हर्यनुग्रह एवैभ्यस्सर्वेभ्यो बलवत्तरः

मोक्षहेतुः प्रसादो भक्त्यैव न वैरादिना

युक्तिमल्लिका

हर्यनुग्रह एवैभ्यस्सर्वेभ्यो बलवत्तरः ।

व्यर्थीकृत्य प्रवचनं सुमेधां च बहुश्रुतम् ।

यमेवैष इति श्रुत्या प्रसादस्यैव कीर्तनात् ।। ७४ ।।

सुरोत्तमटीका

किञ्च जडादस्वतन्त्राच्चासाध्यायाः भावरूपानादि-प्रकृत्यंशाख्यप्रतिबन्धनिवृत्तेः प्रसन्नभगवदेकसाध्यत्वात् अप्रतिबद्धेनापि मनसा अव्यक्तस्वभावस्य तस्य प्रसादेनैव द्रष्टुं शक्यत्वात् भगवत्प्रसाद एव दर्शने मुक्तौ च सर्वेभ्योऽप्यतिशयितहेतुरित्यत्र श्रुतिं प्रमाणयन् तयैव श्रुत्या दर्शनस्य मुक्तेश्च स्वरूपं निरूपयति ।। हर्यनुग्रह इति ।। ‘‘यमेवैष’’ इति श्रुत्येत्यनेन ‘‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन’’ । ‘‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामि’’ति श्रुतिं संगृह्णाति । प्रवचनेन व्याख्यानेन न लभ्य इत्यादिना व्यर्थीकृत्य वृणुते मदीयोऽयमित्यङ्गी-करोतीत्युक्त्या स्वीयतयाऽङ्गीकाराख्यप्रसादस्यैव श्रुत्या कीर्तनादिति सम्बन्धः । एवकारस्य तेनेत्यनेन सम्बन्धः । अन्यथा वैयर्थ्यप्रसङ्गात् । तेनैव लभ्यः प्राप्यः । तत्प्राप्तिरपि तदपरोक्षज्ञानेनैवेति भावेन तस्यैष आत्मेत्याद्युक्तं विवृणुते दर्शयति । अर्थप्रदर्शनस्यैव विवरणशब्दवाच्यत्वात् ।। ७४ ।।

सत्यप्रमोदटीका

 ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां’ इति वाक्यं फलसौरभसारविषयतया व्याख्याति । हरीति । श्रवणादेर्ज्ञानं फलं ज्ञानस्य मोक्षः फलमिति फलद्वयमपि मुख्यतः भगवत्प्रसादेनैव । तदुक्तं सुधायाम् । ‘न चाव्यक्तस्वभावो भगवान्त्सहस्रेणापि प्रयत्नानां शक्यः साक्षात्कर्तुं विना तदनुग्रहात् । प्रसन्नस्तु अनन्ताचिन्त्यशक्तियोगादात्मानं दर्शयतीति युज्यते’ इति । अनुव्याख्याने च ‘अज्ञानां ज्ञानदो विष्णुरि’ति । एवं ‘तेन लभ्य’ इति श्रौतभागेन ज्ञानस्य भगवत्प्राप्तिरूपमोक्षसाधनत्वमपि भगवत्प्रसादाधीनमिति ज्ञायते । ‘यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण’ इति श्रुतेः । तदुक्तं सुधायां ‘येन ज्ञानस्य मोक्षहेतुत्वमङ्गीकृतं न तेनापि ईश्वरेच्छा त्यक्तुं शक्यते । कारकप्रेरकत्वादिनाऽवश्याभ्युपगमनीयत्वात्’ इति । अनु-व्याख्याने च ‘ज्ञानिनां मोक्षदश्च स’ इति । ‘कीर्तनात्’ इत्यनन्तरं ज्ञानं मोक्षं च प्रति हेतुत्वेन इत्यध्याहारः।। ७४ ।।

