चार्वाकस्य न वाक्चार्वी कुर्वीतात्मवधं यतः

चार्वाकमतभङ्गः

युक्तिमल्लिका

चार्वाकस्य न वाक्चार्वी कुर्वीतात्मवधं यतः ।

अक्षैकमानतावाक्किं रक्षेदात्मप्रमाणताम् ।। १३२ ।।

सुरोत्तमटीका

 चार्वाकमतं निराकरोति । चार्वाकस्येत्यादिना ।। चार्वी मनोहरा । आत्मवधं स्वाप्रामाण्यलक्षणं वधम् । तदेवोपपादयति ।। अक्षैकेति ।। अक्षैकमानतावाक् प्रत्यक्षमेकमेव प्रमाणमिति वाक् । आत्म-प्रमाणतां आत्मनस्स्वस्य वाचः शास्त्ररूपायाः प्रमाणतां रक्षेत्किं न रक्षेदिति यतः अतः न चार्वीति सम्बन्धः ।। १३२ ।।

सत्यप्रमोदटीका

 एवं वेदस्य प्रामाण्यं समर्थ्य तस्थेम्ने तदपलापिनः कुसमयान्निराकरोति ‘तस्मादाचार्यतरणिसरणिः शोभतेतराम्’ (श्लो.५१२) इत्यन्तेन ग्रन्थेन । तत्र चार्वाकः शब्दस्यैव प्रामाण्यं नाङ्गीकरोति । तत एव धर्मादिकमपि । बौद्धा जैनाश्च स्वस्वाचार्यवचनैरेव धर्मादिसिद्धिं सङ्गिरन्ते । प्रामाण्यस्य परतस्त्वं मन्वानो हैतुकस्तार्किको वेदस्यापौरुषेयत्वं तदुक्तं ईश्वरस्यानन्तगुणवत्वं च न सहते । निरीश्वरः प्राभाकरः केवलसिद्धेऽर्थे वाक्यस्य व्युत्पत्त्यभावं मनुते । तानेतान्कुवादान्निराचिकीर्षुः आदौ चार्वाकमतं प्रतिक्षिपति चार्वाकेति । मुखतो वेदस्य प्रामाण्यमुररीकृत्य तस्यातत्वावेद-कत्वोक्त्या ईश्वरस्य नैर्गुण्यं वर्णयन्तं मायावादिनं सविस्तरमुत्तरत्र दूषयिष्यतीति ग्रन्थप्रवृत्तिक्रमोऽत्रानुसन्धेयः । अनेन सौत्रातःशब्दोक्तहेतुपञ्चकविवरणं कृतं बोध्यम् । आत्मवधमिति । वाक्यमात्रमप्रमाणमिति ब्रुवाणः स्ववाक्य-स्याप्यप्रामाण्यं स्वयमेवाङ्गीकरोतीति भावः ।। १३२ ।।

युक्तिमल्लिका

शिष्यप्रमायै वाग्वाच्या सा शोच्या मानता न चेत् ।

न प्रयोज्या न तैः पूज्या मूको लोकायतो भवेत् ।। १३३ ।।

सुरोत्तमटीका

 स्वस्य मानत्वाभावे का क्षतिरित्यत आह ।। शिष्येति ।। स्वशास्त्ररूपा वाक् शिष्यप्रमायै वाच्या व्याख्येया । मानता नचेच्छोच्या सा न प्रयोज्या । तैः शिष्यैः पूज्या च– नेति सम्बन्धः । नह्यप्रमाणभूताच्छास्त्रा-च्छिष्याणां तत्त्वबोधो भवति । अतः प्रत्यक्षस्यैव मानत्वरूपतत्वसिद्धौ शास्त्रस्याप्रामाण्यं प्रत्यक्षातिरिक्तत्वात् । शास्त्रस्याप्रामाण्ये न तत्वसिद्धि-रित्युभयतः पाशारज्जुः । अत ईदृक्शास्त्रं शिष्याय नोपदेश्यमिति लोकायतस्य मूकतैव शरणमिति भावः ।। १३३ ।।

सत्यप्रमोदटीका

 ‘अन्यथा सर्ववाचनिकव्यवहारासिद्धेः’ इति गीताभाष्योक्तं दोषमाह शिष्यप्रमाया इति ।। १३३ ।।

युक्तिमल्लिका

किं च प्रत्यक्षमेवैकं मानमित्यादिरूपिणी ।

वाक् च प्रमापिका चेत्स्याद्वाक्यार्थप्रच्युतिस्तदा ।। १३४ ।।

सुरोत्तमटीका

 इदानीं चार्वाकशास्त्रस्य प्रामाण्ये अप्रामाण्ये च । स्वाभिलषिततत्वस्यासिद्धिरेवेति पक्षद्वयेऽपि प्रतिवादिनामेव जय इत्याह ।। किञ्चेति ।। प्रत्यक्षमेकमेव मानमित्यादिरूपिणी वाक् प्रमापिका स्याच्चेत्तदा वाक्यार्थप्रच्युतिः वाक्यार्थस्य प्रत्यक्षमेव प्रमाणमित्यस्य प्रच्युतिस्स्यादिति क्रियावृत्त्या योज्यम् । अस्मिन्पक्षे शास्त्ररूपवाक्यस्य प्रत्यक्षस्य चेत्युभयोरपि प्रामाण्यप्राप्तेरिति भावः ।। १३४ ।।

युक्तिमल्लिका

यद्यप्रमापिका सा स्याद्वाक्यार्थप्रच्युतिस्तदा ।

अर्थयाथार्थ्यतः प्राहुरमानत्वं यतो बुधाः ।। १३५ ।।

सुरोत्तमटीका

 पक्षान्तरमप्याशङ्क्य प्रागुक्तदूषणेनैव दूषयति ।। यदीति ।। सा प्रत्यक्षमेकमेव मानमित्यादिरूपा वाक् । तदापि वाक्यार्थप्रच्युतिः प्रत्यक्षमेकमेव मानमिति वाक्यार्थप्रच्युतिस्स्यादिति सम्बन्धः । कथमित्यत-स्तदुपपादयति ।। अर्थेति ।। अमानत्वं वाक्यस्येति शेषः । यतः अर्थायाथार्थ्यत एव वाक्यामानत्वं बुधाः प्राहुः । यतश्च प्रत्यक्षमेकमेव मानमिति वाक्यार्थः । अतस्तस्याविद्यमानत्वरूपायथार्थत्वे कथं न वाक्यार्थप्रच्युतिरिति भावः ।।१३५।।

