ब्रह्माहमस्मीति वाक्ये कथमैक्यभ्रमस्तव
ब्रह्माहमस्मिइतिश्रुत्यर्थः
युक्तिमल्लिका
ब्रह्माहमस्मीति वाक्ये कथमैक्यभ्रमस्तव ।
सुपांसुलुगितिसूत्रेण प्रथमा सप्तमी यतः ।। ९२० ।।
सुरोत्तमटीका
ब्रह्माहमस्मि सोहमस्मीत्यादिवाक्यानामपि अनुकूलमर्थं सप्रमाणकमाह ।। ब्रह्माहमिति ।। ९२० ।।
सत्यप्रमोदटीका
ऐक्यभ्रमः सर्वेषां पदानां लक्षणया चिन्मात्रपरत्वा-श्रयणेन । मुख्यवृत्त्यैव सकलप्रमाणानुगुणार्थसम्भवादित्याह सुपां सुलुगिति
।। ९२० ।।
युक्तिमल्लिका
अतो ब्रह्मणि वर्तेऽहमित्यर्थे शास्त्रसंमते ।
सति सर्वविरुद्धैक्ये न क्वचिद्विभ्रमं कुरु ।। ९२१ ।।
सत्यप्रमोदटीका
ब्रह्मणि इति यथा मनो ब्रह्येत्यभेदोक्तिः मनःप्रतीक-त्वेन ब्रह्मोपासनाविधायिका न तु मनसो ब्रह्मतादात्म्यबोधिका तथाऽत्रापीति (भे.प.१४) ।। ९२१ ।।
युक्तिमल्लिका
किञ्च चिन्मात्रयोरैक्ये कार्यं द्विपदशिक्षणम् ।
खञ्जवद्वा चरेत्स्वार्थे वाक्यं तत्रैकरक्षणे ।। ९२२ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि परकीयार्थे दोषं वदन्स्वामेवोपपादयति ।। किञ्चेति ।। द्विपदशिक्षणं अहंपदस्य ब्रह्मपदस्य च मुख्यार्थपरित्यागाख्य-शिक्षणम् । खंजवत् एकपादवत् । तत्र पदद्वयमध्ये । एकरक्षणे एकपद-मात्रलक्षणां कृत्वा पदान्तरस्य मुख्यार्थापरित्यागाख्यरक्षणे ।। ९२२ ।।
सत्यप्रमोदटीका
यद्वा केवलं सामानाधिकरण्यं ‘तत्त्वमसी’त्यत्रेव सादृश्यैक्यपरमस्तु । सिंहस्याध्ययनं इत्यत्रेव सिंहसदृशस्येति प्रातिपदिकस्यैव गौणार्थताऽऽश्रयणेऽपि, तवेव पदद्वयस्य चिन्मात्रे गौण्यपेक्षया जघन्यालक्षणा- वृत्तिर्मास्तु । लोकन्यायोऽप्येवं रक्षितः स्यादित्याह खञ्जवदिति ।। ९२२ ।।
युक्तिमल्लिका
अतो ब्रह्माभिसम्बन्धाद्ब्रह्मशब्दोऽस्तु जीवगः ।
अहं ब्रह्मनियम्योऽस्मीत्यर्थश्च त्वखिलप्रियः ।। ९२३ ।।
अङ्गीकृत्येदमुदितं वस्तुतस्त्वनुशासने ।
अनुशिष्टार्थकथनात्स्वार्थत्यागो न मे क्वचित् ।। ९२४ ।।
सुरोत्तमटीका
अतः एकपदरक्षणस्य न्याय्यत्वात् । ब्रह्म ब्रह्म-सम्बन्धीति जीवगोऽस्तु जीवप्रतिपादकोऽस्तु । अहं ब्रह्म लक्षणया ब्रह्मपद-प्रतिपाद्योऽस्मीति वाक्यार्थोऽस्तु । पदद्वयलक्षणापक्षादप्येकपदलक्षणाया एव न्याय्यत्वादिति भावः ।। अयमप्यङ्गीकारवाद इत्याह ।। अङ्गीकृत्येति ।। अनुशासने सप्तसु प्रथमेत्यादिशब्दानुशासनशास्त्रे।अनुशिष्टश्च मुख्यार्थ एवेति भावः।।९२३,९२४ ।।
सत्यप्रमोदटीका
यद्वा सामानाधिकरण्यं स्वातन्त्र्यैक्यपरमस्तु । लक्षणया ब्रह्मनियम्य इत्यर्थो वाऽस्तु । अनुशिष्टेति ‘सप्तसु प्रथमा’, ‘सुपां सुलुगि’त्यादिना इति भावः । यद्वा ‘ब्रह्मणि जीवाः सर्वेऽपि परब्रह्मणि मुक्तिगाः । प्रकृतिः परमं ब्रह्म परमं महदच्युतः’ इति श्रुत्या तथा बृह जाति जीवकमलासनशब्दराशिषु इत्यभिधानाच्च ब्रह्मशब्दोऽत्र जीवपरोऽस्तु । ईश्वरस्तु परमं महद् ब्रह्म भवतु । ‘परमं ब्रह्म वेद ब्रह्मैव भवति’ इत्यादौ तथैव तत्त्वनिर्णयादौ व्याख्यानादित्यपि ध्येयम् ।। ९२३, ९२४ ।।
