्षणम् ।

यत्पदोदितमेवार्थं तत्पदेन हि सा जगौ ।। १५९ ।।

सुरोत्तमटीका

 जन्मादिकारणत्वं तटस्थमिति वदतः श्रुतिविरोध-मप्याह ।। श्रुतेरिति ।। यतो वा इमानि भूतानि जायन्त इति श्रुतेः । सा श्रुतिः । यत इति प्राग्जगत्कारणत्वेन यत्पदोदितं वस्तु तद्ब्रह्मेति ब्रह्मार्थक-तत्पदेन । श्रुतिर्हि यत्पदेन जगत्कारणं प्रस्ताव्य तत्पदेन तस्यैव ब्रह्मता-मब्रवीत् । अतः प्राक्प्रस्तुतं जगत्कारणमपि ब्रह्मैव श्रुतेरभिप्रेतम् । तत्त्यागे श्रुत्यननुसारित्वं च परस्यस्यादिति भावः ।। १५९ ।।

सत्यप्रमोदटीका

 आनन्दमयनये श्रुत्यनुसाख्याजेन सूत्राण्यन्यथीकृतानि मायिना । इदानीं तेन जन्मादिनये सूत्रस्यैव श्रुतेरप्यन्यथीकरणं दर्शयति श्रुतेरिति । यतो वा ‘इमानि भूतानि’ इत्यादिश्रुतौ यच्छब्दत्रयप्रस्तुतमेव अर्थं खलु तद्ब्रह्म इत्यत्र तच्छब्दः परामृशति इति स्फुटम् । मायिरीत्या यच्छब्दैरज्ञानस्य वचनाभिप्राये श्रुतावुत्तरत्र तदज्ञानं इत्येव निर्देशः स्यात् । न तु तद्ब्रह्मेति । अतः स्पष्टः श्रुति विसंवादस्तद्भाष्यस्येति भावः ।। १५९ ।।

युक्तिमल्लिका

एवं च निर्गुणत्वोक्त्या तटस्थं लक्षणं न ते ।

आरोपाधिष्ठानताख्यधर्मस्यावश्यकत्वतः ।

तटस्थमायायोगस्य बोध्यत्वादेरवर्जनात् ।। १६० ।।

सुरोत्तमटीका

 ननु निर्गुणत्वेन ब्रह्मणि लक्षणायोगात्तटस्थ लक्षणानु-सरणमित्यत आह ।। एवं चेति ।। एवं चोक्तत्वद्रीत्यैव ते मते निर्गुण-त्वोक्तयालक्षणं तटस्थमित्यपि नेति योजना । एवं चेत्युक्तां तद्रीतिमेव दर्शयति ।। आरोपेति ।। सूत्रोक्तजगदुपादानमायारोपाधिष्ठानत्वाख्य धर्म-स्यावश्यकत्वतः । तटस्थलक्षणं वदतापि अन्तेऽवश्यमङ्गीकृतत्वात् । अन्यथा लक्षणकथनस्य प्रकृतोपयोगाभावादिति भावः । आवश्यकत्वत इति वदता आरोपाधिष्ठानत्वाख्य धर्मस्यापि ब्रह्मण्यभावे निरधिष्ठान भ्रान्तेस्त्वयाप्य-नङ्गीकारात् भवदभिमतजगदारोपोपि न स्यात् । अतोप्ययं धर्मस्त्वयैवाङ्गीकार्य इति युक्तिस्सूचिता । अन्ततस्सोपि नाङ्गीक्रियत इति चेत् । सत्यम् । इदमप्यन्ततो नाङ्गीक्रियताम् । आरोपरूपकार्यनिर्वाहाय व्यावहारिकाधिष्ठान- त्वाख्यधर्माङ्गीकारवत् जगदाख्यकार्यनिर्वाहाय व्यावहारिक एव तत्कर्तृ-त्वाख्यधर्मोपि ब्रह्मण्यङ्गीक्रियताम् । तटस्थमपि लक्षणं ते मते व्यावहारिकमेव न पारमार्थिकम् । परमार्थतोपि धर्माभावपरैवास्तुनिर्गुणश्रुतिः । त्वं तु यथावस्थित सूत्रार्थकथनेन ब्रह्मज्ञानाय ब्रह्मण्येव लक्षणकथनेन चेषद्वादोषज्ञ सभायोग्यो भवेति भावः । धर्मान्तरमप्यावश्यकमित्याह ।। तटस्थ-मायायोगस्येति ।। तवमते मायायाश्चिन्मात्राश्रितत्वात्तत्सम्बन्धाख्य धर्मस्य चरमापरोक्षज्ञाने ब्रह्मणो बोध्यत्वाख्यधर्मस्य चावर्जनात् तटस्थं लक्षणं नेति पूर्वेणान्वयः ।। १६० ।।

सत्यप्रमोदटीका

 किञ्च निर्गुणश्रुतिविरोधापत्तिपरिजिहीर्षया खलु मायावादिना लक्षणस्य ताटस्थ्यमाश्रितम् । न च तद्युक्तम् । तावताऽपि श्रुतिविरोधतादवस्थ्यात् । निर्गुणं हि सकलधर्मविकलम्, असङ्गं च तेनाङ्गीकृतम् । लक्षणं च स्वरूपं वा तटस्थं वा असाधारणधर्म एव । न चेत्तेन व्यावृत्तिबुद्धिः न स्यात् ।। तथा च निर्धर्मकस्य असाधारणधर्म इति व्याघातः । लक्षणमपि तटस्थं काकादिकं लक्ष्यसम्बन्धवदेवोपलब्धम् । असङ्गाभिमतस्य ब्रह्मणस्तत्सम्बन्धोक्तिरपि व्याहतैव । श्रुतिविरोधोक्तिरपि व्याहता । निर्धर्मके तस्मिन् श्रुतिबोध्यत्वादिधर्माणामप्यसम्भवादेव । तथा च तन्मतरीत्यैव लक्षणं तटस्थमिति चोद्यानवकाश इत्याह एवं चेति ।। १६० ।।

युक्तिमल्लिका

किं च निर्गुणताध्रौव्ये लक्षणस्य तटस्थता ।

लक्षणस्य च ताटस्थ्ये निर्गुणत्वं ध्रुवं भवेत् ।

अतोऽन्योन्याश्रयः स्यान्न परमात्मपदाश्रयः ।। १६१ ।।

सुरोत्तमटीका

 निर्गुणत्व बलात् लक्षणाताटस्थ्यं वदतोन्योन्याश्रयोपि स्यादित्याह ।। किञ्चेति ।। निर्गुणताध्रौव्ये निर्गुणश्रुत्युक्तनैर्गुण्यस्य श्रुति-मुख्यार्थतयाध्रुवत्वे । गुणरूपलक्षणस्य तत्र वक्तुमशक्यत्वादिति भावः । लक्षणस्य यतोवा इमानि भूतानि जायन्त इति श्रुत्युक्तलक्षणस्य । निर्गुणत्व श्रुत्या एतच्छ्रुतिबाधे सति लक्षणरूपधर्मस्यान्यनिष्ठता । अन्यथा श्रुत्युक्तत्वा-विशेषाल्लक्षणमपि ब्रह्मण्येव ध्रुवं स्यात् । लक्षणस्याध्रुवत्वे सिद्धे एतच्छ्रुतेर-तत्वावेदकतया निर्गुणश्रुत्यबाधः । अन्यथा तवाप्यपेक्षित लक्षणप्रतिपादकतया प्रबलैतच्छ्रुतेरेव निर्गुणत्व श्रुतिबाधकतया न तदुक्तनैर्गुण्यध्रौव्यमित्य-न्योन्याश्रयः । एवं च वृथा ब्रह्मनिन्दां कुर्वतस्तवगृहांधकूपादुद्धारकाभावेन भार्याश्रयस्तव त्वदाश्रयस्तस्या इत्यन्योन्याश्रय एवाभूत् । नपरमात्मपदाश्रय इति ध्वनितार्थमादाय परिहासः ।। १६१ ।।

सत्यप्रमोदटीका

 घ्रौव्ये श्रुत्यर्थतया निश्चितत्वे । न परमात्मपदाश्रयः परमात्मेत्युदाहृतः आश्रयः । ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ इत्युक्तार्थस्य अङ्गीकारः तेन च हरेश्चरणमूलप्राप्तिश्च न स्यादिति ध्वनिः ।। १६१ ।।

युक्तिमल्लिका

श्रुतिमात्रबलोऽसि त्वं श्रुतिसूत्रबला वयम् ।। १६२ ।।

सुरोत्तमटीका

 किं चास्मच्छ्रुत्या त्वच्छ्रुनति बाध एव युक्त इति भावेनाह ।। श्रुतिमात्रेति ।। १६२ ।।

सत्यप्रमोदटीका

 बलोऽसीत्यापाततः । उक्तरीत्या श्रुतेस्त्वदभिमत-निर्गुणाबोधकत्वादेव ।। १६२ ।।

युक्तिमल्लिका

अथोपादानता प्राप्ता पाणिनेरनुशासनात् ।

सा चायुक्ता ब्रह्मणीति तटस्थं लक्षणं यदि ।

इदं च तर्हि युक्तं नेत्युत्प्रेक्षा जायते मम ।। १६३ ।।

सुरोत्तमटीका

 शङ्कान्तरमनूद्यदूषयति ।। अथेति ।। अस्मदुक्तबहिरङ्गत्व युक्त्यानिराकृतत्वाद्वाताहतम् । तेनैवच्छन्दसि विधान्तरानुशासनादप्राप्तं यत्पाणिनेरनुशासनं तस्मादित्याक्रोशप्रदर्शनाय षष्ठ्या अलुक्समासोयम् । प्राप्ताश्रुतौ प्राप्ता । सा उपादानत्वाख्यलक्षणप्रतिपादिका श्रुतिः ब्रह्मण्ययुक्तेति लक्षणं तटस्थमिति योजना । पाणिनि सूत्रबलात् भवतां श्रुतिरपि दुर्बलेति भावः । पूर्वोक्तयुक्त्या बाधितत्वात् मन्दाशङ्केयमिति ज्ञापनायाऽऽक्रोशबललब्धं विशेषणद्वयम् । इदं त्वदुक्तं प्रमेयम् ।। १६३ ।।

सत्यप्रमोदटीका

 प्राप्ता ‘यतो वा’ इति श्रुतौ त्वया प्रसञ्जिता । नतु वस्तुवृत्त्या सूत्रार्थभूता ।। १६३ ।।

