यदि सांसारिकद्वैतमिव मुक्तौ द्विता भवेत्

यत्र हि द्वैतमिव भवति इति श्रुत्यर्थः

युक्तिमल्लिका

यदि सांसारिकद्वैतमिव मुक्तौ द्विता भवेत् ।

तदाऽन्योन्यं दर्शनं स्यात्सख्यं विषयभोक्तृता ।। २९१ ।।

सुरोत्तमटीका

‘‘यत्र द्वैतमिव भवति । तदितर इतरं पश्यति । यत्र-त्वस्य सर्वमात्मैवाभूत् । तत्केन कं पश्येत्तत्केन कं जिघ्रेद्विज्ञातारमरे केन विजानीयाद्येनेदमखिलं वेद तं च केन विजानीयादि’’ति श्रुत्यादितर्कमुद्रया द्वैताभावस्य दूषितत्वान्नाद्वितीयावस्था मुक्तिरित्याह ।। यदीति ।। अव्यया-नामनेकार्थत्वाद्यत्रेत्यस्य यदीत्यर्थकथनम् । अन्यथा तदित्यस्य तत्रेत्यर्थकथनं परस्यापि न स्यात् । सांसारिकद्वैतमिवेति । फलितार्थकथनम् अन्योन्यदर्शनं स्यादित्यादि ।। २९१ ।।

सत्यप्रमोदटीका

मुक्तिस्वरूपनिर्धारणाय प्रवृत्तेन याज्ञवल्क्येन मैत्रेयीं प्रति उपदिष्टं मोक्षस्य निर्विशेषभावात्मकत्वखण्डनपरं मन्त्रं तात्पर्यतो व्याख्याति यदीति ‘यत्र हि द्वैतमिव भवति । तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत् । तत्केन कं पश्येत् केन कं जिघ्रेद्विज्ञातारमरे केन विजानीयात् येनेदमखिलं वेद तं च केन विजानीयात्’ इत्यस्य मन्त्रस्य तर्कमुद्रयाऽऽक्षेपपरत्वमुक्तमनुव्याख्याने ‘आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् । घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः । येनेदमखिलं वेद विज्ञातारं स्वमेव च । केन तं च विजानीयादित्यनिष्टं च सर्वथा’ इति । अस्यार्थः सुधायामुक्तः यत्र यदि, द्वैतं भवति, तत् तर्ह्येव, इतर इतरं पश्यतीत्यादिना व्याप्तिमभिधाय हिशब्देन तस्याः प्रमितत्वं चोक्त्वा, यत्र यदि तु अस्य आत्मनः अपेक्षितं सर्वमात्मैवाभूत् स्वव्यतिरिक्तं न स्यात् । तत् तर्हि केन साधनेन कं अर्थं पश्येत् । न केनापि किञ्चिदित्यनिष्ट-प्रसङ्गोऽभिधीयते इति ।

तदनुरोधेन मन्त्रं विवृणोति यदीति इवशब्दस्योपमार्थत्वमाश्रित्योक्तं सांसारिकद्वैतमिवेति । अस्वातन्त्र्येण सादृश्यं, तच्च स्वरूपकथनम् । व्याप्तेरनङ्गत्वात् । तदुक्तं सुधायां ‘द्वैतस्यास्वातन्त्र्यमभिप्रेत्य द्वैतमिवेत्युक्तम् । न तु द्वैताभावमभिप्रेत्य । कुतः । क्वचिदभिधानादाविवशब्दस्याभाव-वाचिताऽनुक्तेरित्यर्थः । अस्वातन्त्र्यं चात्र स्वरूपमात्रमुक्तम्’ इति । अत्र द्वैतेनोपमीयमानत्वकथनेन द्वैतस्य पारमार्थिकत्वं बोध्यते । स्वीकृतं चैतत्परेणापि ‘न हि विष्णुमित्रो वन्ध्यापुत्रवदवभासते इति कश्चिदाचक्षीत । चन्द्रमुखयोर्वस्तुत्वोपलम्भात् (आनन्दगिरि) । अत्र विस्तरः भे.प.ब्र.सू. इति ग्रन्थे । यद्वा न्यायामृतोक्तरीत्या इवशब्दोऽल्पार्थकः । पुराणे ‘दशरात्रै-र्भुक्तमिव न सम्यक् स्वल्पभोजनादि’ति । ‘इवोपमायामल्पार्थे इत्यमरोक्तेः’ इति तत्र व्याख्यानात् ।। २९१ ।।

युक्तिमल्लिका

यदा त्वात्मैक एव स्यान्मुक्तौ नान्यत्तु किञ्चन ।

तदा कं केन पश्येत्स कं जिघ्रेत्स्वं च केन वा ।। २९२ ।।

पश्येदकरणस्तस्मान्मोक्षस्यापुरुषार्थता ।

अतोऽवश्यं भवेद्द्वैतं मुक्तौ संसारवत्सताम् ।। २९३ ।।

इति श्रुतिस्तर्कमुद्रामाश्रित्य द्वैतमेव यत् ।

स्थिरीकरोति मुक्तानां कस्य स्यादद्वितीयता ।। २९४ ।।

सुरोत्तमटीका

 यत्रत्वस्य सर्वमात्मैवाभूदित्यस्य फलितार्थकथनं यदेत्यादि । तथाचायमर्थः । यदा मुक्तौ । अस्य मुक्तस्य दृष्टान्ते द्वैतपद-बलाद्दार्ष्टान्तिके द्वैतमित्यनुवर्तते । तथा च संसारे द्वैतमिव मुक्तावपि द्विता द्वैतं यदि भवेदित्यर्थः । तदित्यस्य सर्वं देहेन्द्रियादिकं यद्यात्मैवाभूदात्मव्यतिरेकेण किमपि नाभूदिति यावत् । मौक्तस्त्रीपुरुषादिनानाविधजीवदेहानां तदिन्द्रियाणां तद्भोगार्हदिव्यान्नपानीयादीनां च द्वैतं यदि न स्यादिति तात्पर्यार्थः । स्वदेहेन्द्रियादिभिस्सह स्वस्य तु द्विताव्यवहारसाधकत्वेन द्वितासम्बन्धित्वा-द्द्वैतपदोदितो विशेष एव ग्राह्यः । तर्हि तदा मुक्तौ स मुक्तः केन करणेन किं रूपादिविषयं पश्येत्केन करणेन कं गन्धादिविषयं जिघ्रेत् । विज्ञातारमात्मान-मन्यं च केन करणेन विजानीयात् । येन परमात्मनेदं मुक्तावपेक्षितसद्रूप-सद्गन्धादिविषयं वेद अनुभवति । यत्प्रसादान्मौक्तसर्वकामाननुभवतीति यावत् । तं परमात्मानं केन विजानीयात् । देहेन्द्रियादिरहितघटो यथा पश्यति जिघ्रति च मुक्तस्सर्वान्कामान् । ‘‘सोऽश्नुते सर्वान्कामानि’’ति श्रुतेः । अतश्चिद्रूप-नानाजीवदेहेन्द्रियादीनां दिव्यगन्धरसान्नपानादीनां द्वैतमपि मुक्ताववश्य-मस्तीति युक्तम् । इममेवार्थमभिप्रेत्योक्तं यदेत्यादिना । आपाद्यस्येष्टापादन-रूपत्वपरिहाराय तस्मान्मोक्षस्यापुरुषार्थता स्यादित्यनिष्टान्तरमुक्तम् ।। २९२–२९४ ।।

सत्यप्रमोदटीका

 एवं प्रसङ्गाङ्गव्यतिरेकव्याप्तिमुक्त्वा अनिष्टं प्रसञ्जयति यदा त्विति । तदुक्तं तत्त्वनिर्णयटीकायां ‘यदि निर्विशेषचैतन्यमात्रमवशिष्यते न किमपि वस्तु इति मतं स्यात्तदा दर्शनघ्राणादिरूपभोगोऽस्य न स्यादिति । न चेष्टापत्तिः । भोगस्य प्रमाणसिद्धत्वात् । तदुक्तमनुव्याख्याने ‘सोऽश्नुते सर्वकामांश्च कामान्नी कामरूप्यथ’ ‘इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि’ इति । मोक्षस्यापुरुषार्थापातात् इत्याह तस्मादिति । अत इति विपर्यय-पर्यवसानम् ।। द्वैतमेवेति तत्त्वनिर्णयटीकोक्तनिर्वचनानुसारेण भिन्नं भेद इति वाऽर्थः । स्वस्वरूपज्ञाने तत्प्रतिनिधिर्विशेषो वा ।। २९२–२९४ ।।