युक्तिमल्लिका

तनुशब्दबलात्सिद्धं साकारस्यैव दर्शनम् ।

अतो निराकारवस्तु निर्विकल्पकदर्शनम् ।। ७५ ।।

निरस्तं सा तनुश्चाभूत्स्वामित्युक्तेस्स्वरूपिणी ।

प्रागावृताया विवृतेरेवोक्तेर्नित्यसिद्धता ।। ७६ ।।

अतश्चिदानन्दरूपशिरःपाण्यादिमान्हरिः ।

मुक्ताश्च तादृशाकारा इति श्रौतमतस्थितिः ।। ७७ ।।

सुरोत्तमटीका

 स्वां स्वरूपभूताम् । स्वीयामित्यर्थाङ्गीकारे तत्सम्बन्धि-जडशरीरस्यैव प्राप्तेः तस्य च प्रकृते भगवत्यसम्भवात् जडशरीरदर्शनस्य प्रसादफलत्वायोगाच्चोक्त एवार्थः । जीवस्वरूपापरोक्षज्ञानमप्यनेनैव ग्राह्यम् । मुक्तौ स्वस्वरूपानन्दानुभवस्यावश्यमपेक्षितत्वात् जीवमौक्ततनोरपि स्वरूप-भूततनुत्वेन स्वां तनुमिति सामान्योक्त्योभयोरपि वक्तुं शक्यत्वाच्च । अत एव मुक्ताश्च तादृशाकारा इत्युक्तम् । अथवा भगवतो बृहच्छरीरमेव तनुः । तद्दर्शनमेवापरोक्षदर्शनम् । आत्मा वा ओ द्रष्टव्य इति तद्दर्शनस्यैव श्रवणादि फलत्वसम्भवात् । विस्तृततनोरेव तनुशब्दमुख्यार्थत्वाच्च । अतो मूलोक्त-नित्यत्वं व्याप्तत्वस्याप्युपलक्षणम् । जीवस्वरूपदर्शनं तु चक्षुःप्रतिबन्धक-निवृत्त्युक्तयार्थादेव लभ्यते । जीवस्य साकारत्वादिकं च भगवत्प्रतिबिम्बत्वेनैव लभ्यत इति भावेनोक्तं तादृशाकारा इति । इति श्रौतमतस्थितिः इत्येव श्रौतमतस्थितिः । इतोऽन्यन्मतमश्रौतमित्यर्थः ।। ७५–७७ ।।

सत्यप्रमोदटीका

 श्रुतौ ‘तनुं’ इति पदलभ्यं प्रमेयविशेषमाह तन्विति । साकारस्येति । साकार एव तनुशब्दप्रयोगात् । अनेन भगवतो निराकारत्वं चरमसाक्षात्कारस्य निर्विकल्पकत्वं च खण्डितम् । ‘स्वां’ इत्यनेन पूर्वं ‘एष’ इत्युक्तस्य परमात्मनः ‘तस्य’ इति कथितस्य जीवस्य च परामर्शः । स्वरूप-भूतामित्यर्थः । विवृणोतीत्यनेन पूर्वं विद्यमानमेवाविर्भावयतीत्यर्थलाभादुभयोः जीवपरयोः स्वरूपतनू नित्ये इति लभ्यते । परमात्मनस्तनोर्व्याप्तत्वं च लभ्यते । ‘परो मात्रया तन्वा वृधान’ इति श्रुतौ तनोरेव व्याप्तत्ववर्णनात् । एवं भागवते ‘विश्वं यदेतत्स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् । बिभर्ति’ इति देवकीस्तोत्रेण विश्वधारकत्वस्य कथनात् ।। अतः इति । ‘किन्तु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम् । प्रकाशयति’ इति तत्त्वनिर्णयो-दाहृतब्रह्माण्डपुराणवचनमत्रानुसन्धेयम् । मुक्ताश्चेति । चिदितिसद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः इति भाष्योदाहृतश्रुतेः । तादृशाकाराः ‘अथ मुक्तस्य चिन्मात्र एव देहो भवति चिन्मात्राणि करणानि तैरीशानुगृहीतैर्भोगान्भुङ्क्ते’ इति च अनुव्याख्यानो-दाहृतश्रुतेः ।। ७५–७७ ।।

