स्वपृष्ठचालने पक्षी त्रिलोकीं मनुते चलाम्
मायामतस्य दुर्नीतिविषयता
युक्तिमल्लिका
स्वपृष्ठचालने पक्षी त्रिलोकीं मनुते चलाम् ।
किञ्चिन्मिथ्येत्यर्थवच्च सर्वं मिथ्या जगत्किल ।। १२१२ ।।
सुरोत्तमटीका
इदानीं दुर्नीतिविषयतया च मिथ्यामतमपहसति ।। स्वपृष्ठेति ।। पक्षी क्षणे क्षणे पृष्ठचालनस्वभावः सूक्ष्मपक्षिविशेषः । किञ्चित् शुक्तिरजतादिकम् । किञ्चिदित्यनेनार्थक्रियानर्हत्वं च सूचयति ।। १२१२ ।।
सत्यप्रमोदटीका
दुर्नीतिविषयतादर्शनेनापहसति मिथ्यात्ववादिनम् । स्वपृष्ठेति । स्वकीयमिथ्यात्वसाधकानुमानस्य पृष्ठस्थानीयदृष्टान्तस्य शुक्ति-रूप्यस्य अर्थक्रियाऽनर्हतया सत्यत्वाच्चालने मिथ्यात्वे इति यावत् अर्थवत् अर्थक्रियावदपि सर्वं जगत् मिथ्येति मनुते । पक्षी जगतः निश्चलत्वमात्रं अपलपति अयं तु जगदेवापलपति इति ततोऽपि निकृष्ट इति भावः ।। १२१२ ।।
युक्तिमल्लिका
एकयोगे परत्यागस्तुन्दिलाधरचुम्बने ।
मिथ्येत्यसत्त्वं न स्वस्यानिर्वाच्यत्वं न कस्यचित् ।। १२१३ ।।
सुरोत्तमटीका
तुंदिलस्य बृहत्कुक्षेः पुरुषस्य ।। १२१३ ।।
सत्यप्रमोदटीका
असत्त्वमिति तदुक्तं भगवत्पादैः न चानिर्वचनीये किञ्चिन्मानम् । मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च’ इति । तथा च व्याघातपरिहाराय निषेधसमुच्चयस्य तात्त्विकत्वानङ्गीकारे निषेधसमुच्चयस्यैव अनिर्वचनीयत्वापातः ।। १२१३ ।।
युक्तिमल्लिका
नीचो वाचा बहु वदेद्ददात्यत्यल्पमेव हि ।
घुष्टोऽनिर्वाच्यशब्दार्थो द्विधर्मावाच्यता किल ।। १२१४ ।।
सुरोत्तमटीका
घुष्टः स्वशास्त्रे लोके चाघोषितः द्विधर्माभ्यां सत्त्वा-सत्त्वाख्यधर्माभ्याम् । अनिर्वाच्यशब्दार्थपर्यालोचनायां बहुप्रकारेणापि निर्वचनानर्हत्वं प्रतीयते । अत एव वाचा बहुवदेदित्युक्तम् । न हि बहुजना-कीर्ण ग्रामस्य जनद्वयराहित्येन निर्जनत्वं कोऽपि वक्तीति भावः ।। १२१४ ।।
सत्यप्रमोदटीका
बहु वदेत् अखिलप्रपञ्चस्य मिथ्यात्वं वदेत् । अल्प-मेव ददाति सत्त्वासत्त्वरूपधर्मद्वयमेव निषेधति । तच्च न जगन्मिथ्यात्व-साधकम् । तदुक्तं भगवत्पादैः । ‘वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेदि’ति । धर्मद्वयनिषेधोऽपि स्ववचन-विरुद्धः उक्तं च भामत्यां ‘लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि’ इति । प्रमाणानि खलु स्वगोचरे प्रवर्तमानानि तत्त्वमित्येव प्रवर्तन्ते इति च ।। १२१४ ।।
युक्तिमल्लिका
स्वाङ्गं स्वयं हि च्छिन्दन्ति पिशाचग्रस्तचेतनाः ।
