अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः


 

अहं भवान्न चान्यस्त्वं इति श्लोकार्थः

युक्तिमल्लिका

अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः ।

न नौ पश्यन्ति कवयश्छिद्रं जानुमनागपि ।। ३८५ ।।

सुरोत्तमटीका

 यदर्थमुपोद्घातस्तदधुनाऽऽह ।। अहं भवानिति ।। ततः उक्तनिदर्शनात् ।। ३८५ ।।

सत्यप्रमोदटीका

बोध्यस्य मरणसमये बोधकस्तस्मै तत्त्वं उपदिशति अहं भवान्न चान्यस्त्वं इत्यादिना । अयं श्लोकः अग्रे (३७५) समग्र उदाहृतः । स श्लोकस्तात्पर्ये व्याख्यातः । ‘‘जीवसत्ताप्रदत्वाच्च सदृशत्वाच्च केशवः । कथ्यते तदभेदेन न तु जीवस्वरूपतः’’ इति ।। तत्र प्रतीतं स्वरूपैक्यं भेदानुभवबाधितम् । अतः अतिप्रेमनिमित्तकोऽयं औपचारिको व्यपदेशः । रूढोपचारत्वान्न प्रयोजनापेक्षा इत्याह त्वमित्यादिभिः ।।३८५।।

युक्तिमल्लिका

इति भागवते प्रोक्ता ततो हंसस्य वागपि ।

लोकानुसारिणी बोध्यहंसे प्रेमैव शंसति ।

बोध्यबोधकयोरज्ञसुज्ञयोरैक्यवादिनी ।। ३८६ ।।

सुरोत्तमटीका

 बोध्यहंस इति बोध्यबोधकभावादिरूपविरुद्धधर्म-स्फोरणार्थमुक्तम् । तदेव विशदयति ।। बोध्यबोधकयोरज्ञसुज्ञयोरिति ।। बोधकस्सुज्ञः बोध्यस्त्वज्ञ इति सुप्रसिद्धमेव । लोके स्वसुहृदं प्रति सुहृद्वा राजकार्यादौ मन्त्रिणं प्रेषयन्नति कुशलो राजा वा तस्य स्वकार्यसंपादनाय तस्मिन्स्वभटानां भयसंपादनाय च यथा त्वमेवाहमित्यादिप्रियवचनं वक्ति तथा परमात्माख्यबोधकहंसोऽपि विषयेष्वेवासक्तं जीवाख्यबोध्यहंसं स्वभक्तमेव कर्तुमेवं वक्तीति भावः ।। ३८६ ।।

सत्यप्रमोदटीका

 इति भागवते (च.स्कं.अ.२८ श्लो.६९) प्रोक्ता सुज्ञस्य हंसस्य परमात्मनः बोधकस्य, अज्ञं हंसं बोध्यं जीवं प्रति वाक्, यथा लोके नृपः प्रियममात्यं प्रति ‘ममात्मा भद्रसेनः’ इति उपचारेण वक्ति तदनुसारिणी तात्पर्यतः प्रेमैव शंसति । न तु स्वरूपैक्यम् । आत्मनो जीवस्य धर्मिणः अज्ञत्वेन बोध्यत्वेन च प्रत्यक्षेण, तथा प्रतियोगिनः परस्य सर्वज्ञत्वेन बोधकत्वेन च निर्णीतत्वेन ऐक्यप्रतीतेः जीवे साक्ष्यनुभवबाधेनानुत्थानादेवेति भावः ।। ३८६ ।।

युक्तिमल्लिका

अथवा बिम्बभूतस्य स्वस्य स्वप्रतिबिम्बतः ।

जीवाद्वक्त्यविनाभावं न त्वैक्यं वक्ति बाधितम् ।। ३८७ ।।

सुरोत्तमटीका

 अर्थान्तरमप्याह ।। अथवेति ।। स्वस्य परमात्मरूप-हंसस्य । स्वप्रतिबिम्बतः परमात्मप्रतिबिम्बात् । जीवाज्जीवाख्यहंसात् । अविनाभावपदं सादृश्यस्याप्युपलक्षणम् । बिम्बप्रतिबिम्बयोरैक्यव्यपदेशश्च दर्पणे मुखमित्यादौ दृष्टः ।। ३८७ ।।