युक्तिमल्लिका

यदि वस्तुस्थितिकथा वृथाऽभूत्तर्हि ते श्रुतिः ।

विज्ञातारमरे केन विजानीयादिति स्फुटम् ।। २९५ ।।

यत्स्वज्ञानं च नेत्याह ततस्तार्किकमोक्षवाक् ।

अभूदियं वेदवाणी कृपाणी ते भवेद्ध्रुवम् ।। २९६ ।।

सुरोत्तमटीका

 अस्मदुक्ततर्कमुद्रामनङ्गीकृत्य मुक्तावात्मव्यतिरिक्तस्या-भावात्किमपि न पश्येन्नापि जिघ्रेदिति वस्तुस्थितिपरतया व्याख्यातुर्दोषमाह ।। यदीति ।। ततः परज्ञानवत्स्वज्ञानस्याप्यभावात्तार्किकमोक्षवाक् । ज्ञानमात्र-नास्तित्वरूपतार्किकमोक्षप्रतिपादकवाक्यं स्यात् । वस्तुस्थितिपरत्वाङ्गीकारे ‘‘विज्ञातारमरे केन विजानीयादि’’त्यपि वस्तुस्थितिस्स्यात् । एवं च तवाप-सिद्धान्तस्स्यात् । परस्यैवाभावेन परज्ञानाभावमात्रस्य तवानुकूलत्वेऽपि सुखज्ञानात्मकस्वरूपमात्रस्य तदापि सत्त्वेन तदुभयानुभवस्य त्वयाप्यङ्गी-कारात् । न च वाच्यं स्वावेद्यत्वरूपस्वप्रकाशत्वं वदतो मम तदनुभवोऽपि नापेक्षित इति । तथा सति मोक्षस्यापुरुषार्थत्वप्रसङ्गात् । तव मतेऽपि सुखज्ञानात्मकमनस इव तदनुभवितृत्वाभावेऽचेतनत्वस्यात एवापुरुषार्थ-भाक्त्वस्य चापरिहारेण तदनुभवावश्यम्भावात् । स्वावेद्यत्वमात्रस्य घटेऽपि सत्त्वेन ज्ञानरूपत्वे सति स्वावेद्यत्वस्य मनसि विद्यमानत्वेन च विषय-प्रकाशत्वस्य वक्तव्यत्वाच्च । एवं च स्वविषयज्ञानाभावकथनं न वस्तुस्थिति-स्स्यात् । अतस्तर्कमुद्रैव परेणाप्याश्रयणीयेति भावः ।। २९५,२९६ ।।

सत्यप्रमोदटीका

 वृथेति । लिङादिप्रत्यया निरर्थकाः स्युः । इवशब्दस्य त्वदभिमताभावार्थकत्वे आत्मैवाभूदित्यस्य वैयर्थ्यप्रसङ्गः । तदुक्तमनुव्याख्याने ‘न चाभावतः क्वचित् । आत्मैवाभूदिति ह्यस्मादविशेष-प्रसङ्गतः’ इति । अनिष्टप्रसङ्गत्वं स्फुटं चात्रेत्याह विज्ञातारमरे इति स्वपर-ज्ञानाभावस्य तवाप्यनिष्टत्वावश्यम्भावात् । ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेदि’ति अज्ञानस्यानिष्टत्वप्रमितेः ।। तार्किकेति । तेन ज्ञानमात्र-नास्तित्वाङ्गीकारात् ।। कृपाणी अपसिद्धान्तपर्यवसायिनी ।। २९५,२९६ ।।

युक्तिमल्लिका

न प्रेत्य संज्ञेति च वाक्प्राकृतज्ञानशून्यताम् ।

मुक्तस्याह परं नोचेज्जिग्युस्तार्किकबालकाः ।। २९७ ।।

सुरोत्तमटीका

 अत एव न प्रेत्यसंज्ञास्तीति वाक्यस्य स्वरूपभूत-ज्ञानमङ्गीकुर्वता त्वया मया चान्य एवार्थो वक्तव्य इत्याह ।। न प्रेत्येति ।। नो चेत्प्राकृतज्ञानमात्रापहारिणी नो चेत् । ज्ञानमात्रनिषेधकार्यपीत्यर्थः ।।२९७।।

सत्यप्रमोदटीका

 नन्वेवं तर्हि ‘न प्रेत्य संज्ञाऽस्ती’ति मुक्तौ ज्ञाना-भावप्रतिपादकस्य याज्ञवल्क्यवचनस्य का गतिरित्यत आह नेति । तदुक्तं तत्त्वनिर्णयटीकायां ‘मुक्तस्य तु भूतानां विनिवृत्तत्वात्तन्निमित्तं वृत्तिज्ञानम् उपलक्षणम् एतत्, उत्पत्त्यादिकं च नास्तीति याज्ञवल्क्येनोक्तमिति । मुक्तविषयकम् अस्मदादिसंसारिकर्तृकमपरोक्षज्ञानं नास्तीति वाऽर्थः ।।२९७।।

युक्तिमल्लिका

किञ्च न प्रेत्यसंज्ञाऽस्तीत्युक्तिर्मोहनिपातनम् ।

इति श्रुतेश्च न ज्ञानमात्रं सा वाड्निषेधति ।। २९८ ।।

सुरोत्तमटीका

 अपि चात्रैव मा भगवान्मोहान्तमापिपत् । न प्रेत्य संज्ञा स्तीऽत्युत्तरवाक्यपर्यालोचनयापि न सा श्रुतिर्ज्ञानमात्रनिषेधिकेत्याह ।। किञ्चेति ।। इति श्रुतेरित्यर्थप्रतिपादिकाया अत्रैवेति श्रुतेः । तदेव वाक्यमनूद्य तदर्थस्य मोहाख्यनाशे पातनरूपत्वोक्तेश्च न सा वाक् ज्ञानमात्रनिषेधिकेति भावः ।। २९८ ।।

सत्यप्रमोदटीका

 अवश्यं चैतदेवम् । अन्यथा ‘अत्रैव मा भगवा-न्मोहान्तमापिपत्’ इति ज्ञानाभावमाक्षिपन्त्या मैत्रेय्याः आक्षेपो निरुत्तरः स्यादिति भावः । तदुक्तमनुव्याख्याने ‘मैत्रेय्युक्तोत्तरं च किमि’ति ।। २९८ ।।

युक्तिमल्लिका

यत्र वस्तु द्वैतमिव द्वित्रलग्नं मनो भवेत् ।

तत्रेतरः पुमान्पश्येदितरार्थानपि स्फुटम् ।। २९९ ।।

सुरोत्तमटीका

 यत्र त्वस्येति वाक्यस्य यथास्थितपदैरेव लभ्यमर्थान्तर-माह ।। यत्र वस्तु द्वैतमिवेति ।। वस्तूनां द्वैतं नानात्वमिवेत्यर्थः । द्वित्रलग्नं द्वित्रेषु वस्तुषु लग्नं मनो भवेद्यथा तथा तत्तदर्थदिदृक्षापि यत्र देशे भवेदिति यावत् । दृष्टान्तकथनादेव तदनुकूलदार्ष्टान्तिकोहनमपि पदलभ्यमेवेति द्रष्टव्यम् । तदित्यस्यार्थकथनं तत्रेति ।। २९९ ।।

सत्यप्रमोदटीका

 यद्वा असंप्रज्ञातसमाध्यवस्थाकथनपरेयं श्रुतिरिति वर्णकान्तरमाह यत्रेति । अपरोक्षज्ञानिनोऽसंप्रज्ञातसमाधिस्थस्य स्थितिरुक्ता गीतायां ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्ट-स्तस्य कार्यं न विद्यते’ इति । सर्वमिष्टमिति आत्मन्येव च सन्तुष्ट इत्युक्तेरिति भावः। ‘यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः’ इति च ।।२९९,३००।।

