वृथैव गुणसंत्यागे वैदुष्यं ते गमिष्यति
ब्रह्मद्वैतखण्डनम्
युक्तिमल्लिका
वृथैव गुणसंत्यागे वैदुष्यं ते गमिष्यति ।
अत्यागे महिमध्रौव्यान्निर्गुणं स्यात्कदा तव ।। ६७३ ।।
सुरोत्तमटीका
वृथैव त्यागकारणं विनैव । ते वैदुष्यं वैदुष्याख्यगुणः । वृथा गुणत्यागिनः अवैदुष्यावश्यम्भावात् । त्वं वृथैव गुणं त्यजसि । निमित्ते सति गुणत्यागः कथं न स्यादिति भावः । अत्यागे भगवद्गुणानामत्यागे । सर्वज्ञत्वसर्वेश्वरत्वादि गुणानां अत्यागे उक्तमहिम्नः ध्रौव्यात्सर्वकालीनत्वात् तव निर्गुणं कदा स्यात् । गुणापाये सति सगुणमेवेदं तव मते निर्गुणं भवेत्गुणा-नामुक्तविधया सार्वकालीनत्वात्तस्यानवसर एव ।। ६७३ ।।
सत्यप्रमोदटीका
ननु नार्थापत्त्या गुणत्यागः किन्त्वेवमेवेत्यत आह वृथेति ।। वैदुष्यं उपलक्षणं विवेकादिसर्वं गुणजातम् । एवमेव तस्यापि त्याग आपद्यते । अत्यागे सत्यज्ञानादिवाक्यमुख्यार्थेऽनुपपत्त्यभावाद्गुणानामपरित्यागे । निर्गुणं कदा स्यात् । लक्षणया नैव निर्गुणं कदाऽपि सिध्यति ।। ६७३ ।।
युक्तिमल्लिका
अतोऽनवसराद्दुस्स्थमश्रौतं च परोदितम् ।
ब्रह्मैष नित्यो महिमेत्याद्या वाक्तत्र तत्र हि ।। ६७४ ।।
सुरोत्तमटीका
अतो गुणत्यागावसराभावात् परोदितं ब्रह्म निर्गुणं ब्रह्म अनवसरदुस्स्थम् । अश्रौतं च स्वाभाविकसार्वज्ञादिगुणनिषेधायोगेन निर्गुण-श्रुत्यापि सत्वादिगुणनिषेधमुखेन सगुणस्यैव प्रतिपादनीयत्वात् प्रतिपादक-श्रुतिशून्यं चाभूदिति शेषः । पूर्वमन्तं नापेति नित्यत्वमभिहितम् । इदानीं नित्यत्वे स्पष्टां च श्रुतिमाह ।। एष नित्य इति ।। अनेन एष नित्यो महिमा ब्राह्मणस्य न कर्मणावर्धते नोकनीयात् आद्यपदेन पूष्णश्चक्रं नरिष्यति । न कोशोऽवपद्यते । नो अस्य व्यथते पविः । नित्योनित्यानामित्यादिसङ्ग्रहः । इत्याद्यावाक् वेदवाक् । अतोऽनवसरदुस्स्थमिति पूर्वेण सम्बन्धः ।। ६७४ ।।
सत्यप्रमोदटीका
अतः अप्रामाणिकत्वात् प्रमाणविरुद्धत्वात् व्यर्थत्वाच्च । परोदीरितं ब्रह्मेति सम्बन्धः । अप्रामाणिकत्वमाह अश्रौतमिति । निर्गुणश्रुतिस्तु सत्त्वादिप्रकृतिगुणबद्धत्वनिषेधपरेत्युपपादितमिति भावः । प्रमाणविरुद्धत्वमाह एष इति । तत्र तत्र हीति । सर्वत्रेत्यर्थः । तदुक्तं तत्वनिर्णये
‘सर्वज्ञं सर्वकर्तारं नारायणमनामयम् ।
सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ।
सर्वेषामपि वेदानामितिहासपुराणयोः ।
प्रमाणानां च सर्वेषां’
इति नारदीयवाक्योदाहरणेन ।। ६७४ ।।
युक्तिमल्लिका
एको दाधार विश्वानि भुवनानीति चापरा ।
तं स्तौति सर्वाधारत्वात्परं ब्रह्म स एव हि ।। ६७५ ।।
सुरोत्तमटीका
इदानीं परोदीरितब्रह्मणो व्यर्थतामुपपादयति ।। एको दाधारेति ।। विश्वेत्यस्यार्थकथनं विश्वानीति । अनेन य उ त्रिधातु पृथिवी-मुतद्या मित्यादि श्रुतिमुपादत्ते । तं विष्णुम् । विष्णुसूक्तस्थत्वादस्य वाक्यस्य । सर्वाधारत्वात्सर्वजगदाधारत्वात् । स एव विष्णुरेव परं ब्रह्म हि ।। ६७५ ।।
सत्यप्रमोदटीका
व्यर्थत्वं चाह । तथा हि । निर्गुणं ब्रह्म किं स्थित्यर्थं अथ सृष्ट्यर्थं उत भुक्त्यर्थं आहोस्विन्मुक्त्यर्थम् । नाद्य इत्याह एक इति । तं विष्णुम् । विष्णुसूक्तत्वादस्य वाक्यस्य । स एव विष्णुरेव ।। ६७५ ।।
युक्तिमल्लिका
सर्वस्याधारता सर्वव्यापिता केशवस्य चेत् ।
अन्यद्ब्रह्म किमर्थं ते व्यर्थत्वादपि तद्गतम् ।। ६७६ ।।
सुरोत्तमटीका
आधारता च सर्वव्यापिता चेति सम्बन्धः । सर्व-व्यापिता च अन्तर्बहिश्च तत्सर्वं व्याप्यनारायणस्स्थित इति श्रुत्युक्ता । अन्यत् इतोऽन्यत् ।। ६७६ ।।
सत्यप्रमोदटीका
सर्वं व्याप्य तदाधारता तत्स्थितिहेतुता । ‘यो लोक-त्रयमाविश्य बिभर्ति’ इति स्मृतेः ।। ६७६ ।।
युक्तिमल्लिका
यो नः पिता विधातेति सृष्टिश्चाश्रावि केशवात् ।
अतो भुक्त्यै न ते ब्रह्म मोक्षमिच्छेज्जनार्दनात् ।। ६७७ ।।
एक एवेश्वरस्तस्य भगवान्विष्णुरव्ययः ।
इति स्मृतेर्नापि मुक्त्यै व्यर्थमेवाभवत्ततः ।। ६७८ ।।
सुरोत्तमटीका
सृष्ठ्यर्थं तदित्यत आह ।। यो नःपितेति ।। अतस्सृष्टि-स्थित्यादीनां विष्णुकृतत्वात् । ते ब्रह्म भुक्त्यै भोगभुक्त्यै । मोक्षार्थं तदित्यत आह ।। मोक्षमिच्छेदित्यादिना ।। अनेन ‘‘शङ्कराज्ज्ञानमन्विच्छेन्मोक्ष-मिच्छेज्जनार्दनादि’’ति स्मृतिम् । ‘‘वरं वरय भद्रं ते ऋते कैवल्यमात्मनः । एक एवेश्वर’’ इत्यादि भागवतवचनं च गृह्यते । इति स्मृतेर्विष्णोरेव मोक्ष-दातृत्वप्रतिपादकस्मृतेः । उपसंहरति ।। व्यर्थमेवाभवत्तत इति ।। ततस्सृष्टि-स्थिति नियमनमोक्षानुपयोगात् ।। ६७७, ६७८ ।।
सत्यप्रमोदटीका
द्वितीयं निराह य इति । अत एव न तृतीय इत्याह अत इति । शरीरेन्द्रियविषयाणां सृष्टेरभावे भुक्तिः कथङ्कारं स्यादिति भावः । नापि मुक्त्या इति चतुर्थोऽपीत्याह मोक्षमिति ।। ततः यावद्विशेषाणामभावात् । व्यर्थं प्रयोजनसामान्यशून्यम्
।। ६७७, ६७८ ।।
युक्तिमल्लिका
व्याप्तं चैतन्ययुग्मं चेद्ब्रह्यणि द्वैतकल्पनात् ।
अनर्थश्च भवेत्तस्माद्ब्रह्यै(कं)को विष्णुरेव हि ।। ६७९ ।।
सुरोत्तमटीका
इदानीं परोदीरितब्रह्मणः अनर्थहेतुतामप्याह ।। व्याप्त-मिति ।। व्याप्तं चैतन्ययुग्ममङ्गीक्रियते चेत् । व्याप्यनारायणस्स्थित इति श्रुतिबलादेकम् । स्वमतदुराग्रहादपरम् । एकमेवाद्वितीयमित्युक्तब्रह्मणि द्वैत-कल्पनादनर्थ स्सर्वत्र द्वैतमसहमानस्य ब्रह्मण्येव द्वैतप्राप्तिरूपः । तस्मादनर्थ परिहारस्य कर्तव्यत्वात् । ब्रह्मण एकत्वे आवश्यके सति ‘‘तदेकं ब्रह्म विष्णुरेव हि भवेत्’’ इति क्रिया वृत्त्या योजनीयम् ।। ६७९ ।।
सत्यप्रमोदटीका
न केवलं व्यर्थं किं त्वनर्थप्रदं च निर्गुणब्रह्मकल्पन-मित्याह व्याप्तमिति । युग्मं एकं नारायणाख्यं प्रामाणिकम्, अपरं कल्पित-व्याप्तत्वोपेतं पराभिमतं निर्गुणमप्रामाणिकम् । अनर्थः ‘मृत्योः स मृत्यु-माप्नोति य इह नानेव पश्यति’ इत्युक्तनित्यनिरयरूपः ।। ६७९ ।।
युक्तिमल्लिका
प्रागुक्तयुक्त्या सगुणनैर्गुण्यं यन्मृतौ च न ।
अतोऽन्यन्निर्गुणं वाच्यं तदा ब्रह्मद्विता न किम् ।। ६८० ।।
सुरोत्तमटीका
तत्र युक्तिमाह ।। प्रागुक्तेति ।। प्रागुक्तस्वाभाविकत्वा-दित्युक्त्या सगुणनैर्गुण्यं सगुणस्य नैर्गुण्यम् । अतस्सगुणस्य निर्गुणतायोगात् अन्यत्सगुणात् निर्गुणं सर्वधर्मशून्यरूपं वाच्यम् । तादृशनिर्गुणे दुराग्रहवतां न किं भवेदेवेत्यर्थः ।। ६८० ।।
सत्यप्रमोदटीका
ननु न मया ब्रह्मयुग्ममुच्यते येनानर्थः स्यात् । किं तु सगुणस्यैव गुणप्रहाणेन नैर्गूण्यमित्युच्यते इति चेन्मोक्तं विस्मार्षीरित्याह प्रागुक्तयुक्त्येति । गुणानां स्वाभाविकत्वयुक्त्या । मृताविति तवेति शेषः । तमः प्राप्तावपि अनन्तकालेऽपीति यावत् । ब्रह्मद्विता सगुणादन्यस्या-प्रामाणिकस्य गुणशून्यस्य साङ्केतिकब्रह्मणः कल्पनादिति भावः ।। ६८० ।।
युक्तिमल्लिका
एवं चावसराभावदुःस्थं व्यर्थमनर्थदम् ।
विष्णोरन्यत्परं ब्रह्म को विद्वान्वक्तुमर्हति ।। ६८१ ।।
सुरोत्तमटीका
उक्तमर्थं संकलय्याह ।। एवं चेति ।। ६८१ ।।
सत्यप्रमोदटीका
निगमयति एवमिति ।। ६८१ ।।
युक्तिमल्लिका
नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ।। ६८२ ।।
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।। ६८३ ।।
सुरोत्तमटीका
