क्षीरं पिबसि तृप्तस्य सुखं साक्षी प्रपश्यति
परमार्थसत एव साधकत्वसमर्थनम्
युक्तिमल्लिका
क्षीरं पिबसि तृप्तस्य सुखं साक्षी प्रपश्यति ।
स्वप्रसूः किल माता न कथं पिबसि निन्दसि ।। ८०१ ।।
सुरोत्तमटीका
किञ्च विश्वमिथ्यात्ववादस्तवैवानुभवविरुद्ध इत्याह ।। क्षीरमिति ।। प्रसूः प्रसवित्री । स्वपोषकत्वात् क्षीरस्य स्वप्रसूत्वमुक्तम् । निन्दामि च पिबामि चेति दुर्नीतिरपि त्वय्येव दृष्टेत्याह ।। कथमिति ।। कर्मणा पिबसि वाचा मिथ्येति निन्दसीत्यर्थः । प्राक्स्वन्यायविरोध उक्तः । मध्ये स्वानुभवसिद्धसुखदातृतया स्वपोषकक्षीरस्य पोषकत्वोक्तया मिथ्या-त्वोक्तया च माता वन्ध्येतिवत्स्ववचनविरोधः । अन्ते स्वक्रियाविरोधश्चोक्त इति द्रष्टव्यम् ।। ८०१ ।।
सत्यप्रमोदटीका
मिथ्यात्वं वदंस्त्वमेव स्ववाङ्मनसविसंवादं कुरुष इत्याह क्षीरमिति । यथाऽह स्वयमेव बौद्धमतखण्डनावसरे ‘यथा हि कश्चित् भुञ्जानः, भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयात् नाहं भुञ्जे न वा तृप्यामीति कथमुपादेयवचनः स्यादिति (भे.प.ब्र.सू., शां.भा.२ २२८) ।। ८०१ ।।
युक्तिमल्लिका
असत्त्वमेव मिथ्यात्वं मम सर्वस्य संमतम् ।
अपसिद्धान्तदोषेण न तत्साध्यं भवेत्तव ।। ८०२ ।।
सुरोत्तमटीका
मम मते । सर्वस्य शुक्तिरजतादेश्शशविषाणादेश्च । तत् असत्त्वरूपमिथ्यात्वम् । ननु सार्वदेशिकसार्वकालिक निषेधप्रतियोगित्व-रूपमसत्त्वं न मदभिमतमिथ्यात्वम् । येन तत्साधने अपसिद्धान्तस्स्यात् । किंतु प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वमेव । इदं च प्रतिपन्नस्य रजतस्योपाधौ शुक्तिशकले त्रैकालिकनिषेधप्रतियोगित्वरूपमिति निरुपाख्या-दसतो व्यावृत्तम् । अतो नापसिद्धान्त इति चेत् अत्रापि प्रष्टव्यम् । प्रतिपन्नस्य यस्य कस्यचिद्रजतस्य वा अनुभूयमानारोपे पुरतः प्रतीतस्य वा उपाधौ त्रैकालिकनिषेधः उत शुक्तितया प्रतिपन्नस्यरजतस्य । नाद्यः केन-चिदानीतस्यैव रजतस्य शुक्तिशकलोपरि निक्षेपे सति सत्त्वसम्भवेनोक्त-निषेधस्यायुक्ततया दृष्टान्तस्य साध्यवैकल्यप्रसङ्गात् । पक्षे च सर्वाधारे ब्रह्मणि प्रतिपन्नस्य जगतः घटाधारभूतले प्रतीतघटस्येव निषेधासम्भवेन बाधाच्च ।
न द्वितीयः । शुक्तितया प्रतीतस्य शुक्तयात्मकरजतस्य सार्वदेशिक-सार्वकालिकनिषेधप्रतियोगित्वेन सदा सर्वत्राप्यसतश्शशशृृङ्गादविशेषेण तादृश-मिथ्यात्वसाधने पुनरपसिद्धान्ततादवस्थ्यात् । उपाधाविति विशेषणस्य वैयर्थ्याच्च । न च वाच्यमुक्तनिषेधप्रतियोगित्वेऽप्यपरोक्षतया प्रतीतत्वान्ना-सत्त्वमिति । गन्धवत्त्वरूपपृथिवी लक्षणवत्त्वेन समयोर्घटपरमाण्वोः प्रत्यक्षा-प्रत्यक्षपार्थिवरूपत्ववज्जगच्छशशशृृङ्गयोरप्युक्तनिषेधप्रतियोगित्वसाम्ये प्रत्यक्षा-प्रत्यक्षासद्रूपत्वस्यैव प्राप्तत्वेनासत्त्वापरिहारात् । निरुपाख्यपदेनैवं ख्यायमान-तया प्रतीयमानतया च निरुपाख्यत्वमसत्त्वमिति वदताऽप्यप्रत्यक्षत्वमेव निरुपाख्यत्वं वक्तव्यम् । तच्चातीन्द्रियधर्मादौ गतत्वात् नासत्त्वोपयोगि । किंतूक्तनिषेध एव तद्विषयत्वे च कथमसत्त्वपरिहारः । पारमार्थिकत्वेन तादृशनिषेधप्रतियोगित्वसाधनान्नापसिद्धान्त इति चेन्न । परमार्थतो जगत्सदा सर्वत्र नास्तीत्याकारकश्रुतेरभावेन श्रुतिजन्यतादृशबाधस्याप्यविद्यमानतया एतादृशनिषेधप्रतियोगित्वसाधने पुनर्बाधप्रसङ्गात् । दृष्टान्तेऽपि नेदं रजतमित्येव बाधदर्शनेन साध्यवैकल्याच्च । यदि च भ्रमकालेऽयं घट इत्याद्याकारेण ब्रह्मतया प्रतीतं जगत् उक्तनिषेधप्रतियोगीति साध्यते तदा प्रतिवादिमते एतादृशजगतोऽप्रसिद्धत्वादाश्रयासिद्धिः । तदभावसाधनस्येष्टत्वात्सिद्धसाधनता च । अनारोपितजगतोऽप्रतिषेधेन परस्यार्थान्तरता च स्यात् ।। ८०२ ।।
सत्यप्रमोदटीका
किं च साध्यं मिथ्यात्वं असत्त्वं चेदपसिद्धान्तः । असद्वैलक्षण्याङ्गीकारादित्याह अप्रसिद्धेति । स्वमतेन पक्षघटकं विशेषण-मप्रसिद्धं स्यादिति भावः । न च वाच्यं प्रतिपन्नोपाधाविति विशेषणान्न दोष इति । ‘का चेयं प्रतिपन्नता नाम । प्रमाणप्रतिपन्नता, भान्तिप्रतिपन्नता वा । नाद्यः । प्रमाणप्रतिपन्नस्य त्रिकालदेशनिषेधसाध्यप्रसङ्गात् । द्वितीये वक्तव्यं कोऽयं निषेधः । अभाववेदनं सद्विविक्तत्ववेदनं वा । नाद्यः अत्यन्तासत्त्वा-पातात् । न द्वितीयः । तस्यैवाद्याप्यनिरूपणात्’ इति वादावल्युक्तदूषणेन दृष्टत्वात् ।। ८०२ ।।
युक्तिमल्लिका
अन्यत्सदसतोरन्यदित्याद्यं सर्वमेव हि ।
ममाप्रसिद्धं तद्धेतुरप्रसिद्धविशेषणः ।
दृष्टान्तस्साध्यविकलः किं हेतुशतकेन ते ।। ८०३ ।।
सुरोत्तमटीका
अन्यत् असत्वादन्यन्मिथ्यात्वम् । सदसतोरन्यत्सद-सद्विलक्षणम् । आद्यपदेन स्वात्यन्ताभावसमानाधिकरणत्वज्ञानविनाश्यत्वादिकं गृह्यते । तत् तस्मात् । हेतुशतकेन जडत्वात्परिच्छिन्नत्वादित्यादिना हेतु-शतकेन । हेतुशतकस्यापि मिथ्यात्वं खलु साध्यम् । तच्चोक्तविधया एकं तव नाभूत् । अन्यदन्यस्याप्रसिद्धम् । एवं च मृतपुत्ररक्षणाय पितॄणां शतेनापि नालमिति भावः ।। ८०३ ।।
सत्यप्रमोदटीका
ननु मिथ्यात्वं नासत्त्वं येनापसिद्धान्तः किन्तु अन्य-देवेत्याशङ्क्य निराह अन्यदिति । तस्यैव विवरणं सदसतोरन्यदित्याद्यमिति । आद्यपदेन स्वात्यन्ताभावसामानाधिकरणत्वादिकं ग्राह्यम् । अप्रसिद्धं इति पररीत्या । स्वमते व्याघात एव दोषः । दृष्टान्त इति । तत्रासत्त्वस्यैव सत्त्वात् । किमिति व्याप्तिग्रहस्यैवासम्भवादिति भावः ।। ८०३ ।।
युक्तिमल्लिका
परोक्षज्ञानमसति शब्दादस्तीति ते मतम् ।
तच्च खण्डपदं शक्तिग्रहे सत्येव बोधयेत् ।
शक्तसम्बद्धमथवा नासम्बद्धार्थबोधकम् ।। ८०४ ।।
सुरोत्तमटीका
सच्चेन्न बाध्येत असच्चेन्न प्रतीयेतेति शुक्तिरजते सदसद्वै-लक्षण्यप्रसिद्धिसंपादनायार्थापत्तिं वदता प्रतीत्या असद्वैलक्षण्यं शुक्तिरजतादौ परेणोच्यते । तत्र परोक्षप्रतीत्या वा अपरोक्षप्रतीत्या वेति विकल्प्योभयथापि तव नासद्वैलक्षण्यसिद्धिरित्याह ।। परोक्षेति ।। अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति तद्वचनादिति भावः । तद्बोधकवाक्यस्थितं खण्डपदम् । शक्तिग्रहे योग्येतरान्वितस्वार्थाभिधायकत्व रूपशक्तिग्रहे । अमुख्यवृत्त्या बोधकं चेत् शक्येन मुख्यार्थेन सम्बद्धन्तीरादिकं बोधयेदिति सम्बन्धः ।। ८०४ ।।
सत्यप्रमोदटीका
‘न चार्थापत्त्याऽनिर्वचनीयसिद्धिः । असतः प्रतीतिं विना असद्वैलक्षण्यज्ञानासिद्धेः’ इति भगवत्पादोक्तिं समर्थयते परोक्षज्ञान-मसतीत्यादिना । न तावदसतः प्रतीतिरेव नास्ति इति वक्तुं शक्यम् । अज्ञाते धर्मिणि प्रतीतिविषयत्वरूपधर्मस्य निषेधायोगात् । यथोक्तं ‘न ह्यज्ञाते धर्मिणि कस्यचिद्धर्मस्य विधानं वा निषेधो वा युज्यत’ इति । येन पुंसा शशशृङ्गाभावो न निश्चितः तेन गोशृङ्गमस्तीति वाक्यादिव शशशृङ्गमस्तीति वाक्यादपि बोधस्यानुभवसिद्धत्वात् । अङ्गीकृतश्च परेणापि । यथाऽऽह–
अत्यन्तासत्यपि ह्यर्थे शब्दो ज्ञानं करोति हि ।
अबाधात्तु प्रमामत्र स्वतःप्रामाण्यनिश्चलाम् ।। इति ।
करणानि ज्ञानजननायावश्यमर्थेन प्रत्यासत्तिमपेक्षन्ते । अन्यथाऽति-प्रसङ्गादित्याह तच्चेति । खण्डपदमिति । वाक्यघटकं वा वाक्यतुल्ययौगिक-पदघटकं वा इत्यर्थः ।सम्बद्धमिति उपलक्षणम् । सादृश्यवदित्यपि ग्राह्यम् । तेन गौणीवृत्तिसंग्रहः।।८०४ ।।
युक्तिमल्लिका
पदद्वयात्मकं वाक्यं समस्तं वा पदं भवेत् ।
योग्यताऽऽवश्यकी तत्र सापि शक्यार्थसङ्गतिः ।। ८०५ ।।
सुरोत्तमटीका
समस्तं पदद्वयसमासघटितम् । यथा सरसीरुहमिति पदम् । द्विविधवाक्येऽप्यर्थपदयोस्साक्षाद्वाच्यवाचकभावसम्बन्धो वाऽर्थद्वारा सम्बन्धो वाऽपेक्षितः । सर्वथाऽसम्बद्धार्थज्ञानजनकत्वं न वाक्यस्यापीति भावः । प्रयोजकान्तरमप्याह ।। योग्यतेति ।। सा योग्यता । शक्यार्थसङ्गतिः शक्यार्थयोः परस्परसम्बन्धः ।। ८०५ ।।
सत्यप्रमोदटीका
द्वयेति । अनेकेत्यर्थः । समस्तेति यौगिकेत्यर्थः । आवश्यकी शब्दप्रमायां वर्तते । न तु प्रमां प्रति कारणम् । शक्यार्थसङ्गतिः पदबोध्यार्थानां अन्वयः ।। ८०५ ।।
युक्तिमल्लिका
असम्बद्धार्थबोधस्तु न शब्दादपि जायते ।
असतस्सर्वशून्यस्य कथं शब्दोऽपि बोधकः ।। ८०६ ।।
सुरोत्तमटीका
असम्बद्धार्थबोध इत्यत्र सम्बन्धपदेन साक्षाच्छब्दार्थ-योरर्थयोस्सम्बन्धोऽर्थद्वारा सम्बन्ध इति त्रितयं गृह्यते । तत्र साक्षा-त्सम्बन्धेनार्थबोधकमुख्यवाक्ये परम्परासम्बन्धेनार्थबोधकामुख्यवाक्ये चार्थयो-र्मिथस्सम्बन्धात्मिका योग्यतोभयत्राप्यपेक्षितेति विवेको द्रष्टव्यः । सर्वशून्यस्य सम्बन्धत्रयशून्यस्य । शब्दः शशस्य विषाणमिति भिन्नपदात्मको वा शश-विषाणमिति समस्तपदात्मको वा । शशशृृङ्गस्य साक्षाच्छब्दसम्बन्धाभावात् अर्थद्वारा सम्बन्धाभावात् शशविषाणपदार्थभूतयोर्विषाणशशयोर्मिथस्सम्बन्धा-भावाच्च कथं शब्दबोध्यतेति भावः ।। ८०६ ।।
सत्यप्रमोदटीका
शब्दादपि न केवलं प्रत्यक्षानुमानाभ्याम् । असम्ब-द्धेति । शाब्दबोधस्थले पदार्थयोः, आर्थिकार्थस्थले अर्थयोः, परस्पर-सम्बन्धरहितेत्यर्थः ।। ८०६ ।।
युक्तिमल्लिका
यदि दोषवशाच्छब्दो बोधयेत्तदसङ्गि च ।
असन्निकृष्टमेवास्तु शुक्तौ रजतमप्यसत् ।
दोषोपोद्बलितं चक्षुर्गृह्णीयादविशेषतः ।। ८०७ ।।
सुरोत्तमटीका
अथ सम्बन्धाभावेऽपि अयोग्यार्थकपदयोस्सहो-च्चारणाख्यदोषवशादसम्बद्धस्यापि शशविषाणस्य भ्रान्तिश्चेत् असतश्शुक्ति-रजतस्याप्यसम्बद्धस्यैव दोषवशादपरोक्षभ्रमोऽप्यस्त्वित्याह ।। यदीति ।। तत् शशशृृङ्गम् । असदप्यस्त्विति सम्बन्धः
।। ८०७ ।।
सत्यप्रमोदटीका
शब्दजन्ये शशशृङ्गमस्तीति भ्रमे योग्यताऽज्ञानात् योग्यताभ्रमाद्वा दोषाद्विपरीतान्वयबोधो जायते । दोष एव तत्र सन्निकर्ष-कार्यकार इति भावः ।। एवं चापरोक्षभ्रमस्थलेऽपि दोषवशादसन्निकृष्टस्यापि रजतस्योल्लेखः सम्भवतीति भावः । अविशेषतः । दोषस्येति शेषः । परोक्ष-भ्रमे दोषः योग्यताभ्रमादिः अपरोक्षभ्रमे तु सादृश्यादिरित्यन्यदेतत् ।। ८०७ ।।
युक्तिमल्लिका
अपरोक्षप्रतीत्या तन्नासत्त्वं तस्य गच्छति ।
क्वचिद्भवति शास्त्रार्थः क्वचिन्नेति कथं वद ।। ८०८ ।।
सुरोत्तमटीका
तत् तस्मात् । असतोऽपि दोषवशात् परोक्षप्रतीतिवत् अपरोक्षप्रतीतेरपि सम्भवात् । तस्य शुक्तिरूप्यस्य ।। ८०८ ।।
सत्यप्रमोदटीका
क्वचित् एकमेव वस्तु अन्याकारेण परोक्षप्रतीतौ, अपरोक्षप्रतीतौ च भासत इत्यनुभवः । तथा चासत एवान्याकारस्य सत्त्वेन परोक्षप्रतीतेः स्वीकारः अपरोक्षप्रतीतेः पुनर्निषेधः निर्निबन्धनः । अर्थासत्त्व-स्योभयत्र साम्यादित्याह अपरोक्षेति ।। ८०८ ।।
युक्तिमल्लिका
भूतले घटनास्तित्वं चक्षुषा दृश्यते यदा ।
प्रतियोगी कथं तत्रासन्निकृष्टोऽपि दृश्यते ।। ८०९ ।।
सन्निकृष्टसता साकं तत्सत्त्वे नास्तितैव न ।
अनन्यगत्या तन्मात्रे नियमस्त्यज्यते यदि ।। ८१० ।।
न शुक्तिरूप्यसत्त्वे स्याद्भ्रमता लोकसंमता ।
अनन्यगत्या तद्भ्रान्तौ सन्निकर्षोऽपि नेष्यताम् ।। ८११ ।।
सुरोत्तमटीका
युक्त्यन्तरेणाप्यसम्बद्धार्थापरोक्षप्रतीतिमनुभावयति ।। भूतल इति ।। प्रतियोगी घटः ।। तत्सत्त्वे प्रतियोगिसत्त्वे । अनन्यगत्या प्रतियोगि-सत्त्वसापेक्षचक्षुस्सन्निकर्षापेक्षायामभावस्यैवाभावप्रसङ्गात् सन्निकर्षाख्यगत्य-योगेनेत्यर्थः । तन्मात्रे अभावप्रतियोगिमात्रे । नियमः सन्निकर्षनियमः । प्रकृतेऽपि सममित्याह ।। नेति ।। तत् तस्मात् । सन्निकर्षापेक्षायां शुक्ति-रूप्यस्यापि सत्त्वप्रसङ्गात् ।। ८०९–८११ ।।
सत्यप्रमोदटीका
