प्रमाणसत्त्वचिन्तां तु श्रुतिरेव निकृन्तति
निराकारवादभङ्गः
युक्तिमल्लिका
प्रमाणसत्त्वचिन्तां तु श्रुतिरेव निकृन्तति ।
युक्तिस्तु नित्यचैतन्याकारं सत्कृरुतेतराम् ।। १७५ ।।
सुरोत्तमटीका
इदानीं चार्वाकमतप्रस्तावप्रसंजितस्वसाकारमतमनङ्गी-कुर्वाणं निराकारवादिनं प्रत्याह ।। प्रमाणेति ।। उक्तवक्ष्यमाणश्रुति-सिद्धत्वादिति भावः । युक्तिसिद्धत्वाच्चाङ्गीकार्या सा साकारतेत्याह ।। युक्तिस्त्विति ।। १७५ ।।
सत्यप्रमोदटीका
जीवः करचरणाद्याकारोपेतस्वरूपः तथाविधेश्वर-प्रतिबिम्बत्वात् प्रतिमुखवत् इति युक्तिसिद्धं च साकारत्वमित्याह युक्ति-स्त्विति । न चासिद्धिः । ‘रूपं रूपं प्रतिरूपो बभूवे’ति श्रुतिसिद्धत्वात् । मुखप्रतिमुखयोः समानाकारत्वं प्रत्यक्षसिद्धमिति नाप्रयोजकता । अतः सुदृढव्याप्तिपक्षधर्मतोपेततया युक्तिर्निरवकाशा । तदेतदाह सत्कुरुतेतरामिति ।। १७५ ।।
युक्तिमल्लिका
अणूनामणुराकारो यथा नित्योऽस्त्यनादितः ।
ज्योतिर्मयास्तथा जीवास्साकारास्सन्तु सन्ततम् ।। १७६ ।।
सुरोत्तमटीका
तदुपपादयति ।। अणूनामिति ।। यथा अणूनां परमाणूनां अणुस्सूक्ष्मः नित्यश्चाकारः पारिमाण्डल्याख्यः परितो मण्डलाकारः अनादितोऽस्ति तथा जीवा नित्येनैवाकारेण साकारास्संत्विति भावः ।।१७६।।
सत्यप्रमोदटीका
आकारस्यानादिनित्यत्वमपि युक्तियुक्तमित्याह अणू-नामिति । जीवः अनादिनित्याकारवान्, अणुत्वात् परमाणुवत् इति प्रयोगोऽभिप्रेतः ।। १७६ ।।
युक्तिमल्लिका
परितो मण्डलाकारात्पारिमाण्डिल्यसंज्ञिताम् ।
कथयन्ति महात्मानः परमाणुषु चाकृतिम् ।। १७७ ।।
सुरोत्तमटीका
तदेव विशदयति ।। परित इति ।। मण्डलाकारात् वर्तुलाकारात् ।। १७७ ।।
सत्यप्रमोदटीका
दृष्टान्तो न साध्यविकलः प्रेक्षावदभ्युपगमादित्याह परित इति ।। १७७ ।।
युक्तिमल्लिका
यथा जालमरीचिस्थ वर्तुलास्त्रसरेणवः ।
ततोऽप्यत्यन्तसौक्ष्म्येण वर्तुलास्तेपि रेणवः ।। १७८ ।।
सुरोत्तमटीका
ततोऽपि त्रसरेणुभ्योऽपि । तेऽपि रेणवः परमाणुरूपा रेणव इत्यर्थः ।। १७८ ।।
युक्तिमल्लिका
हस्तादिः क्वचिदाकारः क्वचिदाकृतिरीदृशी ।
पृथुबुध्नोदराकारो घटस्येति न किं श्रुतम् ।। १७९ ।।
सुरोत्तमटीका
ननु हस्तपादादिरेवाकारः । न वर्तुलत्वादिरित्यत आह ।। हस्तादिरिति ।। क्वचिज्जीवेषु क्वचित्परमाण्वादौ ईदृशी पूर्वोक्ता । हस्तपादादिव्यतिरिक्ताकारं सर्वानुभवसिद्धं करोति ।। पृथ्विति ।। संस्थान-विशेषो ह्याकारस्सच चेतने हस्तपादादिरूपः अचेतने वर्तुलत्वदीर्घत्वह्रस्वत्व-त्रिकोणत्वचतुष्कोणत्वादिरूपः । स च नित्येषु नित्यः अनित्येष्वनित्यः । सर्वत्राप्याकारपदप्रयोगदर्शनादाकारताप्यङ्गीकार्यैवेति भावः ।। १७९ ।।
युक्तिमल्लिका
अतो नित्यचिदाकारो युक्तिसिद्धो न वार्यते ।। १८० ।।
सुरोत्तमटीका
अणूनामित्यादिनोक्तं प्रमेयमुपसंहरति ।। अत इति ।। नित्यचिदाकारश्चेतनानामिति शेषः ।। १८० ।।
सत्यप्रमोदटीका
परमाणोर्वर्तुलत्वाकारः जीवस्य करचरणादिमत्त्वं इति तु वैषम्यमात्रम् ।साकारत्वमुभयत्र सममित्याह यथेत्यादिना।।१७८-१८० ।।
युक्तिमल्लिका
सर्वावकाशदात्री च व्याप्ता च विरलाऽऽकृतिः ।
नभस्यस्ति न चेदीशव्याप्तेः किं स्यान्निदर्शनम् ।। १८१ ।।
सुरोत्तमटीका
नभोवन्निराकारा जीवाः किं न स्युरित्यतः तदपि साकारमेवेत्याह ।। सर्वेति ।। सर्वेषामवकाशदात्री । विरला निबिडताविधुरा । नभस ईदृशाकारतानङ्गीकारे बाधकमाह ।। नचेदिति ।। ईशव्याप्तेरीशस्य परमेश्वरस्य व्याप्तेः । तथा च व्याप्तविरलाकार आकाशस्याप्यस्तीति भावः ।। १८१ ।।
