उत्क्रान्तिमार्गगम्याप्तिभोगरूपं फलं सताम्
उत्क्रान्त्यादिविचारः
युक्तिमल्लिका
उत्क्रान्तिमार्गगम्याप्तिभोगरूपं फलं सताम् ।
फलाध्याये तु कथितं बुद्धिशुद्ध्यै विचार्यते ।। १०४ ।।
सुरोत्तमटीका
साधनं निरूप्य फलं च किञ्चिद्विवेचयति ।। उत्क्रान्तीति ।। बुद्धिशुद्ध्यै अस्मन्मनःपावनीकरणाय ।। १०४ ।।
सत्यप्रमोदटीका
‘कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् । फलं मोक्ष इति प्रोक्तं क्रमात्पादेषु चोच्यते’ इति अनुभाष्यं हृदि कृत्वाऽऽह उत्क्रान्तिरिति । कर्मक्षयोऽप्युपस्कर्तव्यः । उत्क्रान्तिरित्युपलक्षणं देवानां मोक्षोऽपि द्वितीयपादोक्तो ग्राह्यः । भाष्ये तथैवोक्तेः । मार्गो गम्यं भगवत्प्राप्तिश्च तृतीयपादे । भोगश्चतुर्थे इति विवेकः ।। १०४ ।।
युक्तिमल्लिका
ज्ञानी ज्ञानोदये जाते ब्रह्मनाड्या विनिर्गतः ।
अर्चिराद्यध्वना प्राप्य ब्रह्मलोके चिरं वसेत् ।
जीवन्मुक्तिदशा सैव ज्ञानिनां कीर्त्यते बुधैः ।। १०५ ।।
सुरोत्तमटीका
चिरं ब्रह्मणो मुक्तिकालपर्यन्तम् ।। १०५ ।।
सत्यप्रमोदटीका
‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’ इति श्रुतिं प्रतिज्ञातार्थपरां विवृणोति ज्ञानी इत्यादिभिः । ज्ञानी देवेतरो मनुष्योत्तमादिः । ‘उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः’ इति देवानामुत्क्रान्तिनिषेधात् । ज्ञानोदये जाते इति । ‘स्वोदयात्फलदं ज्ञान-मि’त्युक्तेर्जीवन्मुक्त्यवस्थायास्ततः प्रभृत्येवारंभात् । न तु ज्ञानोदयात्पूर्वमित्यत्र तात्पर्यम् । न तु अव्यवधानेनेति । ‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा । अवसन्नं यदारब्धं कर्म तत्रैव गच्छति । न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’ इति भाष्योदाहृतप्रमाणमत्रानुसन्धेयम् ।। ‘साक्षात्कृतब्रह्मणां सद्यः शरीरपाते वातपुत्रीयाः पौरुषेया ब्रह्मोपदेशाः प्रसज्येरन्नि’ति च सुधा विभावनीया । ‘तदोकोऽग्रज्वलनम्’ इत्यादिसूत्रोक्तं संक्षिप्याह ब्रह्मनाड्ये-त्यादिना । ब्रह्मनाड्या’ शतं चैकस्य हृदयस्य नाड्यस्तासां मूर्धानमभि-निःसृता’ इति भाष्योक्तया ।। सैवेति । ज्ञानोदयानन्तरम् उत्क्रान्तेः प्राक्तनावस्थाऽपि सङ्ग्राह्या । एवकारः अयोगव्यवच्छेदपरो वा । ब्रह्मलोके इति । अत्र विस्तरः ‘अप्रतीकालम्बनास्तु सुषुम्ना मध्यसंस्थया । ब्रह्मनाड्या विनिष्क्रम्य विष्णोर्लोकमवाप्नुयुः ।’ इत्यादि सत्तत्त्वरत्नमालायां उत्क्रान्ति-प्रकरणादनुसन्धेयः ।। १०५–१०७ ।।
युक्तिमल्लिका
द्विपरार्धात्मकः कालः पर इत्येव कथ्यते ।
परस्यार्धं परार्धं यत्प्राहुः शब्दविचक्षणाः ।। १०६ ।।
ब्रह्मणः शतवर्षात्मा कालस्तस्मात्पराभिधः ।
तदन्ते किल सर्वेषां प्राग्ज्ञातपरमात्मनाम् ।
तेनैव ब्रह्मणा साकं महामोक्षो भविष्यति ।। १०७ ।।
सुरोत्तमटीका
तदन्ते परान्ते ।। १०६,१०७ ।।
युक्तिमल्लिका
वेदान्तज्ञानतः सम्यङ्निश्चितार्था विरागिणः ।
यतयः शुद्धसत्त्वास्ते ब्रह्मलोके वसन्ति हि ।। १०८ ।।
