मिथ्योपाधिकसार्वज्ञमिथ्यात्वान्नैकतेति चेत्
गुणानामौपाधिकत्वस्य तन्निमित्तक मिथ्यात्वस्य च निरासः
युक्तिमल्लिका
मिथ्योपाधिकसार्वज्ञमिथ्यात्वान्नैकतेति चेत् ।
सत्यविश्वस्य सामर्थ्यादिति तस्योत्तरं वदेत् ।। ९४३ ।।
सुरोत्तमटीका
ननु जगदुपाधिकसार्वज्ञादेः कथं निरुपाधिकब्रह्मैक्यमिति चेत् तत्र प्रष्टव्यम् । किं जगतो मिथ्यात्वेन तदुपाधिकसार्वज्ञस्यापि मिथ्या-त्वात् ब्रह्मैक्यं नेति वदति अथवा जगदुपाधिकसार्वज्ञस्य ब्रह्मैक्ये जगतोऽप्यैक्यं स्यादिति वावदसीति । आद्यस्योत्तरमाह ।। मिथ्येति ।। सत्यविश्वस्य सामर्थ्यात् सत्यविश्वोपाधिकत्वेन सत्यत्वादित्यर्थः । स्वकपोलकल्पित-मिथ्यात्वेनानुपपत्तिमुद्धाटयतः श्रुतिसिद्धसत्यत्वेन कुतो न समाधानमिति भावः ।। ९४३ ।।
सत्यप्रमोदटीका
ननु सर्वस्य मिथ्यात्वात्तदुपाधिकसार्वज्ञस्यापि मिथ्या-त्वात् न तदभेदो ब्रह्मण इति शङ्कते मिथ्येति । परिहरति सत्येति । ‘विश्वं सत्यमि’ति श्रुत्या सत्यत्वस्यैव प्रमितत्वेन न सर्वस्य मिथ्यात्वम् । तदुपाधिक सार्वज्ञमिथ्यात्वं तु कफोणिगुडायितमिति न तदभेदानुपपत्तिरिति भावः ।। ९४३ ।।
युक्तिमल्लिका
सत्यत्वे यदि सन्देहो मिथ्यात्वे कस्य निश्चयः ।
कलहेन विरुद्धेऽस्मिस्तत्सत्यत्वे न बाधकम् ।। ९४४ ।।
सुरोत्तमटीका
कलहेन वादिप्रतिवादिविवादेन । अस्मिन्जगन्मिथ्यात्वे । तत्सत्यत्वे श्रुतिसिद्धसार्वज्ञादिसत्यत्वे ।। ९४४ ।।
सत्यप्रमोदटीका
सर्वस्य सत्यत्वं बाधितमिति चेद्बाधकं वक्तव्यम् । वादिसन्देहमात्रं त्वकिञ्चित्करम् । तथा सति परस्परप्रतिरोधेन कस्याप्यर्थ-स्यानवस्थानात् । श्रुतिप्रमिते बाधाप्रसरादित्याह तत्सत्यत्व इति ।। ९४४ ।।
युक्तिमल्लिका
घटोपाधिकवृत्तेश्च मनोरूपत्वमिष्यते ।
घटस्तु न मनोरूपो बाह्योऽसावान्तरं मनः ।। ९४५ ।।
सुरोत्तमटीका
द्वितीयस्योत्तरमाह ।। घटोपाधिकेति ।। घटोपाधिक-वृत्तेः घटविषयकमानसज्ञानस्य ।। ९४५ ।।
सत्यप्रमोदटीका
सार्वज्ञस्य ब्रह्मणाऽभेदे तदुपाधिभूतसर्वस्यापि अभेदः स्यादिति चेन्न । औपाधिकस्य यद्रूपं उपाधेरपि तदिति नियमाभावादित्याह घटेति । मनोरूपत्वमिति । अन्तःकरणं चक्षुर्द्वारा निर्गत्य घटाकारेण परिणमते । सेयं वृत्तिरिति तत्प्रक्रियात्वात् । यदुक्तं विषयस्य सर्वस्य मिथ्यात्वेन तज्ज्ञानस्यापि मिथ्यात्वमिति तत्र दोषान्तराण्याह मिथ्येत्यादिना । रजतं मिथ्या तज्ज्ञानरूपः साक्षी सत्यः । तवेत्यनेन प्रातिभासिकरजतादि-ज्ञानस्य साक्षिरूपत्वाङ्गीकारं तन्मते सूचयति ।। तथा च त्वन्नियमभङ्ग इति भावः ।। ९४५,९४६ ।।
