सदा सर्वत्र सद्ब्रह्म सदा सर्वत्र चार्थकृत्
अर्थक्रियाकारित्वेन प्रमाणदृष्टत्वेन च हेतुना सत्यत्वम्
युक्तिमल्लिका
सदा सर्वत्र सद्ब्रह्म सदा सर्वत्र चार्थकृत् ।
आकाशवत्कालवच्च त्रिकालासत्कदापि न ।। ९८८ ।।
सुरोत्तमटीका
अधिकसत्ताकस्याधिककार्यकारित्वं दृष्टान्तेनोपपादयति ।। सदेति ।। यथा सर्वत्र सदा विद्यमान आकाशस्सर्वत्र सदाऽवकाशप्रदानाख्य-कार्यकृत् । यथाच सर्वत्र सदा विद्यमानः कालस्सर्वत्रापि तत्तत्कार्याणां निमित्तकारणम् । एवं ब्रह्मापि सदा सर्वत्र विद्यमानं सर्वमपि कार्यं कुर्यादिति भावः । त्रिकालासत् शशशृृङ्गम् ।। ९८८ ।।
सत्यप्रमोदटीका
सदा सर्वत्रेति स हि सर्वस्य कर्ता इति श्रुतेः ।। ९८८ ।।
युक्तिमल्लिका
भ्रान्तस्य वाग्भ्रान्तमेव स्वार्थं वक्ति न चापरम् ।
मणिप्रभायां मणिधीः प्रभाऽध्यस्तमणेर्हि धीः ।। ९८९ ।।
असन्मणेर्हि तज्ज्ञानं मणिप्राप्तिर्यदृच्छया ।। ९९० ।।
सुरोत्तमटीका
लोके पदकदम्बकत्वार्थप्रकाशकत्वाख्यस्वरूपेण सत्यमपि वाक्यं ज्ञानं च स्वस्वरूपघातकेना(अयोग्येतरान्विते शक्त्यभावादिकरणदोषेण दुष्टकरणाख्य ज्ञानदोषेण)योग्यार्थे प्रयुक्तवाक्यत्वदुष्टकरणजन्यत्वरूपदोषमात्रेण घटितं चेत् मिथ्याभूतमेवार्थं बोधयेन्नतु सत्यम् । स्वस्वरूपस्यैव घातकेन मिथ्यात्वाख्यमहादोषेण दूषितं वाक्यं ज्ञानं च शशशृृङ्गमिव न कमप्यर्थं साधयितुमलं सत्यार्थं तु सुतरां न साधयेदित्याह ।। भ्रान्तस्येति ।। भ्रान्तस्य शुक्तिरजतादिभ्रमयुक्तस्य । वाक् तत्र रजतमस्तीत्यादि वाक् । भ्रान्तं भ्रान्तिपरिकल्पितम् । अविद्यमानमित्यर्थः ।।
मणिप्रभायां मणिधीरपि अविद्यमानमेव स्वार्थमुल्लिखति । न तु विद्य-मानम् । दोषमूलज्ञानत्वाख्यदोषात् । मणिप्राप्तिस्तु यादृच्छिकीत्याह ।। मणिप्रभायामिति ।। तत् मणिप्रभायां मणिज्ञानम् ।। ९८९,९९० ।।
सत्यप्रमोदटीका
भ्रमस्य तज्जन्यवाग्व्यवहारस्य सत्यत्वेऽपि न विषयस्य सत्त्वसिद्धिरित्याह भ्रान्तस्येति । भ्रान्तं भ्रमविषयं असत्यमेव । यदृच्छयेति । तथा च विषयसत्त्वस्योत्तेजकत्वात् दोषो न प्रतिबन्धक इति भावः ।।९९०।।
युक्तिमल्लिका
प्रभाव्याप्तत्वतो वा स्यान्मणिप्राप्तिर्न धीबलात् ।
काचे नीलमणिभ्रान्त्या नीलप्राप्तिः कुतो न चेत् ।। ९९१ ।।
सुरोत्तमटीका
न चेन्मणिभ्रमान्मणेरप्राप्तिर्न चेत् । नीलाप्राप्तिः नीलमण्यप्राप्तिः ।। ९९१ ।।
सत्यप्रमोदटीका
न धीबलादिति । प्रमात्मकानुमितिरेव तत्र सफल-प्रवृत्तिहेतुः । उभयत्रापि सत्यमेव ज्ञानं अर्थक्रियाकारीति निष्टङ्कितम् ।।९९१।।
युक्तिमल्लिका
शाखाचन्द्रोक्तितश्चैव शाखायां चन्द्रधीर्भवेत् ।
स च नास्ति यतो वाक्यममानं नापि चार्थवत् ।। ९९२ ।।
सुरोत्तमटीका
सः शाखायामारोपितचन्द्रः यतो नास्ति ततो वाक्य-ममानं तदभाववति तत्प्रकारकज्ञानजनकम् । अत एवार्थवत् सत्यार्थवदपि नेति सम्बन्धः ।। ९९२ ।।
सत्यप्रमोदटीका
असत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मैकत्वस्य प्रतिपत्तिरिति परप्रक्रियां तदभिमतदृष्टान्तदूषणेन दूषयति शाखेत्यादिभिः ।।
युक्तिमल्लिका
आभिमुख्याय तद्वाक्यं वदन्त्यज्ञेषु केवलम् ।
चन्द्रप्राप्तिः स्वदृष्ट्यैव भवेत्तेनाध्वना शनैः ।। ९९३ ।।
सुरोत्तमटीका
अभावे कुतस्तद्वाक्यं कथ्यत इत्यत आह ।। आभि-मुख्यायेति ।। तद्वाक्यं शाखैव चन्द्र इति वाक्यम् । तेनाध्वना शाखाध्वना
।। ९९३ ।।
सत्यप्रमोदटीका
शाखामपि द्वारत्वेनैवोपदिशन्ति न तु शाखैव चन्द्र इति । आभिमुख्याय अज्ञानां दृष्टिं चन्द्रं प्रत्यभिमुखीकर्तुम् । प्राप्तिः ज्ञानम् । दृष्ट्या चक्षुषा, न केवलं वाक्येन ।। ९९३ ।।
युक्तिमल्लिका
मिथ्यावाक्यस्य यो ह्यर्थस्स सत्यः कुत्र भण्यताम् ।
यस्स्थूलारुन्धतीन्यायः सोऽप्येवमभिसंहितः ।। ९९४ ।।
सुरोत्तमटीका
मिथ्यावाक्यस्य मिथ्याभूतार्थे प्रयुक्तस्य शाखैव चन्द्र इत्यादिवाक्यस्य । सः अर्थः । मिथ्याभूतस्य वाक्यस्य तु मूकमुखवाक्यस्येवार्थ एव नास्ति । सत्यार्थस्तु दूरापास्तः । नह्यान्ध्येऽपि गमनासमर्थस्स्वमरणे सति गच्छन्क्वापि दृष्ट इति भावः । एवं शाखाचन्द्रवाक्यन्यायेन ।। ९९४ ।।
सत्यप्रमोदटीका
मिध्यावाक्यस्येति ‘दुःखादेर्यदि मिथ्यात्वं तद्वाक्य-स्याग्रतो भवेत्’ इत्युक्तरीत्या स्वरूपत एवासतः वन्ध्यासुतवचस इव बोधकत्वमेव न, दूरे यथार्थबोधकत्वं इति भावः । यद्वा प्रत्यक्षविरोधेन योग्यताशून्यस्य शाखैव चन्द्र इति वाक्यस्य यः अर्थः शाखाचन्द्रैक्यरूपः स कथं सत्य इत्यर्थः । एवं द्वारतया उपदेश इत्यनङ्गीकृत्य स्थूलनक्षत्रमेवारुन्ध-तीत्युपदेशस्थलेऽपि अयमेव प्रकार इत्याह य इति ।। ९९४ ।।
युक्तिमल्लिका
अतो भ्रान्तेन बोध्योऽर्थो नैवाभ्रान्तः क्वचिद्भवेत् ।
अतो मिथ्याश्रुतेरर्थस्तवैक्यं च मृषा भवेत् ।। ९९५ ।।
सुरोत्तमटीका
अतः उक्तरीत्या ईषदाभासवाक्यानामपि सत्यार्था-दर्शनात् । भ्रान्तेन भ्रान्तकल्पितवाक्येन । भ्रान्तिकल्पितो भ्रान्तस्स न भवतीत्यभ्रान्तस्सत्य इत्यर्थः । अतः मिथ्याभूतवाक्यस्य अर्थादर्शनात् सत्यार्थस्य सुतरामदर्शनाच्च । मिथ्याश्रुतेः तवैक्यम् अर्थ इत्येवमृषा । अर्थ-त्वेऽपि तवैक्यमेव मृषा मिथ्याभूतमेवेति द्वेधापि योजना द्रष्टव्या ।। ९९५ ।।
सत्यप्रमोदटीका
भ्रान्तेन योग्यताशून्येन । अभ्रान्तः सत्यः । प्रकृते सङ्गमयति अत इति । मिथ्याश्रुतेरित्यस्य पूर्ववदर्थद्वयम् । असत्येन वेदान्त-वाक्येन सत्यस्य ब्रह्मात्मैक्यस्य प्रतिपत्तिर्न सम्भवतीति फलितम् ।। ९९५ ।।
युक्तिमल्लिका
उपजीव्यविरोधेन ह्युपजीवकनाशनम् ।
वदन्ति शिष्टास्तस्येदं स्पष्टमासीन्निदर्शनम् ।। ९९६ ।।
यतो मानस्य मिथ्यात्वे मेयं मिथ्येति निश्चितम् ।
ते ब्रह्मणि तदद्वैते तस्मादाशा वृथा तव ।। ९९७ ।।
सुरोत्तमटीका
मानस्य उपजीव्यस्य । मेयम् उपजीवकम् । तस्मा-दुपजीव्यप्रमाणमिथ्यात्वे उपजीवकप्रमेयमिथ्यात्वस्यावर्जनीयत्वात् । ते ब्रह्मणि तव निर्गुणब्रह्मणि । तदद्वैते तेन ब्रह्मणा जीवाद्वैते । वेदस्य मिथ्यात्वे वेद-बोध्ययोरनयोरपि मिथ्यात्वापरिहारादिति भावः ।। ९९६,९९७ ।।
सत्यप्रमोदटीका
शिष्टाः ‘उपजीव्यविरोधे तु नास्यास्तन्मानता भवेत्’ इति ब्रह्मतर्कशासनानुसारिणः । नाशनं बाधनम् ।। ब्रह्मणि सत्यज्ञानादिकस्य पदार्थपरवाक्यस्य ऐक्ये तत्त्वमसीत्यादिवाक्यार्थपरवाक्यस्य इत्युपस्कर्तव्यम् ।। ९९६,९९७ ।।
युक्तिमल्लिका
स्वतस्सिद्धिस्त्ववेद्यत्वरूपत्वान्नार्थसाधिका ।
न विवादिनि सा वक्तुं शक्यते या त्वयोदिता ।। ९९८ ।।
सुरोत्तमटीका
ननु मास्तु तर्हि वेदाद्ब्रह्मणस्सिद्धिः । किन्तु स्वप्रकाश-त्वादेवेत्यत आह ।। स्वतस्सिद्धिरिति ।। भवन्मते स्वप्रकाशत्वस्यावेद्यत्व-रूपत्वान्न तेनापि ब्रह्मसिद्धिरिति भावः । विवादिनि स्वप्रकाशत्व एव विवादं कुर्वदितार्किकादौ ब्रह्मण्येव विवादं कुर्वति मीमांसकादौ । ब्रह्मैव नास्तीति वदन्तं प्रति ब्रह्मविषयिणी ब्रह्मकर्तृकैव प्रतीतिः कथमन्यान्प्रति साधकतया वक्तुं शक्येति भावः । या स्वतस्सिद्धिः ।। ९९८ ।।
सत्यप्रमोदटीका
स्वत इति प्रमाणाभावे सत्त्वं न स्यादित्यस्य प्रमाणेन विना ब्रह्म सिध्यतीत्यस्यानुत्तरत्वादिति वादावल्युक्तदिशा इति भावः ।।९९८।।
युक्तिमल्लिका
अन्यथा स्वप्रकाशत्वाद्घटसिद्धिर्भवेन्मम ।
स्वपराविषयज्ञानं घटोऽपि न कथं वद ।। ९९९ ।।
सुरोत्तमटीका
अन्यथा अवेद्यत्वरूपस्वप्रकाशत्वादपि ब्रह्मसिद्ध्यङ्गी-कारे । एतादृशस्वप्रकाशत्वस्य घटेप्यङ्गीकर्तुं शक्यत्वात् । नन्वपरोक्ष-व्यवहारयोग्यत्वमपि स्वप्रकाशत्वान्तर्गतम् । अतः कथं घटस्य स्वप्रकाशत्व-मिति चेत् न । अवेद्ये वेदनजन्यव्यवहारायोगेन लक्षणस्य परस्परविरुद्ध-तयाऽसम्भावितत्वात् । चिदवेद्यत्वमेवावेद्यत्वं न सर्वथाऽवेद्यत्वमिति चेत्तर्हि चिदवेद्ये ब्रह्मणि व्यवहारोऽपि न चिज्जन्यः । स्वावेद्ये चिता व्यवहार-जननायोगात् । किन्तु वृत्तिजन्य एव वक्तव्यः । एवं च मुक्तौ स्वप्रकाशत्वं न स्यात् । स्याच्च स्वावेद्ये केवलवृत्तिवेद्ये तज्जन्यापरोक्षव्यवहारयोग्ये च घटादौ स्वप्रकाशत्वम् । यदि च चिदवेद्यत्वमेव स्वप्रकाशत्वम् । तच्च परंपरया साक्षिवेद्यत्वान्न घटादेरिति मतम् । तर्हि चिदचित्संवलनात्मकमनोवेद्यायाम् अहमज्ञ इत्यज्ञानद्वारा च स्वावेद्यायां चित्यपि न चिदवेद्यत्वम् । अतस्साक्षा-च्चिदवेद्यत्वं लक्षणार्थो वक्तव्यः । स च घटादावपि समः । न च वाच्यं मन्मते घटादेस्साक्षादधिष्ठानचिद्वेद्यत्वेन न चिदवेद्यत्वमिति । तथा सति निरधिष्ठानभ्रमायोगेन तत्रैवाधिष्ठानचितोऽप्युल्लेखावश्यंभावात् घटस्येव चितोऽपि चिद्वेद्यत्वमपरिहार्यमेव । एतत्सर्वमभिप्रेत्योक्तं स्वप्रकाशत्वाद्घटसिद्धिर्भवे-न्ममेति । स्वपराविषयज्ञानं स्वाविषयं पराविषयं ज्ञानं वस्तुगत्या सविषय-कत्वाख्यज्ञानलक्षणरहितं सङ्केतेन ज्ञानशब्दवाच्यमित्यर्थः ।। ९९९ ।।
सत्यप्रमोदटीका
अन्यथेति विषयवर्जितः प्रकाश एव न भवति घटवत् इति तत्त्वोद्योतमनुरुध्याह स्वपरेति । तथा हि तज्ज्ञानं स्वविषयं परविषयं वा । नाद्यः स्ववृत्तिविरोधात् । न द्वितीयः मोक्षे ज्ञानाभावप्रसङ्गात् । निर्विषय-ज्ञानरूपत्वे अस्तु प्रपञ्चेऽपि तादृशज्ञानरूपत्वं इति वादावल्युक्तेः ।। ९९९ ।।
युक्तिमल्लिका
मुक्तौ ते यादृशं ब्रह्म तादृशं मे जडं न किम् ।
सङ्केतस्सर्वशब्दानां कुत्र कुत्र न शक्यते ।। १००० ।।
सुरोत्तमटीका
यादृशं परस्याभावेन स्वविषयत्वानङ्गीकारेण च स्वपरा-विषयम् । ननु संसारे परविषयत्वसद्भवाद्घटस्य च तदभावात्कथं साम्यमिति चेत् । न । संसारेऽपि विषयविषयिभावानङ्गीकारेण घटवद्ब्रह्मणोऽपि परा-विषयत्वात् । पराध्यासाधिष्ठानत्वस्य च शिलाध्यासाधिष्ठाने घटेऽपि साम्यात् । अत एव यादृशं ते ब्रह्म तादृशं मे जडमित्युक्तम् । वस्तुतस्तु संसृताव-विद्यमानार्थगोचरं ते ब्रह्मभ्रान्तिमदपि स्यात् । जडं तु तादृशभ्रान्त्यापि रहितत्वात्त्वद्ब्रह्मणोऽप्यधिकं स्यादित्यपि द्रष्टव्यम् ।। १००० ।।
सत्यप्रमोदटीका
यादृशं निर्विषयज्ञानरूप् । सङ्केतः प्रमाणामूला स्वकपोलकल्पिता परिभाषा ।। १००० ।।
युक्तिमल्लिका
अश्रौतं ब्रह्म तत्तेऽस्तु श्रुत्युक्तब्रह्मणा वयम् ।
कृतार्थः स्याम भूमासौ नः क्लेशात्तारयिष्यति ।। १००१ ।।
सुरोत्तमटीका
तत् तस्मात् श्रुतेर्मिथ्यात्वाङ्गीकारेण प्रतिपादनसामर्थ्या-भावात् । अवेद्यतया ब्रह्मणः प्रतिपाद्यत्वायोगाच्च ।। १००१ ।।
सत्यप्रमोदटीका
अश्रौतमिति । अवेद्यत्वाङ्गीकारात् ब्रह्मणः । तेऽ-स्त्विति । ‘निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा’ इत्यनुव्याख्यान-सुधायां ‘गुणशब्दोदितशुभगुणराहित्यमासुरत्वमेवोक्तं स्यात् । तेनैक्यं च मायावादिनामनुमन्यामहे’ इति उक्तेः । भूमा पूर्णसुखः ।। १००१ ।।
