यदि स्मृतेर्न मानत्वं न स्यात्तर्ह्यनुभूतिषु

स्मृतेः प्रामाण्यम्

युक्तिमल्लिका

यदि स्मृतेर्न मानत्वं न स्यात्तर्ह्यनुभूतिषु ।

समानविषयज्ञानद्वये यन्न द्वयी गतिः ।। ७८६ ।।

सुरोत्तमटीका

 इदानीं स्मृतेर्याथार्थ्यं समर्थयते ।। यदीति ।। मानत्वं यथार्थत्वम् । अनुभूतिषु प्रमारूपानुभूतिषु । प्रमारूपान्यसंस्कारजस्मृतावपि प्रमासमानविषयत्वावश्यंभावात्समानविषयेत्युक्तम् । द्वयी यथार्थत्वायथार्थत्व-रूपा

।। ७८६ ।।

सत्यप्रमोदटीका

‘प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते’ इत्यनु-व्याख्यानमनुरुध्य स्मृतेस्तावत्प्रामाण्यं प्रतिबन्द्या समर्थयते यदीति । समानेति अनुभवजन्यो यः संस्कारस्तस्यैव प्रत्यासत्तिरूपत्वात् मनोजन्यायाः स्मृतेरिति भावः । द्वयी अन्यतरस्य प्रामाण्यं अन्यतरस्याप्रामाण्यं इत्येवं रूपा ।।७८६।।

युक्तिमल्लिका

यस्मिन्काले यत्र देशे तद्घटं संस्मरेत्किल ।

तदानीं तत्र सोऽर्थोऽभूदिदानीमस्ति वा न वा ।

स्मर्तारोऽपीत्थमेवाहुस्तत्केनास्याममानता ।। ७८७ ।।

सुरोत्तमटीका

 ननु यदा यत्र घटं स्मरति तदा तत्र तस्य सत्वनियमा-भावात्कथं याथार्थ्यमिति चेत् सत्यम् । इदानीं तत्र घटोऽस्तीति स्मरणे स्मृतेरयाथार्थ्यं स्यादेव । न चैवं स्मृतेराकारः किंतु तदा तत्र घट आसीदित्येव स्मृतेराकारः । अस्याश्चायाथार्थ्यं तदा स्यात् यद्यनुभवकालेऽपि तत्र घटो नासीत् । न चैतदस्ति । स्मृतिकालेपि तत्र घटो नास्ति चेत्का हानिरित्याह ।। यस्मिन्काल इति ।। इत्थमेव पूर्वश्लोकोक्तप्रकारेणैव स्मर्तारोऽप्याहुरिति सम्बन्धः । तत्तस्मात् । अस्यां स्मृतौ । अमानता अयथार्थता ।। ७८७ ।।

सत्यप्रमोदटीका

 ‘यतो ज्ञानकाले वस्तुनस्तथात्वं याथार्थ्योपयुक्तं न भवति । किन्तु यद्देशकालसम्बन्धितया यद्वस्तु ज्ञानेन यादृशं गृह्यते तद्देशकालयोस्तस्य तथात्वम् । स्मृतिश्च तत्र असौ तादृश इति गृह्णाति । न च तत्रासौ न तादृशः’ इति पद्धत्युक्तमाह यस्मिन्निति ।। ७८७ ।।

युक्तिमल्लिका

कालात्ययस्य संस्काराभावान्न स्मरणं यदि ।

तर्हि तत्कालमद्यापि वर्तमानं च न स्मरेत् ।

घटमात्रग्राहिणीयं कुतो वा मानतां त्यजेत् ।। ७८८ ।।

सुरोत्तमटीका

 कालात्ययस्य स्मृतिकाले अतीतोऽयो यमनुभवकालः तद्ध्वंसस्य संस्काराभावात् । अनुभवोत्तरकालीनानुभवकालध्वंसस्यानुभवकाले नु भवाभावेन संस्काराभावात् तर्हि कालध्वंसस्यानुभवाभावेन स्मरणाभावे अचाक्षुषस्य तस्य कालस्यापि घटानुभवकालेनुऽभवायोगेन तस्य कालस्य कालविशिष्टघटस्य च स्मृतिकाले वर्तमानत्वेन स्मरणमपि न स्यात् । येनातीतकालेऽनुभूतघटस्य च वर्तमानत्वेन ग्रहणादयाथार्थ्यमुच्येत । कालगोष्ठीं विहाय घटस्वरूपमात्रस्यानुभवे स्मृतौ चोल्लेखे कथमेकस्यायाथार्थ्यम् । उपनीतस्य कालस्य तदानीं ग्रहणे इदानीन्तनकालध्वंसोऽपि विद्यमानः सर्वानुभवसिद्धश्च तेनैवोपनायकेनोपनीतः कुतो न स्मर्यते । तदानीन्तनकालस्य तत्कालीनघटस्य वा इदानीं वर्तमानत्वम् अविद्यमानत्वात् सर्वानुभव-विरुद्धत्वाच्च नोपनीतं स्मृतावुल्लिख्यते । न ह्युपनीतमपि सौरभं चक्षुषा चन्दन इव पाषाणे प्रतीयते । अनुभवाभावादसंस्कारस्थले नोल्लिख्यते अतोऽस्मि-न्पक्षेऽपि न स्मृतेरयाथार्थ्यस्यावसरः ।। ७८८ ।।