सर्वे परान्तकाले तु परामृतपदोदितात् ।
नारायणान्नित्यमुक्तात्परिमुच्यन्ति संसृतेः ।। १०९ ।।
ल्यब्लोपे पञ्चमी चेयं भवेच्छब्दज्ञसंविदा ।
परामृतं प्राप्य मुक्ता इत्यप्यर्थः श्रुतेस्तदा ।। ११० ।।
सुरोत्तमटीका
उक्तार्थप्रतिपादिकां ‘‘वेदान्तविज्ञानसुनिश्चितार्था-स्सन्यासयोगाद्यतयश्शुद्धसत्वाः । ते ब्रह्मलोके तु परान्तकाले परामृता-त्परिमुच्यन्ति सर्व इति श्रुतिमर्थतो गृह्णाति ।। वेदान्तेति ।। सन्यासयोगा-दित्यस्य फलितकथनं विरागिण इति ।। १०८–११० ।।
सत्यप्रमोदटीका
विरागिणः यतय इत्यत्र हेतुपरं विशेषणम् । सन्न्यासयोगाद्यतयः इति श्रुतेः ।। परामृतात् नित्यमुक्तात् नारायणात् । तदनुग्रहादिति यावत् । नारायणं प्राप्येति ।। १०८–११० ।।
युक्तिमल्लिका
अतः परममोक्षोऽयं नान्योऽसावस्ति जानताम् ।
इत्याह वैदिकी वाणी विशदा सर्वसंमता ।। १११ ।।
सुरोत्तमटीका
अतः वेदान्तविज्ञानसुनिश्चितार्थैः प्राप्यत्वात् । अयं परान्तकालीनः । अन्यः ब्रह्मप्रलयादप्यन्यकालवर्ती ।। १११ ।।
सत्यप्रमोदटीका
परममोक्ष इति । एतेन परब्रह्मविदो मुख्यामृतत्वे गत्युत्क्रान्त्योरभावः इति परभाषितं निरस्तम् । ‘परामृतात्’ इति ‘परिमुच्यन्त’ इति च वेदान्तविज्ञानसुनिश्चितार्थानां परब्रह्मविदां परममोक्षस्यैव स्पष्टमभिधानादित्याह वाणी विशदेति । स्वव्याहतं च शाङ्करभाष्यम् । स्वयमेव ‘मुक्तानां परमा गतिः’ इति विष्णुसहस्रनामव्याख्याने ‘अविद्या-रागद्वेषादि दोषविमुक्तानां प्रकृष्टा गन्तव्या देवता’ ‘मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यत इति भगवद्वचनादि’ति व्याख्यानेन गन्तव्या इत्यनेन मार्गस्य, प्रकृष्टा इत्यनेन कृष्णस्यैव परब्रह्मत्वस्य, इतःपरं गन्तव्यान्तरनिषेधेन मुख्यामृतत्वस्य च सुस्पष्टमङ्गीकारात् ।। १११ ।।
युक्तिमल्लिका
अतो विमुक्तिकालोऽयं श्रौतत्वान्नापरः श्रुतेः ।
परान्तकालमेवेयं मुक्तिकालं यतोऽब्रवीत् ।
परान्तकालस्स किल महत्तत्त्वलयो यदा ।। ११२ ।।
सुरोत्तमटीका
इयं श्रुतिः ।। ११२ ।।
सत्यप्रमोदटीका
नापरः इदानीमेव ज्ञानेन बन्धबाधादविद्याऽस्तमयो मायिनामभिमतः ।। महत्तत्त्वलयो यदेति ।। ‘अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः’ इति भागवतोक्तेः ।।११२।।
युक्तिमल्लिका
उदरे वासुदेवस्य जीवान्सर्वान्विधिस्तदा ।
निवेश्य सर्वमुक्त्यर्हान्जीवानादाय सत्वरः ।। ११३ ।।
वैकुण्ठान्तःपुरस्थे तु विरजाख्ये सरिद्वरे ।
नित्ये चिद्रूपसलिले रजश्शब्दोपलक्षितैः ।। ११४ ।।
त्रिगुणैर्वर्जिते तेषां भर्जनेऽतिपटीयसि ।
स्नात्वा भूतेन्द्रियमनोमात्रं त्रिगुणरूपिणम् ।। ११५ ।।
लिङ्गदेहं विनिर्भिद्य प्राङ्मुक्तैश्च त्रिधामगैः ।
सहमुक्तैश्च सहितो वासुदेवोदरं विशेत् ।। ११६ ।।
सुरोत्तमटीका