सत्त्वाभावे ह्यसत्त्वं स्यात्तच्च प्रच्यवते किल ।। १२१५ ।।
सुरोत्तमटीका
तत् सत्त्वाभावरूपमसत्त्वम् । सद्विलक्षणत्वेन कथितस्य जगतः पुनरसद्विलक्षणत्वेन कथने स्वोक्तार्थस्य स्वेनेव छेदात् उक्तपिशाच एव तस्य निदर्शनमिति भावः ।। १२१५ ।।
सत्यप्रमोदटीका
तच्च असत्वं सत्त्वाभावेन व्याप्तिबलात्प्राप्तं असत्त्वम् । प्रच्यवते पुनः असत्त्वं न इति कथनेन स्वाङ्गीकृतमेव निषिध्यते । तदुक्तं वादावल्यां ‘सत्त्वविरहे असत्त्वं असत्त्वविरहे सत्त्वमिति अस्य नियतत्वे-नोभयविरहितत्वं व्याहतमेवे’ति ।। १२१५ ।।
युक्तिमल्लिका
दोषः किं किं न कुरुते यो जातिं हरति क्षणात् ।
अविद्यमानमेवाक्ष्णा काचे सति यदीक्ष्यते ।। १२१६ ।।
सुरोत्तमटीका
असदपरोक्षतो न प्रतीयत इति परस्य मतम् । तदपि दोषशक्त्या घटत इति लोकनीत्यैव प्रदर्शयति ।। दोष इति ।। यः पञ्चमहा-पातकाख्यो दोषः । जातिं नित्यत्वेनाभिमतां ब्राह्मणत्वादिजातिम् । ब्रह्मघ्नस्य पतित्वेनैव लोके व्यवहारात् । तादृशदोषस्याविद्यमानार्थप्रत्यायकत्वं किमु वक्तव्यमिति भावः । यत् यस्मात् ।। १२१६ ।।
सत्यप्रमोदटीका
ब्राह्मणे पूर्वं असदपि शूद्रत्वं ब्रह्महत्यादिदोषवशात् शास्त्रदृष्ट्या यथा प्रतिभासते एवं असदेव शुक्तिकायां असदेव रजतत्वं दूरस्थत्वसादृश्यादिदोषवशादपरोक्षतया भासते न तावता रजतत्वस्य अस-द्विलक्षणत्वं सिध्यतीत्याह दोष इति । तदुक्तं पद्धतौ ‘असदेव रजतं प्रत्यभा-दित्युत्तरकालीनपरामर्शात् शुक्तिकैव दोषवशादत्यन्तासद्रजतात्मना प्रति-भातीत्याचार्याः’ इति ।।१२१६ ।।
युक्तिमल्लिका
अदृष्टः श्वैव किं दृष्टौ श्वाश्वयोः स्याद्विलक्षणः ।
असन्नृशृृङ्गं दृष्टं चेद्भिन्नं सदसतोः किल ।। १२१७ ।।
सुरोत्तमटीका
प्रागसदेव शशशृृङ्गं दर्शने सति सदसद्विलक्षणं जायत इति परप्रक्रिया । तत्रापि नीतिविरोधप्रदर्शनायोक्तमदृष्ट इति ।। दृष्टौ सत्यां श्वाश्वयोर्विलक्षणः स्यात्किमिति सम्बन्धः । इदं यथा अबद्धं तथा तदप्य-बद्धमिति भावः ।। १२१७ ।।
सत्यप्रमोदटीका
वास्तवं असदेव शशशृृङ्गं भ्रमात्मकदर्शनमात्रेण अस-द्विलक्षणं भवतीति परप्रक्रियां अपहसति अदृष्ट इति । दर्शनात्पूर्वं श्वैव । दर्शनमात्रेण श्वाऽश्वविलक्षणो भवतीत्यस्य यथा अपहसनीयता तथेति भावः । दर्शनामात्रेण पदार्थस्य अन्यथाभाववचनमलौकिकमिति भावः ।। १२१७ ।।
युक्तिमल्लिका
किं स्पृष्टोच्छिष्टयोरेकः शुद्धोऽशुद्धोऽपरो भवेत् ।
सदन्याभावकालीनं सच्चेद्ब्रह्म तमोऽपि सत् ।। १२१८ ।।
सुरोत्तमटीका