युक्तिमल्लिका

व्यासस्य शासनं ज्यायः पाणिनेरनुशासनात् ।

अमुख्यमेव बाध्यं स्यान्नामुख्यान्मुख्यबाधनम् ।। १६४ ।।

सुरोत्तमटीका

 कथं युक्तं नेत्यत आह ।। व्यासस्येति ।। व्यासस्य नारायणावतारतया सर्वज्ञत्वादिति भावः । अमुख्यात् पाणिन्यनुशासना-न्मुख्यस्य व्यासानुशासनस्य बाधनं मुख्यबाधनम् ।। १६४ ।।

सत्यप्रमोदटीका

 ज्यायः भाष्यमूलत्वेन अन्तरङ्गत्वात् प्रधानम् ।। १६४ ।।

युक्तिमल्लिका

स च श्रौतमिमं धर्मं ब्रह्मण्यनुशशास हि ।

अतः पाणिनिसूत्रं तदन्यत्र स्यान्न लक्षणम् ।

जारानुसरणाज्ज्यायः पत्युः पादोपसर्पणम् ।। १६५ ।।

सुरोत्तमटीका

 सः व्यासः । इमं धर्मं जगत्कारणत्वरूपधर्मम् । श्रौतं श्रुत्या ब्रह्मण्याम्रेडितम् । अतो व्यासानुशासनस्य प्राबल्यात् । तत्पाणि-निसूत्रम् । अन्यत्र गोमयाद्वृश्चिको जायत इत्यादौ लौकिकप्रयोगे । लक्षणं ब्रह्मणोन्यत्र नगच्छेदित्यर्थः । एवं चोत्तरेवैचित्र्यात्पुनराशङ्केति भावः । व्यासानुशासनमेव ज्याय इत्यत्र लौकिकदृष्टान्तमाह ।। जारेति ।। ब्रह्मसूत्र-कर्तुर्व्यासस्य वेदान्तमतमूलाचार्यत्वादिति भावः ।। १६५ ।।

सत्यप्रमोदटीका

 अनुशशास जिज्ञास्यस्य लक्षणकथनार्थमेव सूत्र-प्रणयनादिति भावः ।। अन्यत्र शृङ्गाच्छरो जायते इति लौकिकप्रयोगेषु । स्यात् इति अभ्युपगमः । तत्रापि अविकृतस्य अपायावधिभूतभागस्यैव विभक्ति- प्रकृत्यर्थता इति भावः । लक्षणं सूत्रोक्तम् । ब्रह्मणः अन्यत्र मायायाम् । न स्यादिति आवर्तते । न गच्छति असम्भवादेवेति भावः । जारः बहिरङ्गं पाणिनिसूत्रम् ।। पत्युः ब्रह्मसूत्रस्य ।। १६५ ।।

युक्तिमल्लिका

अविकारित्वतस्तस्य नैवोपादानता मता ।

अतः कर्तैव जगतः श्रुतौ सूत्रे च कथ्यते ।। १६६ ।।

सुरोत्तमटीका

 ननूपादानत्वमेव लक्षणं भवतु तच्च ब्रह्मण्येवास्तु एवं च सूत्रद्वयमप्यनुसृतं स्यादिति तटस्थशङ्कां निराकरोति ।। अविकारित्वत इति ।। अतः उपादानत्वायोगात् ।। १६६ ।।

सत्यप्रमोदटीका

 सतः विकारिण एव चोपादानत्वं लोके दृष्टम् । त्वदभिमता माया सद्विलक्षणत्वान्नोपादानम् । ब्रह्म तु अविकारित्वादिति कर्तृत्वमेव लक्षणं श्रुतिसूत्रोक्तमित्याह अत इति ।। १६६ ।।

युक्तिमल्लिका

निष्क्रियत्वश्रुतिश्चास्य क्रियया शास्त्यलेपनम् ।

अकर्तारं हि तं प्राहुर्यः कृत्वापि न लिप्यते ।

श्रुतिसूत्रोक्तकर्तृत्वबाधाय यतते न सा ।। १६७ ।।

सुरोत्तमटीका

 निष्क्रियत्वश्रुतेरर्थान्तरमाह ।। निष्क्रियत्वश्रुतिरिति ।। अस्य ब्रह्मणः क्रियया जगत्सर्जनसंहारादिक्रियया । ओपनं पुण्यपापादिलेपा-भावम् । तत्र युक्तिमाह ।। अकर्तारमिति ।। सा निष्क्रियत्व श्रुतिः श्रुति-सूत्रोक्तं यत्कर्तृत्वं ब्रह्मकर्तृत्वं तस्य बाधाय न यतते । सूत्रसहितै तच्छ्रुतेः प्रबलत्वात् कर्मलेपाभावपरैव सा श्रुतिः । कार्यकारणशब्दाश्चान्योन्यं संकीर्यन्त इति वचनात् । क्रियाशब्दस्य स्वकार्यलेपपरत्वसम्भवादिति भावः ।। १६७ ।।

सत्यप्रमोदटीका

 भगवतः क्रियाश्रयत्वरूपकर्तृत्वे निष्क्रियत्वश्रुति-विरोध इत्यत आह निष्क्रियत्वेति । तदुक्तं गीतायां ‘तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् । न मां कर्माणि लिम्पन्ति’ इति । अक्लिष्टकारित्वाद-कर्तेत्यभिधीयते इति च वायुपुराणे । तथा च लोकविलक्षणक्रियावत्त्वा-न्निष्क्रियत्वश्रुतिरुपपन्ना । तदुक्तं गीताभाष्ये ‘वैलक्षण्यात्कर्ताऽप्यकर्ता । तथा हि श्रुतिः । विश्वकर्मा विमनाः’ इत्यादीति ।। १६७ ।।

युक्तिमल्लिका

मणिः प्रवर्तते मालाकारसन्दर्शिताध्वना ।

न चेदाकाशशब्दोक्तं परं ब्रह्म कथं वद ।

आकाशश्रुतिसामर्थ्याज्जडाकाशः कथं न सः ।। १६८ ।।

सुरोत्तमटीका

 श्रुतिस्सूत्रानुसारेण प्रवर्तत इत्यत्र लौकिकदृष्टान्तमाह ।। मणिरिति ।। प्रवर्तते सूत्रं प्रविशति । एवं श्रुतिरपि स्वोद्धारकव्यासोक्तमार्गेणैव प्रवर्तत इति भावः । विपक्षे बाधकमाह ।। नचेदिति ।। अस्य लोकस्य का गतिरित्याकाश इति होवाचेति श्रुतावाकाशशब्दोक्तं परब्रह्म कथम् । रूढि-प्राप्तलोकप्रसिद्धजडाकाशपरित्यागे आकाशस्तल्लिङ्गादिति व्यासवाक्यमेव हि कारणम् । श्रुतेर्व्यासवाक्याननुसारित्वे इदमपि न स्यादिति भावः । वदेत्यनेन त्वयाप्यस्मिन्नधिकरणे एव मवे भाषितमिति सूचयति । सः आकाशः । अत्र हि सूत्रबलादेव श्रुतेः प्रसिद्धार्थादन्यथीकरणमिति भावः ।। १६८ ।।

सत्यप्रमोदटीका

 मणिः ऋगाद्या अपरविद्याः । मालाकारः तासां विष्णौ समन्वयसमर्थनेन अक्षराधिगतिकरणत्वरूपपरविद्यात्वसम्पादकः सूत्रकारः । अध्वा उपक्रमादिन्यायः । सामर्थ्यात् अविद्वल्लोकप्रसिद्धिबलात् ।। १६८ ।।

युक्तिमल्लिका

तदानन्दमयं कोशं कर्तुं स्वेन निरूपितम् ।

गुणे त्वन्यायक्लृप्त्याख्यन्यायं स्वयमहो जहौ ।। १६९ ।।

सुरोत्तमटीका

 तत्तस्मात् आकाशाधिकरणे त्वयैव सूत्रबलेन श्रुतेरन्यथी करणात् । आनन्दमयाधिकरणे आनन्दमयं कोशं कर्तुं स्वेन निरूपितं गुणेत्वन्यायक्लृप्त्याख्यं न्यायम् । क्लृप्तिः कल्पना तद्रूपन्यायं स्वय मानन्द-मयाधिकरणभाष्यकार एव जहौ आकाशाधिकरणे त्यक्तवान् । अस्मिन्नधि-करणे गुणत्वेनाभिमतसूत्रबलेन प्रधानत्वेनाभिमतश्रुतेस्स्वेनैव बाधनात् । अतः पाणिनिसूत्रबलेन जन्मादिश्रुतिबाधं कुर्वन्नुत्तराधिकरणे च व्याससूत्रबलेना-काशश्रुतिबाधं कुर्वन्मध्ये आनन्दमयाधिकरणे श्रुत्यैव सूत्रबाधं च कुर्वन् तत्रैव प्रबलत्वेनाभिमतानन्दमयश्लोकरूपश्रुत्युपेक्षां च कुर्वन्पूर्वोत्तरज्ञानशून्यः मध्येप्यर्धजरतीयमाचरन् कथं नोन्मत्त इति भावः ।। १६९ ।।

सत्यप्रमोदटीका

 अहो आश्चर्यम् । मायिन उन्मत्तप्रलापित्वं इति शेषः । आकाशनये सूत्रस्य प्रधानत्वं श्रुतेर्गुणत्वेन तदनुसारित्वं च स्वय-मङ्गीकृत्य आनन्दनये पुनः तद्वैपरीत्येन गुणप्रधानत्वं प्रलपतः व्याहतभाषिणः कथमुन्मत्तता न स्यादिति भावः ।। १६९ ।।

युक्तिमल्लिका

प्रधाने ब्रह्मसूत्रेऽस्मिन्यदन्यायं चिकीर्षति ।

गुणभूतान्यशास्त्रार्थे बहुमानपुरस्कृतः ।। १७० ।।

सुरोत्तमटीका

 स्थलान्तरेऽपि स्वोक्तन्यायविस्मरणं दर्शयति ।। प्रधान इति ।। यद्यस्मात् । अस्मिन्जन्माद्यस्य यत इति सूत्रे अन्यायमर्थपरित्यागरूपं बाधम् । अन्यःपाणिनिः । तस्मादत्रापि स्वोक्तन्यायं स्वयमेव जहाविति पूर्वेण सम्बन्धः ।। १७० ।।

