इत्यैक्यनिन्दनाद्ग्रन्थे स्पष्टं ग्रन्थकृतैव हि
तात्पर्यार्थस्यैव ग्राह्यत्वसमर्थनम्
युक्तिमल्लिका
इत्यैक्यनिन्दनाद्ग्रन्थे स्पष्टं ग्रन्थकृतैव हि ।
क्वचिदापाततः प्राप्तं नैक्यं वाक्यार्थ इष्यते ।। ११९० ।।
सुरोत्तमटीका
इति भागवते गीतासु चोक्तप्रकारेण ।। ११९० ।।
सत्यप्रमोदटीका
स्पष्टं निरवकाशम् । तदुक्तं वादावल्लयां ‘असत्य-मप्रतिष्ठं ये जगदाहुरनीश्वरं’ इति निरवकाशस्मृतिविरोधश्चेति । तदुक्तं ‘शास्त्रं हि असन्निकृष्टेऽर्थे शब्दविज्ञानं’ इति ‘असन्निकृष्टशब्देन द्वयमत्र जिहासितम् । ताद्रूप्येण परिच्छेदः तद्विपर्ययतोऽपि चे’ति च ।। ११९० ।।
युक्तिमल्लिका
अविरुद्धे तु वाक्यार्थे यथा श्रुतपरिग्रहः ।
विरुद्धे सति वाक्यार्थे वृत्तिवृत्त्यन्तरे सताम् ।। ११९१ ।।
सुरोत्तमटीका
आपातप्रतीतमैक्यमर्थो न चेत् कस्तर्हि वाक्यार्थ इत्यत आह ।। अविरुद्ध इति ।। अनेन द्वासुपर्णेत्यादि भेदश्रुतीनां प्रतीतार्थ एव ग्राह्य इति च सूचयति ।। ११९१ ।।
सत्यप्रमोदटीका
वृत्त्यन्तरं इति ‘पूर्वायोगे परग्रह’ इत्युक्तेः ।।११९१।।
युक्तिमल्लिका
एवं च भवदद्वैतभिक्षू राक्षसमन्दिरे ।
भैक्षार्थमागमत्तेषां नाशे चानशनो पतत् ।। ११९२ ।।
सुरोत्तमटीका
भागवते गीतायां च सर्वत्रैक्यस्यासुरपक्षत्वश्रवणादैक्य-मपहसति ।। एवं चेति ।। ११९२ ।।
सत्यप्रमोदटीका
एवं चेति श्रुतिस्मृतिषु कुत्रापि तदभीप्सितैक्यभिक्षाया अलाभात् ततो बहिष्कृतत्वाच्च ।। ११९२ ।।
युक्तिमल्लिका
सुपर्णौ द्वौ सहयुजौ सखायौ देहपिप्पलम् ।
ब्रह्मजीवाभिधौ नित्यं स स्वजाते परावरौ ।। ११९३ ।।
तयोर्मध्ये ब्रह्मणोऽन्यो यस्तु जीवाभिधः खगः ।
स पुण्यपापकर्मोत्थं फलमत्ति सुखासुखम् ।। ११९४ ।।
जीवादन्यस्तु यः पक्षी परमात्माभिधो महान् ।
सोऽनश्नन्नभितो नित्यं चाकशीति महाप्रभुः ।। ११९५ ।।
इति श्रुतिस्तयोर्भेदं स्पष्टमाह स युक्तिकम् ।
अन्यावकाशशून्या सा मान्या केन न वादिना ।। ११९६ ।।
सुरोत्तमटीका
इदानीं द्वासुपर्णेति श्रुतेस्सविस्तरमर्थमाह ।। सुपर्णा-विति ।। तयोरन्य इत्यत्र साकाङ्क्षान्यपदस्य योग्यतया शेषपूरणं ब्रह्मण इति । अनश्नन्नन्य इत्यत्र च जीवादिति । चाकशीति अतिशयेन प्रकाशते ।। ११९३-११९६ ।।
सत्यप्रमोदटीका
द्वा सुपर्णेति श्रुतिं ‘ॐ स्थित्यदनाभ्यां च’ इति सूत्रभाष्योक्तदिशा सपरिकरं व्याख्याति । सुपर्णावित्यादिभिः । वृक्ष-मित्यस्यार्थः देहपिप्पलमिति । परीत्यस्यार्थः नित्यमिति । तयोः । मध्ये इति शेषः । अन्यः परमात्मनः इति पूरणीयम् । जीवाभिधः इति । पिप्पलं कर्मफलं सुखासुखम् । अनश्नन् भोगनिरपेक्षम् । अभि अभितः नित्यम् ।। ११९३-११९६ ।।
युक्तिमल्लिका
यस्माज्जीवेशयोर्भेदव्याप्य द्वित्वाख्ययुक्तितः ।
प्राक्प्रसाध्य भिदां पश्चादशनानशनाख्यया ।
विरुद्धधर्मयुक्त्या च बलीयस्यात्तयोर्भिदाम् ।। ११९७ ।।
पुनः प्रसाध्या पश्चाच्च श्रुतिस्स्पष्टं द्विधर्मिणीम् ।
अन्यो सावयमन्यश्चेत्याह जीवेशयोर्भिदाम् ।। ११९८ ।।
सुरोत्तमटीका
अन्यावकाशशून्यत्वमेव विशदयति ।। यस्मादित्या-दिना ।। जीवेशयोर्भिदामिति सम्बन्धः । तयोर्जीवेशयोः । तयोरन्य इत्यत्र ब्रह्मप्रतियोगिक जीवधर्मिकभेदकथनात् अनश्नन्नन्य इत्यत्र च जीवप्रतियोगि-केश्वरधर्मिकभेदकथनात् द्विधर्मिणीमित्युक्तम् ।। ११९७-११९९ ।।
सत्यप्रमोदटीका
अन्यावकाशशून्या इत्येतदुपपादयति यस्मादित्यादि-भिः । द्वित्वाख्ययुक्तितः द्वित्वस्य उत्सर्गतः भेदव्याप्तत्वेऽपि’द्वित्वं चैकस्य युज्यते’ इत्युक्तेः क्वचिदपवादात् आह विरुद्धेति । बलीयस्या इति च ।। ११९७,११९८ ।।
युक्तिमल्लिका
तस्माद्द्विरूपया युक्त्या श्रुत्या चोभयरूपया ।
साधयन्ती तयोर्भेदं केन मान्या न वादिना ।। ११९९ ।।
अभ्यासश्चोपपत्ती च तात्पर्यद्योतकं त्रयम् ।
लिङ्गं यतोऽस्ति तत्स्वार्थान्नैव चाल्या कथञ्चन ।। १२०० ।।
सुरोत्तमटीका
अन्यः अन्य इत्येकप्रकारासकृदुक्तिरूपोऽभ्यासः । तत्तस्मात् तात्पर्यद्योतकलिङ्गत्रयवत्त्वात् ।। १२०० ।।
सत्यप्रमोदटीका
द्विधर्मिणीं भिदा तयोरन्य इति जीवधर्मिकं भेदम् ।। ११९९, १२०० ।।
युक्तिमल्लिका
तद्विरुद्धा सावकाशा श्रुतिरैक्यं कथं वदेत् ।
प्रबलाया विरोधेन दुर्बलार्थान्तरं भजेत् ।। १२०१ ।।
सुरोत्तमटीका
तया भेदश्रुत्या विरुद्धा तद्विरुद्धा । सावकाश-निरवकाशयोर्मध्ये निरवकाशं बलीय इति न्यायादिति भावः ।। १२०१ ।।
युक्तिमल्लिका
द्वौ बुद्धिजीववित्याहुस्साङ्ख्यास्त्वत्पूर्वपक्षिणः ।
त्वं तु जीवपरात्मानौ द्वौ हृदीति प्रसाधयन् ।। १२०२ ।।
सुरोत्तमटीका
‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनादिति’ ब्रह्म-सूत्राधिकरणे कर्मफलभोक्तारौ हृदयगुहाप्रविष्टौ बुद्धिजीवाविति कापिलमतं पूर्वपक्षीकृत्य जीवात्मपरमात्मानावेवेति मायिभिरेव सिद्धान्तितत्वात् जीवपरमावेवेमौ सुपर्णौ नान्यावित्याह ।। द्वौ बुद्धिजीवावित्यादिना ।। १२०२ ।।
सत्यप्रमोदटीका
अत्रोक्तौ पक्षिणौ जीवपरावेव कुतः बुद्धिजीवौ किं न स्यातामित्याशङ्कां परसंमतिप्रदर्शनेन युक्तिभिश्चापाकरोति द्वावित्यादिभिः । पूर्वपक्षिणः गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’ इति नये साङ्ख्याः ।।१२०२।।
युक्तिमल्लिका
तज्जीवपरमात्मानौ खगौ तव ममापि च ।
तद्भेदबोधिका सेयं श्रुतिरित्यपि संमतम् ।। १२०३ ।।
सुरोत्तमटीका
तत्तस्माद्बुद्धिजीवपक्षस्य त्वयैव दूषितत्वात् । तयो-र्जीवेशयोर्भेदबोधिका । व्यावहारिकभेदपरेयं श्रुतिरिति वदता परेणापि भेदप्रतिपादकत्वस्याङ्गीकृतत्वादिति भावः । उपलक्षणं चैतत् । आत्मानं परमात्मानं आत्मानं चेत्येतच्छ्रुतेर्निरुक्तौ जीवात्मपरमात्मनोरेव स्पष्टं कथना-च्चेत्यपि द्रष्टव्यम् । किञ्च पररीत्या भेदवाक्यस्यास्य बुद्धिजीवविषयतां कुर्वता स्वरीत्यैव सर्वाण्यप्यैक्यवाक्यानि जहदजहल्लक्षणया ब्रह्मविशेषणीभूता-विद्याख्योपादानस्य जीवविशेषणीभूतदेहान्तःकरणाद्युपादेयस्य चैक्यपराणि कुतो न क्रियन्ते । नागृहीतविशेषणान्यायेनापि विशेषणैक्यस्यास्य न्याय्यत्वात् । मयापि जगत्स्रष्टुर्ब्रह्मणः करस्थप्रकृतेर्दण्डवद्विशेषणता वक्तुं शक्यत एव । उपादानोपादेययोरभेदश्चावयोस्संमत एव । उभयोरपि जडतया अविरुद्धे अबाधिते उभयवादिसम्प्रतिपन्ने चास्मिन्नैक्ये सति किमर्थमनीदृशमैक्यं परिकल्प्यते । एवं च तवाभिलषितमैक्यं वाक्याभावात्प्रमाणान्तरस्य सुतराम-भावात् वेदारण्यकं विहायारण्यमेव गच्छेत् । भेदस्तूक्तरीत्या स्वविरोधि-प्रमाणस्य निर्मूलितत्वेन द्वासुपर्णेति श्रुतावेव लब्धावसरो भिन्नोऽचिन्त्यःपरमो जीवसंघादित्यादिवाक्यशतानुगृहीतो वेदारण्यक एव सुखं निवसेत् । सार्व-जनीनप्रत्यक्षानुगतो नगरे वा प्रचरेत् । किञ्च एकादशेन्द्रिय पञ्चभूतात्मक-प्रकृतिविकारविशेषस्य देहतया वृक्षपदेनैव बुद्धेर्गृहीतत्वात् तदालिङ्गनकर्ता अत्ता अन्य एव भवेत् । न हि स्वयमेव स्वात्मानमालिङ्गति । किञ्च बुद्धेर्जडदेहाभिन्नतया जीवस्य च ततोऽत्यन्तविलक्षणतया कथमुभयो-स्समानोऽयं देहः । कथं च चेतनासाधरणधर्मस्सख्यं जडाजडयोरुभयोः । अपि च भागवतीयसमाख्यावचने अत्तुस्सुपर्णस्य एकस्यैव ममांशस्य जीवस्यैवं महामत इति कदाचिन्मुक्तजीवतया अनत्तुश्च विद्यामयो यस्सतु नित्यमुक्त इति नित्यमुक्तब्रह्मतया स्पष्टं निरूपणाच्च जीवपरमावेव सुपर्णौ । अपि च भवदाचार्यकृताथर्वणोपनिषद्भाष्य एवाविद्यां शरीरद्वयरूपिणीं वृक्षत्वेन परिकल्प्य तत्त्वंपदार्थौ च पक्षित्वेनास्मान्बोधयितुं मन्त्र आह । द्वा द्वौ, उभौ, सुपर्णा सुपर्णौ सुष्टु पर्णौ पक्षौ ययोस्तौ सुपर्णौ । जीवस्य धर्माधर्मौ पक्षौ । ईश्वरस्याविद्यातत्सम्बन्धाविति निरूपणात् जीवपरमावेव सुपर्णौ ।। १२०३ ।।
सत्यप्रमोदटीका
तत् तस्मात् । तयोरिति वा । स भेदः व्यावहारिक इति तु कुकल्पना निर्मूलेत्यन्यदेतत् ।। किञ्च तत्र यथा बुद्धिजीवाविति पररीत्योक्तं तथा तत्त्वमसीत्यत्र सिद्धान्तेऽपि उपादानस्य अविद्यारूपप्रकृतेः उपादेयस्य देहेन्द्रियादेश्चाभेद एवार्थः व्याख्यायताम् । किं जहदजहल्लक्षणया चिन्मात्रैक्य-कल्पनादुर्व्यसनेन । अविद्या हि ब्रह्म विशेषणं, देहाद्युपाधिः तदुपादानको जीवस्य । तथा च नागृहीतविशेषणान्यायेन विशेष्यांशे बाधे विशेषणयोः अविद्यातत्कार्ययोरभेदो न्यायप्राप्तः । उभयोरपि जडत्वादुपपन्नश्च ।
अपि च वृक्षस्य प्रकृतिरूपतया बुद्धेरपि तद्विकारत्वेन तदेकदेशत्वेन च नात्रोक्तः परिष्वङ्गे युक्तः । बुद्धिजीवयोर्जडाजडयोः सख्यं च दुर्घटम् । सुपर्णावेतौ सयुजौ सखायौ’ इत्यत्र भागवते स्पष्टं जीवपरमात्मपरत्वेन व्याख्यानात् तद्विरोधश्च । आथर्वणभाष्ये अस्यैव वाक्यस्य जीवपरमात्मपरत्वेन भाषितत्वेन तद्विरोधश्च । तदेतदभिप्रेत्योक्तं तवापि च ममापि चेति ।।१२०३।।
युक्तिमल्लिका
सुखदुःखाद्यनुभवो जीवसाक्षी किलावयोः ।
बुद्धिस्तु घटपूर्वार्थबुद्धिर्न सुखदुःखधीः ।। १२०४ ।।
सुरोत्तमटीका
युक्त्यापि पिप्पलं कर्मफलं सुखदुःखादिकं स्वादु यथा भवति तथा अत्तीत्युक्ते अत्ता जीव एव भवेदित्याह ।। सुखदुःखेति
।। १२०४ ।।
सत्यप्रमोदटीका
युक्त्यन्तरेणापि अत्र कर्मफलं सुखदुःखं अत्ति इत्युक्तः जीव एव न बुद्धिरित्याह सुखेति । ‘स दुःखी स सुखी चैव, स जीव इति कीर्तितः’ इति परमश्रुतौ तस्य तत्तल्लक्षणत्वेनोक्तेः । मनोवृत्तिस्तु बाह्यार्थविषयिण्येवेत्याह बुद्धिरिति ।। १२०४ ।।
युक्तिमल्लिका
अतोत्ता जीव एवात्र न बुद्धिर्बुद्धिमन्मते ।
यत्पिप्पलं कर्मफलं सुखदुःखे च ते स्मृते ।। १२०५ ।।
अदनं च तयोस्साक्षादीक्षणं निजसाक्षिणा ।
अनश्नन्परमात्मैव योभितोपि प्रकाशते ।। १२०६ ।।
सुरोत्तमटीका
अतः बुद्धेःसुखदुःखानुभवत्वाभावात् । पिप्पल-मत्तीत्यनेन सुखदुःखानुभव एव ग्राह्यो न घटाद्यनुभव इत्याह ।। यदीति ।। यत् यस्मात् देहाख्य वृक्षफलरूपत्वात् । अतोऽत्ता जीव एवेति पूर्वेणान्वयः ।। १२०५, १२०६ ।।
सत्यप्रमोदटीका
अदनं च रससाक्षात्कारः साक्षिणैवेत्याह अदनं चेति ।। १२०५, १२०६ ।।
युक्तिमल्लिका
सोऽनश्नन्पारमार्थ्येन सोऽत्ति चापरमार्थतः ।
इति शङ्का पिशाचीं तु हन्ति युक्ति नृकेसरी ।। १२०७ ।।
सुरोत्तमटीका