युक्तिमल्लिका

यत्र त्वेकाग्रमनसः सर्वमिष्टं च योगिनः ।

आत्मैवाभूत्तत्र केन ततोऽन्यं कं स पश्यति ।। ३०० ।।

कं जिघ्रति स्वकं रूपं केन वाऽसौ प्रपश्यति ।

येनेदमखिलं वेद पश्येद्वा केन तं गुरुम् ।

इत्यात्मरतमस्तौद्वा यत्र त्वस्येति वागियम् ।। ३०१ ।।

सुरोत्तमटीका

 यत्र तपोयोग्यविविक्तप्रदेशे । इममेव विशेषं द्योतयितुं श्रुतौ तुशब्दः । सर्वमिष्टं सर्वमिति विशेषणस्य विशेष्यसापेक्षत्वात्तत्पूरणायेष्ट-मित्युक्तम् । दिदृक्षा जिघ्राशा जिघृक्षादीनामपि विषय इति यावत् । सर्वेन्द्रियै-रपि हरिमेवानुभवामीति मनो भूदिति भावः । अस्येत्यस्यार्थकथनं योगिन इति । केन करणेन कं पदार्थम् । सर्वेन्द्रियाणामात्मन्येवोपरतत्वेन बाह्य-पदार्थेभ्यो निवृत्तेरिति भावः । कं पश्येदित्यस्यैवार्थान्तरकथनं स्वकं रूपं केन वासौ प्रपश्यतीति । येनेदमखिलं वेद तं च केन विजानीयादित्यस्यार्थकथनं येनेति । येन गुरुणा । इदं स्वेन क्रियमाणध्यानादिकौशलम् । किमर्थ-मेतत्कथनमित्यत आह ।। इतीति ।। ३००,३०१ ।।

सत्यप्रमोदटीका

 स्वकं रूपं बाह्यदेहेन्द्रियादिकम् । स्वस्वरूपज्ञानस्य तदाऽप्यविकलत्वादिति ध्येयम् । केन तं गुरुमिति । केन अधिकप्रयोजनेन प्रत्युत्थानादिना गुरुं पश्येदिति भावः । तदुक्तं प्रमेयदीपिकायां ‘अपहायेत्यनेन गुर्वादिपूजायामाधिक्यं निषेधति । आधिक्यस्यैव पूर्वत्यागोपयोगित्वादि’ति ।। ३०१ ।।

युक्तिमल्लिका

अक्षासक्तः किमश्रौषीन्मातुर्मृतिमुदीरिताम् ।

किं पश्येत्पश्यतोऽपि स्वं घटस्थहृदया नटी ।

शरकृत्केन कं जिघ्रेत्कं जानीयात्कमीक्षते ।। ३०२ ।।

सुरोत्तमटीका

 भगवद्ध्यानैकरत अन्यपदार्थानवलोकनं नापूर्वमिति भावेन लौकिकदृष्टान्तानाह ।। अक्षेत्यादिना ।। अक्षासक्तश्च तु रङ्गादि-क्रीडासक्तः । इत्थमपि गाधा लोके प्रसिद्धा । स्वमात्मानं पश्यतः पुरुषान् घटस्थहृदया मौलौस्थापितघटस्थहृदया । इयमपि कथानाट्यरङ्गे प्रसिद्धा । शरकृच्छरवक्रतादिकं परिहरन् धनुर्विद्यानिपुणः

।। ३०२ ।।

सत्यप्रमोदटीका

 आत्मन्येव मनोयोगं युञ्जानस्य समाधिस्थस्य बाह्येन्द्रियैः विषयाणां सन्निकर्षसद्भावेऽपि मनसः तैः इन्द्रियैः सन्निकर्षाभावेन न दर्शनस्पर्शनादिकं इत्यत्र लोकसिद्धदृष्टान्तान् दर्शयति अक्षासक्त इति । मनसः श्रवणेन्द्रियेण सन्निकर्षाभावात् । स्वं स्वात्मानम् । पश्यतः जनान् । शरकृत् यथोक्तं ‘तदैवमात्मन्यवरुद्धचित्तौ न वेद किञ्चिद्बहिरन्तरं वा । यथेषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे’ इति योगिनः चित्तै-काग्रयं भक्त्युद्रेकेन, अक्षासक्तादीनां तु व्यसनादिनेति त्वन्यदेतत् ।। ३०२ ।।

युक्तिमल्लिका

मुक्ताः स्वात्मरता जिघ्रन्तीक्षन्ते कं विजानते ।

सेनामन्यमनाः सेनां नाज्ञासीदिति लौकिकम् ।

आत्मैकासक्तचित्तोऽपि तथेति किमलौकिकम् ।। ३०३ ।।

सुरोत्तमटीका

 पूर्वं सांसारिकापरोक्षज्ञानिविषयतया व्याख्यातम् । इदानीं मौक्तध्यातृविषयं वेदवाक्यं स्यादित्याह ।। मुक्ता इति ।। तुच्छफलाय शरकारे ध्वनत्तूर्यभेर्यादिसहितराजसेनाया अनवलोकनस्य दृष्टत्वान्महाफल-दायकभगवद्ध्यातरि तदन्यानवलोकनं किमपूर्वमतश्श्रुतेरयमेवार्थ इत्याह ।। सेनामिति ।। सेनामिनेन राज्ञा सहितां सेनां राजचमूम् । उपलक्षणं चैतत् । चतुरङ्गबलबृंहितादिघोषोपेतामित्यपि द्रष्टव्यम् ।। ३०३ ।।

सत्यप्रमोदटीका

 ध्याननिरतमुक्तपरतयाऽपि योजयति मुक्ता इति । सेनां इनेन राज्ञा सहितां सेनां सैन्यम् ।। ३०३,३०४ ।।

युक्तिमल्लिका

अप्राकृतप्राकृताभ्यां द्वाभ्यां हीतो भवे भवेत् ।

द्वीताः संसारिणस्तस्मात्तत्सम्बन्धिवपुस्त्विदम् ।। ३०४ ।।

बाह्यं द्वैतमिति प्रोक्तमस्वभावत्वतश्च तत् ।

इवशब्दोदितं जीवे यदा भवति तन्नृणाम् ।। ३०५ ।।

तदा त्वितरशब्दोक्तो बाह्येन्द्रियगणोऽप्ययम् ।

पश्येत्स्वरूपादितरमर्थं देहघटादिकम् ।। ३०६ ।।

यत्र त्वात्मात्मकं सर्वमभूद्देहेन्द्रियादिकम् ।

तत्र मुक्तौ केन बाह्येनाक्ष्णा बाह्यार्थमीक्षते ।

कं वा जिघ्रेद्विजानीयादित्यर्थो वा श्रुतेर्भवेत् ।। ३०७ ।।

सुरोत्तमटीका

 प्रकारान्तरेण श्रौतपदानामत्यन्तमनुकूलमर्थं वदन्ननयैव श्रुत्या संसारान्मुक्ते र्वैलक्षण्यं दर्शयति ।। अप्राकृतेति ।। अप्राकृताभ्यां देहेन्द्रियाभ्यामितस्सहितो जीवः । भवे संसारे । द्वीतानामिदं द्वैतमिति व्युत्पत्त्या तत्सम्बन्धि संसारिजीवसम्बन्धि । इदं परिदृश्यमानं जडम् । तद्वपुः । उक्तव्युत्पत्तेः प्राकृताप्राकृतदेहयोस्समत्वेऽपि प्राकृतदेहस्यैवावगमने निमित्तमाह ।। अस्वभावत्वत इति ।। इवशब्दोदितं द्वैतं भवतीवेति क्रियायोगे सत्यस्वभावत्वतो स्वाभाविकत्वरूपमर्थमादायोदितं प्रतिपादितं स्यात् । भवतीवेत्युक्तेस्स्वभावतो नास्तीत्यर्थलाभादिति भावः । द्वैतपदार्थमुक्त्वेदानीं वाक्यं योजयति ।। यदेति ।। यत्रेति पदस्य कालवाचकत्वे यस्मिन्काल इत्यर्थलाभाद्यदेत्युक्तम् । तत्प्राकृतशरीरम् । नृणां भवति अस्ति । तदिति श्रौतपदस्यार्थस्तदेति । इतरशब्दोक्तस्स्वरूपेन्द्रियेभ्यो भिन्नत्वेनेतरशब्दोक्तो बाह्येन्द्रियगणः प्राकृत चक्षुरादीन्द्रियगणः । स्वरूपाज्जीवस्वरूपात् ।।