युक्तिमल्लिका
हिरण्यशङ्गं वरुणं प्रपद्ये स पुनातु माम् ।
इत्यर्थनं च तत्रोक्तं गच्छेद् ब्रह्म स लोकताम् ।
इत्युक्तब्रह्मसालोक्यं मुख्यैक्ये न हि शोभते ।। ९२५ ।।
सुरोत्तमटीका
अस्तु वैदिकपदानामनुशासनबलादर्थद्वयमपि मुख्यम् । तथापि भवदुक्तार्थस्यैवाङ्गीकारे को हेतुरित्यत आह ।। हिरण्यशृृङ्गमिति ।। अर्थनं तीर्थप्रार्थनम् । मनोवाक्कायकृतपापपरिहारप्रार्थनं च । यजुर्वेदोपनिषदि अघमर्षणसूक्तस्थं हि ब्रह्माहमस्मीति वाक्यम् । तत्र हि वरुणप्रार्थनादिकं बहुधा जीवस्योच्यते । तच्च साक्षाद्ब्रह्मत्वेन घटते । अतस्सप्तमीस्वीकार इति भावः ।। ९२५ ।।
सत्यप्रमोदटीका
अत्राधमर्षणमन्त्रे ब्रह्मशब्दस्य जीवपरत्वं परीक्ष-याऽवधारयति हिरण्येत्यादिना । तथा हि उपक्रमे प्रपद्ये इति शरणागतिः, पुनात्विति शुद्धिप्रार्थनम् । सालोक्यरूपं फलं इत्येतत् मुख्यैक्ये परब्रह्मणा स्वरूपैक्ये न हि शोभते । अतः तत्रस्थस्य ‘ब्रह्माहमस्मी’ इति वाक्यस्य स्वरूपैक्यं अर्थो नैव सम्भवति ।। ९२५ ।।
युक्तिमल्लिका
अहमेवाहमित्यन्यात्मतामन्ते प्रतिक्षिपन् ।
जीवो ज्योतिः पुरार्द्रोहमित्येवोक्त्वा स मज्जति ।
यद्बृहिं जाति जीवादावनुशास्ति स पाणिनिः ।। ९२६ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। अहमेवाहमिति ।। अन्यात्मतां अहमित्युक्तस्वस्वरूपादन्यस्य परब्रह्मणोऽपि स्वस्वरूपताम् । अन्ते उपसंहारे । पुरा पूर्ववाक्ये । अहंपदस्य सर्वत्र सम्बन्धात् । ब्रह्माहमस्मीत्यादि वाक्ये जीवोऽहमस्मीत्याद्येवोक्त्वेत्यर्थः । न तु स्वस्य परब्रह्मणा सहैक्य मित्येवकारेणाह । सः स्नाता । यद्यस्मात् । बृहिं बृहधातुम् । बृहजातिजीव-कमलासनशब्दराशिष्विति पाणिनेरनुशासनादिति भावः । अयमाशयः । आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माह-मस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहेति श्रुतावुप-संहारवाक्येऽहमेवाहं मां जुहोमि स्वाहेति श्रूयते । तत्र च विशेष्यसङ्गतैव-कारस्यान्ययोगव्यवच्छेदार्थकत्वात् अहमेवाहमस्मि न त्वन्यः परमात्माप्यह-मस्मि । तेन कारणेन मयि पापानां सम्भावितत्वात् मन्निष्ठपापाख्य तूलदाहाय मां त्वयि जुहोमि स्वाहेत्यर्थलाभात् ब्रह्माहमस्मीति पूर्ववाक्येऽपि जीवोऽह-मस्मीत्येवार्थो वाच्यः । ब्रह्मशब्दस्य जीवेऽप्यनुशासनात् । न तु परं ब्रह्माह-मस्मीत्यर्थो वक्तुं युक्तः । तस्योक्तविधयोपसंहारवाक्यविरुद्धत्वात् । मज्जतीत्युक्तस्नानरूपक्रियाविरोधाच्चेति । इदं चोपलक्षणम् । ब्रह्माहमस्मीति प्राक्स्वेनैवोक्तवाक्यस्य योहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मीत्युत्तर वाक्यद्वये स्वेनैवावश्यकक्रियाध्याहारेण ब्रह्माहमस्मि ब्रह्माहमस्मीति तत्र तत्र यो वदति सः ब्रह्मशब्दस्य जीवेऽप्यनुशासनात् अहमस्म्यहमस्मीत्येवाह । अहं शब्दवाच्यो जीवोऽस्मीत्येवाहेति यावत् । एतद्वाक्यसमानार्थकं तद्वाक्यमिति भावः । न तु परब्रह्माहमस्मीत्याहेति व्याख्या । तस्मादहमेवाहं नत्वन्योप्यह-मित्युपसंहारात् । अन्यथाहमस्मीत्यस्य सिद्धानुवादकत्वेन स्थानद्वये च वैयर्थ्यात् । ब्रह्माहमस्मीति स्थानद्वयस्थवाक्ययोरपि ज्योति र्ज्वलति ब्रह्माह-मस्मीति पूर्ववाक्योक्तार्थानुवादकत्वेन वैयर्थ्यात् । न चाभ्यासार्थं पुनर्वचनमिति वाच्यम् । अनुवादाप्रामाण्यपक्षेऽभ्यासस्याप्यप्रयोजकत्वादित्यपि द्रष्टव्यम् । प्रकरणानुसारेणैव पुरेत्युक्तम् । वस्तु गत्याऽनयोर्वाक्ययोरर्थपर्यालोचनायाम् अहमेवाहं न त्वन्य इति वाक्येऽहं पदवाच्यजीवस्य न क्वापि परब्रह्मभाव इत्यर्थलाभात् । योहमस्मीति वाक्ये वीप्सया सार्वत्रिकाणां ब्रह्माहमस्मीति वाक्यानामप्यन्यार्थकथनात् न क्वापि जीवपरमात्मैक्यावकाश इत्यप्यनुसन्धेयम्
।। ९२६ ।।
सत्यप्रमोदटीका
अहमेवाहं मां जुहोमि स्वाहा इत्युपसंहारवाक् जीवान्यब्रह्मणि
‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः ।
स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः’
इत्यत्र निरुक्ताहम्पदवाच्यत्वं व्यवच्छिनति । पार्थ एव धनुर्धरः इत्यत्रेव विशेष्यसङ्गतत्वात् एवकारस्य । स्वरूपैक्ये मज्जनक्रियायाः जुहोमि इति पापक्षालकहवनस्यानुपपत्तेः । तदेतदाह अन्त इति । ‘आर्द्रं ज्वलति ज्योति-रहमस्मि’ इति पुरा पूर्ववाक्ये ।। ९२६ ।।
युक्तिमल्लिका
आर्द्रं तीर्थांबुनि स्नातं रूपं मेऽघविवर्जितम् ।
ज्वलत्यनलवत्तेन ज्योतिरस्मीति चाब्रवीत् ।। ९२७ ।।
सुरोत्तमटीका
आर्द्रपदार्थमाह ।। आर्द्रं तीर्थांबुनिस्नातमिति ।। मे मम रूपमिति स्नातुर्जीवस्य वचनम् । ज्योतिः पदार्थमाह ।। अघविवर्जितमिति ।। तेन मालिन्यहेतुपापपरिहारे सति तेजोरूपजीवस्याग्निवज्ज्वलनेन कारणेन तीर्थस्नानेन पापपरिहारे सति प्रकाशमानरूपत्वाज्ज्योतिरहमस्मीत्याहेति भावः । चशब्देन यस्माज्ज्योतिः ज्योतीरूपं जीवस्वरूपं ज्वलति । प्रकाशक-पुण्याभिवर्धनेन ब्रह्मध्यानेनाभिवृद्धब्रह्मवर्चसेन च ज्वलति । अतिशयित प्रकाशं भवति । तेन कारणेन बृहधातोर्वृद्ध्यर्थकत्वाज्जीवे रूढत्वाच्च योगरूढ्या ब्रह्म अतितेजस्वी जीवोहमस्मीत्यब्रवीदित्यपि द्रष्टव्यम् ।। ९२७ ।।
सत्यप्रमोदटीका
तद्व्याख्याति आर्द्रमिति ।। ९२७ ।।
युक्तिमल्लिका
परम्ब्रह्म परंज्योतिः परार्द्रो यः कृपार्णवे ।
नासावहमिति प्राह योऽसौ स्वस्याघमर्षणः ।। ९२८ ।।
सुरोत्तमटीका