परकीयमन्दाशङ्कामाशङ्क्य निषेधति ।। सोऽनश्नन्निति ।। १२०७ ।।
सत्यप्रमोदटीका
नन्वत्र अपारमार्थ्येन अत्ति पारमार्थ्येन अनश्नन् इति पदद्वयं अध्याह्रियते । अतो न भेदसिद्धिरिति मन्दाशङ्कां हिनस्ति स इत्यादिभिस्त्रिभिः । अत्र अन्यः अन्यः इति सुस्पष्टं द्वयोरेव श्रवणात् अनुपपत्तिरेव नास्ति ।। १२०७ ।।
युक्तिमल्लिका
य एवात्ति स वानश्नंश्चेति श्रूयते यदि ।
तदोत्थानं भवेदस्य नैवमाह श्रुतिस्सती ।। १२०८ ।।
सुरोत्तमटीका
अस्याश्शङ्कायाः ।। १२०८ ।।
सत्यप्रमोदटीका
यच्छमनाय अध्याहारप्रयास इत्याह य इति ।। १२०८ ।।
युक्तिमल्लिका
अत्त्यन्योयमनश्नंश्च तथान्य इति सा जगौ ।
अतस्तच्छ्रुतमन्यत्र जीवे त्वश्रुतमेव हि ।
अभूदनशनं तेन वदनं मुद्रितं तव ।। १२०९ ।।
सुरोत्तमटीका
सा श्रुतिः । अतः अन्योऽसौ अन्योयमिति विविच्य कथनात् । तत् अनशनम् । अन्यत्र परमात्मनि । हीत्यनेनाभिचाक-शीतीत्युक्तमभितः प्रकाशमानत्वलिङ्गं परमात्मन एव प्रसिद्धमिति सूचयति । अतो जीवे त्वश्रुतमेवेत्युक्तम् । तेन अनशनस्य जीवे तश्रुतत्वेन ब्रह्मण्येव श्रुतत्वेन च श्रुतहान्यश्रुतग्रहाख्य दोषद्वयापातेन यद्वा तद्वा जल्पतस्तव वदनं मुद्रितमिति भावः ।। १२०९ ।।
सत्यप्रमोदटीका
तत् अनदनं अभिचाकशनं च ।। १२०९ ।।
युक्तिमल्लिका
यदेतच्छ्रुतमिथ्यात्वमश्रुतस्य च सत्यता ।
वदेत्तद्वैदिकं मन्यस्त्वन्न्यायेन न किं शुभा ।। १२१० ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। यदेतमिति ।। जीव एव श्रुतस्या-शनस्य यन्मिथ्यात्वं अपारमार्थ्येनाशनमिति वदता परेणाङ्गीकृतं तदिति सम्बन्धः । वैदिकं मन्य इति विरोधप्रदर्शनायोक्तम् । साक्षाद्वेदोक्तस्य मिथ्यात्वं तदनुक्तस्य च सत्यत्वं वदतो वैदिकत्वस्य विरुद्धत्वात् ।। १२१० ।।
सत्यप्रमोदटीका
एवं वदतः जीवे श्रुतस्य अशनस्य हानिः अश्रुतस्य अनशनस्य च स्यादित्याह यदिति ।। १२१० ।।
युक्तिमल्लिका
न चेच्छङ्का पिशाचीयं व्याहति प्रमदाकुलम् ।
हन्यादन्यायवाक्सा च त्वन्न्यायेन न किं शुभा ।। १२११ ।।
सुरोत्तमटीका
न चेत् एवमपि स्वोक्तं न मुञ्चसि चेत् । त्वन्न्यायेन एकस्य पारमार्थ्यम् अपरस्यापारमार्थ्यमिति विरुद्धयोरेकत्र घटनाख्यन्यायेन अपरमार्थतोमातृत्व ब्राह्मणत्वादिकं परमार्थतो वन्ध्यात्वाब्राह्मणत्वमिति कल्पनया व्याहति मात्रोच्छेदप्रसङ्गः ।। १२११ ।।
सत्यप्रमोदटीका
इयं अश्रुतपदाध्याहारेण प्रमाणविरुद्धार्थघटना । व्याहति प्रमदाकुलं, कर्म हन्यादिति योजना । ‘मे माता वन्ध्या’ इत्यादिके सर्वत्रापि अपरमार्थतः माता, परमार्थतः वन्ध्या इति समाधानस्य सुकर-त्वादिति भावः । तथा च ईदृशी व्याहतिग्रस्ता अन्यायवाक् सर्वाऽपि शुभैव स्यात् ।। १२११ ।।
युक्तिमल्लिका
किञ्चानश्नन्नितिपदमशनाभाववाचकम् ।
अश्नन्नित्यशनं वक्ति कथमेकत्र ते वद ।। १२१२ ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। किं चेति ।। ते अनशनाशने ।। १२१२ ।।
युक्तिमल्लिका
भावाभावविरोधस्य न चेच्छान्तिर्भविष्यति ।
ततश्च भावरूपं ते नैवाज्ञानं प्रसिद्ध्यति ।। १२१३ ।।
सुरोत्तमटीका
न चेत् अनशनाशने भिन्नभिन्नस्थले न चेत् । अस्तु भावाभावयोर्विरोध शान्तिः । तथापि मम का हानिरित्यत आह ।। ततश्चेति ।। ततः भावाभावविरोधाभावेन प्रतियोगिज्ञाने सत्येव ज्ञानाभावस्यापि वक्तुं शक्यत्वात् । ते मते ।। १२१३ ।।
सत्यप्रमोदटीका
एवं भावाभावविरोधस्यैवापलापे तव भावरूपाज्ञाना-सिद्धिरेव स्यादित्याह ततश्चेति । स्वप्रकाशेन चैतन्येन आध्यात्मिकसम्बन्धस्य विद्यमानत्वेऽपि ज्ञानाभावघटनाय खलु भावरूपमज्ञानमावरणं त्वयैष्टव्यम् । न च तदुक्तम् । इदानीं त्वदुक्तरीत्या ज्ञाने सत्यपि ज्ञानाभावस्य अन्यतरस्य मिथ्यात्वकल्पनेनैवोपपत्तौ अज्ञानरूपावरणकल्पनस्य क्वावकाश इति भावः
।। १२१३ ।।
युक्तिमल्लिका
अभावाज्ञानवादो हि भावाभावविरोधतः ।
निवार्यते त्वया तस्याभावेऽसौ केन वार्यते ।। १२१४ ।।
सुरोत्तमटीका
भावाभावविरोधतः प्रतियोगिज्ञानस्य तदभावस्य चैकत्र विरोधात् । तस्य भावाभावविरोधस्य भावरूपाज्ञानमते प्रतियोगिज्ञाने सत्येव भावरूपं तदज्ञानं वक्तुं शक्यते । भावयोर्विरोधाभावात् । अभावरूपमज्ञानं तु न वक्तुं शक्यम् । भावाभावयोरेकत्र विरोधादिति हि परस्य मतम् । तद्गतमिति भावः ।। १२१४ ।।
युक्तिमल्लिका
जगच्च ब्रह्मणि सदा सदेव स्यादखण्डितम् ।
तदभावाख्यबाधोऽपि स्यात्तयोरविरोधतः ।। १२१५ ।।
सुरोत्तमटीका
अनिष्टान्तरं चाह ।। जगच्चेति ।। तयोः जगद्भावा-भावयोः ।। १२१५ ।।
सत्यप्रमोदटीका
सदेव परमार्थतः । बाधोऽपि अपरमार्थतः ।।१२१५।।
युक्तिमल्लिका
भावाभावविरोधोऽतो वाच्यस्सर्वात्मना त्वया ।
अभावेन सह स्थित्या मिथ्यात्वाशाप्यतो गता ।। १२१६ ।।
सुरोत्तमटीका
अतः पूर्वोक्तबाधकद्वयात् । अभावेन सहस्थित्या स्वात्यन्ताभावसामानाधिकरण्येनेत्यर्थः । अतः भावाभावविरोधस्यावश्यकत्वात्
।। १२१६ ।।
सत्यप्रमोदटीका
भावाभावरूपत्वस्य तृतीयप्रकारस्यैवं सम्भवेन मिथ्यात्वरूपचतुर्थप्रकारोऽपि न सिद्ध्येदिति आह मिथ्यात्वेति ।। १२१६ ।।
युक्तिमल्लिका
विरोधेऽप्यविरोधेऽपि ततस्सा घटते न ते ।। १२१७ ।।
सुरोत्तमटीका
एवं च परस्योभयतः पाशारज्जुरेवेत्याह ।। विरोध इति ।। सा मिथ्यात्वाशा ।। १२१७ ।।
सत्यप्रमोदटीका
विरोधे अन्यतरत्वस्यैव अविरोधे उभयात्मकत्वस्य सम्भवेन, सा मिथ्यात्वाशा ।। १२१७ ।।
युक्तिमल्लिका
भावाभावविरोधे हि स्वोक्तमिथ्यात्ववाग्गता ।
स्वाभावेन सह स्थित्या यतो मिथ्यात्वमुच्यते ।। १२१८ ।।
सुरोत्तमटीका
कथमित्यत आह ।। भावाभावेति ।। कस्मान्मिथ्यात्व-वाग्गतेत्यत आह ।। स्वाभावेनेति।।ततो गतेति पूर्वेणान्वयः।।१२१८ ।।
सत्यप्रमोदटीका
विरोधे स्वात्यन्ताभावसमानाधिकरणत्वरूपमिथ्यात्व-लक्षणमेव व्यासज्यत इत्याह स्वोक्तेति ।। १२१८ ।।
युक्तिमल्लिका
अविरोधे जगत्सत्स्याद्भावाज्ञानं च भर्जितम् ।। १२१९ ।।
सुरोत्तमटीका
अविरोधेऽपि मिथ्यात्वाशागमनप्रकारमाह ।। अविरोध इति ।। जगदभावाख्याभावेऽपि जगतो भावसम्भवात् जगत्सत्स्यात् । अतोऽपि मिथ्यात्वाशा गतेति भावः । रज्ज्वन्तरं चाह ।। भावेति ।। १२१९ ।।
सत्यप्रमोदटीका
अविरोधे अत्यन्ताभावस्यापारमार्थिकत्वे मिथ्याभूत-मिथ्यात्वकत्वेन जगत् सत्स्यात् । भर्जितं प्रागुक्तदिशैव ।। १२१९ ।।
युक्तिमल्लिका
तथापि लोकतो भीत्या भावज्ञानरिरिक्षया ।
विरोध एव श्लाघ्यस्ते यो योग्यो बुधसंसदि ।। १२२० ।।
सुरोत्तमटीका
तथापि पक्षद्वये दोषप्रसङ्गेऽपि । विरोध एव भावाभाव-विरोध एव ।। १२२० ।।
सत्यप्रमोदटीका
तथाऽपि पक्षद्वयेऽपि त्वत् सिद्धान्तहानावपि । विरोधपक्ष एव श्लाघ्यः । तत्र हेतुद्वयं लोकत इति भावाज्ञानेति च । भावा-ज्ञानं खलु त्वन्मतजीवातुः । तदसम्भवे त्वन्मतमखिलमपाकृतं स्यादिति भावः ।। १२२० ।।
युक्तिमल्लिका
अतो धर्मद्वयस्यास्य भिद्येते धर्मिणावपि ।। १२२१ ।।
सुरोत्तमटीका
अतः भावाभावविरोधस्यैव श्लाघ्यत्वात् ।। १२२१ ।।
सत्यप्रमोदटीका
अतः विरोध्यङ्गीकारस्यावश्यकत्वात् । धर्मद्वयस्य अशनानशनरूपस्य । धर्मिणौ जीवपरमात्मानौ ।। १२२१ ।।
युक्तिमल्लिका
यथास्थितपदस्यार्थायोगेऽध्याहार इष्यते ।
जीवेशयोर्द्वयोस्सत्त्वादर्थो युक्ततरोऽभवत् ।
अतोऽध्याहार एवैष दोषाध्याहार एव ते ।। १२२२ ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। यथास्थितेति ।। १२२२ ।।
सत्यप्रमोदटीका
प्रमाणसिद्धघटनाय खलु अध्याहारः । त्वदुक्तस्तु तद्विघटनायैव जात इति दोष एवेत्याह यथास्थितेति ।। १२२२ ।।
युक्तिमल्लिका
यद्येवमपि ते प्रीतिरध्याहारे महीयसी ।
तदाध्याहर भावार्थपरमेकं हि लाघवात् ।। १२२३ ।।
सुरोत्तमटीका
लाघवात् एकस्य भावस्यैव चाध्याहारेण लघुत्वादित्यर्थः ।। १२२३ ।।
सत्यप्रमोदटीका
अपीत्यनेन अध्याहारपक्षं गर्हयति । बाधकाभावेन पारमार्थस्य स्वतःसिद्धेः । एकं पदं पारमार्थ्येनेति पदम् ।। १२२३ ।।
युक्तिमल्लिका
ततश्च पारमार्थ्येन तौ धर्मौ धर्मिणोर्द्वयोः ।
धर्मभूतौ तयोर्भेदं स्थिरीकुरुत एव हि ।। १२२४ ।।
सुरोत्तमटीका
तदेव पदं सूचयन्फलितमाह ।। ततश्चेति ।। ततः अध्याहारात् । अनेन पारमार्थ्येनेति पदस्याध्याहारस्सूचितो भवति । तौ धर्मौ अशनानशनरूपौ । तयोर्धर्मिणोः । उभयत्रापि पारमार्थ्येनेति पदाध्याहारे द्वयोरपि विरुद्धधर्मयोस्स्थिरत्वात् भेदस्यापि स्थैर्यमिति भावः ।। १२२४ ।।
सत्यप्रमोदटीका
स्थिरीकुरु भेदकधर्माणां पारमार्थ्यकथनेनेति भावः ।। १२२४ ।।
युक्तिमल्लिका
मुक्तोऽपि ब्रह्मणा साकं सर्वान्कामान्किलाश्नुते ।
पारमार्थ्यं च तदशने युक्तं नापरमार्थता ।। १२२५ ।।
सुरोत्तमटीका
अशने पराध्याहृतपदस्य दूषणान्तरं चाह ।। मुक्त इति ।। किलेत्यनेन सोश्नुते सर्वान्कामानिति श्रुतिं सूचयति । तत्तस्मात् अशनस्य मुक्तिकालीनत्वात् ।। १२२५ ।।
सत्यप्रमोदटीका
सोऽश्नुते इति मुक्तावपि अशनस्य श्रुतत्वात् तदपारमार्थ्यं अश्रौतं चेत्याह मुक्त इति ।। १२२५ ।।
युक्तिमल्लिका
अतो जीवेशयोर्भेदः श्रुत्यर्थस्सुतरामभूत् ।
श्रुतेः प्रच्यावनं तस्माच्छ्रुतप्रच्यावनं तव ।। १२२६ ।।
सुरोत्तमटीका
एवं चात्ता जीव एवाभूत् । न तु बुद्धिरित्याह ।। अत इति ।। अशनस्य मुक्तिकालीनत्वात् बुद्धेश्च परमते मुक्तावभावात् जीव एवात्तेति जीवेशयोरेवायं श्रुत्युक्तो भेदो न बुद्धिजीवयोरिति भावः । प्रच्यावनं जीवेशयोरन्यत्रापकर्षणम् । तस्माद्बुद्धेरत्तृत्वकथनात् । श्रुतप्रच्यावनं मोक्षपर-वेदान्तवाक्यश्रवणस्यैव प्रच्यावनम् ।। १२२६ ।।
सत्यप्रमोदटीका
अतः बुद्धिजीवपरिग्रहपक्षस्य दूषितत्वात् ।। आविद्यक बुद्धेर्मुक्तावभावात् । तत्परतयाऽर्थकथने श्रुतिप्रच्यावनं ततश्च तव श्रुतप्रच्यावनं वेदान्तश्रवणरहितेति व्यवस्थापकं च ।। १२२६ ।।
युक्तिमल्लिका
अतो यथाश्रुतश्रुत्या तवानर्थस्स्थिरोऽभवत् ।
अध्याहारे तु सोऽनर्थो ह्यनिवर्त्यो भवेत्तव ।। १२२७ ।।
कथं द्वितैकदैकत्र वृथेवमपि कल्पने ।
किमेकस्मिन्नपि घटे धर्मद्वित्वाद् द्वितोच्यते ।। १२२८ ।।
सुरोत्तमटीका