यत्र तु मुक्तौ संसाराद्विशेषं द्योतयितुं तुशब्दः । सर्वमात्मैवाभूदित्यस्यार्थ आत्मकमित्यादि । एवशब्देन श्रुतिरात्मभिन्नदेहेन्द्रियाणि व्यवच्छिनत्ति । अस्मिन्नर्थे सामानाधिकरण्यप्रयोगस्य साक्षादैक्यार्थकत्वेनौपचारिकत्वा-नङ्गीकारादत्यन्तफलस्वारस्यं द्रष्टव्यम् । अनुकूलविभक्त्यानुवृत्तेतरपदार्थकथनं बाह्येनेति । बाह्यार्थं कं बाह्यार्थम् । अत्राप्यनुवृत्तेतरपदार्थकथनं बाह्येति । बाह्यं अप्राकृतादितरमर्थमित्यर्थः । प्राकृतदेहस्य सर्वथाऽभावादितराभावः । गेहादीनां तु लक्ष्म्यात्मकत्वादप्राकृतेतरत्वाभावः । मुक्तावपि केषाञ्चिच्छुद्ध-प्राकृतानां सत्त्वेऽपि प्राकृतेन्द्रियगणस्य सर्वथाऽभावात् केनेतरेण चेतरं पश्येज्जिघ्रेत् । किन्तु स्वरूपचक्षुर्घ्राणादिनैव पश्येज्जिघ्रेदित्यादियोजना द्रष्टव्या । अनेन संसारे प्राकृतेन्द्रियैरपि विषयान् भुङ्क्ते मुक्तौ च स्वरूपेन्द्रियैरेव सकल-विषयभोग इति स्वरूपाविर्भावाख्यमहिम्नः प्रतिपादने श्रुतेस्तात्पर्यमित्युक्तं भवति ।। ३०४–३०७ ।।

सत्यप्रमोदटीका

 यदा संसारे । तत् अस्वभावभूतं बाह्येन्द्रियादिकम् ।। यत्र यदा भोगार्थं स्वेच्छया बाह्यशरीरग्रहणाभावस्तदा । ‘एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवतीति बादरायणो मन्यते’ इति भाष्योक्तेः । ‘रजःप्रभृतीनामवृत्तिर्नाम बन्धकतया व्यापाराभावः’ इति सुधोक्तमनुसन्धेयम् सर्वथा स्वरूपेन्द्रियैरेव विषयभोग इति तात्पर्यम् ।। ३०५–३०७ ।।

युक्तिमल्लिका

यथोदं शुद्धमासिक्तं शुद्धे स्यात्तादृगेव हि ।

एवं मुनेर्जानतश्च शुद्धोऽप्यात्मा परात्मनि ।

प्रविष्टस्तादृगेव स्यान्न तदात्मेति या श्रुतिः ।। ३०८ ।।

सुरोत्तमटीका

 श्रुतेः परोदीरितसर्वैक्यरूपार्थे मुक्तिप्रतिपादकबहुश्रुति-विरोधश्च स्यादित्याह ।। यथोदमित्यादिना ।। उदमुदकम् । यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति।एवं मुनेर्विजानत आत्मा भवति गौतमेति श्रुतिरनेन सङ्गृहीता।।३०८ ।।

सत्यप्रमोदटीका

 निरवकाशबहुश्रुतिविरुद्धं चैक्यमित्याह यथेति ‘यथोदं शुद्धे शुद्धमासिक्तं तादृगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम’ इति श्रुतिः तत्त्वनिर्णयटीकायां व्याख्याता । ‘तादृगेव भवति न तु तदेव भवति । एवं विजानतो मुनेः विजानतां मुनीनाम्, आत्मा अधिपतिः । हिरण्यगर्भोऽपि मुक्तः परमात्मानं प्राप्य तादृगेव भवति । किमुतान्य इत्यर्थः’ इति ।। ३०८ ।।

युक्तिमल्लिका

परमं साम्यमेवेति ब्रह्मणा सह चेति वाक् ।

उपसङ्क्रम्य चेत्युक्तिरुपसंक्रामतीति वाक् ।। ३०९ ।।

साक्षाज्ज्ञानफलं मोक्षं शंसन्त्यस्तत्र तत्र हि ।

कथं घटेरन्सर्वैक्ये बह्व्योऽर्थान्तरवर्जिताः ।। ३१० ।।

सुरोत्तमटीका

 ‘‘परमं साम्यमेवेत्यनेन’’ यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरंजनः परमं साम्यमुपैती’’ति श्रुतिस्संगृहीता । ब्रह्मणा सह चेति वागित्यनेन ‘‘यो वेदनिहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिते’’ति श्रुतिर्गृहीता । उपसंक्रम्य चेत्युक्तिरित्यनेन ‘‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येती’’ति श्रुतिस्सङ्गृहीता । एतमानन्द-मयमात्मानमुपंसक्रम्येत्यारभ्य कामान्नीकामरूप्यनुसञ्चरन्नित्यंता भृगुवल्ली श्रुतिश्च । उपसंक्रामतीति वागित्यनेन एतमन्नमयमात्मानमुपसंक्रामतीत्यादिरूपा ब्रह्मवल्ली श्रुतिर्गृहीता ।

एवं मुनेर्विजानतः तदा विद्वान् यो वेदेत्यादिरूपेण ज्ञानिनामेव तत्र तत्रोक्तफलश्रवणात्साक्षाज्ज्ञानफलमित्युक्तं मोक्षम् । परममोक्षमित्यर्थः । उपलक्षणं चैतत् । दृष्टान्ते आधाराधेययोरुभयोरप्युदयोश्शुद्धत्वोक्त्या दार्ष्टान्ति-केऽपि । न च वाच्यमन्नमयादीनां कोशत्वात्कथं तत्प्राप्तिर्मोक्ष इति । कामान्नीकामरूप्यनुसञ्चरन्नित्युक्ततज्ज्ञानफलस्य मुक्तेरन्यत्रासम्भाविततया मौक्तफलत्वावश्यम्भावेन तत्साधकान्नमयादीनां ब्रह्मत्वापरिहारात् । स्थानद्वयेऽन्नमयादिपञ्चकेष्वन्नमयमात्मानमुपसङ्क्रामतीत्यादिरूपेणैतमन्नमय-मात्मानमुपसङ्क्रम्येत्यादिरूपेण च दुर्जनदन्तभङ्गाय दशधा श्रुत्यैवान्नमयादीनां पञ्चानामप्यात्मत्वोक्तेश्च । अत एव कोशत्ववादिन उपसङ्क्रामत्युपसङ्क्रम्येति च पदयोरतिसङ्क्रामत्यतिसङ्क्रम्येति च यदनानुभविकार्थकथनं तदपि गर्भस्रावेणैव गतम् ।आत्मातिक्रमणस्य स्वमते प्रयोगात्।न हि कोऽप्युपनयनशब्दस्य विप्रसमूहमतिक्रम्य बहिर्नयनमर्थं ब्रूते।।३०९,३१० ।।

सत्यप्रमोदटीका

 ‘तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्य-मुपैति’ इत्यस्या अर्थः तत्रैवोक्तः । ‘पुण्यमनिष्टम् । निरञ्जनो निर्लेपः । साम्यं परमात्मना निर्दुःखत्वादिसादृश्यमुपैतीति भेदोक्तिरि’ति । ‘सोऽश्नुते सर्वा-न्कामान् सह ब्रह्मणा विपश्चिता’ इति श्रुतौ ब्रह्मणा सहेति भेदोक्तिः । न च ब्रह्मणा ब्रह्मरूपेण सर्वान् कामान् सह युगपदश्नुते इति व्याख्येयम् । ब्रह्मात्मैकत्वं प्राप्तस्य कामावाप्त्यनङ्गीकारात् । ‘एतमन्नमयमात्मानमुपसंक्रम्य’ इति भृगुवल्लीवाक्येन ‘एतमन्नमयमात्मानमुपसङ्क्रम्य’ इति ब्रह्मवल्लीवाक्येन चेत्युभयत्र समीपप्राप्त्युक्त्या भेदः प्रतीयते । साक्षाज्ज्ञानं साक्षात्कारः । तत्फलं परमं मोक्षम् । ‘एते अन्नमयाः कोशा इत्येतद्व्याख्यानं पूर्वोत्तरा-परामर्शमूलम् । न हि शरीरादिकोशप्राप्तिर्ब्रह्मविद्याफलमिति सम्भवति’ इति सुधोक्तेः । न चात्र उपसङ्क्रमणशब्दस्य अतिक्रमोऽर्थः । उपपूर्वस्य क्रमेः प्राप्त्यर्थत्वात् ।। ३०९,३१० ।।

