नापि तत्प्रेरको ब्रह्मा नेशो नेन्द्रोऽपरे कृतः
हरिरेवाखण्डाधिपतिः
युक्तिमल्लिका
नापि तत्प्रेरको ब्रह्मा नेशो नेन्द्रोऽपरे कृतः ।
अङ्घ्य्रर्चनेन तत्तीर्थजुष्ट्या तद्दत्तभूत्वतः ।। ७३१ ।।
सुरोत्तमटीका
सन्तु ब्राह्मशैवादिमतरीत्या ब्रह्मशिवादय एव कर्म-नियामका इत्यत आह ।। नापीति ।। तत्प्रेरकः कर्मप्रेरकः । अपरे स्कन्द-सूर्यविनायकादयः । अङ्घ्य्रर्चनेन बाह्यजलधारया अङ्घ्रिप्रक्षालनरूपार्चनेन । तत्प्रेरको ब्रह्मा नेति सम्बन्धः । सा श्रीः स्ववासमरविन्दवनं विहाय यत्पाद-सौभगमलम्भजतेऽनुरक्तेति भागवतवचनात् हर्यङ्घ्रिसेवकशक्त्यात्मकलक्ष्म्या अपि जगत्कर्तृत्वाभावसूचनाय अङ्घ्य्रर्चनेनेत्युक्तम् । अन्यथा क्षालनेनेत्यवक्ष्यत् । तत्तीर्थजुष्ट्या अङ्घ्रितीर्थजुष्ट्या शिवो नेति सम्बन्धः । तद्दत्तभूत्वतः तेन विष्ण्वङ्घ्रिणा दत्ता भूः त्रैलोक्यपदवी यस्येन्द्रस्य तस्य भावः तस्मात् । इन्द्रो नेति सम्बन्धः । इतरदेवानामेतदाज्ञाधारित्वात् कर्मप्रेरकत्वाभावः कैमुत्यसिद्ध इति भावेनोक्तमपरे कुत इति । अङ्घ्रिपदप्रयोगादेव ईश्वरस्याशरीरतां वदन्तस्तार्किकादयोऽपि निरस्ताः । हरेरन्यस्य कस्यचिन्निराकारस्येश्वरस्य सद्भावे सर्वज्ञा ब्रह्मादयस्तमेव पूजयेयुः । न च तदस्ति । तस्माद्धरिरेवेश्वर इति भावः ।। ७३१ ।।
सत्यप्रमोदटीका
अपार्याप्तशक्त्यादिमत्वरूपहेतुमत्तया श्रीब्रह्मादयोऽपि पक्षसमा एवेत्याह नापि इति । हेतोस्तेष्वसिद्धिं प्रत्याह अङ्घ्रीति ‘अव्यक्तं शुश्रूषुर्नृपसत्तम’ इत्यनेन श्रियः, विरिञ्चोपहृतार्हणाम्भ’ इत्यनेन शिवस्य, ‘वसु स्पार्हमुत जेतोत दाता’ इत्युक्तदिशा वामनरूपेण दत्तत्रैलोक्यैश्वर्यवत इन्द्रस्य एवमितरेषां स्कन्दादीनां स्वातन्त्र्याभावोऽवसेयः ।। ७३१ ।।
युक्तिमल्लिका
किञ्च सृज्यं वशे स्रष्टुर्हार्यं हर्तुर्वशे परम् ।
पातुर्वशे स्थितं सर्वमतो विष्णोर्वशेऽखिलम् ।। ७३२ ।।
सुरोत्तमटीका
सृष्टिकर्ता ब्रह्मा स्थितिकर्ता विष्णुः, संहारकर्ता रुद्र इति सार्वजनीनतया प्रतिसिद्धप्रमेयेनापि विष्णोरेव सर्वेश्वरतां साधयति ।। किं चेत्यादिना श्लोकषट्केन ।। सृज्यं सृष्टियोग्यं वस्तु तदेव स्रष्टुःब्रह्मणो वशे न तु सृष्टिशून्यं कालाकाशादिकं, सृष्टेरेव तदधीनव्यापारत्वादिति भावः । हार्यं संहारयोग्यम् । तदेव संहर्तुःशिवस्य वशे । संहारस्यैव तदधीनव्यापारत्वात् । यतः स्थितं स्थितिमत् सर्वं कालाकाशादि सकलजगत् पातुः स्थितिकर्तु-र्नारायणस्य वशे अत इति सम्बन्धः । जन्ममरणशून्यानामप्यनादिनित्यानां स्थितिरहितं वस्त्वस्तीत्यस्य व्याहतत्वेन स्थितेरवश्यं वक्तव्यत्वात् तस्याश्च विष्णुव्यापारत्वेन स्थितिमतः सर्वस्यापि विष्णुवशत्वावश्यम्भावात् विष्णुरेव सर्वेश्वरः । न तु ब्रह्मशिवादय इति भावः ।। ७३२ ।।
सत्यप्रमोदटीका
किञ्च सादेरेव ब्रह्मणा सृष्टिः अनित्यस्यैव शिवेन संहारः किन्तु असङ्कोचेन सर्वस्यापि विष्णुना पालनं इति सर्वस्य जगतो विष्णोरेव वशत्वं सिद्ध्यतीत्याह किञ्चेति ।। ७३२ ।।
युक्तिमल्लिका
यत्कर्तुश्च स्थितिर्वाच्या हर्तुश्चावश्यकी स्थितिः ।
न ह्यसत्कारणं दृष्टं ब्रह्मेशौ तद्वशौ हरेः ।। ७३३ ।।
सुरोत्तमटीका
यत् यस्मात् कर्तुः स्रष्टुः । असत् स्थितिरहितम् । अविद्यमानं शशविषाणादिकं वा । अजातनष्टघटादिकं वा । स्थितिरहितत्वा-देव हि तत् अकारणम् । एवं च सृष्टिसंहारकारणतया ब्रह्मशिवयोः स्थिति-
रवश्यं वाच्येति भावः । तत्तस्मात् हर्यधीनस्थितिसापेक्षत्वात् । उपलक्षणं चैतत् । स्थितिरहितवस्तुनः कारणत्वासम्भववत्सृष्टिसंहाररहितवस्तुनः कालादेः कारणत्वासम्भवाभावेन विष्णोरपि नित्यतया तद्वत्कारणत्वसम्भवात् । न विरुद्धव्यापाराधीनत्वम् । अत एव न तद्वशत्वमित्यपि द्रष्टव्यम् ।। ७३३ ।।
सत्यप्रमोदटीका
ब्रह्मशिवयोः सृष्टिसंहारौ प्रति कारणत्वं तयोः पूर्ववृत्तित्वरूपस्थितिमपेक्षते । अन्यथा कारणत्वलक्षणव्याघातात् । सा च स्थितिर्विष्ण्वधीना । अतस्तयोरपि विष्णुवशत्वसिद्धिरित्याह यदिति । असत् देशकालसम्बन्धरूपस्थितिरहितम् । तत् तस्मात् ।। ७३३ ।।
युक्तिमल्लिका
यतश्च स्वस्थितिः स्वीयव्यापारत्वात्स्वतो हरेः ।
अतः स्वतन्त्रता तस्य सिद्धा सिद्धार्थपद्धतेः ।। ७३४ ।।
सुरोत्तमटीका
स्वस्थितिः स्वस्य विष्णोःस्थितिः । यद्यपि स्थिति-र्विष्णोरप्यपेक्षिता । अन्यथा कारणत्वस्यैवायोगात् । तथापि स्थितेर्विष्णु-व्यापारत्वेन विष्ण्वधीनैव सा स्यात् । तेन च विष्णोः स्वाधीनप्रवृत्तिमत्व-रूपस्वातन्त्र्यमेव सिद्ध्येत् न तु ब्रह्मरुद्रयोरिव पराधीनत्वमिति भावः ।। ७३४ ।।