चक्षुषेति । ‘क्वचिद् घटाद्यभावोऽपि प्रत्यक्षेणैव गम्यत’ इत्युक्तेः । तत्र प्रतियोगिनो घटस्य ज्ञानोल्लेख्यत्वेऽपि न चक्षुषः सन्निकर्षोऽस्ति । तथा च ज्ञानस्य तदुल्लेखित्वे तत्सन्निकृष्टकरणजन्यत्वं तन्त्रं इति नियमस्तत्र त्वयैव त्याज्य इत्याह भूतल इति । परमुखेन समाधिं वाचयित्वा समं भ्रमस्थलेऽपीत्याह सन्निकृष्टेति । सता भूतलेन । तत्सत्त्वे घटसत्त्वे । नास्तितैव न अभावबुद्धिरेव न स्यात् । अनन्यगत्या असन्निकर्षा-दन्या गतिः सन्निकर्षः तस्यायोगेन ।। समः समाधिरित्याह नेति । रूप्यस्यापि सन्निकृष्टत्वे सत एव सत्त्वेन भानमित्यापत्त्या भ्रान्तिव्यवहारलोप-प्रसङ्ग इत्याह भ्रमतेति । सतोऽसत्त्वेन, असतः सत्त्वेन च प्रतीतेरेव भ्रान्तित्वादिति भावः ।। ८०९–८११ ।।
युक्तिमल्लिका
अतिप्रसङ्गदोषं तु दोष एवापनेष्यति ।
प्रतिमल्लं यथा मल्लस्तदसत्त्वेऽपि का क्षतिः ।। ८१२ ।।
सुरोत्तमटीका
अतिप्रसङ्गदोषं असम्बद्धत्वाविशेषात् शुक्तिरजतभ्रमवत् रज्जुसर्पभ्रमोऽप्यस्त्विति दोषम् । दोषः अधिष्ठानस्य रजतसादृश्याख्यदोषः । तत् तस्मात् । उक्तरीत्या असतोऽप्यपरोक्षप्रतीतिसम्भवात् ।। ८१२ ।।
सत्यप्रमोदटीका
अतिप्रसङ्गेति । घटसन्निकृष्टेन चक्षुषा पटादिज्ञान-रूपेत्यर्थः । दोषः सादृश्यादिः ।। ८१२ ।।
युक्तिमल्लिका
असद्रजतमेवेति ह्यनुभूतिर्बलीयसी ।
न चेत्तव मते साक्षी तत्साक्षात्कुरुते कथम् ।। ८१३ ।।
असन्निकृष्टतज्ज्ञाने चक्षुषोऽप्यस्तु सा गतिः ।
सन्निकर्षे त्वर्थसत्त्वात्तज्ज्ञानं न भ्रमो भवेत् ।। ८१४ ।।
सन्निकर्षेण चक्षुश्च कुतस्तन्न प्रकाशयेत् ।
तमो हि चक्षुषा दृश्यं केवलाविद्यकं च ते ।। ८१५ ।।
सुरोत्तमटीका
नेयं स्वकपोलकल्पनेत्याह ।। असदिति ।। हिशब्देन एतादृशानुभवस्य सर्वजनप्रसिद्धतां सूचयति । तस्मादनुभवकलहोऽपि नास्तीति भावः । प्रतिबन्द्यन्तरं चाह ।। न चेदिति ।। तत् स्वासम्बद्धशुक्तिरूप्यम् । साक्षिणोऽपि परसम्बन्धिसुखाद्यग्रहणेन सम्बन्धसापेक्षत्वनियमादिति भावः ।। सन्निकर्षे तु साक्षिणश्शुक्तिरजतस्य च सन्निकार्षाङ्गीकारे । तज्ज्ञानं शुक्ति-रजतज्ञानम् ।। ननु केवलाविद्यकत्वाच्छुक्तिरजतस्य न चाक्षुषत्वमित्यत आह ।। तम इति ।। ८१३–८१५ ।।
सत्यप्रमोदटीका
‘असदेव रजतं प्रत्यभात् इत्युत्तरकालीनानुभवात् शुक्तिरेवात्यन्तासद्रजतात्मना प्रतिभातीत्याचार्याः’ इति पद्धत्युक्तमाह असदिति । किं च शुक्तिरूप्यादिप्रातिभासिकपदार्थानां भानं साक्षिणैवेति वदता त्वयैव सन्निकर्षनियमः परित्यक्त इत्याह साक्षीति । तत्रापि सन्निकर्षाङ्गीकारे रजत-स्यापि सत्त्वापत्तिः चक्षुषाऽपि तद्ग्रहणापत्तिश्चेत्याह सन्निकर्षे त्विति । चक्षुश्चेति च । न चाविद्यकत्वाद्रूप्यस्य चक्षुषा भानायोगः । तथाभूतस्यापि तमसश्चक्षुषा भानाङ्गीकारादित्याह तमो हीति।।८१३–८१५ ।।
युक्तिमल्लिका
शशस्य शृृङ्गिताऽभावं यो न जानाति दूरतः ।
स तु कर्णद्वयं दृष्ट्या शशशृृङ्गं च चक्षुषा ।
किं न प्रत्येत्यसत्तस्मादापरोक्षिकमेव हि ।। ८१६ ।।
सुरोत्तमटीका
प्रकारान्तरेणाप्यसतोऽपरोक्षप्रतीतिमनुभावयति ।। शश-स्येति ।। कर्णद्वयं शृृङ्गाकारं शशकर्णद्वयम् । शशशृृङ्गं शशशृृङ्गमिति ऊर्ध्वी-भूतशशकर्णयोरिमे शशशृृङ्गे इति भ्रमः चक्षुषैव जायत इत्यर्थः । तस्मात् उक्तविधया चक्षुषैव शशशृृङ्गभ्रमस्यानुभवसिद्धत्वात् । आपरोक्षिकम् अपरोक्ष-भ्रमयोग्यम् ।। ८१६ ।।
सत्यप्रमोदटीका
असतः सत्त्वेनापरोक्षप्रतीतिविषयतां स्थलान्तरेऽनु-भावयति शशस्येति । कर्णद्वयमिति । तस्य शृृङ्गद्वयेन ऊर्ध्वत्वरूपसादृश्य-सद्भावादिति भावः । न जानातीति बाधानुसन्धानाभावः । तथा च प्रत्यक्षभ्रमसामग्री सर्वाऽप्यविकलेति भावः ।। ८१६ ।।
युक्तिमल्लिका
प्रातिभासिकनामापि यदि तस्य प्रदीयते ।
प्राग्जातस्य कुमारस्य तन्नामकरणान्तरम् ।। ८१७ ।।
सुरोत्तमटीका
ननु प्रतीतं शशशृृङ्गमपि प्रातिभासिकमिति मम मतम् । अतः कथम् असतोऽपरोक्षप्रतीतिरिति चेत् । सत्यम् । प्रतीतत्वे प्राति-भासिकत्वं वदता प्रतीतिः कस्येत्युक्ते असत इत्येवोत्तरं वक्तव्यम् । प्रतीतिसमसमयवर्तिनो वा प्रतीत्युत्तरकालीनस्य वा प्रातिभासिकस्य प्रतीतेः प्रागभावात् । अतः कथं नासतः प्रतीतिरित्याह ।। प्रातिभासिकेति ।। तस्य शशशृृङ्गस्य ।। ८१७ ।।
सत्यप्रमोदटीका
नामेति । प्रतीतस्यासतः प्रातिभासिकेति त्वत्परि-भाषामात्रेण न प्रतीतिरपलापार्हा इत्याह प्रागिति ।। ८१७ ।।
युक्तिमल्लिका
असतश्शशशृङ्गस्य प्रत्यक्षेण भ्रमे सति ।
प्रातिभासिकता स्याच्चेत्प्राग्धीरसत एव सा ।। ८१८ ।।
सुरोत्तमटीका
प्राक् प्रातिभासिकनामकरणात्पूर्वम् । तस्मादसतः परोक्षयाऽपरोक्षया च भ्रान्त्या विषयीकरणसम्भवेनासच्चेन्न प्रतीयेतेति व्याप्त्य-सम्भवात् नार्थापत्त्यापि सदसद्वैलक्षण्यसिद्धिरिति भावः ।। ८१८ ।।
सत्यप्रमोदटीका
असत इति । परोक्षभ्रमे असदित्यङ्गीकृतस्य तस्यैव अपरोक्षभ्रमोत्पत्तौ प्रातिभासिकेति नामान्तरकरणमात्रेण न अपरोक्षतः प्रतीतस्य असत्त्वं अपगच्छतीत्याशयः ।। ८१८ ।।
युक्तिमल्लिका
अर्थाभावकृतासत्त्वं कस्तदा तस्य मोचयेत् ।
मिथ्यात्वसाधिका दृष्टिः किं तेऽर्थाभावबाधिका ।। ८१९ ।।
सुरोत्तमटीका
पराङ्गीकृतप्रातिभासिकतादशायामपि शशशृृङ्गादेरसत्त्वं युक्त्या साधयति ।। अर्थेति ।। तदा प्रतीतिदशायाम् । तस्य प्रतीयमान-शशशृृङ्गस्य । तत्रापि परेण दृश्यत्वतः प्रातिभासिकत्वरूपमिथ्यात्वसाधनात् मिथ्यात्वसाधिकेत्युक्तम् ।। ८१९ ।।
सत्यप्रमोदटीका
अर्थाभावेति । अध्यस्ततुच्छयोरुभयोरपि लक्षणेऽर्था-भावस्य साम्यादिति भावः । यथोक्तं न्यायामृते–
त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता ।
सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी ।। इति ।। ८१९ ।।
युक्तिमल्लिका
सत्त्वप्रतीतिर्भ्रान्तिश्चेदसत्त्वे सति शोभते ।
प्रमारूपा च सा नास्ति किं तस्यासत्त्वमोचकम् ।। ८२० ।।
सुरोत्तमटीका
भ्रान्तिकालीनसत्त्वप्रतीत्याऽसत्त्वबाधकशङ्कां परिहरति ।। सत्त्वेति ।। भ्रान्तिश्चेदिति । तदभाववति तत्प्रकारकत्वस्य भ्रान्तित्वात् सत्त्वाभावासत्त्वयोश्च पर्यायत्वादिति भावः । प्रमा चेत्स्यादपि बाधिका । सा तु नास्तीत्याह ।। प्रमेति ।। सा सत्त्वप्रतीतिः । तस्य प्रतीयमानशशशृृङ्गस्य ।। ८२० ।।
सत्यप्रमोदटीका
सत्त्वेन प्रतीयते अतो नासत्त्वं इति चेत् किं सा प्रतीतिः भ्रान्तिः उत प्रमा । नाद्यः तस्याः असत्त्वसाधकत्वेन बाधकत्वा-योगात् । सत एव सत्त्वेन प्रतीतौ भ्रान्तित्वायोगात् । अनिर्वचनीयार्थाभासो भ्रम इति तु अनवस्थापराहतम् । न द्वितीयः तदभावादेव । प्रमायां विषयस्य बाधानुपपत्तेः ।। ८२० ।।
युक्तिमल्लिका
असन्निकृष्टदृष्टिस्तु समा पक्षद्वयेऽपि ते ।
परिणामात्परीहारे त्रिकाल्यां बाध्यता गता ।। ८२१ ।।
सुरोत्तमटीका
पक्षद्वये प्रातिभासिकत्वपक्षे असत्त्वपक्षे च । ननु प्रतीतिदशायाम् अविद्यापरिणामरूपत्वात् कथमसत्त्वमित्यत आह ।। परिणा-मादिति ।। वर्तमानदशायां सत्त्वप्रसङ्गेन बाधायोगादिति भावः ।। ८२१ ।।
सत्यप्रमोदटीका
पक्षद्वये असत्त्वपक्षे प्रातिभासिकसत्त्वपक्षे च । प्रतिभासमात्रशरीरस्य प्रातिभासिकस्य प्रतिभासात्पूर्वमभावेन सन्निकर्षा-सम्भवादिति भावः । परिणामादिति अविद्योपादानत्वाङ्गीकारादिति भावः । बाध्यता त्रैकालिकनिषेधः भ्रमकाले सत्त्वस्य कालत्रयासत्त्वविरोधित्वादिति भावः । तदुक्तं वादावल्याम् । ‘पदार्थस्यासत्त्वेन तदुपादानताया असम्भवि-त्त्वादि’ति ।। ८२१ ।।
युक्तिमल्लिका
पूर्वं च नासच्छृङ्गं स्यादनुत्पन्नघटादिवत् ।
विद्युद्बुद्बुदधीकल्पा धीश्च तस्य प्रमा भवेत् ।। ८२२ ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। पूर्वमिति ।। प्रतीतिदशायां शशशृृङ्गस्योत्पन्नत्वे पूर्वं प्रागभावप्रतियोगित्वमेव स्यात् । नात्यन्तासत्त्वमिति भावः । तस्य शशशृृङ्गस्य । तदानीमेवोत्पन्नविनष्टत्वाङ्गीकारादपि न भ्रान्तित्वमिति सूचनाय निदर्शनम् ।। ८२२ ।।
सत्यप्रमोदटीका
उत्पद्य विनष्टत्वे घटादिवत्सत्यतैव स्यात् तद्धीश्च विद्युदादिज्ञानवत् प्रमैव स्यादित्याह पूर्वमिति । यथोक्तं परेणैव ‘सतो हि घटादेरुत्पत्तिविनाशौ दृष्टौ नासतः शशविषाणादेरि’ति ।। ८२२ ।।
युक्तिमल्लिका
तस्मात्तदसदेवासीदतस्तेन गतं मतम् ।। ८२३ ।।
सुरोत्तमटीका
तस्मात्परिणामे तद्धीप्रमात्वप्रसङ्गात् । तत् प्रतीयमानं शशशृृङ्गम् । अतः असत्त्वात् । तेन प्रागुक्ततदपरोक्षज्ञानेन
।। ८२३ ।।
सत्यप्रमोदटीका
अतः स्ववचनविरोधात् अविद्योपादानकत्त्वस्या-सङ्गतत्वात् । तत् शशशृृङ्गम् । तेन कर्णद्वयाधिष्ठाने शृृङ्गद्वयस्य सत्त्वेन अपरोक्षतयाऽवभासेन । मतं असतः सत्त्वेनापरोक्षतया प्रतीतिर्नास्तीति मतम् ।। ८२३ ।।
युक्तिमल्लिका
अयोग्यार्थकवाक्यं हि शक्त्यभावान्न शक्यवत् ।
शक्यसम्बन्धसादृश्याधीना वृत्तिस्ततोऽस्य न ।। ८२४ ।।
करणस्थायोग्यताख्यदोषेण नयनादिवत् ।
असन्निकृष्टस्यात्यन्तासत एव हि धीरभूत् ।। ८२५ ।।
सुरोत्तमटीका
प्रागर्थगतदोषेणैव शशशृृङ्गभ्रम इत्युक्तं नासम्बद्धार्थ-बोधकमित्येव चोक्तम् । इदानीं तं दोषं करणगतं कर्तुं गौण्यामपेक्षित-सादृश्याख्यनिमित्तान्तराभावं वक्तुं पुनराह ।। अयोग्येति ।। अयोग्यार्थकवाक्यं शशविषाणमित्यादिवाक्यम् । शक्त्यभावात् शशविषाणपदार्थयोः परस्पर-मन्वयायोग्यत्वेन योग्येतरान्वितस्वार्थाभिधायकत्वरूपशक्त्यभावात् । शक्यवत् इतरान्वितापरपदार्थरूपशक्यवत् । ततः शक्यस्यैवाभावात् । शक्यसम्बन्ध-सादृश्याधीना शक्यस्य एकैकपदार्थस्य सम्बन्धसादृश्ये अयोग्यार्थनिष्ठे ये सम्बन्धसादृश्ये तन्निरूपितैतद्धर्मिकसम्बन्धसादृश्ये इत्यर्थः । तदधीना अयोग्यार्थे लाक्षणिकी औपचारिकी वा वृत्तिः । अस्य शशविषाणपदस्य नेति सम्बन्धः ।
इदमुक्तं भवति । शशविषाणपदाच्छशसम्बन्धिविषाणरूपोऽर्थः न मुख्य-वृत्त्या वाच्यः । योग्येतरान्वितस्वार्थाभिधायकवाक्यस्य योग्यान्वितार्थ एव शक्तत्वात् । शशविषाणस्य च योग्येतरान्वितार्थत्वाभावेन प्रत्युतान्योन्य-सम्बन्धायोग्यशशविषाणाख्यविरुद्धार्थघटितत्वेन शशविषाणपदस्य तत्र शक्त्य-योगात् । अर्थस्य च तद्वाक्यशक्त्यत्वायोगाच्च न सिंहो देवदत्त इत्यादि वाक्यस्य सिंहेनैकीभूतदेवदत्तोऽर्थः । नाप्यमुख्यवृत्त्या लक्षणया गौण्या वा शशविषाणरूपोऽर्थश्शशविषाणपदार्थः । गङ्गायां घोष इत्यत्र गङ्गापदशक्यार्थ-भूतप्रवाहसम्बन्धस्य तीर इव शशादिपदशक्यशशाद्यर्थसम्बन्धस्यापि शश-विषाणेऽभावात् । सिंहपदशक्यार्थभूतसिंहसादृश्यस्य देवदत्त इव शशादि-सादृश्यस्यापि शशविषाणेऽभावात् । इतरान्वयविशिष्टस्य शक्यत्वे विशेष्यस्यापि शक्यत्वात् शक्यसम्बन्धसादृश्यनिरूपणे प्रवाहादिकमेव शक्यम् । सप्तम्यन्त गङ्गापदोक्तप्रवाहनिष्ठाधारत्वं प्रति पदान्तरोक्तघोषस्य समानाधिकरण सिंह-पदोक्तसिंहतादात्म्यं प्रतीतरपदार्थदेवदत्तस्य चापरसम्बन्धित्वायोगेन लक्षणा-गौण्योः क्त्यक्येऽन्वयवैशिष्ट्यासम्भवात् मुख्यतश्शब्दस्य शक्यं तु विशिष्टमेवेति द्रष्टव्यम् । न हि गङ्गापदमपि स्वायोग्यार्थरूपं प्रवाहनिष्ठं घोषाधारत्वं लक्षयति । न वा सिंहपदं सिंहेनैकीभूतं देवदत्तं गौण्या वा वक्ति । उभयोरप्यप्रामाणिकत्वमेव ह्यलक्ष्यत्वेऽगौणत्वे बीजम् । किन्तु तत्सम्बन्धितया तत्सदृशतया च प्रमितं तीरं देवदत्तं वा अमुख्यया वृत्त्या वक्ति । अतो मुख्यामुख्ये द्वे अपि वृत्ती प्रमित एव पदार्थे वर्तेते नाप्रमिते । अतश्शश-विषाणपदमपि प्रमितेऽर्थान्तरे गौण्या लक्षणया वा वृत्त्या प्रवर्तेतापि । न हि कश्चिदपि शशकर्णं विषाणोपमत्वाच्छशविषाणमिति व्यवहरति चेत् कोऽप्य-पराधोऽस्ति । शशविषाणरूपमर्थं त्वप्रामाणिकत्वात् न मुख्यया नापि लक्षणया न वा गौण्या वृत्त्या वक्ति । स्वयोग्यवृत्तिं विना निमित्तान्तरतो बोध्यस्य च चक्षुर्बोध्यचक्षुरयोग्यसौरभवन्न तदर्थत्वम् । कथमन्यथा घट-पटादिकमेव पदार्थो न शशविषाणादिरिति ।।