युक्तिमल्लिका

यदि जीवन्मुक्तिपरा सर्वाऽपीयं मम श्रुतिः ।

यत्र त्वस्येति या वाक्ते तर्हि सुप्तिपरास्तु सा ।। ३११ ।।

यत्र जागरणे नानापदार्थद्वैतवन्नृणाम् ।

तज्ज्ञानं च भवेत्तर्हि स्यादन्योन्यनिरीक्षणम् ।। ३१२ ।।

सुरोत्तमटीका

 यत्र त्वस्येति वाक्यस्य पुनरप्यर्थान्तरं वक्तुं मन्दाशङ्का-मुत्थापयति ।। यदीति ।। ३११,३१२ ।।

सत्यप्रमोदटीका

 श्रुतिः समुदायैकवचनम् । ते परममुक्तिपरत्वेन त्वदभिमता ।। ३११,३१२ ।।

युक्तिमल्लिका

यत्र सर्वं च करणमात्मसाक्ष्येव केवलम् ।

बाह्यानां मनआदीनां यदा ह्युपरतिस्तदा ।। ३१३ ।।

तत्र सुप्तौ केन किं वा पश्येज्जिघ्रेच्च कं तदा ।

स्वद्रष्टारं च कं पश्येदज्ञानावरणात्तदा ।

येनेदमखिलं वेद जानीयात्तं च केन सः ।। ३१४ ।।

सुरोत्तमटीका

 सुप्तौ स्वाज्ञानसद्भावात् ‘‘विज्ञातारमरे केन विजानीयादि’’त्यस्य कोऽर्थ इत्यत आह ।। स्वद्रष्टारमिति ।। स्वं सुप्तं स्वद्रष्टारं जाग्रत्पुरुषम् । तं परमात्मानम् । स सुप्तः ।। ३१३,३१४ ।।

सत्यप्रमोदटीका

 स्वद्रष्टारं स्वकर्मज्ञानाश्रयं जाग्रत्पुरुषम् । स्वात्म-ज्ञानस्य सुप्तावपि सत्त्वात् । यद्वा पररीत्या चिदचित्संवलनम् अहङ्कारं इत्यर्थः । तस्याविद्यापरिणामस्य सुप्तावभावादेव ।। ३१४ ।।

युक्तिमल्लिका

अथवा प्राह सा मुक्तौ सुखरूपेन्द्रियादिकम् ।

एकीभवन्ति च परे मुक्ताश्च क्षीरनीरवत् ।। ३१५ ।।

सुरोत्तमटीका

 सुखरूपेन्द्रियादिकमित्यनेन कशब्दस्य सुखवाचित्वा-त्केन सुखरूपेण चक्षुषा कं सुखरूपं जीवान्तरम् । केन सुखरूपेण घ्राणेन कं सुखरूपगन्धयुक्तं नारीमुखं केन सुखरूपेण साक्षिणेत्यादि योजनिकां सूचयति । ‘‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ती’’ति श्रुतेरर्थमाह ।। एकीभवन्तीति ।। क्षीरे नीरमेकीभूतमितिवन्मुक्तानां हर्युदरे प्रवेशेन पृथग-दर्शनादेकीभवन्तीति प्रयोग इति भावः ।। ३१५ ।।

सत्यप्रमोदटीका

 मुक्तौ वस्तुस्थितिनिरूपणपरत्वेनापि श्रुतिं योजयति सुखेति । कशब्दस्य सुखवाचित्वम् । केन सुखात्मकेन तत्तदिन्द्रियेण कं सुखरूपं मुक्तान्तरं विषयभूतं सुखहेतुं गन्धादिकं वा । एकीभवन्ति इत्यनेन ‘कर्माणि विज्ञानमयश्चात्मा परेऽव्यये सर्व एकीभवन्ति’ इति श्रुतिं अभिप्रैति । क्षीरनीरवदिति स्थानैक्यम् । एवं मत्यैक्यं सादृश्यैक्यं चोपलक्षणीयम् । न तु स्वरूपैक्यमत्र विवक्षितम् । बाधितत्वेनासम्भवात् तदुक्तमनुव्याख्याने ‘कथं च यः पूर्वमसौ न पश्चाद्भवेत्स एवेत्यपि युक्तिमेति’ इति । परमते ब्रह्मभावस्य सदा सत्त्वेन च्विप्रत्ययानुपपत्तिः । परे इति सप्तम्यनुपपपत्तिश्चेत्यादिकं ध्येयम् ।। ३१५ ।।

युक्तिमल्लिका

प्रविष्टत्वात्तदुदरे सर्वेषां स्वपतां हृदि ।

अर्थोऽप्येवमभूत्स्वस्थः क्लिष्टार्थो नास्ति कश्चन ।

पुनरावृत्तिरेवासीत्त्वद्वत्त्ववचनस्य च ।। ३१६ ।।

सुरोत्तमटीका

 अर्थान्तरमप्याह ।। प्रविष्टत्वादिति ।। हृदि तदुदरे हृदयस्थस्य प्राज्ञनामकस्य तस्य हरेरुदरे । ‘‘सता सौम्य तदा संपन्नो भवति । प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेदे’’त्यादिश्रुतेस्सुप्तानामपि हर्युदरप्रवेशादिति भावः । तद्वत् मुक्तियोग्यस्य तव मुक्तिं जिगमिषतोऽपि यथा पुनरावृत्तिरेव भवति । तथा मुक्तिप्रतिपादकत्वेनाभिमतमिदं वाक्यं च सुप्तिप्रतिपादनाय पुनरावृत्तिमदभूदिति विनोदोक्तिः ।। ३१६ ।।

सत्यप्रमोदटीका

 पुनः एकीभवन्ति इत्यस्य सुषुप्तौ प्राज्ञेनात्मना संपरिष्वङ्गरूपोऽर्थोऽस्तु इत्याह प्रविष्टत्वात्तदुदर इति । विमतं वाक्यं सुषुप्तिसम्बन्धि मुक्तिसम्बन्धायोग्यत्वात् मायिवत् इति प्रयोगोऽभिमतः । न च दृष्टान्तः साधनविकलः । ‘ततो यान्त्यधमां गतिं’ इति स्मृतिसिद्धत्वात् । श्रुतेर्बाधितार्थवर्णनोद्यतस्य मायिनो मोक्षाशा दूरोत्सारितेति व्यङ्ग्योक्तिः

।। ३१६ ।।

युक्तिमल्लिका

मम वाक्यानि न पुनरावर्तन्ते कदाचन ।

तेषु तेषु प्रकरणेष्वनुक्त्याऽन्यफलस्य हि ।। ३१७ ।।

सुरोत्तमटीका

 आवर्तन्ते परममुक्तिप्रतिपादनं विहाय जीवन्मुक्ति-प्रतिपादकतया न योजयितुं शक्यन्त इत्यर्थः । अन्यफलस्य तत्रोक्तफलादन्य-फलस्य । तदा हीदं कामान्नित्वादिकं जीवन्मुक्तिस्थफलं स्याद्यदि तत्रैव प्रकरणे परममुक्तिस्थफलान्तरमुच्येत । न च तदस्ति । एकस्यां शाखायां साधनमुक्त्वा शाखान्तरे फलकथनस्य स्वोक्तमोक्षसाधने फलं प्रदर्श्य रति-मुत्पादयन्त्याश्श्रुतेरसङ्गतत्वात् । अतस्तत्र तत्रोदितमेव फलं परममुक्तिस्थमेव फलमिति भावः । उपलक्षणं चैतत् । जीवन्मुक्तस्यैवोषस्ते दुर्वाससः परं प्रत्यन्नप्रार्थनदर्शनेन कामान्नत्वादेर्जीवन्मुक्तावसम्भवाच्चेत्यपि द्रष्टव्यम् ।।३१७।।