युक्तिमल्लिका

गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः ।

सम्बन्धाद्वृष्णयस्स्नेहाद्यूयं भक्त्या वयं प्रभो ।

इति भागवते प्रोक्तं कामद्वेषादिसाधनम् ।। ७८ ।।

द्वारि द्वारि हरेर्लोके सदा सर्वत्र सेविषु ।

अनाद्यनन्तकालेष्वप्येवं कैङ्कर्यकर्मसु ।। ७९ ।।

निबिडज्ञानवैराग्यभक्त्यादिगुणसंपदा ।

शापाद्युपाधिमूलोऽसावीषद्द्वेषो जयादिषु ।। ८० ।।

अस्वाभाविकदोषत्वान्नैव मोक्षनिरोधकृत् ।

इत्येव मुक्तिदत्वेन कीर्त्यते नारदादिभिः ।। ८१ ।।

भृत्यापराधसहनशीलत्वस्तुतये हरेः ।

केवलद्वेषतो मोक्ष इति नर्षेर्मनोगतम् ।। ८२ ।।

सुरोत्तमटीका

 ननु श्रवणादिजनितभगवदपरोक्षज्ञानादेव मोक्ष इत्युक्तम् । का तर्हि कामक्रोधादीनां मोक्षदायकत्वप्रतिपादकभागवतवचनानां गतिरिति चेत् । न । तत्रैव ‘‘कामं दहन्ति कृतिनो ननु रोषदृष्ट्या रोषं दहन्तमुत तेन दहंत्यसह्यम् । सोयं यदन्तरमलं निविशन्बिभेति कामः कथं नु पुनरस्य मनश्श्रयीते’’त्यादिवचनैः कामक्रोधादीनां दोषत्वस्य कीर्तनात् । लोकेऽपि कामक्रोधादीनां शिष्टैर्दोषत्वेन परिगणनान्न कापि गतिः । हरिभक्त्यादेश्च लोके वेदे पुराणादौ च क्वापि दोषतयाऽकथनेन गुणतयैव कथनेन च मानान्तरा-विरुद्धमानप्रतिपादितानां श्रवणमननादीनामेव साधनत्वौचित्यात् । न च वाच्यं लौकिककामादेरेव दोषत्वम् । न भगवद्विषयककामादेरिति । रामकामुक-शूर्पनख्याः कर्णनासाच्छेदयोर्निष्कारणत्वप्रसङ्गात् । एकपत्नीव्रतत्वादेव तदनङ्गीकारो न तु कामस्य दोषत्वादिति चेत् । न । कामस्य दोषतयाऽ-पराधत्वाभावे तच्छिक्षणायोगात् । पुण्येन पुण्यं लोकं नयति पापेन पापमिति श्रुत्या तत्तत्कृतपापेनैव भगवतश्शिक्षकत्वश्रवणात् । पापान्तरस्य निमित्तत्व-कल्पने दृष्टहान्यदृष्टकल्पनयोः प्रसङ्गात् । षोडशसहस्रपत्नीपतेस्तस्य त्वदुक्त-नियमाभावाच्च । उभयोरप्याप्तवाक्यत्वेनाप्रामाण्यायोगादेकस्यार्थान्तरं वाच्यमिति चेत् तर्हि सम्भवदर्थान्तरस्य दोषस्य गुणत्वप्रतिपादकतया स्वतोऽपि विरुद्धस्य पूर्वोत्तरविरुद्धस्य सयुक्तिकनिरवकाशबहुतरास्मद्वाक्यविरुद्धस्य च त्वदीयवाक्य-समुदायस्यैवार्थान्तरं वाच्यमिति भावेनाह ।। गोप्य इति ।। इति भागवते प्रोक्तं कामद्वेषादिसाधनमित्यस्य कीर्त्यत इत्यनेन सम्बन्धः । ऋषेर्नारदस्य । ऋषिरित्यनेन भगवद्भजकतापसकुलोत्पन्नस्य परमवैष्णवस्य कृष्णद्वेषगुणी-करणमेव न हार्दम् । किन्तूक्त एव भाव इति सूचयति ।। ७८–८२ ।।

सत्यप्रमोदटीका

 ‘ज्ञानजात्तत्प्रसादादेव मुच्यते’ इत्यत्र एवकारव्यावर्त्यं न केवलं प्रसादनिरपेक्षं ज्ञानं किन्तु कामभयद्वेषादिदोषजातमपि इति शास्त्र-तात्पर्यं ‘गोप्यः कामाद्भयात्कंसः’ इति भागवतश्लोकतात्पर्यनिर्धारणेन समर्थयते ‘श्रवणं मननं तस्माद्ध्यानं’ इत्यनेन ग्रन्थेन । गोप्य इति । साधनं इत्यस्य मुक्तिदत्वेन कीर्त्यते इत्यनेनान्वयः । साधनं इति भिन्नं पदम् । मुक्तिदत्वेनेति ‘तमापुरनुचिन्तया’ इति तत्रैव पूर्वत्रोक्तेरिति भावः । ‘‘चैद्यादयोऽसुरावेशाद्धरौ द्वेषयुता अपि । निजस्वभावया भक्त्या नीता हरिसरूपताम् । तथा हि करुणो विष्णुरन्यावेशाद् यदि द्विषन् । हीयते किं ममानेन नित्यानन्दस्वरूपिणः । अनादिभक्तो यस्मान्मे मोचयिष्ये ततस्त्वहम् । इति मत्वा मोचयति चैद्यादीनपि केशवः’’ इति तात्पर्यं अनुरुध्य, भागवते उक्तस्य वैरादेर्मोक्षसाधनत्वस्य गतिं कथयति द्वारीत्या-दिभिः त्रिभिः । कैङ्कर्यकर्मसु इति बहुव्रीहिः । जयादिषु इत्यनेनान्वयः । गुणसम्पदा इत्यस्य कैङ्कर्यकर्मसु इति पूर्वेणान्वयः । अस्वाभाविकेति विशेषणेन दोषत्वमुपेत्य तेषां वैरादीनां स्वाभाविकत्वमात्रनिषेधः । गोपीनां भक्तिमिश्रितोऽपि कामो दोष एव । अत एव एकादशस्कन्धतात्पर्ये ‘गोपिकाद्या दिवं गत्वा हरिं ज्ञात्वा यथातथम् । परं पदं ययुः’ इत्युक्तेरिति ध्येयम् । कालान्तरे कामनिमित्तककिञ्चिद्दोषपरिहारानन्तरमेव तेषां मुक्तिरिति ज्ञायते ।। भागवते सम्मुग्धोक्तेः प्रयोजनं अनुव्याख्याने विशदीकृतम् । ‘स्मर्तव्यो भगवान्नित्यं इत्यर्थेनैव हि क्वचित् । द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत्’ इत्यादिना ।। ७८–८२ ।।

युक्तिमल्लिका

कतमोऽपि न वेनस्य पञ्चानां पुरुषं प्रति ।

इत्युत्तरश्लोक एव वेने साधनपञ्चकम् ।

यन्नेत्याह ततो द्वेषो द्वेषमात्रं कथं भवेत् ।। ८३ ।।

सुरोत्तमटीका

 इत्युत्तरश्लोके पञ्चानां वेने भक्त्यभावस्य स्वतस्सिद्धत्वा-त्तदतिरिक्तकामादिपञ्चोपायानां मध्ये कतमोऽपि एकोऽपि नेत्यर्थ-प्रतिपादकोत्तरश्लोके । यत् यस्मात् । द्वेषः द्वेषादित्यत्रोक्तद्वेषः । द्वेषमात्रं सेवादिगुणसाहित्यरहितसंपूर्णद्वेष इत्यर्थः ।। ८३ ।।