अधुना विष्णोरेव सर्वोत्तमब्रह्मत्वे तदतिरिक्तब्रह्माभावे च भारतवाक्यानि प्रमाणयति ।। नास्ति नारायणसममित्यारभ्य न दैवं केशवात्परमित्यन्तेन । वशे अवर्ततेति पदच्छेदः । नारायणसमं न भूतं नास्ति । न भविष्यतीत्यनेन तस्यैव परब्रह्मत्वं ततोऽतिरिक्तपरब्रह्माभावश्च सिद्ध्यति ।। ६८२,६८३ ।।
सत्यप्रमोदटीका
सगुणं ब्रह्मापरं, परं तु निर्गुणं इति मायिमतं सुस्पष्ट-भारतवाक्यैर्निराकरोति नास्तीत्यादिभिरष्टभिः ।। सत्यवाक्येन यथार्थवाक्येन । सर्वार्थानिति फलरूपतात्पर्यलिङ्गोक्तिः ।। ६८२ ।।
युक्तिमल्लिका
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। ६८४ ।।
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।। ६८५ ।।
सुरोत्तमटीका
अन्यः क्षराक्षराभ्याम् । अत्रापि लौकिकालौकिक-पुरुषाणां क्षराक्षरोत्तमपुरुषतया विभागात् यस्मात्क्षरमतीतोहमित्युक्तोत्तम-पुरुषस्य स्वस्य कृष्णस्य परमात्मतया निर्देशाच्च विष्णोरेव परब्रह्मत्वं तदन्य परब्रह्माभावश्च सिध्यति । अस्ति चेत्सोऽपि चतुर्थपुरुषतया परमात्मतया वा निर्दिश्येतेत्यतस्स नास्त्येवेति भावः ।। ६८४,६८५ ।।
सत्यप्रमोदटीका
परमात्मेति पुरुषोत्तम इति प्रथितत्वोक्त्या तस्यैव परब्रह्मत्वमभिप्रेयते ।। ६८३-६८५ ।।
युक्तिमल्लिका
मत्तः परतरं नान्यत्किञ्चिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ६८६ ।।
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशेऽवर्ततेदं कृष्णस्य सचराचरम् ।। ६८७ ।।
सुरोत्तमटीका
मत्तः परतरं नास्तीत्यत्र विष्णोरन्यपरब्रह्माभावः स्पष्ट एव ।। ६८६,६८७ ।।
सत्यप्रमोदटीका
सूत्रे मणिगणा इवेति ।। अनेन दृष्टान्तेन परिणा-म्युपादानत्वं विवर्तोपादानत्वं च निराकृत्य निमित्तकारणत्वं स्थितिहेतुत्वं व्यवस्थापयता पराभिमतस्य शुद्धस्याधिष्ठानाभिमतस्य ब्रह्मत्वं प्रतिषिध्यते । न हि सूत्रं मण्यात्मना परिणमते न वा मण्यारोपाधिष्ठानमिति भावः ।। ६८६ ।।
युक्तिमल्लिका
रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः ।। ६८८ ।।
सुरोत्तमटीका
‘‘रुद्रं समाश्रिता देवा’’ इत्यत्रापि कृष्णेन नाहं कञ्चि-दुपाश्रित इति स्वाश्रयस्यान्यस्याभावकथनात्तदन्यपरब्रह्माभावस्स्पष्ट एव
।। ६८८ ।।
सत्यप्रमोदटीका
अवर्तत इदं इति पदच्छेदः ।। ६८७, ६८८ ।।
युक्तिमल्लिका
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।
वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् ।। ६८९ ।।
इति भारतवाक्यानि स्पष्टीकुर्वन्ति तं प्रभुम् ।। ६९० ।।
सुरोत्तमटीका
सत्यं सत्यमित्यत्र तु ‘‘न दैवं केशवात्परमि’’ति केशवादन्यपरब्रह्माभावोऽति स्पष्टः ।। ६८९,६९० ।।
सत्यप्रमोदटीका
वेदेति ।। ‘विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः’ इति श्रुत्यर्थोपबृंहणेन केशव एव परमं ब्रह्मेति प्रतिज्ञायते।।६८९,६९० ।।
युक्तिमल्लिका
उपक्रम्याखिलेशत्वं पुरा नारायणस्य यत् ।
मध्येऽभ्यस्तं तदेवान्तेऽप्युपसञ्जह्रुरञ्जसा ।। ६९१ ।।
तस्माद्भारतवाक्यानां लक्षमैकार्थ्यसिद्धये ।
विष्णोरत्युत्तमत्वाख्यमर्थमाहेति सिध्द्यति ।। ६९२ ।।
सुरोत्तमटीका
यद्यस्मात् । तस्मादादिमध्यावसानानामेकार्थपरत्व-स्यावश्यकत्वात् ।। ६९१,६९२ ।।
सत्यप्रमोदटीका
भारतवाक्यानीत्यस्यानुकर्षः । अञ्जसा सशपथम् । यदित्यस्योत्तरश्लोके तस्मादित्यनेनान्वयः । ऐकार्थ्यं एकार्थप्रतिपादकत्व लक्षणैकवाक्यता ।। ६९१, ६९२ ।।
युक्तिमल्लिका
नारायणपरा वेदा नारायणपरा मखाः ।
नारायणपरा योगा नारायणपराः क्रियाः ।। ६९३ ।।
नारायणपरं ज्ञानं नारायणपरं तपः ।
नारायणपरो धर्मो नारायणपरा गतिः ।। ६९४ ।।
सुरोत्तमटीका
भागवतवाक्यैरपि विष्णोरेव परब्रह्मतां ततोऽन्यपरब्रह्मा-भावं च साधयति ।। नारायण परा वेदा इत्यादिना ।। नारायणपराः नारायण एव महातात्पर्यवन्तः । ननु वेदेषु क्वचित्क्वचिद्यज्ञयोगसंध्यावन्दनादि क्रिया-ज्ञानतपोदानादिधर्ममोक्षादयश्च प्रतिपाद्यन्ते । अतः कथं नारायण परा वेदा इत्युच्यत इत्याशङ्क्य तेषां विष्णुमुद्दिश्य क्रियमाणत्वेन तत्प्रतिपादनमपि परम्परया विष्णुप्रतिपादनमेवेति भावेनाह ।। नारायण परा मखा इत्यादिना ।। वेदादेव हि परब्रह्मसिद्धिः । तस्य च नारायणैकपरत्वे तस्यैव परब्रह्मत्वसिद्धिः ।। ६९३,६९४ ।।
सत्यप्रमोदटीका
उक्तार्थे भागवतवाक्यानि प्रमाणयति नारायणे-त्यादिभिः ।। मखयोगक्रियाऽऽदीनां नारायणपरत्वं ‘मां विधत्तेऽभिधत्ते मां’ इति श्लोकोक्तरीत्याऽवसेयम् ।। ६९३,६९४ ।।
युक्तिमल्लिका
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिभृत् ।। ६९५ ।।
सुरोत्तमटीका
सृजामीत्येतच्चतुर्मुखस्य वाक्यम् । पुरुषरूपेण विष्णु-रूपेण । त्रिशक्तिभृत्सृष्टिस्थितिसंहाराख्यशक्तित्रयधारकः । अत्र दैवश्रेष्ठयो-र्ब्रह्मरुद्रयोर्विष्ण्वधीनत्वश्रवणात्सिद्धा विष्णोरेव सर्वोत्तमता ।। ६९५ ।।
सत्यप्रमोदटीका
सृजामीति । नारदेन चतुर्मुखं प्रति त्वमेव सर्वोत्तम इति पररीत्या पूर्वपक्षे कृते तन्निराकरणेन सिद्धान्तस्थापनपरा चतुर्मुखोक्ति-रियम् । स्वयं ब्रह्मणैव स्वस्य रुद्रस्य च सर्वेश्वरतां प्रतिषिध्य हरेरेव तस्याः सयुक्तिकं स्वरूपलक्षणताप्रतिपादनेन तत्र तात्पर्यातिशयोऽवसीयते ।। ६९५, ६९६ ।।
युक्तिमल्लिका
स एव भगवान्लिङ्गैस्त्रिभिरेतैरधोक्षजः ।
स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः ।। ६९६ ।।
सुरोत्तमटीका
लिङ्गैस्सृष्ठ्यादिव्यापाररूपलिङ्गैः । स्वलक्षितगतिः सृष्टिकर्तृत्वादिस्वरूपभूतलक्षणैर्लक्षितस्वरूपः । ब्रह्मन्नारदेति नारदं प्रति चतुर्मुखस्य वचनम् । स्पष्टात्र सर्वेश्वरता विष्णोः ।। ६९६ ।।
युक्तिमल्लिका
तमुपागतमालक्ष्य सर्वे सुरगणादयः ।
प्रणेमुस्सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ।। ६९७ ।।
तत्तेजसा हतरुचस्सन्नजिह्वास्ससाध्वसाः ।
मूध्नर्युद्धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ।। ६९८ ।।
अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।
यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ।। ६९९ ।।
सुरोत्तमटीका
तं दक्षाध्वरे कलहशमनायोपागतं नारायणम् । तत्तेजसा नारायणतेजसा हतरुचः तिरस्कृतकान्तिमन्तः । सन्नजिह्वाः भयाच्छुष्कीभूत-जिह्वाः । ससाध्वसाः भयसहिताः । मूध्नर्युद्धृतांजलिपुटाः अधोक्षजमुपतस्थुः उपासांचक्रुः । कुतस्तेषामेतादृशी नीचावस्थेत्यत उक्तम् । यस्य विष्णोर्महित्वे महिमि्न विचार्यमाणे अर्वागधस्ताद्वृत्तिर्येषांते तन्महिमसदृशमहिमरहिता इति भावः । स्वभुवादयः स्वयंभ्वादयः । मुख्यस्य स्वभूत्वस्य विष्ण्वेकनिष्ठत्वा-द्ब्रह्मण्यसंधिकरणम् । कृतोऽनुग्रहो येन सविग्रहो यस्य तमनुग्रहेण प्रदर्शित-विग्रहमित्यर्थः । यथामति गृणन्ति शक्त्यनुसारेण स्तुवन्ति । सकलतन्महिम्नां-स्तवनेऽपि न शक्तिस्तन्महिमप्राप्तिस्तु दूरापास्तेति भावः ।। ६९७-६९९ ।।
सत्यप्रमोदटीका