कथं तर्हि शशविषाणादिशब्दात्तत्प्रतीतिरित्यतो दोषवशादसन्निकृष्टस्यापि प्रतीतिरित्याह ।। करणेति ।। अयोग्यताख्यदोषेण अयोग्यार्थकत्वाख्यदोषेण । नयनादिवत् । यथा काचादिदोषकलिलं नयनमसन्निकृष्टमेव शुक्तिरजतं बोधयति तद्वदित्यर्थः
।। ८२४,८२५ ।।
सत्यप्रमोदटीका
परोक्षभ्रमे सन्निकर्षाभावं दोषस्यैव च तत्कार्यकारित्वं प्रागुक्तं विशदयति अयोग्येति । न तावत् शशशृङ्गमस्तीति वाक्यात् शशशृङ्गमिति समस्तपदेनैव वा बोध एव न भवतीति युक्तम् । तदुक्तं न्यायामृते ‘‘न ह्यत्र ‘घढधषि’ निरर्थकेष्विव पदार्थधीरेव वा, ‘कुण्ड-मजाजिनम्’ इत्याद्यपार्थकेष्विव अन्वयधीर्वा नास्ति । विपरीतबोधकेषु योग्यताऽभावेऽपि अयोग्यत्वज्ञानाभावमात्रेण योग्यताभ्रमेण वा आकाङ्क्षा-सन्निधिभ्यां ज्ञानोत्पत्तेरनुभवात् । अन्यथा प्रवृत्त्यादेरयोगात् । योग्यताहीना-द्वाक्याद्भ्रमानुत्पत्तौ च तद्धीनात्प्रतिवादिवाक्याद्धीरेव न स्यादिति कथा बधिरकलहः स्यात्’’ इति (१/६१) अयमत्राशयः । पदानां हि योग्ये-तरान्विते वृत्तिः । योग्यं च प्रमाणाविरुद्धम् । शशशृङ्गयोः सम्बन्धः प्रमाणविरोधादयोग्यः । अतो न तत्र मुख्या वाऽमुख्या वा वृत्तिः सम्भवति । अतः शब्दाद्भ्रमः, करणगताऽयोग्यताऽऽख्यदोषमूलक एवेति । नयनवत् । पित्तदूषितं नयनं शङ्खेऽविद्यमानमेव पीतत्वं असन्निकृष्टमपि यथा दर्शयति तद्वत् ।। ८२४,८२५ ।।
युक्तिमल्लिका
इति सर्वैस्समाधेयं ततः प्रत्यक्षदर्शने ।
दोषादसन्निकृष्टस्य भानं को दूषयेद्बुधः ।। ८२६ ।।
शब्दादसन्निकृष्टस्य शशशृङ्गस्य धीर्यथा ।
अक्षादसन्निकृष्टस्य शुक्तिरूप्यस्य धीस्तथा ।। ८२७ ।।
सुरोत्तमटीका
सर्वैः शब्दात् शशविषाणज्ञानमङ्गीकुर्वद्भिः । ततः परोक्षमानेऽसन्निकृष्ट करणेन ज्ञानजननाङ्गीकारात् । एकत्र निर्णीतश्शास्त्रार्थोऽ-परत्रापीति न्यायादिति भावः ।। ८२६,८२७ ।।
सत्यप्रमोदटीका
ततः परोक्षभ्रमे करणदोषादसन्निकृष्टभानस्यानुभव-सिद्धत्वात् । प्रत्यक्षदर्शने शुक्तिरूप्यादिभ्रमे ।। तथेति । असन्निकृष्टकरण-जन्यत्वे ज्ञानस्य अतिप्रसङ्गं यथा दोषो वारयति तथैवापरोक्षभ्रमस्थलेऽपीति भावः ।। ८२६,८२७ ।।
युक्तिमल्लिका
परोक्षधीः परीणामं यथा नापेक्षते तव ।
अपरोक्षापि धीस्तद्वत्तं व्यर्थं किमपेक्षते ।। ८२८ ।।
सुरोत्तमटीका
तं परिणामम् ।। ८२८ ।।
सत्यप्रमोदटीका
यथा अर्थस्यासत्त्वादेव । तं परिणामम् । व्यर्थं अर्थासत्त्वस्य साम्यात् ।। ८२८ ।।
युक्तिमल्लिका
ज्ञानस्य सन्निकर्षत्वकथाऽप्यत्र वृथैव तत् ।
दोषे सति तु किं तेन दोषाभावेऽपि किं ततः ।। ८२९ ।।
सुरोत्तमटीका
तत् तस्मात् दोषवशादसन्निकृष्टस्यैव शाब्दज्ञान-जनकत्वदर्शनात् । तेन ज्ञानाख्यसन्निकर्षेण । दण्डज्ञानसद्भावेऽपि दण्ड-सन्निकर्षाभावदशायां दण्डीति विशिष्टज्ञानादर्शनात् विशेषणसन्निकर्ष एव ज्ञानजनको न ज्ञानमात्रम् । दोषवशादसन्निकृष्टस्यैव विशेषणस्य भ्रमे विशिष्ट-ज्ञानं चेक्तिं ज्ञानाख्यसन्निकर्षेणापि तत्र प्रयोजनम् । मुख्यसन्निकर्षं व्यर्थी-कुर्वतो दोषस्य पारिभाषिकसन्निकर्षव्यर्थीकरणं किमु वक्तव्यमिति भावः ।। ८२९ ।।
सत्यप्रमोदटीका
प्रातिभासिकार्थग्रहणे ज्ञानमेव सन्निकर्ष इति मन्दा-शङ्कां निराह ज्ञानस्येति । सन्निकर्षो हि ज्ञानस्य कारणम् । तस्य ज्ञाना-त्पूर्वभावित्वावश्यम्भावात् आत्माश्रयत्वापत्तेर्न ज्ञानस्य सन्निकर्षता शङ्कितुमपि शक्या । अतो दोषस्यैव सन्निकर्षस्थानीयत्वमेष्टव्यमित्याह दोषे सतीति । सन्निकर्षो हि अर्थसत्त्वमपेक्षते । न च प्रातिभासिकं रूप्यं प्रतिभासात्पूर्व-मस्ति । तस्य प्रतिभासशरीरत्वात् । अतो अन्वयव्यतिरेकाभ्यां दोषस्यैव कारणत्वं इति भावः ।। ८२९ ।।
युक्तिमल्लिका
शुक्तौ सर्पभ्रमादृष्टे रज्जौ रूप्यभ्रमोज्खितेः ।
सादृश्यस्य प्रतीत्यर्थं रजतत्वप्रकारिका ।
धीर्वाच्या गौरवात्सा धीस्तस्यैवेति न कल्प्यते ।। ८३० ।।
सुरोत्तमटीका
कुतस्तर्हि सर्वथा रजतमजानतो रजतभ्रमाभाव इत्यत आह ।। शुक्ताविति ।। शुक्तावेव रजतभ्रमदृष्टेः रज्ज्वामेव सर्पभ्रमदृष्टे-श्चाधिष्ठान प्रधानसादृश्यज्ञानमपि भ्रमकारणम् । सादृश्यस्य ज्ञानार्थमेवा-परसम्बन्धिनो रजतस्य ज्ञानं न सन्निकर्षघटकतयेति भावः । गौरवात् । रजतत्वप्रकारकरजतान्तरज्ञाने सादृश्यस्य ज्ञातुं शक्यत्वात् । भ्रमविशेषणी-भूतरजतस्यैव ज्ञानमपेक्षितमित्यङ्गीकारे कल्पनागौरवादित्यर्थः । तस्यैव भ्रमविशेषणीभूतरजतस्यैव ।। ८३० ।।
सत्यप्रमोदटीका
अधिष्ठानगतसादृश्यप्रतिसम्बन्धिज्ञानमेव रजतज्ञानम् । तत्र रजतं न सन्निकर्षघटकतयाऽपेक्षितम् । पूर्वं प्रधानानुभवजनितसंस्कारसचिवं दुष्टेन्द्रियं पुरोवर्तिनि रजतत्त्वप्रकारकधियं जनयति । अतः असता सन्निकर्षा-भावेऽपि दोष एव असतः सत्त्वेन प्रतीतिं जनयतीत्याह सादृश्यस्येति ।।८३०।।
युक्तिमल्लिका
विशेषणज्ञानजन्या विशिष्टस्य प्रमाऽपि न ।
अभावत्वप्रकारत्वपूर्वापूर्वार्थदर्शनात् ।। ८३१ ।।
सुरोत्तमटीका
ननु विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञान-त्वाद्दण्डीति विशिष्टज्ञानवदित्यनुमानात् तस्यैव ज्ञानमङ्गीक्रियत इत्यत आह ।। विशेषणेति ।। अभावत्वम् अभावविशिष्टज्ञाने । प्रकारत्वम् अनुव्यवसायरूप-विशिष्टज्ञाने । विशेषणीभूतमपीदं द्वयं प्रागज्ञातमेव ज्ञायते । अतो विशिष्ट-ज्ञानत्वादिति हेतोरत्रैव व्यभिचारः । न च वाच्यमभावविशिष्टज्ञाने अभावत्व-विशेषणस्य प्राग्ज्ञानाभावेऽपि भूतलादिविशेषणान्तरस्य ज्ञानमस्त्येव । अतो न व्यभिचार इति । अनयोः प्रागज्ञातयोरेव विशेषणत्ववत् सकलविशेषणानामपि प्रागज्ञातानामेव विशेषणत्वसम्भवादप्रयोजको हेतुस्स्यात् । भ्रमेऽपीद मंश-विशेषणीभूतदेशकालादिज्ञानजन्यत्वेनैव विशेषणज्ञानजन्यत्वसम्भवेन प्राग्रजताख्यविशेषणज्ञानस्यानावश्यकत्वापाताच्च । एवं च नैतदनुमान-बलात्तस्यैव प्राग्ज्ञानं कल्पनीयमिति भावः ।। ८३१ ।।
सत्यप्रमोदटीका
ननु विशिष्टज्ञानं प्रति विशेषणज्ञानकारणताया दण्डी चैत्र इत्यादिविशिष्टज्ञानस्थले क्लृप्तत्वात् तदनुसारेणात्रापि भ्रमविशेषणी-भूतरजतस्यैव ज्ञानं भ्रमरूपविशिष्टज्ञानं प्रति कारणं वक्तव्यमित्यतः स्यादप्येवं यदि विशिष्टज्ञानं प्रति विशेषणज्ञानं कारणमिति नियमः स्यात् । स एव नास्ति । बहुत्र व्यभिचारादित्याह विशेषणेति । प्रमाऽपि नेति । प्रमा-स्थलेऽपि विशेषणज्ञानजन्यत्वनियमो नेति भावः ।। दण्डीति प्रत्यक्षेऽपि विशेष्येन्द्रियसन्निकर्षः विशेषणविशेष्ययोरसंसर्गग्रह एव कारणमिति भावः । अभावत्वेति । घटाभाववद्भूतलमिति ज्ञाने अभावत्वविशिष्टोऽभाव एव भूतलांशे विशेषणतया भाति । अभावनिर्विकल्पस्य परैरप्यनङ्गीकारात् । एवं रजतत्वप्रकारकज्ञानवानहमित्यनुव्यवसाये रजतत्वे व्यवसायनिरूपितत्वं यत्प्रकारत्वं तदपूर्वमेव भासते । तदुक्तं तर्कताण्डवे ‘व्यवसायगतस्य रजतत्व-वैशिष्ट्यविषयकत्वस्य असिद्ध्यापाताच्च । न ह्यनुव्यवसायादन्येन तत्सिद्धि-रि’ति । पूर्वशब्देन निर्विकल्पभङ्गे तर्कताण्डवोक्तानि अन्यानि व्यभिचार-स्थलानि ग्राह्याणि । संयुक्ताविमौ समवेताविमौ इत्यादीति ।। ८३१ ।।
युक्तिमल्लिका
अविद्यमानार्थबोधहेतौ दोषे सति भ्रमे ।
अप्रतीतार्थबोधाय कुतोऽन्यानुसृतिर्वद ।। ८३२ ।।
सुरोत्तमटीका
अविद्यमानार्थबोधकदोषस्याप्रतीतार्थबोधकत्वं सुतरां युक्तमित्याह ।। अविद्यमानेति ।। अन्यानुसृतिः विशेषणज्ञानानुसृतिः ।।८३२।।
सत्यप्रमोदटीका
अन्यानुसृतिः विशेषणज्ञानानुसृतिः । कुत इति । दोषेणैव अप्रतीतस्य रजतरूपभ्रमविशेषणस्योपस्थितिनिर्वाहादिति भावः
।। ८३२ ।।
युक्तिमल्लिका
अत्र प्रतीतरजते कुतो देशान्तरस्थता ।
इदन्तामुल्लिखन्ती सा प्रतीतिस्सहते न ताम् ।। ८३३ ।।
सुरोत्तमटीका
नन्वसतः प्रतीत्ययोगात् अस्यैव रजतस्यान्यत्र सत्त्वे वक्तव्ये बलात्तस्यैव ज्ञानमागतमित्यत आह ।। अत्रेति ।। इदंताम् एतद्देश-कालवर्तिताम् । सा इदंरजतमिति प्रतीतिः । तां अन्यत्र सत्ताम् ।। ८३३ ।।
सत्यप्रमोदटीका
‘‘अत्र प्रतीतस्यैवान्यत्र सत्त्वे मानाभावात् । तथा हि । भ्रान्त्यनुभवो वा तत्र प्रमाणम् । बाधानुभवो वा । भ्रान्त्यनुपपत्तिर्वा बाधानुपपत्तिर्वा । नाद्यः । तस्याप्रमाणत्वात् । अत्रैव सत्त्वावेदकत्वाच्च ।’’ इत्यादि सुधोक्तं विवृण्वान आह कुत इति । कुतः प्रमाणादित्यर्थः । सा भ्रान्तिः । तां अन्यत्र सत्ताम् ।। ८३३ ।।
युक्तिमल्लिका
घटोऽयमिति दृष्टेऽपि घटो नो चेत्स्थलान्तरम् ।
गमिष्यति तथा द्रष्टा त्वं चैनमनुयास्यसि ।। ८३४ ।।
सुरोत्तमटीका
इदमिति प्रतीतस्यान्यत्र सत्ताङ्गीकारे बाधकमाह ।। घट इति ।। दृष्टः तत्र तदानीमेव नूतनतया दृष्टः । समानाधिकरणविशेषण-ज्ञानस्यैव कारणत्वात् द्रष्टेत्यादिकमुक्तम् । अभिनवस्यास्य प्राग्दर्शनाभावेन समानाधिकरणज्ञानं कारणं वदताऽयमेव घटोन्यत्र नेतव्यः । स्वेनापि तत्र गन्तव्यम् । स्वमतरक्षणार्थं पश्चात्तनमपि कारणमङ्गीकार्यमित्यप्रामाणिक-परम्पराऽङ्गीकार्या स्यादिति भावः ।। ८३४ ।।
सत्यप्रमोदटीका
इदंशब्दस्य पुरोदेशसम्बन्धार्थकतां विपक्षेऽनुभव-विरोधप्रदर्शनेनावधारयति घटोऽयमिति ।। गमिष्यति तस्य स्थलान्तरे सत्त्वाङ्गीकारः प्रसज्यते ।। ८३४ ।।
युक्तिमल्लिका
विशेषणज्ञानजन्यविशिष्टार्थस्य धीरिति ।
किमपूर्वघटव्यक्तौ घटत्वाकारधीर्न ते ।। ८३५ ।।
सुरोत्तमटीका
किञ्चायं घट इति ज्ञाने तवापि मते प्राग्घटत्वज्ञानेनैवालं न तु तद्घटव्यक्तेरपि प्राग्ज्ञानमपेक्षितम् । एवं सतीदं रजतमिति भ्रमेऽपि तवापि मते प्राग्रजतत्वज्ञानेनैवालं तस्य रजतस्यैव प्राग्ज्ञानं निर्निबन्धन-मित्याह ।। विशेषणेति ।। अपूर्वघटव्यक्तौ पूर्वादृष्टनूतनघटव्यक्तौ । व्यक्तेः प्रागज्ञातत्वेऽपि व्यक्त्यन्तरे प्रागनुभूतघटत्वमात्र ज्ञानेन प्रागदृष्टकुम्भकारेणा-नीतनूतनघटव्यक्तौ अयं घट इति विशिष्टधीर्यथास्ति तथा भ्रमेऽपि रजतत्व-ज्ञानमात्रेण प्रागज्ञातस्यैव रजतस्य विशिष्टधीस्स्यादिति भावः । असतो ज्ञानमनुपपन्नमिति वदतोऽन्यत्र सर्वत्रासत्त्वं नात्र प्रतीत्यनुपपत्तौ बीजम् । अन्यत्र सर्वत्रासतोऽपि घटस्य पुरतः सत्त्वमात्रेण प्रतीतिदर्शनात् । किन्तु परतोऽसत्त्वमेव बीजम् । एतदुपपादकतयैवात्यन्तासत्त्वस्यापि बीजत्वाभिमानः परस्य । अत्रासत्त्वं त्वन्यथाख्यातिवादिनस्तवापि समम् । यदि च भ्रम-जनकीभूतदोषबलादत्रासत्त्वाख्यं प्रतीत्यनुपपत्तिबीजं धिक्कृत्य प्रतीतिमुप-पादयसि तर्ह्यहमपि असत्त्वप्रयुक्तं च तद्बीजं तेनैव धिक्कृत्य प्रतीतिमुपपाद-यामि । अतो सतोऽप्यपरोक्षप्रतीतौ न काचिदनुपपत्तिः । कुतस्तर्हि शश-शृृङ्गस्यादर्शनमिति चेत् भ्रमकारणीभूतदोषाभावादिति ब्रूमः । सति च तस्मिन्दूरादुपविष्टशशाख्यमृगस्वरूपमात्रमालोकयतोऽनुपदिष्टतत्स्वभावमनालोक-यतश्चोर्ध्वीभूततत्कर्णयोरन्यमृगशृृङ्गसादृश्यात् इमे शशशृृङ्गे इति भवत्येव भ्रमः ।। ८३५ ।।
सत्यप्रमोदटीका
इतीत्यनन्तरं एतावन्मात्रस्याभ्युपगमेऽपि विशेष्यवृत्ति-विशेषणस्य ज्ञानमेव विशिष्टज्ञानहेतुरिति वादो निर्निबन्धनः । यत्र कुत्रापि विशेषणज्ञानसद्भावेऽपि विशिष्टज्ञानसम्भवात् । अन्यथा अपूर्वघटदर्शने अयं घट इति घटत्वप्रकारकत्वविशिष्टधीः न स्यादिति भावः अनुसन्धेयः । एवं इदं रजतं इति भ्रमेऽपि रजतस्यासत्त्वेऽपि रजतत्वस्य यत्र क्वापि प्रधाने ज्ञानेन निर्वाहे आपणस्थरजतवृत्तित्वेन तज्ज्ञाननियमाभ्युपगमोऽयुक्त इति हृदयम् ।। ८३५ ।।
युक्तिमल्लिका
यथैकस्यां घटव्यक्तौ घटत्वाकारधीबलात् ।
पूर्वादृष्टघटव्यक्तिशतकेऽपि विशिष्टधीः ।