सामान्याकारेण स्वव्यवहारस्यातिशयितरूपाभावे तात्पर्यस्य लोके दर्शनादार्द्रादिसामान्यपदत्रयव्यावर्त्यार्थमाह ।। परं ब्रह्मेति ।। असौ वासुदेवः परं ब्रह्म नारायणः परं ब्रह्म परं ज्योतिरुपसंपद्य कृपया परयाविष्ट इत्यादौ परब्रह्मादिपदाभिधेयतया लोकवेदयोः प्रसिद्धः । युक्त्यन्तरं चाह ।। योऽसाविति ।। स्वाघपरिहाराय यं प्रार्थयते । कथं तदभेदस्स्वस्येति भावः ।। ९२८ ।।
सत्यप्रमोदटीका
‘परम्ब्रह्म परन्धाम’, परञ्ज्योतिरुपसम्पद्य, इत्यत्रोक्तः, कृपाऽर्णवे अपरिमितकारुण्यगुणे आर्द्रः नित्यसम्बद्धः तत्स्वरूप इति यावत् । असौ नारायणः न अहं ब्रह्माहमस्मीत्यत्र अहम्पदतात्पर्यविषयो नैव । तत्र हेतुः स्वस्येति । न जातु पापिना तत्परिहारकस्यैक्यं सञ्जाघटीतीति भावः ।।९२८।।
युक्तिमल्लिका
किञ्चाहमर्थो नात्मा ते ब्रह्माहमिति वाक्ततः ।
जडाहङ्कृत्यैक्यमाह न जीवैक्यं भवन्मते ।। ९२९ ।।
सुरोत्तमटीका
परपक्षे दूषणान्तरं चाह ।। किं चेति ।। ते मते । ततः अहमर्थस्यात्मभिन्नत्वात् ।। ९२९ ।।
सत्यप्रमोदटीका
अनात्मा चिदचित्संवलनात्मकोऽहङ्कारः न जीवः । यथाऽऽह ‘अथातः अहङ्कारादेशः अथात आत्माऽऽदेश’ इति श्रुतौ पृथगुपदेशात्’ इत्यादि । (न्या.९७०) ।। ९२९ ।।
युक्तिमल्लिका
मानसाहङ्कृतेरारोपाधिष्ठानचितैव हि ।
सिद्ध्येल्लक्षणयाऽप्यैक्यं न तु जीवचिता सह ।। ९३० ।।
सुरोत्तमटीका
ननु लक्षणया ब्रह्मपरत्वमङ्गीक्रियत इत्यत आह ।। मानसेति ।। अहंकारे आरोपाधिष्ठानब्रह्मचैतन्यप्रवेशेऽपि जीवचैतन्यस्य वार्तापि नास्तीति सूचनायोक्तं मानसेति । लक्षणाबीजसम्बन्धस्य जीव-चैतन्येऽभावादित्यर्थः । तस्मादहं ब्रह्मेत्यादिवाक्यानां जीवब्रह्मैक्यपरत्वशंसनं स्वमतहिंसनमेवेति भावः ।। ९३० ।।
सत्यप्रमोदटीका
ननु संवलनात्मकवाचकस्य एकदेशचिति लक्षणाऽऽ-श्रीयते इति चेत् एवमपि चितैव ब्रह्मैक्यं सिध्येत् न तु जीवेनेत्याह मानसेति
।। ९३० ।।
युक्तिमल्लिका
मणिं सूत्रनिरूढं च त्यक्त्वा कः काचमाश्रयेत् ।
कथं शक्रस्य पदवीं भिक्षुको रोढुमिच्छति ।। ९३१ ।।
सुरोत्तमटीका
सूत्रनिरूढं व्याकरणसूत्रनिरूढम् । मणिं मणिवन्निर्मलं ब्रह्माश्रितत्वरूपमर्थम् । काचं काचवन्मलिनं ब्रह्मैक्यरूपमर्थम् । कथं शक्र-स्येत्यनेन यथा शक्रपदवी भिक्षुकस्यायोग्या ततोऽप्यत्यन्तायोग्या परब्रह्म-पदवीति सूचयति ।। ९३१ ।।
सत्यप्रमोदटीका
सूत्रनिरूढं पाणिन्यादिसूत्रसंसिद्धम् । मणिं ब्रह्मा-धीनोऽहं इत्येवंरूपं निर्दोषमर्थम् । कः कुत्सित एव आश्रयेत् न तु प्रेक्षावान् । यद्वा सूत्रनिरूढं सूत्रतात्पर्यविषयं मणिं प्रधानम् । ‘मणिर्मुखं प्रधानं’ चेत्यभिधानात् । विष्णोर्गुणोत्कर्षं परमपुमर्थप्रदम् । काचं अधमं अधमगतिहेतुं ‘ईश्वरोऽह’मित्यर्थम् । ‘ततो यान्त्यधमां गतिम्’ इति स्मृतेः । अत्र अर्थान्तरं न्यस्यति कथमिति इच्छन्वा अधः पततीति भावः । ‘अयोग्यमिच्छन् पुरुषः पतत्येव’ इति स्मृतेः ।। ९३१ ।।