सत्यप्रमोदटीका
स्वयं सत्तानियामकत्वात् विष्णोः सत्ता न परापेक्षेति तस्य स्वतन्त्रताऽपि सिद्ध्यतीत्याह यत इति ।। ७३४ ।।
युक्तिमल्लिका
न ह्यण्डजः सृजेदण्डमहङ्कारं हरो हरेत् ।
महत्तत्वं कुतः सृष्टं कुतो नष्टं विचार्यताम् ।। ७३५ ।।
सुरोत्तमटीका
सृष्टिसंहारावपि न सर्वौ ब्रह्मरुद्राधीनाविति भावेनोक्तं ।। न हीति ।। अण्डजः अण्डान्तरवर्तिपद्मनाभनाभिकमलाज्जातः सत्यलोकाधि-पतिः चतुर्मुखब्रह्मेत्यर्थः । अस्य स्वोत्पत्तेः पूर्वं विद्यमानाण्डस्रष्टृत्वम् अण्डा-त्पूर्वमेव सृष्टचतुर्विंशतितत्वस्रष्टृत्वम्, अण्डान्तरेऽपि पाद्मकल्पातिरिक्त-दैनन्दिनकल्पेषूत्पन्ननानापदार्थस्रष्टृत्वं च नास्ति । एतदुभयस्याप्यण्डपदमुप-लक्षणम् ।
हरस्य च कालाग्निरुद्रजनको मुसलास्त्रो हलायुध इति वासुदेवसहस्रनामसु पाठात् । केवलं शेषस्यैव ग्रहणे वासुदेवसहस्रनामत्वायोगेन सङ्कर्षणमुखानल इति भागवतोक्त्या च शेषान्तर्गतसङ्कर्षणाख्यभगवतो मुखादभिमानि-भूतकालाग्निरुद्रेण सह प्रलयकाले उत्पन्नस्य जगतो दाहे करणभूतकालाग्नेः सकाशात् जलावरणान्तर्गतब्रह्माण्डदाहे जायमाने लङ्कादाहकहनुमद्वत् त्रिपुरदाहकशिववच्च जगद्दाहे कर्तृत्वं सङ्कर्षणस्यैव । भगवदाज्ञया शिवेनापि त्रिशूलं सङ्गृह्य दह्यमाने जलान्तर्जगति स्थितानां दाहान्तरेऽपि स्थित्वा स्वस्वाहुतिगृहीतत्वेनादह्यमानानां स्वावरदेवादीनां हननात्तावन्मात्रसंहर्तृत्व-सम्भवेऽपि तदन्तरजीवजडात्मकजगतां दैनंदिनकल्पे संह्रियमाणजगतां च संहर्तृत्वाभावान्न सर्वसंहर्तृत्वं अहङ्कारात्मकशिवस्य । भगवतैव क्रियमाणे अण्डोपरिस्थितचतुर्विंशतितत्वसंहारे आकाशाभिमानिविनायकान्तस्य बुद्धीन्द्रियाभिमानिपार्वत्यन्ततात्विकदेवतासमूहस्य कथंचिदेवान्तरसंहर्तृत्वम् । सङ्कर्षणमुखानलेनैव दह्यमानजगत्संहर्तृत्वं च न कथञ्चिदपि । अतो न तस्यापि सर्वसंहर्तृत्वम् । महत्तत्वाभिमानिनो ब्रह्मणश्च,
जगृहे पौरुषं रूपं भगवान्महदादिभिः ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ।।
इति वचनात् । पुरुषरूपेण भगवता सृज्यमानाहङ्कारादिपिपीलिकान्त सकलजगत्सृष्टावन्यथासिद्धत्वेन पाद्मसृष्टौ च पाद्मब्रह्मणैवान्यथासिद्धत्वेन न जगत्स्रष्टृत्वं महत्तत्वस्याहङ्कारतत्वं प्रत्युपादानकारणतया तदभिमानिनो ब्रह्मणोऽपि कारणत्वमेव न कर्तृत्वम् । कारणे कर्तृत्वोपचारेऽपि स्वशरीर-भूतमहत्तत्वं प्रति नतरां कर्तृत्वम् । अतः सर्वत्र स्वतन्त्रतया मुख्यतः कारणीभूतस्य हरेरेव सर्वस्रष्टृत्वं सर्वसंहर्तृत्वं च । विधिरुद्रयोस्तु कथञ्चि-त्स्वयोग्यकतिपयजगत्स्रष्टृत्वसंहर्तृत्वसम्भवेऽपि सकलजगत्स्रष्टृत्वसंहर्तृत्वे न कथंचिदपि घटेते । अत एव सूत्रे श्रुतौ च परब्रह्मण एव जगत्स्रष्टृत्वादिकं लक्षणतयाऽभिहितम् । ससर्ज भगवानित्यारभ्य तस्मिंस्तु भगवान्भूयो भुवनानि चतुर्दशेत्यन्ताः प्राचां वाचश्चेति भावः ।। ७३५ ।।
सत्यप्रमोदटीका
‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु । वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा’ इति भाष्यवचनमनुरुध्याह नेति । अण्डं स्वविग्रहम् । ‘ततः कूटस्थमसृजद्ब्रह्माण्डविग्रहम्’ इत्युक्तेः । अहङ्कारं शिवविग्रहं ‘महत्तत्वादहङ्कारं ससर्ज शिवविग्रहं’ इति वचनात् । महत्तत्वस्य ब्रह्मणस्तनुत्वेन न ब्रह्मणा सृष्टिः आत्माश्रयात् । न रुद्रेण नाशः ब्रह्मण्येव तस्य विलीनत्वेन तदानीमसतः तन्नाशकारणत्वायोगात् । अतः हरिणैव तत्सृष्टिसंहाराविति भावः । अतो जन्मादिहेतुत्वं तस्यैव स्वलक्षणमिति भावः ।। ७३५ ।।
युक्तिमल्लिका
अतः स्वयोग्यकार्यस्य कर्तारौ तौ हरीच्छया ।
हरिस्तु कर्ता सर्वस्य भर्ता हर्ता त्रिशक्तिधृत् ।। ७३६ ।।
सुरोत्तमटीका