सत्यप्रमोदटीका

 ‘वाक्यं श्रुतिविरोधेन स्वविरोधेन चाञ्जसा । बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम्’ इत्यनुव्याख्यानानुरोधेन उत्तरविरोधं भागवतश्लोकोक्तापातार्थस्याह । कतमोऽपीति । ‘तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्’ इत्युत्तरार्धम् । ‘उपायो भक्तिरुद्दिष्टो द्वेषाद्या अनुपायकाः’ इति तात्पर्ये । निवेशयेदिति स्वभावकथनं न विधिः । यथोक्तं तात्पर्ये ‘वैरादीनामेकतमेनापि यो युञ्ज्यात् स नेक्षते इति स्वभावकथनं न विधिरि’ति । द्वेषमात्रमिति । मात्रशब्देन भक्तेर्व्यवच्छेदः । ‘कामादिभिरपि यथावद्भक्त्या सह मनः आवेश्य द्वेषादिकृतम् अघम् यथाभूतया भक्त्या हित्वा’ तात्पर्योक्तेः ।। ८३ ।।

युक्तिमल्लिका

पूर्णो हि भगवद्द्वेषो वेने तेनैव कीर्तितः ।

कथं पुनर्निषेधो हि तस्यैव स्याद्विदो मुनेः ।। ८४ ।।

सुरोत्तमटीका

 तेनैव नारदेनैव । तस्य स्वेनैवोक्तद्वेषस्य । विदः ज्ञानिनः ।। ८४ ।।

सत्यप्रमोदटीका

 मुनेः नारदस्य । कथमिति स्वव्याघातापत्तेरिति भावः ।। ८४ ।।

युक्तिमल्लिका

भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ।

इति निन्दाख्यविद्वेषस्तमोहेतुरुदीरितः ।। ८५ ।।

सुरोत्तमटीका

 तदेव वाक्यं पठति ।। भगवदिति ।। इति वाक्ये ।।८५।।

सत्यप्रमोदटीका

 उदीरितः । ‘तमो द्वेषेण संयान्ति भक्त्या मुक्तिं तथैव च’ इति षाड्गुण्यवचनात् ।। ८५,८६ ।।

युक्तिमल्लिका

इदानीं मोक्षदत्वं च कथं तस्यैव कीर्तयेत् ।

त्रिकालदर्शी स मुनिः किं तात्कालिकदृक्च न ।। ८६ ।।

सुरोत्तमटीका

 कीर्तयेदित्युपलक्षणम् । कथं निषेधे चेत्यपि द्रष्टव्यम् ।। ८६ ।।

युक्तिमल्लिका

अतो ग्रान्थिकमुद्राज्ञो नैवं व्याख्यातुमर्हति ।

तदीषद्द्वेष एवासौ सुगुणस्तोममध्यगः ।। ८७ ।।

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।

विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ।। ८८ ।।

सुरोत्तमटीका

 एवं आपातार्थप्रतिपादकतया । तत्तस्मात् । असौ मोक्षसाधनतयोक्तः नेति निषिद्धश्च ।। ८७,८८ ।।

सत्यप्रमोदटीका

 एवं ‘वाक्यं श्रुतिविरोधेन स्वविरोधेन चाञ्जसा । बह्वागमविरोधेन’ इत्यनुव्याख्यानोक्तप्रकारेण ।। विरोधमेव दर्शयति हिरण्यकशिपुरित्यादिभिः ।। ८७–९१ ।।

युक्तिमल्लिका

यदनिन्दत्पितामह्यं त्वद्भक्ते मयि चाघवान् ।

तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ।। ८९ ।।

सुरोत्तमटीका

 किञ्च भागवत एव भगवद्द्वेषस्य तमोहेतुदोषतया बहुषु स्थलेषु निर्णीतत्वात् सूत्रकृता च विद्याया एव साधनत्वेन निर्णीतत्वात् मोक्षसाधनतयोच्यमानो द्वेषस्समुद्रविलोडितहिंगुबिन्दुवत् भक्त्यादि साधन-समुद्रान्तर्निलीन ईषद्द्वेष एव भवेदित्याह ।। हिरण्यकशिपुरित्यादिना ।। यदनिन्ददिति प्रह्लादवाक्यम् । अनिन्ददिति यत् मयि चाघवानपराधवानिति यत् तस्मादघादिति सम्बन्धः ।। ८९ ।।

युक्तिमल्लिका

निन्दां भगवतश्शृृण्वंस्तत्परस्य जनस्य वा ।

ततो नापैति यस्सोऽपि यात्यधस्सुकृताच्च्युतः ।। ९० ।।

इत्यादिवाक्यसन्दर्भैस्तमोहेतुर्यतस्स्फुटम् ।

निर्णीतो भगवद्द्वेषस्ततोऽप्युक्तोऽर्थ एव हि ।। ९१ ।।

सुरोत्तमटीका

 ततः स्थलात् । अपिपदेन निन्दंस्तु किमुतेति सूचितम् ।। ९०,९१ ।।

युक्तिमल्लिका

सूत्रकृच्चाह यद्विद्यैव तु निर्धारणादिति ।

नान्यः पन्था इति स्पष्टो वेदस्तौ को नु लङ्घयेत् ।। ९२ ।।

सुरोत्तमटीका

 तौ श्रुतिसूत्रकृतौ ।। ९२ ।।

सत्यप्रमोदटीका

 विद्यैव श्रुतिमतिनियतध्यानजज्ञानमेव । द्वेषिणश्च मोक्षफलकविद्यायामधिकार एव नास्ति किन्तु भक्तिमत एवेति कुतो द्वेषादिना मुक्तिरिति भावः ।। ९२ ।।