युक्तिमल्लिका
यतस्तदात्मानमेवावेदित्यवदधारवाक् ।
अहम्ब्रह्मास्मीतिवाक्यं ब्रह्मवाक्यतया स्फुटम् ।। ९३२ ।।
अतस्सा केवलं तस्यै कस्यैव ब्रह्मता वदेत् ।
अन्ययोगव्यवच्छेत्त्री हन्यादवधृतिर्न चेत् ।। ९३३ ।।
सुरोत्तमटीका
युक्त्यन्तरेणापि यत्र क्वापि स्थितस्याहं ब्रह्मेति वाक्यस्य परब्रह्मवाक्यतैव न जीववाक्यतेत्याह ।। यत इति ।। वाक् । तदात्मानमेवावेदहं ब्रह्मास्मीति माध्यंदिनश्रुतिः । तद्ब्रह्म अहं ब्रह्मास्मीति आत्मानमेवावेद न त्वन्यमिति अहं ब्रह्मेति वाक्यं ब्रह्मवाक्यतयाऽवदधार । अतः कारणात् । सा वाक् । तस्य ब्रह्मणः । न चेत् ब्रह्मण एव वाक्यं न चेत् ।। ९३२,९३३ ।।
सत्यप्रमोदटीका
तत् ब्रह्म, आत्मानं एव न त्वन्यं जीवं, अवेत् अजानात् ज्ञानप्रकारमाह अहमिति । अवधृतिः आत्मानमेव इति विशेष्य-सङ्गत एवकारः ।। ९३२, ९३३ ।।
युक्तिमल्लिका
विशेष्यसङ्गतस्यैवकारस्य बुधमण्डली ।
अन्ययोगव्यवच्छेदमर्थं यत्प्रत्यपद्यत ।। ९३४ ।।
अतो जीवब्रह्मतायां न तां युञ्जीत बुद्धिमान् ।
यत्तेष्वब्रह्मताप्यर्थात्प्राप्ता तद्भेदवागियम् ।। ९३५ ।।
सुरोत्तमटीका
विशेष्यस्यैव ब्रह्मणः आत्मानमिति कर्मत्वोक्तेस्त-त्सङ्गतस्याप्येवकारस्य विशेष्यसंगतत्वमुक्तम् । तदेवात्मानं ब्रह्माहमस्मीत्यावेद तदात्मानमेव ब्रह्माहमस्मीत्यावेदेति वा वाक्यद्वयस्य च पार्थ एवात्मानं धनुर्धरं मेने पार्थ आत्मानमेव धनुर्धरं मेन इति वाक्यद्वयवत् फलतस्साम्यादिति भावः । अथवा एवशब्दस्य तदित्यनेनैव सम्बन्धात् विशेष्यसङ्गतत्वं द्रष्टव्यम् । अतः परब्रह्मैक्यवाक्यत्वात् । तां श्रुतिम् । यद्यस्मात् । तेषु जीवेषु अर्थात् आत्मान-मेव ब्रह्मेत्यावेदेत्युक्तेऽन्येषु ब्रह्मता नास्ति । अस्मि चेत्तानपि ब्रह्मतया कुतो न वेत्ति । विद्यमानस्य वेदनयोग्यत्वात् । अतो नास्त्येवेत्यर्थतः । अनेनैव वाक्येन जीवानामब्रह्मत्वस्यापि सिद्धेरिति भावः । तत्तस्मात् ।। ९३४, ९३५ ।।
सत्यप्रमोदटीका
विशेष्येति विशेष्यताऽवच्छेदकानवच्छिन्ने विशेषण-सम्बन्धव्युदासार्थत्वस्य पार्थ एव धनुर्धर इत्यादौ दर्शनात् ।। अर्थात् जीवस्य ब्रह्मत्वं विद्यते चेत् सर्वज्ञं ब्रह्म तज्जानीयात् । न तथा ज्ञातवत् । अतस्तन्ना-स्त्येव । पश्यन् वै तन्न पश्यति । न तु ‘तदस्ती’ति श्रुतेः । इति उपपत्तिबलात् ।। ९३४, ९३५ ।।
युक्तिमल्लिका
ऋषयोनुवदन्त्येतां प्रभोर्वाक्यत्वतः क्वचित् ।
मत्तः परतरं नास्तीत्यादिवाक्यानुवक्तृवत् ।। ९३६ ।।
सुरोत्तमटीका