युक्तिमल्लिका

अतस्त्वच्छास्त्रमानत्वे जितं त्वत्प्रतिवादिभिः ।

त्वच्छास्त्रामानतायां च जितं त्वत्प्रतिवादिभिः ।। १३६ ।।

त्वद्वाक्यार्थोऽस्ति चेन्मानमागमोऽपि बलाद्भवेत् ।

त्वद्वाक्यार्थो न चेन्मानमागमोऽपि बलाद्भवेत् ।। १३७ ।।

सुरोत्तमटीका

 अतः उभयत्रापि वाक्यार्थप्रच्युतेः । त्वच्छास्त्रमानत्वे त्वच्छास्त्रस्य प्रत्यक्षस्य च प्रामाण्यात् त्वत्प्रतिवादिभिरस्माभिर्जितम् । त्वच्छास्त्रस्यामानतायां च त्वत्प्रतिवादिभिरस्माभिर्जितम् । शास्त्राप्रामाण्यस्य च शास्त्रार्थभूतप्रत्यक्षैकप्रमाणत्वाख्यत्वदभिलषिततत्वाभावमन्तर्भाव्यैव प्राप्तेरिति भावः । अथवा अस्मदभिलषितप्रमेयविरोध्यर्थप्रतिपादकत्वच्छास्त्राप्रामाण्ये बाधकाभावेनास्मदभिलषितसकलप्रमेयसिद्धेरिति भावः ।। १३६,१३७ ।।

युक्तिमल्लिका

चित्रं पक्षद्वयेप्येकं पतितं दूषणं तव ।

तं त्वां पतितपङ्किस्थं सन्तो हन्त हसन्ति ते ।

अखर्वगर्वचार्वाकदुर्वाक्यं नोर्वकुर्वत ।। १३८ ।।

सुरोत्तमटीका

 किञ्चेत्यादिनोक्तं च सोपहासमुपसंहरति ।। चित्र-मित्यादिना ।। पक्षद्वये प्रामापकत्वाप्रमापकत्वरूपपक्षद्वये । एकं दूषणं वाक्यार्थप्रच्युत्या प्रतिवादिनां जय इत्येकं दूषणं तव पतितं आगतम् । पतित-पङ्क्तिस्थं परिहारासामर्थ्यात् आगतदूषणैस्सह तूष्णीं स्थितमित्यर्थः । जातिभ्रष्टपङ्क्तिस्थमिति ध्वनिः । ये संतो हसंति ते अखर्वगर्वचार्वाकदुर्वाक्यं उरु श्रेष्ठं नाकुर्वतेति सम्बन्धः । पूर्वोत्तरव्याहतत्वादप्रयोजकमकुर्वतेति भावः

।। १३८ ।।

सत्यप्रमोदटीका

 ‘स्वसमयस्यानर्थक्यमङ्गीकृतमेवेति नासौ समयी’ इति तत्वनिर्णयोक्तिमनुरुन्धानः उभयतः पाशारज्जुभिः चार्वाकं निबध्नाति किञ्चे-त्यादिभिः ।। १३४-१३८ ।।

युक्तिमल्लिका

कथा वृथैव जल्पादौ तव कैतवशील तत् ।

यन्नास्ति युक्तिरुक्तिस्तेगर्जत्सु प्रतिवादिषु ।। १३९ ।।

सुरोत्तमटीका

 प्रत्यक्षैकप्रामाण्यवादिनः कथायामनधिकारश्चेत्याह ।। कथेति ।। जल्पादौ जल्पादिविषये । कथा वार्ता । प्रत्यक्षस्यैव प्रामाण्य-मङ्गीकृत्य तत्र शास्त्रस्यापि प्रमाणीकरणात् कैतवशीलेति चार्वाकं प्रति-सम्बुद्धिः। यद्यस्मात् । उक्तिरागमः । तदिति पूर्वेणसम्बन्धः ।। १३९ ।।

युक्तिमल्लिका

अक्षैकमानतावादी को वा दीनो न वादकृत् ।। १४० ।।

सुरोत्तमटीका

 एवं च अक्षैकमानतावादी वादकृत्को वा दीनो न । सर्वोपि दीन एवेत्यर्थः । प्रतिवादिनं प्रतिवक्तुं योग्यायाः युक्तेरुक्तेश्चाभावादिति भावः ।। १४० ।।

सत्यप्रमोदटीका

 युक्तिशब्दयोः प्रामाण्यमनङ्गीकुर्वाणस्य कथाया-मधिकार एव न सम्भवतीत्याह कथेत्यादिना द्वाभ्याम् ।। १३९,१४० ।।

युक्तिमल्लिका

तेक्ष्णस्तीक्ष्णकटाक्षस्तान्प्रतिवक्ष्यति कां कथाम् ।

अतस्त्वत्क्रियया सर्वा विरुद्धा प्रक्रिया तव ।। १४१ ।।

सुरोत्तमटीका

 प्रत्यक्षरूपस्य तेऽक्ष्णस्तीक्ष्णकटाक्षस्तान्प्रतिवादिनः प्रति कां कथां वक्ष्यतीति सम्बन्धः । अतः युक्त्यादिप्रामाण्यमनङ्गीकृत्य पुनर्विप्रति-पन्नार्थे युक्त्यादेरेव प्रमाणतया कथनादित्यर्थः । सर्वापि तव प्रक्रिया शास्त्रजल्पादिप्रक्रिया त्वत्क्रियया युक्त्यादिकथनरूपस्ववचनक्रियया विरुद्धेति सम्बन्धः ।। १४१ ।।

सत्यप्रमोदटीका

 एवमपि कथाप्रवेशमभिलषतः स्वक्रियाविरोधमाह तेऽक्ष्ण इति ।। १४१ ।।

युक्तिमल्लिका

अथ प्रत्यक्षदृष्टेऽर्थे यदा वाक्यं प्रयुज्यते ।

तेन बोधोऽपि न स्याच्चेद्धीनास्याद्वक्तृतैव ते ।। १४२ ।।

सुरोत्तमटीका

 रीत्यन्तरेण वाक्यस्यानुमानस्य च प्रामाण्यं साधयति ।। अथेति ।। तेन प्रत्यक्षदृष्टार्थे प्रयुक्तवाक्येन । वक्तृतैव हीना स्यात् । अबोधकवाक्योक्तेरयोगादिति भावः ।। १४२ ।।

युक्तिमल्लिका

स्याच्चेत्प्रमात्वं चावश्यं तस्येत्यासीद्धि मानता ।

तत्र प्रयुक्तयुक्तेश्च तद्वदेव प्रमाणता ।। १४३ ।।

सुरोत्तमटीका

 स्याच्चेत्तेन बोध इत्यावृत्तिः । तस्य बोधस्य प्रमात्वं चावश्यमङ्गीकर्तव्यम् । एकार्थविषययोरेकस्य मानत्वमपरस्यामानत्वमित्यस्या योगादिति भावः । मानतावाक्यस्येति शेषः । प्रमाकरणत्वातिरिक्तप्रामाण्या-भावादिति भावः । तत्र प्रत्यक्षदृष्टेऽर्थे । तद्वदेव वाक्यवदेव ।। १४३ ।।