अतः यथाश्रुतस्यानर्थरूपत्वात् । अध्याहारेप्यनर्थोक्तेः ।। प्रबलं दोषान्तरं चाह ।। कथमिति ।। द्विता द्वाविति द्विवचनमित्यर्थः । एवं कल्पने पारमार्थ्यापारमार्थ्याभ्यां जीवस्यैवाशनानशने इति कल्पने । कुतो न घटत इत्यत आह ।। किमेकस्मिन्निति ।। रूपरसाख्य धर्मभेदेपि एकस्मिन्घटे द्वाविति प्रयोगादर्शनात् यथा कथं चित् जीवस्यैव ग्रहणे द्विवचनायोगात् । नहि दण्डकुण्डलभेदेप्येकस्मिन्नेव देवदत्ते द्वाविमौदण्डकुण्डलिनाविति प्रयोगोपि दृश्यत इति भावः ।। १२२७,१२२८ ।।
सत्यप्रमोदटीका
अपि च अस्तु कथञ्चिद्धर्मयोरेकत्र घटना । सर्वथा धर्मिणि द्वित्वानुपपत्तिरेवेत्याह किमिति ।। १२२७,१२२८ ।।
युक्तिमल्लिका
किन्तु रूपरसादीनां बहुत्वे द्वित्व एव च ।
रसवान्रूपवांश्चैको घट इत्यवकीर्त्यते ।। १२२९ ।।
सुरोत्तमटीका
कथं तर्हि प्रयोग इत्यत आह ।। किं त्विति ।।१२२९।।
सत्यप्रमोदटीका
अविरुद्धधर्माणामेकत्र वृत्तिरविरुद्धैवेत्याह रूपेति ।। १२२९ ।।
युक्तिमल्लिका
नचेत्सौन्दर्यधैर्याभ्यां भार्ये द्वे भवतस्तव ।
अतः पुनर्विवाहार्थमपुत्रस्य वृथा श्रमः ।। १२३० ।।
सुरोत्तमटीका
विपक्षे बाधकं वदन्परपक्षमपहसति ।। न चेदिति ।। नचेत् धर्माद्वित्वेप्येकस्यैकता नचेत् । द्वेभवतः एकैवभार्याद्वेभवत इत्यर्थः
।। १२३० ।।
सत्यप्रमोदटीका
अन्यथाऽतिप्रसङ्गोक्त्या परमपहसति न चेदिति ।। १२३० ।।
युक्तिमल्लिका
विद्यामयो नित्यमुक्तो वेदात्मानं किल प्रभुः ।
पिप्पलादं स्वतोऽन्यं स वेदाविद्यान्धचक्षुषम् ।। १२३१ ।।
सुरोत्तमटीका
आत्मानमन्यं च सवेदविद्वानपिप्पलादो न तु पिप्पलादः । योऽविद्ययांधस्सतुनित्यबद्धो विद्यामयोयस्सतुनित्यमुक्त इत्ये तच्छ्रुति समाख्या-रूपभागवतवचनाल्लब्धमर्थमाह ।। विद्यामय इत्यादिना ।। अत्ति अनश्नन्नित्य-नेनाविद्यामयत्वं बद्धत्वं जीवस्य विद्यामयत्वं नित्यमुक्तत्वं च भगवतस्सूचितम् । तदेव स्मृत्यास्पष्टीकृतमिति ज्ञातव्यम् । अनुमा जीवेशयोः पारमार्थिक-भेदानुमा । आगमानुगा अनुमतेति सम्बन्धः ।। १२३१ ।।
सत्यप्रमोदटीका
‘आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः ।
योऽविद्ययान्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः’
इति भागवतश्लोकं अर्थतः अनुवदति विद्यामय इति ।। १२३१ ।।
युक्तिमल्लिका
इति भागवतोक्तिस्सा यतो वक्ति ततोऽनुमा ।
विमतो जीवपरयोर्भेदोऽयं परमार्थसत् ।। १२३२ ।।
संसारोन्मुक्तचैतन्योल्लेख्यत्वान्मौक्तसौख्यवत् ।
इति जीवब्रह्मभेदं साधयत्यागमानुगा ।। १२३३ ।।
सत्यप्रमोदटीका
ततः उक्तितः लब्धा भेदपारमार्थसाधिका अनुमा आगमाऽनुगा आगमानुसारिणीति उत्तरेणान्वयः । उल्लेख्यत्वात् सम्बन्धि-त्वात् । मौक्तसौख्यवत् ‘श्रोत्रियस्य चाकामहतस्य’ इत्यत्र तारतम्येनोक्त-मौक्तानन्दवत् ।। १२३२, १२३३ ।।
युक्तिमल्लिका
तर्कं च कर्कशं सा वाग्वैलक्षण्यमलक्षयत् ।
यत्र त्वस्येतिवाक्यस्याप्यापातार्थमपाकरोत् ।। १२३४ ।।
सुरोत्तमटीका
वैलक्षण्यं अत्तृत्वानत्तृत्वाविद्यांधत्वविद्यामयत्व बद्धत्व-मुक्तत्वाख्य विरुद्धलक्षणभरित्वम् । आपातार्थं सर्वथाज्ञानशून्यत्वार्थः । आत्मानमन्यं च स वेदेति मुक्तस्य स्वपरज्ञानकथनात् । विज्ञातारमरे केन विजानीयादित्यादि श्रुतेः स्वपरज्ञानाभावो नार्थ इति सिद्धमिति भावः
।। १२३४ ।।
सत्यप्रमोदटीका
विपक्षे बाधकं विरुद्धलक्षणयोगित्वानुपपत्तिरूपं नित्यबद्धत्वनित्यमुक्तत्वादि विरुद्धलक्षणोक्त्या अलक्षयत् अज्ञापयत् । आपातार्थं स्वपरज्ञानाभावरूपम् । ‘आत्मानमन्यं च वेद’ इति निरूपणात् ।। १२३४ ।।
युक्तिमल्लिका
तस्माद्वित्वाख्ययुक्तेश्च भोगाभोगाख्ययुक्तितः ।
अन्यत्वश्रुतितश्चाभूदन्योन्याभाववागियम् ।। १२३५ ।।
सत्यप्रमोदटीका
अन्योन्याभाववाक् परमार्थतो भेदसाधिका वाक् । इयं द्वा सुपर्णेति श्रुतिः ।। १२३५ ।।
युक्तिमल्लिका
न केवलं स्थानबुद्धिभेदमात्रेण भिन्नता ।
किन्तु स्वरूपभेदोऽयमिति साधयितुं श्रुतिः ।
सखायौ सयुजौ चेति पदद्वयमुदाहरत् ।। १२३६ ।।
सुरोत्तमटीका
स्थानभेदेन मतिभेदेन वा जीवेश्वरयोर्भेदोक्तिरियमस्तु । स्वरूपभेदः किमर्थं वाच्य इति शङ्काया मत्यैक्यस्थानैक्यप्रतिपादकपदाभ्यां निवारितत्वात् स्वरूपभेदपरैवेयं श्रुतिरित्याह ।। न केवलमिति ।। १२३६ ।।
सत्यप्रमोदटीका
ननु यथा भवद्भिरैक्यवाक्यानि सादृश्यादैक्यपरतया योज्यन्ते तथाऽस्या अपि श्रुतेः स्थानभेदपरतया मतिभेदपरतया सावकाशनं स्यात् । न स्यात् । अत्रैव सयुजाविति स्थानभेदस्य सखायाविति मतिभेदस्य च प्रतिषेधादित्याह नेति ।। १२३६ ।।
युक्तिमल्लिका
तौ चेतनौ स्थिरीकर्तुं सुपर्णावित्यरूरुपत् ।
स्वतोभिकाशनोक्त्यात तत्रैकमकरोत्प्रभुम् ।। १२३७ ।।
सुरोत्तमटीका
सुपर्णपदस्य चेतनवाचकत्वात् बुद्धिजीवाविमाविति शङ्कापि श्रुत्यैव निराकृत्येत्याह ।। तौ चेतनाविति ।। घटपटयोर्भेद इव न जीवेश्वरयोर्भेदमात्रमत्राभिप्रेतं किं तु हरेः प्रभुत्वं चाभिप्रेतमित्याह ।। स्वत इति ।। अशनादिकमनपेक्ष्य स्वाभाविकसामर्थ्येनेत्यर्थः । उपलक्षणं चैतत् । समाख्यास्मृतौ विद्यामयत्वनित्यमुक्तत्वकथनाच्चेत्यपि द्रष्टव्यम् ।।१२३७ ।।
सत्यप्रमोदटीका
चेतनौ न बुद्धिजीवौ । स्वतः अभिकाशनेति दुःखानत्तृत्वं, विषयान्विनाऽपि पूर्णत्वं, स्ववशेनैवादनं, इत्याद्यर्थः तत्त्व-प्रदीपोदाहृतप्रमाणैरवसेयः ।। १२३७ ।।
युक्तिमल्लिका
यदिमौ द्वौ च संयोगात्सयुजाविति शब्दितौ ।
अतोऽन्ते यद्धि सायुज्यं तच्च योगात्मकं जगौ ।। १२३८ ।।
सुरोत्तमटीका
एकदेहे उभयोः प्रविष्टत्वेन सयुजाविति सायुज्यवाचक-पदप्रयोगात् मुक्तावपि सायुज्यमीदृशमेव न स्वरूपैक्यमिति लब्धमित्याह ।। यदिमाविति ।। योगात्मकं परस्परसंयोगात्मकम् ।। १२३८ ।।
सत्यप्रमोदटीका
मोक्षे सायुज्यशब्दस्यापार्थकत्वं वदन्तो रामानुजीया अपि अनेनैव निरस्ता इत्याह संयोगादिति सह युज्येते इति व्युत्पत्त्येति भावः । तदुक्तं ‘आदत्ते हरिहस्तेन, हरिदृष्ट्यैव पश्यति’ इत्यादि भाष्ये ।। १२३८ ।।
युक्तिमल्लिका
अतश्शङ्का पिशाचीः सा श्रुतिरेव न्यवारयत् ।। १२३९ ।।
सुरोत्तमटीका
अतः समाख्यासमेतत्वात् हेतुगर्भविशेषणभरितत्वाच्च । शङ्कापिशाचीः मुक्तौ ज्ञानाभावव्यावहारिकभेदपरत्वादिशङ्कापिशाचीः
।। १२३९ ।।
युक्तिमल्लिका
एकं भाविभवच्चैकमित्याशां हन्ति लड्द्वयम् ।
मुक्तस्याप्यवृतोक्तेश्च नैराश्यं परमं सुखम् ।। १२४० ।।
सुरोत्तमटीका
एकं अनशनं भावि । एकं अशनं च भवद्वर्तमानम् । लड्द्वयं अनश्नन्निति शत्रंतपदस्यापि लडर्थत्वात् लड्द्वयमित्युक्तम् । सोश्नुत इति मुक्तस्याप्यत्तृतोक्तेश्च एकं वर्तमानमित्याशा निरस्ता । तेन परस्य शङ्कामात्रस्यानवकाशान्नैराश्यमेव सुखम् । नैराश्यं परमं सुखमिति भागवत-वाक्यमपि मायिनां परिहासार्थमेव प्रवृत्तमिति ध्वनिं सूचयितुं तदेव वाक्य-मुदाहृतम्
।।१२४० ।।
सत्यप्रमोदटीका
एकं अनशनम् । भावि मुक्तिकालीनम् । एकं अशनं भवत् संसारकालीनम् । लड्द्वयं अत्ति अनश्नन् इति । मुक्तस्यापि ‘सोऽश्नुते सर्वान् कामान्’ इति श्रुतौ कथितस्य । नैराश्यं स्वमतसमर्थनाशापरित्यागः । ‘नैराश्यं परमं सुखमिति पिङ्गलया । शिक्षितस्य भागवतोक्तस्य धर्मस्य तव परिहारार्थमेव प्रवृत्तिरिति ध्वनिः ।। १२४० ।।
युक्तिमल्लिका
स्याद्रक्तिमेति श्यामत्वदशायामपि किं घटः ।
रक्त इत्युच्यते सद्भिस्ततोऽप्येतदपार्थकम् ।। १२४१ ।।
सुरोत्तमटीका
भाव्यनशनमपेक्ष्येदानीमनश्नन्निति प्रयोगो नोचित इत्यत्र दृष्टान्तमाह ।। स्यादिति ।। १२४१ ।।
सत्यप्रमोदटीका
भाविनिवर्तमानत्वप्रयोगं निदर्शनेन खण्डयति स्यादिति ।। १२४१ ।।
युक्तिमल्लिका
किञ्चैक्यवाक्यवाक्यस्य वृथैवं क्लिष्टकल्पना ।
ऋजोर्यथा श्रुतार्थस्य त्यागे हेतोरभावतः ।। १२४२ ।।
सुरोत्तमटीका
अपि चास्य वाक्यस्य बुद्धिजीवविषयत्वकल्पनमवस्था-भेदेन जीवमात्रविषयत्वकल्पनं च प्रकारद्वयेनापि मायावादिनां व्यर्थमित्याह ।। किं चेति ।। ऐक्यवाक्यस्य प्राबल्ये साक्षाज्जीवेश्वरभेदपरत्वेऽप्यस्याश्श्रुतेर्बाधितुं शक्यत्वात् क्लिष्टकल्पना व्यर्था ।। १२४२ ।।
सत्यप्रमोदटीका
ऐक्यवाक्यं प्रबलमस्ति न वा । उभयथाऽपि अस्य वाक्यस्य बुद्धिजीवपरत्वेन अवस्थाभेदपरत्वेन वा क्लिष्टकल्पना न युक्तेत्याह किञ्चेति । बाधसम्भवात् न हि प्रमाणबाधितस्याग्न्यनुष्णत्वस्योपपत्तये उपपादकं क्लेशेन क्लप्यत इति भावः
।। १२४२ ।।
युक्तिमल्लिका
दौर्बल्ये चैक्यवाक्यस्य वृथैवं क्लिष्टकल्पना ।
ऋजोर्यथा श्रुतार्थस्य त्यागे हेतोरभावतः ।। १२४३ ।।
सुरोत्तमटीका
ऐक्यश्रुतेर्दौर्बल्ये बाधकाभावेन यथा श्रुतार्थस्यैवाङ्गीकर्तुं शक्यत्वात् क्लिष्टकल्पनावैयर्थ्यमेवेति भावः ।। १२४३ ।।
सत्यप्रमोदटीका
हेतोरभावत इति बाधकाभावे उत्सर्गतः सिद्धस्य त्यागायोगादेवेति भावः ।। १२४३ ।।
युक्तिमल्लिका
व्यावहारिकभेदं ते का वा वक्ति श्रुतिस्तयोः ।
वाक्यस्यास्य कुसृष्ट्यैवमन्यथाकरणे वद ।। १२४४ ।।
सुरोत्तमटीका
क्लिष्टकल्पनायां बाधकान्तरं चाह ।। व्यावहारिकेति ।। तयोर्जीवपरमयोः । अस्याश्श्रुतेर्बुद्धिजीवपरत्वे यथाकथंचिज्जीवमात्रपरत्वे चाङ्गीकृते स्वग्रन्थेऽस्याश्श्रुतेर्व्यावहारिकजीवेश्वरभेदपरत्वाङ्गीकारविरोधश्चेति भावः ।। १२४४ ।।
सत्यप्रमोदटीका
सिध्यतु भेदः । किन्तु स व्यावहारिक इति चेत् स किं सत्यो मिथ्या वा । आद्ये अनुज्ञया वर्तामहे । व्यावहारिकत्वविशेषणं व्यर्थं च । न द्वितीयः निर्मूलत्वात्कल्पनाया इत्याह का वेति ।। १२४४ ।।
युक्तिमल्लिका
सिद्धभेदानुवादश्च कस्मिन्वाक्ये प्रकथ्यते ।
भेदोपास्तेश्च किं मूलमतश्चायं वृथा श्रमः ।। १२४५ ।।
सुरोत्तमटीका
पुनरपि विरोधद्वयमाह ।। सिद्धेति ।। वादाभावेऽनु-वादायोगात् श्रुतौ सर्वथा जीवेश्वरभेदाकथने उपासनार्थं भेदोक्तिरिति परिहारा-योगाच्चेति भावः ।। १२४५ ।।
सत्यप्रमोदटीका
अनुवाद एवायं भेदस्येति चेत् स किं श्रुतिसिद्धस्य अथ प्रमाणान्तरेण । नाद्यः ‘तद्धैक आहुः’ इत्यत्रेव अनुवादलिङ्गाभावा-दित्याह कस्मिन्निति । सर्वथा श्रुत्यसिद्धत्वे उपायनार्थत्वगतिकथनायोगादिति आह भेदेति । प्रमाणान्तरसिद्धत्वे च तद्विरोधादेवाप्रामाण्यमभेदागमस्य । तेन च तस्या प्रामाण्याभावे नानुवादकत्वं भेदवाक्यानां’ इत्यादि तत्त्वनिर्णयोक्त-दोषापातात् ।। १२४५ ।।