युक्तिमल्लिका

श्रवणं मननं तस्माद्ध्यानं साक्षात्कृतिर्हरेः ।

भक्तिः प्रसाद इत्येते मुक्तेस्सोपानपङ्क्तयः ।। ९३ ।।

सुरोत्तमटीका

 साक्षादुक्तानि उपलक्षितानि च साधनानि क्रमेण सङ्गृह्णाति ।। श्रवणमिति ।। तस्मात् उक्तश्रुतिस्मृतियुक्त्यादिप्रमाणसमुदायात् । हरेरिति पदं साधनषट्केऽपि सम्बध्यते । भक्तिपदं विरक्तेरुपलक्षकम् । अयमत्र क्रमः । प्रथममिममुद्धरामीति तद्योग्यतापरिपाकैकनिबन्धना हरेरनिमित्तकृपा । ततस्तस्मिन्मदीयोऽयमिति ईषत्स्नेहरूपः अनुग्रहापरपर्यायो हरेरीषत्प्रसादः । ततो हरेरन्यत्रेषद्विरक्तिः ततो हरावीषद्भक्तिः । ततः पुनरीषदभिवृद्धो हरेः प्रसादः ततः श्रवणम् । ततः पुनः पूर्वतोऽप्यभिवृद्धविरक्तिभक्तिप्रसादाः । ततो मननं तस्मात्पुनरभिवृद्धविरक्तिभक्तिप्रसादाः । ततो निरन्तरध्यानरूपं निदिध्यासनं तस्मादतिशयिते विरक्तिभक्ती अतिशयितो भगवत्प्रसादश्च । तेभ्यः प्रसन्नभगवतैव प्रतिबन्धकाविद्यायामपसारितायां तदपरोक्षज्ञानम् । ततस्स्वयोग्यपरिपूर्णविरक्तिभक्तिप्रसादाः । तत आत्यन्तिकदुःखनिवृत्तिरूपः परमानन्दावाप्तिलक्षणश्च मोक्ष इति मोक्षसाधनपङ्क्तयः । ततश्च महोपकारके हरौ स्वरूपभूताफलरूपा च नित्या भक्तिः । तन्निमित्तो हरेर्नित्यप्रसादश्चेति भक्तिप्रसादयोस्सर्वत्रान्वयप्रदर्शनाय सामान्येनैव कीर्तनम् । अन्यथा महाभक्ति-र्महाप्रसाद इत्यवक्ष्यत् ।। ९३ ।।

सत्यप्रमोदटीका

 तदेव विशदयति श्रवणमिति । तदुक्तमनुव्याख्याने ‘भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा । ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी’ इति । एवं सुधायामपि ‘अतो जिज्ञासा निदिध्यासन-परमेश्वरानुग्रहतद्दर्शनपरमभक्तिपरमानुग्रहद्वारा मोक्षसाधनत्वात् कर्तव्ये’ति । अत्र श्रवणात्पूर्वं अतःशब्दोक्तः कारकहेतुरीश्वरप्रसादः ईषच्छमादिसंपत्तिः मननानन्तरं वैराग्योपचयस्तेन भक्तिदार्ढ्यम् । अनन्तरं ध्यानमित्यप्यनुसन्धेयम् । ‘वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेदि’त्यनुव्याख्यानोक्तेः ।। ९३ ।।

युक्तिमल्लिका

रुग्मवर्णं च कर्तारमीशं पुरुषरूपिणम् ।

ब्रह्मतातं महात्मानं पद्मनाभं परात्परम् ।। ९४ ।।

यदा पश्यति जीवोऽयं तदा कर्म द्विरूपकम् ।

हित्वा निर्दुःखत्वपूर्वैः परं साम्यमुपैति सः ।। ९५ ।।

इति श्रुतौ मोक्षहेतुज्ञानस्येत्थं विनिर्णयात् ।

ज्ञानं सरूपसाकारसगुणेश्वरगोचरम् ।

साध्यं मोक्षार्थिभिर्भक्तैर्नान्यच्छतिविरोधतः ।। ९६ ।।

सुरोत्तमटीका

 ‘‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्म-योनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती’’ति श्रुतिमर्थतस्सङ्गृह्णन् साकारसगुणसर्वेश्वरत्वादिविशिष्टभगवत्साक्षात्कार एव मोक्षसाधनं न तु परोदीरितमैक्यज्ञानं निर्विकल्पकं वा तद्धेतुरिति दर्शयति ।। रुग्मवर्णमित्यादिना ।। ब्रह्मयोनित्वस्य पद्मनाभमूर्तावेव सम्भवात्पद्मनाभ-मित्युक्तम् । निर्दुःखत्वपूर्वैः निर्दुःखत्वनित्यसुखत्वनित्यदेहत्वपूर्वैः । अन्यत् निर्गुणत्वादिज्ञानम्