युक्तिमल्लिका
अतस्सार्वज्ञैकतायां सर्वस्यैक्यं च नोच्यते ।
मिथ्यारजतदृष्टेश्च साक्षिणस्सत्यता तव ।। ९४६ ।।
सुरोत्तमटीका
अतः घटोपाधिकज्ञानैक्ये घटैक्यादर्शनात् । सिंहाव-लोकनन्यायेन पुनरप्याद्यपक्षे दूषणमाह ।। मिथ्यारजतेति ।। तवमते मिथ्या-भूतरजतज्ञानत्वेनाङ्गीकृतसाक्षिणः । तथा मिथ्याभूतजगद्विषयकस्यापि सार्वज्ञा-देस्सत्यता भविष्यतीति भावः।।९४६ ।।
युक्तिमल्लिका
मिथ्याभूतार्थसम्बन्धान्मिथ्या ज्ञानं यदीष्यते ।
सत्येशज्ञानसम्बन्धादर्थास्सत्याः कथं न ते ।। ९४७ ।।
सुरोत्तमटीका
मिथ्याभूतार्थसम्बन्धात् मिथ्यात्वमिति वदतस्स्वमत-विरोधः प्राग्दर्शितः । अधुना उत्तरान्तरमाह ।। मिथ्याभूतार्थसम्बन्धादिति ।। ९४७ ।।
सत्यप्रमोदटीका
ज्ञानविषययोः समसत्ताकत्वाङ्गीकारे तवैवानिष्टमित्याह सत्येति ।। ९४७ ।।
युक्तिमल्लिका
तत्पादसङ्गिसलिलादशुद्धस्य हि शुद्धता ।। ९४८ ।।
सुरोत्तमटीका
न केवलमियं प्रतिबन्दी । किंतु इदमेव युक्तियुक्तमित्यत्र दृष्टान्तमाह ।। तत्पादसङ्गिसलिलादिति ।। गङ्गाजलादित्यर्थः ।। ९४८ ।।
सत्यप्रमोदटीका
अशुद्धजलसङ्गेऽपि निर्लेपत्वाद्ब्रह्मणोऽशुध्द्यभावेऽपि, शुद्धस्य तस्य पादसङ्गाद्गङ्गासलिलस्य शुद्धिरेव दृष्टेति त्वदुक्तवैपरीत्यमेव युक्तियुक्तमित्याह तदिति ।। ९४८ ।।
युक्तिमल्लिका
निर्दोषेश्वरचिद्योगात्सत्यता लोकसम्मता ।
अबाधितार्थसम्बन्धाद्बाध्यताऽऽशा वृथा तव ।। ९४९ ।।
सुरोत्तमटीका
अधुना ईश्वरज्ञानस्य प्रमात्वनियमेन तद्विषयस्य जगतः कथं न सत्यतेत्याह ।। निर्दोषेति ।। जगतो बाधादर्शनेन मिथ्यात्वायोगाच्च न तत्सम्बन्धात् सार्वज्ञमिथ्यात्वमित्याह ।। अबाधितेति ।। ९४९ ।।
सत्यप्रमोदटीका
किं च विमतं सर्वं पारमार्थिकं निर्दोषेणेश्वरेण दृश्य-मानत्वात् यत्प्रमाविषयस्तत्सत्यं यथा संमतमिति प्रयोगः सूचितः । विपक्षे ईश्वरस्य दोषित्वापत्त्या हेतूच्छित्तिः ।। ईश्वरेति स्वरूपकथनम् । दोषाभावे ज्ञानमात्रस्य प्रामाण्यं तद्विषयस्याबाध्यतेत्याह अबाधितेति ।। ९४९ ।।
युक्तिमल्लिका
यदि सोपाधिकत्वं ते मिश्रणं क्षीरनीरवत् ।
तदा सर्वज्ञयोगीन्द्रहृदये स्याद्विदारणम् ।। ९५० ।।
सुरोत्तमटीका