त्रिशक्तिधृदित्यनेन सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृदिति भागवतवचनमुक्तार्थे प्रमाणं सूचयति । त्रिशक्तिधृत् सृष्टिस्थितिसंहाराख्यव्यापारत्रयोचितशक्ति-त्रयधारी । इदं च तन्नियुक्तोऽहमित्यत्रोक्तनियोगो बहिस्स्थितराज्ञ इव नाज्ञा-मात्रं शक्तिमदागमनं विना शक्तेरागमनायोगेन बहिस्स्थितभगवच्छक्तेर्ब्रह्मणि शिवे च प्रवेशायोगात् भगवत्येव त्रिशक्तिधृदित्युक्त्या ब्रह्मशिवयोः पृथक् शक्त्यभावाच्च । अतः स्वाविष्टभूतशक्त्या स्वसाध्यमपि कार्यं कुर्वन् पुरुष इव ब्रह्मा पाद्मे कल्पे स्वाविष्टभगवच्छक्त्या भगवत्सन्निधानोद्भूताल्पस्वशक्त्या च स्वावरदेवादीनां सृष्टिमात्रं करोति । तत्रापि स्थितिसंहारौ भगवानेव करोति । शिवश्च दैनन्दिनसंहारेष्वन्तिमसंहारेष्वाविष्टभगवच्छक्त्या तद्दत्ताल्पस्वशक्त्या च स्वावरदेवादीनां संहारमात्रं करोति । तत्रापि सृष्टिस्थिती भगवानेव करोति । तावपि सृष्टिसंहारौ मुख्यतो भगवानेव कुरुते । तदितरसृष्टिसंहारांस्तु केवलं भगवानेव कुरुत इति सूचनार्थमुक्तं भगवत्पादाचार्यैः
शेषाहिवैरिशिवशक्रमनुप्रधानचित्रोरुकर्मरचनं यदपाङ्गलेशम् ।
आश्रित्य विश्वमखिलं विदधाति धाता श्रीर्यत्कटाक्षबलवत्यजितं नमामि ।।
शक्रोग्रदीधितिहिमाकरसूर्यसूनुपूर्वं निहत्य निखिलं यदपाङ्गलेशम् ।
आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीर्यत्कटाक्षबलवत्यजितं नमामीति ।।
नितरां योगो नियोग इति वशता च तदिन्द्रियाणां भगवदिन्द्रियचेष्टयैव चेष्टनमिति उभयत्राप्यन्तःप्रवेश एव लभ्यते । अत एवोक्तं भागवते
प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ।
चतुर्विंशतितत्वानां गणं युगपदाविशत् ।
सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् ।
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन्निति ।। ७३६ ।।
सत्यप्रमोदटीका
‘सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृत्’ इति नारदं प्रति चतुर्मुखवचनमपि (भा.२-६-३१) अस्मिन्विषये प्रमाणयति । अत्र ‘त्रिशक्तिधृत्’ इत्यनेन ब्रह्मशिवयोः शक्तिरपि भगवदधीनेति हरेश्च अन्तःस्थित्वा तयोः प्रेरकत्वं चेति ज्ञायते ।। तदुक्तमनुव्याख्याने (१-२-१३) ‘अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः’ इति ।। ७३६ ।।
युक्तिमल्लिका
न पिताऽधिपतिर्नृणां न हर्ता यामिकोऽपि वा ।
किन्तु रक्षक एवातो विष्णुरेव जगत्पतिः ।। ७३७ ।।
सुरोत्तमटीका
लोकरीत्यापि स्रष्टुर्हर्तुश्च न सर्वाधिपत्यम् । किन्तु रक्षकस्येति स्पष्टीकर्तुमुदितम् ।। न पितेति ।। अनेन स्रष्टुर्नाधिपत्यमिति सूचितम् । यामिकपदेन त्रियामा यामत्रयेऽप्युत्थाय पुरं पालयन् पुरुषोऽभि-धीयते । तस्यैवापराधिनां शिरश्छेदेऽप्यधिकाराद्धर्त्तेत्युक्तम् । अनेन च संहर्तुर्नाधिपत्यमिति सूचितम् । रक्षकपदेन धनभूवेतनदानादिना सकलप्रजानां रक्षणापरपर्यायस्थितिकृद्राजोच्यते । अतो लोके स्थितिकर्तुरेव जगत्पतित्व-दर्शनात् स्थितिकर्तुर्विष्णोरेव सकलजगत्पतित्वमिति भावः ।। ७३७ ।।
सत्यप्रमोदटीका
लोकरीत्यापि रक्षकस्यैवाधिपतित्वमित्याह नेति । पिता केवलं जन्महेतुः । यामिकः रात्रौ प्रबुध्य तिष्ठन् चोराणां संहारे अधिकृतः । अतः हर्ता इत्युक्तः । नृणां अधिपतिः नृपतिशब्दव्यवहारविषयो नेति प्रत्येकं सम्बन्धः । रक्षकः सर्वप्रकारेण योगक्षेमनिर्वाहकः । ‘इन्द्रो वह्निः पितृपति’रित्यादिनोक्ततत्तद्दिङ्मात्रपतित्वेन सन्ध्योपासने इन्द्रादीनां वन्दनं क्रियते तेन ते खण्डाधिपतयः । विष्णुस्तु नैवमित्याह तदभावादिति । दिग्विशेषानिर्देशेन निर्विशेषेण ‘नमोऽस्त्वनन्ताय सहस्रमूर्तये’ इति ‘ब्रह्मण्यो विष्णुरच्युत’ इति ‘नमो विष्णवे महते करोमि’ इति च निर्देशात् ‘मुख्यस्य निर्विशेषेण’ इति न्यायेन स एव ‘जगद्धिताय कृष्णाय गोविन्दाय नमो नमः’ इति वन्दितत्वेन जगत्पतिरित्याह जगत्पतिरिति ।। ७३७, ७३८ ।।
युक्तिमल्लिका
दशदिक्पतिभावेन देवा ब्रह्मेशपूर्वकाः ।
खण्डाधिपतयो विष्णुस्तदभावाज्जगत्पतिः ।। ७३८ ।।
सुरोत्तमटीका
संध्यावन्दनमात्रवेदिभिरपि हर्यन्यदेवतानां खण्डाधि-पतित्वं हरेश्च परिशेषादखण्डाधिपतित्वमेव वक्तव्यमित्याह ।। दशदि-क्पतिभावेनेति ।। प्राच्यादिदशदिशां पतित्वेनेत्यर्थः । तदभावात् दशदिक्षु एकदिशोधिपतित्वाभावात् । न हि संध्यावन्दनकारिणोऽपि एकस्यां दिशि इन्द्रादीनिव विष्णुमपि कस्याश्चिद्दिशः पतित्वेन नमन्ति । तस्मादिन्द्रादि-वद्विष्णोरप्येकस्या दिशः पतित्वं न कल्पयितुं शक्यम् । महापुरुषस्य च तस्य सर्वथा आधिपत्याभावोऽपि न वक्तुमुचितः । अतः परिशेषाद्विष्णुः सकल-जगतां पतिरिति भावः ।। ७३८ ।।
युक्तिमल्लिका
अखिलैर्लोकपालैश्चाप्यदृश्यः सन्नुरुश्च सन् ।
तेषामन्तर्बहिश्च त्वं सदा विचरसीति वाक् ।। ७३९ ।।
सुरोत्तमटीका
अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुश्चनः। स ईश्वरस्त्वं य इदं वशेन यन्नात्मा यथा दारुमयीं नरस्स्त्रियम् । यल्लोकपालाः किल मत्सरज्वरान् हित्वा यतन्तोऽपि पृथक् समेत्य च । पातुं न शेकुर्द्विपद-श्चतुष्पदस्सरीसृपस्थास्नु यदत्र दृश्यत इति पञ्चमस्कन्धस्थमनुवचनमर्थ-तस्सङ्गृह्णन् इतरदेवतानां खण्डाधिपत्यं तत्रापि हरिप्रेरणां विना स्वतः सामर्थ्याभावं हरेश्च सर्वेषामन्तर्बहिःप्रेरकतया सर्वेश्वरत्वं तेषां सर्वेषां तद्वशत्वं च न केवलं युक्तिसिद्धं किन्तु प्रमाणमूलमपीत्याह ।। अखिलैरिति ।। तेषां लोकपालनां इदं च नः अस्माकम् उरुरिति मनोर्बहुवचनप्रयोगेण स्वसमान-लोकपालानां ग्रहणाल्लभ्यते ।। ७३९ ।।
सत्यप्रमोदटीका
‘अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुश्च नः । स ईश्वरस्त्वं य इदं वशे नयन्नात्मा यथा दारुमयीं नरः स्त्रियम् । यं लोकपालाः किल मत्सरज्वरान् हित्वा यतन्तोऽपि पृथक् समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपस्थास्नु यदत्र दृश्यते’ इति भागवतं (५/१८/१६, २८) उक्तार्थे प्रमाणयति अखिलैः इति । अदृश्य इति सहैव सन्तं न विजानन्ति देवाः’ इति श्रुत्युक्तेः । अन्तः इति अन्तःप्रविष्टं कर्तारमेकं’ इत्युक्तेः । बहिरिति अन्तःसमुद्रे मनसा चरन्तं इत्युक्तेः । ‘यं हित्वा त्रातुं न शेकुरि’ति वचनात्तेषां लोकैकदेशस्यामुख्यं पालकत्वमपि भगवन्नियतं इति शंसनेन महायोगवृत्त्या स्वातन्त्र्यं तद्गतत्वं चेत्युभयप्रकारेण विष्णुरेवाखण्ड-लोकाधिपतिः संसिध्यतीत्याह न संशय इति । मनोः मानवानां पितुः ।। ७३९–६४१ ।।
युक्तिमल्लिका
यं हित्वा राक्षसावेशान्मत्सरज्वरसंयुताः ।
यतमानाः पृथक्सर्वे लोकपालाः समेत्य च ।। ६४० ।।
त्रातुं न शेकुरिति वाक्चास्ति भागवते यतः ।
अखण्डाधिपतिस्तस्माद्विष्णुरेव न संशयः ।
मनोर्हि वागियं कैर्वा माननीया न मानवैः ।। ६४१ ।।
सुरोत्तमटीका
पृथक् प्रत्येकं समेत्य पुञ्जीभूय । मानवैः मनुसम्बन्धित्वान्मानवशब्दवाच्यैः ।। ७४०,७४१ ।।
युक्तिमल्लिका
तच्छ्रुत्वा मुनयस्सर्वे विस्मिता मुक्तसंशयाः ।
भूयांसं श्रद्धधुर्विष्णुं यतः शान्तिर्यतो भयम् ।
इति भागवते प्रोक्तं मुनीनां वचनं स्मर ।। ७४२ ।।
तद्गोत्रजातः पूर्वेषां तेषां वाक्यं न विस्मर ।
यद्गोत्रप्रवरेशास्ते तानुदास्ते कथं भवान् ।। ७४३ ।।
सुरोत्तमटीका
भागवतवाक्यान्तरेणापि विष्णोरखण्डाधिपतित्वं द्रढयति ।। तच्छ्रुत्वेति ।। तद्गोत्रजातः तेषां कश्यपविश्वामित्रादिमुनीनां गोत्रेजातः । ते मुनयः यस्मात् गोत्रप्रवरेशाः गोत्रप्रवरमूलीभूताः ।। ७४२,७४३ ।।
सत्यप्रमोदटीका
भूयांसमिति अयं भागवतश्लोकः गुणसौरभे व्याख्यातः (७०२-७०३) अधिकविवक्षया अत्र प्रस्तावः । मुनयः गोत्रप्रवरेशाः कश्यपात्रिभरद्वाजादयः ।। ७४२,७४३ ।।
युक्तिमल्लिका
अस्य देवस्येति वेदे यथा विष्णोर्वशे हरः ।
स्पष्टं श्रुतस्तथा वेदे न क्वापीशवशे हरिः ।। ७४४ ।।
सुरोत्तमटीका
किञ्च प्रसिद्धश्रुतौ प्रसिद्धविष्णुरुद्रपदाभ्यां विष्णु-रुद्रावुदीर्य यथा विष्णोर्वशता रुद्रस्योच्यते तथा प्रसिद्धविष्णुरुद्रपदाभ्यां विष्णुरुद्रावुदीर्य रुद्रवशता विष्णोर्न क्वापि कथ्यते । यद्यपि सोमः पवत इति श्रुतौ सोमस्य विष्णुजनयितृत्वं कथ्यते तथापि सोमपदस्य पवमानाख्यसोमे चन्द्रे चन्द्राभिमन्यमानसोमलतायां च लोकवेदयोः प्रसिद्धत्वेन रुद्रे प्रसिध्य-भावेन च न सा पराभिलषितार्थसाधिकेत्याह ।। अस्य देवस्येति ।। अनेन ‘अस्य देवस्य मीह्लुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावदिति’ श्रुतिं गृह्णाति ।। ७४४ ।।
सत्यप्रमोदटीका
‘अस्य देवस्य मी•ुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’ इति सुस्पष्टश्रुत्या रुद्रादुत्तमत्वं विष्णोः सुगममिति भावेन श्रुतिः व्याख्याति ।। ७४४ ।।
युक्तिमल्लिका
ईषेरिच्छार्थकाद्धातोः पचाद्यचि कृते सति ।
गुणे जाते पालनेच्छा कृपा यस्य स्वसेविषु ।
तस्यैषस्य न चेदेतस्येति स्याच्छब्दविन्मते ।। ७४५ ।।
सुरोत्तमटीका
श्रौतपदानामर्थमाह ।। इषेरिति ।। इषेः इषु इच्छाया-मित्यत्रोक्तेषुधातोः गुणे सार्वधातुकार्धधातुकयोरिति सूत्रादिकारस्यैकाराख्यगुणे एष इत्यकारान्तं इच्छावन्तं वक्ति । योग्यतया च पालनं लभ्यते । एवं च कः पिण्डितार्थ इत्यत आह । स्वसेविषु पालनेच्छा पालनेच्छारूपा कृपा यस्येति । एषस्य एषपदवाच्यस्य । न चेत् उक्तविधया एषपदव्युत्पत्तिर्न चेत् । एतच्छब्दस्येदं रूपं चेदिति यावत् । एतस्येति एतच्छब्दस्य षष्ठ्यामेतस्येति प्रयोगः स्यात् । न तु एषस्येति । अतोऽयं शब्दः उक्तविधयैव व्युत्पन्न इति भावः ।। ७४५ ।।