सत्यप्रमोदटीका
ननु जीवः निराकारः नित्यत्वात् नभोवदिति सत्प्रतिपक्षतेत्यत आह सर्वस्येति । नभसि व्याप्तविरलाकारसद्भावात्साध्य-विकलो दृष्टान्त इति भावः ।। अयमाशयः । ईशस्य व्याप्तविरलाकृतिः ‘सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतिसिद्धा । तत्र ‘आकाशवत्सर्वगतश्च नित्यः’ ‘यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते’ इत्यादौ तत्र तत्राकाशो दृष्टान्तीक्रियते । अत आकाशेऽपि व्याप्तविरलाकारोऽवश्यमङ्गीकार्यः इति ।। १८१ ।।
युक्तिमल्लिका
दूरस्थैर्नीलिमा चास्य दृश्यते सर्वलौकिकैः ।
वायोश्च शीतस्पर्शस्याऽऽधाराकारोऽनुमीयते ।। १८२ ।।
सुरोत्तमटीका
आकारान्तरमप्यनुभावयति । दूरस्थैरिति ।। नीलिमा नीलो वर्णः । अस्याकाशस्य । आकाशो नीलिमोदेतीति श्रुतेः न भ्रममात्र-मेतत् । वायोरपि साकारत्वं साधयति ।। वायोरिति ।। अन्यथा वायुस्पर्शस्य निराधारत्वं स्यादिति भावः ।। १८२ ।।
सत्यप्रमोदटीका
प्रौढिवादेनाह दूरस्थैरिति । तथा च नीलरूपो-पेताकारवत्त्वं आकाशस्याप्यस्तीति भावः । वस्तुतस्तु दूरस्थैर्नभोनीलिम-प्रतीतिर्भ्रमरूपैव । तदुक्तं वादावल्यां ‘नभोनीलिमप्रतीतिभ्रमताऽप्या-गमाद्यवगम्यैवे’ति । नभोनैल्योपलम्भस्य प्रमात्ववादः न्यायामृते ‘प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकोद्धारः’ इति भङ्गे केचिदित्यादिनोपन्यस्तः । ‘केचितु आकाशो नीलिमोदेतीति श्रुतेर्नभो नीलमेव समीपेतु भूसन्निकर्षस्य प्रतिबन्ध-कत्वान्नैल्यानुलम्भ इत्याहः’ इति । तट्टिप्पण्यां श्रीनिवासतीर्थाः । ‘केचिदाहु-रित्यस्वरसोद्भावनम् । तद्बीजं तु गुरुचरणा इत्थमुपदिशन्ति । तथा हि । सिद्धान्तेऽव्याकृतमेवाकाशं नीरूपं साक्षिवेद्यम् । ‘आकाशो नीलिमोदेतीति श्रुतिर्भूताकाशविषयैव । नीलरूपोपेतमपि तद्भूताकाशमतीन्द्रियमेव । न सर्वजनप्रत्यक्षविषयः । ‘भूतमप्यसितं दिव्यदृष्टिगोचर’मिति दिव्यदृष्टिगोचर-त्वोक्तेः । नीलं नभ इति प्रत्यक्षं च सर्वजनसाधारणम् । अतो नायं पक्षः साधीयानिति । तथाऽपि प्रौढिवादेनापि आकाशस्य साकारत्वं सिद्ध्यति इत्यत्र तात्पर्यम् । यद्वा दृश्यते इत्यस्य पश्यार्थैश्चानालोचने इत्यनुसारेण ‘आकाशो नीलिमोदेति’ इत्यागमेन ज्ञायते इत्यर्थः । दूरस्थैः इति उपलक्षणम् । सर्वैरपीत्यर्थः । तथाच श्रुतिसिद्धत्वादाकाशस्य यथा, तथा जीवस्यापि प्रमितत्वात्करचरणाद्याकारोऽभ्युपगमनीय इति भावः । यद्वा दृश्यते इत्यनन्तरं योगिभिरिति शेषः । सर्वलौकिकैरित्यनन्तरं आगमतः इति च । तथा च योगिभिः प्रत्यक्षतो दृश्यते । तदितरैः आगमतः ज्ञायते इति हृदयम् ।। स्पर्शः साकारद्रव्याश्रितः गुणत्वात् रूपवत् इति वायोरपि साकारत्वे युक्तिमाह वायोरिति ।। १८२ ।।
युक्तिमल्लिका
इतरेषां तु भूतानामाकारस्साक्षिगः ।
पुम्पशोस्तव यच्छृङ्गं निराकरं तदेव तत् ।। १८३ ।।
सुरोत्तमटीका
इतरेषामाकाशवायुव्यतिरिक्तानां तेजोबन्नात्मकभूतानाम् । एवमनुभवसिद्धाकारापलापे तव पशुत्वं स्यादिति ध्वनयन्सर्वस्यैवं साकारत्वे किं तर्हि निराकारमित्यतः तदपि तस्मिन्नेव दर्शयति ।। पुंपशोरिति ।। तत्तस्मात्पशोः शृृङ्गावश्यम्भावात् नरपशोस्तव यच्छृङ्गं तस्य चाकारादर्शना-त्तदेव निराकारमित्यर्थः । परमाणुमारभ्य पञ्चमहाभूतपर्यन्तस्य सर्वस्य च जडप्रपञ्चस्य सर्वेषां चेतनानां चोक्तविधया साकारत्वात् सहस्रशीर्षाद्याकारवति भगवति निराकारत्वस्य च सुतरामयोगात् सार्वजनीनमिदं प्रमेयमनङ्गीकुर्वतो नृपशोस्तव शृङ्गं वा शशशृङ्गं वा निराकारं स्यात् । भावाभावात्मकजगतितु न किञ्चिन्निराकारमिति भावः ।। १८३ ।।