सत्यप्रमोदटीका

 अथ, शब्दस्य बोधकत्वमुपेत्य प्रत्यक्षसंवादित्व-मात्रमङ्गीक्रियते न तु प्रामाण्यमिति मतं तर्हि वाचोभङ्ग्या प्रामाण्यमेवाङ्गी-कृतमिति शब्दोऽप्रमाणमिति रिक्तं वच इत्याह अथेत्यादिना ।। तदुक्तं तत्वनिर्णयटीकायाम् ‘एवं तर्हि आगमादिकं ज्ञानमुत्पादयति तच्च संवादी-त्यङ्गीकृतम् । किमतोऽधिकं प्रामाण्यं नाम यन्नाङ्गीक्रियते’ इति । आदिशब्देन अत्र अनुमानं ग्राह्यम् ।। १४२,१४३ ।।

युक्तिमल्लिका

प्रत्यक्षस्यैव मानत्वे युक्तिश्चेत्कथ्यते त्वया ।

अनुमानं तदा मानं यदि युक्तिर्न कथ्यते ।

अनुमानं तदा मानं राजाज्ञा न हि ते वचः ।। १४४ ।।

सुरोत्तमटीका

 प्रकारान्तरेणानुमानप्रामाण्यं साधयितुमाह ।। प्रत्यक्ष-स्येति ।। यदि युक्तिर्न कथ्यते तदा बाधकाभावादनुमानं मानमिति भावः। तदेव विशदयति ।। राजाज्ञेति ।। १४४ ।।

सत्यप्रमोदटीका

 समानन्यायेन युक्तेरपि प्रामाण्यं सिद्धमित्याह प्रत्यक्ष-स्यैवेति  ।। १४४ ।।

युक्तिमल्लिका

नापि हार्दगुहाबोधः प्रत्यक्षेणैव जायते ।

तद्भोक्तॄणां च पातॄणामनुमानं परायणम् ।। १४५ ।।

तस्मात्प्रत्यक्षानुमानागमानां मानता ध्रुवा ।। १४६ ।।

सुरोत्तमटीका

 भोजनादिकरणान्यथानुपपत्त्याप्यनुमानस्य मानतेत्याह ।। नापीति ।। हार्दगुहाया अप्रत्यक्षत्वादिति भावः ।। १४५,१४६ ।।

सत्यप्रमोदटीका

 प्रत्यक्षायोग्याया हार्दगुहाया युक्तिबलेन बोधानङ्गीकारे पानभोजनविलोपमतिप्रसङ्गमाह न चेति ।।

रेतो धातुर्वटकणिका’ इति भाष्योदाहृतमोक्षधर्मवचनानुसारेण अतीन्द्रिया दृष्टादिकं तत एव च प्रमाणत्रित्वं साधयति तस्मादित्यादिना

।। १४५, १४६ ।।

युक्तिमल्लिका

यद्यदृष्टं न तर्ह्येकः पोष्योन्यः पोषकः कुतः ।

धनभावाभावतश्चेत्तयोरपि नियामकम् ।

किं दृष्टमेव यत्किञ्चिदुतादृष्टं विचारय ।। १४७ ।।

सुरोत्तमटीका

 अतीन्द्रियादृष्टं साधयति ।। यदीति ।। धनभावाभावत इति पोषकस्य धनसद्भावात् पोष्यस्य धनाभावादित्यर्थः । तयोः धन-भावाभावयोः । दृष्टमेव शरीरादिकम् । यत्किञ्चित् ।। १४७ ।।

युक्तिमल्लिका

दृष्टदेहेन्द्रियादीनामिच्छायत्नादिकस्य च ।

उभयत्रापि साम्येन स्याददृष्टं नियामकम् ।। १४८ ।।

सुरोत्तमटीका

 दृष्टमेव नियामकमित्येतद्दूषयति ।। दृष्टेति ।। तस्मा-ददृष्टमेव शरणमित्याह ।। स्यादिति ।। १४८ ।।

युक्तिमल्लिका

अतो यत्सदसत्त्वाभ्यां धन्येकोऽन्यस्तु निर्धनः ।

अदृष्टं च तदेष्टव्यं दृष्टवत्कार्यगौरवात् ।। १४९ ।।

सुरोत्तमटीका

 यत्सदसत्त्वाभ्यां पुण्यपापसदसत्त्वाभ्याम् । तत्पुण्य-पापरूपम् ।। १४९ ।।

सत्यप्रमोदटीका

 लोके तावत्पोष्यपोषकभावादिकार्यवैचित्र्यं दृश्यते । न च कारणेन विना कार्योत्पत्तिः सम्भवति । तथा सति भोजनादीनि विनाऽपि तृत्प्याद्युत्पत्तिसम्भवाद्भोजनादौ प्रवृत्त्युच्छेदप्रसङ्गात् । न दृष्टकारणवैचित्र्या-दुपपत्तिः । तत्साम्येऽपि कार्यवैचित्र्योपलम्भस्य प्रत्यक्षत्वात् ।। अतोऽदृष्टमेव तत्र कारणमेष्टव्यम् इत्याह पञ्चभिः श्लोकैः यद्यदृष्टमित्यादिना

।। १४७-१४९ ।।

युक्तिमल्लिका

तद्धेतुशुभकर्मादेरत्रादृष्टस्य सर्वथा ।

करणायान्यदेहेषु नित्योऽन्योप्यस्ति देहभृत् ।। १५० ।।

सुरोत्तमटीका

 अदृष्टं साधयित्वा तदाश्रयं नित्यं देहभिन्नचेतनमपि साधयति ।। तदिति ।। अत्र एतज्जन्मनि । अन्यदेहेषु एतत्तुल्यान्यदेहेषु । अन्यो देहात् ।। १५० ।।

सत्यप्रमोदटीका

 तद्धेत्विति । धनिकत्वादिहेत्वित्यर्थः । अयं भावः । धनिकत्वारोग्यादिकं पुण्यलभ्यमिति तावदविवादम् ।। तत्र केचिदस्मिञ्जन्मनि अकृतसुकृता अपि धनिनः आरोग्यशालिनश्च दृश्यन्ते । जन्मान्तरानुष्ठित-सुकृतमेव तत्रागत्या कारणं वक्तव्यम् । तथा चैकस्यैव जीवस्यानेकदेह-सम्बन्धनिर्वाहार्थं देहातिरिक्तजीवसिद्धिरिति ।। १५० ।।