सत्यप्रमोदटीका
न चेत् एतच्छब्दस्य षष्ठ्या रूपं चेत् इत्यर्थः।।७४५।।
युक्तिमल्लिका
तस्यास्य विष्णोर्देवस्य भक्ताभीष्टस्य सेचनात् ।
मी•ुषो यन्मिहः सेके हविर्भिर्यज्ञसाधनैः ।। ७४६ ।।
प्रभृथं प्रभृतं शस्तं तृतीयोऽतिशये यतः ।
अचो हलश्च यत्पश्चात्तृतीयोऽसौ ततः किल ।
ततः प्रभरणे पूजात्मके सम्यक्कृते सति ।। ७४७ ।।
सुरोत्तमटीका
मिह सेचन इति धातोः भक्ताभीष्टसेचनात् मीह्लुषः मीह्लुट् पदवाच्यस्येत्यर्थः । यत् यस्मात् मिह इति धातुः । हविर्भिरिति पदस्य शेषपूरणायोक्तं यज्ञसाधनैरिति । प्रभृतमिति । प्रकर्षेण भृतं भरणं भावे क्तप्रत्ययः । हविर्दानेन भगवतस्तृप्तिकरणमित्यर्थः । तकारस्य थकारादेशः किं निमित्त इत्यत उक्तम् । तृतीयोऽतिशये यत इति । तृतीयोऽतिशय इति सूत्रात् एकवर्गस्थवर्गेषु तृतीयो वर्णः यतः अतिशये वर्तते अतः प्रभृतमिति सम्बन्धः सम्यक् पूरणमिति सूचनाय भृथमित्युक्तम् । हविर्भरणस्य बाहुल्याख्यातिशय-सूचनाय प्राशस्त्यसूचनाय प्रेत्युपसर्गः । मन्त्रभक्तिश्रद्धाद्यतिशयसूचनाय तृतीयो वर्ण इति भावः । अथवा अस्य पूजात्मकभरणत्वेन प्राकृतैरुदरपूरणाय क्रियमाणहविर्भरणादतिशयसूचनाय प्रेत्युपसर्गः । तस्य बाहुल्याख्यातिशय-सूचनाय तृतीयो वर्णः । एतदेवाभिप्रेत्य पूजात्मके सम्यगिति च वक्ष्यति । ननु थकारस्य तकारापेक्षया द्वितीयत्वात्कथं तृतीयत्वमित्यत उक्तम् ।। अच इति ।। हलः हल् प्रत्याहारपठितात् त् इति वर्णात् । अचः तदुपरि विद्यमानाकारात् । हलः अचश्च समाहारे हि कादयो वर्णा भवन्ति । अतः त्वर्णादकाराच्च परतो विद्यमानयकारः आपाततो द्वितीयोऽपि विचार्यमाणे तृतीय इति भावः । असौ थकारः ।। ७४६,७४७ ।।
सत्यप्रमोदटीका
मी•ुषः भक्तानामभीप्सितसकलपुरुषार्थसेचकस्य ।। प्रभृथे प्रकरणे भरणे सम्पूर्णपूजायामित्यर्थः । तकारात् त्वर्णादकाराच्च परः थकारः तृतीयो भवतीति आह तृतीय इति ।। ७४६,७४७ ।।
युक्तिमल्लिका
वया भूत्यादिदानेन बन्धको वयबन्धने ।
इति धातोर्हि प्रसिद्धो रुद्रस्त्रिभुवनेश्वरः ।। ७४८ ।।
सुरोत्तमटीका
वयश्शब्दार्थकथनायोक्तम् ।। भूत्यादिदानेन बन्धक इति ।। वयबन्धन इति धातोः वयाः बन्धक इत्येवशब्दार्थः । तच्च बन्धकत्वं लौकिकैश्वर्यादिदानेन रुद्रस्यैवोचितमिति भावेनोक्तं भूत्यादिदानेनेति । इदं च रुद्रे प्रसिद्धमिति सूचयितुं श्रुतौ हिशब्द इति भावेनोक्तम् । हि प्रसिद्धो रुद्रस्त्रिभुवनेश्वर इति ।। ७४८ ।।
सत्यप्रमोदटीका
वयाः अहङ्काररूपेण बन्धकः । तत्प्रकारः भूत्यादि-दानेन । आदिपदेन असुरेभ्योऽवध्यत्वादिकम् ।। ७४८ ।।
युक्तिमल्लिका
रुद्रियं रुद्रसम्बन्धि महित्वं महिमोच्चयम् ।
घस्येयादेशकरणे समुद्रियपदं यथा ।
यथा बाहुलकात्तस्माद्रौद्रमेव हि रुद्रियम् ।। ७४९ ।।
सुरोत्तमटीका
रुद्रियपदस्य रुद्रसम्बन्धित्वार्थकत्वे रौद्रमिति स्यात् । रुद्रियमिति तु कथमित्यतो दृष्टान्तेन तदुपपादयति ।। घस्येति ।। घस्य घप्रत्ययस्य समुद्राभ्राद्धः इति सूत्रात् समुद्रपदात् घप्रत्यये कृते समुद्रसम्बन्धी-त्यर्थे समुद्रियपदं यथा भवति तथा तस्य प्रत्ययस्य छन्दसि बहुलमित्यादिना बाहुलकत्वाद्रुद्रियमित्यपि पदं भवतीति भावः ।। ७४९ ।।
सत्यप्रमोदटीका
महिमोच्चयम् इन्द्राद्युत्तमत्वम् ।। ७४९ ।।
युक्तिमल्लिका
विदे लेभे तद्वदेव पूर्वाभ्यासमुपैक्षत ।
पूर्वानभ्यस्तपदवीप्राप्तिं सूचयितुं श्रुतिः ।। ६५० ।।
अनावृत्तिपदप्राप्तिसूचनाय च सूत्रवत् ।
अस्मिन्नर्थे प्रमाणानां प्रसिद्धिं च हिना जगौ ।। ७५१ ।।
सुरोत्तमटीका
विद इत्यस्यार्थकथनं लेभ इति । विद्लृ लाभ इति धातोरिति भावः । तर्हि लिटि पूर्वाभ्यासस्य विहितत्वाद्विविद इति प्रयोगः स्यादित्यत आह ।। तद्वदिति ।। लेभ इति प्रयोगवदित्यर्थः । यथा लिट्त्वेऽपि लेभ इति प्रयोगे पूर्वाभ्यासो नास्ति तथा छन्दसि बहुलमिति वचनादत्रापि नास्तीति भावः । प्रयोजनवशाच्च श्रुतिः पूर्वाभ्यासमुपैक्षतेत्याह ।। पूर्वा-नभ्यस्तेति ।। भगवत्पूजनेन प्राप्तरुद्रपदव्याः अनेन रुद्रेण पूर्वमननुभूतत्व-सूचनाय प्रयोगेऽपि पूर्वाभ्यासोपेक्षेति भावः । प्रयोजनान्तरमप्याह ।। अनावृत्तीति ।। अनावृत्तिपदं पुनरावृत्तिरहितमोक्षपदम् । तस्य प्राप्तिसूचनाय न केवलमिदं भगवत्पूजनमैहिकफलमात्रप्रदं किन्तु पुनरावृत्तिशून्यमोक्षाख्य-फलदमपि भवतीति सूचनाय पदेऽपि पूर्ववर्णावृत्तिरूपपूर्वाभ्यासोपेक्षणमिति भावः । सूत्रवत् बह्वर्थसूचकसूत्रवत् । हिशब्दस्य प्रयोजनान्तरमप्याह ।। अस्मिन्निति ।। हिना हिशब्देन ।। ७५०,७५१ ।।