सत्यप्रमोदटीका

 स्वस्य परस्य । अविनाभावं सयुजौ इति श्रुत्युक्तां व्याप्तिम् । व्याप्तौ ऐक्यव्यपदेशः ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति गीतायां समर्थितः ।। ३८७ ।।

युक्तिमल्लिका

विशिष्टैक्यानभिमतेर्मुख्यार्थस्तु तवापि न ।

अमुख्यार्थानुसारेण कुतो लोकव्यतिक्रमः ।। ३८८ ।।

सुरोत्तमटीका

 बाधकान्तरं च परमते दर्शयन्नुक्तमेवार्थं दृढीकरोति ।। विशिष्टेति ।। मुख्योऽर्थस्साक्षादैक्यम् । लोकव्यतिक्रमः अस्मदुक्तलौकिक-दृष्टान्तातिक्रमः । जहदजहल्लक्षणाया लोकेषु क्वाप्यर्शनात् अस्मदुक्त-निदर्शनानुसारेणैवार्थो वाच्य इति भावः ।। ३८८ ।।

सत्यप्रमोदटीका

 तुशब्देन परस्य प्रातिपदिकद्वयस्य मम तु विभक्ति-मात्रस्य अमुख्यार्थता इति विशेषं सूचयति । एवं परेणाश्रितायाः जहद-जहल्लक्षणायाः सर्वथाऽप्रामाणिकत्वं च ।। ३८८ ।।

युक्तिमल्लिका

बर्हिष्मन्नेतदाख्यानं पारोक्ष्येण प्रकीर्तितम् ।

यत्परोक्षप्रियो देवो भगवान् विश्वभावनः ।

इति पौरञ्जनोपाख्यानोपसंहारवागियम् ।। ३८९ ।।

सुरोत्तमटीका

 किं चोपसंहारवाक्यानुसारित्वाच्चास्मदुक्त एव वाक्यार्थो न त्वदुक्त इति वक्तुमुपसंहारवाक्यमेव पठति ।। बर्हिष्मन्निति ।। बर्हिष्मन्निति श्रोतुस्संबुद्धिः । पौरंजनोपाख्यानमिति पुरंजनकथारूपस्यास्याध्यायस्य संज्ञा ।। ३८९ ।।

सत्यप्रमोदटीका

 बर्हिष्मन्निति नारदस्य वचनम् । परोक्ष्येण सात्विकानां यथार्थज्ञानं इतरेषां विपरीतं यथा भवेत्तथा संमुग्धप्रकारेण । देव इत्यनेन ‘परोक्षप्रिया इव हि देवाः’ इति श्रुतिप्रमाणं द्योत्यते । विश्वभावनः विश्वस्य सुरासुरप्रपञ्चस्य भावनः तत्तद्योग्यताऽनुरोधेन भावयिता ।। ३८९ ।।

युक्तिमल्लिका

अतः परोक्षतस्तत्वमत्र सर्वत्र कीर्तितम् ।

इतोऽप्यापातदृश्योऽर्थो नात्र नम्यो मनीषिणा ।। ३९० ।।

सुरोत्तमटीका

 अतः उपसंहारानुसारित्वात्पूर्वभागस्य । सर्वत्र पूर्ववाक्येष्वपि । पारोक्ष्यं तत्वस्य साक्षाददृश्यत्वेन निगूहितत्वम् । इतः पारोक्ष्येणैव तत्वनिरूपकत्वात् ।। ३९० ।।

सत्यप्रमोदटीका

 ‘इतोऽपि’ इत्यत्रापिपदेन लोके रूढोपचारेण तादृशप्रयोगं समुच्चिनोति ।। ३९० ।।

युक्तिमल्लिका

अहं भवान्न चेत्येकं वाक्यं वाऽत्र विभिद्यते ।

तेन हंसान्तराभेदं हंसराट्स्वस्य निह्नुते ।। ३९१ ।।

सुरोत्तमटीका

 अधुना परायुधेनैव परं खण्डयितुं प्रकारान्तरेण श्लोकं योजयति ।। अहं भवान्न चेति ।। अत्र श्लोके । तेन वाक्येन । हंसान्तराभेदं जीवाख्यहंसाभेदं निह्नुते निराकरोति । घटः पटो नेत्युक्ते घटपटाभेदनिवृत्ति-रूपान्योन्याभावसिद्धिवत् अहं भवान्नैवेत्युक्तेऽपि अहंपदार्थरूपे परमात्मनि भवच्छब्दोदितजीवाख्यहंसाभेदनिवृत्तिरूपान्योन्याभावसिद्धिरिति भावः ।। ३९१