सत्यप्रमोदटीका

 अन्यत्रापि गुणप्रधानभावाकल्पने तस्य अनवस्थितत्वं स्फोरयति प्रधान इति ।। तथा च तद्रीतिः ‘मणिस्रजं वा प्लवगोऽव्यवस्थः’ इत्यभियुक्तोक्तन्यायमनुकरोतीति भावः ।। १७० ।।

युक्तिमल्लिका

स इदंसर्वमसृजतेतिश्रुतिसमाख्यया ।

कर्तृत्वमिह हेतुत्वं नोपादानत्वमिष्यते ।। १७१ ।।

वेदे वेदानुसरणं पाणिनेश्च स्थले स्थले ।

यतश्च यत इत्येतत्पदं सार्वविभक्तिकम् ।। १७२ ।।

सुरोत्तमटीका

 प्रागुक्तदूषणेषु किंचित्किञ्चिद्बुद्धावारोहाय संकलय्यानु-वदन् दूषणान्तरं चाह ।। स इति ।। अत्र श्लोकद्वयं स्पष्टम्

।। १७१,१७२ ।।

सत्यप्रमोदटीका

 स्थले स्थले इति ।। तदुक्तं गुणसौरभे ‘छन्दस्य-यस्मयादीनीत्येवं शब्दानुशास्तिकृत् । अमानयद्धि यन्मार्गं’ इति । पदं सार्वविभक्तिकतसिप्रत्ययान्तम् ।। १७२ ।।

युक्तिमल्लिका

यतोऽर्थानुपपत्तिश्च शब्दस्यानुपपत्तितः ।

प्रबला लक्षणावृत्तेर्न चेदवसरः कथम् ।। १७३ ।।

सुरोत्तमटीका

 यतः यस्मात् । शब्दस्यानुपपत्तितः पञ्चम्यन्तयतः शब्दस्यानुपपत्तितः । अर्थानुपपत्तिः । जात्येकवचनमिदम् । ब्रह्मरूपार्था सङ्ग्रहे या अनुपपत्तयः पूर्वोक्तास्ता इत्यर्थः । प्रबला अवश्यं परिहार्येत्यर्थः । नचेत् अर्थानुपपत्तेः प्राबल्यं न चेत् । लक्षणावृत्तेः प्रवाहादन्यत्रानुपपन्न गङ्गापदेनैव घोषावासत्वरूपार्थघटकतीररूपार्थप्रतिपादन रूपलक्षणावृत्तेरवसरः कथं न कथञ्चित् । शब्दानुपपत्तिं सोढ्वाप्यर्थानुपपत्तिपरिहारायैव लक्षणावृत्त्याश्रयणात् अर्थानुपपत्तिरेव प्रबलेति भावः ।। १७३ ।।

सत्यप्रमोदटीका

 यत इति ।। तदुक्तं गुणसौरभे ‘‘तत्तत्पदार्थ-सामर्थ्यानुपमर्देन शब्दतः । अर्थो बोध्यो न शब्दस्य सत्त्वादर्थोप-मर्दनमि’’त्यादौ (श्लो.८५८) अन्यथा योग्यताविरहाच्छब्दस्याप्रामाण्या-पत्तेरिति भावः । लक्षणावृत्तेरिति । ‘मुख्यार्थबाधे तद्योगे’ इति लक्षणा-बीजोक्तेः । पूर्वायोगे परग्रहः इत्यनुव्याख्यानोक्तेश्च ।। १७३ ।।

युक्तिमल्लिका

ब्रह्मजिज्ञासया प्राप्तं सुतं प्रति पिता कुतः ।

अन्यगं लक्षणं ब्रूयाद्बोध्ये ब्रह्मण्यसम्भवि ।। १७४ ।।

सुरोत्तमटीका

 उपक्रमाननुसारित्वाच्च नास्याश्श्रुतेरुपादानत्वमर्थ इत्याह ।। ब्रह्मेति ।। अधीहि भगवो ब्रह्मेति ब्रह्मज्ञानेच्छया । सुतं भृगुं प्रति । पिता वरुणः । नात्र विप्रलम्भावसर इति सूचनाय पितेत्यादिपदम् । अत एव श्रुतिरपि यथावस्थिततत्वमेवोत्तरत्र कथ्यत इति सूचनाय भृगुर्वैवारुणिः । वरुणं पितरमित्याह । वरुणस्यापत्यं हि वारुणिः । बोध्ये ब्रह्मण्यसम्भवि सर्वथाऽवर्तमानम् । अन्यगमज्ञान एव विद्यमानम् । लक्षणं जगदुपादानत्वरूपं कुतः कारणाद्वदेत् । न कुतोपि । भगव इति सम्बोधितत्वेन विपरीतार्थ कथनहेतुभूताज्ञानकरणापाटवादिदोषाभावस्य सूचितत्वात् । पितृपुत्रत्वोक्तया अधीहीति वेदाध्ययनस्यैव प्रार्थितत्वेन यत्किञ्चिल्लोकवार्तादिकं न कथयेति अध्यापयेति वक्तव्येऽधीहीति कथनेन त्वया यथागुरुमुखात्पठितं तथैव कथयेति नियतात्मनेपदिनः परस्मैपदित्वकरणेन च मम यथामोक्षादि फलं भवति तथैव कथयेति सूचनायाविप्रलिप्साख्यदोषाभावस्योक्तत्वात् । ब्रह्मपदेन ब्रह्मणो गुणसंपूर्णत्वकथनेन तन्निष्ठलक्षणदारिद्य्राभावस्य च सूचितत्वात् यथावस्थित ब्रह्मलक्षणमेव पृष्टम् । तस्मा एतत्प्रोवाचेत्यत्र प्रेत्युपसर्गबलात् गुरुणा च कथितं न त्वतिव्याप्तमसम्भविच लक्षणं पृष्टमुक्तं वेति भावः । लक्षणदोषत्रय-मपि सूचयितुं मूलेप्यन्यगमसम्भवीत्युक्तम् । सम्पदस्य सम्यग्भवनं नेति प्रतियोगिपक्षपातेऽव्याप्तिबोधकत्वात् । भवनं सम्यक्सर्वथा नेत्यभाव पक्षपातेऽ-सम्भववाचित्वाच्च।। १७४ ।।

सत्यप्रमोदटीका

 ‘अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् । आह ब्रह्म कथं तन्न’ इत्यनुव्याख्यानोक्तं हृदि कृत्वाऽऽह ब्रह्मेति ।। पिता वरुणः लोकपालः दिक्पतिः । अनेन तस्य विवक्षितार्थतत्त्वज्ञानं करणपाटवं चोक्तं ज्ञेयम् । ब्रूयादिति वचनेन कार्येण विवक्षा च । प्राप्तं उपसन्नम् । सुतं भृगुम् । तदनेन प्रसङ्गस्य श्रोतुश्च आनुकूल्ये प्रदर्शिते । ब्रह्मणि इत्यनेन प्रथम-सूत्रोक्तगुणपूर्णत्वं लक्षणं द्योत्यते । तत्सम्भावनार्थं उपदिष्टमिदं द्वितीयं लक्षणं ब्रह्मणः स्वरूपलक्षणमेव सर्वथा युक्तं नान्यथेत्याह अन्यगमिति विमतं लक्षणं, ब्रह्मनिष्ठं, ब्रह्मजिज्ञासुं प्रति आप्तेनोपदिष्टत्वादिति प्रयोगः सूचितः ।।१७४।।

युक्तिमल्लिका

स्वगृहे दीपिकाभावे प्रार्थयन्तेऽन्यदीपिकाम् ।

सति ब्रह्मस्थकर्तृत्वे तटस्थं स कुतो वदेत् ।। १७५ ।।

सुरोत्तमटीका

 स्वनिष्ठलक्षण सद्भावे तटस्थलक्षणकरणमन्याय्य-मित्येतत्सदृष्टान्तमाह ।। स्वगृह इति ।। साक्षाद्व्यतिरेकदृष्टान्तोयम् । अर्थादन्वयी च ।। १७५ ।।

सत्यप्रमोदटीका

 सतीति ‘ब्रह्माख्यमस्योद्भवनादिहेतुभिः स्वलक्षणै-र्लक्षितभावनिर्वृति’ इत्यादिप्रमाणैः सिद्धे सति इत्यर्थः ।। १७५ ।।

युक्तिमल्लिका

मोक्षोपयोगिज्ञानाय साक्षान्मोक्षविरोधिनि ।

अज्ञाने स्थितदुर्धर्मं को ज्ञानप्रस्तुतो वदेत् ।। १७६ ।।

सुरोत्तमटीका

 निमित्तान्तरमप्याह ।। मोक्षोपयोगीति ।। १७६ ।।

सत्यप्रमोदटीका

 ब्रह्माश्रितत्वान्मायायाः तल्लक्षणकथनं परम्परया मोक्षायोपयुज्यते इत्यतो ब्रह्माश्रितमज्ञानं इति मिथ्याज्ञानं साक्षात्तमःसाधन-मेवेत्याह साक्षादिति । तदुक्तं ‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चने’ति ।।

युक्तिमल्लिका

आनन्दादेव विज्ञानादेवेति यमसौ भृगुः ।

ब्रह्म पश्यन्निरणयत्कथं सोऽन्यं गतो वद ।। १७७ ।।

सुरोत्तमटीका

 अस्मिन्नर्थे श्रौतप्रबलयुक्त्यन्तरं चाह ।। आनन्दा-देवेति ।। यं धर्मं निरणयत् अन्ययोगव्यवच्छेदपूर्वकं ब्रह्मण्येव निर्णीतवान् । सः धर्मः । अन्यं पदार्थम् ।। १७७ ।।

सत्यप्रमोदटीका

 किञ्च भृगुः खलु पितुरुपदेशं प्राप्य तपस्तप्त्वा ब्रह्म-साक्षात्कृत्य तस्मादेव जगज्जन्मादिकं इति निरणैषीत् । प्रत्येकं रूप-साक्षात्कारानन्तरं अन्नादेवेमानि भूतानि जायन्ते इत्यादिना सावधारण-निर्णयोक्तेः । अभ्यस्तेन अवधारणार्थकैवकारेण अन्यनिष्ठत्वं लक्षणस्य स्फुटं व्यावर्त्यत इत्याह आनन्दादिति ।। १७७ ।।