सत्यप्रमोदटीका
विविदे इत्येवम् अभ्यासानाश्रयणे हेतुः अनभ्यस्तेति । पूर्वमप्राप्तमित्यर्थः । तत्रैव हेत्वन्तरम् अनावृत्तीति । प्रसिद्धिं ‘दशकल्पं तपश्चीर्णम्’ इत्यादि ।। ७५०,७५१ ।।
युक्तिमल्लिका
युवामप्यश्विनौ वर्तिर्वर्तनं याज्ञिकान्नवत् ।
इरावद्ब्राह्मणे यस्मादिलेत्यन्नमुदीरितम् ।
डलयोरलयोश्चाभेदेन स्यादीदृशं पदम् ।। ७५२ ।।
सुरोत्तमटीका
श्रुतौ यासिष्टमिति मध्यमपुरुषद्विवचनप्रयोगबलाद्युवा-मित्युक्तम् । वर्तिरित्यस्यार्थकथनं वर्तनमिति । इरावदित्यस्यार्थकथनं याज्ञिकान्नवदिति । यज्ञे अश्विभ्यां स्वाहेति दीयमानान्नाहुतियुक्तमित्यर्थः । अन्नं वा । ब्राह्मणे इेन्नमेवास्येति ऋग्वेदब्राह्मणे । यद्यपि इडेति पदमन्नमात्रवाचि । तथापि अश्विनोर्यज्ञाहुतावधिकारात्तद्रूपमेवान्नं योग्यतया लभ्यत इति भावेनोक्तं याज्ञिकान्नवदिति । तर्हि इडावदित्येव वक्तव्यम् इरावदिति कथमित्यत आह ।। डलयोरिति ।। डलयोः डकारलकारयोः । रलयोः रेफलकारयोः ।। ७५२ ।।
सत्यप्रमोदटीका
इरावत् यज्ञाहुतिरूपान्नवत् । ‘हरेत्यन्ननाम’ इति ब्राह्मणवचनात् । वर्तिः वर्तनम् । सर्पिःपदवन्नपुंसकपदमिदम्
।। ७५२ ।।
युक्तिमल्लिका
यासिष्टं तस्य कृपयैवायासिष्टं लुङीदृशम् ।
अमाञ्योगेऽपि यद्वेदे पदं शास्ति स पाणिनिः ।। ७५३ ।।
सुरोत्तमटीका
यासिष्टमित्यस्यार्थः तस्य विष्णोः कृपयैवायासिष्टमिति । अयासिष्टं युवामपि विष्णोः कृपयैव इरावद्वर्तनं प्राप्तावभूतमित्यर्थः । तर्ह्ययासिष्टमित्येव वक्तव्यम् । अडागमाभावे किं कारणमित्यत आह ।। लुङीति ।। ईदृशं अडागमरहितम् । अमाञ्योगे माञ्योगाभावे । यत् यस्मात् ।। ७५३ ।।
सत्यप्रमोदटीका
ईदृशम् अडागमरहितम् ।। ७५३,७५४ ।।
युक्तिमल्लिका
औणादिके सन्तरूपाद्वृतेर्वर्तिर्भविष्यति ।
यथार्चिः सर्पिरित्यादिपदं तद्वदिदं पदम् ।। ७५४ ।।
सुरोत्तमटीका
वर्तिरिति द्वितीयान्तं पदं कथं स्यादित्यत आह ।। औणादिकेति ।। औणादिके सन्तरूपात् औणादिकोयं सुन्प्रत्ययः तदन्त-रूपाद्वृतेः वृतुवर्तन इति धातोरौणादिके सुन् प्रत्यये तकारस्य द्वित्वे ऋकारस्य गुणे च कृते वर्त्तिरिति सकारान्तं पदं सिध्यतीत्यर्थः । नेदमपूर्वमित्याह ।। यथेति ।। यथा रुचकाशन इति धातोः अर्चिःपदं, सृप्लृगताविति धातोः परितः सर्पणशीलघृतवाचकसर्पिःपदं तद्वदिदं पदमिति योजना ।। ७५४ ।।
युक्तिमल्लिका
अतः स्पष्टार्थवाणीयं रुद्रस्याभीष्टदायकम् ।
विष्णुं शुभगुणाम्भोधिं रुद्रादप्यधिकं जगौ ।। ७५५ ।।
सुरोत्तमटीका
अतः श्रुत्या विष्णौ रुद्रे च प्रसिद्धविष्णुरुद्रपदयोरेव ग्रहणात् । अयं समुदायार्थः । एषस्य इच्छारूपस्य कृपालोः देवस्य सत्य-सङ्कल्पस्य विजिगीषावतो वा द्योतमानस्य जगत्सर्जनादिक्रीडावतो वा । मीह्लुषः भक्ताभीष्टसेचनशीलस्य । अस्य प्रसिद्धस्य अकारवाच्यस्य वा विष्णोर्हविर्भिः प्रभृथे प्रभरणे नैवेद्यहोमादिपूजने कृते सति वयाः लौकि-कैश्वर्यादिदानेन बन्धकः रुद्रः रुद्रियं रुद्रसम्बन्धि महित्वं महिमानं महः उत्सवोऽस्यास्तीति मही तस्य भावं वा । यथा विदेहि लेभे हि । अथवा हि यस्मात् लेभे तस्मात् हे अश्विनौ युवां इरावत् अन्नवत् वर्त्तिर्वर्त्तनं हविर्भि-र्विष्णोः प्रभृथे कृते सत्येव यासिष्टमयासिष्टं यस्मादिन्द्रादीनामधीश्वरोऽपि शिवः विष्ण्वर्चनेनैव भाग्यमवाप । तस्मात्ततोऽप्यतिनीचदेवतयोर्युवयोर्विष्णु-कृपयैव भाग्यमभूदिति किमु वक्तव्यमिति भावः । अस्यां श्रुतौ विष्णो-रश्विनोर्भाग्यदायकत्वे दृष्टान्ततया हेतुतया च विष्णोः शिवभाग्यदायकत्व-महिम्नो वर्णनादस्य महिम्नो भगवति निश्चितत्वं नित्यसिद्धत्वं चाभूदित्यपि ज्ञातव्यम् ।। ७५५ ।।
सत्यप्रमोदटीका
स्पष्टेति रुद्राभीष्टदायकत्वस्य अश्विनोर्विषये दृष्टान्त-तयोक्तेरिति भावः । विष्णुं विष्लृ व्याप्ताविति धातोः त्रिविधव्याप्तिमन्तम् । तदाह शुभेति ।। ७५५ ।।
युक्तिमल्लिका
श्रौतोऽखण्डपदः सोमो नेशो वेदविदां मते ।
विश्वाधिकत्वगीः सावकाशेन्द्रादिश्रुताविव ।। ७५६ ।।
सुरोत्तमटीका