सत्यप्रमोदटीका

 स्वमते तु नैष दोष इत्याह ममेति । विमतानि वाक्यानि मुक्तिसम्बन्धीन्येव तदितरफलसम्बन्धादर्शनात् । ज्ञानितत्त्ववादिवत् इत्यपि प्रयोग ऊह्यः । ‘ब्रह्मसंस्थोऽमृतत्वमेत्येव’ ‘मामेवैष्यसि सत्यं ते’ इति श्रुतिस्मृत्यनुगृहीतत्वान्न कश्चित्क्षुद्रोपद्रवः ।। ३१७ ।।

युक्तिमल्लिका

मुमुक्षोऽस्त्वस्य केनेदं फलं वक्त्यनपेक्षितम् ।

अन्यत्र हि विरक्तास्ते सर्वविद्याविशारदाः ।। ३१८ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। मुमुक्षोरिति ।। मोक्षेच्छोर्मोक्षेतर-फलकथनस्य ‘‘आम्रान्पृष्टः कोविदारानाचष्ट’’ इतिवदसङ्गतत्वाच्चेति भावः ।। ३१८ ।।

सत्यप्रमोदटीका

 श्रुत्युक्तं जक्षणक्रीडनादिकं न संसार इव दुःखमिश्रं तादृशभोगस्य सत्यसङ्कल्पेन मुक्तेनाप्रेप्सितत्वात् प्रत्युत जिहासितत्वादित्याह विरक्ता इति ।। ३१८ ।।

युक्तिमल्लिका

अज्ञानाख्याञ्जनच्छेदः पुण्यपापविमोचनम् ।

सर्वकामाशनं चैव स्वरूपव्यक्तिरेव च ।

जीवन्मुक्तौ कर्मफले कथं स्याद्धीमतां मते ।। ३१९ ।।

सुरोत्तमटीका

 एतच्छ्रुत्युक्तफलस्य जीवन्मुक्तावसम्भावितत्वाच्च परम-मुक्तिस्थमेवेदं फलमित्याह ।। अज्ञानेति ।। ३१९ ।।

सत्यप्रमोदटीका

 कर्मफले कर्मणा क्लेशपूर्वकसाधनेनैव लभ्यं फलं विषयभोगादिकं न तु सङ्कल्पमात्रेणैव यत्र तस्यां जीवन्मुक्तौ । छेद इति ईश्वरेच्छारूपावरणस्यानपगमादिति भावः । विमोचनम् इति प्रारब्धानाम-वरोधादित्यर्थः । सर्वेति स्वयोग्यसर्वेत्यर्थः । व्यक्तिरिति स्वेन रूपेणाभि-निष्पत्तिरिति भावः ।। ३१९ ।।

युक्तिमल्लिका

यदि कामाशनं तेषां ममन्थुः क्षीरसागरम् ।

यज्ञाशनार्थं कलहस्तत्र तत्र कथं वद ।। ३२० ।।

सुरोत्तमटीका

 तेषां जीवन्मुक्तानाम् । जीवन्मुक्तावपि कामान्नित्व-सर्वकामाशनादिसद्भावेऽपरोक्षज्ञानितया जीवन्मुक्तानामेव देवानाममृतार्थं समुद्रमथनं यज्ञाहुत्यर्थं रुद्रादीनां कलहश्च निर्निबन्धन एव स्यादिति भावः ।। ३२० ।।

सत्यप्रमोदटीका

 तेषां जीवन्मुक्तानां देवानाम् । कलहः दक्षाध्वरे रुद्रादीनामिव । ‘यज्ञभागं न लभतां’ इति दक्षस्य शापनिमित्तकः

।। ३२० ।।

युक्तिमल्लिका

त्वगस्थिमात्रगात्राणां वातपर्णोदकाशिनाम् ।

सदा शरीरसन्तापतपस्यासक्तचेतसाम् ।। ३२१ ।।

मुनीनां नारदादीनां साक्षात्कृतपरात्मनाम् ।

जीवन्मुक्तिदशास्थानां कथं कामान्नितावद ।। ३२२ ।।

सुरोत्तमटीका

 न केवलं जीवन्मुक्तौ सर्वकामाशनमसम्भावितं प्रत्युत विरुद्धमित्याह ।। त्वगस्थीत्यादिना ।। तपस्यासक्तचेतसां शरीरस्य सन्तापो यस्यां सा तस्यां तपस्यायामासक्तचेतसाम् ।। ३२१,३२२ ।।

सत्यप्रमोदटीका

 तपसि इति । दशकल्पं तपश्चीर्णं रुद्रेण लवणाम्भसि इत्याद्युक्तेः ।। ३२१,३२२ ।।

युक्तिमल्लिका

अतो निरवकाशानि वचनान्यखिलानि मे ।

ब्रूयुर्मुक्तिमनावृत्तिं नावर्तन्ते कथञ्चन ।। ३२३ ।।

यत्समीपाप्तिसाहित्यसाम्यानि च विभिन्नयोः ।

ततः परममोक्षे च भेदोऽयं सुस्थिरोऽभवत् ।। ३२४ ।।

सुरोत्तमटीका

 आवर्तन्ते मुक्तिकथनादन्यत्रावर्तन्ते ।। ३२३,३२४ ।।

सत्यप्रमोदटीका

 अनावृत्तिं परमम् । नेति । जीवन्मुक्तिसुषुप्त्याद्यन्या-वस्थातात्पर्यका नैव भवन्तीति भावः ।। यत् तस्मात्

।। ३२३,३३४ ।।

युक्तिमल्लिका

सर्वीभूय परं ब्रह्म सर्वान्कामान्किलाश्नुते ।

मुक्तस्तद्ब्रह्मरूपेण भुङ्क्ते तानखिलान्किल ।। ३२५ ।।

सुरोत्तमटीका

 ‘‘ब्रह्मणा सह सर्वान्कामानश्नुत’’ इत्यस्य मुक्तोऽपि ब्रह्मतादात्म्यं प्राप्य पशुपक्ष्यादि नानाजीवात्मकब्रह्मणा भुज्यमानान्सर्वा-न्भोगान्सह युगपदश्नुत इति मायावादिनो वदन्ति तदत्यन्तपरिहास्यमित्याह ।। सर्वीभूयेति ।। तद्ब्रह्मरूपेण तच्च तद्ब्रह्म तस्य सर्वात्मकब्रह्मणो रूपेण ।। ३२५ ।।

सत्यप्रमोदटीका

 ‘उपाधिनाशे मुक्तौ तन्नाशात्स्वाभाविकाभेदः सिध्यती’ति भास्कराद्वैतिमतं निराह सर्वीभूयेति । स्वरूपैक्यं प्राप्येत्यर्थः

।। ३२५ ।।

युक्तिमल्लिका

सहशब्दो यौगपद्यं वदेदात्मेच्छया किल ।

तस्य क्रमिकभोगांश्च भुङ्क्तेऽयं युगपत्किल ।

ये प्राहुरित्थं श्रुत्यर्थमनर्थं किं न ते विदुः ।। ३२६ ।।

सुरोत्तमटीका

 क्रमिकभोगान् दिने दिने क्रमेण जायमानभोगान् । अयं मुक्तः । सहशब्दयौगपद्यार्थस्य क्रमिकभोगानां युगपद्भोजनस्य चासम्भावित-त्वेनानुवादसमय एव दृश्यमानदोषत्वादत्यन्तपरिहास्यम् ।। ३२६ ।।

सत्यप्रमोदटीका

 युगपदिति । तदुक्तं वादावल्यां ‘तदेवं जीवेश्वर-भेदस्यौपाधिकत्वे स्वाभाविकाभेदेनेश्वरस्य जीवगतसुखदुःखप्रसङ्गस्या-वर्जनीयत्वात्तदङ्गीकारस्य च प्रमाणविरुद्धत्वात्स्वाभाविक एव जीवेश्वरभेदो नौपाधिकः’ इति ।। ३२६ ।।