सत्यप्रमोदटीका

 मुख्यवृत्त्याऽपि श्लोकं अनुरूपविभागाश्रयणेन भेदपरतया योजयति अहमिति ।। ‘अहं भवान्’ इति सामानाधिकरण्येन तादात्म्यं प्रसज्य नयानिषेधेऽन्योन्याभावार्थः स्फुटः । हंसराट् परमात्मा । निह्नुते निराकरोति ।। ३९१ ।।

युक्तिमल्लिका

अन्यस्त्वमित्यन्यदेव वाक्यं तेनात्मभिन्नताम् ।

तस्य ब्रवीति हंसोऽसौ त्वमेवाहं विचक्ष्व भोः ।। ३९२ ।।

इति वाक्यान्तरेणासौ त्वमेव त्वय्यहं मतिम् ।

कुरु नान्यैरिति ब्रूते स्पष्टं तर्ह्यावयोर्भिदा ।। ३९३ ।।

कुतो न दृश्यते सर्वैरिति शङ्कान्तरे सति ।

तस्मादुत्तरवाक्येन तां शङ्कां प्रतिषेधति ।। ३९४ ।।

सुरोत्तमटीका

 अन्यदेव वाक्यं वाक्यान्तरमित्यर्थः । तेन त्वमन्य इति वाक्येन । आत्मनस्स्वस्माद्भिन्नताम् । तस्य जीवस्य । घटोऽन्य इत्युक्ते घटे पटप्रतियोगिक भेदस्य सिद्धिवत्त्वमन्य इत्युक्तेऽपि त्वंपदवाच्ये जीवेऽहमिति प्राक्प्रस्तुतस्वप्रतियोगिकभेदस्यैव सिद्धिः । पूर्ववाक्ये जीवप्रतियोगिक स्वधर्मिकभेदं साधयित्वोत्तरवाक्ये स्वप्रतियोगिकजीवधर्मिकभेदं साधयतीति भावः । वाक्यद्वयस्यार्थमुक्त्वा तृतीयवाक्यस्यार्थमाह ।। त्वमेवाहमिति ।।

असौ परमात्माख्यहंसः । भो जीव त्वमेवाहमिति विचक्ष्व । त्वय्येवाहंमतिं त्वं कुरु । अन्यैर्जीवान्तरैः परमात्मना चाहं मतिं न कुर्वित्येव शब्दार्थकथनम् । विचक्ष्वेति लोटा स्वस्मिन्नेव स्वस्याहंमतिं विधत्ते । अन्येषु स्वस्याहंमतिं प्रतिषेधति च । अतो विहितैव मतिः कर्तव्या । निषिद्धा पापसाधनत्वात्कदापि न कर्तव्येति भावः । उत्तरार्धस्यार्थमाह ।। स्पष्टमिति ।। आवयोस्तव च मम च स्पष्टं न दृश्यत इति सम्बन्धः । तस्मात्पूर्वार्धात् ।। ३९२-३९४ ।।

सत्यप्रमोदटीका

 अन्यस्त्वं इति पुनरपि भेदोक्तिः अभ्यासेन तात्पर्य-ज्ञापिका एतद्विपरीता ऐक्यबुद्धिः अनर्थकरत्वात् कुत्रापि न कार्येत्याह त्वमेवेति । त्वय्येव अहं मतिं कुरु न तु ब्रह्मणि न वा जीवान्तरे । ननु ईश्वरो न जीवाद् भिन्नः । जीवाद् भेदेनानुपलभ्यमानत्वात् इति चेन्न सामान्यव्याप्तौ नानावृक्षरसेषु मधुभावमापन्नेषु व्यभिचारः । चेतनत्वे सति इति विशेषणेऽपि समुद्रसङ्गतनदीदेवतासु व्यभिचारः । तासां क्षीरनीरवच्चिद्योगात् पञ्चद्रौप-दीवदेकदेहवत्वन्यायप्राप्त्या स्वपरस्वरूपज्ञानमत्यन्तविविक्ततया नास्तीति व्यभिचारकथनं नानुपपन्नं (वि.त.श्री.५६८) ।। ३९२-३९४ ।।