सोमपदेन रुद्रग्रहणे प्रकरणविरोधाप्रसिद्धत्वादिदोषाः कथिताः । इदानीं वैदिकमुद्रया अपरिहार्यदोषं चाह ।। श्रौत इति ।। अखण्डपदः सजूरिति । सजूरितिवत् सोम इति स उम इति द्विखण्डरहितं सोमपदं यस्य वाचकं सोऽखण्डपदः । सोमः सोमपदवाच्यः पदार्थः वेदविदां मते ईशो नेति सम्बन्धः । ईशस्य सोमपदवाच्यत्वं उमया सहित इति व्युत्पत्त्या परेणाशास्यते । तत्तदा स्यात् यदि सोमपदं सजूरिति पदवत् द्विखण्डं स्यात् । न च तद्युक्तम् । वैदिकैर्वेदस्थसोमपदे द्विखण्डतायाः कुत्राप्यनङ्गीकारात् । वेदमर्यादामुल्लङ्घ्य वेदार्थकथने अवैदिकत्वप्रसङ्गात् । अतः पवमानसोमस्य चन्द्रस्य सोमलताया वा श्रौतं सोमपदं वाचकं स्यात् । नान्यस्य । एवं च शिवस्य विष्णुजनकत्वेनेयं श्रुतिः शङ्कितुमपि शक्या विष्णोस्तु शिवपूज्यत्वं शिवाभीष्टदायकत्वं च उभयवादिसम्प्रतिपन्नस्पष्ट-श्रुत्यैवोक्तविधया प्रतिपादितम् । अतो वैदिकैर्बन्दीकृतस्य परस्य नास्म-त्प्रतिबन्दी ।
पवमानसोमस्य विष्णुजनकत्वमुपपादितं चन्द्रस्य च सोमवंशे अवतीर्ण-कृष्णं प्रति लोकमर्यादा मूलकारणत्वाज्जनयितृत्वमुपपन्नम् । सोमलतायाश्च सत्रे ममास भगवान् हयशीर्ष इति वचनाद्यज्ञकुण्डादवतीर्णहयग्रीवं प्रति जनकता घटते । तस्मादखण्डपदापीयं श्रुतिरखण्डपदत्वादेव नास्मदभीष्टखण्डनायालम् । परस्य त्व खण्डपदास्मच्छास्त्रवदनिष्टस्यैव हेतुः । विश्वाधिको रुद्रो महर्षिरिति वाक्च नास्मच्छ्रुतिवत्स्पष्टं न विष्णोर्हरवशतां वक्ति । किंतु विश्वस्मादधिक इत्येव वक्ति । सा च विश्वस्मादिन्द्र उत्तर इतिवत् स्वयोग्यकतिपय-विश्वाधिक्यमेव ब्रूयात् न सर्वाधिक्यम् । अन्यथा इन्द्रश्रुत्या इन्द्रस्यापि सर्वेश्वरत्वप्रसक्त्या पुनस्त्वदभिलषितरुद्रसर्वेश्वरत्वस्यैव हानिप्रसङ्गात् । साव-काशेति वदता विश्वमधिकं यस्मादित्यपि समाससम्भवेन परानिष्टार्थलाभः । रुद्रः विश्वाधिको महर्षिरित्यपि योजनिकासम्भवेन सर्वाधिकः सन्न्यासीत्युक्ते सन्न्यासिष्वेवाधिक्यलाभवत् रुद्रस्य महर्षिष्वेवाधिक्यलाभश्च सूचितः । इन्द्रश्रुतेरीदृशावकाशशून्यत्वेन प्राबल्यं च सूचितम् ।। ७५६ ।।
सत्यप्रमोदटीका
जनितोत विष्णोरित्यत्रोक्तः सोमः रूढ्या पवमान एव न तु उमासहितत्वरूपयोगेन रुद्रः । वैदिकैः सोमपदे सखण्डत्व-स्यानङ्गीकारात् । पवमानस्य जनितृत्वं विष्णुमहिमाविर्भावहेतुत्वमेवेति च प्राक् प्रसाधितम् । एवं विश्वाधिको रुद्र इत्यत्र विश्वस्मादिति वा महर्षिरिति वाक्यशेषात् ऋषिभ्य उत्तम इति वाऽर्थान्तरं ध्येयम् । अन्यथा विश्वस्मादिन्द्र उत्तर इति वाक्ये प्रतीतार्थमेवाश्रित्य इन्द्रस्यैवोत्तमत्वप्रसङ्ग इत्याह इन्द्रादीति ।। ७५६ ।।
युक्तिमल्लिका
सोऽरोदीदिति वेदे हि रोदनाद्रुद्रतोदिता ।
न ते महित्वमिति तु विष्णोरसमतोदिता ।। ७५७ ।।
सुरोत्तमटीका
वाक्यान्तरैरपि रुद्रस्यावरतां विष्णोः सर्वोत्तमतां च साधयति ।। सोरोदीदिति ।। अनेन सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति श्रुतिं गृह्णाति । स्वाभीष्टसाधनसामर्थ्याभावाद्धि रुद्रस्य रोदनम् । अतः कथं शिशोरिव रुदतस्तस्य सर्वेश्वरत्वमिति भावः ।। ७५७ ।।
सत्यप्रमोदटीका
‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं’ इत्यत्र श्रुतौ रुद्रस्योद्वेगकार्यं रोदनं श्रूयते अतः असामञ्जस्यान्न पशुपतिः जगत्कारणम् । ते विष्णोः महित्वं जगज्जन्मादिकारणत्वरूपं स्वलक्षणं इतरे ब्रह्मादयः न जातु प्राप्नुवन्ति इति श्रुत्यर्थः ।। ७५७ ।।
युक्तिमल्लिका
या ह्युच्छेषणभागो वै रुद्र इत्याह वेदवाक् ।
जुषेथां यज्ञमित्याद्या सा विष्णुं वक्त्यतः स राट् ।। ७५८ ।।
इन्द्रा विष्णू युवां यज्ञं जुषेथां द्रविणं च नः ।
धत्तं दत्तं प्रदिशतामरिष्टैर्नाशवर्जितैः ।। ७५९ ।।
पथिभिर्मोक्षमार्गैर्नः पारयन्तो भवाम्बुधेः ।
परं पारं प्रापयन्ताविति यच्छ्रुतिरञ्जसा ।। ७६० ।।
ऐहिकामुष्मिकफलप्रदातारं मखस्य च ।
भोक्तारं विष्णुसूक्तस्था विष्णुं स्तौति द्विरूपिणम् ।। ७६१ ।।
यतश्च रुद्राहुतिदा हस्तमद्यापि याज्ञिकाः ।
प्रक्षालयन्ति तेनासौ यज्ञोच्छिष्टाशनो ध्रुवम् ।। ७६२ ।।
सुरोत्तमटीका