युक्तिमल्लिका

कार्यस्य निर्निमित्तत्वमुन्मत्तो वक्तुमर्हति ।

तृप्त्यर्यं को न भुञ्जीत सुखार्थं न यतेत कः ।। १५१ ।।

सुरोत्तमटीका

 ननु दृष्टकारणाभावेप्यदृष्टं कारणं कुतः कल्प्यते निर्निमित्तमेव कार्यं किं न स्यादिति मन्दाशङ्कां परिहरति ।। कार्यस्येति ।। उन्मत्त एव वक्तुमर्हति । नत्वन्यः । कार्यस्य सकारणकत्वं साधयति ।। तृप्त्यर्थमिति ।। न यतेत । तत्साधनसृक्चन्दनादाविति शेषः ।। १५१ ।।

युक्तिमल्लिका

अपि चाव्यङ्गकुणपे मरणं नाम किं तव ।

पूर्वदृष्टाङ्गनेत्रादेः पश्चादपि च दर्शनात् ।। १५२ ।।

सुरोत्तमटीका

 शरीरे जीववियोगलक्षणमरणान्यथानुपपात्त्यापि शरीराति रिक्तो जीवः कल्पनीय इत्याह ।। अपि चेति ।। अव्यंगेत्यनेन अवयव-च्छेदादिविशेषाभावं द्योतयति ।। द्योतितमर्थं विशदयति ।। पूर्वेति ।। १५२ ।।

सत्यप्रमोदटीका

 ‘मारणेन चेष्टानिवृत्तिर्भवति न पुरा न स्वेच्छया’ इति शास्त्रयोन्यधिकरणभाष्यटीकोक्तरीत्या देहान्यजीवं साधयति अपि चेत्यादिना । विमतं अव्यङ्गं मृतशरीरं, जीवयोगनिवृत्तिमत्, निवृत्तचेष्टाकत्वात् व्यतिरेकेण जीवच्छरीरवत् इति युक्तिरिहाभिप्रेता । अत्र चेष्टा हिताहितप्राप्तिपरिहारानु-कूलो व्यापारः । न परिस्पन्दमात्रम् । न च शिलादौ व्यभिचारः । तत्र जीवयोगस्य कदाऽप्यभावेन तन्निवृत्तिरूपसाध्यस्याभावादिति वाच्यम् । तत्र निरुक्तचेष्टाया अत एव तन्निवृत्तेश्चाभावेन हेतोरेवाभावात् । न चानात्मन एव कस्यचिद्योगनिवृत्त्याऽप्युपपत्तिः । तत्किमनात्मभूतं इन्द्रियरूपाङ्गानि वा श्वासवायुर्वा भूतत्रययोगविशेषो वा । आद्येऽपि इन्द्रियशब्देनातीन्द्रियं किमपि विवक्षितम् । गोलकमेव वा । द्वितीयेऽपि बहिःश्वासो वाऽन्तःश्वासो वा । इति पञ्चधा विकल्प्य क्रमेण निराह पूर्वेत्यादिना किञ्चित्रलिखितमित्यन्तेन पञ्चदशभिः श्लोकैः ।। तत्र न तावदाद्यः अतीन्द्रियेन्द्रियस्य त्वयाऽनभ्युप-गमात् । न द्वितीयः अव्यङ्गकुणपे गोलकानां पूर्ववदेव विद्यमानत्वस्य प्रत्यक्षत्वादित्याह पूर्वदृष्टेति ।। १५१, १५२ ।।

युक्तिमल्लिका

स्पर्शानुमेयनीरूपश्वासे नाश्वासवान्भवान् ।

मक्षिकामत्कुणादौ ते यस्य दृश्या स्थितिश्च न ।। १५३ ।।

सुरोत्तमटीका

 श्वासाभाव एव मरणमित्याशङ्क्याह ।। स्पर्शेति ।। स्पर्शानुमेयेत्यनेनानुमानप्रामाण्यानङ्गीकारात्तन्मते दौर्घट्यं द्योतयति । नीरूपेत्यनेनाप्रत्यक्षत्वं च द्योतयति । भवतु वा स्थूलास्मदादिशरीरे श्वासानु-मानं तत्प्रत्यक्षत्वं वा श्वासगतस्पर्शस्य तत्र प्रत्यक्षत्वात् । सूक्ष्मशरीरवच्चेतनेषु श्वासस्यात्यल्पत्वेन तत्स्पर्शस्याप्रत्यक्षत्वात् तत्र श्वासाभावलक्षणमृतिस्त्वया वक्तुं न शक्येति भावेनाह ।। मक्षिकेति ।। यस्य श्वासस्य ।। १५३ ।।

सत्यप्रमोदटीका

 न तृतीयः अनुमानप्रामाण्यमनङ्गीकुर्वतः तव मते अनुमेयश्वासस्वरूपस्यैवासिद्धेः इत्याह स्पर्शेति । किञ्च बहिःश्वासो वा तदभावो वा सूक्ष्मशरीरेषु निश्चेतुमशक्य इत्याह मक्षिकेति । एतेनान्तःश्वासा-भावरूपचतुर्थोऽपि प्रत्युक्तः । तस्य सर्वशरीरेषु दुरवधारणत्वात् । योगि-शरीरेष्वपि श्वासाभावस्य विद्यमानत्वेन तस्य मरणानुपपादकत्वाच्चेति भावः

।। १५३, १५४ ।।

युक्तिमल्लिका

तस्माद्देहान्यजीवात्मा तत्र नास्तीति सा मृतिः ।

इत्येव सर्वथा वाच्यं न चेन्मृत्या मृतिस्तव ।। १५४ ।।

सुरोत्तमटीका

 तस्माज्जीववियोग एव मरणमित्याह ।। तस्मादिति ।। मृत्या मृतिः मृत्यभावप्रसङ्ग इति भावः । मृत्या मृतिः कथं वक्तव्येति चिन्तया तवैव मृतिस्स्यादिति च ।। १५४ ।।

युक्तिमल्लिका

अतो योगविशेषेण यथा ताम्बूलरक्तिमा ।

तथा योगविशेषेण जडस्यैव प्रमातृता ।

इति यो वक्ति तस्यापि कुणपोऽभणदुत्तरम् ।। १५५ ।।

सुरोत्तमटीका

 अपि चेत्यादिनोक्तमर्थमुपसंहरन्भूतत्रययोग एव प्रमातेति तत्प्रक्रियां च दूषयति ।। अत इति ।। उक्तरीत्या कुणपेऽपि भूतत्रययोगस्य जीवच्छरीरवदन्यूनत्वात् । योगविशेषेण क्रमुकपर्णचूर्णयोगेनेत्यर्थः । दृष्टान्त-मुक्त्वा दार्ष्टान्तिकमाह ।। तथेति ।। योगविशेषेण पृथिव्यप्तेजोरूपभूत-योगेनेत्यर्थः । जडस्यैव जडशरीरस्यैव प्रमातृता चेतनता इति यश्चार्वाको वक्ति तस्यापि एवं वदतश्चार्वाकस्यापि । कुणपोऽभणदुत्तरमित्यस्यायं भावः । जीवच्छरीरे यो भूतत्रययोगोऽस्ति स सर्वोऽप्यव्यंगकुणपेऽप्यस्ति । तथा च शरीरातिरिक्तजीवाभावे जीवच्छरीरवत् कुणपेऽपि प्रमातृत्वादिकं स्यात् । न च तद्दृश्यते । तस्माज्जीवच्छरीरे कुणपादस्ति कश्चिद्विशेषः । स परिशेषा-च्छरीरातिरिक्तजीवसंयोग एवेति तत्सत्वाज्जीवच्छरीरे प्रमातृत्वादि कुणपे तदभावात् प्रमातृत्वाद्यभाव इति ।। १५५ ।।