किंच किमिदं सार्वज्ञस्य सोपाधिकत्वं नाम उपाधि-भूतजगन्मिश्रणं वा उपाधिनिरूपितत्वमात्रं वेति विकल्प्याद्यं दूषयति ।। यदीति ।। तदागुरुतरमहीमहीधरादीनामप्यान्तरज्ञानेन सह हृदयान्तः प्रवेशादिति भावः ।। ९५० ।।
सत्यप्रमोदटीका
किञ्चौपाधिकत्वं नाम उपाधिना मिश्रणं वा सम्बन्ध-मात्रं वा । नाद्य इत्याह यदीति । हृदये अल्पप्रदेशे महतां भूभूधरादी-नामवस्थानासम्भवात् । विदारणं हृदयस्य ।। ९५० ।।
युक्तिमल्लिका
शब्दाच्च शशशृृङ्गस्य ज्ञाने शृृङ्गी भवान्भवेत् ।
अत्यन्तासच्च ते ज्ञानं स्यात्तेन ह्यतिसङ्कटम् ।। ९५१ ।।
सुरोत्तमटीका
शब्दात् शशश्रङ्गशब्दात् ज्ञानेन सह शृृङ्गस्यापि मिश्रणात् ज्ञानित्वमिव शृृगित्वमपि तव स्यादिति भावः । दूषणान्तरमाह ।। अत्यन्तासदिति ।। समयोरेव मिश्रणयोग्यत्वादिति भावः ।। ९५१ ।।
सत्यप्रमोदटीका
शृङ्गी भवेदिति । अत्र शशशृङ्गेत्यत्र शशेत्य-विवक्षितम् । गवादिशृङ्गज्ञानेनापि शृङ्गित्वापत्तिसाम्यात् । एवं शब्दादित्यपि । ज्ञानमात्रेऽपि दोषापत्तितादवस्थ्यात् । दोषान्तरमाह अत्यन्तासदिति । अत्र शब्दादिति शशेति च द्वयमपि विवक्षितम् । शब्दाच्चेति लिङ्गाभाससमुच्चयः । इदं चासतोरपि मिश्रणमुपेत्योक्तम् । अन्यथा शशशृङ्गस्यापि सत्त्वं स्यादिति चशब्दसूचितं दोषान्तरं बोध्यम् ।। ९५१ ।।
युक्तिमल्लिका
ज्ञानेनान्तस्स्थितेनैव बहिस्स्थजगतो यदि ।
सम्बन्धः कश्चिदेव स्यात्तदैक्ये किं नु बाधकम् ।
सौरालोको जगद्व्यापी मण्डलाभिन्न एव हि ।। ९५२ ।।
सुरोत्तमटीका
द्वितीयं दूषयति ।। ज्ञानेनेति ।। कश्चित्संयोगातिरिक्तो विषयविषयिभावादिः । ऐक्ये सार्वज्ञस्य ब्रह्मैक्ये । घटविषयकवृत्तिज्ञानस्य मनोरूपत्वदर्शनेन सार्वज्ञस्यापि ब्रह्मैक्ये न किञ्चिद्बाधकमिति भावः । दृष्टान्तान्तरमाह ।। सौरालोक इति ।। ९५२ ।।
सत्यप्रमोदटीका
ज्ञानस्य विषयेणोपाधिना सम्बन्धमात्रमिति द्वितीय-पक्षस्तु संमत एव । सर्वविषयकज्ञानस्य ब्रह्मणैक्ये बाधकाभावादित्याह ज्ञाने-नेति । अन्तःस्थितेन मनःपरिणामेन । ऐक्ये धीर्भीरित्येतत्सर्वं मन एवेति श्रुतेः । वृत्तिर्मनःपरिणामः ब्रह्मज्ञानं तु न तथेत्यस्वरसाद्दृष्टान्तान्तरमाह सौरालोक इति । अत्र मण्डलस्थानीयं ब्रह्म । आलोकस्थानीयं तज्ज्ञानम् । व्यापित्वं सम्बन्धः । हीत्यनेन ‘गुणाद्वाऽऽलोकवदि’ति सौत्रप्रसिद्धिं सूचयति । तथा हि तद्भाष्ये ‘चिद्गुणस्य स्वरूपत्वात्तद्व्याप्तिश्चेति युज्यत’ इति ।। ९५२ ।।
युक्तिमल्लिका
किञ्च नानापदार्थानां भ्रमोऽपि ब्रह्मचित्तव ।