उच्छेषणभागो वै रुद्र इति या वेदवागिति सम्बन्धः । हिशब्देनास्य वाक्यस्य यजुश्शाखायां प्रसिद्धतां सूचयति । सा वेदवाक् । जुषेथां यज्ञमित्याद्या सा वेदवाक् विष्णुं वक्ति । अतः स विष्णुः राट् राजा सर्वेश्वर इति योजना । वषट् ते विष्णवास आकृणोमि इति जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्तेति श्रुतिः । अस्या अयमर्थः । हे इन्द्राविष्णू इन्द्रान्तर्गतेन्द्रनामकविष्णुनामकौ भगवन्तौ अस्या अपसः संसारसमुद्रजलस्य पारे परतीरे । सर्वथा तदसङ्गसूचनाय विसन्धिकरणम् । स्थितौ वासं समीचीनेन कर्मणा देवयज्ञेन सं समीचीनेन इषा पितृयज्ञान्नेन च हिनोमि हिगतौ वृद्धौ चेति धातोः विर्दयेन च वर्धयामि सन्तोषेण पूरितं करोमि । ह्यन्ते वा प्राप्नोमि भवदन्तिके वर्धे च । अस्मत्समीपं प्रत्यागमयामि । अरिष्टैः पथिभिः मोक्षमार्गभूतज्ञानभक्तिवैराग्यादिभिः अर्चिरादिमार्गैर्वा पारयन्तौ संसारसागरपारं प्रापयन्तौ । इन्द्राविष्णू युवां नः यज्ञं जुषेथां द्रविणं च धत्तं इदमुभयं मध्यमपुरुषद्विवचनं इन्द्राविष्टविष्णोः पृथक्स्थितविष्णोश्च यज्ञभोक्तृत्वं वक्ति । विष्णुसूक्तेऽस्मिन् केवलेन्द्रस्य स्वातन्त्र्येण ग्रहणायोगात् । उच्छेषण-भाग इति श्रुतिः रुद्रस्य यज्ञोच्छिष्टभोक्तृतां वक्ति । एवं च वाक्यद्वय-पर्यालोचनया हर्युच्छिष्टभोजी रुद्र इति प्राप्तम् । अतो विष्णुः सर्वोत्तमः रुद्रस्तदवर इति कथं न सिद्ध्येदिति भावः ।। ७५८–७६२ ।।
सत्यप्रमोदटीका
वेदवाक् ‘उच्छेषणभागो वै रुद्र’ इति वाक् । इदमुपलक्षणम् । ‘एष ते रुद्रभागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै’ इत्यादि भागवतवाक्यमपि ग्राह्यम् (४-६-५३) । ‘जुषेथां यज्ञं द्रविणं च धत्त-मरिष्टैर्नः पथिभिः पारयन्त’ इति श्रुतिं व्याचष्टे इन्द्रेति ।। द्विरूपिणं इन्द्रः विष्णुरिति रूपद्वयवन्तम् ।। ७५८–७६२ ।।
सुरोत्तमटीका
इममेवार्थं विस्तरेणाह ।। इन्द्राविष्णू इति
।। ७५९–७६२ ।।
युक्तिमल्लिका
प्रलये वटपत्रेऽप्सु शेते नारायणः किल ।
तदा क्वान्ये सुरास्तस्मात्सर्वेशो विष्णुरेव हि ।। ७६३ ।।
सुरोत्तमटीका
श्रौतयुक्तिं चाह ।। प्रलय इति ।। किलेत्यनेन एको नारायण आसीन्न ब्रह्मा न च शङ्करः, सदेवेदमग्र आसीत्, एकमेवाद्वितीय-मित्यादिवाक्यं सूचयति । तस्मात् सर्वप्रलयेऽप्युर्वरितत्वात् ।। ७६३ ।।
सत्यप्रमोदटीका
‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’ इत्यादिश्रुतेः पारतन्त्र्येणासमञ्जसत्वान्न पशुपतिरीश्वरो जगत्कर्ता इति पत्युरधिकरणभाष्यानुरोधेणाह प्रलय इति ।। ७६३ ।।
युक्तिमल्लिका
किञ्च गीतोपनिषदि सर्वं द्विपुरुषाख्यया ।
संगृहीतं हरिस्त्वेकः पुरुषोत्तम ईरितः ।। ७६४ ।।
सुरोत्तमटीका
गीतावाक्येनापि हरेः सर्वोत्तमतां स्मारयति ।। किञ्चेति ।। ७६४ ।।
सत्यप्रमोदटीका
द्विपुरुषाख्यया ‘द्वौ इमौ पुरुषौ लोके क्षरश्चाक्षर एव च’ इति । ईरितः लोके वेदे च प्रथितः ।। ७६४ ।।
युक्तिमल्लिका
रामः प्रभू रामभृत्या देवाः सर्वेऽपि वानराः ।
कृष्णः प्रभुः कृष्णभृत्या देवा धर्मात्मजादयः ।। ७६५ ।।
सुरोत्तमटीका
रामायणभागवतयोः कथयाऽपि विष्णोस्सर्वोत्तमतां साधयति । रामः प्रभुरित्यादिना ।। ७६५ ।।
सत्यप्रमोदटीका
प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः इति म.ता.निर्णयोक्तिमनुरुध्याह प्रभुरिति ।। ७६५ ।।
युक्तिमल्लिका
अर्हत्तमो ह्यग्रपूजामर्हत्यन्यो न संसदि ।
यथैवेह तथाऽमुत्र तद्विष्णुरखिलप्रभुः ।। ७६६ ।।
सुरोत्तमटीका
अर्हत्तमः पूज्यतमः । ननु रामकृष्णयोस्सर्वोत्तमत्वे मूलरूपस्य किमागतमित्यत आह ।। यथैवेति ।। तत्तस्मात् अवतारस्य सर्वोत्तमत्वे मूलरूपस्य सर्वोत्तमता किं वाच्येति भावः ।। ७६६ ।।
सत्यप्रमोदटीका
‘अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान्सात्वतां पतिः’ इति भागवतोक्तिं (१०-७४-१९) सङ्गृह्णाति अर्हतीति । तत् मूलावतारयो-रत्यन्ताभेदात् ।। ७६६ ।।
युक्तिमल्लिका
तस्मात्सर्वेश्वरो विष्णुः सर्वं सर्वत्र सर्वदा ।
प्रवर्तयति सर्वज्ञः सर्वशक्तिः सनातनः ।। ७६७ ।।
सुरोत्तमटीका
विष्णोः सर्वोत्तमत्वसाधनमुपसंहरति ।। तस्मादिति ।। ७६७ ।।
सत्यप्रमोदटीका
ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः इति सूत्रस्य ‘सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्तते’ इति भाष्यं हृदि कृत्वाऽऽह तस्मादिति ।। ७६७, ७६८ ।।
युक्तिमल्लिका
तद्भूतं भूतमेतस्माद्भवच्च भवति प्रभोः ।
भाव्यं भविष्यति ह्यस्य कृपया नान्यतः क्वचित् ।। ७६८ ।।
सुरोत्तमटीका
तत्तस्मात् ।। ७६८ ।।
युक्तिमल्लिका
अतः सर्वेष्टलाभाय सर्वानिष्टनिवृत्तये ।।
तमर्च्यमर्चय स्तुत्यं स्तुहि नम्यं नमाच्युतम् ।। ७६९ ।।
सुरोत्तमटीका
अतः विष्णोरेव भूतभव्यभवत्प्रभुत्वात् ।। ७६९ ।।
सत्यप्रमोदटीका
अतः तस्यैव स्वातन्त्र्येण फलदानसमर्थत्वात् । तदुक्तं ॐ फलमत उपपत्तेरिति ।। ७६९ ।।