युक्तिमल्लिका

तुषान्नं कण्टकान्नं च मलं नारकभोजनम् ।

नानायोनिस्थजीवानां हीनाहीनाशनानि च ।। ३२७ ।।

इमे सर्वात्मकब्रह्मकामा मुक्तस्य चेत्तव ।

मुक्तिर्न बन्धात्तर्ह्येषा मुक्तिर्मुक्तेरभूदहो ।

तस्मादीदृग्विधव्याख्या प्रत्याख्या मुक्तिसम्पदः ।। ३२८ ।।

कथं च परमं साम्यं जीवन्मुक्तौ हि दुःखिनाम् ।

निर्दुःखब्रह्मणा साकमिति चिन्त्यं विवेकिभिः ।। ३२९ ।।

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।। ३३० ।।

इति गीतासु यत्स्पष्टं स्वसाधर्म्यं हरिर्जगौ ।

सर्गप्रलयशून्यानां महामोक्षस्थदेहिनाम् ।। ३३१ ।।

जीवन्मुक्ताश्च जायन्ते म्रियन्ते च तदा तदा ।

अतः परममुक्तस्य प्रशंसेयन्न संशयः ।। ३३२ ।।

सुरोत्तमटीका

 तुषान्नं रासभेन भुज्यमानम् । कण्ठकान्नमुष्ट्रेण भुज्यमानम् । मलं शुना भुज्यमानम् । नारकभोजनं नरकेऽनुभूयमान-दुःखभोजनम् । इमे कामा उक्तकामाः । उपलक्षणं चैतत् । सर्वमुक्तामुक्त-कामानामप्यभावात्पुनरर्थायोगश्च द्रष्टव्यः ।। ३२७–३३२ ।।

सत्यप्रमोदटीका

 मुक्तस्येति ईश्वराभिन्नत्वात् तस्यापि सर्वजीवदुःख-भोगोऽवर्जनीय इति भावः ।। मुक्तेर्मुक्तिः निर्दुःखत्वादिमोक्षस्वरूपापलापः ।। परमं साम्यं निर्दुःखत्वेन जन्ममरणाभावेन च ।। ३२७–३३२ ।।

युक्तिमल्लिका

तथाऽन्योपनिषत्प्राह शरवत्तन्मयो भवेत् ।

इति मुक्तिप्रकरणे शरवन्मुक्तचेतनः ।। ३३३ ।।

लक्ष्यवद्ब्रह्म तस्यान्तःप्रवेशः क्षीरनीरवत् ।

इदमेवास्य सायुज्यं मयटोऽर्थोऽप्ययं किल ।। ३३४ ।।

सुरोत्तमटीका

 इत्युपनिषदिति सम्बन्धः । तस्य ब्रह्मणः । अयमन्तः-प्रवेशः ।। ३३३,३३४ ।।

सत्यप्रमोदटीका

 सायुज्यमोक्षेऽपि शरस्य लक्ष्य इव भगवदुदरे प्रविश्य स्थितिमात्रमेवेति उपनिषदुक्तदृष्टान्तेनाह तथेति । किलेति प्रसिद्धिः । न हि शरो लक्ष्याभिन्नो भवतीति भावः ।। ३३३,३३४ ।।

युक्तिमल्लिका

जातिभेदो वर्णभेदो मुक्तभेदोऽस्ति तत्र च ।

भेदेनादर्शनादेव तदेकीभाववाक्च्छ्रुतौ ।

अदृष्टान्तोक्तितो यस्मात्सदृष्टान्ता बलीयसी ।। ३३५ ।।

सुरोत्तमटीका

 जातिभेदोन्तःप्रविष्टशरस्थशरत्वजातिवल्लक्षीभूतपुरुषस्थ-पुरुषत्वजातिवच्च ब्रह्मणि ब्रह्मत्वजातिः अन्तःप्रविष्टजीवे जीवत्वजातिश्चेति जातिभेदः । पुरुषस्य महाकान्तिवदयोमयशरीरस्याल्पकान्तिवज्जीवब्रह्मणो-र्वर्णभेदः । मुक्तभेद एकशरीरप्रविष्टबहुशरीरभेदवद्ब्रह्मणि प्रविष्टमुक्तानां परस्परभेदो मुक्तभेदः । तत्र मुक्तौ । अदृष्टान्तोक्तिर्न विद्यते दृष्टान्तोक्तिर्यस्यां साऽदृष्टान्तोक्तिस्तस्यास्सदृष्टान्ता उक्तिः ।। ३३५ ।।

सत्यप्रमोदटीका

 ‘यतः स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः । कथमस्मि स इत्येवं सम्बन्धः स्यादसंहितः’ इति भगवत्पादोदाहृतमोक्षधर्म-वचनं हृदि कृत्वाऽऽह जातिभेद इति जीवत्वविरुद्धेश्वरत्वजातिभेदः । दृष्टान्ते अयस्त्वचेतनत्वजाती । वर्णभेदः ईश्वरे शुद्धस्फटिकसङ्काशः ‘रुक्मवर्णं’ इत्याद्युक्तः । जीवे त्वतादृशः । अन्यत्र स्पष्टम् । मुक्तभेदः संसारात्यन्ता-भावः, संसारध्वंस इत्यादिरूपः । यद्वा प्रविष्टानां मुक्तानां परस्परं भेदः । भेदेनादर्शनादिति । तदुक्तं तत्त्वनिर्णये ‘परे ब्रह्मणि जीवाख्यब्रह्माण्यप्यपि-यन्ति हि । मुक्तौ पृथक् स्थितान्येव तदन्येषामदर्शनम् । अप्ययोऽयं समुद्दिष्टो न स्वरूपैकता क्वचिदि’ति । अदृष्टान्तोक्तिः दृष्टान्तकथनरहिता एकीभवन्ती-त्यादिः । सदृष्टान्ता शरलक्ष्यदृष्टान्तसहिता ।। ३३५ ।।

युक्तिमल्लिका

कथं जीवेशभेदो न यं मुक्तोऽपि न मुञ्चति ।

द्वा सुपर्णेति सैवाह पुनस्तद्भेदमञ्जसा ।

तस्माद्वेदान्तवाक्यानामस्मिन्नर्थे महान्भरः ।। ३३६ ।।

सुरोत्तमटीका

 यं भेदम् । सैव शरवत्तन्मयो भवेदिति प्रतिपादयन्त्ये-वाथर्वणोपनिषत् । जीवेश्वरभेदं पुनरित्यनेन मुक्तिकालीनभेदस्यैव प्रतिपादिका वा द्वासुपर्णेति श्रुतिरिति सूचयति । जीवपक्षोक्तस्वाद्वशनस्य मुक्तावेव सम्भवात् । अस्मिन्नर्थे मुक्तावपि जीवेश्वरभेदरूपार्थे ।। ३३६ ।।

सत्यप्रमोदटीका

 न मुञ्चति भेदस्य धर्मिस्वरूपत्वादेवेत्यर्थः । पुनः मुक्तावपि तत्रोक्तस्य सुखरूपत्वरूपसुपर्णत्वस्य स्वाद्वेकभोजित्वस्य सखित्वस्य सयुक्त्वस्य च मुक्तस्यैव मुख्यतः सम्भवादिति भावः ।। ३३६ ।।

युक्तिमल्लिका

त्वमेवाहमिति प्रोक्तो भृत्यस्तत्प्रेम भावयेत् ।

अतो मुक्तैक्यवाक्यं च मुक्तस्यात्याप्तता परम् ।। ३३७ ।।

ममात्मा भद्रसेनोऽयमित्युक्तिर्द्वेष्टि किं द्वयम् ।

एकीभूता इति प्रोक्ते किं गवामद्वितीयता ।। ३३८ ।।

सुरोत्तमटीका

 तत्प्रेम राज्ञः प्रेम भावयेत्स्वस्मिन्भावयेत् ।।३३७,३३८।।

सत्यप्रमोदटीका

 तत्प्रेम । अमात्ये प्रिये ममात्मा भद्रसेन इति कथन-मात्रेण न राज्ञोऽमात्येन स्वरूपैक्यं सिध्यतीत्याह ममेति

।। ३३७,३३८ ।।

युक्तिमल्लिका

द्वेषान्धाय वने वासो योषात्यागोऽपि रोचते ।

न चेद्द्वितीयशून्यत्वमोक्षाय यतते कथम् ।। ३३९ ।।

सुरोत्तमटीका

 नन्वेवमनुभवश्रुतिविरुद्धता कथं तर्हि मायावादिना मुक्तितयोक्तेति चेत्सत्यम् । भगवति प्रद्वेषाद्वा श्रुत्यर्थतस्करत्वाद्वेत्याह ।। द्वेषेति ।। द्वेषान्धाय स्वकलत्रादौ द्वेषेणांधाय पुरुषाय । स हि सर्वं त्यक्त्वा वने गुहायां स्थातुमिच्छति तथा सकलजगत्कर्तुर्भगवतो महिमानमसहमान एवेदृशीं मोक्षदशामाचष्टेति भावः ।। ३३९ ।।