चतुर्थस्कन्धवाक्यमुदाहरति तमिति नारायणम् । उपागतं दक्षाध्वरे प्रादुर्भूतम् । आदिपदग्राह्यतावच्छेदकं अध्वरमण्टपवृत्तित्वम् । सर्वे इति असङ्कोचो ज्ञाप्यते । व्यर्थं सदिति न्यायात् । महदागमनं कारणम् । प्रत्युत्थानादिकं, तत्तेजःपराहततेजस्त्वं, जिह्वाऽवसादः, साध्वसं, प्रणामः, उपस्थानं इत्यादीनि कार्याणि । अतः प्रत्येकं कार्यानुमानानि । बहुत्वं संवादेन दाढर्््यहेतुः । विमता विष्ण्ववराः तत्कार्यव्यापारवत्त्वादिति प्रत्येकं प्रयोक्तव्यम् । विपक्षे हेतूच्छित्तिर्बाधिका । अधोक्षजं इन्द्रियजन्यज्ञानागोचरम् । अव्यक्त-स्वभावमिति यावत् । कृतानुग्रहविग्रहम् अनुग्रहेण प्रकटीकृतदेहम् । आर्वगिति साक्षादेवावरत्वोक्तिः । स्वभुवादय इत्यत्र सन्ध्यभावश्छान्दसः । भूधातोः न परमात्मनीव प्रादुर्भावमात्रार्थकत्वं किन्तूत्पत्तिपरत्वं इति द्योतनद्वारा परममुख्य-स्वभूत्वाभावज्ञापनाय । यथामतीत्यनेन साकल्येन तद्गुणविषयिणी मतिरपि नास्ति किमु तदभिधानरूपा स्तुतिः किमु पुनः तत्साम्यप्राप्तिसम्भावनाऽपि इति हृदयम् ।। ६९७-६९९ ।।
युक्तिमल्लिका
देवासुराणां मघवान्प्रधानस्तस्य शङ्करः ।
तस्य ब्रह्मा प्रभुस्तस्य स्वयं नारायणः किल ।
द्विजानां देवतानां च यो देवस्स स्वयं किल ।। ७०० ।।
सुरोत्तमटीका
देवासुराणामित्यनेन
‘‘देवासुराणां मघवान्प्रधानो दक्षादयो ब्रह्मसुताश्च तेषाम् ।
भवः परस्सोथविरिञ्चवीर्यस्समत्परोऽहं द्विजदेवदेव’’
इति पञ्चमस्कन्धस्थवृषभवचनमर्थतस्संगृह्णाति । अर्थस्तुदेवासुराणां चन्द्रसूर्यादिदेवानामसुराणां च मघवानिन्द्रः प्रधानः । दक्षादयो ब्रह्मसुताश्च प्रधानाः । इन्द्रस्य सर्वज्येष्ठत्वात्प्रथमतो ग्रहणम् । तेषां दक्षादीनामिन्द्रस्य च भवो रुद्रः परः प्रधानः । स भवः विरिञ्चवीर्यः विरिञ्चस्य वीर्यं जनकं यस्य स इति विरिञ्चवीर्यः विरिञ्चपुत्र इत्यर्थः । रुद्राद्विरिञ्चः प्रधान इति भावः । स विरिञ्चः अहं परो यस्येति मत्परः । विरिञ्चादप्यहमेव सर्वोत्तम इत्यर्थः । अत्रापि देवतातारतम्यकथनपूर्वकं विष्णोस्सर्वोत्तमत्वं कथ्यते । मूलस्थद्विज-देवदेवपदस्यार्थमाह ।। द्विजानामिति ।। ७०० ।।
सत्यप्रमोदटीका
ऋषभनामकपरमात्मनः स्वपुत्रान्प्रति तत्वोपदेशात्मकं पञ्चमस्कन्धगं भागवतवचनमर्थतः सङ्गृह्णाति देवेति ।। तारतम्यान्तगत्वेन स्वस्य सर्वोत्तमत्वमवधार्यते । मूलस्थद्विजदेवदेव इत्यस्यार्थकथनं द्विजानां इति । द्वन्द्वगर्भः षष्ठीतत्पुरुषः ।। ७०० ।।
युक्तिमल्लिका
निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।
हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव ।। ७०१ ।।
सुरोत्तमटीका
कालाख्यारूपिणः काल इत्याख्यारूपं चास्यास्तीति कालाख्यारूपी । तस्य तव । इदं कृष्णं प्रति भक्तस्य वचनम् । अत्रापि विष्णोस्सर्वोत्तमता ब्रह्मरुद्रादीनां च तदधीनता स्पष्टा ।। ७०१ ।।
सत्यप्रमोदटीका
निमित्तमिति कृष्णं प्रति भक्तवचनम् । द्वारमात्रम् न तु मुख्यनिमित्तम् । सर्गनिरोधयोरिति यथाक्रममन्वयः । काल इत्याख्या-रूपेऽस्य स्त इति तस्य । कालाख्येति बहुव्रीहिमाश्रित्य रूपविशेषणे कालाख्यरूपिण इति स्यादित्यवधेयम् । ‘अर्न्तबहिःपूरुषकालरूपैः’ इत्युक्ते-र्बहिःस्थितं कालरूपम् । संहारकं वा । ‘कालोऽस्मि लोकक्षयकृत्प्रवृद्धः’ इति गीतोक्तेः
।। ७०१ ।।
युक्तिमल्लिका
सरस्वत्यास्तटे राजन्नृषयस्सत्रमासत ।
वितर्कस्समभूत्तेषां त्रिष्वधीशेषु को महान् ।। ७०२ ।।
सुरोत्तमटीका
त्रिष्वधीशेषु विष्णुब्रह्मरुद्रेषु महान् श्रेष्ठः क इति वितर्को विचारः । सर्वेषु त्रयाणामधीश्वरत्वकथनेन तेष्वप्येकस्य महत्त्वप्रश्नेन च सर्वैक्यं त्रिदेवतैक्यं त्रिदेवतासाम्यं च गर्भस्नावेण गतम् ।। ७०२ ।।
सत्यप्रमोदटीका
ऋषिभिर्भृगुद्वारा परीक्षापूर्वकं सर्वोत्तमत्वस्य निर्णी-तत्वान्निरवकाशं वाक्यान्तरम् सरस्वत्या इत्यादिकम् । वितर्कः मीमांसा
।। ७०२ ।।
युक्तिमल्लिका
तच्छ्रुत्वा मुनयस्सर्वे विस्मिता मुक्तसंशयाः ।
भूयांसं श्रद्दधुर्विष्णुं यतश्शन्तिर्यतोऽभयम् ।। ७०३ ।।
सुरोत्तमटीका
तद्भृगूक्तम् । ब्रह्मशिवयोरज्ञाननिमित्तं कोपं विष्णो-स्सर्वज्ञतानिमित्तशान्तिं च श्रुत्वा भूयांसं सर्वोत्तमश्रद्धधुःश्रद्धापूर्वकं दधुः । निश्चितवन्त इत्यर्थः । श्रद्दधुरित्यनेन एवं जानत एव मोक्षादिफलमस्ति नत्व-न्यथेति ध्वनितं एवं च फलकथनादुक्तार्थे महातात्पर्यमिति सूचितम् ।।७०३।।
सत्यप्रमोदटीका
तत् भृगुवचनम् । ब्रह्मशिवयोरज्ञानं तत्कार्यकोपा-द्यनुमितं, विष्णोः सर्वज्ञतां तत्प्रयोज्यनिर्विकारत्वानुमितां च वर्णयदिति उपस्कर्तव्यम् । श्रद्धां द्विविधां, अस्तीति अनेन मम प्रयोजनमस्तीति च द्विविधामपि दधुः । शान्तिः सुखम् । अभयं आत्यन्तिकदुःखनिवृत्तिः । मुक्तिरिति यावत् । अनेन ‘पूर्णो देवो जीवसङ्घस्त्वपूर्ण’ इति कौशिक-श्रुत्युक्तोपपत्तिः फलं चेति तात्पर्यलिङ्गे उक्ते ज्ञेये ।। ७०३ ।।
युक्तिमल्लिका
इत्याद्यनन्तवाक्यानि सन्ति भागवते स्फुटम् ।
सर्वोत्तमपरब्रह्मभावे नारायणस्य हि ।। ७०४ ।।
सत्यप्रमोदटीका
अनन्तानि, सुबहूनि आदिमध्यावसानेषु सर्वत्रेत्यर्थः । स्फुटं सन्ति निरवकाशतया प्रतिपादकानि वर्तन्ते ।। ७०४ ।।
युक्तिमल्लिका
समस्तधर्मशून्यं तन्निर्गुणं कुत्र कथ्यते ।। ७०५ ।।
सुरोत्तमटीका
तत् उक्तानां भागवतस्थादिमध्यान्तवचनानां सर्वेषां सर्वगुणपरिपूर्ण श्रीनारायणाख्यपरब्रह्मप्रतिपादकत्वात् स्पष्टोपक्रमोपसंहारानु-सारेणैवास्पष्टवचनानां व्याख्येयत्वात् समस्तधर्मशून्यं निर्गुणं कुत्र कथ्यते । न कुत्रापीति भावः
।। ७०५ ।।
सत्यप्रमोदटीका
समस्तधर्मशून्येति हेतुगर्भम् । शब्दप्रवृत्तिनिमित्त-धर्मसामान्यशून्ये शब्दप्रवृत्तेरेवासम्भवादिति । कुत्रेति । न केवलं भागवते । शब्दमात्रेणापि कथनमसम्भवीति भावः ।। ७०५ ।।
युक्तिमल्लिका
सत्यं शौचं दया दानं त्यागस्सन्तोष आर्जवम् ।
शमो दमस्तपस्साम्यं तितिक्षोपरतिः श्रुतम् ।। ७०६ ।।
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो धृतिः स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिरसौभगं मार्दवं क्षमा ।। ७०७ ।।
प्रागल्भ्यं प्रश्रयं शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ।। ७०८ ।।
सुरोत्तमटीका
इदानीं स्पष्टं नारायणस्य गुणपूर्णताप्रतिपादकानि भागवतवचनान्याह ।। सत्यमित्यादिना ।। अत्र सत्याद्याः अनहंकृत्यंताः चत्वारिंशद्गुणा विशिष्य गृहीताः ।। ७०६-७०८ ।।
सत्यप्रमोदटीका
भूदेव्या धर्मं प्रति वचनं भागवते प्रथमस्कन्धे सत्य-मित्यादि । अत्र शमादीनां भगवद्गुणानां लौकिकेभ्यो विशेषा भागवत-टिप्पणीतोऽवगन्तव्याः । इमे चत्वारिंशत् । अन्ये च अनन्ताः । नित्याः अनादयश्चेति ग्राह्यम् । महागुणाः प्रत्येकं निरवधिकाः । प्रार्थ्याः बिम्बभूत-स्थत्वात्स्वयोग्यतत्तद्गुणलाभायोपास्या इत्यर्थः । न तु त एव मे स्युरिति भावनीयाः । स्वायोग्यत्वेन तत्कामनाया अधःपातहेतुत्वात् । न च यान्तीति । यावद्धर्मिभाविन इति भावः । अनेन गुणत्यागलक्षणाश्रयणेन मायावादिनामैक्यप्रत्याशा गर्भस्रावेण परास्ता । अभ्यासेन नित्यत्वस्य सतात्पर्यमवधारणेन तत्त्यागस्य प्रमाणपराहतेः ।। ७०६-७११ ।।
युक्तिमल्लिका
इमे चान्ये च भगवन्नित्या यत्र महागुणाः ।
प्रार्थ्या महत्त्वमिच्छद्भिर्न च यान्ति स्म कर्हिचित् ।। ७०९ ।।
तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ।। ७१० ।।
सुरोत्तमटीका
अन्ये चेत्यनेनैतदतिरिक्तानंतश्रुत्युक्तकल्याणगुणानां सङ्ग्रहः । महागुणा इत्यनेन तेषां प्रत्येकं पूर्णत्वमभिप्रैति । नित्या इत्यनेन कर्हिचित् न यान्ति कदापि न गच्छन्तीत्यनेन च सार्वकालीनत्वरूप-नित्यत्वमभ्यस्यते ।। ७०९,७१० ।।