युक्तिमल्लिका

क्षीरान्तर्नीरमिव यदावां मिश्रौ सदा मिथः ।

न नौ पश्यन्ति तच्छिद्रं मध्ये तेनावयोर्भिदा ।। ३९५ ।।

न स्पष्टं दृश्यते सा वै दृश्यते च विवेकिभिः ।

इति वा गूढतत्वोक्तेर्हृदयं बुध्यतां बुधैः ।। ३९६ ।।

सुरोत्तमटीका

 यद्यस्मादावां जीवपरमौ मिथस्सदा मिश्राविति सम्बन्धः । बिम्बभूतस्य स्वस्य प्रतिबिम्बभूते जीवे नीरे क्षीरवत्सदामिश्रणादिति भावः । तत्तस्मात् । नौ आवयोर्मध्ये छिद्रमवकाशं जातु कदाचित् । मनागल्पम् । तेनातिमिश्रितत्वेन क्षीरनीरवदतिमिश्रितत्वात् विद्यमानोऽपि बिम्बप्रतिबिम्ब-योरिवावयोर्भेदः दूरस्थयोर्घटपटयोर्भेद इव न स्पष्टं विविक्ततया दृश्यते । नाहं सर्वज्ञो नाहं सर्वेश्वरो नाहं निर्दुःख इत्याद्याकारेण दृश्यते चेत्यपिपदेन सूचयति । रूपान्तरेभ्यो मूलरूपाच्च भेदस्तत्कृतदुष्टसंहारजगत्सृष्ट्यादेश्च जीवेषु सर्वथाऽसम्भवात् सर्वदा सर्वैरप्यतिस्पष्टं दृश्यते । अतो न क्वाप्यभेदवार्तेति भावः । गूढतत्वोक्तेर्हृदयमिति वा बुध्यतामिति सम्बन्धः । गूढतत्वोक्तिरिति हेतुगर्भं विशेषणम् । तत्वपरोक्षीकरणाय प्रवृत्तवाक्यत्वात् आपाततोऽन्यार्थ-स्याप्यवकाशं ददाति । विविच्य विचारे तूक्तरीत्या तत्वमेव बोधयतीति भावः ।। ३९५,३९६ ।।

सत्यप्रमोदटीका

 तदेतदभिप्रेत्याह क्षीरान्तर्नीरमिवेति । न स्पष्टं दृश्यते इति च । ‘विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः’ इति गीतोक्तिमनुरुध्याह दृश्यते चेति । तथा च बलवत्सजातीयप्रतिबन्धः स्वाभिव्यञ्जकयोग-सामर्थ्यादिराहित्यं इत्यादिनिमित्तादेवानुपलम्भ इति हृदयम् ।। ३९५,३९६ ।।

युक्तिमल्लिका

व्याप्यव्यापकभावं च व्यतिरिक्तत्वमात्मनः ।

अन्योन्याश्रिततां नो चेद्बोध्यबोधकतां तथा ।। ३९७ ।।

व्यभिचारेण नष्टां च स्मृतिमव्यभिचारतः ।

अविनाभावपर्यायात्कथं लब्धां च सोऽवदत् ।। ३९८ ।।

सुरोत्तमटीका

 ऐक्यार्थकथने पुनरप्यतिस्पष्टाऽऽन्तरानुपपत्तीराह ।। व्याप्यव्यापकेति ।। नो चेत् अस्मदुक्तार्थो नो चेत् । सः परमात्माख्यहंसः । आत्मनः परमात्मनः । सर्वस्यापि द्वितीयान्त पदस्य कथमवददित्युत्तरेणा-न्वयः । अविनाभावपर्यायात् अव्यभिचारत इति सम्बन्धः । स्वोक्तपूर्वश्लोक-स्यैक्यार्थत्वे तत्रैव स एव हंसः ऐक्यविरुद्धमिदं सर्वं प्रमेयं न वदेदेवेति भावः ।। ३९७,३९८ ।।