सत्यप्रमोदटीका
साक्षिगोचरः व्यवसायद्वारेति भावः । तथा च आकारस्य सत्त्वव्यापकत्वात् चेतनस्य सतो निराकारत्वं ब्रुवाणो व्याहतभाषी पुरुषपशुरित्याह पुम्पशोरिति ।। १८३ ।।
युक्तिमल्लिका
ये जीवान्वैदिकं मन्या ज्योतीरूपान्वदन्ति ते ।
किं नोरीचक्रुरेतेषां सूक्ष्मदीपसमाकृतिम् ।। १८४ ।।
सुरोत्तमटीका
न केवलं जीवानां ज्योतिर्मयत्वं मयैवोच्यते किं तु निराकारत्वं वदन्परोऽप्यङ्गीकुरुते । अतस्तेषां साकारत्वमपि यौक्तमेवेत्याह ।। य इति ।। ये वैदिकंमन्याः जीवान् ज्योतीरूपान्वदन्ति । ते मायिनः । एतेषां जीवानाम् ।। १८४ ।।
सत्यप्रमोदटीका
आकारे श्रुतिसिद्धस्य पारमार्थिकत्वस्य करचरणादि-मत्त्वस्य चानङ्गीकारात् वैदिकमन्या इत्युक्तम् । दीपसमेति । जडवर्तुलेत्यर्थः ।। १८४ ।।
युक्तिमल्लिका
वयं तु ज्योतिषस्तस्य ज्योतीरूपमुखं करौ ।
चरणावुदरादींश्च वदामोऽत्र किमद्भुतम् ।। १८५ ।।
सुरोत्तमटीका
वयं तु ज्योतिषः ज्योतीरूपस्य । तस्य जीवस्य । ज्योतीरूपमित्येतत्करादावपि ग्राह्यम् । अत्र एतादृशाकारे ।। १८५ ।।
सत्यप्रमोदटीका
त्वया सर्वथाऽनङ्गीकृतस्याकारस्य मयाऽभ्युपगमे स्यात्कथञ्चिदद्भुतम् । नैतदस्ति । आकारमात्रस्योभाभ्यामङ्गीकारात् । आकारे करचरणादिरूपवैलक्षण्यमात्रस्य मया स्वीकारे न किमपि तथाविधमपूर्वं इत्याह किमद्भुतमिति ।। १८५ ।।
युक्तिमल्लिका
त्वं तु ब्रूषे जडाकारं वयं त्वजडताश्रये ।
जडाद्विलक्षणाकारं ब्रूमो युक्तिः किमत्र न ।। १८६ ।।
सुरोत्तमटीका
किमद्भुतमित्येतदुपपादयति ।। त्वं त्विति ।। मायावादी त्वं जडाकारं जडवर्तुलतेजोमयदीपसमाकारम् । जडाकारमित्यत्राजडताश्रय इति वक्ष्यमाणमावर्तनीयम् । जीव इति शेषः । तत्ववादिनो वयन्तु अजडताश्रये जीवे जडाद्विलक्षणाकारं ब्रूम इति सम्बन्धः । अत्र अजडस्य जडविलक्षणा-कारत्वे युक्तिर्न किं युक्तिरस्त्येवेत्यर्थः । जडाजडयोर्वैलक्षण्यस्य सर्वजनसंप्रति-पन्नत्वादिति भावः ।। १८६ ।।
सत्यप्रमोदटीका
अचेतनस्य स्वतःप्रवृत्तिविधुरस्य स्याद्वर्तुलत्वाद्याकारः। चेतनस्य तु स्वतःप्रवृत्तिमतो तन्निर्वाहककरादिमत्त्वाकार एव युक्तियुक्त इत्याह त्वं त्विति ।। १८६ ।।
युक्तिमल्लिका
पाञ्चभौतिकदेहेऽस्मिंस्तेजसोप्यस्ति रूपिता ।
सा शुद्धतेजोमात्रस्याप्यस्ति चेत्का क्षतिस्तव ।। १८७ ।।
सुरोत्तमटीका
जडस्यापि तेजसश्चेतनसम्बन्धिदेहान्तर्निविष्टस्य साकारता दृष्टा किमु चिद्रूपतेजस इति भावेनाह ।। पाञ्चभौतिकेति ।। अस्मिन्नस्मदादि-सम्बन्धिनि तेजसो रूपिता करचरणाद्याकारता अधिकं प्रविष्टं न तु तद्धानिरिति न्यायेन । सा रूपिता केवलतेजोमात्रस्याप्यस्ति चेत्का क्षति स्तवेति सम्बन्धः । तथा केवल तेजोमयविग्रहवतां चेतनानां भवत्विति भावः
।। १८७ ।।
सत्यप्रमोदटीका
देहस्तावत्सर्वांशेन पञ्चभूतात्मकः । स च कर-चरणादिमान् । तथा च देहगतस्य तेजोंशस्यापि तथाविधाकारः सिद्ध्यति । एवमेव तेजोमयस्यापि चेतनस्य तादृश आकारोऽस्ति चेत्किं तत्र दुर्घटमित्याह भौतिक इति ।। १८७ ।।
युक्तिमल्लिका
आप्यतैजसवायव्यमात्रदेहाश्च किञ्चन ।
अतः पिण्डसमाकारं पिण्डभोक्तुर्न कल्पय ।। १८८ ।।