युक्तिमल्लिका
इति भागवते स्पष्टं धराधर्मकथान्तरे ।
गुणानां नित्यताभ्यासान्निर्गुणं स्यात्कदा वद ।। ७११ ।।
सुरोत्तमटीका
धराधर्मकथान्तरे गोरूपाया धरायाः वृषभरूपस्य धर्मस्य च कथामध्ये । नित्यताभ्यासात् नित्यत्वस्य पौनःपुन्येन कथन-रूपाभ्यासान्नित्यत्वे महातात्पर्यमवगम्यते । ततश्च न नित्यत्वमन्यथीकर्तुं शक्यते । अतो गुणनाशोत्तरभाविनिर्गुणं कदा स्यादिति सम्बन्धः ।। ७११ ।।
युक्तिमल्लिका
महागुणान्स्थापयन्ती महीयसि मही हरौ ।
जडतुच्छगुणाभावं नैर्गुण्योक्तेर्गतिं ददौ ।। ७१२ ।।
सुरोत्तमटीका
तर्हि निर्गुणोक्तेः का गतिरित्याशङ्क्य धरयैव गतिर-सूचीत्याह ।। महागुणानिति ।। ७१२ ।।
सत्यप्रमोदटीका
स्थापयन्ती प्रार्थ्या इति गुणानां बिम्बत्वस्योक्त्याऽ-नौपाधिकत्ववर्णनेन, नित्यत्वाभ्यासेन त्यागायोगोक्त्या च निरवकाशतया सिद्धान्तयन्ती । जडेति प्रकृतिगुणेत्यर्थः । तुच्छेति सान्तत्वसातिशयत्व-दोषमिश्रितत्वाद्युपप्लुतजैवगुणेत्यर्थः । गतिं अवकाशम् । ददौ सूचितवती । निषेधवाक्यानां प्रमितेतरनिषेधकत्वस्य क्लृप्तत्वात् ।। ७१२ ।।
युक्तिमल्लिका
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।
यदासीत्तत्त एवाद्यस्स्वयम्भूस्समभूदजः ।। ७१३ ।।
इति भागवते कृष्णो निस्सङ्ख्यान्स्वगुणानपि ।
अनन्तानाह देहांश्चाप्यनन्तानवतारगान् ।। ७१४ ।।
सुरोत्तमटीका
अधुना गुणानामसंख्यातत्वरूपानंत्यं प्रत्येकं परिपूर्णत्व-लक्षणानंत्यं स्वदेहानंत्यं च स्पष्टं प्रतिपादयत्सगुणभगवद्वचनमाह ।। मय्यनन्तगुण इति ।। शशशृृङ्गस्य मध्ये लीनमभूच्छशशृृङ्गप्रायमभूदिति भावः । उत्तरार्धस्य त्वयमर्थः । मयि मम देहे यत्पद्ममासीत् ततः पद्मात् स्वयंभूस्स्वयमेवाभून्न तु स्वेन सहाऽन्योप्युत्पन्न इति स्वयंभूशब्दवाच्यः अजस्समभूदिति ।। ७१३-७१६ ।।
सत्यप्रमोदटीका
भागवतस्थं भगवद्वचनं मयीति । गुणानां विग्रहाणां च प्रत्येकं सङ्ख्यातश्चापरिच्छेदोक्त्या मायावाद्यभिमतं वस्तुतः परिच्छेद-राहित्यमपाकृतं ध्येयम् । यदासीदिति पद्मनाभत्वलिङ्गेन विष्णुरेवानन्त इति निर्धार्यते ।। ७१३, ७१४ ।।
युक्तिमल्लिका
देशतः कालतश्चैव गुणतोऽपि ह्यनन्तता ।
अतस्त्वन्निर्गृणब्रह्म कस्मिन्देशे कदा भवेत् ।। ७१५ ।।
सर्वेभ्यो देशकालेभ्यः प्रायस्तत्तु बहिष्कृतम् ।
लज्जया शशशृृङ्गस्य मध्ये लीनमभूत्सदा ।। ७१६ ।।
सत्यप्रमोदटीका
अनन्तता विष्णोरिति शेषः । अयमभिप्रायः । निर्गुण सत्त्वमभिलषता क्वचिद्देशकालयोस्तदवस्थितिर्वक्तव्या । क्वचिदपि वा शास्त्रभागे तदुक्तिश्च । देशकालसम्बन्धित्वमेव सत्त्वम्, मानाधीना मेयसिद्धिरिति च व्यवस्थितेः । सगुणनिर्गुणयोः क्वापि कदाऽपि सहावस्थानं परस्परप्रतिषेध-रूपतया दुर्घटम् । एवं समानमानमेयत्वं च । सगुणं सर्वदेशकालसम्बन्धितया सर्वशास्त्रप्रतिपाद्यमिति निष्टङ्कितम् । एवं च निर्गुणस्य देशकालसम्बन्धाभावात् साधकमानाभावाच्चात्यन्तासत्त्वमेवेति । प्रायः इति गन्धर्वनगरमरुमरीचिका-दाववस्थानमनुज्ञायत इत्यपहासार्थम् । शशशृृङ्गस्य मध्ये इत्युपलक्षणम् । संवत्सरस्य चतुर्दशे मासे सप्तदश्यां तिथौ इत्यादिग्राह्यम् । एवं चन्द्रिकोक्त-दिशा स्वसिध्द्यर्थं भागवतस्य त्रयोदशस्कन्धे ब्रह्मसूत्रपञ्चमाध्यायादिके चेत्यपि ग्राह्यम् ।। ७१५, ७१६ ।।
युक्तिमल्लिका
समस्तधर्मशून्यं च ब्रह्मान्यत्किल वर्तते ।
स्वयं तद्दर्शनात्सर्वधर्मशून्यो भवेत्किल ।। ७१७ ।।
सुरोत्तमटीका
ननु मा भूदागमेन निर्गुणब्रह्मसिद्धिः अनुमानेन भविष्यतीत्याशङ्क्य दूषयति ।। समस्तेति ।। तद्दर्शनात् समस्तधर्मशून्य ब्रह्मापरोक्षज्ञानात् ।। ७१७ ।।
सत्यप्रमोदटीका
परमतं व्याहतिपरम्परया दूषयितुं निष्कृष्य सोपहास-मनुवदति समस्तेति । ब्रह्मशब्दस्य समस्तसद्धर्मवद्वाचित्वात् समस्तधर्मशून्यं ब्रह्मेति व्याहतिः । एकमेवाद्वितीयं ब्रह्मेति धर्मिग्राहकमानेनैकत्वेन सिद्धस्य ब्रह्मणो ब्रह्मान्यदिति द्वित्वोक्तौ व्याहतिः । दृश्यत्वधर्मशून्यस्य दृश्यत्वोक्त्या व्याहतिः । एवं व्याहतिधाराया अविच्छेदस्य स्फुटत्वात्किलेत्यपहासः
।। ७१७ ।।
युक्तिमल्लिका
यदा मानेन तेनेदं साध्यते मोक्षसिद्धये ।
दृश्यते च तदा मानमेयता ज्ञानदृश्यता ।। ७१८ ।।
इति धर्मद्वयं प्राप्तं तत्पदेन च वाच्यता ।
लक्ष्यता वा यतोऽवश्यं तेन प्राप्ता पदार्थता ।। ७१९ ।।
सुरोत्तमटीका
किञ्च । मानेन निर्गुणब्रह्मसिद्धिमभिलषतस्स्वव्याहति-परम्परामाह ।। यदेति ।। तेन मायावादिना इदं निर्गुणत्वं साध्यते । मोक्षसिद्धये मुक्त्यै दृश्यते । तदा साधने दर्शने च । यतश्च तत्पदेन मेयपदेन दृश्यपदेन च वाच्यता वाच्यत्वानङ्गीकारे लक्ष्यता वा । तेन मुख्यया वाऽमुख्यया वा वृत्त्या शब्दबोध्यत्वेन ।। ७१८-७२० ।।
सत्यप्रमोदटीका
इदं निर्गुणब्रह्माख्यं मेयम् । अत्र प्रष्टव्यं, मेयं मानसापेक्षं न वेति । नेति पक्षे स्वन्यायस्ववचनस्वक्रियाविरोधाः सर्वेऽपि पद्धत्युक्तरीत्या सम्भूय समापतेयुः । आद्ये इदमुपतिष्ठते यदेति । मानं भवत् आगमोऽनुमानं प्रत्यक्षं वा । पक्षत्रयेऽपि दोषमाह मानेति । मोक्षसिद्धये दृश्यते इति तृतीये दोषमाह ज्ञानदृश्यतेति । साक्षात्कारविषयतेति यावत् । आद्येऽपि ब्रह्म पदार्थो वा वाक्यार्थो वा । आद्येऽपि वाच्यं लक्ष्यं वा । पदार्थत्वे पदार्थत्वेनैव सधर्मकत्वमित्याह तेनेति । न वाच्यं अनभ्युपगमात् । तथा हि तद्वाक्यं
‘ब्रह्मण्यवाच्ये यो विद्वान्वाच्यतामधिगच्छति ।
स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यतामि’ति ।
अभ्युपगमे वाच्यत्वस्य तन्निमित्तस्येति धर्मद्वयाङ्गीकारेण निस्त्रपत्वापत्तेः । न लक्ष्यं । लक्ष्यत्वस्य लक्ष्यतावच्छेदकस्य लक्षणाप्रयोजकशक्यसम्बन्धित्वस्य चेति बहुधर्मोपनिपातात् । तदाह लक्ष्यता वेति ।। ७१८,७१९ ।।
युक्तिमल्लिका
व्यावृत्त्यै शशशृृङ्गस्य वस्तुत्वं सर्वथा तव ।। ७२० ।।
सत्यप्रमोदटीका
किञ्च तिष्ठतु प्रमाणविशेषचर्चा । ब्रह्म शशशृङ्गा-द्व्यावृत्तं न वा । नेति पक्षेऽसत्त्वापत्तिः शून्यमतप्रवेशश्च । आद्ये व्यावर्तक-धर्मोभ्युपेयः । न हि तद्विना व्यावृत्तिसिद्धिः । व्यावर्तकश्च वस्तुत्वधर्मो वाच्यः । अन्यथा तत्र प्रमाणप्रवृत्त्ययोगात् । न च वस्तुत्वस्य प्रमाणप्रवृत्ति-प्रयोजकत्वे विवदितव्यम् । तुच्छेऽपि तत्प्रवृत्तिप्रसङ्गात् । तथा च सर्वथा वस्तुत्वमङ्गीकार्यमित्याह व्यावृत्त्या इति ।। वाक्यार्थो हि भेदः संसर्गो वा । तदुभयमपि अखण्डे असङ्गे च तव ब्रह्मणि न सम्भवतीति स्फुटमेवेति हृदयम् ।। ७२० ।।
युक्तिमल्लिका
अतस्तत्साधयन्नेव तदूपमवसादयन् ।
साधकश्चासि तस्य त्वं बाधकश्चेति किं परैः ।। ७२१ ।।
सुरोत्तमटीका
अतः उक्तधर्माणामावश्यकत्वात्तन्निर्गुणं तद्रूपं निर्गुण-ब्रह्मस्वरूपम् । तस्य निर्गुणस्य । परैः प्रतिवादिभिः । किं किं कृत्यम् । तत्कार्यस्य सगुणत्व साधनस्य त्वयैव कृतत्वात् ।। ७२१ ।।
सत्यप्रमोदटीका