युक्तिमल्लिका
अतः श्रौतेन बाधेन सत्त्वप्रत्यक्षबाधनम् ।
ज्वलज्ज्वलनवैरेण पतङ्गस्येव नाशनम् ।। १००२ ।।
सुरोत्तमटीका
अतः परमते श्रुतेश्श्रुत्युक्तबाधस्य च मिथ्यात्वात् । नाशनं स्वस्यैव नाशकरम् ।। १००२ ।।
सत्यप्रमोदटीका
ज्वलत्वं उपजीव्यत्वादिना प्राबल्यम् । ज्वलनं रेखोपरेखाग्राहकं प्रत्यक्षम् । पतङ्गः आपतार्थप्रलोभी मायावादी । प्रलोभि-तात्मनः नाशनं तमःप्राप्तिः ।। १००२ ।।
युक्तिमल्लिका
तस्मान्निर्दोषमानेन वेद्यसत्ताश्रयत्वतः ।
अबाधितं जगदिदं सर्वं ब्रह्मवदेव हि ।। १००३ ।।
सुरोत्तमटीका
अनुमानं रचयति ।। तस्मादिति ।। पररीत्या शुक्ति-रजते व्यभिचारवारणाय विशेषणम् ।। १००३ ।।
सत्यप्रमोदटीका
तस्मादिति जगत् सत्यं प्रमाणदृष्टत्वात् ब्रह्मवत् व्यतिरेकेण शशशृङ्गवत् । इति प्रयोगोऽभिप्रेतः । निर्दोषेति स्वरूपसङ्कीर्तनम् । अतत्त्वावेदकं प्रमाणं चेति व्याघातः इति वादावल्युक्तेः ।। १००३ ।।
युक्तिमल्लिका
अर्थः परोक्तवाक्यानामुक्तोऽस्माभिः पुरैव हि ।
भाविबाधापनोदार्थमेतावच्चर्चितं पुनः ।। १००४ ।।
सुरोत्तमटीका
परोक्तवाक्यानाम् ‘‘एकमेवाद्वितीयं, नेह नानास्ति किञ्चने’’त्यादिवाक्यानाम् । पुराभेदसौरभे । एतावत् त्रैकालिकनास्तित्व-विषयत्वं श्रुतेस्त्रैकालिकनिषेधविषयत्वे तज्जन्यज्ञानात्कालान्तरे वा बाधः शङ्कितुं शक्येतापि उक्तरीत्या वाक्यस्य वर्तमाननिषेधमात्रविषयत्वसिद्धौ वाक्यजन्य-त्रैकालिकनिषेधबोधस्योत्तरत्राप्यसम्भवेन भाविबाधकशङ्काया गर्भस्राव एवेति सूचनाय त्रैकालिकनिषेधविषयत्वमात्रमत्रापि चर्चितमिति भावः ।। १००४ ।।
सत्यप्रमोदटीका
पुरा भेदसौरभे अत्रापि । चर्चितम् । ‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवात्य-बाध्यताम्’ इत्युक्तरीत्या समर्थितम् ।। १००४ ।।
युक्तिमल्लिका
किञ्च दृश्यत्वजडतापरिच्छेदादयोऽखिलाः ।
हेतवस्सन्तु जगति मिथ्यात्वं माऽस्तु का क्षतिः ।। १००५ ।।
सुरोत्तमटीका
अधुना दृश्यत्वादिहेतूनां व्यवच्छेद्यान्तदर्शयन्सत्यत्व-व्यवच्छेदाख्यमिथ्यात्वे तेषां प्रयोजकतैव नास्तीत्याह ।। किञ्चेति ।।१००५।।
सत्यप्रमोदटीका
‘न च जगतो मिथ्यात्वाभावे बाधकं पश्यामः’ इति वादावलीमनुरुध्य मिथ्यात्वहेतूनां अप्रयोजकतामाह किञ्चेत्यादिभिः ।।१००५।।
युक्तिमल्लिका
यतो दर्शनयोग्यत्वं दृश्यत्वं निरुपाख्यताम् ।
क्षिपेज्ज्ञानेन हीनत्वं जडत्वं ज्ञातृतां क्षिपेत् ।। १००६ ।।
परिच्छेदश्च गुणतो देशतः कालतोऽवधिः ।
अनन्तगुणतां देशव्याप्ततां नित्यतां क्षिपेत् ।। १००७ ।।
सुरोत्तमटीका
क्षिपेदित्यतः पूर्वं सर्वत्र जगतीति योजनीयम् ।। १००६,१००७ ।।
सत्यप्रमोदटीका
दर्शनयोग्यत्वमिति ज्ञानजन्याभिलपनरूपव्यवहार-विषयत्वायोग्यत्वरूपं निरुपाख्यत्वमेव क्षिपेत् निराकुर्यात् । ज्ञानेन हीनत्वं अज्ञातृत्वम् । ‘अस्माभिस्तु ज्ञातृत्वानाधारत्वस्य जडत्वेनाभिलापान्नास्म-त्प्रतिबन्दी’ इति वादावल्युक्तेः ।। ‘अन्तशब्दस्य वस्तुतः परिच्छेदे अव्युत्पन्न- त्वादि’ति वादावलीमनुरुध्याह परिच्छेदश्चेति । देशकालयोरवधिरूपमर्थ-मभिधाय तृतीये वस्तुतो भेदरूपार्थोक्तौ पंक्तिभेददोषापत्तेरिति भावः । विवृतमेतत्सविस्तरं भेदसौरभे ।। १००६,१००७ ।।
युक्तिमल्लिका
सत्यत्वोपप्लवे नैते हेतवो धूमकेतवः ।
अतोऽप्रयोजकास्सर्वे मिथ्यात्वे हेतवस्तव ।
प्रयोजकस्तु बाधो यो न द्वयोस्स मतेऽभवत् ।। १००८ ।।
सुरोत्तमटीका
धूमकेतवो नेति सम्बन्धः । सत्यत्वव्यवच्छेदाय हि परेण मिथ्यात्वं साध्यते । वक्तृत्वव्यवच्छेदकमूकत्वादत्तृत्वव्यवच्छेद इव नैतै-र्हेतुभिस्सत्यत्वव्यवच्छेदरूपमिथ्यात्वसिद्धिर्भवतीति भावः । सः बाधः । अतः स्वरूपासिद्धोऽन्यतरासिद्धो वा बाध्यत्वहेतुरिति भावः ।। १००८ ।।
सत्यप्रमोदटीका
उपप्लवे निराकरणे । साहित्यमुद्रयाऽऽह धूमकेतव इति ।। १००८ ।।
युक्तिमल्लिका
घटोऽस्ति नास्ति वेत्युक्ते दृष्ट्वोच्यत इति प्रजाः ।
प्रतिब्रुवन्ति दृष्टश्चेदस्तित्वमनुजानते ।
यदि दृष्टो न, नास्तित्वं तस्य लोकोऽनुमन्यते ।। १००९ ।।
सुरोत्तमटीका
इदानीं दृश्यत्वहेतोर्मिथ्यात्वे विरुद्धतां प्रदर्श्य तेनैव जगत्सत्यत्वं साधयति ।। घट इति ।।तस्य अदृश्यमानघटस्य।।१००९ ।।
सत्यप्रमोदटीका
दृढप्रत्यक्षसिद्धेऽर्थे सार्वजनीनं संप्रत्ययमभिनीय दर्शयति घट इति । अङ्गीकृतं चैतत्परेणापि । तथा हि भामत्यां ‘लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि । तैः खलु सदिति गृह्यमाणं सदित्येव वस्तु व्यवस्थाप्यते असदिति च गृह्यमाणमसदित्येव व्यवस्थाप्यते’ इति (भे.प.-ब्र.सू.) ।। १००९ ।।
युक्तिमल्लिका
तस्माद्यो लोकमर्यादामनुसृत्य प्रवर्तते ।
सत्यत्व एव दृश्यत्वं हेतुं कुर्यात्स पण्डितः ।
मिथ्यात्वे तु विरुद्धं तत्को हेतुं कुरुते बुधः ।। १०१० ।।
सुरोत्तमटीका
तस्माद्दृश्यमाने वस्तुनि अस्तित्वस्यैव लोकव्यवहार-सिद्धत्वात् । तत् दृश्यत्वम् ।। १०१० ।।
सत्यप्रमोदटीका
‘दृश्यत्वस्य सन्मात्रवृत्तिद्विरुद्धता च’ इति वादावली- मनुरुध्याह तस्मादिति ।। १०१० ।।
युक्तिमल्लिका
ज्ञानोपनीतो भातोऽपि गन्धो योग्यो न चक्षुषः ।
घ्राणस्यैव स योग्योऽर्थो रूपाद्याः किल चक्षुषः ।। १०११ ।।
सुरोत्तमटीका
ननु दृशो योग्यत्वं हि दृश्यत्वं तच्च शुक्तिरजतेऽप्यस्ति । इदं रजतमिति तस्यापि चक्षुषा दृश्यमानत्वात् । अतः कथं व्यभिचरितेन हेतुना सत्यत्वसाधनमिति शङ्कापरिहाराय शुक्तिरजतादेर्दर्शनयोग्यत्वमेव निवारयति ।। ज्ञानेति ।। सः गन्धः ।। १०११ ।।
सत्यप्रमोदटीका
सपक्षे शुक्तिरूप्येऽपि विद्यमानत्वात्कथं विरुद्धता इति शङ्कासमाधानाय शुक्तिरूप्यस्य मिथ्याभूतस्य रूपरहितस्य चक्षुरयोग्यत्वं दृष्टान्तोक्त्या साधयति ज्ञानोपनीत इत्यादिभिः । गन्धः घ्राणेन्द्रिययोग्यः अनुपनीततया स्वसामग्रीवशेनैव तज्जन्यज्ञानविषयत्वादिति भावः ।। १०११ ।।
युक्तिमल्लिका
अन्तरेव स्वतन्त्रस्य बाह्योऽर्थो घटपूर्वकः ।
ज्ञानोपनीतो भातोऽपि तद्वद्योग्यो न साक्षिणः ।। १०१२ ।।
सुरोत्तमटीका
तद्वत् चक्षुषो गन्धवत् ।। १०१२ ।।
सत्यप्रमोदटीका
भातः घटज्ञानवानहं इति साक्षिज्ञाने ज्ञानविशेषणतया विषयः ।। १०१२ ।।
युक्तिमल्लिका
सुखाद्या एव तद्योग्याः क्काचित्कं कारणं विना ।
क्लृप्तया स्वस्वसामग्य्रा द्दृष्टिः स्यात्पदे पदे ।
स एव तत्तद्योग्योऽर्थो नान्यः कृत्रिमपुत्रवत् ।। १०१३ ।।
सुरोत्तमटीका
कुतस्सुखाद्या एव च योग्या इत्यत आह ।। क्वाचित्क-मिति ।। क्वाचित्कं सर्वत्र तत्तदर्थदर्शनहेतुत्वेनादृष्टं क्वचिदेव च हेतुतया दृष्टं च । यद्दृष्टिः यस्यार्थस्य दृष्टिः । अन्यः क्लृप्तस्वसामग्रीं विना क्वाचित्ककारणेन कदाचित्केन चिद्वेद्यः । कृत्रिमपुत्रवत् दत्तपुत्रवत् । यथा स्वस्वोदरजात एव स्वपुत्रः अन्यः औरसपुत्राभावाद्गृहीतो न स्वपुत्रवत्पुत्रः । यथा चक्षुरादिना सर्वत्र क्लृप्तसामान्यसाम्रगीत एव साक्षात्कृतो घटादिश्च क्षुरादेरर्थः । ज्ञानाख्य-क्वाचित्ककारणान्तरबलेन गृहीतस्तु गन्धादिर्न चक्षुषोऽर्थः । एवं साक्षिणा स्वशक्तयैव गृहीतस्सुखादिस्साक्षिणोऽर्थः । व्यवसायद्वारा गृहीतो घटादि-श्शुक्तिरजतादिर्वा न साक्षिणोर्थः । तथा दोषवशाच्चक्षुषा गृहीतोऽपि शुक्ति-रजतादिर्न चक्षुषोऽर्थः किन्तु घटादिरेवेति सर्वत्र विषयविवेको द्रष्टव्यः
।। १०१३ ।।
सत्यप्रमोदटीका
सुखाद्याः कालाकाशादयः । काचित्कं कारणं विना उपनायकादिकं विना । यद्दृष्टिरित्युत्तरेण सम्बन्धः । यस्य दृष्टिः स एवेति योजना । पदे पदे उत्सर्गतः ।। १०१३ ।।
युक्तिमल्लिका
सहकार्यन्तरबलात्प्रतीतिः स्यात्क्वचित्क्वचित् ।
योग्यता तूक्तमार्गेण स्वारस्यात्प्रत्यये किल ।। १०१४ ।।
सुरोत्तमटीका
स्वारस्यात् स्वस्वभावात् ।। १०१४ ।।
सत्यप्रमोदटीका
क्वचित् क्वचित् अपवादस्थले । स्वारस्यात् स्वरसतो जायमाने ।। १०१४ ।।
युक्तिमल्लिका
इमां हि शास्त्रमर्यादां सर्वेऽङ्गीकुर्वते बुधाः ।
अतो दोषात्प्रतीतेऽपि मिथ्यार्थे नास्ति योग्यता ।। १०१५ ।।
सुरोत्तमटीका
मिथ्यार्थे शुक्तिरजतादौ । योग्यता चक्षुर्जन्यदर्शनयोग्यता ।। १०१५ ।।
सत्यप्रमोदटीका
इमां करणानां स्वकारणासादिता या ज्ञानजननशक्तिः तद्वत्सहजा वा तदभिन्ना वा या प्रमाजननशक्तिः तद्वत्त्वं करणप्रमाणा-नामुत्पत्तौ स्वतःप्रामाण्यं इत्येवंरूपाम् । दोषात् विपरीतशक्त्याधायकात् । प्रतीते शुक्तिरजते । योग्यता चक्षुषा इति शेषः ।। दोषोऽप्युपनायकवत् सहकारिविशेष एवेति भावः ।। १०१५ ।।
युक्तिमल्लिका
किञ्च प्रत्यक्षयोग्यं स्याद्बहिर्द्रव्यं तदेव हि ।
महत्त्वे सति यद्रूपमुद्भूतं च भवेत्सदा ।
तस्माद्दर्शनयोग्यत्वं मिथ्यार्थेष्वस्ति न क्वचित् ।। १०१६ ।।
सुरोत्तमटीका
प्रकारान्तरेण शुक्तिरजतादेश्चक्षुरयोग्यतां प्रदर्शयति ।। किं चेति ।। यद्रूपं यस्य रूपम् । अतश्चाक्षुषबाधप्रमाया बाध्यरजतोल्लेखेऽपि न तस्य चक्षुर्विषयत्वम् । उपनीतस्यैव भानाच्चेति भावः ।। १०१६ ।।
सत्यप्रमोदटीका
प्रत्यक्षेति चाक्षुषप्रत्यक्षेत्यर्थः । मिथ्यार्थे रूपादिहीने । यद्रूपं यस्य रूपम् । तस्मात् महत्त्वसमानाधिकरणोद्भूतरूपस्य चाक्षुषता-प्रयोजकत्वात् ।। १०१६ ।।
युक्तिमल्लिका
शब्दाच्चायोग्यतादोषे सति मिथ्यार्थधीर्नृणाम् ।
अप्रमा परतो यस्य दोषाभावे स दोषभाक् ।। १०१७ ।।
तस्माद्दृश्यत्वसत्यत्वे सत्ये ब्रह्मणि वर्तनात् ।
मिथ्यार्थतो निवृत्तेश्च नित्यं व्याप्ते परस्परम् ।। १०१८ ।।
सुरोत्तमटीका
यस्य मते । अप्रमाया दोषजन्यत्वं वदता प्रात्यक्षिकभ्रमे आनुमानिकभ्रमे शब्दभ्रमे च फलबलादेव दोषः कल्पनीय इति भावः
।। १०१७,१०१८ ।।
सत्यप्रमोदटीका
परत इति । तदुक्तं तर्कताण्डवे ‘अप्रमायां त्वन-न्यथासिद्धान्वयव्यतिरेकित्वाद्दोषः कारणमि’ति । यस्येत्यस्य स इत्यनेनान्वयः । दोषाभावेऽप्यप्रमोत्पद्यत इत्यङ्गीकारे सः परतस्त्ववादी अपसिद्धन्तरूपदोषभाक् इति भावः ।। तस्मात् सपक्षे शुक्तिरूप्ये दृश्यत्वाभावात् । एवं च वादावल्युक्ता विरुद्धता सुस्थेत्याह ब्रह्मणीति । विपक्ष एव वर्तमानत्वात्
।। १०१७,१०१८ ।।
युक्तिमल्लिका
तत्तत्करणसम्बन्धो यत्सत्यत्वैकहेतुकः ।
अप्रयोजकताशङ्का तस्मान्नात्र विवेकिनाम् ।। १०१९ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि दृश्यत्वसत्यत्वयोर्व्याप्तिं द्रढयति ।। तत्तदिति ।। तत् यस्मात् । योग्यार्थदर्शनाय करणसम्बन्धोऽवश्यं वक्तव्यः । करणसम्बन्धाभावेऽपि प्रतीतिस्त्वयोग्ये एव । सम्बन्धश्च सत्ययोरेव । अतोऽपि दृश्यत्वसत्यत्वे अविनाभूते इति भावः ।। १०१९ ।।