मिथ्यार्थज्ञानरूपं ते ब्रह्म किं नाभवत्तदा ।। ९५३ ।।
सुरोत्तमटीका
किञ्च यन्मिथ्यार्थसम्बन्धि तन्मिथ्येति त्वदुक्तन्यायेन तव ब्रह्मैव मिथ्या स्यादित्याह ।। किञ्चेति ।। तव मते तदा ब्रह्मचित एव भ्रमरूपत्वे । ततश्च त्वद्ब्रह्मैव मिथ्याभूतार्थसम्बन्ध्यभवदिति भावः ।। ९५३ ।।
सत्यप्रमोदटीका
किं चायं दोषः, जगद्भ्रमो ब्रह्मचिदेवेति वादिनं त्वामेव स्पृशतीत्याह किं चेति । किं नाभवत् त्वदङ्गीकारेणैव परव्युत्पादन-प्रयासमनपेक्ष्य । तथा च यन्मिथ्यार्थसम्बन्धि तन्मिथ्येति त्वन्न्यायेन तव ब्रह्मणो मिथ्यात्वं दुष्परिहरमिति भावः।।९५३ ।।
युक्तिमल्लिका
सत्यार्थज्ञानरूपोऽसौ कथं मिथ्या मम प्रभुः ।। ९५४ ।।
सुरोत्तमटीका
नायं दोषो ममेत्याह ।। सत्यार्थेति ।। ९५४ ।।
सत्यप्रमोदटीका
त्वन्न्यायानुसारेणापि मम नैव दोष इत्याह सत्येति
।। ९५४ ।।
युक्तिमल्लिका
मिथ्यार्थज्ञानरूपत्वात्त्वद्ब्रह्मैवाभवन्मृषा ।
अतस्त्वद्विषचूर्णेन तवैवाभूद्धि सङ्कटम् ।। ९५५ ।।
सुरोत्तमटीका
तव तूक्तन्यायेन मिथ्याभूतार्थसम्बन्धाद्ब्रह्मणो मिथ्यात्व-मवर्जनीयमित्याह ।। मिथ्यार्थेति ।। एवं च नाीस्थ विषचूर्णं निद्रितस्य रिपोः गुदद्वारे मुखवायुना आपूर्य तन्नाशयामीत्यागतस्य स्वस्यैव तदीयगुद-वायुना स्वोदरं प्रविष्टेन तेनैव विषचूर्णेनैव मरणमभूदित्याभाणकस्य त्वमेव पात्रीभवसीत्याह ।। अत इति ।। ९५५ ।।
सत्यप्रमोदटीका
त्वद्ब्रह्मैवेति । अस्मद्ब्रह्मद्रोहाचरणदोषेणेत्यर्थः । हि इत्यनेन ‘एवमेव खलु महदभिचारातिक्रमः कार्त्स्न्योनात्मने फलती’ति भागवतोक्तिप्रसिद्धिः सूचिता ।। ९५५ ।।
युक्तिमल्लिका
अतो भगवतो धर्माः सर्वे सर्वेश्वरात्मकाः ।
तच्छक्त्या धर्मधर्मित्वमेकताऽनेकतादि च ।। ९५६ ।।
सुरोत्तमटीका
अस्तु सार्वज्ञादीनां ब्रह्मैक्ये बाधकाभावः । तथापि प्रकृते किमागतमित्यत आह ।। अत इति ।। ऐक्ये बाधकाभावादित्यर्थः
।। ९५६ ।।
सत्यप्रमोदटीका
प्रकृतोपयोगमाह अत इति । चेत्यनेनान्यतरा-परिशेषादिभेदकार्यव्यवहारसमुच्चयः ।। ९५६ ।।
युक्तिमल्लिका
तस्माद्गुणानृतत्वाशानारीगर्भस्रवोऽप्यभूत् ।
नेहनानेतिवाक्येन भिन्नस्यैव निषेधनात् ।। ९५७ ।।
सुरोत्तमटीका
तस्माद्गुणानां ब्रह्मस्वरूपत्वात् । गर्भस्रावे निमित्तमाह ।। नेहेति ।। ९५७ ।।
सत्यप्रमोदटीका
एवेति । अभिन्नत्वपक्षे प्रसक्तदोषाणां विशेषशक्त्या परिहृतत्वादिति भावः ।। ९५७ ।।