अतः मेयत्वादिगुणाभावसाधनाय मानानां उदाहर्तृ-त्वात् । वचनाभावसाधनाय वचनं प्रयुञ्जानस्य मूकस्येव स्वक्रियाविरोधा-पत्तेरिति भावः । साधयन्नेवेति अवसादनसमकालीनत्वं साधनस्य द्योत्यते । तेन ‘न तस्य हेतुभिस्त्राणं उत्पतन्नेव यो मृत’ इति आभाणकविषयतां सूचयति । साधकश्चासीत्यापाततः । वस्तुत आह बाधकश्चेति । चः एवार्थः । परैः परकर्तृकदूषणप्रयत्नैः । किं किं प्रयोजनम् । मृतमारणप्रयत्नेनेवेति भावः ।। ७२१ ।।
युक्तिमल्लिका
मृण्मयस्य हि लिङ्गस्य मञ्जनं रूपमार्जनम् ।
न चेत्प्रमाणशून्यत्वाद्गतमस्नेहदीपवत् ।। ७२२ ।।
सुरोत्तमटीका
तत्राभाणकमाह ।। मृण्मयस्य हीति ।। न चेत् धर्मागमनभीत्या प्रमाणं न कथ्यते चेत् ओहदीपवत् तैलशून्यदीपवत् । गतं निर्गुणमिति शेषः ।। ७२२ ।।
सत्यप्रमोदटीका
तत्राभाणकमाह मृण्मयस्येति । गतं निर्गुणत्वमिति शेषः । ओहदीपवत् तैलशून्यतैलदीपवत् । साधकाभावादेवेति भावः ।।७२२।।
युक्तिमल्लिका
ब्रह्मशब्देन चाप्युक्ता गुणबृंहिततैव हि ।
अतस्तत्पदयोश्च स्यात्परस्परविरुद्धता ।। ७२३ ।।
सुरोत्तमटीका
अतः एकस्य गुणपूर्णतावाचित्वात् अपरस्य तच्छून्यत्व-वाचित्वात् तत्पदयोर्निर्गुणब्रह्मपदयोः ।। ७२३ ।।
सत्यप्रमोदटीका
तिष्ठतु मानान्तरविरोधः ।। मे माता वन्ध्येतिवद्ब्रह्म निर्गुणमित्येतदपि पदयोरेव मिथो विरोधाज्जात्युत्तरस्याऽऽद्यं निदर्शनमित्याह ब्रह्मेति ।। ७२३ ।।
युक्तिमल्लिका
यदि ज्ञापनमात्रेण पुनस्तेषां निवृत्तता ।
(मानशक्तेः पुनः प्राप्त्या निर्गुणं ते कदाऽपि न) ।
तद्गानां ज्ञापकत्वे तु नोक्तदोषो निवर्तते ।। ७२४ ।।
सुरोत्तमटीका
तेषां (अनुमानादीनाम्) उक्तविधया तवैवावश्यक-मेयत्वादिधर्माणाम् । मानशक्तेः निर्गुणसाधकप्रमाणबलात् पुनःप्राप्त्या धर्मनिवृत्त्यै पौनः पुन्येन प्रमाणोक्तौ पुनःपुनर्धर्माणामेव प्राप्त्या कदापि न । तद्गानां निर्गुणब्रह्माश्रितानाम् । उक्तः सगुणत्वप्राप्तिलक्षणः । न निवर्तत इति सम्बन्धः। निर्गुणत्वस्य स्वसिद्ध्यर्थं मानमेयत्वादिधर्मोपजीवनान्न तन्निवर्तकता । उपजीवकस्योपजीव्यनिवर्तकत्वायोगात् । अन्यस्य च निवर्तकस्याभावात् । उक्तधर्मबलादागता सगुणता पुनर्न निवर्त्येति भावः ।। ७२४ ।।
सत्यप्रमोदटीका
‘निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेदि’ति अनु-व्याख्यानसुधोक्तदिशा चोद्यपरिहारौ दर्शयति यदीत्यादिभिः । निर्विशेषत्व-साधकमानोदाहरणे तन्मानमेयत्वरूपविशेषेणैव सविशेषत्वप्राप्तिरित्युक्तम् । तदाह ज्ञापन मात्रेणेति । एतद्विशेषनिवृत्तिर्न तावन्निर्विशेषत्वसाधनोपन्यस्त-पूर्वमानेनैव । तन्मानमेयत्वमुपजीव्यैव लब्धात्मनोपजीवकेन पुनस्तस्यैव निषेधायोगात् । अतस्तन्निवृत्तये मानान्तरमुपन्यसनीयम् । तेन च मानान्तर-मेयत्वरूपविशेषप्राप्तिरित्याह पुनरिति । तन्निवृत्तये चोक्तरीत्याऽगत्या पुन-र्मानान्तरम् । तेन च पुनस्तन्मेयत्वरूपविशेषापत्तिरिति कदाऽपि न निर्विशेषसिद्धिरित्याह कदेति ।
किं चैतद्विशेषनिषेधायोपन्यस्तमानमेयत्वादिकं ब्रह्मनिष्ठं अन्यनिष्ठं वा । नाद्यः तेनैव सविशेषत्वापत्तिरित्युक्तो दोष इत्याह तद्गानामिति ।। ७२४ ।।
युक्तिमल्लिका
अन्यगानां ज्ञापकत्वे ज्ञाप्यस्याप्यन्यनिष्ठता ।
असतो ज्ञापकत्वे स्याज्ज्ञाप्यमप्यसदेव हि ।। ७२५ ।।
सुरोत्तमटीका
अन्यगानामन्यनिष्ठानाम् । ज्ञाप्यस्य निर्गुणत्वस्य । साध्यसाधनयोरेकाश्रितत्वावश्यंभावात् । मिथ्यात्वात्तन्निवृत्तिरित्यत आह ।। असत इति ।। असतः मिथ्याभूतस्य । असन्मिथ्याभूतम् ।। ७२५ ।।
सत्यप्रमोदटीका
न द्वितीय इत्याह अन्येति । ज्ञाप्यस्य निर्विशेषत्वस्य । अन्यनिष्ठतेति । साध्यसाधनयोरैकाधिकरण्यनियमात् । न ह्यन्यस्य भोजनेन अन्यस्य तृप्तिः लौकिकी । अथ मानमेयत्वादिकं असदिति न तेन सविशेषत्व-मिति मन्यसे तर्हि तद्बलात्सिध्यन्निर्विशेषत्वमपि असदेव । असतोऽसाधकत्वस्य-प्रसिद्धेरित्याह हीति ।। ७२५ ।।
युक्तिमल्लिका
आरोपितेन धूमेन सिद्ध्येदारोपितोऽनलः ।
शूद्रीप्रसूतपुत्रस्य शूद्रता लोकसंमता ।। ७२६ ।।
सुरोत्तमटीका
तत्र दृष्टान्तमाह ।। आरोपितेनेति ।। दृष्टान्तान्तरं चाह ।। शूद्रीति ।। ७२६ ।।
सत्यप्रमोदटीका
मानमेययोः सत्त्वनियमे व्यतिरेकदृष्टान्तमाह आरोपितेनेति । कार्यकारणयोः सजातीयत्वनियमेऽन्वयदृष्टान्तमाह शूद्रीति
।। ७२६ ।।
युक्तिमल्लिका
व्यावहारिकसत्त्वं तु राजाऽश्वखुरताडनम् ।
सशेषबाधाद्यदतिक्रूरं निश्शेषबाधनम् ।। ७२७ ।।
ब्रह्मज्ञानेन बाधो हि सर्वबाधो भवन्मते ।
ब्रह्मप्रमाबाध्यता च व्यावहारिकसत्यता ।। ७२८ ।।
सुरोत्तमटीका
व्यावहारिकसत्त्वाङ्गीकारान्नोक्तदोष इति चेत् उक्तविधया साध्यनिर्गुणत्वस्यापि व्यावहारिकतापातात् । किंच बाधाविशेषे किमनेन व्यावहारिकत्वव्यपदेशमात्रेण । बहोर्बाधकादस्मादपि प्रातिभासिकाङ्गीकार एव श्रेयानित्याह ।। व्यावहारिकसत्त्वमिति ।। दुर्बलाश्वादपि प्रबलाश्वखुरताडनस्य बह्वनिष्टहेतुत्वादित्यभिप्रायेणोक्तम् ।। राजाश्वेति ।। तदेवोपपादयति ।। सशेषबाधादिति ।। ७२७,७२८ ।।
सत्यप्रमोदटीका
‘व्यवहारसतश्चापि साधकत्वं तु पूर्ववदि’त्यनु-व्याख्यानमनुरुध्याह व्यावहारिकेति । प्रातिभासिकं व्यावहारिकं चेति द्विधा मिथ्येति परमतम् । बाध उभयेषां समः । आद्ये ब्रह्मज्ञानेन । द्वितीये तदितरेण । तत्स्वरूपविवेचने तयोराद्योऽतिक्रूर इत्याह निःशेषेति । सत्यत्वेन प्रमितवियदाद्यशेषप्रपञ्चेत्यर्थः । द्वितीये तु नैवमित्याह सशेषेति । मिथ्यात्वेनोभयसंमताप्रामाणिकरूप्यादीत्यर्थः । राजाश्वो ब्रह्म, खुरस्तज्ज्ञानं, तेन बाधस्ताडनम् । तेन सर्वदेहवियोग एव । अन्याश्वखुरताडने तु बाधयोग्यस्यावयवैकदेशस्यैव । इदं च पररीत्यैव । ब्रह्मज्ञानेन निवर्तमानस्य बन्धादिप्रपञ्चस्य सुतरां सत्यत्वस्यैव सिद्धेः । तदुक्तं ‘इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते’ इति । तदाह भवन्मते इति । न वस्तुत इति भावः
।। ७२७, ७२८ ।।
युक्तिमल्लिका
त्रिकालासत्त्वसाम्ये तु किं ज्ञानान्तरतः फलम् ।
परप्रतारणेन स्याद्दोषोऽधिकतरस्तव ।। ७२९ ।।
सुरोत्तमटीका
परप्रतारणेन बाधितत्वेन मिथ्याभूतार्थस्यैव सत्यमिति व्यपदेशरूपपरप्रतारणेन ।। ७२९ ।।
सत्यप्रमोदटीका
साम्ये तुच्छव्यवहारसतोरिति शेषः । ज्ञानान्तरेति ब्रह्मज्ञानेत्यर्थः । फलं सत्त्वसिद्धिरूपम् । असत एव व्यावहारिकेति मायिनां परिभाषा । तया सिध्यत्सत्त्वमपि परिभाषिकमेव । अङ्गीकृतं चैतत्परैरेव । यथोक्तं ‘बाध्यविषये च व्यावहारिकप्रामाण्यमिति व्यवहारस्याद्वैतिपरिभाषा-मात्रसिद्धत्वादि’ति कल्पतरुपरिमे ।। न चेत्सत्त्वसिद्धिः परपरिभाषया, किं तर्हि तत्फलमित्यत आह परप्रतारणेति । ‘ततो भूय इव तमो य उ विद्यायां रता’ इति श्रुत्यनुशिष्टं प्रतारणेनाधिकदोषेणातिघोरं तम एवेति भावः । अधिकतरं इतरेभ्योऽधिकाच्छून्यवादिनोऽपि सकाशादिति शेषः ।। ७२९ ।।
युक्तिमल्लिका
किं च बाधस्य बाध्यत्वे गुणानां स्यादबाध्यता ।
बाधस्याबाध्यतायां तु सदद्वैतमतं गतम् ।। ७३० ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। किंचेति ।। बाधस्य गुणबाधस्य ।। ७३० ।।
सत्यप्रमोदटीका
मिथ्यात्वं मिथ्या सत्यं वा । आद्ये गुणानां अतिशयेन सत्त्वसिद्धिरित्याह बाधस्येति । द्वौ नञाविति न्यायात् । विमता गुणाः सत्या मिथ्याभूतमिथ्यात्वकत्वात् ब्रह्मवत् इति न्यायामृतदर्शितः प्रयोगोऽनुसन्धेयः । द्वितीयेऽपसिद्धान्त इत्याह सदिति । न तु मिथ्यात्वनिषेधमात्रे तात्पर्यम् । तेन न नित्यसमजात्युत्तरमिति शङ्कावकाशः । विस्तरो न्यायामृते सामान्यतो मिथ्यात्वभङ्गे ।। ७३० ।।