सत्यप्रमोदटीका
तज्ज्ञानासाधारणकारणासाधारणकारणसन्निकर्षानु-योगित्वं विषयत्वं इति लक्षणपर्यालोचनयाऽपि सन्निकर्षसापेक्षं विषयत्वं सन्निकर्षायोग्यस्य असदर्थस्य न सम्भवतीत्याह तत्तदिति । अप्रयोजकता । दोषाभावेऽपि अप्रमात्वं स्यादित्येवंरूपा । प्रत्यासत्तिप्रतिनिधेर्दोषस्यावश्यक-त्वादिति भावः ।। १०१९ ।।
युक्तिमल्लिका
विवादविषयो विश्वं दृश्यत्वात्परमार्थसत् ।
ब्रह्मवद्व्यतिरेकेण शुक्तिरूप्यवदेव वा ।। १०२० ।।
रणाङ्कणाद्गृहीतोऽयं भटो वीरशिरोमणिः ।
चित्रं युक्तिधनैस्तुष्टो हन्ति शत्रोरनीकिनीम् ।। १०२१ ।।
सुरोत्तमटीका
परेण स्वसाध्यसिद्ध्यर्थमुक्तदृश्यत्वहेतोरेव युक्तिबला-दस्माभिर्गृहीतत्वात् रणाङ्कणाद्गृहीत इत्युक्तम् । बहुधने दत्ते मर्मज्ञत्वात्स एव स्वपूर्वसेनां हन्तीत्यतो युक्तिधनैस्तुष्ट इत्याद्युक्तम् ।। १०२०,१०२१ ।।
सत्यप्रमोदटीका
दृश्यत्वात् प्रमाणदृष्टत्वात् । एतच्च समर्थितमिति भावः ।। निरवकाशतया सत्यत्वसाधकं हेतुं मिथ्यात्वे उपन्यस्यतः परस्याहो अविवेकितेत्याह रणेति । युक्तिः दृश्यत्वस्य सन्मात्रवृत्तित्वरूपयुक्तिः ।। १०२०,१०२१ ।।
युक्तिमल्लिका
अस्य प्रकरणे साम्यं ये प्रोचुः पूर्वसूरयः ।
तेषां तु न रणे साम्यं केनापीति मतिर्मम ।। १०२२ ।।
सुरोत्तमटीका
परायुधेनैव स्वसाध्यसाधनचमत्कारवन्तं स्वाचार्यं स्तौति ।। अस्येति ।। अस्य दृश्यत्वहेतोः । प्रकरणे स्वसाध्ये । साम्यम् । परेण परसाध्ये प्रयोगवत्प्रयोगम् । प्रयोगमात्रे साम्यम् । विचार्यमाणे तु परकीय-साध्यविरुद्धत्वात्स्वकीयसाध्ये सर्वजनसंमत्याऽनुकूलत्वाच्चा साम्यमेवेति द्रष्टव्यम् । पूर्वसूरयः सर्वेषामादिगुरवश्श्रीमदाचार्याः । रणे वादरणे । केनापि विदुषा साम्यं न ।। १०२२ ।।
सत्यप्रमोदटीका
प्रोचुः मिथ्यात्वानुमानुखण्डने । पूर्वसूरयः श्रीभगव-त्पादाः । ‘रजतं दृष्टमिति भ्रममात्रत्वात् विमतं सत्यं दृश्यत्वादात्मवदित्यपि योज्यत्वात्प्रकरणसमः’ । इदं चोपलक्षणम् । वस्तुतस्तु प्रबलप्रमाणविरोध एव । ‘प्रत्यक्षादिविरुद्धत्वाद्विश्वं सत्यमित्यादिवाक्यविरुद्धत्वात् कालात्यया-पदिष्ट’ इति तत्रैवोक्तेः । तदेतदभिप्रेत्याह न साम्यमिति । किन्तु तदुक्तयुक्तेः प्राबल्यमेवेति हृदयम् ।। १०२२ ।।
युक्तिमल्लिका
किञ्च दृश्यध्यस्ततैव दृश्यत्वं भवतो मते ।
विषयत्वपरित्यागाद्वृत्तौ वृत्त्याकृतिस्तव ।
दृश्यत्वं किल तत्सर्वं प्रतिवादी न मन्यते ।। १०२३ ।।
तस्मादन्यतरासिद्धो हेतुः स्यादप्रबुद्ध ते ।
सर्वेषामपि सिद्धो मे हेतुर्नारदसिद्धवत् ।। १०२४ ।।
सुरोत्तमटीका
परकीयदृश्यत्वहेतोरन्यतरासिद्धिं चाह ।। किञ्चेति ।। अधिष्ठानचैतन्यस्य दृक्त्वे दृश्यध्यस्तत्वमेव परस्यहेतुतयाऽभिमतम् । वृत्तौ वृत्तिरूपज्ञाने चेत् । वृत्तेरिवाकृतिर्वृत्त्याकृतिः । विषयस्य वृत्तिसमाकारवत्त्व-मित्यर्थः । विषयविषयिभावानङ्गीकारात् इदमेव दृश्यत्वं परस्याभिमतम् । तत्सर्वं द्विविधं दृश्यत्वम् । प्रतिवादी तत्ववादी । साध्याविशिष्टहेतोः करणादप्रबुद्धेत्युक्तम् । दृग्जन्यफलाश्रयत्वादिकमपि परस्यासिद्धमिति सूचनाय सर्वपदम् । ज्ञातताया वृत्तिप्रतिफलितचैतन्यस्य च परेणानङ्गीकारात् । व्यवहारस्य प्रवृत्तेश्च पुङ्गतत्वेन विषये तदाश्रयत्वाभावादन्यतरासिद्धिः । दृग्जन्यफलाश्रयत्वं दृश्यत्वं वदता परेण फलं प्रत्यप्याश्रयत्वस्यैवोररीकरणात् विषयत्वानङ्गीकाराच्च । अन्यथा ज्ञाततायामयोगात् । मे हेतुः दृग्विषय-त्वाख्यहेतुः । विषयत्वं च स्वरूपसम्बन्धविशेष इत्यङ्गीकारात् । तस्य चाभावसमवायादिस्थले सर्वसंमतत्वात् सर्वेषामपि सिद्ध इत्युक्तम् । न च वाच्यं मयाप्येतदेव दृश्यत्वमुच्यत इति । तथा सति दृग्दृश्ययोस्सम्बन्धानु-पपत्तेरेवाभावेनैतादृशदृश्ये त्वदभिलषितदृगध्यस्तत्वस्यैवासिद्धेः । दृश्यत्वस्य वृत्तिविषये आत्मनि गतत्वेन हेतोर्व्यभिचारप्रसङ्गात् । चित एव दृक्त्वे मद्रीत्या घटादावभावेन पुनर्भागासिद्धिस्स्यात् । अस्माकं तु यथायोग्यं वृत्तिर्वादृक्चिद्वा दृक् । यथा नारदाख्यसिद्धः देवानां दैत्यानां च प्रियस्तद्वत् ।। १०२३,१०२४ ।।
सत्यप्रमोदटीका
‘दृश्यत्वाभावादसिद्धो हेतुः । अनिर्वचनीयासिद्धेरेव’ इति भगवत्पादोक्तिं समर्थयते किञ्चेत्यादिना । भवतः ‘नियामकं न संवेद्यं पश्यामो नीलतद्धियोः’ इति विज्ञानवादिनां ग्राह्यलक्षणाभावाख्यं तर्कं भिक्षित्वा विषयत्वसम्बन्धस्य दुर्निरूपत्वं वदतो मायिभिक्षोः । अध्यस्ततैवेति असत्त्वे तु चित्प्रकाशारोपितस्य अधिष्ठानाध्यस्तत्वसम्बन्धेन प्रकाशोपत्तिरिति त्वत्सिद्धान्तादिति भावः । परित्यागात् विकल्पासहत्वेन खण्डनात् । तथा हि । वृत्त्याकृतिरिति । वृत्तिसमानाकारत्वं तच्च प्रतिवाद्यसिद्धम् । नापि ज्ञानजन्यफलाश्रयत्वम् । फलं ज्ञाततो व्यवहारो वा । नाद्यः ज्ञातताया अप्रामाणिकत्वेन परस्य स्वरूपासिद्धिः । अतीतानागतनित्यानुमेयेषु वादि-नोऽपि भागासिद्धिः । न द्वितीयः । व्यवहाराश्रयत्वस्य पुरुष एव सम्भवेन विषये तदभावात् । नापि वृत्तिप्रतिफलितचैतन्यादिकं परस्यासिद्धेरेव । तदेतदभिप्रेत्योक्तं तत्सर्वमिति ।।
प्रमाणतो दृग्विषयत्वं वाद्यसिद्धम् । फलितमाह तस्मादिति । मिथ्यात्वं चाध्यस्तत्वमेवेति साध्याविशिष्टता च । सिद्धान्ते तु न कोऽपि दोष इत्याह सर्वेषामपि इति । विषयत्वरूपस्वरूपसम्बन्धस्य अभावादिषु सर्वत्र सम्भवात् । नारदसिद्धवदिति । यथा नारदो दैत्यानां देवानां च संमतः तथा चैतन्य-विषयत्वस्य वृत्तिविषयत्वस्य चोपपत्तेः । तदुक्तं वादावल्यां ‘चैतन्याविषय-त्वेऽपि बाधकाभावात् । वृत्तिविषयत्वेनैव व्यवहारोपपत्तेः ।चैतन्यस्यापि स्वाभाविकं भविष्यतीति को दोष’ इति।।१०२३,१०२४ ।।
युक्तिमल्लिका
यतो दुष्टं च करणं स्वयं सदपि तात्त्विकम् ।
अर्थं न साधयेत्तस्मान्मिथ्यार्थः क्वार्थसाधकः ।। १०२५ ।।
सुरोत्तमटीका
किञ्च परमते शब्दवत् लिङ्गस्यापि मिथ्यात्वाङ्गीकारान्न कोऽपि हेतुस्त्वदभिलषितसाध्यसाधक इत्याह ।। यत इति ।। दुष्टकरणं काचादिदोषयुक्तकरणम् । सत् सत्यम् । अर्थं स्वविषयीभूतशुक्तिरजतादिकम् । तस्माद्दोषग्रस्तसत्यार्थस्यापि सदर्थसाधकत्वाभावात् । मिथ्यार्थः मिथ्याभूत-लिङ्गाद्यर्थः । अर्थसाधकः अर्थक्रियाकारी । अतो हेतुशतकेनापि न परेण मिथ्यात्वं साधयितुं शक्यमिति भावः ।। १०२५ ।।
सत्यप्रमोदटीका
परः प्रमाणानां मिथ्यात्वं मनुते । अतस्तेषां साधकत्वमेव न घटत इत्याह यत इति ।। दुष्टमपि करणं स्वरूपतः सदपि दोषग्रस्ततया न तात्त्विकमर्थं साधयति यदा तदा परमते स्वरूपत एवासन्ति प्रमाणानि कथङ्कारं तात्त्विकार्थं साधयेयुरिति भावः । तदुक्तं भगवत्पादैः ‘अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता । तस्माद्व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता’ इति
।। १०२५ ।।
युक्तिमल्लिका
सिद्धिर्हि विद्यमानत्वनिर्णयस्संमता सताम् ।
सा प्रमाणेन यस्यासीत्तद्धि प्रामाणिकं विदुः ।। १०२६ ।।
निर्णयस्तदभावस्य व्यावृत्त्या तस्य सत्त्वधीः ।
उद्दिष्टा तत्कुचोद्यस्य नावकाशोऽत्र विद्यते ।
घटस्य नास्तिताज्ञानं घटज्ञानं हि को वदेत् ।। १०२७ ।।
सुरोत्तमटीका
इदानीं प्रामाणिकत्वहेतुना जगत्सत्यत्वं साधयितुं प्रामाणिकशब्दार्थं लोकसंमत्याख्याकरणसम्मत्या च दर्शयति ।। सिद्धिरिति ।। नहि कोऽपि घटाभावसिद्धिं घटसिद्धिं ब्रूते । न वा स्वप्रयोजनालाभे सिद्धं मम प्रयोजनमित्याह । किन्तु स्वप्रयोजने सम्यक्संपन्ने सत्येव । इमां लोक-व्याकरणप्रसिद्धिं हिशब्देन सूचयति । यस्य घटादेर्वस्तुनः ।।
तदभावस्य घटाद्यभावस्य । तस्य घटादेः । न हि कोऽपि घटनास्तित्व-निर्णयं घटनिर्णयं वक्ति । किंतु घटोऽस्त्येवेति निर्णय एव घटनिर्णयः । अतो निर्णयशब्दार्थोऽपि लोकसम्मत इति भावः । एतदपि द्वितीय हिशब्देन सूचयति । कुचोद्यस्य ‘‘असदेव रजतं प्रत्यभादि’’त्यनुव्यवसायविषयतया ‘‘नेदं रजतमि’’ति बाधप्रमाविषयतया च शुक्तिरजतस्य प्रामाणिकत्वमस्तीति चोद्यस्य । अत्र प्रामाणिकत्वहेतौ । प्रमाणेन नास्तीति प्रतिपादिते वस्तुनि प्रामाणिकत्वस्य लोके वेदे चाव्यवहारात् । प्रत्युताप्रामाणिकत्वस्यैव व्यवहारा-च्चेति भावः ।। १०२६,१०२७ ।।
सत्यप्रमोदटीका
ननु प्रामाणिकत्वं सत्यत्वसाधकम् । असदेव रजतं प्रत्यभादिति भ्रान्त्युत्थितस्यानुव्यवसायरूपं प्रमाणं प्रति तथा नेदं रजतं इति बाधकानुभवरूपप्रमाणं प्रति च रजतस्य विषयत्वात्तस्यापि प्रामाणिकत्वाव-गमात्तेन रजतस्यापि सत्त्वं इति परस्य कुचोद्यं प्रामाणिकत्वस्वरूपनिर्धारणेन निराह सिद्धिरित्यादिना । प्रमां प्रति अनिषेध्यत्वेन साक्षाद्विषयत्वमेव प्रामाणिकत्वम् । तदेव सत्त्वसाधकतयोपन्यस्तम् । अनुव्यवसायं प्रति परंपरया विषयो बाधकानुभवं प्रति निषेध्यत्वेन विषये रजते तन्नास्तीति कुतस्तस्य सत्त्वसाधनप्रत्याशेत्याह विदुः इति । लौकिका वैदिकाश्चेति शेषः । अनुव्यवसायेन भ्रमस्य सत्त्वसिद्धिः, बाधानुभवेन च रजताभावस्यैव सिद्धि-र्नत्वेव रजतस्येति भावः । तदुक्तं वादावल्यां ‘अन्यथा भ्रमो ममासीदिति विशिष्टविषयज्ञानस्य प्रमाणत्वात्तद्विशेषणतयाऽर्थस्यापि प्रामाणिकत्वापात’ इति ।। १०२६,१०२७ ।।
युक्तिमल्लिका
यद्वा प्रमाणं यत्सत्तामङ्गीकारयति स्फुटम् ।
सोऽर्थः प्रामाणिकोऽन्योऽर्थस्त्वप्रामाणिक उच्यते ।। १०२८ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि प्रामाणिक शब्दस्योक्तमेवार्थमानयति ।। यद्वेति ।। यत्सत्तां यस्य पदार्थस्य विद्यमानताम् । घटो नास्तीति वदतापि भूतले घट इति प्रमाणे सति घटास्तित्वस्यैवाङ्गीकारादिति भावः ।। १०२८ ।।
सत्यप्रमोदटीका
प्रमाणशब्दनिरुक्त्याऽपि प्रामाणिकत्वहेतोः सत्यत्व-साधकता सिध्यतीत्याह यद्वेत्यादिभिः । स्फुटमिति तच्चानिषेध्यत्वेन साक्षा-त्तद्विषयकप्रमाजनकमेव नान्यदिति भावः ।। १०२८ ।।
युक्तिमल्लिका
प्रमाणता च करणे प्रमाकरणता मता ।
प्रमा यथार्थधीस्तत्त्वं लोकोक्त्या न दुराग्रहात् ।। १०२९ ।।
सुरोत्तमटीका
तत्वं प्रमाणत्वम् । लोकोक्त्या लोकव्यवहारेणाङ्गी-कार्यम् । दुराग्रहात् स्वमतदुराग्रहात् । यथार्थमेव मया दृष्टमिति वदन्लोकोऽहि यथार्थज्ञानकरणस्यैव प्रमाणतां वक्ति । अतस्तदेव प्रमाणं न त्वर्थेऽनधिगत-त्वादिकं प्रवेशनीयमिति भावः
।। १०२९ ।।
युक्तिमल्लिका
अतो यद्विद्यमानत्वं प्रत्यक्षेणेतरेण वा ।
निर्णीयते प्रमाणेन तत्प्रामाणिकशब्दवत् ।। १०३० ।।
सुरोत्तमटीका