युक्तिमल्लिका

अपायेऽवधिभूतं यद् ध्रुवं तत्रास्ति पञ्चमी ।

स्वोदराच्च प्रधानस्यापाये तादृक्सृजन्प्रभुः ।। १७८ ।।

सुरोत्तमटीका

 अधुना ध्रुवमपायेऽपादानमिति सूत्रेणैव सर्वत्र पञ्चमी सम्भवात् जनिकर्तुः प्रकृतिरिति सूत्रं व्यर्थमेवेत्याह ।। अपाय इति ।। अपाये स्वस्मादन्यत्रापगमने अवधिभूतं यद्ध्रुवं पूर्ववत्स्थिरतया विद्यमानं तत्र तस्मिन् वृक्षात्पर्णं पततीत्यत्र पर्णपतनावधिभूते वृक्ष इत्यर्थः । अपाये सृष्ट्यर्थं बहिष्करणे तादृग्वृक्षवद्ध्रुवः ।। १७८ ।।

सत्यप्रमोदटीका

 किं चास्तु वा यत इत्यत्र पञ्चम्यर्थे तसिल् । अथापि सा ध्रुवमपाये अपादानमि’ति सूत्रविहितैव । अपायावधिभूतत्वमपादानत्वं च प्रपञ्चं प्रति ब्रह्मणः ‘यथोर्णनाभिः सृजते गृह्णते च’ इति श्रौतदृष्टान्त-सिद्धमिति न कोऽपि क्षुद्रोपद्रव इत्याह अपाय इति ।। १७८ ।।

युक्तिमल्लिका

अतस्तेनैव सूत्रेण पञ्चमी परमात्मनि ।

जनिधातुप्रवेशोऽपि यतो न विकृतो ह्यसौ ।। १७९ ।।

सुरोत्तमटीका

 अत एतत्सूत्रार्थत्वात् । तेनैव सूत्रेण ध्रुवमपायेऽ-पादानमिति सूत्रेण जनिकर्तुः प्रकृतिरिति सूत्रं जनिधातुसमायोगः प्रकृति-पदोक्तोपादानत्वं च यत्रास्तितत्रैव प्रवर्तते । यत्र तु जनिधातु समायोगेऽपि प्रकृतिपदोक्तोपादानत्वं न । तत्र तत्सूत्रं न प्रवर्तते । उक्तनिमित्तद्वययोरेक निमित्ताभावे सूत्रस्यावसराभावात् । परमात्मा च न जायमानस्य जगतः प्रकृतिरावयोर्मते निर्विकारस्य ब्रह्मणः उपादानत्वाभावात् । अतः पूर्वसूत्रेणै-वात्रपञ्चमीति भावः । कथमन्यथा प्रादुर्भावार्थकजनिधातु समायोगेप्यन्ध-कारस्थो घटो दीपाज्जायत इत्यत्र निमित्तेऽपि पञ्चमीति भावः । एतदेव विशदयति ।। जनिधात्विति ।। यतः यस्मात् । असौ परमात्मा ।। १७९ ।।

सत्यप्रमोदटीका

 जायते इत्यत्र जनिधातुरपि निर्विकारे तस्मिन्न-पादानत्वमेव वक्तीत्याह जनीति ।। १७९ ।।

युक्तिमल्लिका

जनिकर्तुः प्रकृतिरित्यत्र प्रकृतिशब्दतः ।

उपादानं तु स ब्रूते तस्य चावसरोऽत्र न ।। १८० ।।

सुरोत्तमटीका

 अत्र सूत्रे । प्रकृतिशब्दतः प्रकृतिशब्देन । सः पाणिनिः । तस्य निमित्तद्वयघटितसूत्रस्य । अत्र ब्रह्मणि ।। १८० ।।

सत्यप्रमोदटीका

 यदि तर्हि ‘जनिकर्तुः प्रकृति’रित्यत्रत्यस्य उपादान-वाचिप्रकृतिशब्दस्य का गतिरिति चेल्लौकिकप्रयोगविरुद्धत्वाद्दृर्गतिरेव गति-रित्याह जनीति ।। १८० ।।

युक्तिमल्लिका

कार्याकारेण विकृते नोपादाने तु पञ्चमी ।

मृद्घटो जायते क्षीरं दधि जातमिति क्षितौ ।

लोका व्यवहरन्त्यस्मादिदन्त्विति न कश्चन ।। १८१ ।।

सुरोत्तमटीका

 उपादानेऽपि पञ्चम्या एवाभावात् नास्य सूत्रस्यावसर इत्याह ।। कार्याकारेणेति ।। अस्मान्मृत्पिण्डात्क्षीराद्वा । इदं घटादिकं कश्चन न व्यवहरतीति सम्बन्धः ।। १८१ ।।

सत्यप्रमोदटीका

 लौकिकप्रयोगविरोधमभिनीय दर्शयति कार्येति ।। १८१ ।।

युक्तिमल्लिका

शृङ्गस्याप्येकदेशस्य शराकारेण विक्रिया ।

तत्राप्यविकृते भागे पञ्चमी विक्रियावधौ ।। १८२ ।।

सुरोत्तमटीका

 शृृङ्गाच्छरोजायत इत्यत्र विक्रियमाणशृृङ्गैकदेशे पञ्चमीप्रयोगाभावात् नात्र सूत्रस्यावकाश इत्याह ।। शृृङ्गस्येति ।। तत्र विकृताविकृतभागयोर्मध्ये । विक्रियमाणे तु शृृङ्गस्यांशे पूर्ववत् इदमेतदाकारेण जायत इति प्रथमैव न पञ्चमीति भावः

।। १८२ ।।

सत्यप्रमोदटीका

 शृङ्गाच्छरो जायते’ इति प्रयोगेऽपीयमेव गतिरित्याह शृङ्गस्येति ।। ‘जनिकर्तुरित्यनेनापादानसंज्ञायामपि वृत्तौ पुत्रात्प्रमोदो जायते’ इत्यस्याप्युदाहृतत्वात् । न्यासेऽपि प्रकृतिपदं हेतुमात्रपरमित्याश्रित्य असति प्रकृतिग्रहणे उपादानतैव स्यात् । प्रत्यासत्तेर्नेतरस्य । प्रकृतिग्रहणात्सर्वस्य कारणस्य भवतीति प्रकृतिपदम् । पुत्रात्प्रमोदो जायते इत्यादौ अनुपादानेऽपि अपादानसंज्ञार्थमित्युक्तत्वात् । अत्र विस्तरो न्यायामृते ‘ब्रह्मण उपादानत्वे प्रमाणभङ्गे’ । तत्रापीति ।। तदुक्तं प्रकृत्यधिकरणे ‘गोमयतस्तथा ।। वृश्चिकश्चेवमाद्येष्वप्यपादानत्वमिष्यते’ इत्यनुव्याख्यानव्याख्यानसुधायां ‘‘जनेः कर्तुर्या प्रकृतिरुपादानसंसृष्टापायावधिभूतं द्रव्यं तत्कारकमपादानसंज्ञं भवतीति’’ इति । तथा च सूत्रे प्रकृतिशब्दः उपादानपरश्चेत् लोकविरोधा-दापार्थकः ।। १८२ ।।

युक्तिमल्लिका

सा च तेनैव सूत्रेण तस्मात्त्वमिव नः प्रभौ ।

विरोधाचरणात्सूत्रं चित्रं तद्यत्र कुत्रचित् ।। १८३ ।।

अवकाशं न लभते व्यर्थतामर्थतोगमत् ।

जनिकर्तुः प्रकृतिरित्युक्तिस्तन्न भयङ्करी ।। १८४ ।।

सुरोत्तमटीका

 सा अवधिभूतशृृङ्गांशपञ्चमी । तेन पूर्वेण । विरोधा-चरणात् ब्रह्मलक्षणस्यान्यत्रापहाराख्यविरोधाचरणात् । तत्सूत्रमिति सम्बन्धः । अर्थतः अर्थात् । अर्थविचारेसतीत्यर्थः । अर्थतः प्रयोजनाद्व्यर्थतां शून्यतामिति वा । तत्तस्मात् ।। १८३,१८४ ।।

सत्यप्रमोदटीका

 अपादानपरश्चेत् ‘ध्रवुमपाये’ इति सूत्रेणैव गतार्थ-त्वात् निरर्थकः इत्याह यत्र कुत्रचिदिति । सर्वथा नास्माकं विरोधायेत्याह तन्नेति ।। १८३,१८४ ।।

युक्तिमल्लिका

यथोपादानतामुक्त्वा यस्तटस्थीकरोति ताम् ।

अबद्धं स पठित्वान्ते कुचोद्यं कुरुतेऽबुधः ।। १८५ ।।

सुरोत्तमटीका

 यो मायावादी । तामुपादानताम् । सः अबुधः।।१८५।।

सत्यप्रमोदटीका

 तथा च पाणिनिसूत्रस्य मायिनोऽर्थकथनमबद्धम् । तमर्थमाश्रित्य ब्रह्मण उपादानत्ववर्णनं कुचोद्यमित्याह अबद्धमिति ।।१८५।।

युक्तिमल्लिका

किं चोपादानमात्रेण कार्यं स्यान्नावयोर्मते ।

अतः कर्तुरवश्यत्वे न तद्वाच्यं कथं वद ।। १८६ ।।

सुरोत्तमटीका

 अपि च तटस्थलक्षणं वदतापि त्वया ततो जगत्कर्तृत्वं ब्रह्मणि वक्तव्यम् । अत उपादानत्वे भरं कुर्वतापि लक्षणया तदुक्तयापि कर्तृत्वमेवोच्यताम् । लाघवादित्याह ।। किं चेति ।। तत्कर्तृत्वम् ।। १८६ ।।

सत्यप्रमोदटीका

 अपि च निमित्तोपादानोभयरूपं ब्रह्मेति खलु तव सिद्धान्तः । अतो मुख्यार्थस्य कर्तृत्वस्य त्वयाप्यङ्गीकाराल्लक्षणाश्रयणं तव निर्निमित्तमित्याह कथं वदेति ।। १८६ ।।