युक्तिमल्लिका
तस्यापि ब्रह्मरूपत्वे पुनर्धर्मित्वमापतेत् ।
जडत्वं भावसापेक्षप्रतीतित्वमभावता ।
इत्याद्यभावधर्माणां ब्रह्मण्येव प्रसक्तितः ।। ७३१ ।।
सुरोत्तमटीका
तस्य अबाध्यस्याऽभावरूपबाधस्य । धर्मित्वं ब्रह्मण इति शेषः । इत्यादीत्यत्रादिपदेन पदार्थत्वसाधिकरणत्वज्ञेयत्वादीनां ग्रहणम् । अभाव धर्माणां अभावाश्रितधर्माणाम् । प्रसक्तितः ब्रह्मण एवाभावरूप-त्वाङ्गीकारात् ।। ७३१ ।।
सत्यप्रमोदटीका
ननु नापसिद्धान्तो गुणाभावस्य ब्रह्मस्वरूप-त्वाङ्गीकारादित्याशङ्कते तस्येति । परिहरति पुनरिति । गुणनिषेधायोपक्रम्य सत्यस्य गुणाभावस्यैव ब्रह्मस्वरूपगुणत्वाभ्युपगमे घट्टकुटीवृत्तान्त इति भावः । नैष दोषः । ‘अभावधर्मा नाद्वैतं घ्नन्ति’ इति मण्डनमिश्रोक्तेरिति चेत् तदङ्गीकारेऽनेकभावाङ्गीकारस्य बलादापातादित्याह जडत्वमिति । अभाव-धर्माणां अभावाश्रितानां भावधर्माणाम् ।। ७३१ ।।
युक्तिमल्लिका
अभावधर्मशून्यत्वे निषेधत्वं च तस्य न ।
निषेधप्रतियोगित्वं गुणानां नेत्यबाध्यता ।। ७३२ ।।
सुरोत्तमटीका
अभावधर्मशून्यत्वे उक्ताभावत्वप्रयोजकधर्मशून्यत्वे । निषेधत्वं गुणनिषेधरूपाभावत्वम् । ततः किमित्यत आह ।। निषेधेति ।। निषेधप्रतियोगित्वं नेति हेतोः गुणानामबाध्यता स्यादित्यर्थः ।। ७३२ ।।
सत्यप्रमोदटीका
ननु तर्हि अभावधर्मा नाङ्गीक्रियन्ते । अतो नोक्तापत्तिरित्यत आह अभावेति । तस्य ब्रह्मणः । गुणानामित्युत्तरत्रापि सम्बन्धः । तस्य गुणाभावत्वासिद्धिः तस्य गुणानां निषेधासिद्धिश्च ।। ७३२ ।।
युक्तिमल्लिका
बो(बा)ध्यं चेन्निर्गुणत्वं स्यान्निर्गुणत्वं न सिद्ध्यति ।
न (बा)बोध्यं निर्गुणत्वं चेन्निर्गुणत्वं न सिद्ध्यति ।। ७३३ ।।
सुरोत्तमटीका
उक्तार्थं संकलय्याह ।। बोध्यं चेदिति ।। बाध्यमिति पाठे तु प्रकारान्तरेणापि निर्गुणत्वं दुर्वचमित्याहेति संगतिः । आद्ये स्वविरोधि भूतनिर्गुणत्वाभावात् सगुणत्वसिद्धिः । द्वितीये अबाधितनिर्गुणत्वाख्यधर्मेणैव सगुणत्वसिद्धिरित्यर्थः । न सिध्यति उक्तविधया मेयत्वादिधर्माणां प्राप्तेः । पक्षान्तरे तु प्रमाणाभावादित्युभयत्राप्येकमेव दूषणम् ।। ७३३ ।।
सत्यप्रमोदटीका
बोध्यमिति । बोध्यत्वेनैव सगुणत्वप्राप्तेः । नेति । प्रमाणाभावादेव । बाध्यमिति पाठे आद्ये प्रमाणाभावात् द्वितीये निर्गुणत्वस्यैव गुणतया प्राप्तेरिति भावः ।। ७३३ ।।
युक्तिमल्लिका
अतश्शुभगुणाम्भोधिर्हरिः सर्वेश्वरेश्वरः ।
ततः परतरं नान्यदिति सर्वं मनोरमम् ।। ७३४ ।।
सुरोत्तमटीका
उक्तार्थमुपसंहरति ।। अत इति ।। ७३४ ।।
सत्यप्रमोदटीका
अन्यत् । हिरण्यगर्भादिः पराभिमतं निर्गुणं वा ।। ७३४ ।।
युक्तिमल्लिका
एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।
कुपथं तं विजानीयाद्गोविन्दरहितागमम् ।। ७३५ ।।
सुरोत्तमटीका
किं बहुना भारतस्थैकपद्येनैव सर्वोऽपि माध्वराद्धान्त-स्सिद्ध्यतीत्याह ।। एष इति ।। अतः गोविन्दरहितागमस्य कुमार्गत्वा-त्परोदीरितनैर्गुण्यमतस्य च गोविन्दरहितागमत्वात् निर्मूलं कुमतस्यार्था-साधकत्वात् । अवैष्णवपुराणानां शैवब्राह्मपुराणानाम् । अवैष्णवमतस्य पाशुपतादिमतस्य । अवैष्णवश्रुतीनां रुद्रादिविषयत्वेन तैरङ्गीकृतश्रुतीनां च
।। ७३५-७३७ ।।
सत्यप्रमोदटीका
एष इति भीष्मस्य युधिष्ठिरं प्रति भारतवाक्यम् ।। पन्था आगमः मतं वा । सम्पूज्यते परतरत्वेन प्रतिपाद्यते । गोविन्द-रहितागमं उक्तविरुद्धार्थप्रतिपादकं तदुदासीनं वा ।। ७३५ ।।
युक्तिमल्लिका
इति भारतवाक्यं हि गोविन्दरहितागमम् ।
कुपथं वक्त्यतोऽप्यासीन्निर्मूलं निर्गुणं तव ।। ७३६ ।।
सत्यप्रमोदटीका
निर्मूलं साधकरहितं बाधित्तं च ।। ७३६ ।।
युक्तिमल्लिका
अवैष्णवपुराणानामवैष्णवमतस्य च ।
अवैष्णवश्रुतीनां न कुपथ्वमभूदहो ।। ७३७ ।।
सत्यप्रमोदटीका
अवैष्णवपुराणानां तथा प्रतीयमानानाम् । एव-मवैष्णवश्रुतीनामित्यत्रापि ज्ञेयम् । कुपथत्वं पातनिकार्थेऽप्रामाण्यम् । अवैष्णवमतानां तु दुर्मार्गत्वमेव । तदुक्तं ‘वेदवेदानुसारेषु विरोधेऽन्यार्थ-कल्पना । इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि’ इति व्यासस्मृतौ ।। ७३७ ।।
हरेर्भिन्नत्वपूज्यत्वस्वामित्वप्रतिपादिका ।
निष्कण्टका माध्वशुद्धपद्धतिश्चेति सिद्ध्यति ।। ७३८ ।।
सुरोत्तमटीका
पूज्यत इत्युक्त्या हरेः पूज्यत्वस्य पूज्यपूजकभावोप-युक्तभेदस्य पूज्यत्वप्रयोजकस्वामित्वस्य च लाभात् सिद्धमर्थमाह ।। हरेरिति ।। ७३८ ।।
सत्यप्रमोदटीका
समित्युपसर्गार्थकथनं भिन्नेत्यादिकम् ।। ७३८ ।।
युक्तिमल्लिका
सम्यक्त्वार्थोपसर्गोऽसावसम्यक्त्वं निषेधति ।
सत्योऽभूत्तेन भेदादिरस्तं तत्समपूजनम् ।। ७३९ ।।
सुरोत्तमटीका
संपूज्यत इत्यत्र समित्युपसर्गलब्धार्थमाह ।। सम्यक्त्वेति ।। तेन मिथ्यात्वरूपासम्यक्त्वनिषेधेन भेद पूज्यत्वस्वामित्वादि-स्सत्योऽभूत् । तस्य हरेः रुद्रादिसाम्येन पूजनं अस्तं निराकृतम् । हरेरेव सम्यक्पूज्यत्वोक्त्या तदितरेषां अतादृशपूजाविषयत्वलाभात् । एतावन्तमर्थमेकमेव पद्यं वक्तीत्यहो इत्युक्तम् ।। ७३९ ।।
सत्यप्रमोदटीका
असम्यक्त्वं अभेदं समाधिकोपेतत्वं च ।। अस्तं निरस्तम् ।। ७३९ ।।
युक्तिमल्लिका
शैवं ब्राह्मं वैष्णवं च पुराणमखिलं यतः ।
अतस्तेभ्यः पुराणेभ्यो यद्बहिस्तच्छतेर्बहिः ।। ७४० ।।
सुरोत्तमटीका
प्रकारान्तरेण निर्गुणस्य पुराणवेदबहिर्भूतत्वं प्रदर्शयति ।। शैवमित्यादिना ।। यतः अखिलमष्टादशात्मकं पुराणं शैवं ब्राह्मं वैष्णवं च शिवब्रह्मविष्ण्वाख्यत्रिदेवताविषयम् । अतस्सर्वपुराणानां त्रिदेवताविषयत्वात् यन्निर्गुणं पुराणेभ्यो बहिः तन्निर्गुणं श्रुतेरपि बहिः । पुराणश्रुत्योरैकार्थ्य-नियमात् ।। ७४० ।।
सत्यप्रमोदटीका
यत् त्रिदेवताभिन्नं त्वदभिमतं निर्गुणम् । बहिः अप्रतिपाद्यम् । तत् निर्गुणम् । श्रुतेः बहिः । पुराणानामपि पञ्चमवेदत्व-प्रमितेः । वेदानां च ‘गतिसामान्यादि’ति सूत्रानुसारेणैकार्थत्वाच्चेति भावः ।। ७४०, ७४१ ।।
युक्तिमल्लिका
ब्रह्मविष्णुशिवेभ्योऽपि ह्यन्यद्ब्रह्म मतं तव ।
न हि लोकस्य संमत्या पुराणं तत्र किञ्चन ।। ७४१ ।।
सुरोत्तमटीका
तव ब्रह्म निर्गुणम् । त्रेधा विभाजकलोकसंमत्या । तत्र निर्गुणे ।। ७४१ ।।
युक्तिमल्लिका
षट्कं षट्कं पुराणानां राजसं तामसं किल ।
षट्कं तु विष्णुविषयं सात्विकं मोक्षदं किल ।। ७४२ ।।
सुरोत्तमटीका
प्राक्सर्वाणि पुराणान्यङ्गीकृत्यनिर्गुणं बहिष्कृतम् । अधुना तानि विविच्य विष्णोरेवोत्तमतां श्रौततां साधयन्नाह ।। षट्कं षट्कमिति ।। किलेत्यनेन पौराणिकीं प्रसिद्धिं द्योतयति ।। ७४२ ।।
सत्यप्रमोदटीका
किलेति प्रमाणप्रसिद्धमित्यर्थः ।। ७४२ ।।
युक्तिमल्लिका
पाद्मस्य पूर्वकाण्डस्तु पूर्वपक्षो भवेद्ध्रुवम्
यतः पञ्चपुराणेभ्यस्सात्विकेभ्यो बहिष्कृतः ।। ७४३ ।।
सुरोत्तमटीका
सात्विकत्वेनोक्तपद्मपुराणपूर्वकाण्डस्य शैवत्वात् कथं निर्णय इत्यत आह ।। पाद्मस्येति ।। ध्रुवमित्यनेन पूर्वकाण्डपूर्वपक्षपदयोः उत्तरकाण्डोत्तरपक्षपदयोस्समानार्थकत्वलक्षणयुक्तिं सूचयति । युक्त्यन्तरं चाह ।। यत इति ।। पञ्चपुराणेभ्यः ईदृग्विभागरहितेभ्यः केवलसात्विकेभ्यो बहिष्कृतः तदर्थविरुद्धार्थवादी ततोऽपि पूर्वपक्ष इति सम्बन्धः।।७४३ ।।