सत्यप्रमोदटीका

 द्वेषान्धाय अन्यस्मिन्द्वेषेण स्वस्यानिष्टमपि रोचय-मानाय । परमात्मनः सर्वोत्तमत्वादिमहिमानमसहमानाय मायावादिने । योषात्यागः ‘स्वीभिर्वा’ इत्याद्युक्तमौक्तभोगस्य त्यागः भागत्यागलक्षण-याऽपलापः ।। ३३९ ।।

युक्तिमल्लिका

चोरस्याभाषणं लिङ्गमस्पर्शनमदर्शनम् ।

कथं मोक्षमशिक्षन्त न चेदेतादृशीं दशाम् ।। ३४० ।।

सुरोत्तमटीका

 एतादृशीं भाषणस्पर्शनदर्शनादिव्यापारशून्यां दशाम् । चोरोऽपि हि यस्य कस्यापि पुरुषस्य दर्शनस्पर्शनादिकं यथा न भवति तथा क्वचित्तमसि निलीनस्स्थातुमिच्छति । एवं विश्वं सत्यं द्वासुपर्णेत्यादि-श्रुत्यर्थतस्करत्वात्केवलं तन्निर्वाहायैवेदृशां मोक्षदशामाचष्टेति भावः ।।३४०।।

सत्यप्रमोदटीका

 चोरस्य प्रकाशतस्करस्य मायिनः । तदुक्तं तत्त्व-निर्णये ‘कामक्रोधाभिभूतत्वादहङ्कारवशं गताः । याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः । ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः । वैगुण्यमेव पश्यन्ति’ इत्यादि । अभाषणं प्रपञ्चस्य अनिर्वचनीयत्वोक्तिः । अस्पर्शनम् ‘अशब्दमस्पर्शं’ इति श्रुतेरन्यथाव्याख्यानेन सुखगन्धस्य ब्रह्मणः सर्वथा स्पर्शादिनिषेधः । अदर्शनम् आत्मनोऽदृश्यत्वोक्तिः । यद्वा स्वस्य भाषण-स्पर्शनभाषणानाम् अपलापः । चोरस्य स्पष्टम् ।। ३४० ।।

युक्तिमल्लिका

पूर्वोत्तरविरुद्धोक्तिं मत्तो वक्ति न जात्वपि ।

किमेकाकी न रमत इत्याद्युक्तीः स नात्यगात् ।। ३४१ ।।

सुरोत्तमटीका

 मत्तोऽपि जात्वपि न वक्तीति सम्बन्धः । अद्वितीयत्वं मोक्ष इति वदन्वादीमत्तादप्यधिको भ्रान्त इति भावः । कुत इत्यत आह ।। किमिति ।। इत्याद्युक्तीरित्यादिश्रुतीः । स मुक्तावद्वितीयत्ववादी । ‘‘तस्मा-देकाकी न रमत’’ इत्यादिस्पष्टश्रुतिविरुद्धमेकाकित्वमङ्गीकुर्वन् पूर्वोत्तरविरुद्ध-भाषित्वान्महोन्मत्त इति भावः ।। ३४१ ।।

सत्यप्रमोदटीका

 ‘धर्माय यशसेऽर्थाय ज्ञानाय यतते जनः । लुप्त्यै समस्तभाग्यानां कोनून्मत्तः प्रवर्तते’ (गुणसौ.८७२) इति प्रागुक्तं स्मारयति पूर्वेति । स द्वितीयमैच्छत इति स्पष्टोक्तिमपलप्य ‘द्वितीयाद्वै भवती’त्यस्य सर्वथा द्वितीयाभावार्थवर्णनेन स्वस्यैव सर्वहितापलापी महोन्मत्त एवेति भावः ।। ३४१ ।।

युक्तिमल्लिका

ज्योतिः प्राप्य स पर्येति स्त्रीज्ञात्यज्ञातिसंयुतः ।

सहाश्नुते सर्वकामा नित्याद्या मौक्तिकोक्तयः ।। ३४२ ।।

सुरोत्तमटीका

 आदिपदोक्ताश्श्रुतीस्स्मारयति ।। ज्योतिरिति ।।३४२।।

सत्यप्रमोदटीका

 मौक्तिकोक्तयः मुक्तेः सद्वितीयत्वप्रतिपादिकाः । ता इति शेषः । किं नात्यगादिति पूर्वेण सम्बन्धः ।। ३४२ ।।

युक्तिमल्लिका

राजन्निगडबद्धस्य तन्मुक्तस्य च राड्भवान् ।

यथा बद्धगतिः कृष्णो मुक्तानां परमा गतिः ।। ३४३ ।।

स्वाधीनं स्वसमं कर्तुं नोत्सहस्व कदाचन ।

सारूप्यदोऽपि किं श्रीशो दत्ते श्रीवत्सकौस्तुभौ ।। ३४४ ।।

सुरोत्तमटीका

 नीतिविरुद्धत्वाच्च भगवान्स्वेनैक्यं मुक्तानां न दिशति । तत एव भक्तास्ते मुक्ताः न तदाकाङ्क्षन्ते चेत्याह ।। राजन्नित्यादिना ।। दृष्टान्तैः प्रतिवाक्यमेव प्रमाणमपि भूयादिति भावेन ‘‘मुक्तानां परमा गतिरि’’ति सहस्रनामस्थपुण्यनाम्नैव भगवानुद्दिष्टः ।। ३४३,३४४ ।।

सत्यप्रमोदटीका

 उत्सहस्व उत्सहते । ‘वर्तस्वाध्यधि सर्वं’ इत्यत्रेव लोड्लडर्थकः ।। ३४३,३४४ ।।

युक्तिमल्लिका

सदा सेव्यपि नाकाङ्क्षेदङ्गनालिङ्गनं प्रभोः ।

इच्छन्त्यच्छहृदो मुक्तावपि नैक्यं तदीशितुः ।। ३४५ ।।

सुरोत्तमटीका

 तत्तस्मात् भृत्यानां भर्तुरङ्गनालिङ्गनस्य गुरुतल्पगत्व-रूपमहापापत्वात् ।। ३४५ ।।

सत्यप्रमोदटीका

नेति ‘अभेदज्ञानादप्रीतिरेवोत्तमानां भवति।घातयन्ति हि राजानो राजाहमिति वदन्तम्’ इति तत्त्वनिर्णयोक्तेः।। ३४५ ।।

युक्तिमल्लिका

हृष्टोऽपि राजा न स्वीयां जायां दिशति कस्यचित् ।

प्रपन्नाय प्रसन्नोऽपि स्वात्मैक्यं न दिशेद्धरिः ।। ३४६ ।।

सुरोत्तमटीका

 यथा राजा न दिशति तथा हरिरपि न दिशेदिति योजना ।। ३४६ ।।

सत्यप्रमोदटीका

 कस्यचित् सायुज्यमोक्षभाजोऽपि । ‘बहिष्ठान्भुञ्जते भोगान्नानन्दादीन् कदाचन’ इत्यादि प्रमाणविरोधात् ।। ३४६ ।।

युक्तिमल्लिका

न राजवाहनं काङ्क्षेन्न तत्सिंहासनं भटः ।

गरुडारूढता शेषशायिता तत्कदापि न ।। ३४७ ।।

सुरोत्तमटीका

 तत्तस्माद्भृत्यानां राजसिंहासनारोहादेरनुचितत्वात् ।। ३४७ ।।

सत्यप्रमोदटीका

 गरुडवाहनत्वशेषशायित्वयोः परमात्मनः स्वरूप-लक्षणत्वेन तदाकाङ्क्षायाः स्वरूपैक्याकाङ्क्षापर्यवसानेन महातमःसाधनत्व-मित्याह सर्वत्र सर्वदेति ।। ३४७,३४८ ।।

युक्तिमल्लिका

सुरेश्वरौ हरेः सेवापरौ सर्वत्र सर्वदा ।

नरोऽल्पकः कथं मुक्तौ तौ मुक्तावारुरुक्षति ।। ३४८ ।।

सुरोत्तमटीका

 सुरेश्वरौ शेषगरुडौ । शेषशायित्वस्य गरुडवाहनत्वस्य च कदाप्यपायाभावात्सर्वत्र सर्वदेत्युक्तम् । मुक्तौ मुक्तिं गतौ । तौ गरुडशेषौ ।। ३४८ ।।