युक्तिमल्लिका
परप्रयोजनार्थं हि परमात्मा प्रवर्तते ।
सुरां सुधां च दुस्साध्यां किं संसाध्य स्वयं पपौ ।
असुरांश्च सुरांश्चैव यथायोग्यमपाययत् ।। १२४६ ।।
सुरोत्तमटीका
अमृतमथनकथया च भगवत एवानशनं जीवदेहेष्वा-विष्टतया पृथगेव वर्तनं च सम्भावितमित्याह ।। परप्रयोजनेति।।१२४६ ।।
सत्यप्रमोदटीका
परमात्मनः सर्वत्र प्रवृत्तिः आनन्दोद्रेकेण परप्रयोज-नार्था, ‘पूर्णानन्दस्य तस्येह प्रयोजनमति; कुतः’ इति भाष्योक्तं पुराणसंवादेन द्रढयति सुरां सुधां चेति । एतेनाशनानशने सुरां सुधां चेति । एतेनाशना-नशने श्रुत्युक्ते समर्थिते ।। १२४६ ।।
युक्तिमल्लिका
स हि सर्वं जगदिदं व्याप्य नारायणः स्थितः ।
तत्रैव देवदैत्यादिष्वावेशस्य प्रकीर्तनात् ।। १२४७ ।।
सोऽनश्नन्देहिनां देहेऽप्यश्चंश्चान्यस्तथैव हि ।
प्रेरकप्रेर्यरूपौ तौ कथं न द्वौ तनौ तनौ ।। १२४८ ।।
सुरोत्तमटीका
तत्रैव अमृतमथन एव । तथाऽसुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । ‘उद्दीपयन्देवगणांश्च विष्णुर्दैवेन नागेन्द्रमथा-परेणेति’ श्लोकेन कीर्तनात्, व्याप्य नारायणस्स्थित इति सम्बन्धः । अन्त-र्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित इति श्रुतिं च सूचियितुमेवं साध्यनिर्देशः ।। १२४७,१२४८ ।।
सत्यप्रमोदटीका
तत्रैव मथनसमय एव । आवेशस्येति ‘तेषां बल-वीर्यमीरयन् । उद्दीपयन्देवगणांश्च विष्णुरिति कीर्तनात् । एतेन समानं वृक्षमिति श्रुत्युक्तस्य संवाद उक्तः ।। १२४७, १२४८ ।।
युक्तिमल्लिका
ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ।। १२४९ ।।
सुरोत्तमटीका
गीतावाक्येनापि हरेर्देहिदेहेषु स्थितिं दुःखाशनहेतुभूत-कर्माभावेन कर्मफलस्पृहाभावेन अनशनं च सम्भावयति ।। ईश्वर इत्यादिना ।। १२४९ ।।
सत्यप्रमोदटीका
श्रुत्युक्तार्थे गीतावाक्यं संवादयति ईश्वर इति ।। १२४९ ।।
युक्तिमल्लिका
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति गीतासु हरिणा गीतां गाथामनुस्मर ।। १२५० ।।
सत्यप्रमोदटीका
अनश्नन्नित्युक्तशुभाशुभलेपाभावे गीतां प्रमाणयति न मामिति ।। १२५० ।।
युक्तिमल्लिका
अन्ते संहृत्य योऽनेकान्विप्रर्षिविबुधादिकान् ।
न लिप्यते पापकेन कनीयान्न स कर्मणा ।। १२५१ ।।
सुरोत्तमटीका
हरेर्दुःखमूलपापलेपाभावे युक्तिं वदन् श्रुतेश्च सूचनाय श्रौतपदेन फलितमाह ।। अन्त इति ।। अनेन न कर्मणा लिप्यते पापकेन न कर्मणा वर्धते नो कनीयानिति श्रुतिद्वयं सूचयति ।। १२५१ ।।
सत्यप्रमोदटीका
अन्ते प्रलये । न लिप्यते । हत्वा स इमांल्लोकान् न हन्ति न निबध्यते इति गीतोक्तेः । कनीयान्नेत्यनेन न कर्मणा वर्धते नो कनीयान्’ इति श्रुतेः ।। १२५१ ।।
युक्तिमल्लिका
यो सक्तस्सन्विविक्तश्च साक्षी किल नृणां हृदि ।
स पापमूलदुःखानि नैव भुंक्त इति स्मृतेः ।। १२५२ ।।
सुरोत्तमटीका
उक्तार्थे स्मृतिं च सूचयति ।। यो सक्त इति ।। अनेन द्रष्टुर्नदृश्यस्य गुणैर्विषज्यते तस्मै नमो सक्तविविक्तसाक्षिणे इति भागवतवाक्यं गृह्णाति । उत्तरार्धेन च न वै स आत्मात्मवतामधीश्वरोभुङ्क्ते हि दुःखं भगवा-न्वासुदेव इति वाक्यं गृह्णाति । स्मृतेः गीताभागवतरूपस्मृतेः ।। १२५२ ।।
सत्यप्रमोदटीका
‘योऽसक्तः सन्’ इत्यनेन ‘नमोऽसक्तविविक्त-साक्षिणे’ इति भागवते वाक्यं, नैव भुंक्ते’ इत्यनेन न वै स आत्माऽऽत्मवतां महेश्वरो भुंक्ते हि दुःखं इति वाक्यं च सूचयति ।। १२५२ ।।
युक्तिमल्लिका
श्रुतेश्च युक्तितश्चेशस्सिद्धो विद्वज्जनप्रियः ।
यश्च स्वकृतपापौघैर्नरकाननुगच्छति ।। १२५३ ।।
आधिना व्याधिना देहेऽप्यनीशः क्लेशभाक्सदा ।
उभावश्नदनश्नन्तौ कथं नेमौ तनौ तनौ ।। १२५४ ।।
सुरोत्तमटीका
श्रुतेः प्राक्सूचितायाः । युक्तितः प्रागुक्तयुक्तेः । सिद्धः अनश्नन् सिद्धः । श्रुतिस्मृत्युक्तजीवस्वभावदर्शने सति अत्ता च जीव एवेत्याह ।। यश्चेति ।। इमौ जीवपरमौ ।। १२५३, १२५४ ।।
सत्यप्रमोदटीका
नित्याऽतादृशस्तु जीवाख्यपक्षी इत्याह य श्चेति । आधिव्याधीति च ।। १२५३, १२५४ ।।
युक्तिमल्लिका
उद्गते सति जीवाख्यचैतन्यांशे कलेवरात् ।
देहव्यापि तदाऽप्यन्यचैतन्य किल ते मते ।। १२५५ ।।
सुरोत्तमटीका
पररीत्यापि जीवदेहे चैतन्यद्वयं साधयति ।। उद्गत इति ।। १२५५ ।।
सत्यप्रमोदटीका
परप्रक्रिययैव प्रतिदेहं चैतन्यद्वयसिद्धिप्रकारं दर्शयति उद्वते इत्यादिभ्याम् । चैतन्यांशे बुद्ध्युपाधिके ।। १२५५ ।।
युक्तिमल्लिका
न चेदनारोपितोऽसौ देहस्स्यात्पतितो भुवि ।
नाधिष्ठानं विनाऽध्यासो न चैतन्यं विना च तत् ।। १२५६ ।।
सुरोत्तमटीका
न चेत् चैतन्यांशो न चेत् । तदधिष्ठानम् ।। १२५६ ।।
सत्यप्रमोदटीका
न चेत् उत्क्रमणानन्तरं ब्रह्मचैतन्यमधिष्ठानभूतं देहे नास्ति चेत् । पतितः स्वरूपेण अत्यन्ताभावप्रतियोगी । अधिष्ठानाभावे मृतकलेवरस्याप्यवस्थानायोगादिति ध्येयम् । नाधिष्ठानमिति । शून्यवादे इव मायावादे निरधिष्ठानकभ्रमानङ्गीकारात्
।। १२५६ ।।
युक्तिमल्लिका
एवं चाश्नदनश्नन्तो चिदंशौ द्वौ यतो बलात् ।
तच्छ्रुतिस्तत्परैवास्तु किमर्था क्लिष्टकल्पना ।। १२५७ ।।
सुरोत्तमटीका
तत्तस्मात् अश्नदश्ननतोश्चिदंशयोरावश्यकत्वात् ।। १२५७ ।।
सत्यप्रमोदटीका
तत् चैतन्यम् । अन्यस्य मिथ्यात्वेन अधिष्ठानत्वा-योगात् ।। १२५७ ।।
युक्तिमल्लिका
श्रावयन्ती भिदां तस्य व्यावहारिकतादिकम् ।
कपोलक्लृप्तमश्रौतधिक्कृत्यैव श्रुतिर्द्वयोः ।। १२५८ ।।
सायुज्यसख्या सादृश्यस्वातन्त्र्यादिविशेषणैः ।
उपसर्गेण च व्याप्तिं प्रबोध्यैक्यगिरां गतिम् ।। १२५९ ।।
सगुणत्वं च संसाध्य लिटा मिथ्याश्रुतेर्गतिम् ।
लटा तद्बाधकं चोक्त्वा माध्वराद्धान्तमुद्दधे ।। १२६० ।।
सुरोत्तमटीका
एवं जीवेशयोरेवैतच्छ्रुतिप्रतिपाद्यत्वं संसाध्य श्रौतपद-महिम्ना इयमेव श्रुतिस्सकलमाध्वराद्धान्तरहस्यसाधिकेत्याह ।। श्रावयन्तीति ।। द्वयो र्जीवेशयोर्भिदामिति सम्बन्धः । तस्याः भिदायाः । आदिपदेनौपाधि-कत्वादिकं गृह्यते । कपोलक्लृप्तं स्वकपोलक्लृप्तम् । अश्रौतं श्रुतौ कुत्राप्यनु-दितम् । इदं च धिक्कारे हेतुगर्भं विशेषणद्वयम् । जीवेश्वरभेदव्यावहारि-कत्वादेश्श्रुतौ कुत्राप्यप्रतिपादितत्वात् केवलं स्वकपोलकल्पनामात्रस्य विदुषां संसदि उपन्यासानर्हत्वादिति भावः । विशेषणैः सयुजौ सखायौ समानं वृक्षं परिषस्वजाते । अनश्नन्नन्यो अभिचाकशीतीति विशेषणैः । क्रियापदस्यापि विशेष्य गुणप्रतिपादकत्वेन विशिनष्टि विशेष्यमिति व्युत्पत्त्या विशेषणत्व-मस्त्येवेति भावः । सायुज्यसख्यसादृश्यस्वातन्त्र्यादि प्रबोध्येति सम्बन्धः । आदिपदेन नित्यमुक्तत्वादिकं गृह्यते । अभितस्सर्वत इति व्युत्पत्त्या व्याप्त्यर्थकाभीत्युपसर्गेण व्याप्तिं च प्रबोध्य ऐक्यगिरां गतिं भगवतस्सगुणत्वं च संसाध्य । ऐक्यवाक्यानां स्थानैक्यमत्यैक्यसादृश्यैक्यव्याप्त्यैक्यपरत्वाख्यगतेः श्रौतपदमहिम्ना प्रदर्शितत्वात् सकलजीवदेहगतत्वसखित्वादिभगवद्गुणानामपि प्रदर्शितत्वादिति भावः । लिटा सस्वजाते इति देहालिङ्गनस्यातीतत्व प्रतिपादकलिटा । मिथ्याश्रुतेः मिथ्यात्वप्रतिपादकश्रुतेः । गतिं अनित्यत्वेनैव मिथ्यात्वोक्तिरिति गतिम् । लटा अत्ति अनश्नन्निति अशनादीनां वर्तमानत्व प्रतिपादकलटा । तद्वाधकं त्रिकालासत्त्वरूपमिथ्यात्वबाधकं माध्वराद्धान्तं उद्दधे । उक्तविधया भेदजगत्सत्यत्वसगुणत्वानां साधनात् अभेदमिथ्यात्व-निर्गुणत्वानां बाधनाच्च इयमेकैव श्रुतिः सकलमध्वमतरहस्यसाधिकेति भावः ।। १२५८-१२६० ।।
सत्यप्रमोदटीका
एतस्याः श्रुतेः सकलसिद्धान्तप्रमेयसाधकत्वप्रकारं विविनक्ति त्रिभिः श्रावयन्तीत्यादिना । द्वौ, अन्यः, अन्यः इत्यादिशब्दैः ।। धिक्कृत्य मोक्षेऽपि सहभावादिभेदकधर्मकथनेन । विशेषणैः सयुजौ, सखायौ, अनश्नन्, इत्यादिभिः । सायुज्यसख्यसादृश्यस्वातन्त्र्यादि इति द्वितीयान्तम् । प्रबोध्य इत्यनेनान्वयः । उपसर्गेण अभीत्यनेन, व्याप्तिं च प्रबोध्य प्रतिपाद्य यद्वा स्वातन्त्र्यादिविशेषणैः इत्येकं पदम् । व्याप्तिं गुणतो व्याप्तिं प्रबोध्ये-त्यर्थः । ऐक्यगिरां गतिं सादृश्यैक्येत्यादिकं संसाध्य । लिटा सस्वजाते इत्यत्र प्रत्ययेन मिथ्याश्रुतेर्गतिं ‘असदि चेत्र धर्मान्तरेण वाक्यशेषादि’ति सूत्रोक्तां गतिम् । लटा अनश्नन्, अत्ति इत्यत्रत्येन तद्वाधकं स्वरूपेण निषेध-रूपमिथ्यात्वबाधकं उक्त्वा । उद्दधे समर्थयामास
।। १२५८-१२६० ।।
युक्तिमल्लिका
व्यावहारिकभेदस्य साधिका भेदवाग्यदि ।
तवैक्यवाक्यं किं न स्यात्तादृगर्थपरं तदा ।। १२६१ ।।
सुरोत्तमटीका
स्वकपोलकल्पनामात्रमूलत्वेन परिहृतामपि श्रुते-र्व्यावहारिकभेदपरत्वशङ्कां ऐक्यप्रतिबन्द्या च परिहरति ।। व्यावहारिकेति ।। तादृगर्थपरं व्यावहारिकैक्य परम् ।। १२६१ ।।
सत्यप्रमोदटीका
तादृगर्थपरं व्यावहारिकैक्यपरम् । तदा तद्बोधक-पदाभावेऽपि तथाभावकल्पने ।। १२६१ ।।
युक्तिमल्लिका
न चेत्प्रत्यक्षसाहित्यबाधाभ्यां किं विधीयताम् ।
मृतस्य प्रेतकर्म स्याज्जीवतस्तु कथं वद ।। १२६२ ।।
सुरोत्तमटीका
ऐक्यस्यैव व्यावहारिकत्वमुचितमित्याह ।। न चेदिति ।। न चेत् ऐक्यस्यैव व्यावहारिकत्वं न चेत् । प्रत्यक्षस्य साहित्यं बाधश्च ताभ्यां प्रत्यक्ष बाधादैक्यस्यैव व्यावहारिकत्वमुचितं न तु भेदस्य । तस्य श्रुति-प्रत्यक्षाख्य प्रमाणद्वयसिद्धस्य पारमार्थ्यमेवोचितमिति भावः । तत्र दृष्टान्त-माह ।। मृतस्येति ।। प्रत्यक्षबाधितत्वादैक्यं मृतं तत्साधितत्वाद्भेदो जीवन्निति भावः ।। १२६२ ।।
सत्यप्रमोदटीका
प्रत्यक्षं ‘नाहं निर्दुःखः’ इत्यादि साक्षिप्रत्यक्षं, साहित्यं मोक्षेऽपि ‘सहाश्नुते’, ‘उपसङ्क्रम्य’ इति श्रुत्युक्तं भेदकधर्मानुमानं, एताभ्यां निर्दोषश्रुतिसाक्षिभ्यां यौ बाधौ ताभ्यां किं विधीयतां कस्य प्रतिषेध उच्यताम् । मृतस्य अप्रामाणिकस्य ऐक्यस्यैव प्रेतकर्म बाधः । जीवतः सकलप्रमाणप्रमितस्य बाधानर्हस्य । तथा च उपेत्य ऐक्यप्रतिबन्दी प्रागुक्ता । वस्तुतस्तु ऐक्यस्यैव व्यावहारिकत्वेन त्वदभिमतबाधो युक्त इत्युक्तं भवति ।। १२६२ ।।
युक्तिमल्लिका
यदि ब्रह्मप्रमामात्रबाध्यो भेदस्ततः पुरा ।
व्यवहारपदं प्राप्तो व्यावहारिक इष्यते ।। १२६३ ।।