युक्तिमल्लिका

तस्मात्त्वयाऽपि वक्तव्यः कर्तैवात्र न चापरः ।

ईक्षितृत्वबलान्नोचेत्कथं साङ्ख्यं जिगीषसि ।। १८७ ।।

सुरोत्तमटीका

 अत्रास्मिन्जन्मादि सूत्रे श्रुतौ वा वक्तव्यः । शास्त्र-मर्यादाविदामुख्यत एव दुराग्रहग्रस्तेन तु लक्षणया वा वाच्य इति भावः । अपरः उपादानपदार्थः । ब्रह्मणि कर्तृत्वानङ्गीकारे तद्रीत्यैव बाधकमाह ।। ईक्षितृत्वेति ।। नोचेद्ब्रह्मणि कर्तृत्वं न चेत् । जिगीषसि जेतुमिच्छसि । तदैक्षतेतिश्रुतौ ऐक्षतेतीक्षणकर्तृत्वश्रवणात् साङ्ख्याभिमतप्रधानं नात्र प्रतिपाद्यं किं तु ब्रह्मैवेति सिद्धान्तितमीक्षत्यधिकरणे ब्रह्मणि कर्तृत्वाभावे तन्न स्यात् । नह्यसिद्धेन हेतुना साध्यसिद्धिरिति भावः ।। १८७ ।।

सत्यप्रमोदटीका

 अथापि लक्षणाश्रयणे तस्य बाधकमाह ईक्षितृ-त्वेति ।। ईक्षणकर्तृत्वात् ब्रह्मैव जगत्कारणं न प्रधानमिति ईक्षतिनये त्वया साङ्ख्यनिराकरणादिति भावः ।। १८७ ।।

युक्तिमल्लिका

तव यः श्वा कथं व्याघ्रस्स परस्य भविष्यति ।

अनिच्छतापि कर्तृत्वमतो वाच्यं त्वयापि हि ।। १८८ ।।

सुरोत्तमटीका

 मन्मते कर्तृत्वाभावेऽपि परं प्रति तेनोत्तरं दीयत इत्याशां दूरीकरोति ।। तवेति ।। यः गृहे विद्यमानश्चतुष्पादार्थात्तव श्वा सः परस्य कथं व्याघ्रोभविष्यतीति योजना । कर्तृत्वानुपपत्तिः ब्रह्मणः प्रतिपाद्यतां न हन्तिचेत् प्रधानस्यापि प्रतिपाद्यतां न हन्यादिति भावः । अतः परनिराकरणहेतुत्वात् ।। १८८ ।।

सत्यप्रमोदटीका

 यः ईक्षणकर्तृत्वरूपोऽर्थः श्वा गौणत्वान्न ब्रह्मनिष्ठः । परस्य साङ्ख्यस्य । व्याघ्रः तदभिमतप्रधाननिरासकः ।। १८८ ।।

युक्तिमल्लिका

जडे च नैव कर्तृत्वमीशासिद्धिप्रसङ्गतः ।

तस्मात्तटस्थतास्य स्याल्लक्षणस्य कथं वद ।। १८९ ।।

सुरोत्तमटीका

 जडेऽज्ञानादौ । ईशासिद्धिप्रसङ्गतः ईश्वरासिद्धि-प्रसङ्गात् । जडे कर्तृत्वाङ्गीकारे साङ्ख्यरीत्या प्रधानस्यैव जगत्कर्तृत्वसम्भवे-नेश्वरासिद्धिस्स्यात् । अतस्साङ्ख्यं जेतुकामेन सेश्वरवादिना जडस्य कर्तृता नाङ्गीकार्येति भावः । एतेनैव कर्तृत्वभोक्तृत्वादिकमप्यन्तःकरणाज्ञान-जडनिष्ठमेवेति परप्रक्रियापि दूषिता वेदितव्या । तस्माज्जडस्यकर्तृत्वायोगात् । अस्य जगत्कर्तृत्वाख्यस्य । जगदुपादानत्वलक्षणस्य तटस्थत्ववज्जगत्कर्तृत्व-लक्षणस्य तटस्थता त्वयापि वक्तुं न शक्येति भावः

।। १८९ ।।

सत्यप्रमोदटीका

 नैवेति । ज्ञानेच्छाप्रयत्नानां तत्रासम्भवादिति भावः । निमित्तान्तरमाह ईशेति । तस्मात् कर्तृत्वस्य सर्वथा ईश्वरे अभ्युपगमनीयत्वात्

।। १८९ ।।

युक्तिमल्लिका

क्रियावेशप्रसङ्गेन कर्तृत्वं न चितो यदि ।

जडावेशप्रसङ्गेन तर्ह्यज्ञानं कथं चिति ।। १९० ।।

सुरोत्तमटीका

 प्रकारान्तरेणनिष्क्रियत्वश्रुतेः पराभिमतार्थं दूषयति ।। क्रियावेशेति ।। चित इत्युभयत्रापि सम्बध्यते ।। १९० ।।

सत्यप्रमोदटीका

 असङ्गे ब्रह्मणो लेपाभाव एवेति प्रागुक्तम् । अथापि क्रियासङ्गः क्रियाऽऽवेशरूप इति परिकल्प्य कर्तृत्वं चेन्नाङ्गीक्रयते तर्हि अज्ञानावेशः ततोऽप्यतिशयलेपरूपतया सुतरां ब्रह्मणि नाङ्गीकार्य इत्याह जडेति ।। १९० ।।

युक्तिमल्लिका

जडामिश्रं हि तद्ब्रह्म केवलश्रुतिचोदनात् ।

समस्समाधिर्मिथ्यात्ववार्तया ते द्वयोरपि ।। १९१ ।।

सुरोत्तमटीका

 हि यस्मात्तद्ब्रह्म केवलश्रुतिचोदनात् केवलोनिर्गुणश्चेत्यत्र केवल इति श्रुत्याजडमितितत्वविधानात् जडामिश्रं तस्मादितिपूर्वेणान्वयः । निष्क्रियत्वश्रुतिविरुद्धक्रियावेशप्रसङ्गेन कर्तृत्वं नोच्यते चेत् केवलश्रुतिविरुद्ध जडावेशप्रसङ्गेनाज्ञानमपि ब्रह्मणि न सिद्ध्येदिति भावः । ते मिथ्यात्ववार्तया-समाधिःपरिहारोपि द्वयोः समः ।। पारमार्थिकजडाभावपराकेवलश्रुतिः मिथ्या-भूतजडाङ्गीकारे न विरुध्यते चेत् तर्हि त्वन्मते कर्तृत्वस्यापि मिथ्यात्वा-त्पारमार्थिकक्रियावेशाभावपरानिष्क्रियत्वश्रुतिरपि कर्तृत्वाविरोधिनी स्यात् । तस्माद्ब्रह्मण्यज्ञानवत् कर्तृत्वमङ्गीकारार्हमिति भावः ।। १९१ ।।

सत्यप्रमोदटीका

 अयं पुनर्विशेषः । ब्रह्मणि क्रिया ‘स्वाभाविकी ज्ञानबलक्रिया चे’त्यादिश्रुतिसिद्धा । जडमिश्रता तु ‘केवलो निर्गुणश्चेत्यादि श्रुतिविरुद्धेत्याह जडेति ।। ननु अज्ञानस्य मिथ्यात्वेन तदावेशेऽपि न ब्रह्मणोऽसङ्गत्वं व्याहन्यते इति चेत् क्रियाऽऽवेशेऽपि तथात्वमस्त्वित्याह सम इति ।। १९१ ।।

युक्तिमल्लिका

मम तु ब्रह्मगाज्ञानं मृषा शास्त्रार्थवत्त्वतः ।

कर्ता जीवोऽपि हि यदा शक्तः किमु तदा प्रभुः ।। १९२ ।।

सुरोत्तमटीका

 मम तु मते ब्रह्मगाज्ञानं मृषा मिथ्या । ब्रह्मनिष्ठा-ज्ञानमिथ्यात्वं मयाप्यङ्गीक्रियते । ब्रह्मण्यज्ञानस्यैवाभावात् । कर्तृत्वं तु ब्रह्मगतं न मृषा इत्येव विशेषः । तत्र हेतुमाह ।। शास्त्रार्थवत्त्वत इति ।। शास्त्रार्थ-वत्त्वतः शास्त्रस्य मोक्षाख्यप्रयोजनवत्त्वावश्यंभावात् । जीवस्यकर्तृत्वा-भावेऽकृताभ्यागमप्रसङ्गेन जीवोपि यदा कर्ता तदा शक्तस्सर्वशक्तिमान्परमात्मा कर्तेति किमु वक्तव्यमिति योजना । अस्वतन्त्रस्य जीवस्य प्रयोजन-वशात्कर्तृत्वेऽङ्गीकार्ये स्वतन्त्रस्य सर्वशक्तस्य हरेः कर्तृत्वं शिरसा धार्यमिति भावः ।। १९२ ।।

सत्यप्रमोदटीका

 इदं चोपेत्योक्तम् । ब्रह्मणि अज्ञानस्य मिथ्यात्वेऽपि कर्तृत्वं सत्यत्वमेव । ‘अज्ञानां ज्ञानदो विष्णुः ज्ञानिनां मोक्षदश्च सः’ इति प्रमाणसिद्धज्ञानादिदातृत्वभावे शास्त्राणां वैयर्थ्यापत्तेरिति आह शास्त्रेति । कैमुत्येनापि तस्य कर्तृत्वसिद्धिं दर्शयति कर्तेति । प्रभुः स्वतन्त्रः जीवानां बिम्बभूतः । न हि प्रतिबिम्बस्य जीवस्य स्वातन्त्र्येण क्रियेति भावः।।१९२।।

युक्तिमल्लिका

निष्क्रियत्वश्रुतेर्भीश्चेत्कथं स्यात्ते गतागतम् ।

व्यावहारिकमेतच्चेत्क्रियेयं चास्तु तादृशी ।

न हि निष्क्रियवागेकां क्रियामेव निषेधति ।। १९३ ।।

सुरोत्तमटीका

 निष्क्रियत्वश्रुतेः पररीत्याप्रतिबन्द्यन्तरेणाप्युत्तरमाह ।। निष्क्रियत्वेति ।। ते तव गतागतं गमनागमनम् । श्रुतिभिया ब्रह्मणि क्रिया-मनङ्गीकुर्वता मायावादिना जीवेऽपि गतागतक्रिया नाङ्गीकार्या । जीवस्यापि ब्रह्मरूपत्वाङ्गीकारादिति क्रियायाः क्रियैव प्रतिबन्दीति भावः । एतज्जीव-क्रियादिकम् । इयं ब्रह्मनिष्ठा । तादृशी व्यावहारिकी । क्रियामात्रनिषेधक निष्क्रियश्रुतेः क्रियाद्वयेऽपि साम्यमित्याह ।। न हीति ।। एकां क्रियां ब्रह्मगतक्रियाम् ।। १९३ ।।