सत्यप्रमोदटीका
ध्रुवं पूर्वेति नामसाम्येन अर्थपर्यालोचनया च ।। ७४३ ।।
युक्तिमल्लिका
विस्तरोऽस्य प्रमेयस्य ह्युत्तरत्र भविष्यति ।
तत्सात्विकपुराणोक्तो विष्णुर्ब्रह्म स्मृतेर्बलात् ।। ७४४ ।।
सुरोत्तमटीका
तच्छैवब्राह्मपुराणानां तामसराजसत्वात् । स्मृतेस्सात्विक पुराणरूपस्मृतेः ।। ७४४ ।।
सत्यप्रमोदटीका
तत् सात्विकषट्कस्य वैष्णवनाम्ना प्रसिद्धेः ।।७४४।।
युक्तिमल्लिका
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति ।। ७४५ ।।
सुरोत्तमटीका
तस्मात्सात्विकपुराणानुसारेण भारतानुसारेण श्रुते-र्योजनीयत्वात् ।। ७४५,७४६ ।।
सत्यप्रमोदटीका
इतिहासपुराणाभ्यां उक्तदिशा तत्प्रतिपाद्यविष्ण्वा-धिक्यानुसारेण । समुपबृंहयेत् तत्परतया योजयेत् । प्रचलिष्यति प्रचालयिष्यति
।। ७४५ ।।
युक्तिमल्लिका
इति स्मृतेस्सत्पुराणभारतोक्तप्रकारतः ।
यच्छ्रुतेर्योजना तस्माद्विष्णुर्ब्रह्म श्रुतेर्बलात् ।। ७४६ ।।
सत्यप्रमोदटीका
ब्रह्म परं ब्रह्म । तदुक्तं ‘विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि । तानि योज्यान्यानुकूल्याद्विष्ण्वाधिक्यस्य सर्वशः’ इति ।। ७४६ ।।
युक्तिमल्लिका
वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुस्सर्वत्र गीयते ।। ७४७ ।।
सुरोत्तमटीका
पूर्वं श्रुतिस्मृत्योरैकार्थ्यरूपयुक्तितश्च श्रौतत्वं विष्णो-रानीतम् । अधुना साक्षात्स्मृत्यैव तत्साधयन् श्रुत्यन्तःपातिनिर्गुणवाक्य-स्यापि विष्णुप्रतिपादकतैवेत्याह ।। वेद इत्यादिना ।। ७४७-७४९ ।।
सत्यप्रमोदटीका
श्रुतीस्मृतीनामैकार्थ्ये, विष्णुपरत्वे च स्पष्टां श्रुतिमाह वेद इति । गीयते परममुख्यवृत्त्या सर्वोत्तमत्वेनेत्यर्थः । अङ्गीकृतं चैतन्मायि-भाष्यकारेणापि, ‘भारभृत्कथितः’ इति विष्णुसहस्रनामव्याख्यानावसरे इदमेव स्मृतिवाक्यमुदाहृत्य वेदादिभिः इममेव परत्वेन व्याकुर्वता । अतो न क्वापि निर्गुणोक्त्यवसरः ।। ७४७ ।।
युक्तिमल्लिका
मां विधत्तेऽभिधत्ते मां विकल्प्योपोह्य इत्यहम् ।
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन ।
वेदैश्च सर्वैर्वेद्योऽहमेवेत्यवदधार हि ।। ७४८ ।।
पूर्वाद्भारतवाक्याच्च पराद्भागवतोदितात् ।
स्पष्टगीतोक्तितस्सर्ववेदार्थो विष्णुरेव हि ।। ७४९ ।।
सत्यप्रमोदटीका
मामिति श्रीकृष्णस्योद्धवं प्रति भागवतवाक्यम् । ‘वेदैश्च सर्वैरहमेव वेद्यः’ इति गीतावाक्यम् । एवकारेण तदन्यत्र महातात्पर्य-व्यवच्छेदः ।। ७४८, ७४९ ।।
युक्तिमल्लिका
वेदमध्यगता निर्गुणोक्तिरप्याह तं प्रभुम् ।
निर्गुणो निष्कलोऽनन्तोऽभयोऽचिन्त्योऽचलोऽच्युतः ।
इति विष्णोर्दिव्यनामसहस्रे पठनादपि ।। ७५० ।।
सुरोत्तमटीका
विष्णोर्दिव्यनामसहस्रे पठनात् निर्गुणोक्तिः तं विष्णु-माहेति सम्बन्धः । निर्गुणनाम्ना यश्शिवेन स्तूयते स एव निर्गुणश्रुतेरर्थो न पराभिलषितनिर्गुण इति भावः ।। ७५० ।।
सत्यप्रमोदटीका
सहस्रनामसु शिवेन निर्गुणनाम्ना विष्णोः कीर्तनादप्येव मित्याह निर्गुण इति ।। ७५० ।।
युक्तिमल्लिका
श्रुत्याख्यराजकन्या यत्सर्वा स्मृतिसखीवशा ।
अतस्तदुक्तमार्गेण सा व्रजेन्न त्वदुक्तितः ।। ७५१ ।।
सुरोत्तमटीका
इतिहासपुराणाभ्यां वेदं समुपबृंहयेदित्युक्त्या यद्यस्मा-त्कारणात् स्मृतिसखीवशेति सम्बन्धः । अत स्सखीवशत्वात् तदुक्तमार्गेण स्मृत्युक्तमार्गेण स्मृत्या तवायमर्थ इत्युक्तमार्गेण । सा श्रुतिः ।। ७५१ ।।
सत्यप्रमोदटीका
वशेत्यनेन स्मृतीनां सर्वज्ञप्रणीतानां व्याख्यानरूपत्वेन प्राबल्यमभिप्रैति । व्याख्यानरूपस्योपसंहारस्योपक्रमात्प्राबल्यस्य स्थितेः ।। न त्वदुक्तित इति । दुरागमैरापातप्रतीतितो वा न तात्पर्यनिर्णयः ।। ७५१ ।।
युक्तिमल्लिका
किञ्चाखण्डार्थवादं ते स्मर वाक्यं पदानि च ।
यत्र स्वार्थविशिष्टार्थपरं नैव हि किञ्चन ।। ७५२ ।।
सुरोत्तमटीका
निर्गुण इति सामान्यतस्सकलगुणनिषेधकनिर्गुणोक्ते-स्त्रिगुणवर्जितत्वरूपसङ्कुचितार्थकथनेन कथं विष्णुविषयतेति शङ्कां निराकर्तु-माह ।। किं चेति ।। ७५२ ।।
सत्यप्रमोदटीका
ऐक्यं निर्गुणत्वं वा श्रुत्यर्थो मायावाद्यभिमताखण्डार्थ-वादे नैव सम्भवतीत्याह किञ्चेति । अखण्डार्थवादं ते त्वदुक्तं तल्लक्षणं
‘संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् ।
उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता’
इत्येवं रूपम् । यत्र वादे । वाक्यं वाक्यार्थभूतैक्यपरस्तत्त्वमस्यादिभागः । पदानि पदार्थपरः ‘सत्यं ज्ञानमनन्तमि’त्यादिभागः । स्वार्थविशिष्टार्थपरं नैव सप्रकारकबोधजनकं नैव सम्भवति । स्वरूपमात्रपरत्वाङ्गीकारात् ।। ७५२ ।।
युक्तिमल्लिका
यस्मात्त्वदुक्तवाक्यार्थस्त्वयैव त्याजितोऽखिलः ।
तस्मादैक्यं नैव सिद्ध्येन्निर्गुणत्वादिकं च ते ।। ७५३ ।।
सुरोत्तमटीका
तस्मात्त्वदुक्तवाक्यार्थस्य त्वयैव त्याजितत्वात् ।।७५३।।
सत्यप्रमोदटीका
वाक्यार्थः संसर्गः । अखिलः द्विधा विभक्तः सर्वोऽपि वेदान्तः ।। ७५३ ।।
युक्तिमल्लिका
इत्थं ह्यनशनेनैव श्रुतीस्त्वं तु जिघांससि ।
सत्यं कदशनेनापि नित्या सा वाग्जिजीविषेत् ।। ७५४ ।।
सुरोत्तमटीका
अनशनेन अर्थाभावलक्षणेन । जिघांससि वैयर्थ्यरूप-हिंसां कर्तुमिच्छसि । संकुचितः असंकुचितो वा कोऽप्यर्थो नास्तीति वदसीति भावः। कदशनेन संकुचितार्थकथनरूपेण । अनशनात्कदशनं वरमिति न्यायात् । जिजीविषेत् स्ववैयर्थ्यरूपाप्रामाण्यं परिहर्तुमिच्छेत् । एतत्सत्यम् । नित्येत्यनेनापौरुषेयतयाऽप्रामाण्यलेशस्यायोग्यतां सूचयति ।। ७५४ ।।
सत्यप्रमोदटीका
इत्थं निप्प्रकारकबोधजनकत्वाङ्गीकारेण । अनशनेन ज्ञानत्वव्यापकसप्रकारकत्वस्यैवापलापेन । जिघांससि तत्स्वरूपमेवापलपसि । व्याप्यस्य ज्ञानत्वस्यैव निवृत्त्या ज्ञानजनकत्वस्यैवापलापेन वाक्यत्वमेव दुर्घटं प्रमाणवाक्यत्वं तु सुतरामिति भावः । नित्या वाक् स्वतःप्रमाणभूता । कदशनेन सादृश्याद्यैक्यबोधनेन ।। ७५४ ।।
युक्तिमल्लिका
सर्वथाऽर्थपरित्यागात्सङ्कोचं को न मानयेत् ।
अतो निर्गुणवाग्वव्रे हरिं त्रिगुणवर्जितम् ।। ७५५ ।।
सुरोत्तमटीका
फलितमाह ।। सर्वथेति ।। उपसंहरति ।। अत इति ।। अतस्संकोचस्य न्याय्यत्वात् ।। ७५५ ।।
सत्यप्रमोदटीका
गौणीं वृत्तिमुपेत्य कदशनेनेत्युक्तम् । वस्तुतस्तु निर्गुणपदस्य त्रिगुणवर्जितत्वं मुख्यार्थ एवेत्याह सर्वथेति । मुख्यार्थस्या-परित्यागेन सङ्कोचमात्रस्य कदशनत्वाभावात् ।। ७५५ ।।
युक्तिमल्लिका
विमतः परमो मुक्तः परमात्मा घटादिवत् ।
मुक्तत्वाद्भावधर्माणामपि धर्मीत्यबाधिता ।
अनुमा सगुणब्रह्मसाधिका बाधिका तव ।। ७५६ ।।
सुरोत्तमटीका
व्यावहारिकतयासिद्धसाधनत्वादिशङ्कां गर्भस्रावेण निवारयन्परममुक्तं परमात्मानं पक्षीकृत्य तस्य सगुणत्वेऽनुमानमाह ।। विमत इति ।। अत्र परमो मुक्तः परमात्मेति पक्षः । भावधर्माणां धर्मीति साध्यं मुक्तत्वादिति हेतुः । घटादिवदिति दृष्टान्तः ।। ७५६ ।।
सत्यप्रमोदटीका
विमतः परमात्मा, भावधर्माणां धर्मी, मुक्तत्वात् घटवत् इति युक्त्याऽपि सगुणत्वं साधयति विमत इति ।। अपिपदेना-भावधर्मधर्मित्वस्याभावद्वैतवादिना परणैवाङ्गीकारान्न तस्य साध्यत्वमिति सूचितम् ।। अबाधिता उपलक्षणम् । निर्दोषेत्यर्थः ।। ७५६ ।।
युक्तिमल्लिका