युक्तिमल्लिका

पृथिव्यप्तेजसां योगो जीवदेहेऽपि नापरः ।

स सर्वः कुणपेऽप्यस्ति वादी नः कुणपोऽभवत् ।। १५६ ।।

सुरोत्तमटीका

 तदेव विशदयति । पृथिवीति ।। सः पृथिव्यादियोगः । वादी प्रतिवादी । नोऽर्थ इति शेषः ।। १५६ ।।

सत्यप्रमोदटीका

 न पञ्चमः । स्यादेतदेवम् । यदि भूतत्रययोगविशेषस्य चेष्टां प्रति प्रयोजकत्वं स्यात् । चेष्टा खलु ज्ञानेच्छाप्रयत्नवतः प्रमातुर्दृष्टा । न च प्रमातृत्वं भूतत्रययोगविशेषेण सम्भवति । येन तन्निवृत्तिः, प्रमातृत्वं वा तत्प्रयोज्यचेष्टां वा निवर्तयेत् । त्रयाणां भूतानां योगः शरीरे प्रमातृत्वं तदा सम्पादयेद्यदा एकैकस्य पृथिव्याद्यन्यतमस्य प्रमातृत्वयोग्यता स्यात् । न च तदस्ति । न च समुदायिषु कुत्राप्यविद्यमानो धर्मः तत्समुदाये सञ्जाघटीति । अथ मन्येत क्रमुकपर्णे चूर्णे च प्रत्येकमविद्यमानो रक्तिमा यथा तयोर्योगे सति ताम्बूले दृश्यते तथाऽत्रापि भवेदिति तन्न । वैषम्यात् । क्रमुकपर्णचूर्णे उभे रूपवद्वस्तुनी । तेन युज्यते ततोर्योगे रक्तवर्णोत्पत्तिः । न चैवं पृथिव्यादिकं प्रमातृत्वयोग्यतावत् इत्युक्तम् । येन तद्योगः शरीरे प्रमातृत्वं प्रयोजयेत् । किं चैवं पराभिमतो जीवार्हयोगो भूतानां कुणपेऽप्यस्ति । अतस्तन्निवृत्तिरेव तत्रासिद्धेत्याह स सर्व इति । नः वादी अस्मत्पक्षसमर्थनपरः

।। १५५,१५६ ।।

युक्तिमल्लिका

अतीन्द्रियेन्द्रियं नास्ति गोलकं तूभयत्र च ।

आत्माऽदृष्टेर्न कुत्रापि किं न्यूनं कुणपस्य तत् ।। १५७ ।।

सुरोत्तमटीका

 ननु जीवच्छरीरे गोलकातिरिक्तेन्द्रियसत्त्वाद्विशेष इत्यत आह ।। अतीन्द्रियेति ।। इन्द्रियं नास्तीत्यत्र युक्तिरतीन्द्रियेति । तेनातीन्द्रियपदार्थानङ्गीकारात् दृश्यमानं चक्षुरादिगोलकं तु उभयत्र च जीव-च्छरीरकुणपयोस्तुल्यमिति भावः । न कुत्रापि जीवच्छरीरकुणपयोरित्यर्थः । तत्तस्मात्कुणपस्य किं न्यूनम् ।। १५७ ।।

युक्तिमल्लिका

पूर्णो जीवार्हयोगोऽस्मिन्नानाकृम्यात्मके क्रमात् ।

तस्माद्देहस्वामिजीवस्याभावोऽत्र ध्रुवोऽभवत् ।। १५८ ।।

सुरोत्तमटीका

 जीवच्छरीरादपि कुणप एव जीवार्हयोगो युक्तियुक्त इत्याह ।। पूर्ण इति ।। क्रमान्नानाक्रिम्यात्मकेऽस्मिन्कुणपे जीवार्हयोगः जीव-कथायोग्ययोगः पूर्णः संपूर्णः । पूर्वाधिष्ठाता जीव एव नास्ति । जीवार्हयोगस्तु कुणपेऽपि पूर्ण एव । अन्यथा पुनस्तत्र जीवाः कथं स्युरिति भावः । तस्माज्जीववियोगं विना मरणस्यानिरूप्यत्वात् ।। १५८ ।।

सत्यप्रमोदटीका

 अपि चायं जीवार्हयोगो जीवच्छरीरादपि कुणप एव पूर्ण इत्याह नानाकृम्यात्मक इति ।। १५७,१५८ ।।

युक्तिमल्लिका

शवस्य नवरन्धे्रषु वायोश्चास्ति गतागतम् ।

भस्रान्तरपि यो वाति तस्य यात्रा तु कुत्र न ।। १५९ ।।

सुरोत्तमटीका

 शवाशवयोर्वायुसंचाराभावभावाभ्यां विशेष इत्येतत् प्रकारान्तरेणापि परिहरति ।। शवस्येति ।। तदुपपादयति ।। भस्रान्तरिति ।। तस्य वायोः ।। १५९ ।।

सत्यप्रमोदटीका

 श्वासनिवृत्त्या चेष्टानिवृत्तिरिति द्वितीयं पक्षं कुणपेऽपि वायुसञ्चारमुपपादयन्नसिद्धिकथनेनाधिकदूषणेन परिहरति शवस्येति ।।१५९।।

युक्तिमल्लिका

पश्य निर्जीवदेहेन जीवसिद्धिरभूदहो ।। १६० ।।

सुरोत्तमटीका

 हृद्येव निरुद्धश्वासमुनीश्वरवत्कुणपेऽप्यन्तः श्वाससम्भवेन तदभावस्य त्वया निर्णेतुमशक्यत्वाच्च बहिः श्वासाभावेऽपि जीवनसम्भवाच्च निर्जीवदेहेन जीवसिद्धिरभूदित्युपहासः ।। १६० ।।