सत्यप्रमोदटीका

 ते ब्रह्मभिन्नतया त्वदभ्युपगतस्य त्वदादिजीव-समुदायस्य । इयं ब्रह्मगता । अस्त्विति । न हि व्यवहारनिर्वाहकातिरिक्तं सत्यत्वं इष्टं दृष्टं वेति भावः । ननु निष्क्रियत्वश्रुतिः निरुपाधिके ब्रह्मण्येव क्रियां निषेधति । जीवस्तु सोपाधिक इति चेत् त्वदाशामात्रमेतत् । श्रुतौ तु सामान्यतो निषेधिकायां निरुपाधिकपदाश्रवणादित्याह न हीति ।। इदं चापाततः । असङ्गस्य तव ब्रह्मण उपाधिसम्बन्धस्यैव दुर्वचत्वादित्यपि द्रष्टव्यम् ।। १९३ ।।

युक्तिमल्लिका

चित्रं चित्रक्रियागारसंसारे न तटस्थता ।

जगज्जन्मादिकरणक्रियामात्रे तु सा किल ।। १९४ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि प्रतिबन्दीमाह ।। चित्रमिति ।। सा तटस्थता । निष्क्रियश्रुतिसाम्येऽपि जननमरणगमनागमनोत्पतनाधः पतनाद्यन्त- क्रियाविशिष्टसंसाराधारत्वं ब्रह्मण्येव किल । जगज्जन्मादिक्रिया न ब्रह्मणि किल । इदं चैकमाश्चर्यमिति भावः ।। १९४ ।।

सत्यप्रमोदटीका

 जगति क्रियामभ्युपगम्य जगत्कारणे ब्रह्मणि तदनङ्गीकुर्वाणं अपहसति चित्रमिति ।। कारणे क्रियाऽभावे कार्यस्वरूपस्यैवा- निष्पत्त्या कुत एव तत्र क्रियाप्रसक्तिरिति भावः ।। १९४ ।।

युक्तिमल्लिका

मम सर्वज्ञ इत्युक्तविज्ञानक्रियया सह ।

योनिरित्युक्तकर्तृत्वक्रियास्त्येव न विक्रिया ।। १९५ ।।

सुरोत्तमटीका

 परस्यापि प्रतिबन्द्यन्तरं सूचयन्स्वमते निष्क्रिय श्रुते-रर्थान्तरमाह ।। ममेति ।। योनिरित्युक्तकर्तृत्वक्रिया एष योनिस्सर्वस्य यद्भूत-योनिं परिपश्यन्तिधीराः मम योनिः यथैका योनिरुच्यत इत्यादि श्रुतिस्मृतिषु योनिरित्युक्तकर्तृत्वक्रियेत्यर्थः । योनिशब्दप्रयोगमहिम्ना लौकिक पश्वादि-योनिरिव पुत्रोत्पत्तावुपचयापचयतन्निमित्तदुःखादिक्रियाभगवत्यपि प्राप्ता । तां निषेद्धुं निष्कलं निष्क्रियं शान्तमिति श्रुतिः प्रवृत्ता । विरुद्धा क्रिया विक्रियेति व्युत्पत्त्योपचयापचयादिविक्रियाया अपि क्रियात्वेन निष्क्रियपदनिषेध्यत्व-सम्भवात् । प्रत्युतकर्तृत्वरूपक्रियाया धात्वर्थरूपक्रियात्मकतयाऽमुख्यत्वेनोप-चयापचयोरस्ताडनादि क्रियायाश्चोत्क्षेपणापक्षेपणादि रूपतया मुख्यक्रियात्वा-न्मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वेनोक्तविक्रियाया एव क्रियाशब्दबोध्यतया तन्निषेधस्यैव न्याय्यत्वादिति भावः । अनेनैव निष्क्रियश्रुतिविरोधेन ब्रह्मणि कर्तृत्वक्रियानङ्गीकारे सत्यं ज्ञानमित्युक्तज्ञानक्रियापि न स्यादिति प्रतिबन्द्यन्तरं च सूचितम् ।। १९५ ।।

सत्यप्रमोदटीका

 निषेधवचसां खलु प्रमितेतरनिषेधकत्वमिति स्थितिः । ‘यः सर्वज्ञ’ इति श्रुत्या ब्रह्मणि ज्ञानरूपक्रिया, ‘यद्भूतयोनिमि’ति श्रुत्या च कर्तृत्वरूपक्रिया च प्रमिते इति ते न निषेधार्हे । अतो निष्क्रियत्वश्रुतिः ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुत्यनुसारिणी उपचयापचयरूपविक्रियामेव ब्रह्मणि निषेधतीति वक्तुं युक्तमित्याह ममेति ।। १९५ ।।

युक्तिमल्लिका

निष्क्रियत्वश्रुतेस्सत्त्वात्तटस्थं लक्षणं यदि ।

तर्ह्यज्ञानं तटस्थं स्यादद्वितीयश्रुतेर्बलात् ।। १९६ ।।

सुरोत्तमटीका

 प्रकारान्तरेणाप्यज्ञानप्रतिबन्दीं गृह्णाति ।। निष्क्रिय-त्वेति ।। श्रुतेस्सत्त्वात् बलात् । लक्षणं जगत्कर्तृत्वम् । अज्ञानं ब्रह्मनिष्ठतया परेणोच्यतमानमज्ञानम् । तटस्थं ब्रह्मणोन्यत्र गतम् । अद्वितीय श्रुतेरेकमेवा-द्वितीयमिति श्रुतेः ।। १९६ ।।

सत्यप्रमोदटीका

 श्रुतिविरोधाच्चेत् कर्तृत्वं तटस्थं स्यात् तर्हि अद्वितीय-श्रुतिविरोधात् अज्ञानमपि तटस्थं स्यादेवेत्याह निष्क्रियत्वेति।।१९६ ।।

युक्तिमल्लिका

अनादिब्रह्मणोऽज्ञानमनाद्येव हि ते मते ।

द्वितीयं तत्कृतं तस्मात्तृतीयमखिलं जगत् ।

तेनाविद्यानिषेध्यैव वागेषेति मतिर्मम ।। १९७ ।।

सुरोत्तमटीका

 कुत इत्यत आह ।। अनादीति ।। हि यस्मात्ते मतेऽ-नादि ब्रह्मणोऽनाद्यज्ञानमेव द्वितीयम् । अनादिकालमारभ्योभयोरप्यन्योन्य-सम्बन्धात् । तत्कृतमज्ञानकृतं सर्वं जगत्तस्माद्ब्रह्मणस्तृतीयम् । तेनाज्ञानस्यैव द्वितीयत्वेन । एषा वागद्वितीयत्ववाक् । अविद्यानिषेध्येति बहुव्रीहिः । अज्ञाननिषेध्यैव । अज्ञानस्यैव द्वितीयपदयोग्यार्थतया नञा तदेव निषेध्यं स्यात् । न तु जगत् । न हि पुत्रादुत्पन्नस्य पौत्रस्य स्वपुत्रता क्वापि दृष्टेति भावः । वस्तुतस्तु निष्क्रियत्वश्रुतिः त्वद्रीत्यैव कर्तृत्वातिरिक्तक्रियासद्भावात् सावकाशा । इयं तु श्रुतिः त्वद्रीत्यैवार्थान्तरशून्येति दुरुत्तरा प्रतिबन्दी । जगतोऽप्रतिषेधेन ब्रह्मण्येवाज्ञानप्रतिषेधेनास्मदभीष्टसिद्धिरपीति ज्ञातव्यम् ।। १९७ ।।

सत्यप्रमोदटीका

 अज्ञानस्य द्वितीयत्वं त्वत्प्रक्रियाऽनुसारेण न्यायप्राप्त-मित्याह अनादीति ।। ब्रह्म, प्रथमं, तद्वदेव अनादि भावरूपत्वेनाभ्युपगतं त्वदज्ञानं द्वितीयं, अज्ञानकार्यं जगत् तृतीयं इति क्रमः । तथा च ‘एकमेवाद्वितीयम्’ इतीयं तव श्रुतिभुजङ्गी ब्रह्मणि अज्ञानं द्वितीयतया निषेधन्ती, प्रपञ्चं च तृतीयतयाऽवशेषयन्ती त्वत्प्रक्रियामेव हिनस्तीति विचित्रा ते शास्त्रगतिरिति भावः ।। १९७ ।।

युक्तिमल्लिका

किं चाविकारवचनाज्जगद्रूपविकारकृत् ।

तटस्थमस्तुतेऽज्ञानं ब्रह्म निर्मलवस्तु तत् ।। १९८ ।।

सुरोत्तमटीका

 अद्वितीयश्रुत्या ब्रह्मण्यज्ञानं निषिध्याविकारश्रुत्यापि ब्रह्मण्यज्ञानमेव निषेधति ।। किं चेति ।। अविकारवचनात् निर्विकारत्व श्रुतेरित्यर्थः । तेऽज्ञानं जगद्रूपविकारकृद्विकारोपादानम् । इदं चोपलक्षणम् । अतदाकारतया स्वस्यापि विकारत्वात् । ते मते । अज्ञानं ब्रह्माज्ञानम् । निर्मलं अज्ञानाख्यविकाररहिततया शुद्धम् । परवाक्येनैव पराभिमतार्थ खण्डन-रूपत्वात्केवलश्रुत्याऽद्वितीय श्रुत्या निर्विकार श्रुत्या च प्रतिबन्दीग्रहणं परस्यैव बन्दीग्रहणमित्यतिचमत्कारोयं ग्रन्थकारस्य । एवमन्यत्रापि द्रष्टव्यम् ।।१९८।।

सत्यप्रमोदटीका

 किं च ‘निर्विकारोऽक्षरः शुद्धः’ इति श्रुतिः ब्रह्मणो विकारं प्रतिषेधति । अज्ञानं च अतदाकारावभासलक्षणविक्षेपरूपविकारकारि इति ते प्रसिद्धम् । तथा च श्रुतिः द्वितीयं विकारकारणं चाज्ञानं प्रतिषेधतु, तेन च ब्रह्म निर्मलं अज्ञानकलङ्कविधुरं विलसतु प्रपञ्चश्च मायाजालविनिर्मुक्तं निराबाधमवतिष्ठतां, एतत्सर्वं च त्वत्प्रक्रिययैव न मत्प्रक्रिययेति विजय-तामस्मत्प्रतिबन्दीग्रहणमिति भावः ।। १९८ ।।