प्रत्यक्षेण प्रमाणत्वेन लोकसम्मतप्रत्यक्षेण । तत् लोकसम्मतप्रमाणप्रसिद्धविद्यमानत्वाधिकरणम् । प्रामाणिकशब्दवत् प्रामाणिक-शब्दवाच्यम् । एवं च महावाक्यमेव प्रमाणं नान्यदिति वदता मायावादिनापि न हेतोरन्यतरासिद्धिर्वक्तुं शक्या । लोकसम्मत प्रमाणबोधितविद्यमानत्वाधि-करणत्वस्य हानोपादानादिकं कुर्वता तेनापि घटादौ प्रपञ्चे ब्रह्मणि च वक्तव्यत्वात् शुक्तिरजतादाववक्तव्यत्वाच्च इदमेव च प्रामाणिकत्वम् । लोके एतादृशे वस्तुन्येव प्रामाणिकपदप्रयोगदर्शनात् । प्रयोगानुसारेणैव व्याकरण-स्यापि प्रवृत्तत्वादुक्तसम्बन्धविशेषण एव तदुदित प्रत्ययार्थ इति भावः ।। १०३० ।।
सत्यप्रमोदटीका
प्रामाणिकशब्दवत् प्रामाणिकशब्दप्रतिपाद्यताऽर्हम् । प्रामाणिकत्वं प्रति सत्त्वस्य प्रयोजकत्वात् । तदुक्तं वादावल्यां ब्रह्मणश्चा-प्रामाणिकत्वे शशविषाणवदसत्त्वप्रसङ्ग’ इति ।। १०३० ।।
युक्तिमल्लिका
प्रयोगस्यानुसारेण शब्दस्यार्थो भवेत्किल ।
प्रयोगमूलं यत्प्राहुस्सर्वे व्याकरणं बुधाः ।। १०३१ ।।
सुरोत्तमटीका
एतदेव विशदयति ।। प्रयोगस्येत्यादिना ।। १०३१ ।।
सत्यप्रमोदटीका
किल ‘प्रयोगमात्रबाहुल्यं रुढिरित्यभिधीयते’ इति अनुव्याख्यानोक्तलक्षणेन प्रसिद्धम् ।। १०३१ ।।
युक्तिमल्लिका
प्रयुञ्जते न तच्छब्दं प्रजा रज्जुभुजङ्गमे ।
निषेध्यत्वेन बाधाख्यमानसम्बन्धवत्यपि ।। १०३२ ।।
सुरोत्तमटीका
तच्छब्दं प्रामाणिकशब्दम् ।। १०३२ ।।
सत्यप्रमोदटीका
तच्छब्दं भुजङ्गमशब्दम् । सम्बन्धवत्यपि निषेध्यत्वेन विषयत्वरूपसम्बन्धवत्यपि ।। १०३२ ।।
युक्तिमल्लिका
ततः प्रमाणसम्बन्धमात्रार्थः प्रत्ययोऽत्र न ।
तत्सम्बन्धविशेषार्थ इत्याहुः शब्दकोविदाः ।। १०३३ ।।
सुरोत्तमटीका
प्रत्ययःप्रमाणपदोपरिप्रामाणिकपदसंपत्त्यर्थं वैयाकरणै-रनुशिष्टठक्प्रत्ययः । अत्र प्रामाणिकशब्दे । प्रमाणसम्बन्धमात्रार्थो नेति सम्बन्धः । तत् तस्मात् ।। १०३३ ।।
सत्यप्रमोदटीका
प्रत्ययः प्रामाणिकशब्दे प्रमाणपदोत्तरः विषयत्व-रूपसम्बन्धवाचकः ।। १०३३ ।।
युक्तिमल्लिका
विशेषश्च स एव स्यान्मिथ्यार्थाद्विशिनष्टि यः ।
अतोऽस्मदुक्तमेवार्थं शब्दोऽसौ वक्ति नापरम् ।। १०३४ ।।
सुरोत्तमटीका
अतः व्याकरणस्यापि प्रयोगमूलत्वात् । असौ शब्दः प्रामाणिकशब्दः ।। १०३४ ।।
सत्यप्रमोदटीका
विशेषः अनिषेध्यत्वेनेत्युक्तरूपः ।। १०३४ ।।
युक्तिमल्लिका
माने तव महावाक्ये यदि तत्पदमर्थवत् ।
तदा प्रामाणिकं ब्रह्म न चेदैक्यं न वाक्यतः ।। १०३५ ।।
सिद्ध्येद्विध्येदतो ब्रह्म तत्पदेषुर्न संशयः ।
ऐक्यं तव यतोऽवश्यं मुख्यतत्त्वच्युतिर्न चेत् ।। १०३६ ।।
सुरोत्तमटीका
दृष्टान्ते साधनवैकल्यं परिहरति ।। मान इति ।। महावाक्ये तत्त्वमसीति वाक्ये । तत्पदं तदितिपदम् । अर्थवत् प्रतिपाद्यार्थ-वत् ।। न चेत् तत्पदस्य मुख्यतो लक्षणया वा ब्रह्मप्रतिपादकत्वं न चेत् । अतस्तत्त्वं पदाभ्याम् ऐक्यबोध्यत्वात् । तत्पदेषुः तत्पदाख्यशरः । ब्रह्म-विध्येत् । यथा शरवेधः परिहर्तुं न शक्यते तथा ब्रह्मणोऽपि तत्पदबोध्यत्व-मनिवार्यमिति भावः
।। १०३५,१०३६ ।।
सत्यप्रमोदटीका
महावाक्ये तत्त्वमसि इति वाक्ये तत्पदं तदिति पदम् । अर्थवत् शक्त्या लक्षणया वा ब्रह्मरूपार्थप्रतिपादकं तदा प्रामाणि-कत्वहेतुः सत्त्वसाधनायोपन्यस्तो न साधनविकलः । न चेत् ब्रह्मण एवानुपस्थितेः वाक्यात् ऐक्यं न सिध्यति इति योजना । अत ऐक्यसिद्धि-मभीप्सताऽवश्यं तत्पदप्रतिपाद्यत्वं उररीकरणीयमिति साहित्यमुद्रयाऽऽह । तत्पदेषुः तदितिपदरूपः शरः, ब्रह्म विध्येत् अवश्यं प्रतिपादयेदेव इति । मुख्यतत्त्वं त्वत्सिद्धान्तरहस्यं ऐक्यम् । तस्य च्युतिः अभावसिद्धिः
।। १०३५,१०३६ ।।
युक्तिमल्लिका
तदा त्वैक्याभावरूपहेतोरेव प्रसिद्ध्यति ।
अनेकं जगदेतन्मे बाधेषावप्ययो गतम् ।। १०३७ ।।
सुरोत्तमटीका
तदा ऐक्याभावे । ऐक्याभावरूपहेतोः ऐक्याभावाख्य-हेतुत इत्यर्थः । मे मदभिमतम् । अनेकं जगत् प्रसिद्ध्यति प्रकर्षेण सिद्ध्य-तीति योजना । विमतो जीवो ब्रह्मणो भिन्नो भवितुमर्हति ब्रह्मैक्यरहितत्वात् । जडप्रपञ्चवदिति साध्यत इति भावः । बाधेषौ जगद्बाधकत्वेनाभिमते एकमेवाद्वितीयमिति वाक्याख्यशरे । अयः जगन्नाशकत्वेनायस्स्थानीय-मैक्यविषयत्वम्
।। १०३७ ।।
सत्यप्रमोदटीका
इदं प्रमाणप्रमितम् । जगत् जीवजडात्मकम् । अनेकं परस्परप्रतियोगिकपारमार्थिकभेदोपेतस्वैकदेशप्रतियोगिकपारमार्थिकभेदोपेतम् । प्रकर्षेण परस्परविरुद्धयोरन्यतरनिषेधे अन्यतरविधिरिति व्याप्तिबलेन सिध्यति । तदुक्तं वादावल्यां ‘स्वरूपैक्यस्य बाधितत्वे भेदोन्मज्जनप्रसङ्गात् । न ह्युभयोदासीनतत्त्वसिद्धिः । उभयात्मकवस्तुवत्तस्यापि व्याहतत्वेनासम्भवि-त्वादि’ति । तथा च बाधेषौ भेदबाधकत्वेन त्वदभिमते एकमेवाद्वितीय-मित्यादिवाक्यबाणे अयः बाधोपयुक्तं ऐक्यविषयकत्वं गतं अपगतम्
।। १०३७ ।।
युक्तिमल्लिका
अतः प्रामाणिकं ब्रह्म तवापि च ममापि च ।
परमार्थसदेव स्याद्बह्मवत्तेन मे जगत् ।। १०३८ ।।
सुरोत्तमटीका
तेन प्रामाणिकत्वहेतुना ।। १०३८ ।।
सत्यप्रमोदटीका
ब्रह्मवदिति । दृष्टान्ते साधनवैकल्यस्य परिहृत-त्वादिति भावः ।। १०३८ ।।
युक्तिमल्लिका
प्रमितं विश्वसत्यत्वं सच्चेन्नोपाधिरात्मता ।
अत्रैव साध्यस्याव्यात्प्या भवेन्नोपाधिरात्मता ।
न्यायसाम्याद्ब्रह्मणि ते साध्याव्याप्तिप्रसङ्गतः ।। १०३९ ।।
न चेत्प्रमापि जगति साधनाव्याप्ततागता ।
आत्मत्वोपाधिरेतस्मात्स्वात्मानं हन्ति नापरम् ।। १०४० ।।
सुरोत्तमटीका
आत्मत्वोपाधिना प्रामाणिकत्वहेतोस्सोपाधिकत्वमाशङ्क्य विकल्पासहं तदित्याह ।। प्रमितमिति ।। न्यायसाम्यात् । जगति प्रमितस्य सत्त्वस्याभावे ब्रह्मण्यपि प्रमितस्याभावप्रसङ्गात् । न हि न्यायस्य पक्षपातोऽ-स्तीति भावः ।। १०३९,१०४० ।।
सत्यप्रमोदटीका
सत्यत्वसाधकप्रामाणिकत्वहेतोः, यदि सत्त्वं न स्या-त्प्रामाणिकत्वमेव न स्यादित्यनुकूलतर्कसनाथत्वेन पक्ष एव साध्यव्यापकता-भङ्गात् न आत्मत्वरूपोपाधिसम्भव इत्याह प्रमितमिति । अनुकूलतर्केण पक्षे सिद्धं इत्यर्थः । यथोक्तं ‘अनुकूलेण तर्केण सनाथे सति साधने । साध्य-व्यापकताभङ्गात्पक्षे नोपाधिसम्भव’ इति । सत्यत्वस्य प्रामाणिकत्वं प्रति प्रयोजकत्वेन हेतूच्छित्तिरेव विपक्षे बाधिकेति ध्येयम् । न चेत् प्रामाणि-कत्वहेतुना जगति सत्यत्वसिद्धिं नाङ्गीकरोषि चेत् ब्रह्मण्यपि सत्यत्वासिद्धिः । उभयत्र प्रामाणिकत्वाविशेषेण एकत्र साधकत्वं अपरत्रासाधकत्वं इति अर्धजरतीयानुपपत्तेः । स्वात्मानं हन्ति । आत्मन्यपि आत्मत्वाभावं प्रसञ्जयति । तदुक्तं वादावल्यां ‘आत्मत्वमुपाधिरिति चेन्न । अबाध्यत्वा-देरात्मत्वस्य पक्षे सम्भवात् । अन्यथाऽऽत्मत्वस्याप्यभावः स्याद्ब्रह्मणी’ति ।। १०३९,१०४० ।।
युक्तिमल्लिका
प्रामाणिकं च बाध्यं चेत्येतमर्थमनर्थदम् ।
व्याघातो जितनिर्घातस्तर्कोऽप्याक्रोशयेद्ध्रुवम् ।। १०४१ ।।
यद्बाधोऽर्थायथार्थत्वं तद्याथार्थ्यं च यत्प्रमा ।
वन्ध्यासुतो वदेदेवं न तु पुत्रवतीसुतः ।। १०४२ ।।
सुरोत्तमटीका
अनुमानानुग्राहकतर्कमाह ।। प्रामाणिकमिति ।। जितः निर्घातः अशनिर्येन सः । अशनिपातादप्यधिक इत्यर्थः । यत् यस्मात् । तद्याथार्थ्यम् अर्थयाथार्थ्यम् । द्वितीयमपि यत्पदं यस्मादित्यर्थः ।। १०४१,१०४२ ।।
सत्यप्रमोदटीका
व्याघात इति तदुक्तं तत्रैव ‘अतत्त्वावेदकं प्रमाणं चेति व्याघातः । अतत्त्वावेदकं प्रमाणं चेच्छुक्तिरजतज्ञानमपि प्रमाणं किं न स्यात् । प्रमाणं चेन्नातत्वावेदकं औतवाक्यवत्’ इति । जितनिर्घातः अशनेरपि बलवत्तरः ।। १०४१,१०४२ ।।
युक्तिमल्लिका
यद्येकमानमानत्वहीनतायां रतिस्तव ।
तर्हि बाधप्रमाणेऽस्तु सा जगत्कण्टकोपमे ।। १०४३ ।।
सुरोत्तमटीका
एकमानमानत्वहीनतायां विश्वबाधकविश्वसाधकप्रमाण-योरुभयोरपि प्रामाण्यायोगात् एकमानस्य मानत्वहीनतायां मानत्वाभावे । सा मानत्वहीनता ।। १०४३ ।।
सत्यप्रमोदटीका
बाधप्रमाणे बाधकत्वेन त्वदभिमत नेहनानास्तीति वाक्ये । बाधः अन्यार्थता । सत्यत्वसाधकप्रमाणानां बहुत्वनिरवकाशत्वादिना बलवत्त्वात् ।। १०४३ ।।
युक्तिमल्लिका
रक्षो घ्नन्ति हि शान्त्यर्थं कं घ्नन्ति जगतीपतिम् ।
बाधकत्वेन बलिताऽप्येतेनैव बहिर्गता ।। १०४४ ।।
सुरोत्तमटीका
कण्टकछेद एव न्याय्य इत्याह ।। रक्ष इति ।। घ्नन्ति राजरक्षां कुर्वन्तो मान्त्रिकाः । प्रकृतेऽपि जगत एवाभावे जगत्पतेरेवाभाव-प्रसङ्गात् जगद्धनने जगत्पतेरेव हननं द्रष्टव्यम् । बलिता बलवत्ता । एतेन बाधकीभूतरक्षसामेव हननेन ।। १०४४ ।।
सत्यप्रमोदटीका
तव मिथ्यात्वसाधकाभिमतं वाक्यं जगतः अत एव जगतीपतेश्च हननाय प्रवृत्तं रक्षःसदृशमेव बाधार्हम् । बहिर्गतेति । हीन-बलताया अत एव बाधार्हत्वस्योपपादितत्वादिति भावः ।। १०४४ ।।
युक्तिमल्लिका
साधकस्य सदोषत्वे बाधकं प्रबलं भवेत् ।
विदोषसाधकस्याग्रे किं बाधकशतेन ते ।। १०४५ ।।
न ह्यापणस्थरूप्यस्य बह्वाघातेऽप्यरूप्यता ।
रसयोगेऽपि तद्रूपनाशादभिभवेन वा ।
रूपान्तरस्य चोत्पत्तौ तस्यैव स्यात्सुवर्णता ।। १०४६ ।।
सुरोत्तमटीका
विदोषसाधकसिद्धस्याबाध्यत्वं दृष्टान्तमुखेन घटयति ।। नहीति । आघाते स्वर्णकारैर्बहुधा आघाते कृतेऽपि । रसयोगेऽपि रसवादिभिः पादरसयोगे कृतेऽपि तद्रूपनाशात् तस्य रजतस्य श्वेतत्वाख्यरूपनाशात् । रूपान्तरस्य सुवर्णवर्णस्य । तस्यैव प्राक्तनरजतस्यैव ।। १०४५,१०४६ ।।
सत्यप्रमोदटीका
विदोषसाधकस्येति
निर्दोषश्रुतिसाक्षिभ्यां प्रमिते ब्रह्मजीवयोः ।
सर्वशक्त्यल्पशक्तित्वे मिथ्येति च न युज्यते ।। इत्युक्तेः ।
बाधकशतेन विरोधिशतेन । ते इति । तव तेषां बाधकत्वं दुराग्रह-दुर्विलासमात्रमूलमिति हृदयम् ।। आपणस्थरूप्यं वास्तवं निर्दोषं नेहनानेति वाक्यम् । बह्वाघातः जगदपलापरूपो मायावादिकल्पितोऽर्थः । न ह्यरूप्यता । जगतो वा तदन्तःपातिनः स्वस्य वा मिथ्यात्वं नैव प्रतिपादयति । रसयोगे तात्पर्यविमर्शे रूपान्तरं मानान्तरानुगुणमर्थान्तरम् । सुवर्णता ब्रह्मणः स्वगतभेदनिषेधरूपमहिमप्रतिपादकता ।। १०४५,१०४६ ।।
युक्तिमल्लिका
फलस्य पीतपक्वत्वमिव बाधो न कस्यचित् ।
तस्यैवावस्थान्तरत्वान्मिथ्यात्वापादनं न तत् ।। १०४७ ।।
सुरोत्तमटीका
फलस्य प्राक्श्यामफलस्य । आतपयोगेन पीतपक्वत्व-मिवेति दृष्टान्तस्यापि दृष्टान्तः । तत् रसयोजनम् ।। १०४७ ।।
सत्यप्रमोदटीका
कस्यचित् न बाधः फलस्य अवस्थाऽन्तरापत्तिः पूर्वरूपस्य नाशः । न तु मिथ्यात्वम् । एवं वेदस्य अर्थान्तरम् । पूर्वार्थस्य परित्याग एव । न कस्यापि बाधः । ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति व्यासस्मृतेः ।। १०४७ ।।
युक्तिमल्लिका
ततः काचादिदोषोत्थो बाध्योऽस्तु रजतभ्रमः ।