तर्हि क्वचित्क्वचित्प्रदेशे ऋषिभिरपि ब्रह्माहमस्मि सोह-मस्मीत्याद्युच्यते । तस्य का गतिरित्यत आह ।। ऋषय इति ।। मत्तः परतरं नान्यदिति कृष्णवाक्यस्यान्यैरपि भक्त्या दिने दिने पाठेऽपि यथा तेषां सर्वोत्त-मता नायाति । तथेदमपि । तस्मादघमर्षणसूक्तस्थवाक्यमपि न जीवानां ब्रह्मैक्यसंपादकमिति भावः ।। ९३६ ।।
सत्यप्रमोदटीका
ब्रह्मवाक्यत्वतः ल्यब्लोपनिमिता पञ्चमी । ब्रह्म-वाक्यत्वं अनुसन्धाय । न चानुवादो निष्फलः भेदबुद्धिदाढर्््यार्थत्वात् । तत्र दृष्टान्तः मत्त इत्यादि ।। ९३६ ।।
युक्तिमल्लिका
सोऽहमित्यादिवाक्यस्याप्येवमेव गतिर्भवेत् ।
यो वेत्ति वेदमर्यादां तद्भीत्यै नेदृशं वचः ।। ९३७ ।।
सत्यप्रमोदटीका
मर्यादां ‘पूर्वोत्तराविरुद्धो मानान्तराविरुद्धश्च शास्त्रार्थः’ इत्येवंरूपाम् । जहदजहल्लक्षणा अप्रामाणिकी निर्मूला चेति च
।। ९३७ ।।
युक्तिमल्लिका
सर्वं ब्रह्मेति वाक्याच्च किं जडब्रह्मताऽपि ते ।
बाधात्ततस्तु सञ्कोचे जीवादप्यस्तु बाधितात् ।। ९३८ ।।
सुरोत्तमटीका
सर्वं खल्विदं ब्रह्मेति वाक्यस्य प्राग्दूषितत्वेऽपि तत्रानुक्त दोषमपि वक्तुं पुनराह ।। सर्वमित्यादिना ।। ततः जडात् । बाधितात् । जीवादपि । अस्तु सङ्कोचोस्तु । नाहं सर्वज्ञ इति जीवैक्यस्यापि बाधितत्वात् । किं च जडेनाहं सर्वज्ञ इति प्रत्यक्षाभावेन जीवभेदस्येव साक्षिरूपातिप्रबलस्वस्व प्रत्यक्षबाधाभावात् अतीन्द्रियेषु जडेषु प्रायः परप्रत्यक्षस्याप्यभावात् जडस्य ब्रह्मैक्ये युक्तिबाध एव न तु प्रत्यक्षबाधः । ईश्वरप्रत्यक्षस्य चास्माभिरदर्शनात् । जीवाभेदस्तूक्तसयुक्तिकप्रबलप्रत्यक्षबाधितत्वात् सर्वथा परित्याज्य इति भावो विज्ञेयः ।। ९३८ ।।
सत्यप्रमोदटीका
बाधितात् ब्रह्मैक्यादिति शेषः । नाहं निर्दुःखः इत्यत्रापि साक्षिप्रत्यक्षादिसकलप्रमाणबाधितात् ।। ९३८ ।।
युक्तिमल्लिका
इदं पदार्थो हि जडमनिदं ब्रह्म ते मते ।
अतो जडपरित्यागे पदं तद्धि प्रकुप्यति ।। ९३९ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। इदं पदार्थ इति ।। तत् पदम् । इदं पदम् । जडपरित्याग इत्युपलक्षणम् । चेतनाङ्गीकारेऽपि प्रकुप्यतीति द्रष्टव्यम्
।। ९३९ ।।
सत्यप्रमोदटीका
इदं पदार्थ इति अन्तवन्त इमे देहा इतिवन्निर्देष्टुमर्हः पराक् पदार्थः । अनिदं प्रत्यग्भूतम् । तथा च सर्वं खल्विदं ब्रह्मेति वाक्ये इदं च पररीत्यैव परस्य दूषणम् । वस्तुतः सर्वनामशब्दस्य बुद्धिसन्निहित-परामर्शकत्वमेव ।। ९३९ ।।
युक्तिमल्लिका
जडस्य चैक्यं मुख्यं न ततोऽन्यार्थस्तवापि हि ।। ९४० ।।
सुरोत्तमटीका
ततः मुख्यार्थायोगात् ।। ९४० ।।
सत्यप्रमोदटीका
मुख्यं न । किन्तु आरोपितत्वरूपं अप्रामाणिकम् ।। ९४० ।।
युक्तिमल्लिका
यतस्सर्वं समाप्नोषि तत्सर्वोऽसीति भारते ।
गीतोक्तिस्तद्बलात्सर्वव्यापिदैवार्थ ईर्यताम् ।। ९४१ ।।
सुरोत्तमटीका