प्राग्दृष्टघटभूनिष्ठास्ते सर्वे किं घटास्तव ।। ८३६ ।।
सुरोत्तमटीका
किमपूर्वेत्यादिनोक्तं प्रमेयं प्रपञ्चयति ।। यथेति ।। ते उपर्युपरि दृश्यमानास्सर्वे घटाः, प्राग्दृष्टघटभूनिष्ठाः किमिति सम्बन्धः । येन तेषामपि तदैव ज्ञानं स्यात् । अतः एकघटे घटत्वप्रकारकधीबलादेवोपर्युपरि दृश्यमानघटशतकेऽपि प्रागज्ञात एव विशिष्टधीरिति भावः ।। ८३६ ।।
सत्यप्रमोदटीका
अनुभवविरोधप्रदर्शनेन प्रागुक्तमतिप्रसङ्गं प्रपञ्चयति यथेति । घटवद्भूतलं इति विशिष्टज्ञानं प्रति तत्तद्भूतलवृत्तिघटज्ञानस्यैव विशेषणज्ञानविधया कारणत्वाङ्गीकारे भिन्नभिन्नाधिकरणेषु द्रक्ष्यमाणघटेषु घटत्वबुद्धिर्या जायते सा न स्यात् अन्यथा तेषामपि पूर्वदृष्टघटाधिकरण-ताऽङ्गीकार आपद्यते इति भावः ।। ८३६ ।।
युक्तिमल्लिका
यदि सामान्यतो ज्ञाता सर्वा व्यक्तिस्तदा तव ।
विशेष्यज्ञानजन्यत्वमपि तर्ह्यागतं बलात् ।। ८३७ ।।
सुरोत्तमटीका
तदा प्राचीनघटदर्शनसमये । तर्हि विशेषणीभूत घट-त्वस्येव विशेष्यघटस्यापि प्राग्दर्शनावश्यंभावे ।बलाद्युक्तिबलात्।। ८३७ ।।
सत्यप्रमोदटीका
व्यक्तिः घटरूपा । विशेष्यज्ञानस्यापि इति । उभयोरपि नियतपूर्ववृत्तित्वेन अन्यतरपरित्यागेन अन्यतरस्य विशेषणज्ञानस्यैव कारणत्वाङ्गीकारे नियामकाभावादिति भावः ।। ८३७ ।।
युक्तिमल्लिका
एवं च शुक्तिव्यक्तिश्च स्यादापणगता तव ।
रजतत्वप्रकारैव तेन धीः प्रागपेक्षिता ।। ८३८ ।।
सुरोत्तमटीका
अस्तु को दोष इत्यत आह ।। एवं चेति ।। भ्रमे शुक्तेरेव विशेष्यत्वात् । सापि प्राग्दर्शनाय विशेषणीभूतरजतवत् आपणगता भवेदिति भावः । तेन घटत्वविशिष्टज्ञाननिदर्शनेन ।। ८३८ ।।
सत्यप्रमोदटीका
अस्तु तदपीत्यत आह एवं चेति । विशेषणस्य रजतस्येव विशेष्यस्य इदंपदार्थस्यापि आपणस्थताऽङ्गीकारापत्तिरिति भावः । तथा च रजतत्वस्य न केवलं पुरतः किन्तु अत्यन्तासत्त्वेऽपि इदं रजतमिति धीर्निर्वहत्येवेत्याह रजतत्वेति ।। ८३८ ।।
युक्तिमल्लिका
प्राग्दृष्टघटसादृश्यादेवान्यत्र विशिष्टधीः ।
तत्तद्व्यक्तिस्थता धीस्तु घटादावपि नेष्यते ।। ८३९ ।।
सुरोत्तमटीका
नन्वेवं तर्ह्येकत्र घटत्वज्ञानात् अज्ञातघटान्तरव्यक्तिष्विव पटादि व्यक्तिष्वपि कुतो न तद्विशिष्टधीरित्यत आह ।। प्रागिति ।। सादृश्यात् पृथुबुध्नोदराकारत्वाख्यसादृश्यात् ।। ८३९ ।।
सत्यप्रमोदटीका
सादृश्यादेवेत्यत्रस्थैवकारव्यवच्छेद्यमाह तत्तदिति । तथा च भ्रमविषयस्य रजतस्यात्यन्तासतोऽपि प्रधानभूतरजतानुयोगिकसादृश्य-प्रतियोगित्वमस्त्येवेति, किं रजतस्य वस्तुत्वाऽऽग्रहेणेति भावः ।। ८३९ ।।
युक्तिमल्लिका
एवं च रूप्यसादृश्याच्छुक्तौ रूप्यत्वधीर्भवेत् ।
अपूर्वज्ञाततद्व्यक्तेः कुतस्स्यादापणस्थता ।। ८४० ।।
सुरोत्तमटीका
एवं च घटत्वविशिष्टप्रतीतावपि घटत्वप्रकारकप्रतीत्या प्राग्दृष्टघटसादृश्येन च पूर्णत्वे सति । रूप्यसादृश्यात् श्वेतत्वादिसादृश्यात् । इदं चोपलक्षणम् । रूप्यत्वप्रकारकप्रतीत्या चेत्यपि द्रष्टव्यम् । तद्व्यक्तेः शुक्तौ प्रतीयमानरजतव्यक्तेः ।। ८४० ।।
सत्यप्रमोदटीका
तथा च रूप्यसदृशत्वात् शुक्तावेव रूप्यभ्रमो न रज्ज्वादौ ।। अपूर्वेति । अत्यन्तासदित्यर्थः ।। ८४० ।।
युक्तिमल्लिका
अन्यत्राप्यतिसादृश्ये रूप्यधीस्सा प्रमा भवेत् ।
अल्पसादृश्यतो धीश्चेद्यमयोरिव स भ्रमः ।। ८४१ ।।
सुरोत्तमटीका
ननूभयत्रापि सादृश्यमात्रेण विशिष्टप्रतीतावेकत्र प्रमात्व-मपरत्र भ्रमत्वं च किं निबन्धनमित्यत आह ।। अन्यति ।। अन्यत्र प्राग-दृष्टव्यक्त्यन्तरे । यमयोरिव यमे यमान्तरत्वभ्रम इवेत्यर्थः । सर्वसादृश्ये प्रमात्वमल्पसादृश्ये भ्रमत्वमित्यर्थः ।। ८४१ ।।
सत्यप्रमोदटीका
अतिसादृश्ये रूप्यत्वाद्यसाधारणधर्मेण सादृश्ये । अल्पसादृश्यतः चाकचाक्यादिधर्मेण सादृश्यात् । यमयोरिति । तत्र बाह्याकार- मात्रेण सादृश्येऽपि अन्योन्यसुखाद्यनुसन्धानरूपासाधारणरूपेण सौभर्यादि योगिष्विव सादृश्यस्याभावादिति भावः ।। ८४१ ।।
युक्तिमल्लिका
प्रत्यभिज्ञाऽप्यन्यकाले वक्ति देशान्तरे स्थितिम् ।
तदैव तस्यातिदूरदेशस्थत्वं कुतोऽपतत् ।। ८४२ ।।
सुरोत्तमटीका
किञ्च सो यमिति देशान्तरस्थत्वमुल्लिखंत्यापि प्रत्यभि-ज्ञया न तदैव देशान्तरस्थत्वमपेक्ष्यते । देशान्तरस्थत्वगोष्ठीरहितप्रतीतौ कुतस्तदैव तदपेक्ष्यत इत्याह ।। तदैवेति ।। प्रतीतिकाल एव । तस्य शुक्तौ प्रतीयमानरजतस्य । तस्मादनानुभविकमेतदिति भावः ।। ८४२ ।।
सत्यप्रमोदटीका
ननु तदिदं रजतमिति प्रत्यभिज्ञायां यथा देशान्तरस्थं अत्रस्थत्वेन भाति तथाऽत्रापि आपणस्थं रजतं पुरोवर्तितया भातीति किं न स्यादित्यत आह अन्यकाल इति । तदित्युल्लेखेन प्रत्यभिज्ञा कालान्तरस्थमेव गोचरयति । अत्र तु एकस्मिन्नेव काले इति विषमो दृष्टान्त इति भावः । इदमुपलक्षणम् । तत्र तदेव इदन्त्वेनानुभवामि इतिवत् अत्र आपणस्थमेव रजतं इदंत्वेनानुभवामि इत्यनुव्यवसायाभावात् प्रत्युत पुरोवर्तिनमेव रजतत्वेन जानामीत्येवानुभवादिति च भावः ।। ८४२ ।।
युक्तिमल्लिका
विशेषणस्य च ज्ञानं यदि स्यात्सविकल्पकम् ।
अनवस्था तदा सुस्था यदि तन्निर्विकल्पकम् ।। ८४३ ।।
नारिकेलद्वीपवासी तर्हि सामान्यतोऽग्निदृक् ।
द्वितीयक्षण एवाग्निवैशिष्ट्यमपि पश्यति ।। ८४४ ।।
सुरोत्तमटीका
किञ्च विशिष्टज्ञाने कल्प्यमानं विशेषणज्ञानं सविकल्पकं निर्विकल्पकं वेति विकल्प्य पक्षद्वयेऽपि दूषणमाह ।। विशेषणस्येति ।। अनवस्थेत्युपलक्षणम् । निर्विकल्पकासिद्धिश्च द्रष्टव्या । तद्विशेषणज्ञानम् । सामान्यतः नामजात्यादियोजनाराहित्येन वह्निवह्नित्वविषयक निर्विकल्पक-ज्ञानवानिति यावत् । अग्निवैशिष्ठ्यं अयमग्निमानित्यग्निवैशिष्ठ्यम् । अयमग्नि-रित्यग्नित्ववैशिष्ठ्यं च । अग्निनिर्विकल्पकस्याग्नित्वनिर्विकल्पकस्य च सत्त्वेन निर्विकल्पकरूपविशेषणज्ञानस्य सत्त्वात् । अतो व्यावर्तकजातेरग्नित्वजातिरिय-मिति विशष्यज्ञानाभावादेव तत्र विशिष्टज्ञानाभावः । स च व्यञ्जकज्ञाना-भावादित्येव वाच्यम् । एवं च कथं विशेषणनिर्विकल्पकाद्विशिष्टधीरिति भावः।
घटत्वनिर्विकल्पकादेव घटसविकल्पकं वदंस्तार्किकस्तत्रातिप्रसङ्गे दत्तेऽनुभवमपलप्यापि स्यादेवेति वदेत् । अतो नालिकेलद्वीपवासिपर्यन्तं धावनम् । किं च रूपीति विशिष्टज्ञाने विशेषणीभूतरूपस्येव विशेष्यभूत-घटस्यापि तव मते प्राङ्निर्विकल्पकमस्ति । जनकं च भवति । तथा च विशेषणज्ञानजन्यत्वमात्रं कुतस्साध्यते । उभयज्ञानजन्यत्वमपि साध्यताम् । यदि चोभयज्ञानजन्यत्वसाधने दृष्टान्ताभावात् विशेषणज्ञानजन्यत्वमात्र-साधनेऽपि मदभिलषितनिर्विकल्पकसिद्धेरेतावदेव साध्यत इति मतं तदा परोऽपि त्वन्न्यायेनैव दण्डीति विशिष्टज्ञानं विशेषणविशेष्यज्ञानजन्यं विशिष्ट-ज्ञानत्वाद्रूपीति विशिष्टज्ञानवदिति साधयति चेत् किमुत्तरम् । दृष्टान्ते उभयो-स्साध्यासंमतिरुभयत्र समा । अनुमिति र्दृष्टान्तोऽस्तु । यदि च तत्रापि दण्ड-देवदत्तनिर्विकल्पकसम्भवादपसिद्धान्तमनादृत्येष्टापत्तिरिति ब्रूषे तदा तावतैव चरितार्थत्वात्पराभिमतदण्डसविकल्पकस्य गौरवाज्जनकता प्रसाध्याङ्गकापि न स्यात् । त्वदभिलषितदण्डनिर्विकल्पकं च न परस्याभिमतम् । अतस्त्व-दनुमानदृष्टान्ते पररीत्या साध्यवैकल्यं स्यात् । यदि च परस्य पररीत्यैव साध्यसिद्धिः मम तु मद्रीत्यैवेति समाधत्से तदा परस्स्वरीत्या तव पक्षीभूत-रूपविशिष्टज्ञानेऽपि दण्डसविकल्पकान्तरवत् रूपसविकल्पकान्तरेणैव तव साध्यमन्यथीकुर्वन्नर्थान्तरेण त्वां निगृह्णीयात् ।
यदि च रूपेन्द्रियसन्निकर्षेणैव रूपीति विशिष्टज्ञानसम्भवात् रूप-सविकल्पकान्तरमल्पीकुरुषे तदा तेनैव तव निर्विकल्पकं परोऽप्यल्पीकुर्यात् । दृष्टान्तेऽपि दण्डेन्द्रियसन्निकर्षेणैव सर्वं निर्वहन्प्राग्दण्डज्ञानस्य कारणतामेवा-नङ्गीकुर्वंश्च पुनर्दृष्टान्तं साध्यवैकल्याख्यशल्येनैवाकल्यं कुर्यात् । यद्यपि पक्षे दृष्टान्ते च रूपदण्डादिनामसविकल्पकोपयुक्तसंकेतग्रहाय प्राग्रूपादिज्ञान-मपेक्षितम् । तथापि तस्य रूपव्यक्त्यन्तरे दण्डव्यक्त्यन्तरे च तन्मात्रोपदेश-मात्रेणापि सम्भवेन शक्तिग्रहे उपक्षीणत्वेन चोभयत्रापि विशेषणीभूतयोरनयो-र्दण्डरूपयोर्ज्ञानमकारणमेव । तथा च पुनः पक्षे बाधो दृष्टान्ते साध्यवैकल्यं चापरिहार्यमेव । सङ्केतग्रहस्य च वृद्धव्यवहाराख्यानुमानेन वा गुरूपदेशाख्य-शब्देन वा जायमानस्य सविकल्पकत्वावश्यंभावात् तवेष्टासिद्ध्याऽन्यथा-सिद्धिश्च । लिङ्गशब्दयोर्निर्विकल्पकजनकत्वस्य त्वयाऽप्यनङ्गीकारात् । अस्य सर्वस्य सूचनाय नालिकेलद्वीपवासी तर्हिसामान्यतोऽग्निदृगित्याद्युक्तम् । तत्र हि दाहको वह्निरित्युपदेशजन्यव्यञ्जकव्यङ्ग्यजात्यादिसविकल्पकस्यैव वह्निरयमिति विष्टिज्ञानोपयोगितया कथनात् ।। ८४३,८४४ ।।
सत्यप्रमोदटीका
विशिष्टज्ञानं विशेषणज्ञानजन्यं इति वदन् प्रष्टव्यः । किं तद्विशेषणज्ञानं सविकल्पकं उत निर्विकल्पकं इति । नाद्यः । तत्रापि सविकल्पकविशेषणज्ञानान्तरस्य कारणत्वापातेन अनवस्था स्यादित्याह अनव-स्थेति । न द्वितीयः । अतिप्रसङ्गादित्याह नारिकेलेति । इतःपूर्वं वह्निज्ञान-रहित इति यावत् । तेन तस्य वह्निस्मरणरूपं विशेषणज्ञानं न सम्भावनार्ह-मिति भावः । सामान्यदृगित्यनेन वह्नित्वप्रकारकत्वं व्यवच्छिनत्ति । तदुक्तं तर्कताण्डवे निर्विकल्पकभङ्गे ‘‘वह्निमानित्यादि ज्ञानं प्रति वह्न्यादिज्ञानस्य न विशेषणज्ञानत्वेन कारणत्वम् । द्रव्यत्वादिना वह्न्यज्ञानेऽपि तदभावात् नापि विशेषणतावच्छेदकप्रकारकविशेषणज्ञानत्वेन निर्विकल्पकासिद्धेः । गौरवाच्च । किन्तु विशेषणतावच्छेदकप्रकारकज्ञानत्वेन । तथा च न निर्विकल्पकसिद्धिः इति ।तथा च नारिकेलद्वीपवासिनः तादृशज्ञानाभावात् न वैशिष्ट्यधीरिति भावः।।८४३,८४४ ।।
युक्तिमल्लिका
सविकल्पकधीपक्षे व्यञ्जकानुसृतिर्भवेत् ।
अनवस्थाभिया व्यञ्जके तु न व्यञ्जकान्तरम् ।
विशेषणज्ञानजत्वनियमस्तद्वृथा तव ।। ८४५ ।।
सुरोत्तमटीका
सविकल्पकज्ञानपक्षे प्रागनवस्थोक्ता । इदानीं विशिष्ट-ज्ञाने विषयीभूतविशेषणस्यैव वा सविकल्पकं विवक्षितमुत यस्य कस्य चिद्विशेषणस्य वेति विकल्प्य दूषयति ।। सविकल्पकेति ।। व्यञ्जकानुसृतिः घटत्वजातिमतीयं व्यक्तिरिति जातिवैशिष्ट्यज्ञाने परेणापि पृथुबुध्नोदरत्वाख्य व्यञ्जकस्यैव सविकल्पकानुसृतिः क्रियते न तु विशेषणीभूतजातेरेव प्राक्सविकल्पकानुसृतिः । तस्मादाद्यः पक्षो न घटते । द्वितीयं दूषयति ।। अनवस्थेति ।। व्यञ्जके पृथुबुध्नोदराकारत्वज्ञाने जातिव्यञ्जकसविकल्पकानु-सरणवत् व्यञ्जके व्यञ्जकान्तरसविकल्पकानुसरणाभावेन द्वितीयः पक्षोऽपि न घटते । द्विविधसाध्याङ्गीकरणेऽपि उक्तरीत्या जातौ व्यञ्जके च त्वद्धेतो-र्व्यभिचारादिति भावः । ननु दण्डीति विशिष्टज्ञाने दण्डाख्यविशेषणस-विकल्पकजन्यत्वं साध्यत इत्यस्यापीदमेवोत्तरम् । यथा व्यञ्जके व्यञ्जकान्तर-मनवस्थाभिया नापेक्ष्यते किन्तु व्यञ्जकेन्द्रियसन्निकर्षादेव तद्विशिष्टधीरङ्गी-क्रियते । तथा दण्डीत्यत्रापि प्राग्दण्डसविकल्पकान्तरमनपेक्ष्यताम् । अपेक्षणे तत्राप्यनवस्थाया दुर्वारत्वात् । अतो दृष्टान्ताभावात्तव पक्षे रूपीति विशिष्ट-ज्ञाने पक्षसमेस्मिन्दण्डविशिष्टज्ञाने वा साधयितुमपि न शक्यम् । यत्किञ्चि-द्विशेषणज्ञानजन्यत्वस्य प्रत्यक्षमात्रेऽयमित्युपनीतकालभानेन सिद्धसाधनत्वात् । यावद्विशेषणज्ञानजन्यत्वस्याभावविशिष्टज्ञाने व्यभिचरितत्वेन साधनायोगाच्च ।