तद्दोषहीनमानोत्था विश्वधीर्नैव बाध्यते ।। १०४८ ।।
सुरोत्तमटीका
विदोषसाधकप्रमाणसिद्धस्यार्थस्य बाधकशतेनापि यतो मिथ्यात्वं न दृष्टम् अतो बाधकत्वेन प्राबल्यं न यौक्तमिति भावः । लोक-सम्मतकाचादिदोषमात्ररहितप्रत्यक्षसिद्धापणस्थरजतं स्वनारीकरकटकार्थमुपा-ददता परेणापि तत्र प्रामाणिकत्वोररीकरणात् व्यवहारोपयोगितया लोक-सम्मतप्रमाणेनैव प्रामाणिकत्वं वदतो ममापि तावदेवालम् । हानोपादानादि-स्वव्यवहाराय घटादिप्रपञ्चे यत्प्रामाणिकत्वं लोकोऽङ्गीकुरुते तेनैव प्रामाणि-कत्वेन सत्यत्वस्यापि साधयितुं शक्यत्वात् । वस्तुतत्वविचारायैव चर्चेयमिति ज्ञातव्यम् ।। १०४८ ।।
सत्यप्रमोदटीका
दोषहीनं अपौरूषेयत्वेनानाशङ्कितदोषं ।। १०४८ ।।
युक्तिमल्लिका
काचादिदोषतोऽन्योऽपि यस्तु दोषो मतस्तव ।
अविद्यावद्विषयतासंज्ञो भाष्यकृतोदितः ।। १०४९ ।।
दोषस्स तूष्णीं किमुत प्रमायाः प्रतिरोधतः ।
भ्रमस्योत्पादकत्वाद्वा कं पक्षमवलम्बसे ।। १०५० ।।
सुरोत्तमटीका
ननु जगत्प्रमायां काचादिदोषाभावेऽप्यविद्याख्यदोषो भविष्यतीति चेन्न । दूषितत्वात् । किञ्च प्रमाप्रागभावस्य प्रमोत्पत्तौ दोषत्वा-दर्शनेनाविद्यादोषत्वस्यानानुभविकत्वात् । भावरूपाविद्यादोष इति चेत् । न । आविद्यकचरमप्रमाया अपि सदोषत्वप्रसङ्गात् । तस्याजडप्रपञ्चेषु त्वयानङ्गी-कारेणार्थानावरकतयार्थदोषत्वायोगात् । अत एव करणानावरकतया करण-दोषत्वायोगाच्च । विषयस्याविद्योपादानकत्वमपि दोष इति चेन्न । तवापि मते शुक्तिरजतादौ नाविद्योपादानकत्वमेव स्वोपादेये विषये उत्पत्स्यमानज्ञाने दोषः । विषयोपोद्बलकस्यैवालोकादेरिव ज्ञाने दोषत्वायोगात् । किं तु रजतो-पादानकत्वनिमित्तरजतत्वाभावादेवातद्वति तत्प्रकारकत्वरूपभ्रमः । घटादौ तु मृदाद्युपादानजन्येन भ्रमस्स्यात् । कथमन्यथा केवलाविद्योपादानके तमसि शुक्तिरजतादाविव न भ्रमः । तत एवोपादानात्तमस्त्वस्यापि तत्र सिद्धेर्न भ्रमश्चेत्तर्हि रजतत्वापादकोपादानाभावादेव शुक्तिरजते भ्रमो नाविद्योपादान-कत्वादिति सुस्पष्ठम् । अर्थगतस्य करणगतस्य अर्थेन्द्रियमध्यवर्तिनो वा शापादेर्वा ज्ञानप्रतिबन्धकस्यैव कस्यचिद्दोषत्वौचित्येन जडवृत्त्यप्रतिबन्ध-कस्यास्य तत्र दोषत्वायोगात् । प्रामाणिकत्वहेतौ प्रमाणजन्यवृत्तेरेव प्रस्तुत-त्वाच्च । अज्ञानानुपादानकानादिभेदवृत्तेर्दोषामूलत्वप्रसङ्गाच्च ।
न च वाच्यं मिथ्याभूताज्ञानोपादानकत्वनिमित्तमर्थगतं मिथ्यात्वमेव दोष इति । अन्योन्याश्रयात् । पूर्ववदज्ञानानुपादानक भेदस्यवृत्तौ दोषाभाव-प्रसङ्गात् । तत्र बाधादेव मिथ्यात्वं चेत्तर्हि सर्वत्रापि तेनैव मिथ्यात्वसम्भवेन भवदज्ञानस्य दोषसम्पादकतयापि दोषत्वाभावेऽज्ञानदोषतावादस्यैवाज्ञान-मूलत्वापातात् । न चार्थगतं मिथ्यात्वमपि दोषः । शुक्तिरजतादिभ्रमस्यापि तेनैव सम्भवेन तत्र पुनः काचादिदोषाणामनाश्रयणीयत्वप्रसङ्गात् । अर्था-भावापरपर्यायमिथ्यात्वे सति ज्ञानजनकीभूतेन्द्रियार्थसन्निकर्षाख्यकारणाभावेनैव स्वाधिकरणे प्रमारूपकार्याभावस्य सम्भवात् । तदप्रतिबन्धकस्यार्थाभावात्मक-मिथ्यात्वशुक्तिरजतादौ भ्रमकारणदोषत्वेसदाभ्रमप्रसङ्गेन तदभाववति तद्वत्त्व-बोधनाय दोषान्तरस्यावश्यं वक्तव्यत्वात् न मिथ्यात्वं क्वाप्यर्थगतो दोषः । किन्तु सति शुक्तीन्द्रियसन्निकर्षे प्रसक्ततत्प्रमाप्रतिबन्धस्यार्थाभावादेवाप्रसक्त-विपरीतार्थज्ञानस्य बलात्प्रसञ्जकस्य च काचादिकरणदोषस्यातिदूरत्वसादृश्या-द्यर्थदोषस्यैव दोषत्वमुचितम् । अर्थमिथ्यात्वसिद्धौ प्रमाणानां दोषमूलत्व-सिद्धिः । प्रमाणानां दोषमूलत्वसिद्धौ सत्यत्वसाधकाभावेनार्थमिथ्यात्वसिद्धि-रित्यन्योन्याश्रयाच्च नार्थगतं करणगतं वा मिथ्यात्वं दोषः । किंतु काचादिरेव । अन्यथाकरणगतमिथ्यात्वस्यापि करणदोषत्वप्रसङ्गेन मिथ्याभूतकरणजन्यं चरमापरोक्षज्ञानमपि भ्रमस्स्यात् । विषयाभावे करणाभावेऽपि भ्रमोदया-सम्भवेनाभावसंपादकमिथ्यात्वस्य दोषत्वे उभयत्रापि दोषत्वापरिहारात् । शुक्तिरूप्यादौ काचादिदोषजन्यप्रतीतिविषयत्वनियततया दृष्टमिथ्यात्वस्य तदभावेऽसम्भवाच्च । तूष्णीमेव कल्पने ब्रह्मण्यपि कल्पनसम्भवेन पुनश्चरम-प्रमाया भ्रमत्वप्रसङ्गात् । अतोऽपि न मिथ्यात्वं दोषः । एतत्सर्वं सूचय-न्प्रकारान्तरेणाप्यविद्याया दोषत्वं खण्डयति ।। काचादीति ।। काचादिरेव दोषो न त्वन्य इति हि वाक्यस्य पर्यवसितोऽर्थः । अतः काचादेर्दोषत्व-समर्थनमप्यनेनैव सूचितम् । अविद्यावद्विषयतेत्यनेनाविद्यावद्विषयकाणि शास्त्राणि भवन्ति । सर्वाणि च लौकिकानि प्रत्यक्षादीनि प्रमाणानि चेति वाक्यं संगृह्णाति ।। १०४९,१०५० ।।
सत्यप्रमोदटीका
अविद्यावद्विषयता अतत्त्वावेदकता । य इत्यस्य उत्तरश्लोस्थेन स इत्यनेनान्वयः । तूष्णीं स्वसमयदुराग्रहमात्रेण । तदुक्तं वादावल्यां ‘दोषश्चाविद्यैव परस्येष्टा । सा च यदि वेदान्तानामपि मूलं तर्हि प्रत्यक्षे प्रद्वेषः किंनिबन्धनः’ इति । अतः आविद्यकत्वस्य प्रत्यक्षे एव दोषत्वोक्तिर्दुराग्रहनिबन्धनैव । प्रमायाः प्रबलप्रमाणस्य प्रतिरोधतः विरोधात् । उत्पादकत्वादिति अप्रामाण्यस्योत्पत्तौ परतस्त्वादिति भावः।।१०४९,१०५०।।
युक्तिमल्लिका
आद्ये गुणोऽपि दोषः स्याद् द्वितीये ते मते प्रमा ।
ब्रह्मचिन्मात्रविषया तद्रोधात्तत्र केवलम् ।
दोषोऽस्त्वसौ घटाद्यर्थे दोषता तस्य किंकृता ।। १०५१ ।।
सुरोत्तमटीका
तद्रोधात् ब्रह्मचिन्मात्रविषयकप्रमाप्रतिरोधात् । तत्र ब्रह्मचिति । तस्य अविद्यावद्विषयत्वस्य । किं कृतेत्यनेन घटादौप्रतिबध्यप्रमाया एवाभावात् जडेऽज्ञानावरणानङ्गीकारेण तज्जन्यभ्रमस्याप्ययोगात् अविद्याव-द्विषयत्वस्य त्वन्मतेऽभावाच्च नोभयथापि दोषत्वमिति सूचयति ।। १०५१ ।।
सत्यप्रमोदटीका
आद्ये स्वपरिभाषामात्रत्वेन दोषत्वं इति पक्षे । गुणोऽपीति त्वन्मतेऽधिष्ठानसत्यत्वं गुणोऽपि शून्यसमयपरिभाषया दोषः स्यात् । द्वितीये प्रबलप्रमाणविरोधेन दोष इति पक्षे । प्रमा चरमसाक्षात्कारः । तत्र केवलं चित्येव ।। किंकृतेति । तस्या अचेतनघटाद्यविषयकत्वादेवेत्यर्थः ।। १०५१ ।।
युक्तिमल्लिका
मम जीवगताविद्या तस्येशविषयप्रमाम् ।
रुणद्धि तस्य दोषोऽसौ तत्रैव न परात्मनि ।। १०५२ ।।
सुरोत्तमटीका
उभयत्रापि तस्येति पदं जीवपरम् । तत्रैव तस्मिन्विषये । अविद्यायाः जीवे स्थित्वा परमात्मविषयकप्रमामात्रप्रतिबन्धकत्वेन परमात्मविषय एव दोषत्वम् । न तु परमात्मनिष्ठतया दोषत्वं नापि घटादिविषय इति भावः ।। १०५२ ।।
सत्यप्रमोदटीका
स्वमते तु नायं दोष इत्याह ममेति । जीवाश्रितो दोषो जीव एव परमात्मविषयकप्रमाप्रतिबन्धक इत्यङ्गीकारात् । दोषोऽन्यत्र तत्कार्यं तु अपरत्र इत्येवंरूपदोषाभावः । तदुक्तं भगवत्पादैः ‘स्वभावाज्ञान-वादस्य निर्दोषत्वान्न तद्भवेदि’ति ।। १०५२ ।।
युक्तिमल्लिका
घटादिषु प्रमारोधस्तवापि न ममापि न ।
तत्प्रत्यक्षादिमानेषु का हानिस्स्यादविद्यया ।। १०५३ ।।
चक्षुर्दोषस्य काचस्य किं घ्राणादौ च दोषता ।
क्वचित्कश्चिद्दोष इति यत्प्राहुः पूर्वसूरयः ।। १०५४ ।।
सुरोत्तमटीका
तत् तस्मात् अविद्यायाः ब्रह्मप्रमामात्रे दोषत्वात् ।। १०५३,१०५४ ।।
सत्यप्रमोदटीका
घटादिषु जडेषु । मतद्वयेऽपि अज्ञानस्य जडा-श्रितत्वानङ्गीकारात् । तव मते अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते’ इत्युक्तेः । मम मते अज्ञानस्य जीवाश्रितत्वमात्रस्य स्वीकारात् । का हानिरिति ।। मानेषु जडविषयकेष्विति शेषः ।। यो दोषो यत्रानाश्रितो न स तत्र स्वकार्यकर इत्यत्र दृष्टान्तमाह चक्षुरिति । क्वचित् स्वाश्रय एव ।। १०५३,१०५४ ।।
युक्तिमल्लिका
तृतीयेऽपि भ्रमः कस्ते यद्धेतुत्वेन दोषता ।
न हि कुड््यघटाद्यर्थधीरेषा भ्रमरूपिणी ।
कुड््यत्वादियुतेष्वेव कुड््यत्वादिप्रकारिका ।। १०५५ ।।
सुरोत्तमटीका
एषा वृत्तिरूपा । कुड्यत्वादियुतेषु कुड्यादिषु । कुड्यत्वादिमतिकुड्यत्वादिप्रकारकत्वेन तद्वति तत्प्रकारकत्वात् न कुड्यादि-वृत्तेर्भ्रमत्वम् । अतस्तत्राविद्याया भ्रमहेतुत्वेनापि न दोषत्वमिति भावः ।। १०५५ ।।
सत्यप्रमोदटीका
भ्रमोत्पादकत्वादज्ञानं दोष इति तृतीयं निराह तृतीय इति । क इति घटकुड््यादिविषयकः उत ब्रह्मविषयकः । नाद्यः कुड््यादि-धियां तद्वति तत्प्रकारकत्वेन प्रमात्वादेवेति भावः ।। १०५५ ।।
युक्तिमल्लिका
भ्रमो हि ब्रह्मणि तव तद्गाविद्यापि तद्भ्रमम् ।
संपादयन्ती तत्रैव दोषः स्याच्छक्तिशोधने ।। १०५६ ।।
सुरोत्तमटीका
तद्गाविद्या ब्रह्मनिष्ठाविद्या । तद्भ्रमं ब्रह्मभ्रमम् । तत्रैव ब्रह्मभ्रमविषय एव । भ्रमसम्पादकतया दोषत्वमङ्गीकृत्येदमुदितम् । वस्तु-तस्त्वस्मत्प्रमितेऽर्थे ब्रह्मणोऽपि न भ्रमः । भ्रमप्रमाविषयत्वयोरेकत्रायोगात् । अन्यस्य च प्रत्येतव्यस्य चिदवेद्ये ब्रह्मणि तन्मतेऽप्ययोगात् अभ्रम एवेति द्रष्टव्यम् ।। १०५६ ।।
सत्यप्रमोदटीका
द्वितीयस्तु स्यादित्याह भ्रम इति । तत्रैव न घटादि-विषये इयं च अभ्युपगमोक्तिः । वस्तुतस्तु ब्रह्मणोऽपि प्रमितेऽर्थे न भ्रम इति भावः ।। १०५६ ।।
युक्तिमल्लिका
प्रत्यक्षादिप्रमाणानां जडानां जीववर्तिनाम् ।
कथं सा भ्रमहेतुः स्याच्चक्षुर्दोषोऽपि को भवेत् ।। १०५७ ।।
सुरोत्तमटीका
सा ब्रह्मगताऽविद्या ।। १०५७ ।।
सत्यप्रमोदटीका
प्रत्यक्षादिप्रमाणानामपि जडत्वेन नाज्ञानाश्रयत्वम् । सा अविद्या । को दोषो भवेत् चाक्षुषवृत्तेः भूतले घटः, घटे घटत्वं इत्यादेः तद्वति तत्प्रकारकत्वेन प्रमात्वात् तत्र दोषकल्पनाया एवानवकाशादिति भावः ।। १०५७ ।।
युक्तिमल्लिका
किञ्चित्प्रमासाधकश्च बहुतद्रोधकश्च यः ।
स दोषो भ्रमदो दृष्टः प्रमाऽभावे भ्रमः कुतः ।। १०५८ ।।
सुरोत्तमटीका
पररीत्यापि वृत्तौ दोषो न घटत इत्याह ।। किञ्चि-दिति ।। किञ्चित्प्रमासाधकः अधिष्ठानांशे इदं त्वमात्र प्रमासाधकः । तदबाधक इति यावत् । बहुतद्रोधकः बहूनामधिष्ठाननिष्ठशुक्तित्वादीनां तद्रोधकः प्रमारोधकः । परमते चरमप्रमाया एव प्रमात्वेन वृत्तेरंशद्वयेऽपि प्रमात्वानङ्गीकारात् नोक्तलक्षणो दोषस्तत्र सम्भवतीति भावः ।। १०५८ ।।
सत्यप्रमोदटीका
चाक्षुषादिवृत्तीनां सर्वथा प्रमात्वमेवेति सिषाधयिषु-र्भिक्षुपादप्रसरणन्यायेन तासां विशेष्यांशे तावत्प्रमात्वं पररीत्याऽप्यङ्गीकार्य-मेवेत्याह किञ्चिदिति । अधिष्ठानांशे प्रमा । तदंशे बाधकाभावात् । बहु-तद्रोधकः प्रकाराणामंशे प्रमात्वविघटकः । प्रमाऽभावे अधिष्ठानांशे प्रमाऽभावे ।। १०५८ ।।
युक्तिमल्लिका
सर्वं ज्ञानं यतो धर्मिण्यभ्रान्तं सर्वदेहिनाम् ।
घटे घटत्वमिति धीः कथं स्यात्केवलं भ्रमः ।। १०५९ ।।
सुरोत्तमटीका