सुरोत्तमटीका
किं च वरुणलोके आप्यदेहाः अग्निलोके तैजसदेहाः वायुलोके वायव्यदेहाः ते जीवाः प्रसिद्धा न किं प्रसिद्धा एवेत्यर्थः । अत इत्युपसंहारः । पिण्डभोक्तुः अन्नपिण्डभोक्तुर्जीवस्य करचरणादिशून्य-पिण्डसमाकारं न कल्पय । किं तु पिण्डदातुर्गृहं प्रति गन्तुं तैर्दत्तपिण्डं गृहीत्वा मुखे प्रक्षेप्तुं अत्तुं च चरणकरमुखाद्याकारं कल्पयेति भावः ।।१८८।।
सत्यप्रमोदटीका
अथोच्येत पृथिव्यादिसहभूतस्य तेजोभूतस्य करा-द्याकारसम्भवेऽपि केवलस्य तस्य तथात्वं न दृष्टम् । कथं तद्दृष्टान्तेन केवल-तेजोरूपस्य जीवस्य तन्निरूपणमिति । मैवम् । अग्निलोके तेजोमय-शरीराणामपि तथाविधाकारदर्शनादित्याह तैजसेति । आप्यवायव्यानामुदाहरणं प्रसङ्गादिति ध्येयम् । गमनासनभोजनादिप्रवृत्तिनिर्वाहार्थमपि चेतनस्य करचरणादिकमेष्टव्यं इति प्रागुक्तं स्मारयन्नुपसंहरति अत इति ।। १८८ ।।
युक्तिमल्लिका
सुखरूपाश्च ते सर्वे ज्ञानरूपाश्च सर्वदा ।
अनादिनित्यास्सत्याश्च चिद्रूपावयवा यतः ।। १८९ ।।
सुरोत्तमटीका
भागवते न यत्र मायेति वैकुण्ठे मायामयं देहं निषिध्य पुनः प्रवालवैडूर्यमृणालवर्चसामिति स्वरूपभूतदेहस्यैव तेजोमयत्वकथना-त्तदनुसारेण प्रकाशमयदेहत्वं प्रसाध्य तस्यैव च सुखज्ञानरूपत्वं च साधयति ।। सुखरूपा इति ।। ते सर्वे जीवाः यतश्चिद्रूपावयवाः अतः अनादिनित्याः सत्याश्चेति सम्बन्धः ।। १८९ ।।
सत्यप्रमोदटीका
जीवाः अनादिनित्यसत्यसुखज्ञानात्मकस्वरूप-देहोपेताः तादृशभगवद्रूपप्रतिबिम्बत्वात् । यो यत्प्रतिबिम्बः स तादृशाकारवान् यथा प्रतिमुख; इति युक्त्याऽपि जीवस्य जडविलक्षणाकारसिद्धिरप्रत्यूहेत्याह सुखेत्यादिचतुर्भिः । अत्र मुक्ता एव पक्षतया विवक्षिताः । इतरेषां तु अनादिनित्यसत्यस्वरूपदेहवत्त्वमात्रेण सादृश्यम् । प्रतिमुखेऽपि यथायथं किञ्चित्सादृश्यमेव न तु सर्वत्रैकविधमिति न दृष्टान्तानुपपत्तिः ।। १८९ ।।
युक्तिमल्लिका
न चेज्ज्योतिर्मयाकारसुभगस्य हरेरिमे ।
प्रतिरूपाः कथं जीवा भवेयुरिति चिन्त्यताम् ।। १९० ।।
सुरोत्तमटीका
तदनङ्गीकारे बाधकमाह ।। नचेदिति ।। ज्योति-र्मयाकारसुभगस्येत्युपलक्षणम् । ज्ञानानन्दादिसकलगुणमयाकारस्येत्यपि द्रष्टव्यम् । प्रतिरूपाः प्रतिबिम्बाः कथं भवेयुरिति सम्बन्धः ।। १९० ।।
सत्यप्रमोदटीका
अप्रयोजकतां निराह न चेदिति । हेतूच्छित्तिरेव विपक्षे बाधिकेति भावः ।। १९० ।।
युक्तिमल्लिका
पुरुरूपस्य जीवोऽयं रूपं रूपं प्रति प्रति ।
प्रतिरूपो बूभवेति श्रुतिर्गर्जति शाश्वती ।। १९१ ।।
सुरोत्तमटीका
ननु जीवानां हरिप्रतिबिम्बत्वे सतीदं सर्वं स्यात्तदेव कुत इत्यतो रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादशेति श्रुतिं प्रमाणयितुं तामर्थतोऽनु-वदति ।। पुरुरूपस्येति ।। पुरुरूपस्य हरेः रूपं रूपं प्रत्ययं जीवः प्रतिरूपः प्रतिबिम्बो बभूवेति श्रुतिर्गर्जतीति सम्बन्धः । तथा च श्रुतिबलाज्जीवानां हरिप्रतिबिम्बता सिद्ध्यतीति भावः ।। १९१ ।।
युक्तिमल्लिका
तच्छुतिस्मृतिहर्षाय मनःकर्षाय पश्यताम् ।
भुक्त्यै च मौक्तभोगानां सत्यैवेयं व्यवस्थितिः ।। १९२ ।।
सुरोत्तमटीका
अतः किमित्यत आह ।। तदिति ।। श्रुतिः पूर्वोक्ता स्मृतयस्तत्र तत्रोदाहृता द्रष्टव्याः । तासां श्रुतिस्मृतीनां हर्षायाविरोधायेत्यर्थः । पश्यतां मुक्तावन्योन्यं पश्यतां मनः कर्षाय लावण्यातिशयेन मनसामाकर्षणाय मुक्तौ प्राकृतविग्रहाभावात् मौक्तभोगानां भुक्त्यै जक्षन्क्रीडन्रममाण इत्याद्युक्त-भोगानामनुभवाय चेयं व्यवस्थितिः जीवचैतन्यस्यैव साकारत्वादिरूपा व्यवस्थितिः सत्या अबाध्येति सम्बन्धः । बाध्यदेहस्य मुक्तावसम्भवादिति भावः ।। १९२ ।।