।। ९४–९६ ।।

सत्यप्रमोदटीका

 ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इति श्रुतिमर्थतः सङ्गृह्णाति रुग्ममिति ।। सरूपेति रुक्मवर्णमित्युक्तम् । सगुणेति । कर्तारं इत्यनेन ‘कर्तृत्वात्सगुणं ब्रह्म पुरुषं’ इत्युक्तेः उपादानगोचरा-परोक्षज्ञानरूपसार्वज्ञादिगुणानां कर्मनिर्णयटीकोक्तरीत्या कर्तृत्वान्तर्भावेनैव सिद्धेः । साकारेति । ‘पुरुषमि’त्यनेन ‘तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे’ इति आकारस्य, एवं ब्रह्मयोनिं इति पद्मनाभरूपाकारस्य च कथनात् । ईश्वरेति ईशमित्युक्तेः । मोक्षार्थिभिः इति । निरञ्जनः, पुण्यपापे विधूय, परमं साम्यं, इति विशेषणत्रयेण मोक्षस्वरूपस्यैव निर्धारणात् । नान्यत् वैरादिकम् । श्रुतिविरोधतः महातात्पर्यविरोधात् । तदुक्तमनुव्याख्याने ‘न हि द्वेषयुता दृशिः । पुरुषार्थाय भवति सर्वश्रुतिविरोधतः’ इति ‘महा-तात्पर्यरोधेन कथं वाक्यं प्रमाणतां याति’ इति च ।। ९४–९६ ।।