सत्यप्रमोदटीका

 अत्रैव पुरञ्जनाख्याने सुस्पष्टं भेदपरान् त्रीन् श्लोकान् अग्रे (३९९-४०१) उदाहरिष्यन् तदर्थं विविनक्ति व्याप्येति ।। ३९७ ।।

युक्तिमल्लिका

सव्यापकतयात्मानं व्यतिरिक्ततयाऽत्मनि ।

विद्वान्स्वप्न इवामृश्य साक्षिणं विरराम ह ।। ३९९ ।।

परे ब्रह्मणि चात्मानं परम्ब्रह्म तथात्मनि ।

वीक्षमाणोऽविहायेक्षामस्मादुपरराम ह ।। ४०० ।।

एवं समानसो हंसो हंसेन प्रतिबोधितः ।

स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनस्स्मृतिम् ।। ४०१ ।।

सुरोत्तमटीका

 उक्तार्थप्रतिपादिकास्तत्रत्या एव कारिकाः पठति ।। सव्यापकतयेत्यादिना ।। विद्वान्परमात्महंसोपदिष्टमार्गेण ज्ञानवान् सः जीवहंसः । साक्षिणं साक्षाद्द्रष्टारं आत्मानं परमात्मानं आत्मनि स्वस्मिन् व्यापकतया व्यतिरिक्ततया चाऽमृश्य सम्यग्विचार्य । स्वप्न इवेत्यल्पकालीनत्वा- पेक्षयोक्तम् । न तु मिथ्यात्वापेक्षया । तथा सति विद्वानित्युक्तहंस-विशेषणविरोधात् । विद्वत्त्वं मिथ्याज्ञानित्वं च परस्परविरुद्धमिति सुप्रसिद्धमेव । आमृश्येति पदविरोधाच्च विररामेति फलकथनविरोधाच्च । अनेन स्वप्नस्यापि सत्यत्वमर्थात्सिद्धमिति द्रष्टव्यम् । विरराम सांसारिकभ्रमादुपरतोऽभूत् । व्यापकतया व्यतिरिक्ततया चाऽत्मानमात्मन्यामृश्येत्युक्तया स्वस्य व्याप्यत्वं परमात्मधर्मिक भेदप्रतियोगित्वमाधारत्वं साक्षिणमित्युक्तया परमात्मन-स्सर्वज्ञत्वं विररामेत्युक्तया स्वस्यासर्वज्ञत्वं हेत्युक्तयास्य सर्वस्य प्रमाणसिद्धतां चाऽऽह । कथं पुनरस्मिन्नध्याय ऐक्यस्यावकाशः । परे ब्रह्मणीति श्लोकेन जीवपरयोरन्याश्रितत्वकथनात्परेति विशेषणभावाभावाभ्यां ब्रह्मणः परमत्व-लाभात् स्वस्य च तदलाभात् ब्रह्मणि द्विःपरत्वोक्तया उत्तमत्वे तात्पर्य लाभात् अनिवार्योच्चनीचत्वप्राप्त्या च कथमैक्यावकाशः । अस्मात्संसारात् । अविहायेति पदच्छेदः । अन्यथा नष्टां स्मृतिमवाप हेत्युत्तरवाक्यविरोधात् । विहायेति पदच्छेदेऽपि ऋजुभ्योऽन्यत्रापरोक्षज्ञानस्य सार्वकालीनत्वाभावात् ईक्षां विहाय परोक्षज्ञान एव स्थिरो भूत्वेत्यर्थः । सर्वथा ज्ञानपरित्यागेऽस्मा-दुपररामेत्युक्तसंसारविरामायोगात् । ईक्षापदस्य स्त्रीलिङ्गत्वेनास्मादिति परामर्शा- योगात् । कथंचित्परामर्शे च विहायेक्षामित्यनेनास्मादुपररामेत्यस्य पौनरुक्त्या-पातात् । अविहायेति पदच्छेदे परस्परविरोधात्प्रागुक्तव्यापकत्वव्यतिरिक्तत्व-परत्वादिलिङ्गविरोधानिस्ताराच्च । संसारस्यैवायं परामर्शः । एतत्समाख्यया च पूर्वश्लोकेऽपि संसारादेवोपरम इति ज्ञातव्यम् । ज्ञानस्यैव त्यागे उपदेश-वैयर्थ्याच्च । न हि स्वोक्तज्ञानपरित्यागार्हं कोऽप्युपदिशति । एवमिति मैत्रेयोक्तश्लोके च पूर्वं नारदोक्तसकलज्ञानान्येवमिति परामृश्य हंसेन प्रतिबोधित इति हंसोपदिष्टप्रबोधापरपर्यायप्रतिबोधनकथनात् सर्वमपि ज्ञानं सम्यग्ज्ञानमेवेति सिद्धम् । मैत्रेयोक्तिसंवादेनैवमिति परामृष्टप्राचीन नारदवाक्योत्थज्ञानस्य प्रमारूपत्वं च सिद्धम् । स्वप्ननिदर्शनं च किंचित्साम्येनैव । न सर्वसाम्येनेति च सिद्धम् । सर्वथा स्वप्नसमानत्वे प्रतिबोधित इति मानसहंसस्य प्रबुद्धत्वोक्त्य-योगात् । उक्तरीत्या ज्ञानस्य संवादित्वाच्च । अथवाऽत्र स्पष्टं प्रतिबुद्धत्वोक्त्या स्वप्न इति दृष्टान्तो यथा महाह्रद इतिवद्वैधर्म्यदृष्टान्तो वा । स्वप्ने यथामिलि-मिलायमानं ज्ञानं तथा न किं तु सम्यगामृश्येत्यर्थस्यैवै तत्पदानु सारित्वात् । अन्यथा स्थिरज्ञानत्वार्थकस्वस्थपदविरोधात् । तद्व्यभिचारेण नष्टां स्मृतिं तदव्यभिचारेण पुनरापेति प्राङ्नष्टायास्स्मृतेः पुनः प्राप्तिकथनायोगाच्च । न हि स्वप्नदृष्टोऽर्थः पौनःपुन्येन दृश्यते ।। ३९९-४०१ ।।