युक्तिमल्लिका

रक्तिमा रत्नधात्वादिपार्थिवेषु स्वभावतः ।

वर्तते स तु योगेन तज्जातीयेऽपि दृश्यताम् ।। १६१ ।।

सुरोत्तमटीका

 इदानीं क्रमुकादियोगविशेषेण रक्तिमा यथेति प्रागुक्त-दृष्टान्तस्य वैषम्यमुपपादयति ।। रक्तिमेति ।। रत्नधात्वादिपार्थिवेषु पदार्थेषु रक्तिमा तज्जातीये तांबूलादौ । तथा च जडे क्वचित्स्वभावभूतमन्यत्र योगेनापि जायतां नाम । जडे क्वाप्यदृश्यमानं अत एव तदस्वभावभूतं चैतन्यं योगशतेनापि न जायत इति भावः ।। १६१ ।।

युक्तिमल्लिका

ज्ञानं तु पञ्चभूतात्मजडवर्गे न कुत्रचित् ।

अतो जडस्वभावो न तद्योगोऽपि जडे कथम् ।। १६२ ।।

सुरोत्तमटीका

 तदेव स्पष्टयति ।। ज्ञानमिति ।। पञ्चभूतात्मजडवर्गे पञ्चभूतरूपजडवर्गे । न कुत्रचिन्नक्वापीत्यतो जडस्वभावो न ज्ञानम् । तज्ज्ञानं योगेऽपि जडानां परस्परं योगेऽपि जडे कथं स्यादित्यर्थः ।। १६२ ।।

युक्तिमल्लिका

जपाकुसुमयोगेऽपि रूपवत्येव रक्तिमा ।

नीरूपवायौ किं रक्तशतयोगेऽपि रक्तिमा ।। १६३ ।।

सुरोत्तमटीका

 ननु जपाकुसुमसम्बन्धात् स्फटिके रक्तिमा दृश्यते तद्वज्जडेऽपि पूर्वोक्तयोगाद्दृश्यतामित्यत आह ।। जपेति ।। रूपवत्येव स्फटिकादौ रक्तिमा दृश्यते । नीरूपवायौ रक्तद्रव्यशतयोगेऽपि रक्तिमा दृश्यते किम् । न दृश्यत एव । ततश्च तत्तत्सम्बन्धयोग्य एव तत्तद्भानं नायोग्य इति हेतोः ज्ञानयोग्य एव पदार्थे ज्ञानं स्यात् । नत्वयोग्ये जडशरीरे ज्ञानमिति भावः ।। १६३ ।।

युक्तिमल्लिका

नान्धानां शतमप्यन्ध पश्यतीति न किं श्रुतम् ।। १६४ ।।

सुरोत्तमटीका

 तत्राभाणकसिद्धं दृष्टान्तमाह ।। नान्धानामिति ।। तथा च जडानां शतयोगेनापि कंचन चेतनं विना कथं ज्ञानं स्यादिति भावः

।। १६४ ।।

युक्तिमल्लिका

चक्षुष्मता तु संयोगे तस्यापि स्याद्गतागतम् ।

एवं ज्ञानवता योगे देहे यात्रा न चेन्न च ।। १६५ ।।

सुरोत्तमटीका

 इदानीं चेतनसंयोगे सति जडस्यापि चेष्टादिकं स्यादित्येतत्तेनैव दृष्टान्तेनोपपादयति ।। चक्षुष्मतेति ।। तस्याप्यंधस्यापि । दार्ष्टान्तिकं योजयति ।। एवमिति ।। ज्ञानवता स्वाभाविकज्ञानवता देहान्य-जीवेन ।। १६५ ।।

युक्तिमल्लिका

स च स्वभावतोऽज्ञानी स्यान्न कृत्रिमबोधवान् ।

किं चित्रलिखितं नेत्रं कञ्चिदर्थं प्रपश्यति ।। १६६ ।।

सुरोत्तमटीका

 तदेवोपपादयति ।। सचेति ।। सचज्ञानवान्कृत्रिमज्ञान-वान्योगविशेषकृतज्ञानवान्नेत्यर्थः । तत्रार्थान्तरन्यासः ।। किमिति ।। चित्रलिखितमित्यनेन कृत्रिमत्वं सूचयति ।। १६६ ।।

सत्यप्रमोदटीका

 तथा च प्रयोगः विमतो भूतत्रयसमुदायः न ज्ञानेच्छाप्रयत्नवान् तच्छून्यसमुदायिमेलनरूपत्वात् । सामान्यव्याप्तौ दर्शनाभावे अन्धानां शतम्, रूपाभावे वायुरक्तयोगः इत्यादिः अन्वयदृष्टान्तः, रक्तरूपे स्फटिकजपाकुसुमयोगः, क्रमुकपर्णचूर्णयोगश्च इत्यादिर्व्यतिरेकदृष्टान्त इत्याह जपाकुसुमेत्यादिना ।। १६०-१६६ ।।

युक्तिमल्लिका

अतो जडस्य जीवत्वं जडो वक्ति न पण्डितः ।

जीवस्तु जडदेहान्यो मान्यो यं देहिनं विदुः ।। १६७ ।।

सुरोत्तमटीका

 तस्माज्जडशरीरस्य जीवत्वं वदन्नपण्डित इत्याह ।। अत इति ।। जडस्य जीवत्वं यो वक्ति स जडोऽविवेकीति सम्बन्धः । उक्तमर्थ-मुपसंहरति ।। जीव इति ।। तत्तस्मात् जडदेहान्यो मान्य इति सम्बन्धः । तत्र सार्वजनीनं व्यवहारं प्रमाणयति ।। यं देहिनमिति ।। यं जीवं देहिनं देहिशब्दवाच्यं विदुः सर्वेऽपि विदुः । देहीतिशब्दः देहोऽस्यास्तीति व्युत्पत्त्या पाञ्चभौतिकदेहस्वामिनमेव तं जीवमाह । देहिपदवाच्यत्वादेव देहादन्यो जीवः सिद्ध्यतीति भावः ।। १६७ ।।

सत्यप्रमोदटीका

 उपसंहरति अत इति ।। १६७ ।।

युक्तिमल्लिका

जातमात्रशिशोरम्बास्तनपानेष्टहेतुता ।

प्राग्भवेष्वनुभूतैतज्जातीयस्य निदर्शनात् ।

अनुमेया सा च देहजीवैक्ये शक्यते कथम् ।। १६८ ।।

सुरोत्तमटीका

 युक्त्यन्तरेण जीवस्य देहादन्यत्वं नित्यत्वं च साधयति ।। जातेति ।। अम्बास्तनपानेष्टहेतुता मातुस्स्तनपानस्येष्टसाधनतेत्यर्थः । प्राग्भवेषु अनुभूतं यदेतज्जातीयं इदानींतनांबास्तनपानजातीयं अम्बास्तनपानान्तरं प्राग्भवीयं तस्य निदर्शनात् दृष्टान्तादित्यर्थः । तथा च प्रयोगः । एतदम्बा-स्तनपानं इष्टसाधनं अम्बास्तनपानत्वात् प्राग्भवीयांबास्तनपानवदिति । अन्यथा स्तनपाने प्रवृत्तिरेव न स्यात् । नियमेन सर्वेषां इष्टसाधनताज्ञानस्य प्रवर्तकत्वात् । भवतु स्तनपानस्येष्टसाधनताज्ञानं स्तनपाने प्रवर्तकं ततः किं प्रकृत इत्यत आह ।। सा चेति ।। सा स्तनपानस्येष्टसाधनतानुमा ।। १६८ ।।