किञ्च परमते ब्रह्मैव जगदारोपाधिष्ठानम् । एवं चायं घट इति वृत्तौ इदमंशस्य सामान्याकारतयाऽधिष्ठानब्रह्मविषयत्वाङ्गीकारेण भ्रमत्वशङ्का स्यादपि । भूतले घटः घटे घटत्वम् इत्याद्यसाधारणाकारेण भूतलघटादिमात्रविषयप्रथमांशयुक्तशतसहस्रवृत्तिषु भ्रमत्वशङ्कैव न घटते । यदि च स्वमतं विहाय भ्रमत्वपरिरक्षणार्थं भूतलघटादिकमेवाधिष्ठानं ब्रूयात् । तदा व्यावहारिक जगदारोपाधिष्ठानभूतलघटादेर्ब्रह्मवत्परमार्थसत्त्वं स्यात् । तेषां च परमार्थसत्यत्वे आपणस्थरजतादेरिव स्वस्वयोग्यस्थान एव विद्यमानत्वाद्ब्रह्मणि निषेधेऽप्यत्रानिषेधात् । घटत्वादिप्रतीतौ घटादेर्घटत्वादिनिष्ठजातित्व-प्रमेयत्वादिधर्मप्रतीतौ घटत्वादेरधिष्ठानत्वाच्च परमार्थसत्यत्वमेव स्यात् । एवं च सर्वस्यापि सत्यत्वे तत्राविद्यमानस्य मिथ्यात्वस्य प्रतीतिरेव भ्रमस्स्यादित्याह ।। सर्वमिति ।। केवलभ्रमः अधिष्ठानांशे प्रमाशून्यभ्रमः ।। १०५९ ।।
सत्यप्रमोदटीका
केवलं भ्रमः कथं स्यात् इति । भ्रमस्यापि उक्तरीत्या भ्रमप्रमोभयरूपत्वादिति भावः ।। १०५९ ।।
युक्तिमल्लिका
कल्प्यादधिकसत्ताकमधिष्ठानं तवैव हि ।
यतोऽवश्यं ततो व्यक्तिस्सत्यैवासीत्परात्मवत् ।। १०६० ।।
सुरोत्तमटीका
व्यक्तिरित्युपलक्षणम् । भूतलमपि ग्राह्यम् ।। १०६० ।।
सत्यप्रमोदटीका
ननु भूतले घटः, घटे घटत्वं, इत्यादिप्रतीत्या अधिष्ठानतया न भूतलघटादीनां सत्त्वसिद्धिः । तत्र मया भूतलघटा-द्यवच्छिन्नचैतन्यानामेवाधिष्ठानत्वाङ्गीकारादिति चेन्न । भूतलादिशब्दानां तत्तदवच्छिन्नचैतन्ये लक्षणाश्रयणस्य सार्वजनीनानुभवविरोधात् । तथाऽपि भूतलघटादिव्यक्तीनां पारमार्थिकत्वं कुत इति चेत्त्वदभ्युपगतन्यायेनैवेत्याह कल्प्यादिति । तवैव सत्तात्रयवादिन एव । भूतले घट इत्यत्र भूतलस्य, घटे घटत्वमित्यत्र घटस्य एवं चालनीन्यायेन सर्वासां व्यक्तीनां अधिष्ठानत्वेन पारमार्थिकत्वमेव सिध्यति । व्यावहारिकत्वेन त्वदभिमतघटपटत्वाद्यधिष्ठान-त्वादेवेति भावः ।। १०६० ।।
युक्तिमल्लिका
तद्व्यक्त्यंशे प्रमैवेयं भवेद्युक्तिबलेन धीः ।
जात्यंशेऽपि प्रमा सा स्यात्तासां चास्वेव संस्थितेः ।। १०६१ ।।
सुरोत्तमटीका
तासां जातीनाम् । आसु व्यक्तिषु । घटादीनां भूतल एव विद्यमानत्वादित्यपि ग्राह्यम् । भूतलपदेन भूतलावच्छिन्नचैतन्यमेवोच्यते । घटपदेन च घटावच्छिन्नं घटत्वपदेन च तदवच्छिन्नचैतन्यम् । अतोऽ-धिष्ठानत्वेनापि चैतन्यस्यैव सत्यत्वं न भूतलादेरिति चेत् न । इदं पदस्य सर्वनामतया ब्रह्मपरत्वसम्भवेऽपि भूतलादिपदानां ब्रह्मपरत्वायोगात् । मुख्ये सम्भवत्यमुख्यायोगेन लक्षणादेरनुचितत्वाच्च । व्यावहारिकभ्रमाधिष्ठानत्वस्य चैतन्यादन्यत्रायोगाल्लक्षणेति चेत् न । धर्मिभ्रमस्येदं रजतमित्यादौ तादात्म्य-विषयत्वनियमदर्शनेन भूतले घट इत्याधाराधेयतया धर्मिप्रतीतेस्तव मतेऽ-ब्रह्मभ्रमतया सर्वसम्प्रतिपन्नप्रतीतीनां भ्रमत्वासिद्ध्या च कल्पकाभावेनान्यो-न्याश्रयात् । अन्यत्रैवप्रसिद्धपदस्याप्रसिद्धामुख्यार्थं स्वीकृत्य तस्याधिष्ठानतां संपाद्य सर्वेषां प्रत्येतॄणां सर्वेषां प्रमेयानां चाप्रमातृत्वाप्रमेयत्वकल्पनातोऽपि प्रसिद्धार्थस्वीकारेण प्रमातृत्वप्रमेयत्वरक्षणस्यैव न्याय्यत्वात् ।। १०६१ ।।
सत्यप्रमोदटीका
इदानीं वृत्तीनां प्रकारांशेऽपि प्रमात्वमेवेत्याह जात्यंशेऽपीति । तासां घटत्वादिजातीनां तास्वेव घटादिव्यक्तिष्वेव । तथा च विशेष्यवृत्तिकारकत्वात् सर्वांशेन प्रमात्वमेवेति भावः ।। १०६१ ।।
युक्तिमल्लिका
घटावच्छिन्नचैतन्ये घटत्वमिति कस्य धीः ।
घटाधिष्ठानचैतन्ये घटोऽध्यस्तः परं तव ।। १०६२ ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। घटेति ।। उपलक्षणं चैतत् । भूतलावच्छिन्ने चैतन्ये घट इति धीरित्यपि ग्राह्यम् । सर्वानुभवविरुद्धत्वाच्च नैयं कल्पनायुक्तेति भावः । भूतलावच्छिन्नचैतन्ये भूतलस्यैवाध्यस्तत्वेन घटाद्य-वच्छिन्नचैतन्ये च घटादीनामेवाध्यस्तत्वेनान्याधिष्ठानचैतन्ये चैतन्यान्तराध्यस्त-पदार्थानां पुनरध्यासाङ्गीकारे युक्तिविरोधोऽपसिद्धान्तश्चेत्याह ।। घटादिष्ठा-नेति ।। परं केवलम् । तव मते । परमित्यनेन भूतलावच्छिन्नचैतन्ये घटाध्यासं व्यवच्छिनत्ति । अतो भूतलावच्छिन्नचैतन्ये घटस्य घटावच्छिन्नचैतन्ये घटत्व-स्यारोपेऽपसिद्धान्त इति भावः ।। १०६२ ।।
सत्यप्रमोदटीका
घटाधिष्ठानचैतन्ये घटत्वारोप इत्येतत्सार्वजनीनानुभव विरोधेनापाकृतम् । परप्रक्रिययाऽपि तन्निराह । घटाधिष्ठानचैतन्ये घट आरोपित इति प्रक्रियामुल्लङ्घ्य, इदानीं तत्र घटत्वारोपाङ्गीकृतिः कथं न व्याहतेति भावः ।। १०६२ ।।
युक्तिमल्लिका
घटत्वं तु घटे नोचेत्सा धीः स्यात्प्रातिभासिकी ।। १०६३ ।।
सुरोत्तमटीका
घटे घटत्वमित्यत्र दूषणान्तरं चाह ।। घटत्वमिति ।। घटे घटव्यक्तौ । घटे नो चेदित्युपलक्षणम् । चैतन्ये चेदित्यपि ग्राह्यम् । साधीः चैतन्ये घटत्वमिति धीः । घटे पटत्वमिति धीवत् अस्या अपि बुद्धे-रिदानीमेव बाध्यत्वात्प्रातिभासिकत्वं स्यात् । तच्चानुपपन्नम् । अतो घटत्वा-धारता घटव्यक्तावेव प्रतीयत इति भावः ।। १०६३ ।।
सत्यप्रमोदटीका
घटे नोचेदिति किन्तु घटावच्छिन्ने चैतन्ये एव स्याच्चेदिति पूरणीयम् । सा धीः घटावच्छिन्ने चैतन्ये घटत्वमिति धीः । प्रातिभासिकी । इदानीमेव ब्रह्मप्रमाऽन्येन ‘घट एव घटत्वं, न घटावच्छिन्न-चैतन्ये इति ज्ञानेन बाधदर्शनादि’ति भावः । एवं प्रतिभासमात्रशरीरत्वेन घटत्वस्यापि प्रातिभासिकत्वं स्यात् । तथा चापसिद्धान्त इति भावः ।। १०६३ ।।
युक्तिमल्लिका
पृथुबुध्नोदराकारव्यक्तावेव घटत्वधीः ।
व्यंजको ह्ययमाकारो व्यंग्या जातिश्च सा किल ।
तस्मादनन्तव्यक्तीनां सत्यता युक्तितोऽभवत् ।। १०६४ ।।
सुरोत्तमटीका
अत्रैव युक्तिमाह ।। पृथ्विति ।। व्यङ्ग्यव्यञ्जक-योरैकाधिकरण्यनियमात् व्यञ्जकस्य चाकारस्य निराकारे ब्रह्मण्ययोगादिति भावः। फलितमाह ।। तस्मादिति ।। अस्यैव विवरणं युक्तित इति । पररीत्यैवागतायाः व्यावहारिकजगदारोपाधिष्ठानत्वाख्ययुक्तेः । अयमत्र प्रयोगः । घटादयो व्यक्तिपदार्थाः परमार्थसत्याः । व्यावहारिकजगदारोपौ-धिष्ठानत्वात् । ब्रह्मवदिति ।। १०६४ ।।
सत्यप्रमोदटीका
व्यंग्यव्यंजकयोः सामानाधिकारण्यनियमादपि घट एव घटत्वधीः न तदवच्छिन्नचैतन्य इति सिध्यतीत्याह व्यञ्जक इति । घटत्व-जातेर्व्यञ्जको हि पुथुबुध्नोद्याकारः । स च घटनिष्ठ एव न चैतन्यनिष्ठः । तस्य निराकारत्वात् । अतो व्यंग्यजातिरपि घटनिष्ठतयैव भातीति भावः ।। अनन्तव्यक्तीनामिति पूर्वोक्तचालनीन्यायेनेति भावः ।। १०६४ ।।
युक्तिमल्लिका
तद्विशेषविदो धीत्वाज्जातिधीरपि न भ्रमः ।
तत्रैव विद्यमानार्थधीत्वादपि न स भ्रमः ।। १०६५ ।।
सुरोत्तमटीका
जातेरपि सत्यत्वेऽनुमानमाह ।। तद्विशेषेति ।। तद्विशेषविदः जातिव्यञ्जकाकारविशेषविदः । अयं घटः इदं घटत्वमित्यादि-प्रतीतौ त्वद्रीत्या घटघटत्वभ्रमाधिष्ठानचैतन्योल्लेखसम्भवेति घटे घटत्वमित्यादौ त्वद्रीत्या भ्रमे घटांशानुभवे घटत्वांशानुभवे चानुल्लिख्यमानस्यात एव सकल-भ्रमाननुस्यूतस्य चैतन्यस्य सर्वत्रापि भ्रमाधिष्ठानत्वायोगेन घटादिप्रतीतेः क्वापि भ्रमत्वायोगाच्च । कथं तर्हीदं रजतमिति भ्रमानन्तरम् अत्र भूतले रजतमिति प्रतीतेर्भ्रमत्वम् । अधिष्ठानाभिमत शुक्तेरत्राप्रतीतेः कथं वाऽत्रैव व्यभिचरितस्य शुक्तिकाशकलस्य तत्राधिष्ठानत्वमिति चेत् न । अत्र रजतत्वमित्यादिधर्मभ्रमे सप्तम्यन्तेदं पदोदितशुक्तयादेरिव रजतसंसर्गभ्रमेऽस्मिन्भूतलस्यैवाधिष्ठानत्व-सम्भवात् । इयांस्तु विशेषः । शुक्ते रजतत्वानर्हत्वात्तत्रेदं पदेनैव ग्रहणम् । भूतलस्य तु रजतसंसर्गार्हत्वाद्विशिष्यैव ग्रहणमिति । रजतादितादात्म्यभ्रममात्रे रजतत्वादिसंसर्गभ्रममात्रे च शुक्त्यादेरधिष्ठानत्वाङ्गीकारेण विजातीयेऽस्मिन्भ्रमे सर्वभ्रम इव तदभावस्य व्यभिचारानापादकत्वाच्च । तव तु व्यावहारिकभ्रममात्रे चैतन्यस्यैवाधिष्ठानत्वनियमाङ्गीकारेण क्वचिद्व्यभिचारेऽधिष्ठानत्वस्यैव भङ्गात् भूतलादेरधिष्ठानत्वासम्भवाच्च । शुक्तिश्वेतिम्न इव भूतलत्वादेर्विशेषस्य ज्ञानेऽपि भ्रमविरोधिशुक्तित्वाज्ञानवद्भूतल निष्ठरजतसंसर्गभ्रमविरोधिरजतानाधारत्वाज्ञान-मात्रेणाधिष्ठान सामान्यज्ञानस्यापि सम्भवात् । एवं परोक्षानुमित्यादिभ्रमेऽपि पर्वतादेरेवाधिष्ठानत्वं बोध्यम् ।
यद्वा तस्याः प्रतीतेरधिष्ठानभूतशुक्तिभूतलसंसर्गे रजतसंसर्गत्वारोप रूपतया तस्य शुक्तिभूतलसंसर्गस्यैवाधिष्ठानत्वेन भ्रमत्वसम्भवात् । विद्यमानस्य प्रमां प्रतिरुध्य तत्रैव भ्रमं जनयन्हि दोषः । अतो विद्यमानशुक्तिभूतलसंसर्गस्य विशिष्य प्रमां प्रतिरुध्य तत्रैव रजतसंसर्गत्वभ्रमोऽवश्यं वक्तव्यः । अन्यथा दोषस्य सामान्यप्रतीत्यप्रतिबन्धकतयेन्द्रियसन्निकृष्टशुक्तिभूतलसंसर्गस्येदं त्वेना-रोप्यमाण रजतभूतलसंसर्गस्य चानेनैवाकारेण विशिष्य प्रतीतिरिति सर्वानुभव-विरुद्धस्य पुरोवर्त्यत्र रजतमत्रेति विशकलिताधाराधेयभावद्वयस्यापि प्रतीति-प्रसङ्गः ।
यदि च पुरोवर्तिन एव रजतत्वेनोल्लेखान्न तस्य पृथगुल्लेखः । तर्हि तत्संसर्गस्यैव रजतसंसर्गतयोल्लेखो नान्यस्येत्यनिच्छताप्यङ्गीकार्यम् । एवमन्यत्राप्यपरोक्ष भ्रमे निरधिष्ठानकभ्रमाभावादधिष्ठानसंसर्गेऽध्यस्तसंसर्गारोप इत्यूह्यम् । परोक्षसंसर्गभ्रमे तु अनुमानस्थलेऽसल्लिङ्गपरामर्श शक्त्यैव प्रतीत-मनाधेयप्रतियोगिकं सत्यं पक्षनिष्ठमाधारत्वम् अधिष्ठानतया सामान्यत उल्लिख्यैव तत्रापरसम्बन्धितयाऽविद्यमानसाध्यांशमुल्लिखंत्यनुमिति स्तदंशमात्रे भ्रमरूपा । शब्दस्थलेऽप्यन्विताभिधायकशशादिपदशक्तया बोधितं सत्यं शशादिनिष्ठं योग्येतरान्वयमधिष्ठानतया सामान्यत उल्लिख्यैव तत्रापरसम्बन्धि-तयाऽयोग्यशृृङ्गाद्यर्थमुल्लिखन्ती शाब्दीप्रतीतिस्तदंशमात्रे भ्रमरूपा । सर्वथा सत्यं समग्रसंसर्गं संसर्गांशं वाऽनवलम्ब्य न कोऽपि संसर्गभ्रमः । भूतले घट इत्यादौ तु त्वद्रीत्याख्य व्यावहारिकसंसर्गारोपस्यास्याधिष्ठानत्वार्हपारमार्थिकसंसर्गा-न्तरस्याभावेनासम्भवात् अस्यैवानुभवस्यैव प्रमात्वे वक्तव्ये संसर्गप्रमाया-स्संसर्गिप्रमाघटितत्वनियमेन प्रमाविषयभूतलघटादेरिदं भूतलमयं घट इत्या-दावप्यारोपासम्भवेन चैतन्याधिष्ठानत्ववार्ताया निर्मूलत्वापरिहारात् । सत्य-पदार्थान्तरसन्निकर्षरहिते केवलभूतले सन्निकर्षभ्रमस्य क्वाप्यदर्शनेन सन्निकर्ष-भ्रमे सत्यसन्निकर्षपूर्वकत्वस्यापि नियतत्वेनोक्तदोषानुद्धारोऽपि द्रष्टव्यः । अत्रेमौ प्रयोगौ भवतः । घटे घटत्वमिति धीः न घटत्वजातिभ्रमः । पृथुबुध्नो-दराकारव्यक्तजातिप्रतीतित्वात् । घटत्ववत्येव घटत्वप्रतीतित्वात् । व्यतिरेकेण पाषाणे घटत्वप्रतीतिवत् ।। १०६५ ।।