सत्यप्रमोदटीका
असिद्धिं निराह श्रुतिरिति ।। १९१,१९२ ।।
युक्तिमल्लिका
वृत्तता चतुरस्रत्वाद्याकारस्तदचेतने ।
चेतनेष्वेव हस्तांघ्रिश्रोत्रनेत्रादिकाकृतिः ।। १९३ ।।
सुरोत्तमटीका
इतोऽपि हस्तपादाद्याकारश्चेतनस्यैव स्वाभाविकः । तत्सम्बन्धादेव लिङ्गदेहस्थूलदेहादेः नान्यथेत्याह ।। वृत्ततेति ।। तत्तस्मात् जडेषु वर्तुलत्वाद्याकारस्यैव सर्वैर्दृश्यमानत्वात् । वृत्तता वर्तुलता । चतुरश्रत्वं चतुष्कोणत्वम् । आदिपदेन त्रिकोणत्वादिकं गृह्यते । तदादिराकारः । अचेतने जात्येकवचनम् । परमाणुघटपटाद्यचेतनेषु चेतनेष्वेव हस्ताद्याकृतिरिति सम्बन्धः ।। १९३ ।।
सत्यप्रमोदटीका
इदानीं लिङ्गशरीरगतेन औपाधिकेन पुमाकारेण जीवस्य स्वाभाविक पुमाकारं साधयति वृत्ततेत्यादिना युक्तिश्चेत्यन्तैः पश्च-दशभिः श्लोकैः । अयमिह प्रयोगोऽभिप्रेतः । जीवः स्वाभाविकहस्त-पादाद्याकारवान्, स्वयोगेन लिङ्गशरीरे तथाविधाकाराधायकत्वात् । यत् स्वयोगेन अन्यत्र यद्धर्माधायकं तत् तथाविधस्वाभाविकतद्धर्मोपेतम् । यथा स्वसन्निधानेन स्फटिकमणौ लौहित्याधायकं जपाकुसुमं स्वाभाविकलौहित्यो-पेतं, यथा वा वेष्टनकञ्चुके वाससि तनुच्छायाऽऽधायकं यवनस्त्रीकलेवरं स्वतः तनुत्वोपेतम् इति ।। तत्र जीवयोगरहितेषु घटपटाद्यचेतनेषु अदृष्टं विलक्षणं हस्तपादाद्याकारवत्त्वं लिङ्गशरीर एव तावदनुभवसिद्धमित्याह वृत्ततेति
।। १९३ ।।
युक्तिमल्लिका
इत्येव सर्वथा वाच्यं न चेल्लिङ्गकलेवरे ।
जडान्तरादृष्टरूपं कुतो जातं विचार्यताम् ।। १९४ ।।
सुरोत्तमटीका
तदनङ्गीकारे बाधकमाह ।। नचेदिति ।। लिङ्गकलेवरे लिङ्गशरीरे जडान्तरादृष्टरूपं लिङ्गशरीरान्यजडेष्वदृष्टाकारः लिङ्गशरीरे कुतो जातमिति विचार्यतामिति सम्बन्धः ।। १९४ ।।
सत्यप्रमोदटीका
लिङ्गदेहे अवयववत्त्वाकारः जीवयोगनिमित्तक एव कुतः । निमित्तान्तरात्कुतो न स्यात् । तथा च हेतोरसिद्धिरित्यतस्त-न्निमित्तान्तरं विकल्पासहमित्याह विचार्यतामिति ।। १९४ ।।
युक्तिमल्लिका
प्रकृत्यंशा हि ते सर्वे सा च सूक्ष्माणुरूपिणी ।
न तस्याश्च तदाकारो विकृतौ स्थूलरेणुता ।
भवेत्परं पुमाकारे पुंरूपानुसृतिर्गतिः ।। १९५ ।।
सुरोत्तमटीका
प्रकृतिसम्बन्धात् लिङ्गशरीरे करचरणाद्याकारो जात इत्यत आह ।। प्रकृतीति ।। ते सर्वे लिङ्गदेहाः । सा च प्रकृतिः सूक्ष्माः परमसूक्ष्माः ये अणवो रेणवः तद्रूपिणी । तथा च तस्याः प्रकृतेस्तदाकारो लिङ्गशरीरनिष्ठाकारो नेति सम्बन्धः । ननु विकृतिवशात् प्रकृतेरेव तादृशाकारो जात इत्यत आह ।। विकृताविति ।। सूक्ष्माणुरूपिण्याः प्रकृतेर्विकृतावपि स्थूलरेणुतापरं भवेत् । न पुमाकार इति भावः । अस्ति च लिङ्गशरीरे पुमाकारः । तस्मात्पुरुषरूपानु-सृतिरेव गतिरित्याह ।। पुमाकार इति ।। १९५ ।।
सत्यप्रमोदटीका
तथाहि तन्निमित्तं प्रकृतिसम्बन्धो वा तद्विकृतिर्वा ।। नाद्य इत्याह प्रकृत्यंशा इति । तथा च तदंशानां सूक्ष्माणुरूपत्वमेव स्यात् न तु हस्तपादाद्याकारः । द्वितीयं निराह विकृतौ इति ।। तृतीयः पक्षस्तु असम्भावितः । अनादेरन्यस्याभावात् । सादेः स्वसम्बन्धेन अनाद्या-कारानाधायकत्वात् ।। १९५ ।।
युक्तिमल्लिका