यदि च वह्न्यनुमितिरूपविशिष्टज्ञानस्य व्याप्तिरूपविशेषणसविकल्पक-जन्यत्वस्य सर्वैरङ्गीकारात् स एव दृष्टान्तः तथापि प्रकृते तदनुसरणं व्यर्थ-मित्यत्र युक्तिमप्यनेनैवाह ।। अनवस्थेति ।। व्यञ्जके पृथुबुध्नोदरत्वादौ । यथा जातेर्व्यञ्जकज्ञानानुसरणेऽपि न व्यञ्जकस्य तदनुसरणम् । अनवस्थाप्रसङ्गात् । व्यञ्जके व्यञ्जकान्तरानङ्गीकाराच्च । एवं जातौ दृष्टनियमस्य व्यञ्जके परित्याग-वत् अनुमितौ दृष्टनियमस्य प्रत्यक्षेऽपि परित्यागोऽस्तु विजातीयकार्ये दृष्ट-नियमस्य विजातीयकार्यान्तरेऽपि कल्पनायां कारणाभावात् । तथा सति लिङ्गजन्यत्वस्यापि प्रत्यक्षे कल्पनाप्रसङ्गादिति भावः । तत् तस्मात् उक्तरीत्या व्यभिचारादप्रयोजकत्वाच्च ।। ८४५ ।।
सत्यप्रमोदटीका
सविकल्पकं विशेषणज्ञानं कारणं इति पक्षे प्रागुक्ता-मनवस्थां स्फोरयन् विशेषणज्ञानस्य कारणतानियमं त्याजयति व्यञ्जकेति । अयं घट इति विशिष्टज्ञानं प्रति विशेषणघटत्वस्य विशषणतावच्छेदकी-भूतजातित्वेन ज्ञानं तावदावश्यकम् । घटत्वजातिव्यञ्जकं च पृथुबुध्नोद-राकारादिरूपं विशिष्टम् ।। तज्ज्ञानार्थं व्यञ्जकान्तरानुसरणेऽनवस्था स्यात् । अतः तज्ज्ञानं युगपदेव इन्द्रियसन्निकर्षेण जायते इति स्वीकर्तव्यम् । तथा च किञ्चिद्दूरं गत्वा तदङ्गीकारापेक्षया प्राथमिकं विशिष्टज्ञानं अयं घट इत्येतदेव इन्द्रियसन्निकर्षेणैव, पूर्वं विशेषणज्ञानं विना जायते इति स्वीकार एवोचित इति भावः ।। ८४५ ।।
युक्तिमल्लिका
घटे घटत्वमिति धीर्घटत्वज्ञानजा न चेत् ।
घटोऽयमिति धीः कस्माद्घटत्वज्ञानजा वद ।
तज्जीवति ज्ञानसाम्ये त्वच्छ्राद्धनियमं त्यज ।। ८४६ ।।
सुरोत्तमटीका
दुराग्रहादेव परेणेदमुच्यते न तु वस्तुस्थित्येति भावेनाह ।। घट इति ।। यदि घटत्वं सर्वत्र प्राग्ज्ञातमेव ज्ञायत इति नियमः तदा घटे घटत्वमित्यत्रापि स्यात् । तच्च नास्ति । घटे घटत्वमिति प्रतीतौ विशेष्य-भूतघटत्वस्य त्वयापि प्रागज्ञातस्यैव ज्ञानाङ्गीकारात् । यदि चात्र घटत्वेन्द्रय-सन्निकर्षेणैवालम् । किं प्राग्ज्ञानेनेति मतम् । एवं तर्ह्यत्र विशेष्यभूतघटत्व-ज्ञानजनकेन्द्रियार्थसन्निकर्षस्य विशेषणतादशायामपि सत्त्वात्तेनैव कुतो न तज्ज्ञानम् । न हि घटप्रकाशकः प्रदीपस्स्वगृहे चेत् स्वयमेव प्रकाशयति । परगृहे चेत्परसहायेनेत्यस्ति । अतःपरस्यायं दुराग्रह एव । तत् तस्मात् ज्ञानद्वयस्य विशेषाभावात् । ज्ञानसाम्ये ज्ञानद्वयसाम्ये । जीवति वैषम्य-करणहेत्वाख्यमारकाभावेन स्थिरतया स्थिते सति । त्वच्छ्राद्धनियमं त्वयाङ्गी-कृतश्राद्धनियमम् । वृथाङ्गीकारस्य श्राद्धनियम इति विदुषां सङ्केतः । तं त्यजेति योजना । ज्ञानद्वयस्य साम्ये सत्येकत्र विशेषाङ्गीकारोऽनुचित इति भावः । मृते खलु श्राद्धं कर्तव्यं जीवतश्श्राद्धमनुचितमिति ध्वनिः ।। ८४६ ।।
सत्यप्रमोदटीका
अपि च विशिष्टज्ञानं प्रति विशेषणज्ञानमेव कारणं, न तु पुनः विशेष्यज्ञानत्वेन रूपेण विशेष्यज्ञानमिति परस्य पन्थाः । ज्ञानसाम्येऽपि प्रयोगभेदेन, घटत्वं,‘इह घटत्वं’ इति प्रयोगे विशेष्यभूतं, ‘अयं घट’ इति प्रयोगे विशेषणं च भवति ।। एवं सति तस्यैव घटत्वज्ञानस्य विशेष्यतादशायां कारणत्वं विशेषणतादशायां कारणत्वाभाव इत्येतदर्धजरतीयं साहित्यमुद्रयाऽपहसति तदिति । तस्मात् ज्ञानयोः समानविषयकत्वेऽपि उभयत्र घटत्वज्ञानस्य इन्द्रियसन्निकर्षजन्यत्वे समानेऽपि एकत्र तदपलाप-दुर्व्यसनं त्यजेति भावः । जीवनवान् पिता, पितुर्जीवनं इत्यनयोर्ज्ञानयोः निर्निबन्धनं अन्यतरमपलप्य जीवत एव पितुः श्राद्धं मा कृथा इति ध्वनिः ।। ८४६ ।।
युक्तिमल्लिका
घटत्वनिर्विकल्पोत्था न घटत्वविशिष्टधीः ।
घटत्वसविकल्पत्वाद् घटत्वेहप्रतीतिवत् ।। ८४७ ।।
सुरोत्तमटीका
प्रत्यनुमानं रचयति ।। घटत्वेति ।। घटत्वविशिष्टधीः घटोऽयमिति विशिष्टधीरित्यर्थः । घटत्वेहप्रतीतिवत् घटत्वस्य इहेति प्रतीतिवत् । इह घटत्वमिति प्रतीतिवदित्यर्थः । तथा चायं प्रयोगः । घटोऽयमिति विशिष्टधीः न जन्यघटत्वज्ञानजन्या । लौकिकघटत्वास्तित्व-प्रत्यक्षत्वात् । इह घटत्वमिति प्रतीतिवत् । उभयत्र साम्यस्फोरणाय घटत्व-पदम् । घटे घटत्वमिति घटत्वविशेष्यकज्ञाने घटत्वनिर्विकल्पकाजन्यत्वस्य परेणाप्यङ्गीकारात् न दृष्टान्तस्य साध्यवैकल्यमिति भावः ।। ८४७ ।।
सत्यप्रमोदटीका
तदेवं विशिष्टज्ञानं विशेषणज्ञानजन्यमिति नियमस्य दूषितत्वात् निर्विकल्पप्रत्यक्षप्रभेदाङ्गीकारो युक्तिविरुद्ध इत्याह घटत्वेति । घटत्वविशिष्टधीः अयं घट इति धीः न घटत्वनिर्विकल्पजन्या, घटत्वस-विकल्पकत्वात् घटे घटत्वं इति प्रतीतिवत् इति प्रयोगः ।। ८४७ ।।
युक्तिमल्लिका
असन्निकर्षभङ्गाय यदि तज्ज्ञानमिष्यते ।
तत्रैव तर्हि तज्ज्ञानं वाच्यं नान्यत्र कुत्रचित् ।। ८४८ ।।
चन्दने सौरभज्ञानं तत्र तस्य प्रमातरि ।
उपनायकतामेति धीस्सा तत्सन्निकर्षजा ।। ८४९ ।।
सुरोत्तमटीका
ननु चक्षुरसन्निकृष्टत्वेन चक्षुरयोग्यरजतस्योपनायकतया सुरभिचन्दनमिति चाक्षुषप्रतीतौ सौरभज्ञानवत् रजतज्ञानमपि सन्निकर्ष-स्थानीयत्वेनाङ्गीकार्यमित्यत आह ।। असन्निकर्षेति ।। तज्ज्ञानं रजतज्ञानम् । तत्रैव यद्विशेषणतया प्रतीयते शुक्तिशकल इत्यर्थः ।। तस्य सौरभस्य । तत्र चन्दने । तत्र प्रमातरि चोत्पन्नेत्यर्थः । सा तत्रैव जायमाना विशिष्टधीः । तत्सन्निकर्षजा तादृशज्ञानाख्यसन्निकर्षजा ।। ८४८,८४९ ।।
सत्यप्रमोदटीका
ननु च सुरभिचन्दनखण्डमिति चाक्षुषज्ञाने चक्षुषोऽ-योग्यं सौरभं भासते । न चासन्निकृष्टस्य भानम् । अत एव तत्र सुरभि-ज्ञानाख्यः अलौकिकसन्निकर्ष उपेयते । तद्वदेव इदं रजतमिति चाक्षुषज्ञाने न रजतस्य चक्षुषा सन्निकर्षः । तस्य पुरतोऽसत्त्वात् । अतो रजतज्ञानाख्यः सन्निकर्ष उपेयः । तन्निर्वाहार्थमेव तस्यान्यत्र सत्त्वकल्पनमित्याशङ्क्य वैषम्यप्रदर्शनेन निराह तत्रैवेति सुरभिचन्दनखण्डमिति ज्ञानं प्रमा । चन्दन एव सौरभज्ञानं च तत्र सन्निकर्षः । इदं रजतमिति ज्ञानं त्वप्रमा । रजतज्ञानं च त्वया न शुक्तौ किन्तु अन्यत्रैव स्वीक्रियते । किं केन सङ्गतमिति भावः । तदेतदाह प्रमातरीति तत्रैवेति च ।। ८४८,८४९ ।।
युक्तिमल्लिका
चन्दनत्ववति व्यक्त्यन्तरे सौरभसंयुते ।
तज्ज्ञानमेव योगो न चक्षुषाऽत्रापि तद्धियः ।
अदर्शनात्तेन योगस्तत्रैव स परत्र न ।। ८५० ।।
सुरोत्तमटीका
तज्ज्ञानं चन्दनान्तरे जातसौरभज्ञानम् । अत्र अस्मिन् चन्दने । तद्धियः सौरभवैशिष्ट्यधियः । चक्षुषाऽत्रापि तद्धियः अदर्शनादिति योजना । तेन कारणेन । सः योग इति सम्बन्धः ।। ८५० ।।
सत्यप्रमोदटीका
तत्रैवेति नियमं व्यतिरेकमुखेनोपपादयति व्यक्त्यन्तर इति । तज्ज्ञानं चन्दनान्तरे सौरभज्ञानम् । न योगः सन्निकर्षे न भवति । तत्र हेतुः चक्षुषाऽपीति । फलितमाह तेनेति ।। ८५० ।।
युक्तिमल्लिका
शुक्तिव्यक्तावेव तस्माद्रजतत्वस्य धीर्यदि ।
सैवोपस्थापिका भूयाच्चक्षुषो मनसोऽपि वा ।
दोषादसन्निकृष्टस्य धीरेवात्रोचिता ततः ।। ८५१ ।।
सुरोत्तमटीका
साक्षाज्ज्ञानस्य मनसि विद्यमानत्वात् मनोद्वारा चक्षुषो-प्युपकारित्वाद्द्वयमप्युक्तम् । ततः शुक्तिकायामेव प्राग्रजतज्ञानाभावात् ।।८५१।।
सत्यप्रमोदटीका
शुक्तिकायामेवेति । यदि इदं रजतमिति ज्ञानं सुरभि चन्दनखण्डमिति ज्ञानवत् प्रमा स्यादिति यावत् । मनसो बहिरस्वातन्त्र्यात् मानसज्ञाने बहिरर्थस्य भानाय चक्षुषः सहकारित्वात् चक्षुष इत्युक्तम् । अतः प्रमार्थमेव लौकिको वाऽलौकिको वा सन्निकर्षो अन्वेषणीयः । भ्रमे तु दोष एवात्यन्तासतः प्रतीत्युपपादकः इत्याह दोषादिति ।। ८५१ ।।
युक्तिमल्लिका
असतो यदि न ज्ञानं कथं तत्रासतोऽपि तत् ।
दोषाच्चेद्दोष एवास्तु तर्हि सर्वधुरंधरः ।। ८५२ ।।
सुरोत्तमटीका
तत्र प्रतीतिस्थले । तत् ज्ञानम् ।। ८५२ ।।
सत्यप्रमोदटीका
कथमिति । सन्निकर्षाभावस्योभयपक्षेऽपि साम्यात् । दोषवशादत्रासतोऽपि प्रतीतिरिति चेत् अत्यन्तासतोऽपि सममित्याह दोषेति ।। ८५२ ।।
युक्तिमल्लिका
विशेषणज्ञानजत्वसिद्ध्यै तस्यापणस्थता ।
यदि स्यादक्षसंयोगजत्वात्तर्ह्यस्तु तत्र तत् ।
बाधादिदं न चेत्तर्हि बाधादेव भवेन्न सा ।। ८५३ ।।
सुरोत्तमटीका
तत्र पुरोवर्तिदेशे । तद्रजतम् । इदं पुरोवर्तित्वम् । सा आपणस्थता ।। ८५३ ।।
सत्यप्रमोदटीका
सिद्ध्यै त्वत्परिकल्पिताप्रामाणिकप्रक्रियानिर्वाहाय । तर्हि त्वत्प्रक्रियानुसारेणैव । विशेषणज्ञानस्य चक्षुःसंयोगजन्यत्वस्य त्वयै-वाभ्युपगमात् । तत् रजतं तत्र पुरोदेश एव । बाधात् अत्यन्तासदेव रजतं प्रत्यभादिति बाधानुभवविरोधात् । इदं पुरोदेशवृत्तित्वम् । सा आपणस्थता । बाधकज्ञानेन सत्त्वमात्रस्य प्रतिषेधादिति भावः ।। ८५३ ।।
युक्तिमल्लिका
रजतं दृष्टमित्युक्ते किमापणगतं त्विति ।
पृष्टस्तन्नैतदन्यच्चेत्याह किं नाखिलो जनः ।
सर्वानुभवबाधाय नालं त्वत्प्रक्रियातटित् ।। ८५४ ।।
सुरोत्तमटीका
बाधमेव दर्शयति ।। रजतमिति ।। तदापणगतम् । एतत्पुरोवर्तिदेशे प्रतीयमानम् । अखिलो जनः । अत्र दृष्टं रजतं तदापणस्थं न किंत्वन्यदेवेति नाह किमिति सम्बन्धः । अतोऽत्र दृष्टरजतस्यापणस्थता सर्वानुभवबाधितेति भावः । परप्रक्रियाया अस्थिरत्वात्तटिदित्युक्तम् ।। ८५४ ।।
सत्यप्रमोदटीका
भ्रान्त्यनुभवान्यथाऽनुपपत्त्या आपणस्थत्वसिद्धिपक्षं सुधोक्तप्रकारेण निराह तन्नैतत् इति । पुरोदेश एव रजतम् । अन्यत् न आपणस्थं न इत्येव सार्वजनीनो भ्रान्त्यनुभवः । प्रक्रियातटिदिति । चलायां तटिदि स्थिरत्वं यथा बाधितं, तथा अनुभवविरुद्धा प्रक्रियैव बाधितेति हृदयम् ।। ८५४ ।।
युक्तिमल्लिका
शशशृृङ्गं यथा नास्ति नासीन्नापि भविष्यति ।
शुक्त्यात्मकं तथा रूप्यं नासीदस्ति भविष्यति ।
एवं द्वयोश्च साम्येऽपि कस्मादस्मिंस्ततोऽन्यता ।। ८५५ ।।
सुरोत्तमटीका
शुक्तिरजतस्य शशशृृङ्गस्य च साम्यमाह ।। शशशृृङ्ग-मिति ।। एवं कालत्रयेऽपि सत्तानिषेधसाम्ये । अन्यथा विलक्षणता ।।८५५।।
सत्यप्रमोदटीका
अत्यन्तासदेव रजतं प्रत्यभादिति प्रागुक्तबाधानु-भवविरोधं स्मारयति शशशृृङ्गेति । अस्मिन् रजते । अन्यता असद्भिन्नता अन्यत्र सत्त्वमिति यावत् ।। ८५५ ।।
युक्तिमल्लिका
पूर्वाकारविकारश्च कथं स्याद्दृष्टिमात्रतः ।
न चेदैक्यं च भेदस्स्याच्चरमे दर्शने तव ।
असत्पुरा कथं नोचेद्दृष्टेस्स्यादसतोऽपरम् ।। ८५६ ।।
सुरोत्तमटीका
इदानीं प्रकृतमनुसरन्प्रागसतश्शशशृङ्गस्य प्रतीतिदशायां प्रातिभासिकत्वं परेणोक्तम् । तदेव दूषणान्तरेणापि दूषयति ।। पूर्वेति ।। पूर्वाकारविकारः प्राक्तनासत्त्वाकारस्य पुनः प्रातिभासिकत्वरूपविकारः । न चेत् दृष्टिमात्रेण पूर्वाकारविकाराभावो न चेत् । पूर्वमन्याकारस्य दृष्टि-दशायामाकारान्तरं भवति चेदिति यावत् । ऐक्यं प्राग्विद्यमानमैक्यं चरमे दर्शने भेदस्स्यादिति सम्बन्धः ।। ८५६ ।।
सत्यप्रमोदटीका
अधुना प्रागसदेव शशशृङ्गं प्रतीत्या प्रातिभासिकं संपद्यते इति मायिप्रक्रियां अतिप्रसङ्गोक्त्या पराचष्टे पूर्वेति । चरमे इति । प्राक् वेदैः परोक्षतया प्रतीतं ऐक्यं चरमसाक्षात्कारेण भेद आपद्येतेति भावः । न च प्रमात्वेन वैषम्यम् । निष्प्रकारतयाऽभ्युपगते प्रमात्वासम्भवादेवेति ध्येयम् ।। ८५६ ।।
युक्तिमल्लिका
विमतं शुक्तिरजतं नासतो व्यतिरिच्यते ।
त्रिकाल्यां च निषेध्यत्वान्मायिमस्तकशृङ्गवत् ।। ८५७ ।।
अनानुभविकं तस्मान्मतमेतद्दुरात्मनाम् ।
नृशृृङ्गवच्छुक्तिरूप्यमसदेवेति निर्मलम् ।। ८५८ ।।
सुरोत्तमटीका
शुक्तिरजतस्यासद्वैलक्षण्याभावेऽनुमानमाह ।। विमत-मिति ।। न व्यतिरिच्यत इति सम्बन्धः । सर्वानुभवसिद्धमसत्त्वमपलपन्परः पशुरिति ज्ञापनाय मायिमस्तकशृृङ्गवदित्युक्तम् ।। ८५७,८५८ ।।
सत्यप्रमोदटीका
मायीति । न च दृष्टान्ते साध्यवैकल्यं परेण शङ्कार्हम् । तथा सति स्वस्यैव पशुत्वापत्तेरिति भावः ।। दुरात्मनां अवैदिकं शून्यमतमेव वैदिकत्वेन छद्मना वर्णनपराणाम् ।। ८५७,८५८ ।।