सप्रमाणकं स्वाभिमतार्थमाह ।। यत इति ।। अनेन सर्वं समाप्नोषि ततोऽसि सर्व इति वाक्यं सङ्गृह्णाति । यतस्त्वं सर्वजगत्समाप्नोषि सम्यगाप्नोषि । आप्लृव्याप्ताविति धातुः । समाप्त्यर्थकत्वे सर्वं समापयसीति णिजन्तप्रयोगस्स्यात् । अस्मिन्प्रयोगे तु व्याप्त्यर्थकत्वमेव ग्राह्यम् । अन्यथा सकर्मकता न स्यात् । किंतु त्वं समाप्तो भवसीत्येव प्रयोगस्स्यात् । तत-स्सर्वव्याप्तत्वात् सर्वः सर्वशब्दवाच्योऽसीति कृष्णं प्रत्यर्जुनवाक्यम् ।। ९४१ ।।
सत्यप्रमोदटीका
तथा च गुणसौरभोक्तरीत्या व्याप्त्यैक्यमेवात्रार्थ उचित इत्याह सर्वेति ।। ९४१ ।।
युक्तिमल्लिका
ऐन्द्रं व्याकरणं यस्य मूलरूपं न्यरूरुपत् ।
स पार्थश्शब्दशक्तिज्ञश्शक्तिज्ञोऽतः परात्मनः ।। ९४२ ।।
सुरोत्तमटीका
व्याकरणकर्तृत्वादर्जुनकृतशब्दानुशासनं मान्यमित्याह ।। ऐन्द्रमिति ।। यस्यार्जुनस्य मूलरूपमिन्द्रः । न्यरूरुपत् निरूपयामास । अतः व्याकरणकर्तृत्वात् । शब्दशक्तिज्ञ इत्यनेन मुख्य एवायं प्रयोगः न त्वमुख्य इति सूचयति । यतस्तत इति शब्दप्रवृत्तिनिमित्तकथनात् प्रवृत्तिनिमित्तवति च प्रयोगस्य मुख्यत्वादिति भावः । परात्मनश्शक्तिज्ञ इत्यनेन नामानि सर्वाणि यमाविशन्तीत्यादिनोक्तसर्वशब्दमुख्यवाच्यत्वरूपभगवच्छक्तिज्ञत्वाच्च मुख्यमेव प्रयोगमनुशास्तीति भावः ।। ९४२ ।।
सत्यप्रमोदटीका
इन्द्रावतारस्य व्याकरणप्रणेतुः पदपदार्थरूपसम्बन्धि- द्वयस्वरूपपरिज्ञानवतः शक्तिरूपसम्बन्धोपदेशः शिरसा मान्य इत्याह ऐन्द्रमिति ।। ९४२ ।।
युक्तिमल्लिका
तज्जलानिति शान्तस्सन्नुपासीतेति पूर्ववाक् ।
उपास्योपासकत्वं हि प्राह तच्च कथं तव ।। ९४३ ।।
सुरोत्तमटीका
ऐक्यार्थकत्वे उपक्रमवाक्यविरोधं चाह ।। तज्जलानि-तीति ।। अनेन तज्जलानिति शान्त उपासीतेति वाक्यं संगृह्णाति । इति अनेन प्रकारेण । पूर्ववाक् सर्वं खल्विदं ब्रह्मेत्यतः पूर्ववाक् । तदेतद्दृष्टं च श्रुतं चेत्युपासीतेति वाक् । उपासीतेति पदस्योभयत्र साम्यादेकप्रकारत्वं उपास्ति-विधायकोपक्रमोपसंहारवाक्यद्वयविरोधस्फोरणाय वक्रमुद्रया प्रवृत्तिः । एवं चोपास्तिविधायकवाक्यद्वयमध्यस्थवाचस्तद्विरुद्धमैक्यं अर्थं वदन्पूर्वोत्तरविवेक-शून्य इति भावः ।। ९४३ ।।
सत्यप्रमोदटीका
तस्माज्जायते, तस्मिंल्लीयते तेनानिति इति सृष्टि-स्थित्यादिकारणत्वेन उपासनाविधायकं तज्जलानिति उत्तरवाक्यम् । एवं पूर्ववाक् तदेतद्दृष्टं च श्रुतं चेत्युपासीत इति उपासनाविधायिका । तन्मध्यपतितं सर्वं खल्विति वाक्यं कथं अभेदं बोधयेदिति भावः । तस्माद् द्वैतवाक्य-मध्यस्थमद्वैतवाक्यमुपांशुयाजवाक्यमध्यस्थविष्ण्वादिवाक्यवत् पूर्वोत्तरद्वैत-वाक्यानुसारेण ज्ञेयम् (न्या.२६७) ।। ९४३ ।।
युक्तिमल्लिका
जीवहत्येव लक्ष्यत्वे पदयोस्सुविरुद्धता ।
चिन्मात्रस्य तु लक्ष्यत्वे व्यर्थं सर्वपदं तव ।। ९४४ ।।
सुरोत्तमटीका
