परासिनाऽतिक्रूरेण या ह्यविद्या क्षतापि न

चित: अज्ञानाविरोधित्वासंभवः

युक्तिमल्लिका

परासिनाऽतिक्रूरेण या ह्यविद्या क्षतापि न ।

यतो ब्रह्मचिता नाशो नाज्ञानस्य भवन्मते ।। ११५ ।।

स्वसन्तानासिना मन्दधारेण च्छिद्यते किल ।

आविद्यकमनोरूपविद्यया नाशकीर्तनात् ।। ११६ ।।

सुरोत्तमटीका

 यच्चोक्तं ब्रह्मस्वरूपभूतं ज्ञानमज्ञानानाशकम् । किंतु मनोवृत्तिरूपज्ञानमेव तन्नाशकमिति । तदपि न । ‘‘मायां व्युदस्य चिच्छ-क्त्ये’’ति स्मृतिविरुद्धत्वात् । युक्तिविरुद्धत्वाच्च नेत्याह ।। परासिनेति ।। या अविद्या अतिक्रूरेण अनाद्यनन्ततया भ्रमप्रमादादिदोषैरच्छेद्येन परासिना परमात्मस्वरूपभूतज्ञानासिना । वैरिखड्गेनेति ध्वनिः । क्षता निवर्त्यापि न घातवतीति ध्वनिः । नेदं मयोच्यत इत्यत उक्तं यत इति ।। यतः यस्मात् । भवन्मते मायिमते ब्रह्मचिता ब्रह्मस्वरूपज्ञानेनाज्ञानस्य नाशो न । ततः क्षता नेति सम्बन्धः । सा अविद्या । स्वसन्तानासिना आविद्यकत्वात्स्वसन्तान-रूपमनसो या वृत्तिः तदात्मकासिना मन्दधारेण आशुतरविनाशिजडज्ञानतया मन्दधारेण छिद्यते किलेति सम्बन्धः । लीलया स्वपुत्रधृतशस्त्रेणेति ध्वनिः । अत्रापि तत्संमतिमाह ।। आविद्यकेति ।। विद्यया ज्ञानेन । जडाजडयो-र्विरोधादजडेनानश्यज्जडमज्ञानं स्वोत्पन्नेन जडमानसज्ञानेन नश्यतीत्येतन्मायि-प्रमेयं वैरिशस्त्रेणाप्रतिहतो राजा स्वपुत्रधृतमन्दधारखड्गेन मृत इतिवत् असंभावनापराहतमिति साहित्यमुद्रया ध्वनितोऽर्थः ।। ११५,११६ ।।

सत्यप्रमोदटीका

 या चेयं परप्रक्रिया, केवलं चिद्रूपज्ञानं नाज्ञाननाशकं किन्तु तत्स्फोरकमेव । वृत्त्युपारूढं तु सत्तदज्ञाननाशकं इति । यथोक्तं–

तृणादेर्भासिकाऽप्येषा सूर्यदीप्तिस्तृणं दहेत् ।

 सूर्यकान्तमुपारूढा तन्न्यायं चितियोजयेदि’ति ।।

तां दूषयति परेत्यादिभिश्चतुर्भिः । आद्यश्लोकद्वयस्य, एकान्वयः । तत्र ‘यतो ब्रह्मचिता नाज्ञाननाशो भवन्मते’ इति ‘आविद्यकमनोरूपविद्यया नाशकीर्तनात्’ इति च परप्रक्रियावर्णनम् । शिष्टेन, तन्निरासः । परासिना इति स्वसन्तानासिनेत्येतत्प्रतियोगितयोक्तम् । अतिक्रूरेणेत्येतच्च मन्दधारेणे-तत्प्रतियोगितयेति ध्येयम् । परेति अविद्यापेक्षया । अनाविद्यकेत्यर्थः । मनोरूपविद्या तु स्वयं अविद्याकृतत्वान्नैवमिति भावः । तदुक्तं स्वसन्तानेति । अविद्याकार्येत्यर्थः । अतिक्रूरेण । ‘मायां व्युदस्य चिच्छक्त्या’ इत्यादिप्रमाणैर-ज्ञाननिवर्तकतया प्रमितेन । एवं ज्ञप्तिरिति– ज्ञानशब्दमुख्यव्यवहारविषयेण चिद्रूपज्ञानेन । वृत्तिज्ञानं तु नैवमित्याह मन्दधारेणेति । धर्माधर्मादि-परोक्षविषये चिदसंवलननिमित्तेनाज्ञानानिवर्तकतया पराभ्युपगतत्वेन स्वयं अज्ञाननिर्हरणासमर्थेन वृत्तिज्ञानेन । अपेरतिक्रूरेणेत्यनेन सम्बन्धः । येत्युक्त्या सेति लभ्यते । छिद्यत इत्यनेन सम्बन्धते । किलेत्यपहासः । अयमर्थः । ‘श्रुतमयेन ज्ञानेन तत्त्वमभिधाय चिन्तामयीमवस्थामवलम्बमानस्य यद्वृत्ति-रूपज्ञानमुपजायते तेन भवेदविद्यानिवृत्तिरि’ति परेणोच्यते । तदेतदत्य-सङ्गतम् । ‘अहमज्ञानजं तमः । नाशयात्मभावस्थो ज्ञानदीपेन भास्वता’ इति स्मृत्युक्तरीत्या अज्ञाननाशकत्वेन प्रमाणप्रमितं स्वयं अनाविद्यकं च ब्रह्मात्मकं चिद्रूपज्ञानं, अविद्यां न निवर्तयति किल । चिदसम्वलने स्वयं अर्थप्रकाशने असमर्थं, अविद्याकार्यं च वृत्तिज्ञानं तां निवर्तयति किल । तदेतत् शत्रो-स्तीक्ष्णखड्गप्रहारैरक्षतवर्मा वीरः स्वार्भकस्य क्रीडनकेनौपचारिकासिना घातित इति वदपहास्यमिति ।। ११६ ।।