साकारसर्वजीवाङ्गवेष्टनेनेष्टहेतुताम् ।
गतास्ते तत्समाकारास्तद्देहत्वं च लेभिरे ।। १९६ ।।
सुरोत्तमटीका
लिङ्गशरीरस्य स्वरूपं विशदयति ।। साकारेति ।। साकाराः नरमृगसरीसृपपक्ष्याद्याकारसहिता ये सर्वे जीवाः तेषां यानि स्वरूपभूतान्यङ्गानि करचरणादीनि तद्वेष्टनेनेष्टहेतुत्वं भोगहेतुत्वं गताः तत्समाकाराः जीवस्वरूपभूतशरीरसमाकाराः ते लिङ्गदेहाः कंचुकवत् यवन-स्त्रीसर्वाङ्गकञ्चुकवद्वा तद्देहत्वं च लेभिरे ।। १९६ ।।
सत्यप्रमोदटीका
परिशेषतः सिद्धमाह साकारेति ।। १९६ ।।
युक्तिमल्लिका
तल्लिङ्गदेहता चैषां तत्तद्रूपानुमापनात् ।। १९७ ।।
सुरोत्तमटीका
लिङ्गशरीरेषु लिङ्गशब्दार्थं निर्वक्ति ।। तदिति ।। एषां लिङ्गदेहानां तत्तद्रूपानुमापनात् स्वस्वसदृशतत्तच्चेतनरूपानुमापनात् तल्लिङ्गदेहता तेषां जीवानां लिङ्गदेहता ।। १९७ ।।
सत्यप्रमोदटीका
लिङ्गदेह इति असाधारणव्यपदेशोऽपि तद्वेष्टितस्य जीवस्य चिद्देहरूपतां अनुमापयतीत्याह तदिति ।। १९७ ।।
युक्तिमल्लिका
अतादृशास्तादृशाश्च बाह्यदेहास्स्युरंहसा ।
अतो न लिङ्गतैतेषां सोऽनादिस्सादयस्त्विमे ।। १९८ ।।
सुरोत्तमटीका
बाह्यशरीराण्यपि लिङ्गदेहाः किं न स्युरित्यत आह ।। अतादृशा इति ।। अतादृशाः अतत्सदृशाः । तादृशास्तत्सदृशाः । बाह्याः लिङ्गदेहाद्बाह्याः अंहसा योन्यन्तरप्रापकदोषेण स्युरिति सम्बन्धः । अतश्चेतन-स्वरूपदेहाननुमापकत्वादेतेषां बाह्यदेहानाम् । वैलक्षण्यान्तरमप्याह ।। स इति ।। सः लिङ्गदेहसमूहः । इमे परिदृश्यमानाः बाह्यदेहाः ।। १९८ ।।
सत्यप्रमोदटीका
बाह्मदेहानां कुतो न लिङ्गत्वं इत्यतः तत्र तच्छब्द-प्रवृत्तिनिमित्ताभावादेवेत्याह अतादृशा इति । लीनं गमयतीति खलु लिङ्गशब्दनिरुक्तिः । तदुक्तं न स्थानतोऽपीति सूत्रभाष्यटीकायां ‘लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च’ इति । लिङ्गदेहः स्वरूपदेहस्य साक्षा-द्वेष्टनरूपोऽत एव तत्समानाकारः अन्तर्लीनस्य स्वरूपदेहाकारस्य गमक इति युज्यते तस्य लिङ्गशब्दवाच्यता । बाह्यदेहास्तु अंहसा दोषेण, कदाचित् साक्षाद्वेष्टनरूपत्वाभावात् अतादृशाकारा अप्युत्पद्यन्ते । ततो न तेषां स्वरूपदेहाकारानुमापकतेति न लिङ्गशब्दवाच्यत्वमित्याह अतो न लिङ्गतेति । तत्रैव हेत्वन्तरमाह सादय इति । कथं सादीनां सतां अनाद्याकारानु-मापकत्वमिति भावः ।। १९८ ।।
युक्तिमल्लिका
रेतसो बिन्दुमात्रेण बाह्यो देहश्च जायते ।
न तस्यापि स्वतो रूपमजीवं चेद्रजी हि सत् ।। १९९ ।।
सुरोत्तमटीका
बाह्यदेहानां सादित्वमुपपादयन् चेतनदेहसम्बन्धादेव देहाकार इत्याह ।। रेतस इति ।। तस्यापि रेतसोऽपि स्वतः स्वभावतः रूपं करचरणादि । जीवप्रवेशादेव तत्करचरणादिरूपेण परिणमते । अजीवं चेज्जीवप्रवेशरहितं चेत्तद्रेतः रजःकरचरणाद्याकारविधुरः ऋतुरूपरेतःकणः । हीत्यनेन प्रसिद्धिमाह ।। एतेन जीवयोगस्य जडनिष्ठकरचरणाद्याकारहेतुत्वे अन्वयव्यतिरेकौ दर्शिताविति द्रष्टव्यम् ।। १९९ ।।
सत्यप्रमोदटीका
जीवः स्वतः शरीरवान् स्वप्रवेशेन रेतसः शरीराकार- परिणामहेतुत्वात् । न चासिद्धिः । रेतसः शरीराकारः जीवप्रवेशनिमित्तकः तदन्वयव्यतिरेकानुविधायित्वात् इति युक्त्याऽपि जीवस्य शरीराकार-वत्त्वसिद्धिरित्याह रेतस इति ।। १९९ ।।
युक्तिमल्लिका
साक्षीन्द्रियगणैर्योगे बाह्येन्द्रियगणोऽप्यसौ ।
पृथक्पृथग्ज्ञानदस्स्यान्नो चेन्निर्हेतुको भवेत् ।। २०० ।।
सुरोत्तमटीका