सदसदभावकालीनं तम एव सदसद्विलक्षणं न तु ब्रह्मेति परस्य प्रक्रिया । तदपि दुर्नीतिग्रस्तमित्याशयेनोक्तम् ।। किमिति ।। स्पृष्टमुच्छिष्टं याभ्यान्तौ तथोक्तौ । तयोर्मध्ये । सदन्याभावकालीनं सत् ततोऽ-न्यदसच्च तयोरुभयोरभावकालीनम्
।। १२१८ ।।
सत्यप्रमोदटीका
सदसन्निषेधकालीनावस्थितिसाम्येऽपि तमसः अज्ञानस्यानिर्वचनीयत्वं ब्रह्मणस्तु सत्यत्वमिति परस्य प्रजल्पः । तच्चायुक्तं निषिद्धत्वसाम्येन उच्छिष्टस्य उभयोरपि दुष्टत्वमेव यथा तथेति भावः । तदुक्तं भगवत्पादैः ‘पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे तदानीं परिशिष्टत्वाद्ब्रह्मणोऽप्य निर्वचनीयत्वं स्यादि’ति ।। १२१८ ।।
युक्तिमल्लिका
सदन्नेऽनदने प्राप्ते कदन्नेऽपि रुचिर्भवेत् ।
ज्ञानात्मकेन भोगेनैवारब्धस्य क्षयोऽन्ततः ।। १२१९ ।।
सुरोत्तमटीका
ज्ञानेनाज्ञानस्यैव नाशं वदन् अगत्या प्रारब्धकर्मणां भोगाख्यसुखानुभवेनैव नाशं वक्ति । तदपि दुर्नीतिग्रस्तमिति भावेनोक्तम् ।। सदन इति ।। सदनेगृहे । अनदने दारिद्य्रनिमित्तान्नाभावेनादनाभावे । कदन्ने कुत्सितान्ने । सदन्नमेव भुज्यत इति प्रतिज्ञावानपि दारिद्य्रे प्राप्ते कदन्नमेव भुङ्क्ते । तथेदमपीति भावः ।। १२१९ ।।
सत्यप्रमोदटीका
प्रसादेनैव बन्धनाशः इत्येतत् श्रुतिसिद्धं सदन्नम् । तत्र परस्यारुचिः मिथ्यात्वप्रतिकूलत्वात् । भोगेनारब्धक्षय इत्येतदनादृत्य चरमसाक्षात्कारेण बन्धस्य च स्वस्यापि च बाध इति कदन्नम् । तदेव रोचयते । तथा हि तदुक्तिः । ‘वेणुसंघर्षजो वह्निः दग्ध्वा शाम्यति तद्वनम् । एवं गुणव्यत्ययजो वेदः शाम्यति’ इति ।। १२१९ ।।
युक्तिमल्लिका
विप्रोऽहं नैव विप्रोऽहमित्युक्तिं कोऽपि लालयेत् ।
स्वस्वाभावौ सदैकत्र स्वस्थौ स्तः किल मायिनाम् ।। १२२० ।।
सुरोत्तमटीका
स्वात्यन्ताभावसमानाधिकरणत्वं तस्य तस्य पदार्थस्येति मायिनो वदन्ति । तदपि दुर्नीतिग्रस्तमिति भावेनोक्तम् ।। विप्र इति ।। इत्युक्तिं स्वव्याहतवचनं कोऽप्युन्मत्तः ।अहं ब्राह्मणो नाहं ब्राह्मण इति वत् इदमप्युन्मत्तवचनमिति भावः।।१२२० ।।
सत्यप्रमोदटीका
कोऽपि उन्मत्तः । एकस्यैव ब्राह्मण्यधर्मस्य तद-भावस्य च स्वस्मिन् सामानाधिकरण्यं ब्रुवाण एव चेदुन्मत्तः तदा किं वक्तव्यं प्रपञ्चमात्रस्य स्वात्यन्ताभावसामानाधिकरण्यं सिद्धान्तयन् मायावादी इति भावः ।। १२२० ।।
युक्तिमल्लिका
सर्वसंप्रतिपन्नस्य कोऽभावं भावयेद्बलात् ।
शुक्तिरूप्यस्य मिथ्यात्वेऽप्यापणस्थस्य तन्न हि ।। १२२१ ।।
सुरोत्तमटीका