तर्हि नाहं सर्ववेत्ता न सर्वेशोऽहमित्यपि ।
प्रत्यक्षबाधादधुना स्यादैक्यं प्रातिभासिकम् ।। १२६४ ।।
सुरोत्तमटीका
ननु भेदस्य ब्रह्मप्रमान्याबाध्यत्वे सति ब्रह्मप्रमैक-बाध्यत्वाद्व्यावहारिकत्वमुचितम् । ऐक्यस्य तु ब्रह्मप्रमायामप्यबाध्यस्य कथं व्यावहारिकत्वमिति चेत् । न । ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिमिति’ श्रुतौ कर्तृतया ईशतया च ब्रह्मणो दर्शनोक्तेः कार्यभूतादनी-शाच्च जीवाद्ब्रह्मणि भेदस्यैव प्रतीयमानत्वेन तस्य बाधाभावात् । प्रत्युत एतादृशदर्शने ऐक्यस्यैव बाधदर्शनाच्च । पररीत्यैव दूषणान्तरं चाह ।। यदीति ।। अधुना संसारदशायाम् ।। १२६३,१२६४ ।।
सत्यप्रमोदटीका
ननु ब्रह्मप्रमाबाध्यो भेदः अतो व्यावहारिकः । ऐक्यं तु न तथेति चेत् न । ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयेनिं’ ‘तमेवं विद्वानमृत इह भवति’ इत्यादिमोक्षहेतुब्रह्मप्रमापकैर्वाक्यैः कर्तृत्वेशत्वब्रह्मयोनित्वादिना भेदस्यैव श्रावणाद्विरुद्धो हेतुरिति दोषे सत्येव दोषान्तरमाह यदीति । प्रत्यक्षेति ब्रह्मप्रमान्येति भावः ।। १२६३,१२६४ ।।
युक्तिमल्लिका
ब्रह्मप्रमाऽन्यबाध्यं यत्तद्धिते प्रातिभासिकम् ।
नचेद्रज्जुभुजङ्गाद्यं कथं स्यात्प्रातिभासिकम् ।। १२६५ ।।
रज्जुप्रत्यक्षवद्भेदप्रत्यक्षं किं न बाधकम् ।। १२६६ ।।
सुरोत्तमटीका
ननु संसारदशायामेव बाध्यत्वेऽप्यैक्यस्य कुतः प्राति-भासिकत्वमित्यत आह ।। ब्रह्मप्रमान्येति ।। ते मते एतदेव विपक्षेबाधक-प्रदर्शनेनोपपादयति ।। न चेदिति ।। भेदप्रत्यक्षस्याबाधकत्वशङ्कामपि प्रतिबन्द्यैव परिहरति ।। रज्ज्विति ।।१२६५, १२६६ ।।
सत्यप्रमोदटीका
ब्रह्मप्रमाऽन्येन बाध्यत्वं प्रातिभासिकत्वं इति परपरि-भाषा । अत एव रज्जुभुजङ्गादिकं प्रातिभासिकं तेनोच्यते । ‘नायं सर्पः किन्तु रज्जुरि’ति प्रत्यक्षं निर्दोषत्वाद्यथा बाधकं तथैव नाहं निर्दुःख ईश्वरः किन्तु दुःखी जीव एवेति साक्षिप्रत्यक्षं नित्यनिर्दोषत्वाद्बाधकमेवेत्याह किं न बाधकमिति ।। १२६५,१२६६ ।।
युक्तिमल्लिका
अतो वृश्चिकतो भीत्या पलायनपरस्य ते ।
महोरगबिले स्थूले पातो जातो विचारय ।
यद्भेदसाम्यतो भीतस्यासीदैक्येति नीचता ।। १२६७ ।।
सुरोत्तमटीका
एवं च वृश्चिकभयात्पलायमानस्याशीविषमुखे निपात इति लौकिकाभाणकं त्वमेवानुकरोषीत्याह ।। अत इति ।। भेदैक्ययोस्साम्या-द्भीतस्य परस्य स्वाभिमतैक्ये प्रातिभासिकत्वाख्यातिनीचदशाप्राप्तेरित्यर्थः ।। १२६७ ।।
सत्यप्रमोदटीका
ततोऽपहसनीयाभाणकविषयता परस्यापतितेत्याह वृश्चिकेति । यत् यस्मात्कारणात् साम्यतः भेदस्यापि पारमार्थिकत्वे ऐक्य-साम्यं आपद्यते इति असहनतया तस्य व्यावहारिकत्वसाधने प्रवर्तमानस्य ऐक्ये स्वसिषाधयिषित एव अतिनीचता भेदापेक्षया अतिनीचता प्रातिभासिकता आपतिता । अतः साधूक्तं भागवते ‘महदवज्ञा कार्त्स्येनात्मन एव प्रतिफलति’ इति ।। १२६७ ।।
युक्तिमल्लिका
व्यावहारिकमानं हि प्रातिभासिकमानतः ।
बलवत्ते मते तस्मादैक्यं स्याद्धि बहिष्कृतम् ।। १२६८ ।।
सुरोत्तमटीका
एवं च व्यावहारिकभेदपरात् भेदप्रमाणात् प्रातिभासि-कार्थकं तवैक्य प्रमाणमेव दुर्बलमासीदित्याह ।। व्यावहारिकेति।।१२६८ ।।
सत्यप्रमोदटीका
निष्प्रमाणकं सत्त्रैविध्यं तत्र च अवान्तर-बलाबल-कल्पनस्य अयं अनर्थविपाक इत्याह व्यावहारिकेति ।। १२६८ ।।
युक्तिमल्लिका
व्यावहारिकतायां च बाधाभावो यदीष्यते ।
सिद्धं समीहितं तर्हि न चेदतिविगर्हितम् ।। १२६९ ।।
अतत्वावेदकत्वाप्त्या यच्छ्रुतेर्मानता गता ।
इदं च बौद्धराद्धान्तवार्धिमध्यप्रवेशनम् ।। १२७० ।।
सुरोत्तमटीका
व्यावहारिकत्वपक्षे दोषान्तरं चाह ।। व्यावहारिक-तायामिति ।। न चेत् बाधाभावो न चेत् अतिविगर्हितं तव मतमासीदित्यर्थः ।। कथमित्यत आह ।। अतत्वेति ।। यत् यस्मात् । इदं श्रुतेरमानत्वप्रापणम् ।। १२६९, १२७० ।।
सत्यप्रमोदटीका
किञ्च व्यावहारिकं नाम तत्त्वमेव चेत् व्यर्थं तेन सत्यविशेषणम् । न हि कश्चिल्लौकिको वैदिको वा भेदस्य व्यावहारिकतां नाभ्युपैति । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । अतत्त्वं चेत् अतिविगर्हितं अवैदिकं मायामतं आपन्नम् । श्रुतेरप्रामाण्यापातात् । तदुक्तं वादावल्यां ‘अतत्वावेदकं प्रमाणं चेद्व्याघातः’ इति । बौद्धेति तदुक्तं वार्तिके ‘सत्यं चेत् संवृतिः केयं मृदा चेत्सत्यता कथम् । वञ्चनार्थमुपन्यासः’ इति ।। १२६९, १२७० ।।
युक्तिमल्लिका
उभयोर्मानतासिद्ध्यै यो यतेत स वैदिकः ।
अतो मुख्यामुख्यवृत्त्या वयं गुप्त्यै यतेमहि ।
न चेद्वेदघ्न एवासौ गवोरेकघ्नगोघ्नवत् ।। १२७१ ।।
सुरोत्तमटीका
उभयोर्वैदिकवाक्ययोः । गुप्त्यै वाक्यद्वयरक्षणाय । न चेत् वाक्यद्वयरक्षको न चेत् । गवोः गोद्वयस्य मध्ये ।। १२७१ ।।
सत्यप्रमोदटीका
वैदिकः वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति वचनात् । गोघ्नवत् इति व्यक्तमेतद्गुणसौरभे ।। १२७१,१२७२ ।।
युक्तिमल्लिका
यद्यमानत्वमेकस्या वक्तुं युक्तं श्रुतावपि ।
तर्हि मीमांसकाचार्याः पुर्याः कार्यास्त्वया बहिः ।। १२७२ ।।
सुरोत्तमटीका
श्रुत्योः परस्परविरोधे एकस्या अप्रामाण्यं वदतो दोषान्तरं चाह ।। यदीति ।। तर्ह्यविरुद्धार्थकथनरूपमीमांसावैयर्थ्यमिति भावः
।। १२७२ ।।
युक्तिमल्लिका
पौरुषेयेषु पुरुषविप्रलिप्सादिकारणात् ।
युक्ता द्विविधता बुद्धाद्युक्ताविव न सा श्रुतौ ।। १२७३ ।।
सुरोत्तमटीका
पुराणयोर्मिथो विरोधे एकाप्रामाण्यवदिदमपि कुतो न स्यादित्यत आह ।। पौरुषेयेष्विति ।। आदिपदेन भ्रमप्रमादादिकं गृह्यते । सा द्विविधता ।। १२७३ ।।
सत्यप्रमोदटीका
‘इतराविरुद्धानि प्रलम्भभ्रमजान्यपि’ इति स्मृत्युक्त-माह पौरुषेयेषु इति ।। १२७३ ।।
युक्तिमल्लिका
विप्रलिप्सा प्रमादश्च भ्रमश्च स्याद्धि पुंसु यत् ।
अपौरुषेयवचने मुख्यामुख्यार्थतैव तत् ।। १२७४ ।।
सुरोत्तमटीका
तदेवोपपादयति ।। विप्रलिप्सेति ।। यत् यस्मात् । तत् पुरुषाभावात् ।। १२७४ ।।
सत्यप्रमोदटीका
तत् निर्दोषत्वेन सर्वथाऽप्रामाण्यस्याशक्यत्वात् ।। १२७४ ।।
युक्तिमल्लिका
किञ्च त्वच्छ्रुतिबाधात्सा व्यावहारिकवाग्भवेत् ।
अपौरुषेयवचने मुख्यामुख्यार्थतैव तत् ।। १२७५ ।।
सुरोत्तमटीका
ऐक्यश्रुतिबाधात् भेदश्रुतेर्बाधितार्थत्वमिति चेत् तर्ह्य-न्योन्याश्रय इत्याह ।। किं चेति ।। सा भेदश्रुतिः । सा व्यावहारिकवाक् बाधितार्थकवाक्वेत् । तच्छ्रुतिः त्वदभिमता श्रुतिः तव श्रुतिः तवापेक्षितैक्य श्रुतिः प्राबल्येन बाधकत्वसिद्धौ भेदश्रुतेर्व्यावहारिकार्थपरत्वसिद्धिः । तत्सिद्धौ च तत्वावेदकतया ऐक्यश्रुतेस्ततोऽपि प्रबलतया बाधकत्वसिद्धिरित्यन्योन्याश्रय इति भावः ।। १२७५ ।।
सत्यप्रमोदटीका
त्वच्छ्रुतिबाधात् तवैक्यश्रुत्या बाधे सति । सा भेदश्रुतिः । व्यावहारिकवाक् व्यावहारिकभेदप्रतिपादिका । तवश्रुतिः त्वदभिलषितैक्यप्रतिपादिका । तथा चान्योन्याश्रयः ।। १२७५ ।।
युक्तिमल्लिका
व्यावहरिकता चेयं न युक्ता या त्वयोदिता ।। १२७६ ।।
सुरोत्तमटीका
व्यावहारिकतामेव विकल्प्य दूषयति ।। व्यावहारि-कतेति ।। १२७६ ।।
सत्यप्रमोदटीका
न युक्ता विकल्पासहत्वात् । तथा हि किं इदं व्यावहारिकत्वम् । ब्रह्मज्ञानेतरज्ञानाबाध्यत्वे सति ब्रह्मज्ञानबाध्यत्वं उत ब्रह्म-प्रमेतराबाध्यत्वे सति तद्बाध्यत्वम् ।। १२७६,१२७७ ।।
युक्तिमल्लिका
ब्रह्मज्ञानेतरज्ञानाबाध्यत्वे सति तद्धिया ।
यद्बाध्यं तस्य भावो हि व्यावहारिकता तव ।। १२७७ ।।
सुरोत्तमटीका
तद्धिया ब्रह्मज्ञानेन ।। १२७७ ।।
युक्तिमल्लिका
यतो सत्त्वास्थिरत्वादिब्रह्मणः प्रमयैव हि ।
ब्रह्मण्यारोपितं बाध्यं तच्च ते प्रातिभासिकम् ।। १२७८ ।।
सुरोत्तमटीका
असत्त्वास्थिरत्वादिकं ते मते ।। १२७८ ।।
सत्यप्रमोदटीका
नाद्यः ब्रह्मण्यारोपिते प्रतिभासिके क्षणिकत्वे असत्त्वे चातिव्याप्तेरित्याह यत इति ।। १२७८ ।।
युक्तिमल्लिका
प्रमापदप्रवेशेऽपि नोक्तदोषप्रतिक्रिया ।
प्रमा यथार्थधीरेवं नोचेद्व्यर्थं विशेषणम् ।। १२७९ ।।
सुरोत्तमटीका
प्रमापदप्रवेशे ज्ञानपदस्थाने प्रमापदप्रवेश इत्यर्थः । उक्तदोषः ब्रह्मण्यारोहितासत्त्वादावतिव्याप्तिः । तस्य प्रतिक्रिया परिहारः । ननु वेदान्तजन्यब्रह्मज्ञानमेव प्रमा । इदं तु ज्ञानं न प्रमा । अतो नोक्तदोष इत्यत आह ।। प्रमेति ।। नो चेत् यथार्थज्ञानं प्रमा नोचेत् । निर्विकल्पक-ज्ञानमेव प्रमा चेदित्यर्थः । ब्रह्मप्रमेतरशुक्तिप्रमयाऽबाध्ये सर्वं बाधकतयाऽङ्गी-कृतचरम प्रमया चाबाध्ये शुक्तिरजतादावतिव्याप्तिपरिहाराय हि तद्विशेषणम् । शुक्तिज्ञानादेरप्रमात्वे तस्यापि ब्रह्मप्रमान्यप्रमयाऽबाध्यत्वस्यैव सत्त्वेनाति-व्याप्तिपरिहारकत्वायोगात् व्यर्थं विशेषणम् । मध्ये प्रमापदस्य परित्यागे ब्रह्म-प्रमान्येन मुद्गरादिना बाध्ये घटादावव्याप्तिः । ननु चाभावमात्रं न बाधः किं त्वत्यन्ताभाव एवेति चेन्न । तस्यापि स्वतस्सिद्धत्वेन प्रमाप्रयोज्यत्वायोगात् । तदुल्लेखस्य च तव मते निष्प्रकारकप्रमाया असम्भवात् । न च पुनः प्रमा-नुत्पादो बाधः । जीवन्मुक्तानामपि भिक्षाटनादिभ्रमदर्शनेन पुनरसम्भवात् । शुक्तिज्ञानस्याप्रमात्वे बाध्यबाधकभावस्यैवायोगेन ब्रह्मप्रमान्याबाध्यत्वस्य शुक्तिरजतादावपि सत्त्वेन पुनर्विशेषणवैयर्थ्यं निर्विकल्पकज्ञानस्य बाधकत्वा-योगेनासम्भवश्चेत्यपि द्रष्टव्यम् ।। १२७९ ।।
सत्यप्रमोदटीका
न द्वितीयः । दोषतादवस्थ्यात् ब्रह्म स्थिरं सत्यं इत्यस्यापि प्रमात्वादेव । आह यथार्थधीरिति । एवं नोचेत् प्रमा यथार्थ-धीर्नयेनोक्तदोषः । किन्तु वेदान्तजन्या निर्विकल्पा चरमप्रमैवेति चेत् एवं तर्हि ब्रह्मप्रमान्येनाबाध्यत्वविशेषणं व्यर्थम् । अस्मिन्पक्षे इयं शुक्तिरिति ज्ञानस्या-प्रमात्वेन शुक्तिरजते प्रमेतरप्रमाऽबाध्यत्वस्यैव सत्त्वेन विशेषणनिवेशेऽपि अतिव्याप्त्यपरिहारात् ।। १२७९ ।।
युक्तिमल्लिका
देहात्मैक्यं नभो नैल्यं प्रातिभासिकमेव ते ।
ब्रह्मप्रमान्याबाध्यं च बाध्यं चरमतद्धिया ।। १२८० ।।
सुरोत्तमटीका
पररीत्यैवस्थलान्तरे अतिव्याप्तिमाह ।। देहात्मैक्य-मिति ।। ते मते । तद्धिया ब्रह्मधिया ।। १२८० ।।