सत्यप्रमोदटीका

 नन्विन्द्रियाणां प्राप्यप्रकाशकारित्वादतीतेन सह मनसः सन्निकर्षाभावात्कथं तेन निवृत्तपूर्वावस्थतया वस्तुविषयीकरणम् । न च संस्कारः प्रत्यासतिः । तस्यापि पूर्वानुभवजनितत्वेनानुभवाविषयस्य काला-त्ययस्य तेनाप्युपस्थापनायोगादित्याक्षिपति यदीति । प्रतिबन्द्या तावत्समाधत्ते तर्हीति । स्मृतेरप्रामाण्यमभिलषता घटस्वरूपमात्रस्य स्मृत्योल्लेखेऽप्रामाण्या-योगेनातीतकालस्यापि तद्विशेषणतया भानमवश्यमेष्टव्यम् । तत्र अनुभवकाल-स्वरूपस्यापि कथं चक्षुषा विषयीकरणमिति प्रष्टव्यम् । कालविषयीकरणे चक्षुषः इन्द्रियस्यासामर्थ्यात्

।। ७८८ ।।

युक्तिमल्लिका

सुहृद्भावेन पृच्छन्तं प्रति तूत्तरमुच्यते ।

यथाऽनुभवकालोऽपि साक्षिणैवोपनीयते ।

तथा तदप्ययोऽप्यत्र साक्षिणैवोपनीयताम् ।। ७८९ ।।

सुरोत्तमटीका

 नन्वतीतकाले तत्र घटोऽभूदिति स्मृतेराकारं वदतां भवतामप्यतीतकालस्येदानीन्तनकालध्वंसस्य वा उल्लेखो वक्तव्यः । स कथमिति चेत् तत्राह ।। सुहृद्भावेनेति ।। ७८९ ।।

सत्यप्रमोदटीका

 परमुखेन समाधिं वाचयित्वा समः स एवात्रा-पीत्याह । सुहृदिति । साक्षिणोपनीतं कालस्वरूपं तत्र भासते चेत् एवं तर्हि तद्ध्वंसोऽपि तथैव मनसा भासताम् । तत्कालध्वंसस्याद्यापि वर्तमानत्वादिति भावः ।। ७८९ ।।

युक्तिमल्लिका

मनोऽन्तःकरणं तस्य साचिव्यं कुरुते हि सः ।

ज्ञातज्ञापनदोषं च दूरीचक्रे ततः स्मृतिः ।। ७९० ।।

सुरोत्तमटीका

 बहिरिन्द्रियस्य चक्षुरादेरनुपनायके साक्षिणि स्मृति-करणमनोरूपान्तरिन्द्रियोपनायकत्वं सुखेन स्यादित्याह ।। मन इति ।। सः साक्षी । ततः प्रागज्ञातस्यैव कालध्वंसस्य स्मृतावुल्लेखात् ।। ७९० ।।

सत्यप्रमोदटीका

 अन्तःकरणम् अन्तरिन्द्रियम् । हेतुगर्भं विशेषणम् । सः चक्षुरादिबहिरिन्द्रियप्रत्यक्षेऽपि कालोपनयेन साचिव्यं कुर्वन् साक्षी अन्तरिन्द्रियप्रत्यक्षे स्मृतौ पूर्वावस्थानिवृत्तेरुपनायकः भवेदेवेति भावः । ततः अननुभूतपूर्वावस्थनिवृत्तेरपि ज्ञापकत्वात् । न च कालसम्बन्धनिवृत्तत्यंशे प्रत्यासत्यभावः । सम्बन्धे विशेषणताया एव प्रत्यासत्तित्वात् । फलबलेनाननु-भूतैतावन्मात्रविषयत्वेऽतिप्रसङ्गाभावादिति भावः ।। ७९० ।।

युक्तिमल्लिका

अतो ज्ञानस्य मानत्वमपवादेन हीयते ।

न चेज्ज्ञानग्राहिणैव गृह्यते नात्र संशयः ।

अपौरुषेयवेदोक्तेः प्रामाण्यं स्थिरमेव तत् ।। ७९१ ।।

सुरोत्तमटीका

 उपसंहरन् तर्हि कस्याप्रामाण्यमित्यत आह ।। अत इति ।। अपवादेन बाधादिना । न चेत् अपवादो न चेत् । तत्तस्मा-त्प्रामाण्यस्य बाधकैकापोद्यत्वादपौरुषेये बाधकाभावाच्च ।। ७९१ ।।

सत्यप्रमोदटीका

 अपवादेन साक्षिणो प्रामाण्यविरोध्युपस्थापकसामग्री समवधानेन ।। ७९१ ।।