शुक्तिरूप्यस्य मिथ्यात्वेऽपि सकलजनमनश्श्लाघ्यस्य जगतो न मिथ्यात्वमित्यत्रनीतिप्रदर्शनायोक्तम् ।। सर्वेति ।। तन्मिथ्यात्वम् ।। १२२१ ।।
सत्यप्रमोदटीका
शुक्तिरजतस्य दोषप्रयुक्तभानस्य अत एव बाधितस्य । आपणस्थस्य निर्दोषप्रमाणदृष्टस्य अत एव बाधानर्हस्य । स्वव्याहतं च आपणस्थरूप्यस्य बाधवचनम् । तथा हि परभाष्यं ‘नैवं जागरितोपलब्धं स्तम्भादिकं कस्यामप्यवस्थायां बाध्यते’ इति
।। १२२१ ।।
युक्तिमल्लिका
प्राणत्यागे मृतिर्युक्ता तदत्यागे कथं मृतिः ।
बाध्यरूप्यस्य मिथ्यात्वेऽप्यबाध्यस्य कुतो हि तत् ।। १२२२ ।।
सुरोत्तमटीका
तत्रैव नीत्यन्तरप्रदर्शनायोक्तम् ।। प्राणेति ।। तदत्यागे प्राणात्यागे । तन्मिथ्यात्वम् ।। १२२२ ।।
सत्यप्रमोदटीका
प्राणत्यागेऽपि देहस्य विनाश एव न बाधः । अयं तु विद्यमानेष्वेव प्राणेषु सर्वस्य कालत्रये निषेधं आचष्टे । अहो उन्मादपरिपाक इति भावः ।। १२२२ ।।
युक्तिमल्लिका
शङ्कापिशाची रम्येऽर्थे पिशाचस्यैव केवलम् ।
बाधशङ्का जगति चेद्ब्रह्मण्यपि कुतो न सा ।। १२२३ ।।
सुरोत्तमटीका
स्वस्यापेक्षितब्रह्मणि न बाधशङ्का ।। स्वानपेक्षिते जगति ब्रह्मवदेव श्रुतिस्मृतिप्रतिपादितेऽपि बाधशङ्केत्यत्रापि दुर्नीतिं दर्शयितुमुक्तम् ।। शङ्केति ।। १२२३ ।।
सत्यप्रमोदटीका
शङ्कापिशाची निर्दलशङ्का । अकस्माच्चेद्भाविबाधशङ्का अकस्मादेव ब्रह्मणोऽपि बाधशङ्का कुतो न कार्येत्याह शङ्केति
।। १२२३ ।।
युक्तिमल्लिका
अर्थज्ञाने ह्यकुशलः किं वाक्येन करिष्यति ।
अकस्मादिति वाक्येन कस्माद्ब्रह्म न बाध्यते ।। १२२४ ।।
सुरोत्तमटीका
अर्थमज्ञात्वा नेहनानेत्यादिकेवलवाक्यं पठन्नप्यकुशल इत्यपि नीत्या दर्शयितुमुक्तम् ।। अथेति ।। प्रतिवादिनापि वाक्ये पठिते निरुत्तरस्स्यादिति भावः ।। १२२४ ।।
सत्यप्रमोदटीका
अर्थज्ञाने अकुशलः आगमोऽपि सम्यक् श्रुतः समय-स्मरणानुगृहीतः शाब्दन्यायानुसन्धानसहित एव स्वार्थं बोधयति इति लक्षण-स्यानभिज्ञः । अकस्मादिदमाविरासीदिति वाक्ये पूर्वोत्तरविरुद्धं प्रमाणान्तर-विरुद्धं चार्थं कल्पयित्वा, ब्रह्मणः कारणत्वमपलप्य शून्यादेव जगदुत्पत्तिः कुतो नोच्यते इति भावः ।। १२२४ ।।
युक्तिमल्लिका
अबद्धं वदतोऽज्ञस्य किमवाच्यमिहोच्यताम् ।
किं नावादीत्कोऽपि वादी निरधिष्ठानकभ्रमम् ।। १२२५ ।।
सुरोत्तमटीका
आरोप्यमाणादधिकसत्ताकप्रधानदोषेन्द्रियाद्यभावेऽपि जगद्भ्रमं वदतो ब्रह्मभ्रमे किमधिष्ठानमिति शङ्कापि दुर्नीत्या हतेत्याशयेनोक्त-मबद्धमिति ।। कोऽपि वादी शून्यवादी । शून्यवादिवत् सर्वमबद्धं वदन् अबद्धानामन्तो नास्तीत्याशयेनेदमेकमबद्धं तन्न्यायेनैव कुतो नाङ्गीकुरुत इति भावः ।। १२२५ ।।