सत्यप्रमोदटीका
देहात्मैक्यभ्रमः नभोनैल्यभ्रमः इत्येतयोः ब्रह्मप्रमयैव बाध्यत्वं इति परो मनुते । तथाऽपि तयोः प्रातिभासिकत्वं अङ्गीकरोति । तत्रोक्तलक्षणस्यातिव्याप्तिरित्याह देहेति ।। १२८० ।।
युक्तिमल्लिका
नियमेनेतरज्ञानाबाध्ये तद्बाधयोग्यता ।
कथं स्यान्न हि तत्तस्य योग्यं यन्न कदाचन ।। १२८१ ।।
ब्रह्मप्रमान्याबाध्यत्वे सति तज्ज्ञानबाध्यता ।
कथमुक्तेष्वतिव्याप्ता व्यावहारिकता वद ।। १२८२ ।।
सुरोत्तमटीका
तद्बाधयोग्यता इतरज्ञानबाधयोग्यता । यत् कदाचन कदापि न भवति । तत्तस्य योग्यं न हीति योजना । कदापि फलनिष्पत्त्यभावे यवांकुरस्य कलमाङ्कुरजनकत्वयोग्यत्ववत् योग्यताया एवायोगादिति भावः
।। १२८१,१२८२ ।।
सत्यप्रमोदटीका
इतरज्ञानाबाध्यत्वेऽपि बाधयोग्यता तयोरस्ति अतो नोक्तदोष इत्यत आह न हि तदिति । सहकारिविरहप्रयुक्तफलानुपधानं हि योग्यता । यदा कदाऽपि वा तेन फलनिष्पत्तौ तस्य तज्जननयोग्यता कल्प्यते । अत्र तु न कदाऽपि बाधो दृष्टः इति बाध्यत्वयोग्यताकल्पनाया अवकाश एव न । तथा सति यवबीजेऽपि कलमाङ्कुरजननयोग्यता कल्प्येतेति भावः
।। १२८१, १२८२ ।।
युक्तिमल्लिका
किञ्च ब्रह्मप्रमान्याबाध्यत्वमात्रं न सोचिता ।
ब्रह्मणो बाध्यतापत्तेस्तत्प्रमा बाध्यतापि च ।। १२८३ ।।
सुरोत्तमटीका
उक्तेषु देहात्मैक्यादिषु व्यावहारिकत्वलक्षणस्याति-व्याप्तिमसम्भवं सूचयन् भेदादेरबाध्यतां स्थिरीकरोति ।। किं चेति ।। सा व्यावहारिकता ।। १२८३,१२८४ ।।
सत्यप्रमोदटीका
मात्रपदेन ब्रह्मप्रमाबाध्यत्वरूपविशेष्यदलस्य व्यवच्छेदः । सा व्यावहारिकता । ब्रह्मणः सर्वथाऽबाध्यत्वेन तत्र लक्षण-स्यातिव्याप्त्यापत्तेरित्याह ब्रह्मण इति । तर्हि ब्रह्मप्रमाबाध्यत्वं लक्षणमस्तु इति च नेत्याह तदिति ।। १२८३ ।।
युक्तिमल्लिका
बाधश्च नास्तिताबोधो नाप्रतीतिस्तु केवला ।
असतो बाध्यतापत्तेरपसिद्धान्ततोऽपि च ।। १२८४ ।।
सत्यप्रमोदटीका
कुत इत्यतः बाधस्यैव त्वया दुर्निरुपत्वादित्याह बाध इति । स किं नास्तिताबोधः, ‘अविद्या सहकार्येण नासीदस्ति भविष्यति’ इति तदुक्तेः । उत अप्रतीतिमात्रं आद्ये वक्ष्यामः । द्वितीय आह असत इति तथा च तत्रातिव्याप्तिः । अपसिद्धान्ततोऽपि चेति । नासत्त्वस्यास्ति बाधक-मित्यात्मवचनविरोधात् ।। १२८४ ।।
युक्तिमल्लिका
सर्वप्रकारशून्यैव निर्विकल्पकधीस्तव ।
ब्रह्मप्रमा तया कस्य साधनं बाधनं वद ।। १२८५ ।।
सुरोत्तमटीका
निर्विकल्पकस्य साधकबाधकत्वायोगादिति भावः ।। १२८५ ।।
सत्यप्रमोदटीका
ज्ञानत्वे सविषयकत्वं तन्त्रम् । इदमित्थं इति हि सर्वा धीः । चरमं ज्ञानं च निर्विषयकं परस्याभिमतम् । तथा च तस्य ज्ञानत्व-मेवासम्भवि कुतस्तेन साधनं बाधनं वा शक्यनिरूपणमित्याह कस्येति ।।
युक्तिमल्लिका
अतो भेदाख्यरत्नस्य जगत्कल्पद्रुमस्य च ।
पारमार्थिकतापन्ना बाधाभावाद्धि सर्वदा ।
त्वद्रीत्यैव न मद्रीत्या चित्रा ते शास्त्रकर्तृता ।। १२८६ ।।
सुरोत्तमटीका
अतः निर्विकल्पकस्य बाधकत्वायोगात् । ते स्ववचन-विरोधमजानतस्तव ।। १२८६ ।।
सत्यप्रमोदटीका
शास्त्रकर्तृता अखण्डार्थपरं इति वाचो भङ्ग्या शास्त्र-मबोधकमिति निरूपणात् चित्रा । लोकबहिष्कृता ।। १२८६ ।।
युक्तिमल्लिका
निष्प्रकारकधीर्या ते भेदाभेदप्रमा न सा ।
तत्त्वं किल तथाप्येकमतत्वमपरं किल ।। १२८७ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि परप्रक्रियामपहसति ।। निष्प्रकारकेति ।। १२८७ ।।
सत्यप्रमोदटीका
ज्ञानमेव न दूरे तस्य प्रमात्वं इत्याह नेति । तथा च अबोधकेन बोध्यं तत्त्वं ऐक्यं प्रमापकैः सकलप्रमाणैः साधितो भेदः अतत्त्वं इति अपहासः इत्याह किलेति ।। १२८७ ।।
युक्तिमल्लिका
यदि बाधस्तेन नाशस्तदा दण्डादिनाश्यता ।
दृष्टा घटादौ यत्तस्मान्न स्युस्ते व्यावहारिकाः ।। १२८८ ।।
सुरोत्तमटीका
पक्षान्तरमाशंक्य दूषयति ।। यदीति ।। तेन ज्ञानेन । आदिपदेन मुद्गरो गृह्यते । यत् यस्मात् । ते घटादयः ।। १२८८ ।।
सत्यप्रमोदटीका
तन्नाश्यत्वमेव तद्बाध इति चेद्घटे ब्रह्मज्ञानानाश्ये मुद्गरप्रहारादिना नाश्ये अव्याप्तिरित्याह यदीति ।। १२८८ ।।
युक्तिमल्लिका
अपादानाज्ञाननाशद्वारा ज्ञानं हि नाशकम् ।
अनादेरस्य भेदस्य तन्न स्याज्ज्ञाननाश्यता ।। १२८९ ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। उपादानेति ।। हीत्यनेन ज्ञानमज्ञान-स्यैव नाशकमिति परप्रसिद्धिं सूचयति । तत्तस्मात् अज्ञानोपादानकत्वाभावात् ।। १२८९ ।।
सत्यप्रमोदटीका
किञ्च ज्ञानस्य न साक्षात्प्रपञ्चनाशकत्वमभिमतं किन्तु उपादानाज्ञाननाशनद्वारैव । यथाऽऽह ‘अज्ञानस्य स्वकार्येण प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाधः’ इति । तथा च अनादेरत एव निरुपादानकस्य भेदस्य न बाध इति तत्राव्याप्तिः ।। १२८९ ।।
युक्तिमल्लिका
अज्ञानोपादानके ते रूप्यादौ प्रातिभासिके ।
अस्त्येव ज्ञाननाशत्वमतोऽप्येतदलक्षणम् ।। १२९० ।।
सुरोत्तमटीका
ज्ञाननाश्यत्वमात्रं व्यावहारिकत्वं ब्रह्मज्ञाननाश्यत्वं वा ब्रह्मज्ञानेतरज्ञानानाश्यत्वे सति ब्रह्मज्ञाननाश्यत्वं वेति विकल्पं मनसि निधाय क्रमेण दूषयति ।। अज्ञानोपादानकेति ।। अतः प्रातिभासिकेति व्याप्तेः ।। १२९० ।।
सत्यप्रमोदटीका
ज्ञाननाश्यत्वं व्यावहारिकत्वं चेत्प्रातिभासिके रूप्यादावतिव्याप्तिरित्याह अज्ञानोपादानके इति ।। १२९० ।।
युक्तिमल्लिका
शुक्त्यवच्छिन्नचिज्ज्ञानं ब्रह्मज्ञानं च तत्तव ।। १२९१ ।।
सुरोत्तमटीका
तत् शुक्तिज्ञानम् । तव मते ।। १२९१ ।।
सत्यप्रमोदटीका
ननु तथापि रूप्यस्य शुक्तिज्ञानेनैव नाश्यत्वं न ब्रह्मज्ञानेन इत्यतः तव मते तदवच्छिन्नचैतन्यज्ञानमेव तज्ज्ञानं, आध्यासिक-सम्बन्धाभ्युपगमात् तच्च ब्रह्मज्ञानमेव ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इति सुरेश्वरवार्तिकोक्तेरित्याह शुक्तीति ।। १२९१ ।।
युक्तिमल्लिका
ज्ञानान्नाशेऽपि मिथ्यात्वे हेतुरज्ञानकार्यता ।
सा चास्ति शुक्तिरूप्यादौ नास्ति भेदाद्यनादिषु ।। १२९२ ।।
सुरोत्तमटीका
किं च ज्ञानान्नाशेनापि मिथ्यात्वं वदता परेणाज्ञान-कार्यत्व एव भरो दातव्यः । नाशमात्रस्य मिथ्यात्वासाधकत्वात् । तत्र शुक्ति-रजतादावतिव्याप्तं अव्याप्तं च भेदाद्यनित्यपदार्थेष्वित्याह ।। ज्ञानादिति ।। १२९२ ।।
सत्यप्रमोदटीका
तथा च पूर्वोक्तदोषद्वयानिस्तार एवेत्याह ज्ञाना-न्नाशेऽपि इति ।। १२९२ ।।
युक्तिमल्लिका
ब्रह्मज्ञानेतरज्ञानानाश्यत्वस्य प्रवेशने ।
घटादिवृत्तिनाश्येषु तूलाज्ञानेषु लक्षणम् ।
अव्यापकं स्यात्तद्योगे मूलस्यापसृतौ भवेत् ।। १२९३ ।।
सुरोत्तमटीका
तूलाज्ञानेषु घटाद्यवच्छिन्नचैतन्यावरकाज्ञानेषु । लक्षणं व्यावहारिकत्वलक्षणम् । अव्यापकं विशेषणाभावात् । तद्योगे अज्ञानयोगे । मूलस्य मूलाज्ञानस्य । ज्ञानात् तूलाज्ञाननाशपक्षे तूलाज्ञानेष्वव्याप्तिः । मूला-ज्ञानापसरणपक्षे ज्ञाननाश्ये तत्संयोगेऽव्याप्तिरित्यर्थः । उक्तविशेषणदानेन शुक्तिज्ञाननाश्यरूप्यादावतिव्याप्तिपरिहारेऽपि घटवृत्तिनाश्ये तूलाज्ञाने मूला-ज्ञानसंयोगे वाऽव्याप्तिरपरिहार्येति भावः ।। १२९३ ।।
सत्यप्रमोदटीका
ननु मन्मते अज्ञानं द्विविधम् । तूलाज्ञानं मूलाज्ञानं चेति । तत्र संसारमूलाज्ञानं निवर्तयत् ब्रह्मज्ञानं चरमज्ञानमेव । न तु शुक्त्य-वच्छिन्नचैतन्यविषयकम् । तन्निवृत्तिद्वारा निवर्त्यत्वमेव च बाधः । ब्रह्म-ज्ञानेतरज्ञानानाश्यत्वं च लक्षणे विशेषणं निवेश्यते । शुक्तिरूप्यं च तदितरेण युक्त्यवच्छिन्नचैतन्यज्ञानेनापि निवर्तते । अतो नातिव्याप्तिरिति चेत् । तथाऽपि अनादिभेदादिष्वव्याप्तेरपरिहार एव । दोषान्तरं चाह घटादीति । ब्रह्मज्ञानेन तन्निवृत्त्यनङ्गीकारात् । तद्योगे मूलाज्ञानसम्बन्धे । मूलाज्ञानस्य तदाऽ-नाशेऽपि, भीरुभटवदपसरणाभ्युपगमेऽपीति भावः, मूलाज्ञानसम्बन्ध एवा-व्याप्तिः । मूलाज्ञानसम्बन्धस्य ब्रह्मज्ञानेतरज्ञाननाश्यत्वस्यैव प्राप्त्या विशेषणाभावेनाव्याप्तिरित्याशयः ।। १२९३ ।।
युक्तिमल्लिका
किञ्च ब्रह्मज्ञाननाश्यं ब्रह्मज्ञानं तवापि न ।
आत्माश्रयादतस्तत्रैवाव्याप्तिरभवद्ध्रुवा ।। १२९४ ।।
सुरोत्तमटीका
प्रकारान्तरेण समुदितलक्षणस्यापि स्थलान्तरेऽ-व्याप्तिमाह ।। किं चेति ।। आत्माश्रयपरिहाराय ज्ञाननाश्याज्ञानस्य मध्ये प्रवेशे त्रिक्षणावस्थायिज्ञानस्याज्ञाननाशदशायां स्वत एव नाशेनाज्ञाननाश-प्रणाड्यापि ज्ञाननाश्यत्वाभावेन पुनरव्याप्तिः । अत एव ध्रुवेत्युक्तम् ।।१२९४।।
सत्यप्रमोदटीका
स्वाभाववतिकाले स्वस्य भावरूपव्याघातपर्यवसान-भिया, स्वस्य स्वनाशकत्वं नाङ्गीकृतम् । न हि नखाग्रेण स्वनखाग्रमेव छेद्यमुपलब्धं’ इति परेणोक्तेः प्रागभावः प्रतियोगिहेतुरिति पक्षे तन्मात्रस्या-हेतुत्ववत् प्रतियोगी ध्वंसहेतुरिति पक्षेऽपि अतिप्रसङ्गेन तन्मात्रस्याहेतुत्वात् । दग्धदाह्यदहनस्यापीशेच्छादिनैव नाशात् (न्या.४।३।६३५) । अतः ब्रह्मज्ञान एव लक्षणस्याव्याप्तिः । न च तदपि अलक्ष्यं औतहान्यापत्तेः । नापि प्रत्यक् स्वरूपं वेदान्तजन्यत्वानुपपत्तेः । नापि च अज्ञाननिवृत्तिद्वारा स्वनिवर्तकत्वम् । त्रिक्षणावस्थायिनः तृतीयक्षणे स्वयमेव नष्टत्वेन नाशकत्वायोगात् । तदे-तदभिप्रेत्योक्तं ध्रुवेति ।। १२९४ ।।
युक्तिमल्लिका
बाध्यत्वे निर्विकल्पा धीर्न जगद्भीषयेन्मम ।
नाश्यत्वे स्वविनाश्या धीर्न जगद्भीषयेन्मम ।। १२९५ ।।
सुरोत्तमटीका
एवं चोभयतः पाशारज्जुरित्याह ।। बाध्यत्व इति ।। ज्ञानबाध्यत्व इत्यर्थः । नाश्यत्वे ज्ञाननाश्यत्वे । जगदन्तःपातिज्ञानस्यैवो-र्वरितत्वादिति भावः ।। १२९५ ।।
सत्यप्रमोदटीका
तथा च निवृत्तिर्बाधश्चेत् निर्विकल्पकस्य बाधकत्वा-योगेन न तद्बाधधीः । नाशश्चेत् स्वस्मिन्नेवाव्याप्तिः । रूप्यादौ निवृत्ते नष्टमित्यननुभवेन तत्राप्यव्याप्तिः ।। अधिष्ठानवत्सत्येऽज्ञानेऽतिव्याप्तिश्च तदुक्तं न्यायामृते ‘विज्ञाननाश्यता मिथ्यारूप्यादौ नानुभूयते । किं त्वदधिष्ठानवत्सतो तदज्ञानेऽनुभूयते इति (१। १। प.४०) ।। १२९५ ।।
युक्तिमल्लिका
किञ्च प्रारब्धकर्माणि ब्रह्मज्ञानादनन्तरम् ।
स्थायीनि भोगक्षय्याणि तेष्वव्याप्तिर्द्विधाऽप्यभूत् ।। १२९६ ।।