युक्तिमल्लिका
असतश्शशशृङ्गस्य प्रत्यक्षेण भ्रमे सति ।
प्रातिभासिकता स्याच्चेत्प्राग्धीरसत एव सा ।। ८५९ ।।
सुरोत्तमटीका
प्राक्प्रातिभासिकत्वसंपत्तेः प्राक् । सा प्रातिभासिकत्व-सम्पादिका ।। ८५९ ।।
युक्तिमल्लिका
सन्घटस्सन्पटस्स्तम्भस्सन्नित्यादीनि देहिनाम् ।
सत्त्वापरोक्षज्ञानानि वर्तन्ते तत्र तत्र हि ।। ८६० ।।
कालत्रयाबाध्यता च साक्ष्युपस्कृतचक्षुषा ।
कुतो न गृह्यते नो चेच्चक्षुषेदन्त्वधीः कथम् ।
वर्तमानोऽपि कालोऽयं साक्षिवेद्यो न चाक्षुषः ।। ८६१ ।।
सुरोत्तमटीका
इदानीं दृश्यत्वानुमानस्य कालात्ययापदिष्टतामाह ।। सन् घट इत्यादिना ।। सन्घट इत्यादि धर्मिग्राहकप्रत्यक्षेण जगतस्सत्त्व-सिद्धेर्बाधितविषयकं मिथ्यात्वानुमानमिति भावः । सन्घटस्सन्पट इत्यादि-व्यवहारेषु सच्छब्देन सत्त्वस्यादौ ग्रहणे इदं रजतमित्यत्रेदन्त्वस्येव तस्या-प्यधिष्ठानब्रह्मगतत्वशङ्का स्यादपि । विश्वं सत्यं घटोऽस्ति पटोऽस्ति पर्वतोऽग्निमानित्यादौ प्राग्विश्वघटादिकं धर्मिणमनूद्य पश्चादेव सत्यत्वादिधर्म-विधानदर्शनेन सर्वत्रापि घटस्सन्पटस्सन्नित्यादिव्यवहारो न्याय्यः । यद्यपि ग्रन्थकृतश्छन्दोबद्धग्रन्थत्वेन छन्दोभङ्गभिया प्राक्प्रयोगद्वये सत्पदस्यादौ प्रयोगः तथापि युक्तेरनुल्लङ्घ्यत्वात्पाठक्रमादर्थक्रमो ज्यायानिति न्यायेन घटस्सन्पट-स्सन्नित्येवान्वयः कर्तव्यः । एवं च प्राक्सदंशप्रयोगाभावेन परकीयशङ्काया गर्भस्राव एवेति भावेनान्ते स्तम्भस्सन्निति प्रयोगः कृतः ।
ननु कालत्रयाबाध्यत्वरूपसत्त्वं कथं कालागोचर चक्षुषा गृह्यत इति चेत् न । उक्तविधया सत्यत्वग्राहकत्वेन सर्वानुभवसिद्धचक्षुषि कथंताया एवा-नवकाशात् । अन्यथा गन्धाग्राहके चक्षुषि रूपग्राहकत्वमपि कथमिति चोद्यस्य किमुत्तरम् । अनुभवबलेन ग्राहकत्वशक्तिकल्पनस्योभयत्र साम्यात् । अन्धे रूपज्ञानादर्शनात् अनन्धे च तद्दर्शनात् अन्वयव्यतिरेकाभ्यामेव रूपग्राहकत्वं कल्प्यते चेत् तत एव रूपनिष्ठसत्त्वग्राहकत्वमपि कल्प्यताम् । रूपदर्शनस्येव रूपनिष्ठसत्त्वदर्शनस्यापि उक्तविधयाऽन्वयव्यतिरेकयोस्साम्यात् । महत्त्वे सत्युद्भूतरूपवतो ग्राहकस्य चक्षुषः कथं तद्रहितकालत्रयग्राहित्वमिति चेत् न । तद्रहितरूपस्याप्यग्रहणप्रसङ्गात् । द्रव्यग्रह एव तत्प्रयोजकं न गुणग्रह इति चेत् न । स्वातन्त्रेण द्रव्यग्रहे तत्प्रयोजकं नोपनीतद्रव्यग्रह इति मयापि वक्तुं शक्यत्वात् । किञ्च किमर्थमिदं प्रयोजकं द्रव्य एव न गुण इति विभागः क्रियते । रूपरहितरूपस्यापि ग्रहणाच्चेत् तर्हि रूपरहितकालस्यापि ग्रहणा-द्द्रव्येऽपि विभागः क्रियताम् । कुतस्तर्हि चक्षुषाऽन्यत्र कालानवलोकनमिति चेत् तप्तवारिस्थतेजसि तव रूपानवलोकनवदिति ब्रूमः । तत्रानुद्भूतं तदिति चेत् अन्यत्र कालोऽप्यनुद्भूत इति ब्रूमः । अनुद्भूतत्वं गुणगता जातिः, कथं काल इति चेत् न । लाघवादुद्भूतत्वमेव जातिः । तदभावोऽनुद्भूतत्वम् । तच्चाप्रतीत्याख्यफलबलोन्नेयं यत्र यत्राप्रतीतिस्तत्र तत्र कल्प्यते । क्वचिच्चक्षु-र्ग्राह्ये सर्वथा तदयोग्यताया वक्तुमशक्यत्वात् । अन्यत्राप्रतीताविदमेव तन्त्रम् । उपनायकज्ञानस्यापि घटस्थल इव सर्वत्रापि सत्त्वात् । अन्यथा तप्तवारिस्थते-जोरूपे कथं तत्कल्पनम् । एकभागेन दर्शनमपरभागेनादर्शनं च तप्तवारिस्थ-तेजोरूपवदेव । प्रतीतिमनुरुध्यकल्पयता यथाप्रतीति सर्वं च कल्पनीयम् ।। सुहृद्भावेन पृच्छन्तं प्रत्युत्तरमाह ।। कालेति ।। ८६०,८६१ ।।
सत्यप्रमोदटीका
‘सन् घट इत्यादि प्रत्यक्षेण बाधितविषयत्वात् कालात्ययापदिष्टश्च’ इति वादावल्युक्तं दृश्यत्वाद्यनुमानानां प्रत्यक्षबाधं समर्थयते सन्निति । ननु कथं वर्तमानकालसम्बन्धित्वरूपसत्त्वविषयकत्वम् । कालस्य रूपरहितस्य चक्षुरयोग्यत्वादिति चेन्न । साक्ष्युपनीततया काल-भानाङ्गीकारात् । ‘तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् । साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते’ इत्यनुव्याख्यानोक्तेः । कालस्योपनीततयाऽपि चाक्षुषप्रत्यक्षाविषयत्वे ‘अयं घट’ इति प्रत्यक्षमपि दुर्घटं स्यादित्याह वर्तमान इति ।तथा च साक्ष्युपनीतकालत्रयसम्बन्धिबाधाभावविषयकत्वमपि चाक्षुष-प्रत्यक्षस्य सम्भवत्येवेति भावः
।।८६०,८६१ ।।
युक्तिमल्लिका
किञ्च त्रिकालबाध्यत्वमेककालेऽप्यबाधने ।
न स्यादतश्चक्षुषैव त्रिकालाबाध्यतेयते ।। ८६२ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि त्रिकालाबाध्यत्वरूपसत्त्वग्राहकता-मुपपादयति ।। किञ्चेति ।। अतः एककालाबाध्यत्वग्राहित्वेऽपि त्रैकालिक-बाधप्रतिक्षेपसमर्थत्वात् ।। ८६२ ।।
सत्यप्रमोदटीका
‘न च तस्योत्तरकालीनबाधाभावाग्राहकत्वं तदानी-मबाध्यताग्रहणेनैव तत्सिद्धेः’ इति वादावल्युक्तिमनुरुध्याह किञ्चेति । तदुक्तं न्यायामृते ‘‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यतामि’’ति । कालत्रयस्याधिकरणकोटौ प्रवेशात् साक्षाद्ग्राह्याभावावगाहित्वेनैव विरोध इति भावः ।। ८६२ ।।
युक्तिमल्लिका
किञ्च ब्रह्मगतं सत्त्वं सन्घटस्त्विति दृश्यते ।
इति तेऽपि मतं तच्च त्रिकालाबाध्यता न किम् ।। ८६३ ।।
सुरोत्तमटीका
अपि च सन्घट इत्यादौ अधिष्ठान ब्रह्मनिष्ठसत्तैवो-ल्लिख्यत इति वदता परेणापीदं समाधेयमित्याह ।। किञ्चेति ।। तत् ब्रह्मनिष्ठसत्त्वम् ।। ८६३ ।।
सत्यप्रमोदटीका
परेणाप्येतदङ्गीकृतमित्याह किञ्चेति । ब्रह्मगतमिति ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इति सुरेश्वरवार्तिकोक्तेः ।। ८६३ ।।
युक्तिमल्लिका
त्रिकालाबाध्यता तस्माच्चक्षुषैव निरीक्ष्यते ।
तत्तद्गता मेऽन्यगा ते शक्तिस्तूभयसंमता ।। ८६४ ।।
सुरोत्तमटीका
तस्मात् त्रिकालबाध्यत्वग्राहकत्वस्य त्वयाप्यङ्गीकारात् । तत्तद्गता घटपटादिपदार्थेष्वेव स्थिता अबाध्यता । मे मम मते । अन्यगा ब्रह्मनिष्ठा । ते तव मते । शक्तिः चक्षुषस्त्रिकालाबाध्यत्वग्रहणशक्तिः ।।८६४।।
सत्यप्रमोदटीका
अन्यगा अधिष्ठानब्रह्मगता । शक्तिः चक्षुषस्त्रिकाला-बाध्यत्वग्रहणशक्तिः ।। ८६४ ।।
युक्तिमल्लिका
अन्वयव्यतिरेकाख्यसाचिव्ये सति चक्षुषा ।
यथा कारणता दण्डे गृह्यते सर्वलौकिकैः ।। ८६५ ।।
दोषाभावस्थलीयत्वयुक्त्युपोद्बलितं तथा ।
त्रिकालाबाध्यतां स्वार्थे गृह्णीयाच्चक्षुरेव हि ।। ८६६ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि सत्त्वग्राहित्वमुपपादयति ।। अन्वयेति ।। चक्षुषो यथाकारणतायास्स्वायोग्यत्वेऽप्यकारणरासभादितो व्यावृत्तान्वय-व्यतिरेकाख्यसहकारिसामर्थ्याच्चक्षुरेव तां गृह्णाति । तथा दोषस्थलीयबाध्य-शुक्तिरजतसत्त्वाद्व्यावृत्तदोषाभावस्थलीयत्वाख्ययुक्त्युपोद्बलितं चक्षुस्त्रिकाला-बाध्यसत्तां गृह्णातीति भावः ।। ८६५,८६६ ।।
सत्यप्रमोदटीका
‘सहकारिसामर्थ्ये करणानां शक्त्यन्तराविर्भावस्य बहुलमुपलम्भात्’ इति पद्धत्युक्तिदृष्टान्तकथनपूर्वकं प्रकृते सङ्गमयति अन्वयेति । कारणता दण्डनिष्ठा घटजननानुकूलाऽतीन्द्रियशक्तिः ।। ‘प्रकृते तु तादृशाबाधकादर्शनात् त्रिकालाबाध्यतैव निरपवादात्सिध्यति’ इति वादावल्युक्तमाह दोषाभावेति ।। ८६५,८६६ ।।
युक्तिमल्लिका
यद्यधिष्ठानगं सत्त्वं भासते घटगं न तत् ।
नीलो घट इति ज्ञाने नैल्यं ब्रह्मगतं भवेत् ।
असद्रजतमित्यत्रासत्त्वं ब्रह्मगतं भवेत् ।। ८६७ ।।
सुरोत्तमटीका
प्रतिबन्दीग्रहणाय गृहीतामपि अधिष्ठानगतसत्त्वमेव घटादौ प्रतीयत इति परप्रक्रियां स्वेनोच्यमानजगत्सत्यताविरोधित्वादसहमानः किञ्चिद्दूषयति ।। यदीति ।। तत्सत्त्वम् । सन्घट इति प्रतीतेर्नीलो घट इत्यादिप्रतीतेश्चाविशेषादिति भावः । उपलक्षणं चैतत् । ब्रह्मगतसत्त्वस्यैव जगति प्रतिभासाङ्गीकारे पुनस्सत्त्वान्तरस्यानानुभविकत्वेन व्यावहारिक-सत्त्वस्याभावप्रसङ्गात् सत्तात्रैविध्यभङ्गप्रसङ्ग इत्यपि द्रष्टव्यम् ।। ८६७ ।।
सत्यप्रमोदटीका
मतमिति ।। विवादाध्यासितं, सद्रूपे कल्पितं, प्रत्येकं तदनुविद्धतया प्रतीयमानत्वात् इति ब्रह्मसिद्ध्युक्तम् । नील इति स्पष्टं घटादि-निष्ठतया प्रतीयमानमपि सत्त्वं यदि ब्रह्मनिष्ठं इति मतं तर्हि नीलो घटः चलति घटः, इत्यादावपि प्रतीयमानं रूपक्रियादिकमपि ब्रह्मनिष्ठमापद्येत इति भावः । इदमुपलक्षणम् । शब्दैकगम्यस्य ब्रह्मणश्चाक्षुषज्ञानेऽभानाच्चेति बोध्यम् । एतदनुपदमेव वक्ष्यते ।। ८६७ ।।
युक्तिमल्लिका
त्वया प्रतीतमप्येतदसदित्येव चोदिते ।
सदेवेदमिति प्राहुस्सत्त्वं तत्कथमन्यगम् ।
आम्रान्पृष्टः कोविदारानाचक्षाणोऽस्ति कः पुमान् ।। ८६८ ।।
सुरोत्तमटीका
सकलानुभवविरोधाच्च नेदमधिष्ठानगतसत्त्वमित्याह ।। त्वयेति ।। एतद्घटपटादिकम् । असत् सत्त्वाभाववत् । घटपटादेरेव सत्त्वाभावे चोदिते तस्यैव सत्त्वमवधारयन्तस्सन्तस्तद्गततयैव सत्त्वमनुभवन्ति । नौदासीन्येन नाप्यन्यगतत्वेनेति भावः । न च वाच्यं शुक्तिकारजतसत्त्वानु-भववदयमप्यनुभवो भ्रम एवेति । अतिदूरत्वादि दोषाभावेन घटादिस्सन्नेति बाधकाभावेन च वैषम्यात् । तूष्णीमेव भ्रान्तत्वेऽधिष्ठानगतमपि सत्त्वं भ्रान्तं स्यात् । अधिष्ठानगतसत्त्वस्यापि भ्रान्तत्वे कथं निरधिष्ठानको भ्रम इति चेत् न । निष्प्रधानकभ्रमवदेवास्यापि वक्तुं शक्यत्वस्य प्रागेवोक्तत्वात् । तत्तन्निष्ठ-तयाऽनुभूतमबाधितं सत्त्वं बलादधिष्ठानगतं कृत्वा तस्याधिष्ठानतां सम्पाद्या-नानुभविकं च कञ्चन दोषं परिकल्प्याबाधितसर्वानुभवस्य भ्रमत्वमापाद्य स्वापेक्षिततत्तदर्थक्रियाकारिणां धनवनितावसनान्नपानादीनां मिथ्यात्वकल्प-नातोऽपि यथानुभवं तत्तदर्थसत्ताङ्गीकारस्यैव लघुत्वाच्च । अन्यथा जड एवायमनित्य एवायमित्याद्यनुभवसिद्धजडत्वानित्यत्वादीनामपि अधिष्ठानब्रह्म-गतत्वं स्यात् । समानन्यायत्वात् । अर्धजरतीयानुपपत्तेश्च । ब्रह्मणि जडत्वा-नित्यत्वादिकं श्रुतियुक्तिबाधितं चेत्तर्ह्यर्थक्रियाकारिणि जगत्यपि सर्वानुभव-श्रुतियुक्तिबाधितं मिथ्यात्वं कथमङ्गीकुरुषे । प्रमाणत्रयप्रमितां च सत्तां कथमन्यत्र नयसि । कथं च विश्वं सत्यमित्याद्यागमानां प्रत्यक्षसिद्धानुवादि-त्वेनाप्रामाण्यमानयसि ।। ८६८ ।।
सत्यप्रमोदटीका
अनुभवविरोधं च परस्याह त्वयेति ।। स्फीतालोक-मध्यवर्ती सन्निकृष्टोऽपि अयं घटः सन्नेति केनचिच्चोदिते प्रतिवक्तारो भवन्ति अयं घटः सत्यो भवत्येवेति । यदि पुनः न सन् घट इति चोदनं ब्रह्मविषयकं तर्हि उत्तरमपि तद्विषयकमेव स्यात् । ज्ञानानां स्वतः प्रामाण्यसिद्धघट-सत्त्वापलापे ब्रह्मणोऽप्यपलापेन शून्यवादापत्तिरिति भावः ।। ८६८ ।।
युक्तिमल्लिका
लोकानुभवबाधाय नालं त्वत्प्रक्रियातटित् ।। ८६९ ।।
अचाक्षुषब्रह्मसत्ता चक्षुषा कथमीक्ष्यते ।
ब्रह्मणोऽचाक्षुषत्वं च सिद्धमुक्तप्रकारतः ।। ८७० ।।
सुरोत्तमटीका
ननु स्वपूर्वाचार्यप्रक्रियासंरक्षणाय सर्वमिदं कल्प्यत इति चेत्तत्राह ।। लोकेति ।। लोकानुभवेत्युपलक्षणम् । विश्वं सत्यं यच्चिकेत सत्य-मित्यादि वेदद्रष्टॄणां महर्षीणां सत्यं मे व्याहृतं सतीति स्ववाक्यस्य सत्यत्वं वदतः सर्वज्ञस्य हरेः । एतेन सत्यवाक्येनेत्यादि पुराणप्रवर्तकानां महर्षीणां चानुभवोऽपि ग्राह्यः । लोकृ दर्शन इति धातोर्लोकपदेन वा तेषां ग्रहणम् । तटिदित्यनेन परोदीरितवाक्यानां परेणैव मिथ्यात्वाङ्गीकारादस्थिरत्वं सूचयति
।। ८६९,८७० ।।
सत्यप्रमोदटीका
उक्तेति ।। आसंसारमज्ञानावृतं, रूपादिहीनं, शब्दैकगम्यं इत्याद्युक्तेत्यर्थः ।। ८७० ।।
युक्तिमल्लिका
न हि कोऽपि पिशाचस्य सत्त्वं पश्यन्प्रदृश्यते ।
वेदैकगम्यादृश्यार्थसत्तां सर्वः किलेक्षते ।। ८७१ ।।
सुरोत्तमटीका
ब्रह्मसत्यत्वस्याप्रत्यक्षत्वे कैमुत्यमाह ।। न हीति ।। ८७१ ।।
सत्यप्रमोदटीका