सत्यप्रमोदटीका
निर्विशेषत्वाच्छून्यवच्छून्यः इति विष्णुसहस्रनामसु शून्यशब्दं ब्रह्मणि सङ्गमयन् अधिष्ठानत्वरूपविशेषस्यापि ब्रह्मण्यनङ्गीकारात् मायिमतेऽपि भ्रमस्यापि निरधिष्ठानत्वमेवेति भावेनाह कोऽपीति । मायी शून्यवादी च । तदुक्तं भगवत्पादैः ‘न च निर्विशेषब्रह्मवादिनः शून्या-त्कश्चिद्विशेषस्तस्य’ इति ।। १२२५ ।।
युक्तिमल्लिका
दुराग्रहगृहीतस्य बुद्धिस्सद्यो विभिद्यते ।
न चेद्ब्रूते कथं हेतुमभावे भावदर्शनम् ।। १२२६ ।।
सुरोत्तमटीका
अर्थदर्शने सत्येव मिथ्यात्वं वदन्नपि दुर्नीतिविषय इत्याह ।। दुराग्रहेति ।। न चेत् दुराग्रही न चेत् । भावदर्शनं हेतुं दृश्य-त्वादिति हेतुमिथ्यर्थः ।। अभावे घटपटादिपदार्थानामभावे ।। १२२६ ।।
सत्यप्रमोदटीका
अभावे प्रपञ्चमिथ्यात्वे । भावदर्शनं दृश्यत्वम् । तदुक्तं वादावल्यां ‘दृश्यत्वस्य सन्मात्रवृत्तित्वाद्विरुद्धता चे’ति ।। १२२६ ।।
युक्तिमल्लिका
उक्तं तु निर्वहेदेवेत्याग्रहोऽग्य्रग्रहो नृणाम् ।
किं न स्वोक्तानृतत्वार्थं वेदमप्यनृतं जगुः ।। १२२७ ।।
सुरोत्तमटीका
स्वोक्तमिथ्यात्व एव प्रमाणीकृतश्रुतेरप्यन्ततो मिथ्यात्व-मङ्गीकुरुते । तदपि दुर्नीतिग्रस्तमिति भावेनोक्तम् ।। उक्तं त्विति ।। अग्य्रग्रहः स्थूलपिशाचः । स्वोक्तानृतत्वार्थं स्वोक्तजगन्मिथ्यात्वाय । उक्तं निर्वहेदिति दुराग्रही स्वोक्तनिर्वाहाय स्वशिरोऽपि छिन्द्यादिति भावः ।। १२२७ ।।
सत्यप्रमोदटीका
अग्य्रग्रहः श्रेष्ठपिशाचः । नेहनानास्तीति स्वोक्तस्य मिथ्यात्वस्य निर्वाहाय श्रुतिं स्वस्यापि मिथ्यात्वपरां व्याचक्षाणः स्वशिरः स्वयमेव छेत्तारं महापिशाचं अतिशेत इति भावः । तथाहि परवचनं ‘न वेदा न वर्णाश्रमाचारधर्माः इत्यादि ।। १२२७ ।।
युक्तिमल्लिका
कपर्दिकामात्रलब्ध्यै लक्षं त्यजति रूक्षधीः ।
न चेन्नीचैक्यलाभाय जगत्सर्वं कथं जहौ ।। १२२८ ।।
सुरोत्तमटीका
स्वोक्तैक्यनिर्वाहाय जगदभावं वदन्नपि दुर्नीतिविषय इति भावेनोक्तम् ।। कपर्दिकेति ।। १२२८ ।।
सत्यप्रमोदटीका
कपर्दिका सर्वप्रमाणबाधितमैक्यम् । लक्षं अनन्त-प्रमाण सिद्धं सर्वज्ञत्वाल्पज्ञत्वादिविरुद्धधर्मजातोपलक्षितं सर्वं जगत् ।।१२२८।।
युक्तिमल्लिका
यस्सर्वस्मै सदा द्रुह्येन्नह्येतस्य सुखं भवेत् ।
किं मिथ्याश्रुतिरेवान्ते स्वयं मिथ्येति नापतत् ।। १२२९ ।।
सुरोत्तमटीका