युक्तिमल्लिका

अतः प्रथमतस्सूत्रकृदुक्ते ब्रह्मलक्षणे ।

असम्भवोऽतिव्याप्तिश्च सिद्धान्तो यस्य धीमतः ।

स भाष्यकृत्किल गुरुः श्रोता तत्र च कश्चन ।। १९९ ।।

सुरोत्तमटीका

 परकृतसूत्रव्याख्याप्रत्याख्यानं सोपहासमुपसंहरति ।। अत इति ।। अतः पूर्वोक्तन्यायात् । धीमत इति विपरीतलक्षणयोक्तिः । सः प्राथमिकसूत्रव्याख्याने सूत्रोक्तब्रह्मलक्षणस्यासम्भवातिव्याप्त्यादिकमुक्त्वा सूत्रमेव दूषयन् । गुरुः । इदमपि विपरीतलक्षणया । भाष्यकृत् भाष्यकारः । किलेत्यस्वरसः । प्रथमत एव सूत्रदूषकभाष्यकारस्य क्वाप्यदर्शनात् । तत्र भाष्ये कश्चन श्रोता किल । उत्सूत्रभाष्ये श्रोतृत्वात्तेष्वप्यस्वरसः ।। १९९ ।।

सत्यप्रमोदटीका

 तदेवं प्रथमसूत्रे एव छलजातिवारिधिः भाष्यं उत्सूत्रं, भाष्यकारो वञ्चकः श्रावकश्चाविवेकीत्युपहसति अत इति ।। १९९ ।।

युक्तिमल्लिका

तटस्थः कोऽपि न स्यादित्यकरोद्ब्रह्मलक्षणम् ।

यतः शिक्षणमेवेदं सूत्राणां नार्थरक्षणम् ।। २०० ।।

सुरोत्तमटीका

 तटस्थः एतादृशगुरुशिष्ययोस्तटे स्थित्वा शृृण्वन्नुप-श्रोतेत्यर्थः । कोपि बुद्धिमान्नस्यात् । सूत्रमेव दूषयतो भाष्यमुन्मत्तं कञ्चित्पुरुषं विना नकोपि प्रेक्षावान्वीक्षेतेति भावः । इति मत्वाभाष्यकारः स्वयमेव मम दुरदृष्टवशाच्छिष्य एको लब्धः । तटस्थस्तु कोपि नाभूदिति ब्रह्मलक्षणमेव तटस्थमकरोदिति परिहासः । इतोतिरिक्ततटस्थान्तराभावे हेतुमाह ।। यत इति ।। तस्मात्तटस्थः कोपि नाभूदिति पूर्वेणान्वयः ।। २०० ।।

सत्यप्रमोदटीका

 तटस्थः तटे स्थित्वा श्रोता । ब्रह्मलक्षणं तटस्थं इति विभक्तिव्यत्ययेनान्वयः । अगत्या लक्षणमेव तटस्थमकरोदिति भावः । तत्साधूक्तमभियुक्तैः ‘तं तत्क्षणाद्यो न दिधक्षति स्म’ इति ।। २०० ।।

युक्तिमल्लिका

अतो लक्षणसूत्रस्य बलाज्ज्ञानबलादिभिः ।

गुणैर्युक्तमभूद्ब्रह्म लक्षणेन गुणेन च ।। २०१ ।।

सुरोत्तमटीका

 एवमपव्याख्यां निराकृत्य सूत्राणां स्वोक्तार्थ एव प्रामाण्यं स्थिरीकृत्याधुनातेभ्यस्सूत्रेभ्यस्सकलस्वसिद्धान्तसिद्धिप्रकारं सविस्तर-माह ।। अत इति ।। अतः लक्षणताटस्थ्याभावात् । लक्षणाख्यगुणेन चेत्यर्थः । बहुतरजगत्सर्जनधारणपोषणादेर्बृहत्तरज्ञानेच्छाप्रयत्नबलकृपाद्यनेक गुणसापेक्षत्वात् लक्षणस्यापि धर्मरूपतया गुणत्वाल्लक्षणसूत्रेणैव ब्रह्मणो-गुणपूर्णत्वमपि सिद्धमिति भावः ।। २०१ ।।

सत्यप्रमोदटीका

 एतावता समर्थितं प्रमेयजातं सङ्गृह्णाति अत इति । लक्षणसूत्रस्य स्वरूपलक्षणत्वसमर्थनेन तत्सिद्धजन्माद्यष्टककर्तृत्वात् तदन्तर्गत-तयैव ज्ञानबलादिभिर्गुणैर्युक्तं ब्रह्मसिद्धमिति भावः । तदुक्तं कर्मनिर्णयटीकायां ‘‘कर्तृत्वं च कार्यकारकक्रियाफलाभिज्ञानतदिच्छाप्रयत्नपूर्वकः स्पन्दः । ततः सर्वकर्तेत्युक्ते सर्वज्ञः सत्यकामः सत्यसङ्कल्पः समस्तशक्तिसमन्वित एवोक्तो भवति’’ इति । लक्षणेन गुणेन इति सामानाधिकरण्यम् । चशब्देन ‘कर्तृत्वा-त्सगुणं ब्रह्म’ इति भागवतपुराणसंमतिमाह ।। २०१ ।।

युक्तिमल्लिका

सजातीयविजातीयव्यावृत्तिश्च यतः फलम् ।

चेतनाचेतनजगद्भिन्नमासीत्ततस्सदा ।। २०२ ।।

सुरोत्तमटीका

 जीवजडात्मक प्रपञ्चादत्यन्तभेदोपि लक्षणसूत्रबलादेव सिद्ध इत्याह ।। सजातीयेति ।। फलं लक्षणस्य । ततः लक्षणस्य सजातीय विजातीय व्यावृत्तिफलकत्वात् । ब्रह्मेत्यध्याहारः । चेतनस्य सजातीयत्वात् अचेतनस्य विजातीयत्वात् ताभ्यां व्यावृत्तेश्च तद्भेदरूपत्वादिति भावः ।।२०२

सत्यप्रमोदटीका

 सजातीयेति । तदुक्तं जन्माधिकरणसुधायां ‘लक्षणं हि सजातीयविजातीयव्यवच्छेदार्थं भवति । तथा चानेन लक्षणेन सजातीया-ज्जीवाद्विजातीयाज्जडाच्च ब्रह्म व्यावर्तितं सूत्रकारेण’ इति ।। २०२ ।।

युक्तिमल्लिका

पितृत्वाच्च पतित्वाच्च तदभूदुत्तमोत्तमम् ।

पूर्वसूत्रे विमुक्त्यर्थं ज्ञेयत्वोक्तेर्न मायिकम् ।। २०३ ।।

सुरोत्तमटीका

 सर्वोत्तमत्वमपि लक्षणसूत्रादेव सिद्धमित्याह ।। पितृत्वेति ।। तद्ब्रह्म सर्वजगतस्स्रष्टृत्वेनेतत्पितृत्वात् । पालकत्वेन तत्पतित्व-लाभात् । उपलक्षणं चैतत् । ज्ञानमोक्षादिदानेन जगद्गुरुत्वेष्टदैवत्वादेरपि लाभात्पित्रादेश्च पुत्रादिभ्य उत्तमत्वस्य लोकसिद्धत्वेन ब्रह्मणस्सर्वोत्तमत्वमपि सिद्धमिति भावः । अत्रोक्तगुणभेदादीनां पारमार्थिकसत्यताप्याद्याधिकरणार्थ-पर्यालोचनया सिद्धेत्याह ।। पूर्वेति ।। पूर्वसूत्रे अथातो ब्रह्मजिज्ञासेति सूत्रे मुक्त्यर्थं ज्ञेयत्वोक्तेः जन्मादिसूत्रेषु करिष्यमाणजिज्ञासाख्यविचारस्यातो-ज्ञानायेति तत्तदधिकरणोक्तगुणभेदादि ज्ञानार्थकत्वस्य अतोमोक्षायेति तस्यैव पदस्यावृत्तौकृतायां ज्ञानद्वारामोक्षाख्य फलहेतुत्वस्य चोक्तेरित्यर्थः । तत्त-त्सूत्रोक्त गुणादिकं मायिकं मिथ्याभूतं नेति सम्बन्धः ।। उपलक्षणं चैतत् । जगत्कर्तृत्वाख्य ब्रह्मगुणपारमार्थिकत्वसिद्धावर्थाज्जगत्सत्यत्वसिद्धिरपीति द्रष्टव्यम् ।। २०३ ।।

सत्यप्रमोदटीका

 ‘करोति पितृवद्विष्वं पूर्णाशेषगुणात्मकः’ इत्यनु-व्याख्यानं हृदि कृत्वाऽऽह पितृत्वादिति । न मायिकमिति । ‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः’ इति पूर्वाधिकरणोदाहृतप्रमाणबलेनेति भावः  ।। २०३ ।।

युक्तिमल्लिका

नेहनानेति वाक्याच्च गुण्यभिन्ना गुणाश्च ते ।। २०४ ।।

सुरोत्तमटीका

 ब्रह्मणि गुणगुण्यभेदोपि सूत्रसूचनया श्रुत्याचसिद्ध इत्याह ।। नेह नानेति ।। ते गुणाः पुण्यभिन्नाः गुणिना ब्रह्मणाऽभिन्नाः । वाक्यादित्युपलक्षणम् । सूत्रसूचितत्वाच्चेत्यपि द्रष्टव्यम् । जन्मादिसूत्रेषु करिष्यमाणगुणादि जिज्ञासाया अप्यादिसूत्रे ब्रह्मजिज्ञासापदेनोक्तया गुणा-नामेव ब्रह्मत्वस्यापि सूचितत्वात् । श्रुतौ च इह ब्रह्मणि नानाभूतं किं च न नास्तीति साक्षाद्गुणादीनां भेदनिषेधात् गुण्यभिन्नगुणसिद्धिरिति भावः ।। २०४ ।।

सत्यप्रमोदटीका

 चेत्यनेन ‘विज्ञानमानन्दं ब्रह्मे’त्यादि तादात्म्य-बोधकसामानाधिकरण्योक्तीः समुच्चिनोति ।। २०४ ।।