सत्यप्रमोदटीका
विशेषविदः आकारव्यंग्यजातिः आकाराश्रयघट-वृत्तिरेवेति विशेषविदः । तत्रैवेति न तु चैतन्ये । तस्य निराकारत्वेन जाति-त्व्यञ्जकत्वासम्भवादिति भावः । तथा च विशेष्यवृत्तिधर्मप्रकारकत्वात्, घटे न घटत्वं इति बाधकप्रत्ययाभावादिति च । उक्तं च भामत्यां ‘लौकिकानि हि प्रमाणानि सदसत्वगोचराणि । तैः खलु सदिति गृह्यमाणं सदित्येव यथाभूतं अविपरीतमेव तत्त्वं व्यवस्थाप्यते । अतात्विकत्वं तु तेषामन्यतो बाधका-दवगन्तव्यं इति (भे.प.ब्र.सू.) ।। १०६५ ।।
युक्तिमल्लिका
तस्मादरजतव्यक्तौ दोषाद्या रजतत्वधीः ।
स भ्रमः स्यान्निजव्यक्तौ जातिधीस्तु न विभ्रमः ।। १०६६ ।।
सुरोत्तमटीका
तस्मात् व्यञ्जकवति व्यङ्ग्यप्रतीतेर्भ्रमत्वायोगात् । व्यञ्जकाभाववति व्यङ्ग्यज्ञानस्यैव भ्रमत्वादिति यावत् ।। १०६६ ।।
सत्यप्रमोदटीका
निजव्यक्तौ घटत्वाश्रये घटे । घटत्वधीः घटत्वमस्ति धीः । न विभ्रमः तद्वति तत्प्रकारकत्वात् ।। १०६६ ।।
युक्तिमल्लिका
तद्ब्रह्मभ्रमसृष्टार्थदर्शनाद्भ्रान्तिताऽपि न ।
जातिभ्रमे धर्मिभूतव्यक्तिः सत्या यतो ध्रुवा ।। १०६७ ।।
सुरोत्तमटीका
भूतले घट इत्येव भूतलावच्छिन्नचैतन्यास्य स्वा-नधिष्ठितघटं प्रति अधिष्ठानचैतन्यतया भ्रमत्वायोगात् न ब्रह्म भ्रान्तिसिद्धत्व-मित्युक्तम् । अत एव वृत्तेरपि न घटभ्रमत्वमित्याह ।। तदिति ।। तत् तस्मात् घटस्वब्रह्मभ्रमसिद्धत्वाभावात् । ब्रह्मभ्रमसृष्टस्य घटस्य दर्शनात् । भ्रान्तिता वृत्तेर्भ्रान्तिता । घटस्य प्राग्ब्रह्मभ्रमसृष्टत्वे हि भ्रान्तार्थविषयिणी वृत्तिरपि भ्रान्तिस्स्यात् । तस्य चोक्तविधयाऽभावात् तद्विषयवृत्तेरपि न भ्रान्तित्वमिति भावः । निमित्तान्तरं चाह ।। जातीति ।। जातिभ्रमे घटे घटत्वमिति जातिभ्रमे । यतः धर्मिभूता व्यक्तिः घटव्यक्तिः । सत्या । ततो वृत्तेर्न भ्रान्तित्वमित्यर्थः ।। १०६७ ।।
सत्यप्रमोदटीका
घटस्य ब्रह्मभ्रमसृष्टत्वे हि तद्विषया वृत्तिः भ्रान्तिः स्यात् । तदेव नास्ति । चालनीन्यायेन अधिष्ठानतया सर्वपदार्थानां सत्यत्वस्य व्यवस्थापितत्वादित्याह तदिति । तत् तस्मात् ।। १०६७ ।।
युक्तिमल्लिका
कथं च ब्रह्मणोऽन्यत्र योगायोगाद्भ्रमस्तव ।
सत्यो घटोऽन्यदृष्टोऽपि यदन्यैः परमीक्ष्यते ।
अन्यदृष्टे तु मिथ्यार्थे क्वास्त्यन्यस्यापि दर्शनम् ।। १०६८ ।।
सुरोत्तमटीका
किञ्च घटादेरधिष्ठानरूपब्रह्मभ्रमजत्वेऽन्येषान्तद्दर्शनमेव न स्यात् । तेष्वध्यासाख्यसम्बन्धाभावात् । लोके एकभ्रमजस्य रजतादे-रन्यैरदर्शनाच्चेत्याह ।। कथं चेति ।। ब्रह्मणः अधिष्ठानभूतब्रह्मणः । योगा-योगात् । अध्यासाख्ययोगात् । तव मते । यत् यस्मात् । तस्मादन्यसृष्टो मिथ्यार्थोऽन्यैर्नेक्ष्यत इति भावः । तदेव दर्शयति ।। अन्येति ।। १०६८ ।।
सत्यप्रमोदटीका
योगायोगात् अध्यासासम्भवात् । एकभ्रमदृष्टे अन्यस्य कस्यापि प्रमा न सम्भवति । प्रमाभ्रमयोरेकविषयकत्वायोगात् । इत्याह अन्येति ।। १०६८ ।।
युक्तिमल्लिका
एकस्य रजतभ्रान्तौ किमन्येषां च तद्भ्रमः ।
स्वरूपैक्यात्समाधानमपि तेन न शोभते ।। १०६९ ।।
सुरोत्तमटीका
तद्भ्रमः रजतभ्रमः । स्वरूपैक्यात् अधिष्ठानचैतन्यस्य द्रष्टृजीवानां च स्वरूपैक्यात् । समाधानं तद्भ्रम एवास्यापि भ्रम इति समाधानम् । तेन एकत्र जातरजतभ्रमस्यान्यत्रादर्शनेन । घटस्थले ऐक्यादेकत्र भ्रान्त्यान्यस्य भ्रान्तिश्चेत् शुक्तिरजतस्थले तथा स्यात् । शुक्तिप्रमातुरपि वृत्तिप्रतिफलितचैतन्यद्वारा रजतभ्रमस्थले गमनस्यापि साम्यादिति भावः ।। १०६९ ।।
युक्तिमल्लिका
अन्यत्रादृष्टपदवी कथमत्रैव कल्प्यते ।
अदृष्टकल्पनादोषो रुन्धे त्वद्दोषदोषताम् ।। १०७० ।।
सुरोत्तमटीका
अन्यत्र शुक्तिरजतभ्रमादौ । अत्रैव घटादिभ्रमस्थल एव । ननु काचादिदोषवशादेकस्य रजतभ्रमो नापरस्येति चेत् । न । भ्रम-साङ्कर्यघटकचैतन्यैक्यस्य दोषसांकर्यघटकताया अपि सम्भवेनैकदोषस्यैवापर-दोषत्वस्यापि कल्पयितुं शक्यत्वात् । युक्त्यन्तरं चाह ।। अदृष्टेति ।। घट-भ्रमेऽदृष्टस्य काचादेः कल्पना रजतभ्रमे कल्पना स एव दोषः । त्वद्दोषदोषतां तव दोषाणां काचादीनां दोषत्वम् । भ्रमत्वाविशेषात् घटभ्रमे काचादि-दोषानपेक्षणे रजतभ्रमेऽपि तदनपेक्षणमेव स्यादिति भावः ।। १०७० ।।
सत्यप्रमोदटीका
अन्यत्र शुक्तिरजतादौ । अत्र घटादौ । शुक्तिरजत-ज्ञानस्य वस्तुतो भ्रमत्वे सर्वेषां च तथाविधं ज्ञानं भ्रम एव । अन्यथा व्यक्तिभेदेन प्रमाभ्रमसाङ्कर्ये वस्तुनो द्वैरूप्यापत्तिः । दोषदोषतां काचादीना-मिन्द्रियदोषताम् । अदृष्टकल्पना तस्यैव दोषस्य इन्द्रियान्तरे विद्यमानत्वेऽपि तदिन्द्रियस्य दुष्टत्वानापादकत्वकल्पना ।। १०७० ।।
युक्तिमल्लिका
अज्ञानोपादानकत्वमर्थदोषस्तु यस्तव ।
कुम्भकारकुविन्दाद्याः सद्यो दद्युस्तदुत्तरम् ।
न तैस्सह वयं ब्रूमः कृतग्रन्थपरिश्रमाः ।। १०७१ ।।
सुरोत्तमटीका
अज्ञानोपादानकत्वं घटादावर्थदोष इत्यत्र सोपहासं दूषण मुक्त्वा दूषणान्तरं चाह ।। अज्ञानेति ।। घटादिकर्तृभिः कुम्भ-कारादिभिर्मृदादेरनुसरणादिति भावः ।। १०७१ ।।
सत्यप्रमोदटीका
घटादिप्रत्यक्षवृत्तेरतत्वावेदकत्वं इन्द्रियदोषाभावेऽपि अर्थदोषादेवेति पक्षं निराह अज्ञानोपादानकत्वमिति । मिथ्यात्वं चेत् तस्य उत्पत्तेरेवाभावेन तदर्थं कुलालादीनां कारणकलापोपादानस्य निरर्थकत्वा-पातात् । तदुक्तं ‘न निरोधो न चोत्पत्तिः’ इति गौडपादकारिकां व्याकुर्वता परेणैव ‘सतो हि घटस्योत्पत्तिर्विनाशो वा दृष्टः नासतः शशविषाणादेति’ति । तथा चैवमीदृशासम्बद्धभाषणशीलः विद्वत्कर्तृकविचारगोचरवाक्यप्रबन्धात्मक-कथाया बहिष्कारस्यैवार्ह इत्याह नेति ।। १०७१ ।।
युक्तिमल्लिका
कथं च वृत्तिनाश्यं तदज्ञानं तत्र दूषणम् ।
अविद्यावत्त्वचर्चायां वक्ष्यामस्तत्र चोत्तरम् ।। १०७२ ।।
सुरोत्तमटीका
तत्र वृत्तिनाशोत्तरकालीनेऽधिष्ठानचैतन्यात्मकभ्रमे । दूषणं भ्रमकारणीभूतदोषः ।। १०७२ ।।
सत्यप्रमोदटीका
चैतन्यावरकाज्ञानाख्यदोषस्य वृत्त्या नाशोत्तरं जायमानस्य ‘ज्ञातं मयेदं त्वि’ति ज्ञानस्य कथं तद्दोषजन्यत्वं । कथंतरां च भ्रमत्वमित्याह कथमिति ।। १०७२ ।।
युक्तिमल्लिका
अज्ञानापगमे तत्तद्वस्तु ब्रह्म तवोल्लिखेत् ।
तद्भ्रान्तिदृष्टत्वकथाऽप्येषां तस्माद्वृथा भवेत् ।। १०७३ ।।
सुरोत्तमटीका
एतदेव विशदयति ।। अज्ञानापगम इति ।। तद्भ्रान्ति-सृष्टत्वकथा । तद्भ्रान्तिः ब्रह्मभ्रान्तिः । एषां घटादीनाम् । तस्मादज्ञानाख्य दोषाभावदशायां दृष्टत्वात् ।। १०७३ ।।
युक्तिमल्लिका
तस्मान्नात्राक्षदोषोऽस्ति नार्थदोषोऽपि दृश्यते ।
चित्रं पित्रोरभावेऽपि भ्रमसूनुरयं तव ।
तस्मात्सत्यं जगत्सर्वमभ्रान्तेरपि दर्शनात् ।। १०७४ ।।
सुरोत्तमटीका
तस्मादर्थकरणदोषाभावेऽपि प्रतीयमानत्वात् ।।१०७४।।
सत्यप्रमोदटीका
तस्मात् सत्यमिति निर्दोषार्थेन्द्रियसन्निकर्षजन्य-प्रत्यक्षादिदृष्टत्वात् । तदुक्तं वादावल्यां ‘प्रत्यक्षादेरतत्वावेदकत्वे मानाभावात् । विषयस्यासत्त्वादेव तत्सिद्धिरिति चेत्तदेव कुत’ इति ।। पिता काचादि-रिन्द्रियदोषः । माता अविद्याऽऽख्यार्थदोषः । सूनुः भ्रमः ।। १०७४ ।।
युक्तिमल्लिका
पृथुबुध्नोदराकारे घट एव घटत्वधीः ।
तस्यापि स्याज्जडाकारव्यंग्यधीर्न निराकृतौ ।
तदा पूर्वोक्तयुक्त्यैव तत्रापि भ्रान्तिता गता ।। १०७५ ।।
सुरोत्तमटीका
प्रागुक्तयुक्तिं च स्मारयति ।। पृथ्विति ।। तस्य घट-त्वस्य व्यञ्जकवति घटादौ या घटत्वजातिबुद्धिः सैव घटत्वबुद्धिरित्यर्थः । जडाकारव्यङ्ग्यधीर्जडाकारव्यङ्ग्या घटत्वधीश्च निराकृतौ ब्रह्मचिति न किन्तु साकारे घट एवेत्यर्थः । तदा साकारघट एव घटत्वजातेः प्रतीतौ । पूर्वोक्तयुक्त्या व्यावहारिकजगदारोपाधिष्ठानत्वयुक्त्या अधिष्ठानाभिमतचिदंशो-ल्लेखरहितत्वयुक्त्या च । तत्रापि जातिप्रतीतावपि ।। १०७५ ।।
सत्यप्रमोदटीका
निराकृतौ निराकारे चैतन्ये । तत्रापि जातिरूप-प्रकारांशोऽपि ।। १०७५ ।।
युक्तिमल्लिका
यस्मात्सार्वजनीनोऽयं न स्यादनुभवो भ्रमः ।
अतोऽत्र दोषचिन्तां च नदोषज्ञोऽनुमन्यते ।। १०७६ ।।
सुरोत्तमटीका
अयं जात्याद्यनुभवः । सार्वजनीन इत्यनेनाप्यस्यानुभवस्य चिदंशाविषयत्वं सूचयति । घटमात्रविषयत्वस्यैवाऽविपालगोपालं सम्मतत्वात् । अतः जात्यादिप्रतीतेर्भ्रमत्वाभावात् । अत्र जातिप्रतीतौ । दोषचिन्तां जाति-व्यक्त्योरज्ञानोपादानकत्वाख्यदोषचिन्ताम् ।। १०७६ ।।
सत्यप्रमोदटीका
अतः ‘बल्येवानुभवः सदा’ इति ब्रह्मतर्कोक्तेः ‘न चानुभवविरोधे आगमप्रमाण्यं’ इति तत्त्वनिर्णयोक्तेश्च ।। १०७६ ।।
युक्तिमल्लिका
ब्रह्मण्यविद्यमानांस्तान्यदि ब्रह्मणि दर्शयेत् ।
तदा भ्रमोऽपि सा धीस्स्याद्घटादिस्वस्वधर्मिषु ।
तांस्तान्धर्मान्दर्शयन्ती केन वा हेतुना भ्रमः ।। १०७७ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि जातिप्रतीतेर्भ्रमत्वं न घटत इत्याह ।। ब्रह्मणीति ।। तान् घटादिजडमात्राश्रितधर्मान् । साधीः ब्रह्मण्यविद्यमान-घटत्वस्य ब्रह्मणि धीः । तांस्तान्धर्मान् घटत्वपटत्वादिधर्मान् । अतद्वति तत्प्रकारकज्ञानं हि भ्रमः । स च घटत्वरहिते ब्रह्मणि घटत्वरहितपट इव घटत्वबुद्धावेव स्यात् । न तु घटादिष्वेव घटत्वादिबुद्धौ । विश्वाधारेऽपि ब्रह्मणि योग्यघटादिधर्मिणां कदाचिदाश्रितत्वप्रतीतावपि धर्माणामेषां कदापि ब्रह्मणि प्रतीत्यभावेन कथं तद्बुद्धीनां भ्रान्तित्वम् । न हि भूतले घट इति वत् भूतले घटत्वमित्यपि कोऽपि प्रत्येति । अतो धर्मिणामन्यत्र प्रतीतावपि न धर्माणामन्यत्र प्रतीतिरिति भावः ।। १०७७ ।।
सत्यप्रमोदटीका
अनुभवो घट एव घटत्वं गोचरयति न तु घटत्वा-नाश्रये ब्रह्मणि अतो निरवकाश इत्याह ब्रह्मणीति ।। १०७७ ।।
युक्तिमल्लिका
अथ धर्मा न सन्त्येव तेषु तेषु च धर्मिषु ।
अतस्तेष्वेव तत्तद्धीर्यदि भ्रान्तिरितीर्यते ।। १०७८ ।।
तर्हि कुड््येऽपि घटधीर्घटादौ पटधीरपि ।
कुतो न तेन ते धर्मास्सन्त्येव स्वस्व(भूमि) धर्मिषु ।। १०७९ ।।
सुरोत्तमटीका
शङ्कते ।। अथेति ।। तेष्वेव घटादिष्वेव । तत्तद्धीः घटत्वपटत्वादि धीः । तर्हि घटधीः घटत्ववत्ताधीः । कुड्यघटयोरुभयोरपि घटत्वरहितत्वसाम्ये घट इव कदाचित्कुड्येऽपि घटत्वधीस्स्यात् । न चैतदस्ति । अतो घटे घटत्ववत्त्वमेव वक्तव्यम् । न तु तदभाव इति भावः । तेन व्यवस्थया स्वस्वधर्मिष्वेव तत्तद्धर्मप्रतीतिनियमेन । १०७८,१०७९ ।।
सत्यप्रमोदटीका
कुड््ये घटत्वमिति धीवत् यदि ब्रह्मणि घटत्वमिति धीः स्यात् तदैव परं सा भ्रमः स्यात् । सा नास्त्येव । ब्रह्मणि घट इति धीस्तु तस्य विश्वाधारतोपपादकत्वात् प्रमैवेति भावः ।। १०७८,१०७९ ।।
युक्तिमल्लिका