यदि श्रुतिस्सर्वमिथ्यात्वं वदेत् तदासर्वद्रोहदोषेण स्वय-मपि सर्वमध्यपतिता मिथ्या स्यात् । अतो द्रोग्धुर्वैपरतो भयमित्यन्यान्शिक्ष-यन्ती न स्वयं तमन्यायमनुमन्यत इति भावेनोक्तम् ।। य इति ।। अतस्तन्न वदेदिति भावः।। १२२९ ।।
सत्यप्रमोदटीका
महदपकारः कार्त्स्न्येन आत्मन एव प्रतिफलतीति न्यायविषयः परमते नेहनानेतिश्रुतिरित्याह य इति ।। १२२९ ।।
युक्तिमल्लिका
मिथ्याभिजल्पैरल्पानां शुद्धस्याशुद्धता न हि ।
साधिका बाधिका किं स्यान्मिथ्या मिथ्यात्ववाग्यदि ।। १२३० ।।
सुरोत्तमटीका
सर्वं मिथ्येति वदतः स्ववागपि मिथ्येति स्वस्यैव सम्मतम् । अतो न तयास्माकमपकार इत्यत्र नीतिमाह ।। मिथ्येति ।। मिथ्याभिजल्पैः अनृतरूपैर्बहुतरदोषवादैः । अल्पानां मिथ्याभिजल्पैरिति सम्बन्धः । अर्थानृततायामपि वाक्यमप्रयोजकं किल । किं वाच्यं स्वस्यैवा-नृतत्वे सतीति भावः ।। १२३० ।।
सत्यप्रमोदटीका
परवचसां स्वरूपतोऽसत्त्वावगमेन वन्ध्यासुतवचसः इव साधकत्वबाधकत्वाभावात् शुद्धब्रह्मणो त्रैलोक्यपावनगङ्गापितुर्विष्णो-र्नाशुद्धत्वमित्याह मिथ्येति । प्रत्युतोभयसम्मत्याऽशुद्धत्वस्य मिथ्यात्वेन शुद्धत्वमेव नितरां सेत्स्यतीति भावः ।। १२३० ।।
युक्तिमल्लिका
मनोरथरथारूढः कोऽर्थो व्यर्थं भवेत्तव ।
कः कुर्याच्छुक्तिरूप्येण वलयं कटकानि वा ।। १२३१ ।।
सुरोत्तमटीका
मिथ्याभूतस्यार्थक्रियाकारित्वं न घटत इत्यत्र नीतिमाह ।। मनोरथेति ।। १२३१ ।।
सत्यप्रमोदटीका
मनोरथरथः मिथ्याभूतेनापि अर्थक्रियासिद्धिः इति कुकल्पितप्रक्रिया । क इति बाधसाम्येन व्यावहारिकस्यापि तन्मते दुर्गत्यापात इति हृदयम् ।। १२३१ ।।
युक्तिमल्लिका
पुत्रीजननशक्तश्चेन्न पुत्रं जनयेत्कुतः ।
रागं चेज्जनयेच्छुक्तिरूप्यं न कटकं कुतः ।। १२३२ ।।
सुरोत्तमटीका
शुक्तिरूप्यमपि रागाद्यर्थक्रियाजनकमित्येतदपि दुर्नीत्या दूरीकृतमिति भावेनोक्तम् ।। पुत्रीति ।। १२३२ ।।
सत्यप्रमोदटीका
ननु मिथ्याभूतं शुक्तिरजतं रागं जनयद् दृष्टमिति चेत् भ्रान्तोऽसि । तस्य व्यावहारिकत्वभ्रमेणैव राग इत्युक्तत्वात् । भ्रमश्च बाधा-भावात्सत्य एवेति भावः । तदुक्तं भगवत्पादैः ‘सर्पभ्रमादावपि हि ज्ञान-मस्त्येव तादृशम् । तदेवार्थक्रियाकारि तत्सदेवार्थकारकमि’ति ।। अन्यथा अतिप्रसङ्गमाह । कटकं इति । नपुंसकस्य न पुत्रीजननं नापि पुत्रजननं इति भावः
।। १२३२ ।।
युक्तिमल्लिका
राज्ञा प्रत्यक्षतो दृष्टस्याक्षेपी शिक्ष्यते नरैः ।
यथेशदृष्टमिथ्यात्ववादो वेदोऽप्यपोद्यवे ।। १२३३ ।।
सुरोत्तमटीका