युक्तिमल्लिका

गुणगुण्यादिभावाच्य बोध्यबोधकभावतः ।

तद्विशेषाश्च ते सूत्रकर्तृकर्मवदेव हि ।। २०५ ।।

सुरोत्तमटीका

 अधुना विशेषसिद्धिप्रकारमाह ।। गुणेति ।। आदि-पदेनावयवावयविभावादेर्ग्रहणम् । बोध्यबोधकभावतः लक्षणादिगुणानां व्यावर्तकतया ब्रह्मबोधकत्वात् ब्रह्मणो बोध्यत्वादित्यर्थः । ते गुणाः । तद्विशेषाः । तस्य ब्रह्मणोविशेषाः । ब्रह्मणा सह सविशेषाभिन्ना इत्यर्थः । सूत्रमर्यादयैव गुणगुण्यभेदस्य गुणगुणिभावादेश्च सिद्धेस्तद्घटकविशेषस्याप्यर्था-त्सिद्धिः । अन्यथा घटकरीरादिवत्पर्यायशब्दवाच्यत्वप्रसङ्गादिति भावः । तत्र दृष्टान्तमाह । सूत्रेति ।। कर्मप्रतिपाद्यो नारायण इत्यर्थः । यथैक्येऽपि व्यासस्य सूत्रकर्तृत्वं नारायणस्य सूत्रप्रतिपाद्यत्वं विशेषबलादुच्यते तथेत्यर्थः ।।२०५।।

सत्यप्रमोदटीका

 गुणगुणिनौ परस्परं सविशेषाभिन्नौ । सत्यप्यभेदे भेदेन व्यवह्रियमाणत्वात् सूत्रकृत्सूत्रकर्मणी इव इति प्रयोगोऽभिप्रेतः । न चासिद्धिः । अभेदस्य प्रमितत्वात् । गुणस्य लक्षणतया बोधकत्वेन गुणिनः परमात्मनो लक्ष्यतया बोध्यत्वेन इत्येवं भेदेन व्यवहारविषयत्वात् । नापि दृष्टान्तः साधनविकलः । एकस्यैव बादरायणस्य सूत्रकृत्त्वेन बोधकतया सूत्रप्रतिपाद्यत्वेन तत्कर्मतया बोध्यतया इत्येवं भेदेन व्यवहारविषयत्वादिति भावः । विशेषव्युत्पादने विस्तरः गुणसौरभे ।। २०५ ।।

युक्तिमल्लिका

आनन्दमयसूत्रोक्तरीत्या सोऽपि सुखाकृतिः ।

निराकारः कथं कुर्याद् ध्वस्तहस्तकुलालवत् ।। २०६ ।।

सुरोत्तमटीका

 इदानीं साकारत्वसिद्धिप्रकारमाह ।। आनन्दमयेति ।। आनन्दमयसूत्रोक्तरीत्या आनन्दमय इति सूत्रेणोक्ता सूचिता या तस्य प्रियमेव शिर इत्यादिका श्रुतिः तद्रीत्येत्यर्थः । सः परमात्मा सुखाकृतिः सुखमयशिरः पाण्याद्याकारवान् । जन्मादिसूत्रसूचनयापि तत्सिद्धिप्रकारमाह ।। निराकार इति ।। निराकारः हस्तपादाद्याकारशून्यः । कुर्याज्जगत्सृजेत् । अक्ष्णा परमाणून्निरीक्ष्यहस्तैरन्योन्यं संयोज्य महदादितत्वानि स्वोदरस्थ ब्रह्मादितत्वा-द्यभिमानि जीवांस्तेषु सङ्कलय्य ब्रह्माण्डतदन्तर्गतचतुर्दशभुवनानि च सिसृक्षुः पातालादि सत्यलोकान्तानि च पद्भ्याम्भूमिः ऊरूतदस्य यद्वैश्यः नाभ्या आसीदंतरिक्षं बाहूराजन्यः कृतः मुखादिन्द्रश्चाग्निश्च दिशश्श्रोत्रात् चक्षोस्सूर्यो अजायत शीर्ष्णोद्यौस्समवर्ततेत्यादिश्रुत्या पातालमेतस्य हि पादमूलमित्यादि स्मृत्याचोक्तरीत्या पादाद्यवयवैरुत्पाद्य तैरेव स्वावयवैस्सदाधारयतीति श्रुतिस्मृतिपञ्चरात्रादीनां संप्रदायः । इदं च प्रक्रियानिराकारस्य कथं स्यात् । अतो जन्माद्यधिकरणोक्तजगत्कर्तृत्व धारकत्वादि बलादपि भगवतस्साकारत्वं सिद्धमिति भावः । तत्र दृष्टान्तमाह ।। ध्वस्तहस्तेति ।। चक्षुराद्यवयव-स्याप्युपलक्षणमेतत्

।। २०६ ।।

सत्यप्रमोदटीका

 सूत्रोक्तेति । प्रियमेव शिरः इत्यादिना शिरःपाणि-मध्यदेहपादवत्वोक्तिरीत्येत्यर्थः । आनन्दमयेत्युपलक्षणम् । जन्मादिसूत्रेत्यपि ग्राह्यम् । विमतः करचरणाद्याकारवान् कर्तृत्वात् कुलालवत् । व्यतिरेकेण ध्वस्तहस्तादिकुलालवत् इति प्रयोगो ध्येयः । विपक्षे ‘तदैक्षत’ ‘पद्भ्यां भूमि-रजायत’ ‘पातालमेतस्य हि पादमूलम्’ इत्यादिश्रुतिविरोध बाधकाः । एतेन ‘शरीरजन्यत्वमितरत्राप्युपाधिरि’ति भगवत्पादोक्तिर्विवृता भवति ।। २०६ ।।

युक्तिमल्लिका

तस्मात्समस्तश्रुत्यर्थसूचनात्सूत्रमुच्यते ।। २०७ ।।

सुरोत्तमटीका

 तस्मादुक्तप्रकारेण वक्ष्यमाणप्रकारेण च सगुणत्व सकलजगद्भिन्नत्वसाकारत्वादिसकलसत्सिद्धान्त सिद्धार्थबोधकत्वप्रकारदर्शनात् ।। २०७ ।।

सत्यप्रमोदटीका

 समस्तश्रुत्यर्थेति । गुणपूर्णत्वं, जगद्भिन्नत्वं, गुणानाममायिकत्वं, स्वगतभेदराहित्यं, विशेषः सुखाकृतित्वं, इत्यादि-श्रुत्यर्थेत्यर्थः ।। २०७ ।।

युक्तिमल्लिका

एवं यो वेत्ति सूत्रार्थं स बन्धात्परिमुच्यते ।

न चेत्सूत्रार्थविच्छेदाच्छिद्यते यमकिङ्करैः ।। २०८ ।।

सुरोत्तमटीका

 उक्तविधया सूत्रार्थवेत्तुर्महाफलं विपरीतवेत्तुर्विपरीतफलं च दर्शयति ।। एवमिति ।। २०८ ।।

सत्यप्रमोदटीका

 विच्छेदात् विरुद्धभाषणात्, सूत्राणां पूर्वपक्षत्व-कम्पनेन तत्प्रामाण्यविच्छेदाच्च । यमकिङ्करैः वायुविङ्करैः । ‘उद्गाढं पात्यमानास्तमसि तत इतः किङ्करैः पङ्किले ते’ इत्याद्युक्तेः ।। २०८ ।।

युक्तिमल्लिका

विस्तरस्त्वस्य सर्वस्य भाष्यादिष्वेव दृश्यताम् ।

मूलशास्त्रार्णवोत्सिक्तबिन्दून्वन्दामहे वयम् ।। २०९ ।।

सुरोत्तमटीका

 स्मृतमूलशास्त्रमहिमा ग्रन्थकारः तेष्वेव परमादरं करोति ।। विस्तरस्त्वस्येति ।। अस्य प्रमेयस्य । विस्तरः युक्तिश्रुतिपुराण पञ्चरात्रादि वचनचातुरी चतुर ग्रन्थसन्दर्भैः प्रपञ्चीकरणम् । आदिपदेनानु-व्याख्यानोपनिषद्भाष्यादिकं गृह्यते । मूलशास्त्राख्यार्णवात् उत्सिक्ता ये बिन्दवः युक्तिलेशाः तानेव वन्दामहेस्तुमो नमस्कुर्मश्च । तत्र तु रुद्राद्या एवाधिकारिणः । अस्माकं त्वेतावत्येवशक्तिरिति भावः ।। २०९ ।।

सत्यप्रमोदटीका

 बिन्दून् एकदेशमात्रम् । वन्दामहे भक्त्या वर्णितवन्तः ।। २०९ ।।

युक्तिमल्लिका

तस्मादुत्सूत्रभाष्यस्य कर्ता दुर्भाष्यकृद्ध्रुवम् ।

भाष्यकारस्तु भगवान्मध्वो विद्वच्छिरोमणिः ।। २१० ।।

सुरोत्तमटीका

 इदानीं परभाष्यकारं निन्दन्स्वमूलभाष्यकारं स्तौति ।। तस्मादिति ।। उक्तप्रकारात् । उत्सूत्रभाष्यस्य सूत्रविरोधिभाष्यस्य । विद्वच्छिरोमणिस्समध्वः मध्व एव भाष्यकारः । सूत्रोक्तसूचितसकलप्रमेय प्रपञ्चनपरायणत्वादिति भावः ।। २१० ।।

सत्यप्रमोदटीका

 तुरेवार्थः मध्वः इत्यनेनान्वेति ।। २१० ।।

युक्तिमल्लिका

अतः परकृतं भाष्यं भाष्यं नाभूत्सभान्तरे ।

तस्मात् सूत्रोदितो ह्यर्थो निराकर्तुं न शक्यते ।। २११ ।।

सुरोत्तमटीका

 अधुनापरभाष्ये भाष्यशब्द एवानुचित इत्याह ।। अत इति ।। अतः सूत्रविरोधिभाष्यत्वात्सभान्तरे विद्वत्सभामध्ये । भाष्यं भाषितुं योग्यम् । अतोत्रभाष्पदमपि न शोभत इति भावः । तस्मात्सूत्र प्रतिकूल-भाष्यस्य भाषणायोग्यत्वात् ।। २११ ।।

सत्यप्रमोदटीका

 तेन तदतिरिक्ताः सर्वे एकविंशतिकुभाष्यकृत एवे-त्यभिप्रैति ।। २११ ।।