सत्यप्रमोदटीका

 अत्र परमात्मनः, व्यापकतया, आत्मानं इति कर्मतया, व्यतिरिक्ततया इति भिन्नतया आत्मनि इति अधिकरणतया, ‘परे’ ‘परं’ इति च उत्कृष्टतया निर्देशात् सतात्पर्यं भेदः समर्थितो ध्येयः । ‘स्वप्न इव’ इत्यत्रोक्तं स्वप्नसाम्यं,

अनित्यत्वविकारित्वपारतन्त्र्यादिरूपतः ।

 स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यता’

इति तत्त्वनिर्णयोदाहृतप्रमाणानुसारेण ध्येयम् । ‘अविहायेक्षां’ इति मायिमतं निरस्तं ज्ञेयम् । मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इति ज्ञाननाशस्य अपुरुषार्थत्वेन निन्दनात् । अत एव ‘विहायेक्षां’ इति पदच्छेदेऽपि ईक्षाशब्दः वृत्तिज्ञानपर एव व्याख्येयः । अत्रैव ‘नष्टां स्मृति-मवाप ह’ इति पुनः परमात्माख्यहंसोपदेशेन ज्ञानप्राप्तेरेव शंसनात् । स्वस्थः इति स्वरूपेणावस्थितिरूपमोक्षोक्त्या ‘अस्मादुपरराम’ इत्यत्र अस्मादित्यस्य संसारादित्यर्थाश्रयणमेवोचितं न तु ज्ञानमात्रादिति । तथा सति प्रागुक्त-दोषापातात् । वीक्षाशब्दस्य स्त्रीलिङ्गत्वेन अस्मादिति परामर्शानुपपत्तेश्चेति दिक् ।। ३९९-४०१ ।।

युक्तिमल्लिका

इति तत्रैव तेनोक्तवचनानि विचारय ।

न चारय मतिं नीचस्योच्चभावे कदाचन ।। ४०२ ।।

सुरोत्तमटीका

 श्लोकचर्चामुपसंहरति ।। इतीति ।। तत्र पौरञ्जनोपा-ख्याने । तेन नारदेन मैत्रेयेण च । नीचस्य जीवस्य उच्चभावे ब्रह्मभावे

 ।। ४०२ ।।

सत्यप्रमोदटीका

 तत्रैव पौरञ्जनोपाख्याने एव । तेन नारदेन । कदाचन मुक्तौ संसारे वा ।। ४०२ ।।