न चेत्कुतो न सन्तीति प्रश्ने किं स्यात्तवोत्तरम् ।
बाधादिति वदंश्चापि प्रष्टव्यः प्रतिवादिना ।। १०८० ।।
सुरोत्तमटीका
न चेत् एवमपि धर्मिषु धर्मसत्त्वं न चेत् । कुतो न सन्ति तत्तद्धर्मास्तत्तद्धर्मिषु कुतो न सन्तीति प्रश्न इत्यर्थः ।। १०८० ।।
सत्यप्रमोदटीका
बाधाभावाच्च घटे घटत्वं इति धीः प्रमैवेत्याह न चेदित्यादिना ।। १०८० ।।
युक्तिमल्लिका
घटे घटत्वबाधश्चेत्स नास्ति मरणेऽपि ते ।
ब्रह्मण्यखिलबाधस्तु न बाधस्तेषु तद्धियाम् ।। १०८१ ।।
किन्त्वेषां जडधर्माणां ब्रह्मणि प्रतिषेधने ।
जडधर्मत्वदाढर्््यं स्यात्तदभावः कुतो वद ।। १०८२ ।।
सुरोत्तमटीका
तेषु घटादिषु । तद्धियां घटत्वादिधियाम् । यत्र प्रतीतिस्तत्रैव तदभावधीर्हि बाधः । तदभावाद्धर्माणां धर्मिषु नास्तितापि न । अतस्तत्र तत्प्रतीतिर्न भ्रम इति भावः ।। १०८१,१०८२ ।।
सत्यप्रमोदटीका
मरणेऽपि कालत्रयेऽपि । तेषु तद्धियां विशेष-वृत्तिधर्मप्रकारकधियाम् ।। ब्रह्मणि चैतन्ये । दाढर्््याय घटत्वादिः जडमात्र-वृत्तिधर्म इति निर्णयाय ।। १०८१,१०८२ ।।
युक्तिमल्लिका
व्यावहारिकताऽप्येषां बाधादेव भवेत्तव ।
स च नैतेषु ते धर्मास्सन्तीत्याकारकोऽस्ति न ।। १०८३ ।।
भावी च नासौ बाधस्तद्व्यावहारिकता कुतः ।
न ब्रह्मणीदमिति तु बाधौ नैतान्प्रबाधते ।। १०८४ ।।
सुरोत्तमटीका
सः बाधः । एतेषु धर्मिषु न सन्तीति सम्बन्धः ।। तत्तस्मात् ।। १०८३,१०८४ ।।
सत्यप्रमोदटीका
एषां घटत्वादीनाम् । बाधादेवेति ‘बाध्यविषये व्यावहारिकमित्यस्य औतिपरिभाषामात्रसिद्धत्वादि’ ति कल्पतरूक्तेः । स च बाध एतेषु घटादिषु । ते धर्माः घटत्वादिधर्माः न सन्तीत्येवंरूपः नास्ति । तत् तस्माद्बाधाभावात् । कुतः इति अतात्त्विकत्वं तु तेषामन्यतो बाधका-दवगन्तव्यमि’ति भामत्युक्तेः । ‘न ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽ-न्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुं इति परभाष्याच्च । (भे.प.ब्र.सू.१) ।। न प्रबाधते भिन्नविषयत्वादिति शेषः ।। १०८३,१०८४ ।।
युक्तिमल्लिका
अतो जडस्थरूपादिगुणानां कर्मणामपि ।
जात्यादीनां च सर्वेषामबाध्यत्वेन सर्वदा ।। १०८५ ।।
व्यावहारिकताऽयोगात्तत्सत्त्वं ब्रह्मसत्त्ववत् ।
पारमार्थ्येनैव सत्त्वमभूत्सद्युक्तिसत्त्वतः ।। १०८६ ।।
घटोऽपि ब्रह्मणि न चेन्मृत्कपाले भविष्यति ।
ब्रह्मण्यखिलबाधस्तु कस्य वा बाधको वद ।। १०८७ ।।
कपाले नेति बाधस्तु नास्ति नापि भविष्यति ।
तद्धर्मिणां च सर्वेषामबाधात्स्वस्वधर्मवत् ।। १०८८ ।।
व्यावहारिकताऽयोगात्पारमार्थ्यमभूद्बलात् ।
आपणस्थस्य रूप्यस्य शुक्तौ बाधेऽपि का क्षतिः ।। १०८९ ।।
सुरोत्तमटीका
व्यावहारिकताऽयोगात् धर्माणां धर्मिष्विव धर्मिणामपि घटपटादीनां कपालतन्त्वादिषु स्वसत्तादशायां नेति बाधाभावेन व्यावहारिक-ताया अयोगात् ।। १०८५-१०८९ ।।
सत्यप्रमोदटीका
सद्युक्तिसत्त्वतः अबाध्यत्वरूपयुक्तिसामर्थ्यात् ।। ब्रह्मणि घटो नेति धीः, कपाले घटोऽस्तीति धियः कथं बाधकं भिन्नविषय-कत्वादिति भावः । तथा च, धर्मिणः सत्याः अबाधात् स्वस्वधर्मवत् इति प्रयोगमाह तदिति ।। १०८५-१०९० ।।
युक्तिमल्लिका
अतो घटाद्यर्थधीषु भ्रमत्वं नैव शोभते ।
तद्धेतुभूतधर्माणां दोषत्वाशापि ते वृथा ।। १०९० ।।
तस्मादाविद्यकत्वं च मृदुपादानकत्ववत् ।
प्रमात्वाप्रतिरोधित्वाद्दोषो नाभूद्विचारणे ।। १०९१ ।।
सुरोत्तमटीका
तद्धेतुभूतधर्माणां तस्यां धर्मधर्मिधियि हेतुभूतधर्माणां त्वद्रीत्या हेतुभूतानामज्ञानोपादानकत्वादिधर्माणां समानप्रकारयोरेव बाध्य-बाधकत्वस्य लोके दर्शनादिहापि येनाकारेण यत्र यस्य प्रतीतिस्तेनैवाकारेण तस्य तत्र निषेधे बाधस्स्यान्नान्यथेत्येको भावः । नेह नानेति वाक्याज्जायमानो बाध ईदृश एव स्यात् । निरवकाशैतद्वाक्यसमाख्यया सावकाशमद्वितीयवाक्यमपि न विद्यते द्वितीयं यस्मिन्नित्येव विग्रहं लभते नान्यथा । चरमप्रतीतेर्द्विप्रकार-कत्वप्रसङ्गात् । अतस्त्वद्रीत्यैव न जगतो बाध इति भावः ।। १०९०,१०९१ ।।
सत्यप्रमोदटीका
तस्मात् निर्दोषप्रमाणेन घटादीनां पारमार्थिकत्वस्य व्यवस्थापितत्वात् । अज्ञानस्य मिथ्यात्वं तु कफोणिगुडायितमिति भावः
।। १०९१ ।।
युक्तिमल्लिका
प्रत्यक्षादिप्रमाणानां व्यावहारिकमानता ।
या परैरुदिता तां च युक्तिरेषा निषेधति ।। १०९२ ।।
सुरोत्तमटीका
एतेनैतदपि निरस्तमित्याह ।। प्रत्यक्षादिति ।। व्यावहारिकमानता व्यावहारिकार्थविषयकप्रमाणता । एषा घटघटत्वादि-प्रतीतेर्भ्रमत्वानुपपत्तिरूपा प्रत्यक्षादिप्रमाणजन्यायाः भूतले घट इत्यादिप्रतीते-रुक्तविधया भ्रमत्वाभावे प्रमात्वे च सिद्धे प्रमाकरणानां च तेषां कुतो व्यावहारिकप्रमाणत्वमिति भावः ।। १०९२ ।।
सत्यप्रमोदटीका
एषा युक्तिः प्रमाणदृष्टत्वयुक्तिः ।। १०९२ ।।
युक्तिमल्लिका
अतस्साधकमानस्यैवादोषत्वमभूद्बलात् ।
बाधके वैयधिकरण्याख्यदोषेण दुष्टता ।
अतो बाधकमानस्य मानतैवापहीयताम् ।। १०९३ ।।
सुरोत्तमटीका
अतः भ्रमजनकत्वाभावात् प्रमाजनकत्वाच्च । साधक-मानस्य घटादिसाधकप्रत्यक्षादिप्रमाणस्य । इदं च मेयघटादेरप्युपलक्षणम् । बलात् युक्तिबलात् । भ्रमाख्यफलबलोन्नेयः करणदोषोऽर्थदोषश्च भ्रमे सत्येव कश्चित्कल्पनीयः । भ्रमाभावेऽपि तत्कल्पनाया अनुचितत्वाददोषत्वमिति भावः । बाधके प्रत्यक्षादिप्रमाणबाधकत्वेनाभिमते तवैक्यवाक्ये । वैयधि-करण्याख्यदोषेण दुष्टता वैयधिकरण्यं चैतन्यैक्यमात्रविषयत्वेन घटादिजड-प्रपञ्चसत्यत्वमिथ्यात्वास्पर्शित्वं तदाख्यदोषेण दुष्टता । भिन्नविषयत्वेन घटादिसत्यत्वग्राहकप्रत्यक्षाणां न बाधिका अतोऽपि न तेषां व्यावहारिक-प्रमाणत्वमिति भावः ।। १०९३ ।।
सत्यप्रमोदटीका
बाधकमानस्य ‘नेहनानास्ति’ इत्यादिकस्य । वैयधि-करण्येति इह ब्रह्मणि नास्तीति विशिष्य निषेधस्य स्वस्वाधिकरणेष्वस्तीति शेषविध्यनुज्ञापकत्वेनाविरोधात् । मानहीनता जगतो मिथ्यात्वप्रतिपादनेऽ-सामर्थ्यादन्यार्थपरता
।। १०९३ ।।
युक्तिमल्लिका
अथ मानाभावतोऽर्थाभावस्तेन च धीर्भ्रमः ।
भ्रमाच्च दोषो दोषेण मानताहीनतेति तु ।
अन्योन्याश्रयतस्तस्य कुरुते बोधहीनताम् ।। १०९४ ।।
सुरोत्तमटीका
शङ्कते ।। अथेति ।। मानाभावः प्रत्यक्षादिप्रमाणानां शुक्तिरजतप्रत्यक्षवत् घटादिप्रत्यक्षाणां मानत्वाभाव इत्यर्थः । तेन प्रमाणा-भावप्रयुक्तप्रमेयाभावेन । धीः घटादिधीः । भ्रमाद्दोषः करणदोषोऽर्थदोषश्च कश्चित्कल्प्यते । मानताहीनता प्रामाण्याभावः । दूषयति । अन्योन्याश्रयत इति । प्रत्यक्षादिप्रमाणानां प्रामाण्याभावे घटाद्यर्थाभावः । तदभावे च तद्धीर्भ्रमः । भ्रमेण च दोषः । दोषेण च प्रामाण्याभाव इति चक्रकगर्भा-न्योन्याश्रयत इत्यर्थः । तस्य एवं कल्पयतः ।। १०९४ ।।
सत्यप्रमोदटीका
मानाभावातः प्रत्यक्षादीनां सत्त्वग्राहिणां अतत्त्वा-वेदकत्वादप्रमात्वादित्याशयः । चतुर्णामितरेतराश्रयत्वेऽपि विषयस्या-सत्त्वात्प्रत्यक्षादीनां अतत्त्वावेदकत्वं तत एव विषयासत्त्वं इति अन्योन्याश्रय एव पर्यवसानम् । न च तर्हि भवतामप्यन्योन्याश्रयता । विषयसत्त्वे प्रामाण्यसिद्धिः तसिद्धौ तत्सिद्धिरिति चेन्न । विषयसत्त्वस्य प्रमाणप्रवृत्तेः प्रागेव तत्प्रयोजकत्वेन सिद्धेः । तदुक्तं वादावल्यां ‘अन्यथा शशविषाणवत् प्रमाणप्रवृत्त्ययोगात्’ इति । विषयसत्त्वस्य प्रामाण्यं प्रत्यजनकत्वात् च । तदुक्तं तर्कताण्डवे ‘तस्य (विषयसत्त्वस्य) अतीतादिविषयकानुमित्यादि-साधारण्येन प्रामाण्यशरीरान्तर्गतत्वेन च तदजनकत्वादि’ति । प्रत्यक्षस्य स्वभावतः प्रबलत्वेन मिथ्यात्वसाधनाय परोपन्यस्तप्रमाणानि बाधित्वा विषयसत्त्वव्यवस्थापनादित्यादिकमूह्यम्
।। १०९४ ।।
युक्तिमल्लिका
ऐक्यायोगेन मिथ्यात्वं तत्त्वमर्थगतार्थयोः ।
विरुद्धयोः कथञ्चित्स्याद्विश्वाभावस्तु किंकृतः ।। १०९५ ।।
सुरोत्तमटीका
प्रागुक्तं वैयधिकरण्यमेव विशदयति ।। ऐक्येति ।। तत्त्वमर्थगतार्थयोः तत्त्वं पदार्थभूतजीवब्रह्मनिष्ठधर्माख्यार्थयोः।। १०९५ ।।
सत्यप्रमोदटीका
ननु तत्त्वमसिवाक्यं तावदैक्यं बोधयति । न च तत् तत्त्वंपदबोध्यविरुद्धधर्माणां सत्यत्वे सम्भवति । तदर्थं विरुद्धधर्ममिथ्यात्व-मास्थेयमिति चेदस्तु तावत् । न तावताऽपि सर्वजगन्मिध्यात्वसिद्धिरित्याह ऐक्येति । कथञ्चिदित्यनास्था । वस्तुतो निर्दोषश्रुतिसाक्षिसिद्धधर्माणां मिथ्यात्वायोग एवेति भावः ।। १०९५ ।।
युक्तिमल्लिका
सर्वं मिथ्येति सर्वस्य मिथ्यात्वप्रतिपादिका ।
न हि वागस्ति तेनायं विश्वाभावः कुतोऽपतत् ।। १०९६ ।।
सुरोत्तमटीका
तेन ऐक्यवाक्यस्य भिन्नविषयत्वेन घटादिकं मिथ्येति वाक्याभावेन च ।। १०९६ ।।
सत्यप्रमोदटीका
तेन अप्रामाणिकत्वेन प्रमाणविरुद्धत्वेन च ।।१०९६।।
युक्तिमल्लिका
वाक्यं च नाक्षसिद्धस्य बाधकं स्यादितीरितम् ।
अन्यथा लक्षणावृत्तेः शिक्षणं स्याद्विचारय ।। १०९७ ।।
सुरोत्तमटीका
ईरितं प्रागेवोक्तमित्यर्थः ।। १०९७ ।।
सत्यप्रमोदटीका
ईरितं ‘न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टं’ इति तत्त्वोद्योते समर्थितम् ।। १०९७ ।।
युक्तिमल्लिका
यदा ब्रह्मणि नेत्यद्या वाग्वा धीर्वा तदुद्भवा ।
सखण्डा सप्रकारापि सोपादानस्थधर्मिणाम् ।
धर्मिस्थानां च धर्माणां बाधिका नाभवत्तदा ।। १०९८ ।।
सुरोत्तमटीका
एकमेवाद्वितीयमित्यादिवाक्यानामपि भिन्नविषयत्वं प्रदर्शयति ।। यदेति ।। यदुद्भवा वाक्योद्भवा । सखण्डा वाक् । सप्रकारा धीरिति विवेकः । अपिपदेन अखण्डत्वे निष्प्रकारत्वे च सुतरामिति सूचयति । धर्मिस्थानां भूतलादिधर्मिस्थानाम् । भिन्नविषयत्वादिति भावः ।। १०९८ ।।
सत्यप्रमोदटीका
न बाधिका भिन्नविषयत्वादेव ।। १०९८ ।।
युक्तिमल्लिका
अखण्डार्थानि वाक्यानि निष्प्रकारकधीश्च ते ।
कं बोधयेत्कं कमर्थं बाधयेद्वा विचारय ।। १०९९ ।।
सुरोत्तमटीका
अपिपदेन सूचितमर्थं स्पष्टमाह ।। अखण्डेति ।।१०९९।।
सत्यप्रमोदटीका
वाक्यत्वं प्रति संसर्गविषयकत्वस्य, ज्ञानत्वं प्रति सप्रकारकत्वस्य च व्यापकत्वेन वाक्यस्य वाक्यत्वं ज्ञानस्य च ज्ञानत्वं दुर्घटं इति दूरे तयोर्बाधकत्वमित्याशयः । बाधकत्वे भ्रमकालीनापरोक्षबुध्यविषय-विशेषविषयकत्वस्य तन्त्रत्वादिति भावः ।। १०९९ ।।
युक्तिमल्लिका
तस्मात्साधकमानस्य हीनता मरणेऽपि न ।
अविद्यावद्विषयता नाभूदेवं विचारणे ।। ११०० ।।
सुरोत्तमटीका
तस्मात् क्लृप्तदोषाभावात् । कल्पकाभावेन कल्प्यदोषा-भावाच्च । साधकमानस्य घटादिसाधकमानस्य । नाभूत् दोषो नाभूत् । एवं पूर्वोक्तरीत्या ।। ११०० ।।
सत्यप्रमोदटीका
मरणेऽपि कालत्रयेऽपि । प्रत्यक्षस्य निरपवादेन त्रिकालाबाध्यताग्राहकत्वात् ।। ११०० ।।