सर्वज्ञभगवद्दृष्टजगतो मिथ्यात्वं वदन्तीव या श्रुतिर्भाति साप्यन्यथैव योज्येत्यत्र नीतिमाह ।। राज्ञेति ।। दृष्टस्य अर्थस्य आक्षेपी नास्तित्वकथनेनाक्षेपं कुर्वन् नरैः राजभटैः यथा शिक्ष्यते तथा ईशदृष्टमिथ्या-त्ववादः ईशदृष्टस्य घटपटाद्यर्थस्य मिथ्यात्ववादो यस्मिन्सतथोक्तः । वेदः एकमेवाद्वितीयमित्यादिवेदः अपोद्यते अर्थान्तरे नीयते ।। १२३३ ।।
सत्यप्रमोदटीका
‘सर्वापरोक्षविद्विष्णुर्विश्वदृक् तन्न तन्मृषा’ इति भगवत्पादोक्तिमनुरुध्याह राज्ञ इति । प्रत्यक्षतो दृष्टस्य प्रकाशतस्करत्वस्य आक्षेपी दोषद्वयभाक् तस्करत्वं राजदृष्टापलापेन राज्ञो मिथ्याभाषित्वापादनं चेति । नरैः वायुभटैः ईश्वरे भ्रान्तत्वापादिनः मायावादिनः तृतीये तमसि उग्रशिक्षा इति ध्वन्यते ।। १२३३ ।।
युक्तिमल्लिका
गुरोरगुरुतां ब्रूते लघोरलघुतां खलः ।
भ्रान्तिस्तात्कालिकी भ्रान्तिर्दीर्घभ्रान्तिः किल प्रमा ।। १२३४ ।।
सुरोत्तमटीका
परस्य प्रमेयान्तरमपि दुर्नीतिपराहतमित्याह ।। गुरो-रिति ।। अगुरुतां लघुताम् । अलघुतां गुरुताम् । तात्कालिकी तत्क्षणे विद्यमाना उत्तरक्षणे परिह्रियमाणा भ्रान्तिः प्रातिभासिकभ्रान्तिः । भ्रान्तिःकिल भ्रान्तिशब्दवाच्या किल । दीर्घभ्रान्तिः ब्रह्मज्ञानपर्यन्तमनुवर्तमाना व्यावहारिक- भ्रान्तिः प्रमा किल प्रमाशब्दवाच्या किल । महाभ्रान्तिं प्रमात्वेन परिगणयन् अल्पभ्रान्तिं च भ्रमपक्षे निक्षिपन् पूर्वार्धोक्तदुर्नीतेर्विषय इति भावः ।। १२३४ ।।
सत्यप्रमोदटीका
‘सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी’ इति गीतोक्ततामसबुद्धेर्लक्षणं मायावादिबुद्धौ अवच्छेदकावच्छेदेन श्लिष्टतया समन्वे-तीति निदर्शनैः दृढयति गुरोरिति दीर्घभ्रान्तेः वियदादिविषयिण्या अगुरुतां भ्रान्तिभिन्नप्रमाया इव व्यवहारनिर्वाहकवस्तुविषयकत्वम् । लघोः तत्कालीनाया ब्रह्मप्रमाऽन्येन बाध्याया शुक्तिरूप्यादिविषयिण्या भ्रान्तेस्तु व्यवहारानिर्वाहकत्वेन प्रातिभासिकत्वं इति वैपरीत्यं मायिबुद्धेरित्याह भ्रान्तिरिति ।। १२३४ ।।
युक्तिमल्लिका
उष्ट्रः कण्टकमेवात्ति पक्वं न क्वापि भक्षयेत् ।
श्रुतिः श्रौतार्थसत्यत्वत्यागि मिथ्यात्वरागि तत् ।। १२३५ ।।
सुरोत्तमटीका
प्रमेयान्तरेऽपि परस्य दुर्नीतिं दर्शयति ।। उष्ट्र इति ।। श्रुतौ साक्षाच्छ्रुतसत्यत्वं त्यजन् आर्थिकमिथ्यात्वे रागं कुर्वन्नुष्ट्रस्वभाव इति भावः ।। १२३५ ।।
सत्यप्रमोदटीका