सुरोत्तमटीका
स्थलान्तरे विशेषणाभावाद्विशेषणाभावाद्विशेष्याभावाच्च प्राप्तामव्याप्तिमाह ।। किं च प्रारब्धेति ।। भोगक्षय्याणि सुखदुःखानुभवरूप-भोगनाश्यानि । तेषु ब्रह्मज्ञानानाश्येषु । ब्रह्मज्ञानेतरसुखदुःखज्ञाननाश्येषु । द्विधा उक्तविधया प्रकारद्वयेन ।। १२९६ ।।
सत्यप्रमोदटीका
द्विधाऽपि बाधः नाशः इति पक्षद्वयेऽपि । अविद्यालेशसंस्कारादिकमपि समानयोगक्षेमम् । तस्यापि भोगनाश्यत्वेन तत्रापि अव्याप्तिः ।। १२९६ ।।
युक्तिमल्लिका
अर्थक्रियाकारितैव व्यावहारिकता यदि ।
शशशृङ्गमभूत्तत्वं परमार्थतरं तदा ।। १२९७ ।।
सुरोत्तमटीका
प्रकारान्तरेण व्यावहारिकत्वलक्षणमनूद्य दूषयति ।। अर्थक्रियेति ।। अर्थक्रियाकारित्वरूपव्यावहारिकत्वशङ्काया अप्यभावा-त्परमार्थतरमित्युक्तम् ।। १२९७ ।।
सत्यप्रमोदटीका
परमार्थतरं इति तस्य लक्षणसद्भावशङ्काया अप्य-विषयत्वात् ।। १२९७ ।।
युक्तिमल्लिका
उपादानं निमित्तं वा भ्रमाधिष्ठानमेव वा ।
ब्रह्मत्वपरमार्थत्वादुपेक्ष्यमभवत्तव ।। १२९८ ।।
सुरोत्तमटीका
तवमते । जगतो निमित्तत्वात् उपादानत्वाद्वा अन्ततोऽधिष्ठानतया जगद्भ्रमहेतुत्वाद्वा तव व्यावहारिकत्व लक्षणमिदं ब्रह्मण्यतिव्याप्तम् । अर्थक्रियाशून्यत्वरूपं पारमार्थिकत्वलक्षणं च शश-शृृङ्गेऽतिव्याप्तमिति भावः ।। १२९८ ।।
सत्यप्रमोदटीका
ब्रह्मण्यतिव्याप्तिश्च । ‘न चात्मन्यर्थक्रियाकारित्वं मास्तीति वाच्यम् । तस्य निखिलप्रपञ्चकारणत्वेन श्रुतिशतसमधिगतत्वात्’ (वादा.) पररीत्याऽप्याह उपादानमिति । उपादाननिमित्तं वा इत्यनास्था । विवर्तोपादानत्वपक्षे आह अधिष्ठानमेव वेति । अन्ततः अज्ञानसाधकताङ्गी-कृतैव । ‘साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता । स्वीकृतमि’ति उक्तेः । अस्त्वतिव्याप्तिः किं तत इत्यत आह अपरमार्थत्वादुपेक्ष्यं इति ।। १२९८ ।।
युक्तिमल्लिका
मुक्तेश्च साधको मुक्तो मुक्तिदं चाभवन्मृषा ।। १२९९ ।।
सुरोत्तमटीका
मुक्तिदं ब्रह्म ।। १२९९ ।।
सत्यप्रमोदटीका
तदुक्तं गौडपादकारिकायां ‘न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति । तदप्यस्तु इति वैयात्येन वदन्तं प्रति तु ‘कशावेत्रादिकं तु तस्करस्योत्तरं भवेदित्युक्त्यैव गतिः ।। १२९९ ।।
युक्तिमल्लिका
भयकम्पादिहेतुत्वं रज्जुसर्पस्य ते मते ।
स्वाप्नस्य चास्ति तेनेदं व्यावहारिकता कथम् ।। १३०० ।।
सुरोत्तमटीका
प्रातिभासिकेऽतिव्याप्तिमाह ।। भयेति ।। इदं अर्थक्रियाकारित्वम् ।। १३०० ।।
सत्यप्रमोदटीका
प्रातिभासिके रज्जुसर्पादौ स्वाप्ने रम्भासम्भोगादौ चातिव्याप्तिः । न च प्रातिभासिकपदार्थज्ञानमेवार्थक्रियाकारीति युक्तम् । त्वन्मते प्रतिभासातिरिक्तप्रातिभासिकानङ्गीकारादित्याह भयेति ।। १३००, १३०१ ।।
युक्तिमल्लिका
प्रातिभासिक एवार्थो ज्ञानं च प्रातिभासिकम् ।
इति यो वक्ति किं नास्य प्रातिभासिकमर्थकृत् ।। १३०१ ।।
सुरोत्तमटीका
अस्य अर्थज्ञानयोरुभयोरप्यध्यासं वदतो मायिनः ।। १३०१ ।।
युक्तिमल्लिका
अतत्वमभवत्तेऽन्नं तृणं तत्वमभूदहो ।। १३०२ ।।
सुरोत्तमटीका
किं च अर्थक्रियाकारित्वस्यातत्वापरपर्यायव्यावहारिकत्व प्रयोजकत्वे तवार्थक्रियाकारि अन्नं रासभस्यैव तत्वम् । तस्य तेनार्थाभावात् । तव तु अतत्वमेव । तृप्तिरूपार्थक्रियाकारित्वात् । तत्वं तु तव रासभस्यार्थ-क्रियाकारितया तस्यातत्वभूतं तृणमेव । ततस्तवार्थाभावादित्यापतितं अतस्त्व-मेव पशुत्वयोग्योऽसीत्याह ।। अतत्वमिति ।। १३०२ ।।
सत्यप्रमोदटीका
पशोरर्थक्रियाऽर्हं तव च अनर्हं तृणमेव तव व्यावहारि-कत्वाभावात् तत्वमभूत् तेन विरुद्धं लक्षणं आचक्षाणस्य तव पशुत्वमेवा-भूदित्यपहासः ।। १३०२ ।।
युक्तिमल्लिका
समर्थायां प्रवृत्तौ तु प्रामाण्यं हीयते किल ।
असमर्थप्रवृत्तौ तु प्रामाण्यमुपचीयते ।। १३०३ ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। समर्थायामिति ।। अर्थक्रियाकारि-त्वस्य मिथ्यात्व प्रयोजकत्वेनोक्तेस्तदभावस्य च पारमार्थ्योपयोगित्वोक्ते-रितिभावः । इदं च न विदुषां संमतमिति ज्ञेयम् ।। १३०३ ।।
सत्यप्रमोदटीका
तदिदमापन्नं गोशृङ्गज्ञानमप्रमाणं समर्थप्रवृत्तिजन-कत्वात् । अतथाभूतं शशशृङ्गज्ञानमेव प्रमाणमिति । अपहसति किलेति ।।
युक्तिमल्लिका
इयं हि शास्त्रमर्यादा न वार्यादायवेदिभिः ।
यत्सार्थक्यं परस्याह वैयर्थ्यं स्वस्य स स्वयम् ।। १३०४ ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। इयमिति ।। दायवेदिभिः आदाय-वेदिभिः । यत् यस्मात् भेदस्यार्थक्रियाकारित्वं वदन् परस्य भेदवादिनः मोक्षाद्यर्थक्रियावत्त्वेन सार्थक्यमाह ।। ऐक्यस्यार्थक्रियाकारित्वाभावं वदन्स्वस्य वैयर्थ्यमाह ।। सः वादी । तत्तस्मात् न वार्येति पूर्वेणान्वयः । एवं वदतस्स्वव्याहतिरिति भावः ।। १३०४ ।।
सत्यप्रमोदटीका
इयं=भेदः मोक्षरूपार्थक्रियाकारी व्यावहारिकः अतत्वम् । ऐक्यं अतथाभूतं तत्त्वं इत्येवंरूपा । न वार्या आदायवेदिभिः इति पदच्छेदः । व्याहतभाषिणा परेणास्मदभिलषितस्यैवार्थस्य शब्दभेदेन साधनात् ।। १३०४ ।।
युक्तिमल्लिका
सत्त्वमर्थक्रियाकृत्त्वं तेन च क्षणिकं जगत् ।
यो वक्ति तेन ते सख्यं महदासीद्भवान्तरे ।
अर्थक्रियाकारि सर्वं यस्त्वं मिथ्येति कत्थसे ।। १३०५ ।।
सुरोत्तमटीका
किं चैवं वदतो बौद्धमतप्रवेशापत्तिरित्याह ।। सत्त्व इति ।। तेन अर्थक्रियाकारित्वाख्यसत्त्वेन यत्सत्तत्क्षणिकमिति वदन्बौद्धः । भवान्तरे जन्मान्तरे । यस्त्वं कत्थसे । तस्य तव तेन सख्यमासीदिति पूर्वेणान्वयः । इदं तव मतं बौद्धमतं चैकप्रकारमेवाभूदिति भावः ।। १३०५ ।।
सत्यप्रमोदटीका
‘सर्वं क्षणिकं अर्थक्रियाकारित्वात्’ इति क्षणि-कत्वादि मतं व्याहतेर्हेयम् । व्याहतत्वेन उभयोः सख्यम् । तदुक्तमनुव्याख्याने ‘पूर्वमध्यापरकलाविकलः क्षण इष्यते’ इति । ‘विनाशे चेन्न तत्कार्य’ इति च । तथा च न तन्मते संस्काररूपार्थक्रियासाधकत्वं तदुक्तं तत्रैव
‘उत्तरोत्पत्तिमात्रेण विनाशात्पूर्ववस्तुतः ।
न संस्कारार्पकत्वं’ इति,
‘मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता’ इति च ।। १३०५,१३०६ ।।
युक्तिमल्लिका
एतादृशं च मिथ्यात्वं भेदस्यास्तु सदा मम ।
मुक्तिं च सद्यस्सन्दध्याद्य एवं व्यावहारिकः ।। १३०६ ।।
सुरोत्तमटीका
एतादृशं च व्यावहारिकत्वं त्वदभिलषितबाध्यत्व-विरोधितयाऽस्मदभिमत सत्त्वसंपादकतया च नानिष्टमित्याह ।। एतादृश-मिति ।। यः व्यावहारिको भेदः ।। १३०६ ।।
युक्तिमल्लिका
महातत्त्वं तवैक्यं च न भेदस्य विरोधकृत् ।
अतो यमप्रतिद्वन्द्वो द्वन्द्वं सर्वत्र साधयेत् ।। १३०७ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि ममैवानुकूलमभूदित्याह ।। महातत्व-मिति ।। तत्वस्य त्वयाऽर्थक्रियाकारित्वानङ्गीकारादिति भावः । अतः ऐक्यस्याकिञ्चित्करत्वात् । अयं भेदः । द्वन्द्वं द्विताम् । सर्वत्र जीवेश्वरजडेषु ।। १३०७ ।।
सत्यप्रमोदटीका
न विरोधकृत् अर्थक्रियाऽनर्हत्वात् । अयं भेदः । द्वन्द्वं भेदव्यवहारम् ।। १३०७ ।।
युक्तिमल्लिका
नाप्यविद्याकार्यता ते व्यावहारिकतोचिता ।
अविद्यायामभावेन भेदेऽनादावभावतः ।
सत्वाच्च रज्जुसर्पादिप्रातिभासिकराशिषु ।। १३०८ ।।
सुरोत्तमटीका
पक्षान्तरमप्यनूद्य दूषयति ।। नापीति ।। अनादौ भेद इति सम्बन्धः । पूर्ववदव्याप्तत्वादतिव्याप्तत्वाच्चेति भावः।।१३०८ ।।
सत्यप्रमोदटीका
अविद्यायां आत्माश्रयात् । अनुपादानकत्वाच्च । व्यक्तिभेदकल्पने च अनवस्थाद्यापत्तेः । ‘अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने । अनवस्थितिस्तथा च स्यादन्योन्याश्रयताऽथवा’ इत्युक्तेः । भेदे उपलक्षणम् । ईशे अविद्यासंयोगे, जीवे चेत्यपि ग्राह्यम् ।। १३०८ ।।
युक्तिमल्लिका
न हि हानमुपादानमभिलापोऽपि वा तव ।
व्यवहारो मतस्तस्मात्तदर्हत्वं च सा न ते ।। १३०९ ।।
सुरोत्तमटीका
लोकप्रसिद्धव्यवहारयोग्यत्वं च व्यावहारिकत्वं नेत्याह ।। नहीति ।। सा व्यावहारिकता ।। १३०९ ।।
युक्तिमल्लिका
या ब्रह्मण्यभिलापार्हे सदाऽऽदेये मुमुक्षुभिः ।
हेये च शुक्तिरूप्यादौ जगतीव प्रदृश्यते ।। १३१० ।।
सुरोत्तमटीका
कुत इत्यत आह ।। या ब्रह्मणीति ।। आदेये उपादेये ।। १३१० ।।
सत्यप्रमोदटीका
व्यवहारयोग्यत्वं व्यावहारिकता इत्यपि न युक्तम् । अत्र व्यवहारः हानमुपादानं अभिलापो वा इति वक्तव्यम् । लक्षणं ब्रह्मणि पारमार्थिकेऽतिव्याप्तं इत्याह येति । सदादेये सदा आदेये इति पदच्छेदः । जगति व्यावहारिके वियदादौ ।। १३१० ।।
युक्तिमल्लिका
उभयत्र ह्यतिव्याप्ता कथं मध्यस्य सा दशा ।। १३११ ।।
सुरोत्तमटीका
उभयत्र पारमार्थिके प्रातिभासिके च । सा लोक-सिद्धव्यवहारार्हता । मध्यस्य तयोर्मध्यपतितस्य जगतः कथं दशेति सम्बन्धः
।। १३११ ।।
सत्यप्रमोदटीका
सा व्यवहारयोग्यतारूपा । योग्यतायां योग्यतान्तरा-भावात् व्यवहारयोग्यतायामव्याप्तिश्च ध्येया ।। १३११, १३१२ ।।
युक्तिमल्लिका
व्यावहारिकतोक्तिस्तद्व्यवहारज्ञसंसदि ।
न भाति प्राङ्गणकथा न हि भाति रणाङ्गणे ।। १३१२ ।।
सुरोत्तमटीका
व्यावहारिकत्वखण्डनमुपसंहरति ।। व्यावहारिकतोक्ति-रिति ।। तन्निर्वक्तुमशक्यत्वात् । तत्र दृष्टान्तमाह ।। प्राङ्गणेति
।। १३१२ ।।
युक्तिमल्लिका
प्रत्यक्षश्रुतियुक्तीनां विरोधादैक्यमेव ते ।
स्याद्व्यावहारिकं सिंहदेवदत्तादिकैक्यवत् ।। १३१३ ।।
सुरोत्तमटीका
प्रमाणान्तरसंवादवतो भेदस्य न व्यावहारिकत्वं किं तु तद्विरुद्धैक्यस्यैव तदुचितमित्याह ।। प्रत्यक्षेति ।। प्रकारान्तरेणापि व्यावहारि-कतामाह ।। सिंहेति ।। न चेल्लोकसिद्धरीत्या व्यावहारिकैक्यं नोच्यते चेत् । तदैक्यम् ।। १३१३-१३१५ ।।
सत्यप्रमोदटीका
व्यावहारिकं बाध्यम् ।। १३१३ ।।
युक्तिमल्लिका
सादृश्यैक्यपरत्वे स्यादेव वाऽव्यावहारिकम् ।
न चेत्पूर्वोक्तमार्गेण स्यात्तद्धि प्रातिभासिकम् ।। १३१४ ।।
भेदस्तु श्रुतियुक्तिभ्यां प्रत्यक्षेण च साधितः ।
ब्रह्मवत्पारमार्थ्यार्हः कथं स्याद्व्यावहारिकः ।। १३१५ ।।
सत्यप्रमोदटीका
वा अव्यावहारिकं इति पदच्छेदः । पारमार्थिकं इत्यर्थः ।। १३१४,१३१५ ।।
युक्तिमल्लिका
भेदस्तन्मतिभेदादेर्विरोध्यैक्यस्य चोद्धृतेः ।