जीवस्वरूपदेहस्य करचरणादिमत्तां साधयित्वा स्वरूप-भूतचक्षुरादीन्द्रियवत्तां साधयति ।। साक्षीति ।। साक्षीन्द्रियाणि स्वरूप-भूतचक्षुरादीनि तेषां गणैर्योगे लिङ्गशरीरे साक्षाद्योगे बाह्यशरीरे प्रकाशद्वारा योगे । असौ पुराणप्रसिद्ध इत्यनेन तैजसाहंकारोत्पन्नत्वं सूचयति । पृथक्पृथक् बाह्यचक्षुषि स्वरूपभूतचक्षुर्योग इत्यादिर्द्रष्टव्यः । ज्ञानदः तत्तज्ज्ञानदः । नोचेत्स्वरूपभूतेन्द्रिययोगो नास्ति चेत् जडेन्द्रियेषु ज्ञानदत्वाख्यो धर्मो निर्हेतुको भवेत् ।। २०० ।।
सत्यप्रमोदटीका
अनयैव दिशा जीवस्वरूपदेहस्य साक्षिणो इन्द्रिय-वत्त्वसाधनमपि सुलभमित्याह साक्षीति ।। जीवस्वरूपदेहः स्वतो ज्ञान-साधनेन्द्रियवान् स्वयोगे बाह्मदेहेन्द्रियेषु ज्ञानजननशक्त्याधायकत्वात् । विपक्षे अकारणकार्योत्पत्तिर्बाधिका इत्याह नो चेदिति ।। २०० ।।
युक्तिमल्लिका
अतस्स्वभावतस्सर्वे साकारा जीवराशयः ।
तत्कञ्चुकोपमा तत्तल्लिङ्गमूर्तिश्च तादृशी ।। २०१ ।।
सुरोत्तमटीका
जीवानां साकारत्वसमर्थनमुपसंहरति ।। अत इति ।। तत्कञ्चुकोपमा तेषां स्वरूपभूतदेहानां कञ्चुकोपमा तत्तल्लिङ्गमूर्तिः सा सा लिङ्गमूर्तिः तादृशी जीवस्वरूपभूतदेहसदृशी ।। २०१ ।।
सत्यप्रमोदटीका
प्रागुक्तं प्रमेयजातं सङ्क्षेपेणानूद्योपसंहरति सप्तभिः श्लोकैः अत इत्यादिना ।। २०१-२०७ ।।
युक्तिमल्लिका
क्वचित्तु कर्मणा बाह्या भिन्नाकारा च जायते ।। २०२ ।।
सुरोत्तमटीका
बाह्या मूर्तिरिति शेषः ।। २०२ ।।
युक्तिमल्लिका
जडान्तरादृष्टरूपं तनूनामेवमागतम् ।
इति मन्ये न चेदन्ये, जडाश्च स्युश्शरीरवत् ।। २०३ ।।
सुरोत्तमटीका
जडान्तरे शरीरव्यतिरिक्तजडे घटपटादौ अदृष्टरूपम् । न चेत्स्वरूपभूतदेहसम्बन्धो नो चेत् अन्ये जडाः घटादयः शरीरवत्कर-चरणादिमन्तः स्युरिति सम्बन्धः ।। २०३ ।।
युक्तिमल्लिका
अतस्स्वभावरूपस्याभावे रूपपरम्परा ।
निर्निमित्ता भवेत्तस्मात्साकारा जीवराशयः ।। २०४ ।।
सुरोत्तमटीका
अतः यतः शरीरव्यतिरिक्तजडा न कारादिमन्तः अत इत्यर्थः । स्वभावरूपस्य स्वभावदेहस्य । रूपपरम्परा देहपरंपरा । तस्मान्नि-र्निमित्तत्वायोगात् ।। २०४ ।।
युक्तिमल्लिका
कञ्चुकेऽस्ति तनुच्छाया न त्वकञ्चुकवाससि ।
ततस्स्वाभाविकाभावे न स्युरौपाधिका अपि ।। २०५ ।।
सुरोत्तमटीका
इतोऽपि जीवस्य स्वरूपभूतं शरीरमङ्गीकार्यमित्याह ।। कञ्चुक इति ।। यतः कञ्चुक एव तनुच्छाया शरीरवत्करचरणादिच्छायाऽस्ति । अकुञ्चकवाससि अकञ्चुकीभूतपच्छोटिकादिवाससि तनुच्छाया नतु नैव । ततस्तस्मात्स्वाभाविककरचरणादिमद्देहाभावे तदुपाधिकाः लिङ्गदेहादयोऽपि करचरणादिमन्तो न स्युरिति सम्बन्धः । तस्मात्स्वाभाविककरचरणादि-मन्नित्यदेहोऽङ्गीकार्यः । अन्यथा कञ्चुके तनुच्छायावत् तदितरवासस्यपि तनुच्छाया स्यादिति भावः ।। २०५ ।।
युक्तिमल्लिका
स्याद्धि स्फटिकलौहित्यं स्वतो लोहितसन्निधौ ।
स्वेन रूपेण निष्पत्तिं मुक्तिमाह ततश्श्रुतिः ।। २०६ ।।
सुरोत्तमटीका
औपाधिकस्य स्वाभाविकनैयत्यमुपपादयति ।। स्यादिति ।। स्फटिकलौहित्यं जपाकुसुमोपाधिकम् । तच्च स्वतो लोहितस्य जपाकुसुमस्य सन्निधावेव स्यात् नासंनिधावित्यौपाधिकं स्वाभाविकनियतमेवेति भावः । एवं युक्त्योपपादितस्वाभाविकदेहवत्त्वे श्रुतिं च प्रमाणयति ।। स्वेन-रूपेणेति ।। ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति श्रुतिः तत-स्स्वरूपदेहसद्भावात् स्वेन रूपेण निष्पत्तिं स्वरूपदेहेन प्राप्तिं’ मुक्तिमाहेति सम्बन्धः ।। २०६ ।।