इदानीं योग्यायोग्यजीवानादाय गतस्य महत्तत्वात्मना भगवतो ग्रासीभूतस्य ब्रह्मणस्स्वेन सह मुच्यमानैर्जीवैस्सह लिङ्गदेहभङ्गप्रकारं सविस्तरं दर्शयति ।। उदर इति ।। जीवान् सर्वान् उत्तममध्यमाधमभेदेन त्रिविधान् । वैकुण्ठान्तःपुरस्थे चतुर्दिक्षुस्थितामुक्तगम्यद्वारचतुष्टयादन्तर्मुक्त-नगरीं परितो विद्यमाने चतुर्द्वारपर्यन्तं परिलम्बिन्याः बन्धकीभूतप्रकृतेः परम-व्योमाख्यमुक्तपुर्याश्च मध्यप्रदेशेऽमुक्तगमनप्रतिबन्धकतया परिखावत्परितस्स्थित इत्यर्थः । प्रधानपरमव्योम्नोरन्तरा विरजानदीति पुराणवाक्यादयमर्थोऽव-गन्तव्यम् । चिद्रूपसलिले लक्ष्म्यात्मकसलिले । तत्र प्रयुज्यमानविरजा-शब्दार्थमाह ।। रजश्शब्देति ।। तेषां त्रिगुणानाम् । भूतेन्द्रियमनोमात्रं केवलं सूक्ष्मपञ्चभूतदशेन्द्रियमन आख्यषोडशकलात्मकम् । त्रिधामगैः वैकुण्ठ-श्वेतद्वीपानन्तासनस्थैः ।। ११३–११६ ।।
सत्यप्रमोदटीका
सर्वान् त्रिविधान् ।। वैकुण्ठान्तःपुरःस्थे ‘प्रधान-परमव्योम्नोरन्तरा विरजानदी’ति स्मृतेः । विरजाशब्दार्थमाह त्रिगुणैर्वर्जिते इति ।। विनिर्भिद्य । ‘स्वगुणाच्छादिका त्वेका’ इत्यादिवचनानुसारेण ।। ११३–१२० ।।
युक्तिमल्लिका
एवं परान्तकालेऽस्मिन्मुच्यन्ते ब्रह्मणा सह ।
इत्याहोपनिषत्सैषा तत्तत्वमिदमेव हि ।। ११७ ।।
सुरोत्तमटीका
एषा वेदान्तेति प्रागुक्ता । तत्तस्मात् स्पष्टं श्रुतावुक्तत्वात् ।। ११७ ।।
युक्तिमल्लिका
ततश्चिद्रूपसलिलसंप्लवे सति केशवः ।
वटपत्रपुटे शेते लक्ष्म्या सह किल प्रभुः ।। ११८ ।।
सुरोत्तमटीका
ततः ब्रह्मणो लिङ्गदेहनाशानन्तरम् । चिद्रूपसलिल-संप्लवे महालक्ष्म्यात्मकजलसमुदायोपरि । वटपत्रपुटे लक्ष्म्यात्मकवटपत्रपुटे ।। ११८ ।।
युक्तिमल्लिका
अतः परममोक्षस्य कालोऽयं नात्र संशयः ।
तस्माद्ब्रह्मलयस्सोऽयं महाप्रलय एव हि ।। ११९ ।।
सुरोत्तमटीका
अयं परान्ताख्यः । तस्मात् परममोक्षरूपत्वात् ।। ११९ ।।
युक्तिमल्लिका
सोऽयं लयश्च कल्पान्ते सङ्कर्षणमुखाग्निना ।
प्रलयार्केण च जगद्दाहे सांवर्तकोदकैः ।
विलोडितं च तद्भस्म सर्वं जलमयं भवेत् ।। १२० ।।
सुरोत्तमटीका
सूक्ष्मलिङ्गदेहलयप्रकारमुक्त्वा स्थूलजगल्लयप्रकारमप्याह ।। सोऽयमिति ।। कल्पान्ते सोऽयं वक्ष्यमाणस्स्थूलजगल्लयश्च लिङ्गदेहलया-त्प्रागेवास्ति । फलसौरभे मुक्तिरूपलयतया लिङ्गदेहलयस्यान्तरङ्गत्वात्तस्यैव प्राक्कथनम् ।। १२० ।।
युक्तिमल्लिका
जलं च तेजसा शुष्येत्तच्च वायौ प्रशाम्यति ।
वायुश्च गगने लीनो लयस्तस्याप्यहङ्कतौ ।
अहङ्कारस्य महति तस्य स्यात्प्रकृतौ लयः ।। १२१ ।।
प्रकृतिश्च स्वभावस्था स्वभावं प्रकृतिं विदुः ।
अतस्तस्यास्तु न लयस्सा नित्यैव परात्मवत् ।। १२२ ।।
सुरोत्तमटीका
तेजसा बाह्यावरणभूततेजसा । तत् तेजः । तस्य गगनस्य ।। १२१,१२२ ।।
सत्यप्रमोदटीका
सङ्कर्षणेति । ‘सङ्गर्षणमुखानलः । दहन्नूर्ध्वशिखः’ इति भागवतोक्तेः । सांवर्तकेति । ‘सांवर्तको मेघगणो वर्षति स्म शतं समाः’ इति च ।। सा नित्यैव परात्मवत् इति ‘नासतो विद्यतेऽभावो नाभावो विद्यते सतः’ इति गीतोक्तप्रकारेणेति भावः ।। १२०–१२३ ।।
युक्तिमल्लिका
इति श्रुतिपुराणादौ तत्र तत्र प्रदृश्यते ।
एवं च ज्ञानबलतः कस्य नाशो भवेद्वद ।। १२३ ।।
सुरोत्तमटीका
इति अनेन प्रकारेणैव स्थूलजगल्लयः । ज्ञानबलतः ज्ञानस्यैव बलतः ।। १२३ ।।