त्रिधाऽपि परमार्थोऽभूद्योत्युच्च ब्रह्मधर्मिकः ।। १३१६ ।।
सुरोत्तमटीका
तत्तस्मात् प्रमाणत्रयसिद्धत्वेन व्यावहारिकत्वानर्हत्वात् । उद्धृतेः निरासात् । त्रिधा श्रुत्यादिप्रमाणसिद्धत्वात् श्रुतेर्मतिभेदाद्यर्थान्तरे नेतुमशक्यत्वात् विरोध्यैक्यस्याप्रामाणिकत्वेन निरासाच्च । यो भेद इति सम्बन्धः ।। १३१६ ।।
सत्यप्रमोदटीका
मतिभेदादेः आदिपदेन स्थानभेदग्रहणम् । सयुजौ सखायौ इति वचनात् उद्धृतेः निरासात् । ऐक्यस्य स्वरूपैक्यस्य । उद्धृतेः त्वयैवासाधकत्वकथनेन निरासात् । चशब्देन भेदस्य पूर्वोक्तप्रमाणत्रय-सिद्धत्वसमुच्चयः । एवं त्रिधा अत्युच्चब्रह्मधर्मिकः । परमार्थब्रह्मस्वरूपत्वादिति हेत्वन्तरम् । तुल्यवित्तिवेद्यतया इतरधर्मिकोऽपि परमार्थ एव सेत्स्यतीत्याशयः ।। १३१६ ।।
युक्तिमल्लिका
एवमाविद्यकं भेदमथवौपाधिकं वदन् ।
प्रष्टव्यो यद्यविद्याद्यैः कृतत्वं तस्य कीर्त्यते ।। १३१७ ।।
तदा तवापसिद्धान्तः षडस्साकमनादयः ।
इत्याहुः किल ते पूर्वे तस्माज्जीवेशयोर्भिदा ।
अनादिस्ते ततस्तस्याः कृतत्वोक्तिरविद्यया ।। १३१८ ।।
सुरोत्तमटीका
भेदस्याविद्यकत्वमौपाधिकत्वं च यत्परो वक्ति तदपि किमविद्यादिना कृतत्वं ज्ञापितत्वं अविद्यमानस्य ज्ञापितत्वं सम्बन्धमात्रं अविद्यानाशनाश्यत्वं वेति विकल्पं मनसि निधाय क्रमेण दूषयति ।। एवमित्यादिना ।। तस्य भेदस्य । ततः अनादित्वात् । तस्याः भिदायाः । अविद्यया पूर्वोत्तराज्ञानेन कृतत्वोक्तिरिति सम्बन्धः ।। १३१७-१३१८ ।।
सत्यप्रमोदटीका
आविद्यकं औपाधिकं इत्यत्र उभयत्र विकल्पः । न अविद्यादिकार्यत्वम् । अपसिद्धान्तात् । अनादिभेदस्य कार्यत्वासम्भवात् । अविद्यया स्वसिद्धान्तापरिज्ञानेन ।। १३१७-१३१८ ।।
युक्तिमल्लिका
यदि तज्ज्ञापितत्वाच्च भेदे दोषः प्रभाष्यते ।
तदैक्यमपि दोषि स्यात्तच्च मानसवेदने ।
आज्ञा नाज्ज्ञापितं किं न किं वा देहाद्युपाधिभिः ।। १३१९ ।।
सुरोत्तमटीका
तच्च ऐक्यं च । देहाद्युपाधिभिर्ज्ञापितं किं न । आदिपदेनान्तःकरणादिकमुच्यते । औपाधिकत्वपक्षे प्रतिबन्दीग्रहणायेद-मुदितम् ।। १३१९ ।।
सत्यप्रमोदटीका
न तज्ज्ञापितत्वम् । ऐक्येऽपि दोषप्रसरात् । तस्यापि देहान्तःकरणाद्युपाधिभिर्ज्ञापितत्वात् ।। १३१९ ।।
युक्तिमल्लिका
अविद्याकार्यमखिलं कार्यं किल भवन्मते ।
एवं सत्यैक्यधीरन्ते किं ते हन्तैतदन्तरा ।। १३२० ।।
सुरोत्तमटीका
ऐक्यज्ञानस्याविद्याकार्यत्वे हेतुमाह ।। अविद्येति ।। एवं सति सर्वस्य कार्यस्याविद्याकार्यत्वे सति । एतत् अज्ञानम् । अन्तरा विना
।। १३२० ।।
सत्यप्रमोदटीका
अखिलं कार्यं देहेन्द्रियादिकम् । अविद्याकार्यम् । ब्रह्मातिरिक्तस्य सर्वस्य न कार्यत्वोपगमात् । अन्ते तत्त्वमस्यादिवाक्योक्त-सम्यग्धीजन्मकाले । एतदन्तरा अविद्यां विना । देहाद्युपाधिभिर्ज्ञापितत्वे अविद्याज्ञापितत्वमेव पर्यवस्यति ।। १३२० ।।
युक्तिमल्लिका
अविद्यमानं भातीति वादो नादौ कथं वद ।
बन्धेऽप्याविद्यकत्वं तदन्धते निर्निबन्धनम् ।। १३२१ ।।
सुरोत्तमटीका
अनादौ भेदे । अन्यथा ऐक्यस्याप्यविद्यमानत्वप्रसङ्गा-दिति भावः । तत्तस्मात् अनादेराविद्यकत्वायोगात् । ते मते ।।१३२१,१३२२।।
सत्यप्रमोदटीका
भेदः न अविद्यमानः अनादित्वात् ऐक्यवत् इति प्रयोगः अभिप्रेतः । न च दृष्टान्तः साध्यसाधनविकलः । ऐक्यस्य ब्रह्मस्वरूप-त्वोपगमात् । बन्धोऽप्यत्र पक्षत्वे नाभिमत एवेत्याह बन्ध इति ।। १३२१ ।।
युक्तिमल्लिका
अतस्तत्सम्बन्धमात्राद्यद्यवद्यं निगद्यते ।
तर्ह्यैक्यस्याप्यवद्यं स्यात्तदज्ञानावृतं हि ते ।। १३२२ ।।
सत्यप्रमोदटीका
अविद्यासम्बन्धित्वमात्रं आविद्यकत्वं इत्यपि पक्षः दुःष्ट इत्याह अतः इति । अवद्यं आविद्यकत्वदोषः । तत् ऐक्यम् । अज्ञानावृतं ब्रह्मस्वरूपत्वात् ।। १३२२ ।।
युक्तिमल्लिका
यतो ब्रह्मचितोऽप्यस्ति तत्संसर्गोपवर्गतः ।
पुरा ततस्सापि भेदसमैवासीन्मते तव ।। १३२३ ।।
सुरोत्तमटीका
तत्संसर्गः अविद्यासंसर्गः । सा ब्रह्मचित् ।। १३२३,१३२४ ।।
सत्यप्रमोदटीका
सा विशुद्धा ब्रह्मचित् । तव मते ‘अविद्यातच्चितो-र्योगः’ इति अनादिरेव शुद्धचितः अविद्यासंसर्गः इति वादिनो मते ।।१३२३।।
युक्तिमल्लिका
अज्ञाननाशाद्भेदस्य नाशे ब्रह्मापि नश्यतु ।। १३२४ ।।
यद्यज्ञानानुपादानं ब्रह्मतन्नाशनाशिन ।
तर्ह्यनादिविभेदोऽयं कुतस्तन्नाशनाशवान् ।। १३२५ ।।
सुरोत्तमटीका
तन्नाशनाशि अज्ञाननाशान्नाशि ।। १३२५ ।।
सत्यप्रमोदटीका
नापि अविद्यानाशनाश्यत्वं औपाधिकत्वम् । अनादे-र्भेदस्य तदसम्भवात् । अन्यथा अनादित्वाविशेषात् ब्रह्मणोऽपि तन्नाश-नाश्यत्वेन औपाधिकत्वापातात् । अनादित्वेन तत्र परिहारे भेदस्यापि तथेत्याह अज्ञानेति ।। १३२४, १३२५ ।।
युक्तिमल्लिका
तद्ब्रह्मसमसामर्थ्यो भेदो भेद्यो न केनचित् ।। १३२६ ।।
सुरोत्तमटीका
तत्तस्मात् अनादित्वात् । भेद्यः निराकार्यः ।।१३२६।।
सत्यप्रमोदटीका
भेद्यः दूषणार्हः ।। १३२६ ।।
युक्तिमल्लिका
किञ्च मायानिवृत्तौ च स्मर्यते श्रूयते च या ।
साभिदा नपरैर्भेद्या भिनत्ति निखिलं जगत् ।। १३२७ ।।
सुरोत्तमटीका
मोक्षकाले श्रूयमाणत्वाच्च न भेदस्य व्यावहारिकत्वादिक- मित्याह ।। किं चेति ।। भिनत्ति पञ्चभेदयुक्तं करोति ।। १३२७ ।।
सत्यप्रमोदटीका
मायानिवृत्तौ मोक्षे ‘अविद्याऽस्तमयो मोक्षः’ इति तदुक्तेः । सा भिदा पञ्चविधो भेदः । भिनत्ति पञ्चधा जडजीवादिकं परस्परं व्यावर्तयति ।। १३२७ ।।
युक्तिमल्लिका
यद्ब्रह्मणा सहेत्युक्तं मुक्तौ तन्नासती भिदा ।
व्रणादप्यधिको बाधस्सहोक्त्याऽद्वैतवादिनः ।। १३२८ ।।
सुरोत्तमटीका
यत् यस्मात् । तत् तस्मात् । औतवादिनः पराचार्यस्य । व्रणं न बाधते सह शब्दो बाधत इति स्वमरणकाले संकराचार्येण कथितमिति प्रभा । अत इदमुक्तम् ।। १३२८ ।।
सत्यप्रमोदटीका
श्रूयते इत्युक्तं प्रमाणयति सहेति । व्रणादिति अन्त्यकाले भगन्दरव्रणपीडितेन शिष्यान्प्रति तथोक्तेः इति कथा ।। १३२८ ।।
युक्तिमल्लिका
अपि स्वरूपनिष्पत्तौ समीपप्राप्तिरुच्यते ।
परंज्योतिरिति श्रुत्या तत्त्यागार्हा कथं भिदा ।। १३२९ ।।
सुरोत्तमटीका
तन्मुक्तौ विद्यमानत्वात् ।। १३२९ ।।
सत्यप्रमोदटीका
उपसम्पद्येत्यत्र सामीप्यवाचिना उपशब्देनापि मुक्तौ भेदसिद्धिरित्याह समीपेति । तदुक्तं ‘अतिक्रमं वदन्तं तमुपशब्दो निवार-येदि’ति ।। १३२९, १३३० ।।
युक्तिमल्लिका
पूर्वोक्तब्रह्मसूत्राणि भेदमाघोषयन्ति हि ।
अभेदोक्तीस्तिरस्कृत्य कुतस्तस्य ह्यसत्यता ।
अतो भेदश्रुतेरग्रे कस्य स्यात्प्रत्यवस्थितिः ।। १३३० ।।
सुरोत्तमटीका
तस्य निर्णयसूत्रनिर्णीतस्य ।। १३३० ।।
युक्तिमल्लिका
अनादिवेदवाक्येषु परापरकथा वृथा ।
निषेधविधिवार्ताद्धा दग्धाग्नीषोमपावके ।। १३३१ ।।
सुरोत्तमटीका
भेदवाक्यस्य पूर्वत्वेन दौर्बल्यम् । अभेदवाक्यस्य परत्वेन प्राबल्यं परो वक्ति तदपि न युक्तमित्याह ।। अनादीति ।। अपरं पूर्वम् । विधितो निषेधस्य प्राबल्यं परो वक्ति । तच्च न युक्तमित्याह ।। निषेधेति ।। न हिंस्यादिति निषेधवाक्ये सत्यपि अग्नीषोमीयं पशुमालभेतेति विधिवाक्यबलात् अग्नीषोमपावकस्य जाज्वल्यमानस्य प्रत्यक्षतो दर्शनात् पावके दग्धेत्युक्तम्
।। १३३१ ।।
सत्यप्रमोदटीका
यत्तूक्तं वाचस्पतिना पूर्वस्य परेण बाध इति तदपाकरोति अनादीति । तथा च अभेदवाक्यानां भेदवाक्येभ्यः परत्वम-सिद्धम् । अतो न तेषां तेन भेदवाक्येभ्यः प्राबल्यसिद्धिरिति ।। विधितो निषेधप्राबल्यमित्यपि न नियम इत्याह दग्धेति । तत्र ‘मा हिंस्यात्सर्वा भूतानि’ इति निषेधापेक्षया ‘अग्नीषोमीयं पशुमालभेते’ति विधेरेव प्राबल्यस्य दृष्टेः । तथा च तत्र तव न्यायः दग्धः व्यभिचरित इति ध्वनिः ।। १३३१ ।।
युक्तिमल्लिका
परस्मात्पूर्वबाधश्चेत्स्मृत्या स्याच्छ्रुतिबाधनम् ।
परस्माज्जगतः पूर्वब्रह्मबाधश्च ते भवेत् ।। १३३२ ।।
सुरोत्तमटीका
अनादिषु वेदवाक्येषु पूर्वापरविभाग एव न घटत इत्युक्तम् । अधुना परस्मात्पूर्वं बाधो न युक्त इत्याह ।। परस्मादिति ।।१३३२।।
सत्यप्रमोदटीका
बहुत्वनिरवकाशत्वादिकमेव प्राबल्यप्रयोजकं न केवलं परत्वं निषेधरूपत्वं वा ।
‘द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोः स्वभावो बलवानुपजीव्यादिकश्च सः’
इति तत्त्वनिर्णयोक्तिं समर्थयमानः केवलं परत्वस्य प्राबल्यप्रयोजकत्वेऽति प्रसङ्गमाह स्मृत्येति ।। १३३२ ।।
युक्तिमल्लिका
निषेधाद्विधिबाधश्चेद्बौद्धोक्त्या धर्मबाधनम् ।
तथा शून्यत्वकथया ब्रह्मबाध्यं भवेत्तव ।। १३३३ ।।
सुरोत्तमटीका
ते मते । निषेधस्य बाधकत्वे दोषान्तरं चाह ।। निषेधादिति ।। १३३३ ।।
सत्यप्रमोदटीका
निषेधमात्रस्य बाधकत्वप्रयोजकत्वे च दोषान्तराण्याह निषेधादिति । शून्यत्वकथया बौद्धसम्बन्धिन्या ‘शून्यं तत्त्वमविज्ञेय-मि’त्यादिरूपया । यद्वा ‘असदेवेदमग्र आसीदि’ति निषेधश्रुत्या ‘सत्यज्ञान-मनन्तं’ इति श्रुतेः । इदं उपलक्षणम् । ‘परत्वं तु प्रमानन्तरभ्रमे व्यभिचारि दृश्यते च नक्त्वा सेडिति परं प्रति मृडेत्यादिपूर्वं बाधकम्’ इत्यादिकं चात्र पूर्वत्र चानुसन्धेयम् । (न्याया.१ । १४ प.११८) ।। १३३३ ।।
युक्तिमल्लिका
परया भार्यया कार्यनिषेधपरया तव ।
पतिस्त्वं गृहकृत्यानां विधाता हन्त बाध्यसे ।। १३३४ ।।
सुरोत्तमटीका
परं परिहसन्पक्षद्वयस्यापि व्यभिचारमाह ।। परयेति ।। कार्यनिषेधपरया गृहकृत्यं कर्तव्यमित्युक्तेन शक्यत इति प्रतिवक्त्र्येत्यर्थः ।। १३३४ ।।
सत्यप्रमोदटीका
लोकरीत्या परन्यायं अपहसति परयेति ।। १३३४ ।।
युक्तिमल्लिका
किञ्च पूर्वं निषेध्यं च तादात्म्यमभवत्तव ।
भेदः परो निषेधो मे योऽन्योन्याभावरूपकः ।। १३३५ ।।
सुरोत्तमटीका
अपि चायं न्यायस्तवैवानिष्ट इत्याह ।। किं चेति ।। यः भेदः ।। १३३५ ।।
सत्यप्रमोदटीका
स्वव्याघातकरश्चायं परस्य न्याय इत्याह किञ्चेति ।। १३३५-१३३७ ।।
युक्तिमल्लिका
अतस्त्वन्न्याय एवायं चित्रं मत्कार्यसाधकः ।
यद्बलादैक्यवाक्यानां बाधिका भेदवागभूत् ।। १३३६ ।।
अतो निरवकाशं यत्तदेव बलवत्तरम् ।
दुर्बलं सावकाशं स्यादिति सर्वं मनोरमम् ।। १३३७ ।।
सुरोत्तमटीका
यद्बलात् यस्य न्यायस्य बलात् ।। १३३६,१३३७ ।।