युक्तिमल्लिका
युक्तिश्चौपाधिकौ रूपैस्स्वाभाविकमसाधयत् ।। २०७ ।।
सुरोत्तमटीका
पूर्वोक्तां युक्तिं स्मारयति ।। युक्तिश्चेति ।। औपाधिकै रूपैर्बाह्यदेहैः स्वाभाविकं स्वाभाविकदेहम् असाधयदिति सम्बन्धः ।। २०७ ।।
युक्तिमल्लिका
यस्तु वस्तु निराकारं वक्ति तत्वं न वेत्ति सः ।
चित्त्वाचित्त्वाश्रयं तत्वमित्थमित्यतिमङ्गलम् ।। २०८ ।।
सुरोत्तमटीका
जीवानां निराकारत्वखण्डनमुपसंहरति ।। यस्त्विति ।। वस्तु जीवादिवस्तु । असौ वादी । कुतस्तत्वं न वेदेत्यत आह ।। चित्त्वेति ।। चेतनाचेतनं खलु तत्वद्वयम् । तत्र चेतनतत्वं चित्त्वरूपाकाराश्रयम् । अचेतनतत्वमचित्त्वरूपाकाराश्रयमिति निराकारं क्वास्तीत्यर्थः । इयमप्येका सर्वस्य साकारत्वे युक्तिरिति भावः ।। २०८ ।।
सत्यप्रमोदटीका
किञ्च चित्त्वाचित्त्वान्यतराकारोपेतत्वं तत्त्वस्य लक्षणम् । आकारानङ्गीकारे तत्त्वस्वरूपसिद्धिरेव दुर्घटेत्याह यस्त्विति ।।२०८।।
युक्तिमल्लिका
गुरुश्चार्वाकविद्याया गुरुर्मे नाकिनां गुरुः ।
अतस्तत्कृपया श्रौतमतस्थितिरपीरिता ।। २०९ ।।
सुरोत्तमटीका
ननु गुरूक्तत्वाच्चार्वाकविद्या न निषेध्येत्यत आह ।। गुरुरिति ।। चार्वाकविद्यायाः गुरुर्बृहस्पतिर्गुरुर्गुरुरित्यावृत्त्या योज्यम् । मे मम नाकिनां बृहस्पत्यादिदेवानां गुरुरुपदेष्टा मुख्यवायुर्गुरुरिति सम्बन्धः । तत्कृपया मुख्यवायुकृपया । तथा चास्मदाचार्याणां त्वदाचार्यादप्युत्तमत्वा-त्त्वदाचार्येणोक्तमपि निषेध्यमिति भावः । अथवा चार्वाकविद्याया गुरुरुपदेष्टा नाकिनां देवानां गुरुर्बृहस्पतिः मे ममापि गुरुः हृदि स्थित्वा ज्ञानोपदेष्टा अतस्तत्कृपया श्रौतमतस्थितिरपि ईरितेति भावः ।। २०९ ।।
सत्यप्रमोदटीका
इदं चार्वाकमतनिराकरणकौशलं, मम हृदि स्थित्वा ज्ञानोपदेष्टुः मूलगुरोर्बायोः कृपया तथा देवगुरोः चार्वाकमतप्रवर्तकस्य बृह-स्पतेश्च कृपया प्राप्तमित्याह गुरुरिति ।। २०९ ।।
युक्तिमल्लिका
क्षीरस्योत्सेचनं को वा निरुणद्ध्याज्ञया जनः ।
वस्त्रेणापि ग्रहः प्रोक्तो राजमन्दिरसर्पिषः ।। २१० ।।
सुरोत्तमटीका
ननु चार्वाकमतनिराकरणावसरे तदुक्तदेहात्मकजड-जीवस्य या जडाकारता सा निराकार्या । नैवमस्मन्मतं किं तु जडदेहभिन्न-चेतनजीवस्य चिदात्मककरचरणादि मत्तैवेति वैलक्षण्यमात्रं प्रदर्शनीयम् । तदसहमानस्य मायावादिनो मतनिराकरणं किमर्थमत्र विस्तृतमित्यत आह ।। क्षीरस्येति ।। उत्सेचनं वह्निवशादूर्ध्वगमनम् । आज्ञया शपथादिरूपया । तथा चार्वाकनिराकरणप्रसङ्गात् स्मृततत्वनिरूपणनिरोधः कर्तुमशक्य इति भावः । अस्मिन्नर्थेऽर्थान्तरं न्यस्यति ।। वस्त्रेणापीति ।। २१० ।।
सत्यप्रमोदटीका
ननु चार्वाकमतनिराकरणे प्रस्तुते, मायावादनिराकरणं कुतोऽत्र विस्तृतमित्यत आह क्षीरस्येति । अग्नौ तापितस्येति शेषः । अयमाशयः । चार्वाको जीवस्य जडाकारमपि तावत्सत्यमङ्गीकुरुते । मायी तु आकारमात्रमपारमार्थिकं ब्रूते । तेन अयं तत्त्ववादस्य ततोऽप्यतिशयेन प्रतिपन्थी । प्रतिपन्थिनिराकृतिश्च वादिमात्रस्वभावः क्षीरस्योत्सेचनमिव । न हि स्वभावः स्वकार्यकृतौ प्रस्तुतत्वमपेक्षते । अतः पर्यनुयोग एवायं अनवसरदुःस्थ इति ।। किञ्च प्रसङ्गसङ्गतिरत्रास्त्येवेत्याह वस्त्रेणेति । स्वीकर्तुं पात्रं नास्तीत्येतावता राजमन्दिरसर्पिनोपेक्षार्हम् । तथा स्मृतं भगवन्निन्दकं मायिमतमपि नोपेक्षार्हं किन्तु दूष्यमेवेत्याशयः ।। २१० ।।