बन्धाभावाधिकरणो मुक्तो ह्यत्र विवक्षितः ।
बन्धश्च चेतनस्यैव न घटे नापि मोचिते ।। ७५७ ।।
सुरोत्तमटीका
मुक्तत्वहेतोरसिद्ध्यादिकं परिहर्तुं विवेचयति ।। बन्धा-भावाधिकरण इत्यारभ्य मुक्ते बन्धाभावं न को वदेदित्यन्तेन
।। ७५७-७५८ ।।
सत्यप्रमोदटीका
अभावेति । अत्यन्ताभावेत्यर्थः । तेन न दृष्टान्तः साध्यविकलः इत्याह बन्धश्चेति । नाप्यसिद्धिरित्याह मोचित इति । नित्यमुक्ते इत्यर्थः । मुक्तमात्रे तु बन्धध्वंस एव ।। ७५७ ।।
युक्तिमल्लिका
अभावद्वैतवादे ते कथं नाभावधर्मिता ।
अव्याहतमतिर्मुक्ते बन्धाभावं न को वदेत् ।। ७५८ ।।
सत्यप्रमोदटीका
अभावद्वैतवादे बन्धात्यन्ताभाववत्त्वरूपमुक्तहेतोर्ना-सिद्धिः शङ्कार्हेत्याह त इति । अभावधर्मिता अभावधर्मवत्वरूपहेतोः पक्षवृत्तित्वम् । केनापि नासिद्धिः शङ्कार्हा मुक्तत्वस्य प्रमितत्वाद्भगवतीत्याह अव्याहतेति ।प्रमाणे गौरवयुक्तेत्यर्थः।।७५८ ।।
युक्तिमल्लिका
मुक्तत्वं नास्ति चेत्तर्हि बद्धत्वेनैव धर्मवान् ।
बद्धपूरुषवत्स्याद्धि व्याहतिस्तु तवाधिका ।। ७५९ ।।
सुरोत्तमटीका
एवमपि चक्षुषीनिमील्य मुक्तत्वाभावं वदन्तं प्रति चेतनस्य सतो मुक्तत्वाभावे बद्धत्वावश्यंभावेन तदेव हेतुस्स्यादित्याह ।। मुक्तत्वं नास्ति चेदिति ।। व्याहतिरित्यत्र मुक्त इत्यङ्गीकृत्य पुनर्मुक्तत्वा-भावाङ्गीकारादेका मुक्तस्य बद्धत्वाङ्गीकारादपरा चेति व्याहतिद्वयं द्रष्टव्यम् ।। ७५९ ।।
सत्यप्रमोदटीका
अस्तु व्याहतिः । मुक्तत्वं न मया स्वीक्रियत इति वदन्नुपेक्षणीय एव । तुष्यत्विति न्यायेनाह तर्हीति । बन्धाभावाभावो बन्ध एव । अभावाभावस्य भावरूपत्वात् । तथा च त्वदभ्युपेतं बद्धत्वमेव हेतूकृत्य पूर्वोक्तं साध्यत इत्याह धर्मवान् इति । भावधर्मवानित्यर्थः । तर्हि दृष्टान्तः साध्यविकल इत्यतोऽत्रपक्षेऽन्य एव दृष्टान्त इत्याह बद्धेति । व्याधिर्न शान्तः लशुनभक्षणं पापं तु तवाधिकमित्याह व्याहतिरिति ।। ७५९ ।।
युक्तिमल्लिका
पराङ्गीकारसिद्धेन हेतुना परदूषणम् ।
भक्तेषु करुणाबन्धबद्धस्तु स्यान्ममापि हि ।। ७६० ।।
सुरोत्तमटीका
स्वमते बद्धत्वहेतोरसिद्धिमाशङ्क्य द्वेधा परिहरति ।। पराङ्गीकारेत्यादिना ।। ७६० ।।
सत्यप्रमोदटीका
ननु बद्धत्वं भवदसिद्धमित्यत आह परेति । तर्को दूषणानुमानप्रभेदः । तत्र च न स्वमतेन सिद्धिरपेक्षिता । ‘पराभ्युपगममात्रस्य तत्र सिद्धिपदार्थत्वादि’ति पद्धत्युक्तेः । साधनानुमानत्वेऽप्याह भक्तेष्विति । तदुक्तं भागवते ‘प्रणयरशनया धृतांघ्रिपद्मः’ इति । लोकोऽपि ‘प्रेमरज्जुकृत-बन्धनमन्यदि’ति ।। ७६० ।।
युक्तिमल्लिका
नोभयं चेद्द्वयाभावाद्भावधर्मी घटादिवत् ।
बन्धो बन्धध्वंसरूपमुक्तत्वं च न यत्परे ।
नित्यमुक्ते नापि घटे ततः का मे क्षतिर्वद ।। ७६१ ।।
सुरोत्तमटीका
बद्धत्वं मुक्तत्वं चोभयं नास्तीति वदन्तं प्रत्याह ।। नोभयं चेदिति ।। द्वयाभावाद्बद्धत्वमुक्तत्वयोरनधिकरणत्वात् । बन्धाभावं वदतैव पुनस्सामान्यतो बन्धाभावरूपमुक्तत्वाभावो न वक्तुमुचितः व्याहतेः । अतो बन्धध्वंसरूपमुक्तत्वाभावो वक्तव्यः । तत्र हेतोस्सिद्धिप्रकारमाह ।। बन्ध इति ।। यत् यस्मात् । ततः पक्षदृष्टान्तयोरनुपपत्त्यभावात् । एवं मुक्तत्वहेतौ यद्यत्परेण दूषणमुदितं तत्तत्सर्वं हेतूकृत्यं चमत्कारो दर्शितः ।। ७६१ ।।
सत्यप्रमोदटीका
उभयं बद्धत्वं बन्धध्वंसलक्षणमुक्तत्वं च । आदिपदेन जडं पटादिकम् । क्षतिः । असिद्धिः साधनवैकल्यं वा ।। ७६१ ।।
युक्तिमल्लिका
अभावाधारत्वतो वा भावधर्मी कपालवत् ।
समस्तधर्माभावेऽपि ह्यभावाधारता दृढा ।। ७६२ ।।
सुरोत्तमटीका
हेत्वन्तरं चाह ।। अभावाधारत्वत इति ।। अत्रापि पक्षः पूर्वोक्त एव । हेतोरसिद्धिमनैकान्त्यं च परिहरति ।। यतश्चेति ।। अभावरूपः अभावघटितः । अभावद्वैतवादे चास्य हेतोः परेणाप्यङ्गी-कृतत्वान्नासिद्धिः । यतश्च साध्यं विना गच्छति सद्य्भामेवाभावो निरूप्यत इति न्यायेनाभावाधिकरणस्य सत्त्वाख्यभावरूपधर्मवत्त्वनियमः ततो नानैकांत्यं चेति भावः
।। ७६२,७६३ ।।
सत्यप्रमोदटीका
किं च भावधर्मधर्मित्वं साध्यं केवलान्वयि । अतो व्याभिचारशङ्काया एवाप्रसरात् हेतौ विशेषणोपादानं निष्प्रयोजनमित्युपेत्याह अभावाधारत्वत इति । अभावे प्रतियोगितया बन्धो न निवेश्यते । न वा प्रागभावादि विशेषो विवक्ष्यते ।। पक्षादिकं प्राग्वदेव ।। ७६२ ।।
युक्तिमल्लिका
यतश्चाभावरूपोऽसौ विना साध्यं न गच्छति ।
अतो नासिद्धिशङ्काऽस्य नानैकान्त्यं च कुत्रचित् ।। ७६३ ।।
सत्यप्रमोदटीका
न च पक्षे हेत्वभावः । हेत्वभावाधारत्वस्य प्राप्त्या तत एव हेतुसिद्धेः । नापि व्यभिचारः । अभावानां चतुर्णामपि अधिकरणस्य सत्त्वनियतेर्भेदसौरभे व्युत्पादयिप्यमाणत्वेन सत्त्वरूपभावधर्मित्वव्यभिचारस्या-शक्यशङ्कत्वात् । एतदाह यत इति ।। ७६३ ।।
युक्तिमल्लिका
गच्छन्स्वाभावदो यस्मात्तिष्ठंश्च स्वाश्रयत्वकृत् ।
गान्धर्वोद्वाहशीलस्य कुत्र स्याद्व्यभिचारिता ।। ७६४ ।।
सुरोत्तमटीका
प्रकारान्तरेणोक्तदोषद्वयं परिहरति । गच्छन्निति । यस्माच्च गच्छन् असिद्धर्थं पक्षं विहायान्यत्र गच्छन् स्वाभावदः पक्षे स्वाभाव-संपादकः । तिष्ठन्यत्र कुत्रापि तिष्ठन् स्वाश्रयत्वकृत् हेतोस्स्वस्थाश्रयत्वकृत् आश्रयत्वरूपभावधर्मं स्वाधिकरणे कुर्वन् । अतो हेत्वपगमे स्वाभावस्थापनेनैव अभावाधारत्वहेतोः पौनःपुन्येन च्छिद्यमानरावणशिरोवत् स्थिरीकणात् साध्याभाववति हेतुसत्त्वेन यत्रानैकान्त्यं परेणोच्यते तत्र तत्र स्वाश्रयत्व-रूपभावधर्मधर्मित्वस्य च स्थिरीकरणान्नासिद्धिशङ्का नानैकान्त्यं चेति पूर्वे-णान्वयः । अनैकान्त्याभावे दृष्टान्तमाह ।। गान्धर्वेति ।। मिथस्समयं कृत्वोपगच्छेत सगान्धर्व इति गान्धर्वविवाहलक्षणम् । समयाभावे सङ्गम एव न । समये सति विवाह एवेतिवत् हेत्वभावे व्यभिचार एव न । हेतुसत्त्वे च साध्यस्यापि सत्वनियमात् कुतो व्यभिचार इति भावः ।। ७६४ ।।
सत्यप्रमोदटीका
किं च तिष्ठतु सत्त्वम् । अभावाधारत्वं हेतुरेव भावधर्मः । तथा च यत्र क्वचिद्धेतुसद्भावे साध्यसद्भावोऽपि अतो न व्यभिचारः । तदभावे तु सुतरां नेति न सर्वथा व्यभिचारावकाश इति प्रमेयमनुरूपदृष्टान्तोक्त्या साहित्यमुद्रया रञ्जयति तिष्ठन्निति गान्धर्वेति च । समयेन स्त्रीपुंसयोगो गान्धर्वविवाहः । विवाहाभावेऽपि संयोगो हि व्यभिचारः । न चास्मिन् विवाहे तत्सम्भवः । यत्र संयोगः तत्र समयरूपविवाहस्यैव वृत्तिः । संयोगाभावे तु व्यभिचारस्याप्रसक्तिरेवेति ।। ७६४ ।।
युक्तिमल्लिका
मुक्तत्वं भावधर्मो यत्तत्सत्त्वे धर्मवान्न किम् ।। ७६५ ।।
सुरोत्तमटीका
हेतोरप्रयोजकताशङ्कां निराकरोति ।। मुक्तत्वमिति ।। यत् यस्मान्मुक्तत्वं भावधर्मः स्वरूपानन्दानुभवरूपतया भावधर्मः । तस्मा-त्तत्सत्त्वे मुक्तत्वसत्त्वे धर्मवान् भावधर्मवान् ।। ७६५ ।।
सत्यप्रमोदटीका
प्रागुक्तमुक्तत्वहेतोरप्रयोजकतां निराह मुक्तत्वमिति । भावधर्मः तद्विशेषः । तत्सत्त्वे विशेषसत्त्वे । धर्मवान् भावधर्मसामान्यवान् । न किं भवत्येव । तथा च हेतूच्छित्तिरेव विपक्षे बाधिका । न हि वृक्षत्वाभावे शिंशुपात्वं सम्भवतीति भावः ।। अयमनुकूलतर्कः अनुपदं सुखरूपमित्या-रभ्य । (श्लो ७७९) अतोऽनुकूलतर्काख्यमन्त्रिणेत्यन्तेन (श्लो ७८७) विवरिष्यते ।। ७६५ ।।