सत्यप्रमोदटीका

 जन्मान्तरसद्भावे ‘जातमात्रा मृगा गावः’ इत्याद्यनु-व्याख्यानतत्सुधोक्तयुक्तिं चाह जातमात्रेत्यादिना । अत्र विस्तरः भक्ति-पादीयाद्याधिकरणसुधायां द्रष्टव्यः । कार्यकारणभावस्यातीन्द्रियत्वेन इष्ट-साधनत्वज्ञानं न प्रत्यक्षगम्यम् । तदुक्तं अनुमेयेति । एतदुपलक्षणम् । उपदेशसाध्येत्यपि ग्राह्यम् । तदुक्तं सुधायां ‘किंत्वनुमानोपदेशसाध्यमेव । न च मृगादीनामुपदेशः सम्भवति’ इति । न चानुमानं अन्वयव्यतिरेकव्याप्त्यादि-स्मरणेन विना सम्भवति । न चाननुभूते स्मृतिरुत्पद्यते । न चास्मिञ्जन्म-न्यन्वयाद्यनुभवोऽस्ति । तदिदमुक्तं जातमात्रेति । प्राग्भवीयस्योपदेश-स्यान्वयादेश्च स्मरणे पूर्वदेहस्मरणमपि अङ्गीकर्तव्यम् । यदैवमेतद्देहवर्तिनो मम न केवलमयमेव देहः किन्तु तत्प्रागन्योऽभूदिति देहान्तरस्मरणमापतितं तदैतद्देहेन स्वस्यैक्याध्यवसायः कुतः स्यात् । किन्तु अनेकमणिष्वनुस्यूतं सूत्रमिवानेकदेहानुस्यूतमात्मानं पश्यतः स्वस्य ततोऽत्यन्तभेदावसितिरेव युक्ता । तदिदमाह देहजीवैक्ये शक्यते कथमिति ।। १६८,१६९ ।।

युक्तिमल्लिका

अन्यस्यैवानुभूतिस्स्यात्ततोऽन्यस्यानुमा भवेत् ।

नित्यदेहान्यजीवस्य पक्षे तु क्षेममेति सा ।। १६९ ।।

सुरोत्तमटीका

 देहजीवैक्ये कथं शक्यत इत्येतदुपपादयति ।। अन्यस्यै-वेति ।। देहानां च तत्तज्जन्मसु नाशात् स्तनपानस्येष्टसाधनतानुभूतिरन्यस्य प्राग्भवीयस्य स्यात् । एतज्जन्मनि स्तनपानस्येष्टसाधनतानुमा च ततोऽन्यस्य यस्य दृष्टान्तीभूतप्राग्भवीयेष्टसाधनतानुभवः ततोऽन्यस्य पुरुषस्येति स्यात् । न च तद्युक्तम् । एकस्यानुमा अपरस्य दृष्टान्तानुभव इत्यस्य क्वाप्यदर्शनादिति भावः । देहातिरिक्तजीवपक्षेतु नायं दोष इत्याह ।। नित्येति ।। नित्यश्चासौ देहान्यजीवश्चेति विग्रहः । सा अनुमा पक्षे ममेति । अयम्भावः । जीवस्य देहमात्रत्वपक्षे उक्तरीत्या दृष्टान्ताभावेन स्तनपानेष्टसाधनत्वानुमाना सम्भवः । देहान्यनित्यजीवपक्षेतु यस्यैव प्राग्जन्मनि स्तनपानेष्टसाधनतानुभवः तस्यैव जन्मान्तरेऽपि जातत्वात्पूर्वजन्मनि स्वेनैवानुभूतस्तनपानदृष्टान्तेन इदानीन्तन-स्तनपानेष्टसाधनतानुमा सुशका । दृष्टान्तसौलभ्यादिति । एवं च पूर्वजन्मनि सत एव एतज्जन्मनि सत्त्वान्नष्टात्प्राग्देहादुत्पन्नादस्माद्देहाच्चान्यताऽपि सिद्धा । अतीतानागतानन्तजन्मस्वप्येवमेकस्य जीवस्यापेक्षितत्वात् नित्यता च सिद्धा । जीवनहेतुभूतस्यास्यानुमानस्य प्रामाण्यं च सिद्धमिति ।। १६९ ।।

युक्तिमल्लिका

अतोऽम्बास्तनपानं तन्न शिशोरेव पुष्टये ।

जीवदेहान्यतायुक्तिमान्यतापुष्टयेऽप्यभूत् ।। १७० ।।

सुरोत्तमटीका

 उक्तमर्थमुपसंहरति ।। अत इति ।। तदंबास्तनपानं शिशोरेव पुष्टये न । किंतु जीवस्य या देहान्यता । उपलक्षणं चैतत् । जीव-नित्यता चेत्यपि ग्राह्यम् । या युक्तिमान्यता युक्तेरनुमानस्य मान्यता प्रमाण-त्वेन मान्यता तयोः पुष्ट्यै पोषणायाप्यभूदिति सम्बन्धः ।। १७० ।।

सत्यप्रमोदटीका

 अत्र अम्बा इष्टसाधनत्वानुमा । स्तनपानं, पूर्वजन्म । शिशुः जीवदेहान्यतावादः । पुष्टिः देहान्यजीवस्य तन्नित्यत्वस्य च सिद्धिः इति हृदयम् ।। १७० ।।

युक्तिमल्लिका

भुक्तेः प्राग्भोक्ष्यमाणान्नव्यक्ताविष्टस्य हेतुता ।

अनुमेयाऽनुभूतान्नजातीयत्वेन केवलम् ।। १७१ ।।

सुरोत्तमटीका

 इतोऽप्यनुमानस्य प्रामाण्यमङ्गीकार्यमित्याह ।। भुक्ते-रिति ।। भुक्तेः भोजनात् । भोक्ष्यमाणान्नव्यक्तौ पात्रस्थान्नव्यक्तौ । पूर्वमिष्ट-साधनत्वेनानुभूतं यदन्नं तज्जातीयत्वेनेत्यर्थः । तथा च प्रयोगः । पात्रस्थान्न-मिष्टसाधनमन्नत्वात्पूर्वदिनभुक्तान्नवदिति ।। १७१ ।।