श्रुतिः नेहनानास्तीत्यादिका । श्रौतं स्वरसलभ्यं अर्थ-सत्यत्वं स्वगतभेदराहित्येन सर्वरूपेषु परिपूर्णसत्यगुणवत्त्वलक्षणं भगव-न्महिमानं त्यक्त्वा कण्टकं जगत्कण्टकं तन्मिथ्यार्थरूपं अर्थमेव वक्तीति ब्रुवाणः अमृते विषवद्धेयत्वं विषे चामृतवदुपादेयत्वं इति बुद्धेः वैपरीत्यं स्फोरयतीति भावः । उष्ट्रेण कण्टकमात्रमपि लभ्यते । अस्य मिथ्यात्वे आशा-मात्रम् न लाभः । अत उष्ट्रादपि निकृष्ट इति भावः ।। १२३५ ।।
युक्तिमल्लिका
रसार्थी श्वा गृहीत्वाऽस्थि दन्तैरन्तर्निकृन्तति ।
यथार्थिकार्थमिथ्यात्वव्यर्थार्थोऽर्थं कुयुक्तिदृक् ।। १२३६ ।।
सुरोत्तमटीका
साक्षाच्छ्रुतिसत्यत्वे स्वत एव स्रवद्युक्तिरसंविहायाऽर्थिक- मिथ्यात्वार्थेऽनुपपद्यमानदृश्यत्वादि युक्तिघटनाय प्रयासं कुर्वन् शुनस्समान इत्याह ।। रसेति ।। गृहीत्वा चरणद्वयेन गृहीत्वा ।। १२३६ ।।
सत्यप्रमोदटीका
अन्यदपि विपरीतार्थग्राहित्वं मायिबुद्धेर्निदर्शयति रसार्थीति । अखण्डैकचैतन्यरसरूपं श्रुत्यर्थमर्थयमानः । अन्यत्र रुधिरार्थी । गृहीत्वा अहं कर्ता इत्यादि पदद्वयेन । अन्यत्र चरणाभ्याम् । दन्तैः युष्म-दस्मत्प्रत्ययगोचरयोरित्याद्यध्यासवाक्यैः । अन्यत्र स्पष्टम् । निकृन्तति ‘अन्यो-न्यस्मिन् अन्योन्यात्मकतां अन्योन्यधर्मांश्चाध्यस्य’ इति अध्यासवर्णनेन विरुद्धधर्मान् भागत्यागलक्षणमाश्रित्य मुख्यार्थात्प्रच्यावयति । निकृन्त-तीत्यनेनास्य दुरुपक्रममात्रं न तु कार्यसिद्धिः । निरवकाशश्रुतिसाक्षिसिद्धानां मिथ्यात्वायोगात् । अन्यत्र अस्थिचर्वणेऽपि न रसलाभ इति भावः ।
आर्थिकार्थः ज्ञाननिवर्त्यत्वान्यथाऽनुपपत्त्या लब्धः । व्यर्थार्थः मिथ्यात्व-रूपः । उपपाद्यस्य अन्यथैव सिद्धेः अप्रमितत्वेन च, उपपादकस्य च प्रमाणविरुद्धत्वेन, विगतप्रयोजनः विरुद्धप्रयोजनश्च । अन्यत्र शुष्कास्थिभक्षणेन रसालाभः दन्तभञ्जेन विरुद्धप्रयोजनः । कुयुक्तिदृक् प्रसादं विना साक्षा-ज्ज्ञानेनैव बन्धनिवृत्तिः, ज्ञानमज्ञानस्यैव निवर्तकम् । बन्धस्य अज्ञानोपादान-कत्वं, सूत्राणां ऐक्ये तात्पर्यं इत्यादि कुयुक्तयः । स्वव्याहतं च परोक्तं सूत्राणां ऐक्यपरत्वाभिधानम् । स्वयमेव भाष्ये द्वित्राणि सूत्राणि विहाय अन्येषां सर्वेषां भेदपरत्वं इति भाषितत्वात् । द्वित्राणामपि विशिष्टैक्यासम्भवेन चिदैक्यस्य च अखण्डार्थपरवाक्यार्थत्वासम्भवेन च, अभेदपरत्वासम्भवात् । यथा चैतत्तथा निपुणतरमुपपादितं अभिनवानन्दतीर्थेतिप्रथावद्भिः श्रीसत्यध्यानतीर्थश्रीचरणैः ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति स्वग्रन्थे । विस्तरस्तत्रैव ।। १२३६ ।।