पिशाचेति । वायवीयदेहवत्त्वेन रूपहीनत्वे दृष्टान्तः । सर्वप्रत्ययवेद्ये चेति परप्रक्रियामपहसति सर्वः किलेति ।। ८७१ ।।
युक्तिमल्लिका
घटस्सन्भूतले व्योमि्न न सन्रूपं च सद्घटे ।
न व्योम्नीति च विज्ञाते के ते सदसती वद ।। ८७२ ।।
न ह्यधिष्ठानमाधेयं सच्च तत्सदसन्न हि ।। ८७३ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि सत्तां घटगतां करोति ।। घट इति ।। भूतलाधिकरणकतया घटाधिकरणकतया च प्रतीयमानस्सन्परमतेन ब्रह्म । अवृत्तिपदार्थत्वात् । अधिष्ठानाध्यस्तयोर्द्वयोरेव सत्त्वं वक्तव्यम् । एककर्तृक-वाक्यत्वात् । असत्त्वं च न ब्रह्मणः । किन्तु घटरूपयोरेव । अतस्सत्त्वमपि तयोरेव वक्तव्यम् । घटभूतलयोराधारतया स्पष्टं प्रतीयमानत्वेन त्वदभिमता-धिष्ठानगोष्ठ्या अप्ययोगाच्च ।। एतदेव दर्शयति ।। न हीति ।। सत् सदेक-स्वभावं तद्ब्रह्म ।। ८७२, ८७३ ।।
सत्यप्रमोदटीका
अधिष्ठानानुवेधं युक्त्यन्तरेणापाकरोति घट इति । भूतले घटः सन्, घटे रूपं सत् इति च सतः आधेयत्वं प्रतीयते ।। ब्रह्म च नाधेयम् । अतः नात्र सच्छब्दार्थः । एवं व्योमि्न घटः सन्नेति एवं रूपं सन्नेति च प्रतीयते । सदेकस्वभावस्य ब्रह्मणः न असद्रूपता । अतः अत्र उभयत्र सदसच्छब्दाभ्यां घटरूपे एव त्वयाऽपि बोध्यत्वेन स्वीकरणीय इत्याह न हीति । अत्र उभयत्र रूपघटयोः व्योमसंसर्गनिषेध एव, न रूपघटयोः, तयोः प्रामाणिकत्वात् । अन्यथा प्रामाणिकप्रतियोगिकात्यन्ताभावाङ्गीकारेण अपसिद्धान्तः स्यादित्यवधेयम् ।। ८७२,८७३ ।।
युक्तिमल्लिका
यदध्यस्तं घटे सत्त्वं भाति तद्गं हि तद्भवेत् ।
न त्वन्यगामि न ह्यावामन्यथाख्यातिवादिनौ ।
सत्त्वप्रत्यक्षमेतस्मादबाधितमभूदिदम् ।। ८७४ ।।
सुरोत्तमटीका
एकत्रारोप्यमाणस्यान्यत्र सत्त्वं तार्किकस्यैव शोभते । न तु तव । अपसिद्धान्तादित्याह ।। यदध्यस्तमिति ।। एतस्मात् अन्यगत-स्यान्यत्र भ्रान्त्ययोगात् ।। ८७४ ।।
सत्यप्रमोदटीका
अस्तु वा घटे सत्त्वमध्यस्तम् । तथाऽपि न तद् ब्रह्मगतमिति त्वया वक्तुं शक्यम् । अन्यत्र सतः अन्यत्र भानं इति तार्किकमतप्रमोषापत्तेरित्याह यदिति । आवामिति । मम मते अध्यस्तं असदेव । तव तु अनिर्वचनीयख्यातिवादिनः तत्सदेव । असद्वैलक्षण्याख्य-स्वरूपाङ्गीकारात् । सर्वथा नान्यगतमिति भावः । अबाधितमिति श्रुतिस्तु प्रत्यक्षसिद्धं न बाधितुमीष्टे । अतीन्द्रियार्थविषयकत्वात्तत्प्राबल्यस्येति भावः ।। ८७४ ।।
युक्तिमल्लिका
किञ्चाधिष्ठानगा सत्ता घटाद्यनुगतेति सा ।
घटेऽपि दृश्यते किं वा तन्निष्ठाऽऽरोप्यते घटे ।। ८७५ ।।
उत तत्रैव सा दृष्टा घटो घटतयेक्ष्यते ।
किं वा घटे पृथक्सत्त्वं तत्स्थमेव निरीक्ष्यते ।। ८७६ ।।
आद्ये चैतन्यवत्सत्तासिद्धेस्सिद्धं समीहितम् ।
द्वितीये तु चिदैक्यस्यारोपे स स्यान्न चान्यथा ।। ८७७ ।।
सुरोत्तमटीका
इदानीं घटादिप्रपञ्चे सत्त्वस्यैवाप्रतीतौ व्यावहारिक-सत्त्वस्याप्यभावप्रसङ्गेन ब्रह्मगतसत्त्वस्यात्र प्रतीतावन्यथाख्यात्यापत्त्या तेषु तेष्वेव तत्तत्सत्त्वस्य प्रत्येतव्यत्वे सिद्धेऽविद्यानिवृत्त्युत्तरकालीन तत्तदधिष्ठान-चैतन्यस्य तत्तज्ज्ञानत्वं वदतः परस्यैव रीत्याऽविद्याख्य दोषायोगेन काचादि-दोषाणां सर्वसंमत्याप्यभावेन निर्दोषकरणजन्यमत एव बाधायोग्यं घटादिप्रत्यक्षं सर्वैरप्यनुल्लङ्घ्यमिति भावेन सविस्तरं परपक्षं विकल्प्य दूषयति ।। किञ्चेति ।। सा सत्तेति सम्बन्धः । तन्निष्ठा ब्रह्मनिष्ठा ।। तत्रैव ब्रह्मण्येव । घटे सत्त्व-प्रतीतिरेव नास्तीत्येवकारार्थः । तत्स्थं घटस्थम् ।। सत्तासिद्धेः घटेऽपि सत्ता-सिद्धेः । समीहितं ब्रह्मवज्जगत्सत्यत्ववादिनां समीहितम् । सः ब्रह्मगत-सत्तारोपः ।। ८७५-८७७ ।।
सत्यप्रमोदटीका
‘प्रत्यक्षबाधितं च जगन्मिथ्यात्वम् । सदिति प्रतीय-मानत्वात्’ इति तत्त्वोद्योतं समर्थयमानः परपक्षे सत्त्वं विकल्प्य दूषणेन, प्रत्यक्षस्य त्रिकालाबाध्यताग्राहकत्वं व्यवस्थापयति किञ्चेत्यादिभिः ।। प्रत्यक्षेण प्रतीयमाना सत्ता ब्रह्मगतैवेति वा, ब्रह्मगता प्रपञ्चे आरोपितेति वा, घट इत्येव प्रात्यक्षिकी प्रतीतिः न तु घटः सन्निति वा, पृथक् घटगतैव सत्ता प्रत्यक्षगोचर इति वा इति चतुर्धा विकल्प्य आद्ये दोषमाह आद्य इति । सिद्धमिति ‘यादृशं ब्रह्मणः सत्त्वं तादृशं स्याज्जगत्यपि’ इति अस्माभिरपि ब्रह्मगतपारमार्थिकसत्त्वस्यैव प्रपञ्चस्याप्याशासनात्तदुक्तं परेणापि ‘सत्वा-च्चावरस्य’ इति सूत्रभाष्ये ‘यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति एवं कार्यमपि जगत् त्रिषु कालेषु सत्वं न व्यभिचरती’ति । द्वितीयं निराह चिदैक्यस्येति । सत्ता हि ब्रह्मणः सद्रूपस्य स्वरूपमेव । अतः तदारोपः चिदैक्यारोपं विना न घटते । अतः चिदैक्यारोपोऽपि जगति अङ्गीकार्य इत्याह सः इति सत्तारोपः।। ८७५-८७७ ।।
युक्तिमल्लिका
उक्तरीत्या चिदैक्यस्यारोपस्स्यात्प्रातिभासिकः ।
न चेतनो घट इति बाधस्याद्यैव दर्शनात् ।। ८७८ ।।
सुरोत्तमटीका
उक्तां रीतिमेव स्मारयति ।। नेति ।। औव ब्रह्मज्ञाना-त्पूर्वमेव ।। ८७८ ।।
सत्यप्रमोदटीका
अस्तु चिदैक्यारोपोऽपि इति तत्राह नेति । ‘दृश्यते च जगदिदानीं आत्मनो भिन्नत्वेन’ इति वादावल्युक्तब्रह्मज्ञानात् प्रागेव चिदैक्यस्य बाधदर्शनात् चिदैक्यं प्रातिभासिकं स्यात् इत्याशयः ।। ८७८ ।।
युक्तिमल्लिका
प्रातिभासिकसत्ता भूद्घटसत्ताऽपि ते मते ।
अर्थक्रियाया घटकं सत्त्वं नेत्यफलो घटः ।। ८७९ ।।
सुरोत्तमटीका
अर्थक्रियाया घटकं सत्त्वं प्रातिभासिकसत्त्वादधिकं सत्त्वमित्यर्थः । दूषणान्तरमिदम् । प्रागुक्तापसिद्धान्तादिकं च द्रष्टव्यम्
।। ८७९ ।।
सत्यप्रमोदटीका
अस्तु तदपि इति चेदर्थक्रियाविलोपप्रसङ्ग इत्याह सफल इति ।। ८७९ ।।
युक्तिमल्लिका
घटे चेदुल्लिखेत्सा धीः पारमार्थिकसत्यताम् ।
क्षिपेदसत्यतां तस्य भाविबाधश्च बाध्यते ।। ८८० ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। घट इति ।। सा सन्घट इत्यादि-रूपा । तस्य घटादिप्रपञ्चस्य । अबाधितपारमार्थिकसत्यत्वग्राहिप्रत्यक्षविरोधे अनुमानादिशतकेनापि मिथ्यात्वं वक्तुं न शक्यत इति भावः । ननु ब्रह्मगत-सत्त्वस्यैव जगति भ्रान्त्या भानात्कथं तेन जगन्मिथ्यात्वप्रतिक्षेप इति चेत्सत्यम् । प्रतीयते तावज्जगति पारमार्थिकं सत्त्वम् । तस्य च भ्रान्ति-सिद्धत्त्वम् । अत्रासत्त्वे ब्रह्मण्येव च सत्त्वे सति स्यात् । तत्र च न ताव-त्प्रत्यक्षं प्रमाणम् । तेन त्वद्रीत्या मद्रीत्या चात्रैव सत्त्वस्योल्लिख्यमानत्वात् । वस्तुस्थित्या तन्निष्ठस्यात्रोल्लेखेऽपि ब्रह्मगततयाऽनुल्लेखाच्च । नाप्यनुमानम् । अनुमानबाधायावतीर्णप्रत्यक्षस्याग्रे पुनरुच्यमानानुमानशतकस्यापि काला-त्ययापदिष्टताया अपरिहारात् । नाप्यागमः । घटे प्रतीयमानं सत्त्वं न घटगतं किन्तु ब्रह्मनिष्ठमित्याकारकवाक्यस्य क्वाप्यदर्शनात् । प्रत्यक्षसिद्धघोषा-नाधारत्वस्य वाक्यशतकेनापि बाधादर्शनाच्च । तस्मादबाधितसत्त्वग्राहिप्रत्यक्षेण स्यादेवमिथ्यात्वप्रतिक्षेपः । भाविबाधकवतश्शुक्तिरजतादेः काचादिदुष्टकरण-जन्यज्ञानविषयत्वनियमेन प्रकृते च तदभावस्योभयवादिसम्प्रतिपत्त्या त्वद्रीत्यैवा- विद्यानिवृत्त्युत्तरकालीनप्रतीतेरविद्याख्यदोषमूलत्वस्याप्यसम्भवेनादुष्ट-सार्वजनीनकरणजन्यज्ञानविषयस्यार्थक्रियाकारिणश्च घटादेस्त्वदभिलषितचरम-साक्षात्कारात्प्रागेव विनष्टस्य निष्प्रकारके तस्मिन्नास्तीत्यनुल्लिख्यमानस्य च भाविबाधोऽपि बाधित एवेति भावः ।। ८८० ।।
सत्यप्रमोदटीका
अतो जगतो ब्रह्मणो भिन्नत्वेन दृश्यमानत्वेन पारमार्थिकसत्यत्वमेव सेत्स्यति । ‘यद्यतो भिन्नत्वेन दृश्यते न तत्तत्रारोपितं, यथा शुक्तिकाया भिन्नत्वेन दृश्यमानं रूप्यं न शुक्तिकायामारोपितं’ इति वादावल्याम् उक्तेः । तथा चासत्यतायाः प्रतिक्षेपः, भाविबाधकशङ्काया उन्मूलनं चेत्याह क्षिपेदिति ।। भाविबाधः न प्रत्यक्षेण । अननुभवात् । सत्यः स्तम्भो भवत्येवेति सत्यत्वस्यैव तेनावधारणात् । नानुमानेन । प्रत्यक्षविरोधेन प्राप्तमरणावस्थस्य प्रत्यक्षविरोधेऽक्षमत्वात् । अन्यथा दहनशैत्यानुमानमपि तदुष्णताऽवगाहिप्रत्यक्षबाधेन प्रमाणं प्रसज्येत । नाप्यागमेन । ‘न ह्यनुभव-विरोधे आगमप्रामाण्यम् । आगमप्रामाण्यानुभवस्यैवाप्रामाण्यप्राप्तेः’’ इति भगवत्पादोक्तेः । प्रत्यक्षविरोधे आगमस्यान्यार्थकल्पनाया एव न्याय्यत्वात् । तदुक्तं ‘न प्रत्यक्षसिद्धं अन्येन केनापि बाध्यं दृष्टमि’ति ।। ८८० ।।
युक्तिमल्लिका
आरोपितत्ववार्ता तु बाधदृष्टेर्न शोभते ।। ८८१ ।।
सुरोत्तमटीका
एतदेव दर्शयति ।। आरोपितत्वेति ।। आरोपितत्ववार्ता सत्त्वस्यारोपितत्ववार्ता ।। ८८१ ।।
युक्तिमल्लिका
चिद्भिन्नत्वेनैव दृष्टघटादौ जडवस्तुनि ।
यत्सत्त्वं दृश्यते तच्च तद्गं स्यान्न तु चिद्गतम् ।। ८८२ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। चिद्भिन्नत्वेनेति ।। तद्गं जडवस्तु-गतम् । भेदेन दृष्टपदार्थधर्मस्य भिन्नतया दृष्टेऽन्यस्मिन्नारोपायोगादिति भावः ।। ८८२ ।।
सत्यप्रमोदटीका
चिदिति । चिद्भिन्ने जगति चिद्गतासाधारणधर्मस्य तत्सत्त्वस्याप्यभाव आवश्यकः । अतः प्रतीयमानं सत्त्वं जगद्गतमेवेत्याह तद्गमिति ।। ८८२ ।।
युक्तिमल्लिका
चिदसाधारणो धर्मस्सत्ता किल भवन्मते ।
चिदन्यत्वग्राहिणी चित्किं तां तत्र न बाधते ।। ८८३ ।।
न चेत्स्वगतचित्त्वं च कुतो नारोपयेद्घटे ।
जातिक्षयो वा गर्भस्य स्रावो वा तद्भवेद्ध्रुवम् ।। ८८४ ।।
सुरोत्तमटीका
तां सत्ताम् । तत्र घटादौ । बाधते न प्रत्येतुं मुञ्चति ।। न चेत् स्वनिष्ठसत्तां न बाधते चेत् । जातिक्षयः चित्त्वस्यान्यत्रारोपे स्वा-साधारणचित्त्वजातिक्षयः । प्रातिभासिकारोपे जात्यपसरणाभावेऽपि व्यावहारि-कारोपे ब्रह्मणीव घटेऽपि चित्त्वापरिहारात् घटगतजडत्वजातिक्षयो वा । गर्भस्य स्रावः चित्त्वानारोपे सत्त्वस्याप्यारोपासम्भवेन शङ्काया गर्भस्रावः । तत् तस्मात् सत्त्वारोपवच्चित्त्वारोपस्य न्यायप्राप्तत्वात् । व्यावहारिकारोपस्य तत्त-ज्जातिव्यवस्थापकत्वाच्चित्त्वारोपे घटस्यापि चित्त्वमेव स्यात् । जडत्वं च गच्छेत् । चित्त्वानारोपे च सत्त्वस्याप्यनारोपावश्यंभावेन घटसत्त्वस्यान्य-गतत्वशङ्का न घटत इति भावः ।। ८८३,८८४ ।।
सत्यप्रमोदटीका
तदेव विपक्षे बाधकोक्त्या स्थिरीकरोति चिद-साधारणेति न चेदिति च । चित्त्वस्य जडे आरोपे चित्त्वरूपजातिक्षयः । अनारोपे सत्त्वस्य अनारोपितत्वप्राप्त्या भाविबाधशङ्काया गर्भस्राव इति विवेकः ।। ८८३,८८४ ।।
युक्तिमल्लिका
घटस्थां कुरु तत्सत्तामन्यथाख्यातिरन्यथा ।। ८८५ ।।
सुरोत्तमटीका
तत्सत्तां घटसत्ताम् ।। ८८५ ।।
सत्यप्रमोदटीका
यदि जगति अविद्यमाना सत्ता तत्र विद्यमानत्वेन प्रतीयते । तर्हि असतः सत्त्वेन प्रतीत्यङ्गीकारादनिर्वचनीयख्यातिवादो दत्त-जलाञ्जलिः स्यादित्याह अन्यथेति । अतः प्रतीयमाना सत्ता जगद्गतैवेति फलितम् ।। ८८५ ।।
युक्तिमल्लिका
सन्निकर्षाय तत्सत्तां चितिस्साक्षात्कृतिश्च ते ।
प्राक्सतीमेव गर्भे स्वे कथमारोपयेद्वद ।