युक्तिमल्लिका

यः स्वतः परतो वेषद्विरक्तो विष्णुभक्तिमान् ।

सारासारविवेकज्ञो मुमुक्षुश्च स मुक्तये ।

अध्यायद्वयरूपस्य शास्त्रस्य श्रवणं चरेत् ।। ९७ ।।

सुरोत्तमटीका

 इदानीमध्यायचतुष्टयार्थप्रतिपादकेन ‘‘अथाऽतो ब्रह्म-जिज्ञासे’’त्यादिमसूत्रेण स्वोक्तार्थं सङ्गमयन् श्रवणादीनां कालं विभज्य दर्शयति ।। यस्स्वत इत्यादिना ।। प्रागेव शास्त्रश्रवणाभावेन शास्त्रजनित-वैराग्यादेरयोगात् स्वतः परतो वेत्युक्तम् । स्वतः स्वयोग्यतापरिपाकबलात् । स्वतः स्वतन्त्रपरमात्मनो वा परतः वैराग्यादिगुणभरितमहत्समागमबला-दित्यर्थः । ईषदिति पदं विशेषणचतुष्टयेनापि सम्बन्ध्यते । सामान्यतो वैराग्यादिविशेषणसंपत्त्यनन्तरमिति सैत्राथशब्देनैवायमर्थोऽपि सङ्गृहीतः । विशिष्याज्ञाते वस्तुन्याशोकादर्शने मोक्षसाधनब्रह्मज्ञानायेत्यर्थप्रतिपादकात-श्शब्दबोधितविषयसाधनफलेषु श्रोतुस्तादर्थ्यार्थकविभक्तिसूचिताशातिशय-जननाय तत्प्रतिपादकसकलशास्त्रस्यापि साक्षाद्ब्रह्मस्वरूपनिरूपकाध्यायद्वितये पारंपर्येण तत्सम्बन्धिन्यध्यायद्वितये च ब्रह्मजिज्ञासात्वस्य विद्यमानत्वात् ब्रह्मजिज्ञासापदोदितं सकृच्छ्रवणं कार्यम् । अयमेकः श्रवणकालः । अथ सकृच्छ्रवणसंपत्त्यनन्तरं पुनर्विशिष्योत्कण्ठितचतुर्थाध्यायोक्तफलस्य तत्साधन-ज्ञानपादोक्तापरोक्षज्ञानस्य च अतो मोक्षायातो ज्ञानायेति च सौत्रातः पदोदितस्य साक्षात्परंपरया च साधनीभूतस्योपासनापादोक्तस्य सौत्रजिज्ञासा-पदेनैव मुख्यतः कर्तव्यतया निरूपितस्य शास्त्राभ्यासाख्यमननस्य ध्यानस्य च सम्यक्संपत्तिपर्यन्तमुत्कण्ठिततयाऽतःपदेनाप्युक्तस्य च सम्यक्सिद्धये विचार्यमाणभगवद्गुणगणनिर्दोषत्वनिरूपणपराध्यायद्वयार्थस्य भगवत्येव मनोनैरन्तर्योपयोगिवैराग्यभक्त्युत्पादकपादद्वयार्थस्य चातःपदोदितसम्यग्बोधा-योपासनाज्ञानफलेषु वादिविवादपरिहाराय चासकृच्छ्रवणमपि कर्तव्यम् । अथ सार्धाध्यायद्वयार्थस्य सम्यग्बोधसम्पत्त्यनन्तरं अन्यत्र सम्यग्वैराग्यातिशयेन हरौ सम्यग्भक्त्यतिशयेन च तल्लोक एव स्थास्यामि तमेव पश्यामीति पुनर्विशिष्यो-त्कण्ठितातःपदोदितमोक्षाय ज्ञानाय च मननध्यानात्मिका मुख्या ब्रह्मजिज्ञासा कर्तव्या । तत्राप्याध्यानशक्तेर्मननम् । आज्ञानाच्च ध्यानमिति विवेकः । वैराग्यमारभ्य बन्धध्वंसात्मकमुक्तिपर्यन्तसकलव्यापाराणां जडत्वेन स्वजन्मनि स्वनिष्ठान्यजनकत्वशक्तौ च स्वातन्त्र्यायोगात् अवान्तरकर्तुर्जीवस्य चास्वतन्त्रत्वान्मुमुक्षोस्स्वभक्तस्य परमेष्टरूपाणामेषां व्यापाराणां सिद्धये पूर्णतया फलान्तरानपेक्षस्वतन्त्रकर्तुर्भगवतः प्रसादोऽवश्यमपेक्षणीयः । राज-प्रसादादेव राजपुरुषाणामिष्टसम्पत्तिदर्शनात् । प्रसादश्च नः प्रभुरयमिति निर्व्यलीकतत्तत्स्नेहादेव तेषु तेषु लोके दृष्टः । स्नेहश्च स्वोपकारके दृष्टः । उपकारातिशये सातिशयश्च । एवं प्रसादोऽपि भक्तिस्नेहादेव दृष्टः । तदतिशये सातिशयः । अन्योन्याश्रयपरिहाराय प्राक्तावदेनमुद्धरामीति कस्मिंश्चित्पुरुषे तत्पुण्यपरिपाकैकनिबन्धनो निमित्तान्तरशून्यश्च प्रसादोऽप्येको दृष्टः । अतः प्रकृतेऽपि प्राक्तावद्दीनमेनं भक्तमुद्धरामीति तद्योग्यतापरिपाकैकनिबन्धनो निमित्तान्तरशून्यश्च हरेः प्रसादो वक्तव्यः । उपरि चोत्तरोत्तरप्रचुरश्रवणादि-रूपस्वव्यापारेष्वपि स्वोपकारके भगवति मध्ये मध्ये सातिशयाभक्तिः कर्तव्या । तदभिव्यक्तो हरेः प्रसादश्च तादृशो वक्तव्यः । एवं च प्राथमिकप्रसादमारभ्य क्रमेणाभिवृद्धचरममहाप्रसादपर्यन्तं प्रसादपरम्परायाः प्राथमिकोपकारफलित-भक्तिमारभ्यापरोक्षज्ञानाख्यमहोपकारफलितमहाभक्तिपर्यन्तभक्तिपरम्परायाश्च सूत्रकृत एवाभिप्रेतत्वान्नानुक्तकथनमिदम् । यद्वा अतः जडप्रेरकतया तत्र तत्र प्रस्तुतात् न अ इति व्युत्पत्त्या सर्वविलक्षणत्वेनाकारशब्दवाच्यपरमात्मरूपात् मोक्षदायकतया रुद्रादिप्रसादविलक्षणाद्वा भगवत्प्रसादात् । अतः क्रमिकोपकारफलतया प्रसक्तभगवद्भक्तितश्चेति सौत्रातश्शब्दादेव प्रसादभक्ति-परम्परापि सूत्रकृतैवोक्ता । एतदेवाभिप्रेत्य प्राग्ग्रन्थकृतापि साधनमाला ग्रथिता । अस्माभिश्च टीकायां विवृता । इदानीं पुनस्तमेवार्थं सूत्रारूढं कर्तुं यस्स्वतः परतो वेत्याद्युक्तम् । तस्य सर्वस्य तात्पर्यं सङ्गृह्य सामान्यत इत्यादिना मयापि प्रपञ्चितमिति ज्ञेयम् । भाष्योक्तसकलार्थानां सौत्रपदारूढत्वं भाष्यकृतोऽभिप्रेतमेव । प्रपञ्चितं च तत्र तत्र भाष्यकृता टीकाकृता च । स्वमनःप्रेरकतया सदा हृदि सन्निहितेन तेनैव प्रेरितं च प्रमेयं ग्रन्थकारेण प्राक् तत्र तत्रोक्तमिदानीमुच्यते वक्ष्यते च । वीणां वादयतो वीणावादनकौशलमिव सर्वविद्यासु कृतिनः पूर्णप्रमतेरेवेयं कृतिः । अहं तु वीणावन्निमित्तमात्रमिति वदन् ग्रन्थकारो न क्वाप्यकथितकथकः । अर्जुनप्रतिज्ञापूरककृष्णकृतिवत् टीकापीयं कृतपुण्यानां तेषामेव कृतिः । नाकृतपुण्यानामस्मिन्महाकार्येऽधिकार इति ज्ञातव्यम् ।। ९७ ।।