युक्तिमल्लिका

अतोऽनुमानमानत्वमनङ्गीकुर्वतस्तव ।

नित्योपवासान्मृत्युस्स्यादित्युत्पश्यति यौक्तिकः ।। १७२ ।।

सुरोत्तमटीका

 अत इति ।। यतस्त्वन्मतेऽनुमानममानमत इत्यर्थः । अनुमानस्य प्रामाण्यानङ्गीकारे भोक्ष्यमाणान्नादीनामिष्टसाधनताज्ञानोपायाभावात् तज्ज्ञानाभावे च भोजनादौ प्रवृत्त्यसम्भवात् नित्योपवासात् मृत्युस्स्यादिति यौक्तिको जन उत्पश्यतीति सम्बन्धः । प्रागन्नपूरणयोग्यहृदयगुहाज्ञाना-यानुमानप्रामाण्यमावश्यकमित्युक्तम् । इदानीमन्नस्यैवेष्टसाधनता ज्ञानायेति विवेकः ।। १७२ ।।

सत्यप्रमोदटीका

 न केवलमनुमानप्रामाण्यानङ्गीकारे शिशोः स्तनपानानु पपत्तिः किन्तु प्राणिमात्रस्य सर्वस्य पानभोजनादिप्रवृत्तेरेवानुपपत्तिरित्याह भुक्तेरित्यादिना द्वाभ्याम् ।। १७१,१७२ ।।

युक्तिमल्लिका

जडदेहात्मता जीवे जडाकारेण चाकृतिः ।

यच्छेदभेदवेधाग्निदाहाद्यैस्स्वधप्रदा ।

तद्बुधास्तां न मन्यन्ते मनःखेदाय यत्सदा ।। १७३ ।।

सुरोत्तमटीका

 अतो योगविशेषेणेत्यादिनोक्तप्रमेयमुपसंहरति ।। जडेति ।। जीवे जडदेहात्मता जडदेहरूपता तथा जडाकारेण चाकृतिराकारः । आकारवत्तेति यावत् । यत् यस्मात्कारणात् छेदाद्यैः स्वशरीरस्यैव जीवत्वेन शरीरस्य यच्छेदादिकं तज्जीवस्येत्यापतति । अतस्स्ववधप्रदेत्यर्थः । तत् तस्मात् कारणात् । तां जडदेहात्मताम् । यज्जडदेहात्मत्वादिकं सदा मनः-खेदाय भवति । अतो न मन्यन्त इति पूर्वेण सम्बन्धः ।। १७३ ।।

सत्यप्रमोदटीका

 देहस्य भस्मीभावे जीवस्वरूपस्यैव नाश इति स्ववध-पर्यवसन्नं वादं बुधा नैव स्वीकुर्युरित्याह जडदेहेति ।। १७३ ।।

युक्तिमल्लिका

सुखज्योतिस्स्वरूपात्मचितां साकारतां स्तुमः ।

या मौक्तनानाभोगानां भोक्तृत्वाय श्रुतौ श्रुता ।

सदा द्रष्टृत्ववक्तृत्वसौन्दर्यादिगुणाय च ।। १७४ ।।

सुरोत्तमटीका

 ननु जडाकाराभावे किं निराकारा एव जीवा नेत्याह ।। सुखेति ।। सुखज्योतिस्स्वरूपाः या आत्मचितः जीवस्वरूपभूतचितः तासां साकारतां करचरणाद्याकारवत्तां सुखज्योतिस्स्वरूपजीवचैतन्यात्मक-हस्तपादादिमत्तामित्यर्थः । या सुखज्योतिस्स्वरूपचैतन्यात्मककरचरणा-द्याकारता । श्रुतौ परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन्क्रीडन्रममाण इत्यादिश्रुतौ । सदा सर्वकालेषु मौक्तनानाभोगानां मुक्तौ विद्यमानाङ्गनालिङ्गनादिनानाभोगानां भोक्तृत्वाय सदा द्रष्टृत्ववक्तृत्व-सौन्दर्यादिगुणाय च श्रुता प्रतिपादिता । ज्ञानादेर्हस्तपादाद्याकारत्व-मनानुभविकमित्यतोज्योतिरित्युक्तम् । परं ज्योतिरिति श्रुतेः विष्णोस्तत्प्रति-बिम्बभूतजीवानां च ज्योतीरूपत्वस्यापि सिद्धेर्ज्योतिषस्साकारता तु तैजसशरीरे सर्वानुभवसिद्धा । तदेव ज्योतिर्ज्ञानरूपमानन्दरूपं चेति ज्ञानानन्दयोरपि साकारत्वे काऽनुपपत्तिरिति भावः । सार्वकालीनभोगाय सार्वकालीन-सौन्दर्यादिगुणाय च सार्वकालीनदेहस्याप्यावश्यकत्वाद्बाह्यदेहस्य तादृशस्या-भावात्स्वरूपभूतदेहं श्रुतिर्वक्ति न पुनराग्रहादेवेत्यभिसन्धिः । तां प्रामाणि-कत्वाद्यौक्तिकत्वाच्च स्तुम इति पूर्वेण सम्बन्धः । चार्वाकाङ्गीकृतजड-देहात्मवादोऽप्रामाणिकोऽनिष्टप्रदश्च । अतः श्रुतेः श्रौतजनानां च नासौ संमतः । ज्ञानानन्दात्मकचिद्रूपदेहात्मवादस्तु प्रामाणिको मौक्तसुखानुभवोप-योगित्वेनेष्टहेतुश्चेति श्रुतेः श्रौतजनानां च संमत इति भावः । अतश्चार्वाक-देहात्मतावादात् वैदिकदेहात्मतावादस्य च महान्भेद इति भावः ।। १७४ ।।

सत्यप्रमोदटीका

 ननु देहस्य जीवस्वरूपत्वनिराकरणं स्वव्याहतम् । स्वरूपेण व्यवस्थितिरिति मुक्तौ स्वरूपदेहाङ्गीकारादित्यत आह सुखेति । अङ्गीकृतो देहः सुखज्ञानस्वरूपात्मकश्चिद्रूपः, निराकृतस्त्वतादृशो जडात्मक इति न विरोध इत्याशयः । क्वचिन्मौक्तभोगानुकूलाचेतनदेहानां स्वेच्छया स्वीकारोऽपि श्रुतिसिद्धत्वादनुमन्यते इत्याह श्रुतौ श्रुता इति । स्वरूपभूतेन चेतनात्मकेन, अस्वरूपेणाचेतनात्मकेन च भोगाङ्गीकारेऽपि चार्वाकाभ्युपगत-जडदेहात्मता तु न सृतौ नापि मुक्तौ । चितः साकारत्वाङ्गीकारः मुक्तेः परमपुमर्थत्वोपपादकभोगसाधनत्वादित्याह मौक्तेति ।। १७४ ।।