अतश्चतुर्थपक्षोऽपि प्रथमं पक्षमन्वगात् ।। ८८६ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि घटादौ प्रतीतसत्ता घटादिगतैव स्यात् । न ब्रह्मगतसत्तायास्तत्रारोप इत्याह ।। सन्निकर्षायेति ।। सन्निकर्षाय अज्ञान-निवर्तकज्ञानजनकसन्निकर्षाय । तत्सत्तां घटादिसत्ताम् । चितिः अपरोक्ष-वृत्त्याऽज्ञाननिवृत्तौ सत्यां ब्रह्मस्वरूपभूतज्ञानम् । साक्षात्कृतिः मानसापरोक्ष-वृत्तिः । प्राक्सतीं पूर्वं विद्यमानाम् । स्वे गर्भे स्वोल्लेखदशाख्योदरे आरोपयेत् अविद्यमानामेव प्रदर्शयेत् । वृत्तेश्चितश्च पूर्वमेवेन्द्रियसन्निकर्षघटनाय विद्यमान-घटसत्ता कथं पुनर्वृत्त्या चिता वाऽऽरोप्यमाणा भवेदिति भावः । प्राग्विद्यमान शिशोर्मातुर्गर्भे पुनरारोहासम्भवं निदर्शनतया ध्वनयितुं गर्भे स्वे कथमारोपये-दित्युक्तम् । अतः घटादिगतसत्त्वस्य द्वेधाप्यारोपितत्वासम्भवात् । चतुर्थपक्षः घटादिनिष्ठसत्त्वस्य पार्थक्यपक्षः । प्रथमं पक्षं घटादेर्ब्रह्मणश्च समानसत्ता-जात्याश्रयत्वपक्षमन्वगात् अनुसृत्यागात् । सत्त्वद्वयावलम्बित्वैकसत्तावलम्बित्व-रूपभेदसद्भावात् ब्रह्मसत्त्वभिन्नस्यापि घटादिगतसत्त्वस्योक्तविधया ज्ञानद्वया-त्पूर्वमेव वर्तमानत्वेनानारोपितत्वेन ब्रह्मसत्त्वसमानत्वाच्चान्वगादित्युक्तम् । अन्यथा स एव स इत्यवक्ष्यत् । चतुर्थपक्षेऽपि पारमार्थिकत्वस्यापरिहारा-त्प्रथमपक्ष इवास्मदभीष्टसिद्धिरेवेति भावः ।। ८८६ ।।
सत्यप्रमोदटीका
सत्ताया अनारोपितत्वे युक्त्यन्तरमाह सन्निकर्षा-येति ।। चितिःआवरणनिवृत्त्यर्थं साक्षात्कृतिं अपरोक्षवृत्तिमपेक्षते । अपरोक्ष-वृत्तिश्च सन्निकर्षार्थं प्राक्सत्तामपेक्षते । अत उभययाऽप्युपजीव्यत्वेन प्रागेवा-रोपात् सन्निकर्षघटकतया सिद्धं सत्त्वं कथं पश्चात्तनारोपविषय इति भावः । गर्भे आरोपयेत् प्रसुवीत ।। न हि भार्यैव भर्तारं सूते यत्नशतैरपि’ इति ध्वनिः ।। चतुर्थपक्षः जगति पृथक् ब्रह्मसत्ताभिन्नं व्यावहारिकं सत्त्वमस्तीति पक्षः । प्रथमं पक्षं ब्रह्मण इव प्रपञ्चस्य पारमार्थिकसत्त्वमिति पक्षम् । प्रत्यक्षसिद्धस्य व्यावहारिकस्य अबाध्यताया उपपादितत्वादिति भावः ।।८८६।।
युक्तिमल्लिका
तृतीये तु घटाद्यर्थे सत्त्वस्यादर्शने जनः ।
तमादत्ते शुक्तिरूप्यं नादत्ते केन हेतुना ।
अप्रसक्तनिषेधश्च कथमन्ते भवेत्तव ।। ८८७ ।।
सुरोत्तमटीका
तं घटपटादिकम् । सत्त्वाभावस्योभयत्र साम्यादिति भावः । अन्ते ब्रह्मज्ञानदशायाम् । घटादौ सत्त्वस्यैवाभावे सत्त्वनिषेधा-ख्योन्तिमबाधोऽप्रसक्तनिषेधः स्यादिति भावः ।। ८८७ ।।
सत्यप्रमोदटीका
तृतीये सत्तात्रैविध्यमते तृतीये प्रातिभासिकत्वे, अर्थस्य अर्थक्रियाकारित्वस्य । केन हेतुना आदत्ते इत्यन्वयः । शुक्तिरूप्यं च केन हेतुना नादत्ते इति च । निष्प्रयोजनत्वस्योभयत्र साम्यादिति भावः । कथमिति अर्थक्रियाऽभावेन शशविषाणायितस्य सत्त्वाप्रसक्तेः तन्निषेधः चरमज्ञानेन अन्ते क्रियमाणः असङ्गत एव स्यादिति भावः ।। ८८७ ।।
युक्तिमल्लिका
चतुर्थे न तृतीयं तत्सत्त्वं नापि द्वितीयकम् ।
बाधस्य बोधे यल्लोको निश्शङ्कं न प्रवर्तते ।। ८८८ ।।
सुरोत्तमटीका
प्रागतिदेशमात्रेण दूषितं चतुर्थपक्षमिदानीं विस्तरेण दूषयति ।। चतुर्थ इति ।। तृतीयं सत्तात्रैविध्यविभागे तृतीयं प्रातिभासिक-सत्त्वम् । तत् जगति प्रतीयमानं सत्त्वम् । द्वितीयं व्यावहारिकम् । प्राति-भासिकत्वपक्षे व्यावहारिकत्वपक्षे च परमते बाधसद्भावात् बाधस्य बोध इत्युक्तम् । यत् यस्मात् । तस्मान्नेति पूर्वेण सम्बन्धः ।। ८८८ ।।
सत्यप्रमोदटीका
ब्रह्मसत्तायाः पृथक्सत्ता जगत्यस्तीति चतुर्थपक्षं पुनः दोषान्तरोक्त्या प्रत्याह चतुर्थे इति । न इति भिन्नं पदम् । तत् प्रतीयमानं तृतीयं सत्त्वं न, एवं द्वितीयमपि सत्त्वं न इति योजना । तत्र हेतुः बाधेति ।। उभयत्र सत्त्वस्य परिभाषामात्रत्वादिति भावः ।। ८८८ ।।
युक्तिमल्लिका
कथं च तन्निषेधोऽन्ते बाध्यसत्त्वोररीकृतेः ।। ८८१ ।।
सुरोत्तमटीका
तन्निषेधः व्यावहारिकसत्त्वस्य निषेधः । बाध्यसत्त्वो-ररीकृतेः व्यावहारिकसत्त्वस्य परेणाङ्गीकारादित्यर्थः । व्यावहारिकतयाऽङ्गीकृते जगति न तन्निषेधो युक्तः । तस्यापि निषेधे जगतोऽत्यन्तासत्त्वप्रसङ्गात् । एवं च प्रतीतमिदमेव सत्त्वमबाधितमर्थक्रियोपयोगि चेति ब्रह्मसत्तासमानत्वादिदमेव पारमार्थिकं स्यात् । तथा सत्यबाधितं प्रातिभासिकसत्त्वमपि पारमार्थिक सत्त्वं स्यादिति चेत् । न । सत्तायास्सत्त्वे तस्या अपि तादृशत्वापरिहारात् । सैव नाङ्गीकार्या । प्रातिभासिके व्यावहारिकसत्त्वस्यैव, व्यावहारिके च पारमार्थिक सत्त्वस्यैव बाधेऽबाधितयोश्च तयोस्सत्तयोर्ब्रह्मसत्तासमानयोगक्षेमत्वापरिहारात् । सत्तात्रैविध्याङ्गीकारस्तवैव बाधकस्स्यात् । अतस्त्वयाऽप्येकैव सत्ताऽङ्गीकार्या । सदिधातोस्सत्तात्रैविध्येऽननुशासनात् । सत्य आत्मा सत्यो जीवस्सत्यं भिदेति श्रुतौ, सम्भवत्येकवाक्यत्वे वाक्यभेदो हि दूषणमिति न्यायेनैकवाक्यत्वस्य सर्वैर्वक्तव्यत्वाच्च । सा च सत्ता असदेवेदं रजतमिति बाधकप्रत्यये शुक्ति-रजतादौ सन्नैवेति साक्षात्सत्त्वस्यैव प्रतिषेधात् बाधिताऽस्तु जगति तु द्वितीयं सन्नेति निषेधस्य क्वाप्यदर्शनादबाधितैवास्तु किमनया दुरन्तचिन्तयेति भावः ।। ८८९ ।।
सत्यप्रमोदटीका
कथमिति । ‘‘स किं प्रत्यक्षाद्याकलितोऽन्यो वा यो निराक्रियते । आद्ये कथमङ्गीकृतस्य निराकरणम् । अन्यश्चेन्निषिध्यतां न नो हानिः’’ इति वादावल्युक्तमत्रानुसन्धेयम् ।। ८८९ ।।
युक्तिमल्लिका
बाध्यसत्त्वनिषेधश्चाबाध्यसत्त्वसम(र्प)र्थकः ।
तादृक्सत्त्वनिषेधेऽपि न सत्किं ब्रह्म ते मते ।। ८९० ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। बाध्येति ।। बाध्यं नेत्युक्तेऽबाध्य-त्वस्यैव लाभादिति भावः । तादृक्सत्त्वनिषेधे व्यावहारिकसत्त्वनिषेधे ।।८९०।।
सत्यप्रमोदटीका
समर्थकः इति । द्वौ नञाविति न्यायेनेति भावः । तत्र निदर्शनं ब्रह्मेति ।। ८९० ।।
युक्तिमल्लिका
अर्थेन्द्रियाभियोगार्थमारोपद्वितये मते ।
या सत्ताऽऽवश्यकी पूर्वं सा सर्वा पारमार्थिकी ।। ८९१ ।।
सुरोत्तमटीका
अतः प्रथमं पक्षमन्वगादित्युक्तमेव विशदयति ।। अर्थेति ।। पूर्वं आरोपद्वितयात्पूर्वम् ।। ८९१ ।।
सत्यप्रमोदटीका
आरोपद्वितये इति व्यावहारिकत्वप्रतिभासकरूपे । प्रातिभासिकत्वपक्षेऽपि अधिष्ठानेन्द्रियसन्निकर्षस्यावश्यकत्वादिति भावः
।। ८९१ ।।
युक्तिमल्लिका
सदित्येव प्रतीतेश्च व्यावहारिकता कुतः ।
बाधाद्बोध्यो हि तद्भावो बाधश्चाक्षेण बाधितः ।। ८९२ ।।
प्रत्यक्षबाधे वाक्यस्यैवान्यार्थस्सर्वसंमतः ।
आगमादक्षबाधे स्याल्लक्षणाया बहिष्कृतिः ।
अक्षादागमबाधे तु मिथ्यात्वोक्तिर्वनं गता ।। ८९३ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि व्यावहारिकतां निवारयति ।। सदिति ।। तद्भावः व्यावहारिकत्वम् ।। ८९२,८९३ ।।
सत्यप्रमोदटीका
व्यावहारिकता बाध्यता । कुत इति । स्वतः प्रामाण्यनिश्चलत्वादिति भावः । तद्भावः बाध्यत्वम् । बाधाभिमतःस्वयं बाधितः उताबाधितः । नाद्यः । तस्य ब्रह्मण इव सत्यत्वस्थापकत्वादित्युक्तम् । न द्वितीयः । असिद्धेः । प्रत्यक्षेण जात्यादिना प्रबलेनैव तस्य बाधात् ।।
लक्षणाया बहिष्कृतिः । तत्त्वमसिवाक्ये, प्रत्यक्षविरोधेनैव हि परेण जहद-जहल्लक्षणोक्ता । ‘कथमेकत्वमनयोर्घटते विपरीतयोः । प्रत्यक्षेण विरोधोऽय-मुभयोरुपलभ्यते’ इति । ‘ऐक्यं तयोर्लक्षितयोर्न वाच्ययोर्निगद्यतेऽन्योन्यविरुद्ध- धर्मिणोः’ इति च । वनं गतेति । मिथ्यात्वमर्थं विहाय प्रत्यक्षानुगुण-मर्थान्तरमेव बोधयेदिति भावः ।। ८९२,८९३ ।।
युक्तिमल्लिका
परेण बाध्यं पूर्वं चेत्स्मृत्यबाध्या श्रुतिर्भवेत् ।
विधिर्निषेधबाध्यश्चेदहिंसोक्त्या हतः क्रतुः ।
वैयाकरणशास्त्रादौ मर्यादा तत्कृता तथा ।। ८९४ ।।
सुरोत्तमटीका
वैयाकरणशास्त्रादौ । आदिपदेन मीमांसाशास्त्रम् । तत्कृता पाणिन्यादिकृता । तथा परेण पूर्वं बाध्यं निषेधेन विधिर्बाध्य इत्यादि प्रकारेण ।। ८९४ ।।
सत्यप्रमोदटीका
परेण बाध्यमिति । यथोक्तं न्यायामृते ‘परत्वं तु प्रमानन्तरभ्रमे व्यभिचारि’ इति । ‘तत्परत्वमसिद्धत्वात्परत्वं व्यभिचारतः । निर्दोषताऽन्यथासिद्धेः प्राबल्यं नैव साधयेदि’ति च ।। (१/१४११८) हत इति । अग्नीषोमीयं पशुमालभेतेति श्रुतेः क्रतुविधायकत्वं न स्यादिति भावः । तत्कृतेति । पाणिन्यादिकृता परिभाषा तच्छास्त्रमात्रसम्बन्धिनीति भावः ।। ८९४ ।।
युक्तिमल्लिका
अतः प्राबल्यदौर्बल्ये बाध्यताबाध्यतार्पके ।
सर्वोपजीव्यं प्रत्यक्षं सर्वतः प्रबलं महत् ।
तद्बाधादनुमा बाध्या शब्दोऽप्यन्यार्थतां व्रजेत् ।। ८९५ ।।
सुरोत्तमटीका
अतस्तत्तद्वादिकृतसंकेतस्यानादरणीयत्वात् ।। ८९५ ।।
सत्यप्रमोदटीका
सर्वोपजीव्यमिति । यत्प्रामाण्यं स्वस्वरूपसिद्ध्यर्थं अपवादनिरासार्थं वा यत्प्रामाण्यायत्तं तत्तस्योपजीव्यम् । तथाविधं च साक्षि-प्रत्यक्षमिति भावः । एवं पक्षहेतुसाध्यव्याप्त्यादिग्राहकत्वेन अनुमानं प्रति, शब्दस्वरूपस्य तद्धर्मस्य योग्यतादेः, उपक्रमोपसंहारैकरूप्यादेः ग्राहकत्वेन आगमं च प्रति बाह्यप्रत्यक्षस्याप्युपजीव्यत्वं न्यायामृतोक्तमनुसन्धेयम् ।।८९५।।
युक्तिमल्लिका
किञ्च श्रुतिरनादित्वात्पूर्वाऽक्षं तु परं नृणाम् ।
अतस्त्वन्न्यायतोऽप्यक्षमागमस्यैव बाधकम् ।। ८९६ ।।
सुरोत्तमटीका
त्वन्न्यायतः परेण पूर्वं बाध्यत इति न्यायतः ।।८९६।।
सत्यप्रमोदटीका
पूर्वा अक्षमिति पदच्छेदः । तथा च परेणोक्तं, प्राबल्यहेतुः परत्वं, प्रत्यक्षस्यैवेति भावः ।। ८९६ ।।
युक्तिमल्लिका
तत्त्वमस्यादिवाक्यं च विधिरूपं कथं महत् ।
सत्त्वप्रत्यक्षतस्सत्त्वं यन्निषेधनिषेधनम् ।। ८९७ ।।
सुरोत्तमटीका
सत्त्वप्रत्यक्षतः कथं महदिति सम्बन्धः । सत्त्वप्रत्यक्षस्य निषेधरूपत्वमुपपादयति ।। सत्त्वमिति ।। यत् यस्मात् सत्त्वं निषेधनिषेधनं त्रैकालिकनिषेधस्य निषेधरूपम् । तस्मात्कथं महदिति पूर्वेणान्वयः ।।८९७।।
सत्यप्रमोदटीका
निषेद्धृत्वमपि प्रत्यक्षस्यैवेत्याह तत्त्वमसीति । निषेधत्वं उपपादयति निषेधेति । अनेनैव सत्त्वग्राहिश्रुतेरपि मिथ्याश्रुतेः सिद्धमित्याह तदिति ।। ८९७ ।।
युक्तिमल्लिका
निषेधाप्रतियोगित्वं यतस्सत्त्वं विदो विदुः ।
तत्सत्त्वश्रुतितो मिथ्याश्रुतिरासीद्धि दुर्बला ।। ८९८ ।।
त्रैकालिकनिषेधो हि मिथ्यात्वमिति ते मतम् ।
तदभावश्च सत्यत्वं प्राबल्यं कस्य कथ्यताम् ।। ८९९ ।।
निषेधत्वं परत्वं च द्वयं सत्यत्व एव हि ।
प्रतियोगिप्रसक्तौ प्राग्यतः पश्चान्निषेधनम् ।
तस्मात्त्वत्प्रक्रिया व्याघ्री स्वतन्तूनेव कृन्तति ।। ९०० ।।
अतः प्राबल्यमेवैकं बाधकत्वे प्रयोजकम् ।
तच्चोक्तरीत्या प्रत्यक्षे जितं सत्यत्ववादिभिः ।। ९०१ ।।
सुरोत्तमटीका
निषेधाप्रतियोगित्वं निषेधप्रतियोगित्वाभावः । निषेध-निषेधनमिति यावत् । अतस्सत्त्वप्रमाणं निषेधनिषेधरूपत्वात्त्वद्रीत्यैव सर्वतोऽपि महत् सत्त्वप्रत्यक्षं तु सुतरां महदिति भावः । तत् तस्मात् ।। ८९८-९०१ ।।
सत्यप्रमोदटीका
प्रकारान्तरेण प्रत्यक्षस्य श्रुत्युपजीव्यत्वमाह प्रति-योगीति । येन विना यस्यानुत्थितिः तत्तस्योपजीव्यमिति लक्षणान्तर-माश्रित्येदमिति ज्ञातव्यम् । अस्मिन्पक्षे परीक्षितत्वे सति उपजीव्यत्वं प्राबल्य-हेतुरिति ध्येयम् । अनेन प्रतिषेध्यसमर्पकत्वेनोपजीव्यत्वे इदं रूप्यमित्यस्यैव नेदं रूप्यमिति बाधकज्ञानं प्रत्युपजीव्यं स्यादिति वाचस्पत्युक्तातिप्रसङ्गस्य नावकाशः । तदुक्तं ‘यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने । दोषो नाशोदिते दोष उपजीव्यत्वमस्त्वलमि’ति ।। ८९८-९०१ ।।
युक्तिमल्लिका
अतो घटादिरर्थोऽयं प्रत्यक्षेण प्रदृश्यते ।
तद्दृष्टं पारमार्थ्यं च तत्स्थमेवेति सुस्थितम् ।। ९०२ ।।
सुरोत्तमटीका
तत्स्थं घटादिपदार्थस्थम् ।। ९०२ ।।
सत्यप्रमोदटीका
अतः प्रत्यक्षे क्लृप्तदोषाणामभावात् । अज्ञाननिवर्त-कत्वेनाङ्गीकृते अज्ञानाख्यदोषस्यापि शंकाऽनास्पदत्वात् । तदुक्तं तत्वोद्योते चन्द्रप्रादेशादिविषयं तु दूरस्थत्वादिदोषयुक्तत्वादपटु । न च जगत्प्रत्यक्षस्या-पटुत्वे किञ्चिन्मानम्’ इति।। ९०२ ।।