सत्यप्रमोदटीका

 ‘युक्तितो ज्ञातवेदार्थः निरस्य समयान्परान्’ इत्यारभ्य ‘यतेतोपासनायैव विशिष्टाचार्यसम्पदा’ इत्यन्तेनानुव्याख्यानोक्तं सौत्राथशब्दार्थं विवृणोति यः स्वत इत्यादिभिः । एतेन ‘नित्यानित्य-वस्तुविवेकादीनि न ब्रह्ममीमांसाधिकारिविशेषणानि तेषां तत्साध्यत्वेन अन्योन्याश्रयात्’ इति रामानुजभाष्यं निरस्तम् । ‘यत्त्वादौ श्रद्धया युक्तं पुनर्न्यायेन साधितं’ इति न्यायेन इतिहासादिना श्रुतित आपाततो वा, हितैषिपित्रादिवाक्येन वा, श्रवणेन वा प्रागपि श्रद्धामात्रेण नित्यानित्य-वस्तुविवेकसिद्धेः अन्योन्याश्रयानवकाशात् । विस्तरः चन्द्रिकायाम् ।। ९७ ।।

युक्तिमल्लिका

विषयस्यैव शास्तृत्वान्मुख्यं शास्त्रमिदं किल ।

तदङ्गं शास्त्रमितरत्फलसाधनबोधकम् ।

प्रवर्तकस्य चर्चाऽत्र सा साक्षाद्विषयस्य यत् ।। ९८ ।।

सुरोत्तमटीका

 अध्यायचतुष्टयात्मकशास्त्रस्य नैकप्रकारेणैव शास्त्रत्वम् । किंत्ववान्तरविभागोऽप्यस्तीत्याशयेनोक्तम् ।। विषयस्येति ।। विषयस्य विषय-रूपब्रह्मण एव शास्तृत्वात् प्रतिपादकत्वाद्ब्रह्मस्वरूपनिरूपकत्वादित्यर्थः । इदम् अध्यायद्वयम् । तदङ्गं तदङ्गभूतशास्त्रम् । इतरत् अध्यायद्वयम् । प्रवर्तकस्य उद्देश्यतया प्रवर्तकस्य । स्वयोग्यसाधनेन फलसंपत्तिमुद्दिश्य तत्र प्रवर्तनादिति भावः । यत् यस्मात् ।। ९८ ।।

सत्यप्रमोदटीका

 विषयस्य ब्रह्माख्यवस्तुनः । शास्तृत्वात् निर्णायक-त्वात् । तदुक्तं अनुव्याख्याने ‘समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये’ इति । इदम् आद्याध्यायद्वयम् । प्रवर्तकस्येति । ब्रह्मस्वरूपनिर्धारणानन्तरमेव ‘किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिण’ इत्युक्तरीत्या फलोद्देशेन उपासनारूप-साधने प्रवृत्तिजननादिति भावः । अत्र उत्तराध्यायद्वये । सा आद्याध्याययोः कृता चर्चा ।। ९८ ।।

युक्तिमल्लिका

वैराग्यभक्तिपादौ च श्रुत्वाऽध्यायद्वयश्रुतेः ।

सम्यक्सारासारवेदी भक्तिवैराग्यदार्ढ्यवान् ।। ९९ ।।

सार्धाध्यायद्वयोक्तार्थसंपन्नोऽथ विमुक्तये ।

तद्धेतुदृष्ट्यै च पुनश्शास्त्राभ्यासस्वरूपिणीम् ।

मननाख्यां ध्यानरूपां जिज्ञासां चाचरेत्किल ।। १०० ।।

सुरोत्तमटीका

 अध्यायद्वयश्रुतेस्सारासारवेदी । ब्रह्मणः सारतयाऽ-न्येषामसारतया तत्र निरूपणात् । वैराग्यभक्तिपादौ ‘‘श्रुत्वा च भक्तिवैराग्य-दार्ढ्यवानि’’ति सम्बन्धः ।। ९९,१०० ।।

सत्यप्रमोदटीका

 सम्यक्सारासारवेदी । वैराग्यदार्ढ्यवानित्यस्य हेतुः । तच्च भक्तिदार्ढ्ये हेतुः । वैराग्यतो भक्तिदार्ढ्यम् इत्युक्तेः

।। ९९ ।।

युक्तिमल्लिका

ध्यानस्य परिपाके तु तं दृष्ट्वा मुच्यते किल ।। १०१ ।।

सुरोत्तमटीका

तं परमात्मानम् ।। १०१ ।।

सत्यप्रमोदटीका

 किलेत्येभिः सर्वत्रानुव्याख्याने प्रसिद्धिं द्योतयति । ‘सोपासना च द्विविधा शास्त्रभ्यासस्वरूपिणी । ध्यानरूपा परा चैव’ इति तत्रैवोक्तेः ।। १००–१०२ ।।

युक्तिमल्लिका

अतः श्रवणवैराग्यभक्तिशास्त्रविचारणाः ।

ध्यानं च भगवद्दृष्टिस्तद्भक्तिस्तदनुग्रहः ।। १०२ ।।

इमानि साधनान्यन्ते फलाध्यायोदितं फलम् ।

इत्यादिसूत्रे सर्वोऽपि शास्त्रार्थः कथितः किल ।। १०३ ।।

सुरोत्तमटीका

अतः सौत्रपदावलीसत्त्वात् । आदिसूत्रे प्रथमसूत्रे ।। १०२,१०३ ।।

सत्यप्रमोदटीका

आदिसूत्रे प्रथमसूत्रे ।। १०३ ।।