लक्ष्यत्वे सर्वपदलक्ष्यत्वे । व्यर्थं चिन्मात्रेऽनेकत्वा-भावाद्व्यर्थमित्यर्थः ।। ९४४ ।।
युक्तिमल्लिका
यदि सर्वभ्रमाधिष्ठानत्वं सर्वपदोदितम् ।
तदा मुख्यार्थसन्त्यागस्सर्वाधिष्ठानतैव च ।। ९४५ ।।
अर्थोऽस्तु लाघवान्मध्ये भ्रमः कस्मान्निवेश्यते ।
पूर्वश्रुतावुक्तसूत्ररीत्या वाऽर्थो भविष्यति ।। ९४६ ।।
सुरोत्तमटीका
सर्वाधिष्ठानता सर्वाधारता । लाघवात् सर्वभ्रमाधिष्ठान-त्वापेक्षया सर्वाधिष्ठानत्वस्य लघुत्वात् । जीवपक्षे जडपक्षे चैकार्थ्यलाभेन लघुत्वाच्च ।। ९४५,९४६ ।।
सत्यप्रमोदटीका
मुख्यार्थेति त्वदभिमतस्वरूपैक्यरूपेत्यर्थः । सर्वा-धिष्ठानतैव अर्थोऽस्तु इति उत्तरश्लोकस्थेनान्वयः । लाघवादिति । अन्यथा लक्षणायाः भ्रमस्य चेत्यनेकाप्रामाणिककल्पनापत्त्या गौरवं स्यादित्याशयः । अस्मत्पक्षे तु पूर्वोक्तरीत्या सुपांसुलुगित्यादिसूत्रानुसारेण मुख्य एवार्थ इति न किञ्चित्कल्प्यमिति भावः ।। ९४५,९४६ ।।
युक्तिमल्लिका
सप्तसु प्रथमा यस्मात्क्लृप्ता वेदेषु वैदिकैः ।
तस्मादद्वैतवाक्यानां लक्षादपि न भीर्मम ।। ९४७ ।।
सुरोत्तमटीका
तदेव सूत्रं प्रदर्शयन्सकलाद्वैतवाक्येऽप्यापातप्रतीतार्थ-बाधेनास्यैव न्यायस्य सर्वत्र संचारयितुं शक्यत्वात् पराभिलषितैक्यस्य न क्वाप्यवकाश इत्याह ।। सप्तस्विति ।। तस्मात्त्वमसि तस्मिंस्त्वमसि । अहं ब्रह्मण्यस्मि अहं तस्मिन्नस्मि । सर्वस्मिन्ब्रह्म इत्यादि प्रकारेण सकलाद्वैत-वाक्येऽपि अबाधितार्थस्यैव विद्यमानत्वेन बाधितैक्यार्थस्य क्वाप्यनवकाशात् ।। ९४७ ।।
सत्यप्रमोदटीका
औतवाक्यानां सामानाधिकरण्यगर्भितानाम् । द्वैत-वाक्यानां तद्विरोधापत्तिरूपा भीः न । द्वैतवाक्यानां निरवकाशत्वात् । औताभिमतवाक्यानां अधिकरणार्थे सावकाशत्वाच्चेति भावः ।। ९४७ ।।
युक्तिमल्लिका
यथाश्रुतपदस्यार्थस्यायोगे पूर्वयोगिभिः ।
व्यत्यासशासनान्नातिप्रसङ्गो यत्र कुत्रचित् ।। ९४८ ।।
सुरोत्तमटीका
तर्हि प्रथमाविभक्तेर्न क्वाप्यवकाश इत्यत आह ।। यथाश्रुतेति ।। यथाश्रुतवाक्यार्थ बाधाभावे प्रथमादिविभक्तीनां न व्यत्यास इति तत्र सर्वत्र तासामेवावकाश इति भावः ।। ९४८ ।।
सत्यप्रमोदटीका
वाक्यस्य याथार्थ्यरक्षणार्थं, ‘व्यत्ययो बहुलं छन्दसि’ इति सूत्रोक्तविभक्त्यर्थादिव्यत्ययः शास्त्रविहित इत्याह यथाश्रुतेति । एवंरूपो व्यत्ययश्च प्रागुक्तस्थले क्वचिदेव न सर्वत्रेति नातिप्रसङ्ग इत्याह नेति ।।९४८।।
युक्तिमल्लिका
अतस्तवायुधं सर्वं बलान्नीतं परैर्युधि ।। ९४९ ।।
सुरोत्तमटीका
अतस्सर्वाद्वैतवाक्यानां स्वानुकूलीकरणात् ।। ९४९ ।।
सत्यप्रमोदटीका
सामानाधिकरण्यं हि स्वरूपैक्यमभिलषतस्तवायुधम् । तच्च अनेकधा सावकाशितम् । भेदपरतयैव च समर्थितमिति अहो निरायुधस्य भटस्य दुर्दशेत्याह अत इति ।। ९४९ ।।