युक्तिमल्लिका

मनसोऽपि हि चिद्योगाच्छक्तिरर्थप्रकाशने ।

अज्ञाननाशने च स्याच्छक्तिस्तद्योगतः परम् ।। ११७ ।।

सुरोत्तमटीका

 स्वप्रक्रियाविरुद्धं चेदमिति भावेनोक्तं मनसोऽपीति ।। मनसः अर्थप्रकाशनशक्तिः चिद्योगात् स्वरूपचित्संवलनात् । अज्ञाननाशने च परं केवलं तद्योगादेव शक्तिस्स्यात् । तत्प्रकाशनसमर्थस्यैव तदज्ञाननिबर्हण सामर्थ्यौचित्यात् । हीत्यनेन अन्यथाचित्संवलनाङ्गीकारवैयर्थ्यं स्यादिति सूचयति ।। ११७ ।।

सत्यप्रमोदटीका

 अपहासबीजं स्वरूपज्ञप्त्यपेक्षया वृत्तेरतिदौर्बल्यं पराङ्गीकृतं चेत्याह मनस इति । अपरोक्षवृत्तिज्ञानस्येत्यर्थः । हीत्यनेन पराङ्गीकारमत्र प्रमाणयति । ज्ञानस्य द्वे अर्थक्रिये । अर्थप्रकाशनं तदज्ञान-निवर्तकत्वं चेति । इमे चापरोक्षवृत्तावेव सम्भवतः । न धर्माद्यतीन्द्रिय-विषयकपरोक्षवृत्तौ । तत्कुत इत्यतः परेणोच्यते चिद्योगात् इति । अपरोक्ष-वृत्तावेव चित्प्रतिफलनात् इत्यर्थः । तथोक्तं ‘बिम्बीभवन्ती चितिः हरत्यज्ञानं प्रकटीकरोति विषयानि’ति । परं केवलम् । चिद्योगाभावे तु नैवोभयमित्यर्थः

।। ११७ ।।

युक्तिमल्लिका

न चेद्धटादितुल्यस्य जडस्य द्वितयं च न ।

भूताविष्टाच्च भीतस्य भूतात्कथमभीतता ।। ११८ ।।

सुरोत्तमटीका

 विपक्षे बाधकमाह ।। न चेदिति ।। न चेच्चिदाहित-शक्तिद्वयं न चेत् घटादि तुल्यस्य जडस्य मनःपरिणामस्य द्वितयं अर्थ-प्रकाशनशक्तिः अज्ञाननिवर्तनशक्तिश्चेति द्वयम् । अनेन विमतो मनोवृत्त्यन्त-र्गताऽचिदंशः नोक्त शक्तिद्वयवान् जडत्वात् घटवदित्यनुमानरूपबाधकं दर्शयति । लौकिकदृष्टान्तविरोधं च दर्शयति ।। भूतेति ।। भूतेन पिशाचेना-विष्टात्पुरुषाद्भीतः । अन्यत्स्पष्टम् । एवं चिदाविष्टमनोनष्टमज्ञानं कथं मुख्य-चितो न नश्यतीति दार्ष्टान्तिकमपि सूचयति । तस्मादनादि नित्यसर्वविषयक-स्वभजकसार्वज्ञप्रददिव्याज्ञानरूपस्य ब्रह्मणः अज्ञानाविनाशकत्वाङ्गीकरणं स्मृतिस्वप्रक्रियायुक्तिलौकिकदृष्टान्तादिविरुद्धत्वादुपेक्षणीयमेव । नत्वविद्यायाम-सम्भावितशक्तिघटनया सङ्घटनीयमिति भावः ।। ११८ ।।

सत्यप्रमोदटीका

 तदेवाह न चेदिति । जडस्य चित्संवलनरहितस्य परोक्षवृत्तिज्ञानस्य । तत्र दृष्टान्तो घटतुल्यस्येति । तथा च प्रयोगः । चिद-संवलितं वृत्तिज्ञानं, न अर्थप्रकाशकं अज्ञाननिवर्तकं जडत्वात् घटवदिति । एवं चान्वयव्यतिरेकाभ्यां चितो वृत्तेर्दौर्बल्यसिद्धिरविकलेति भावः । अत्रैवार्था-न्तरं न्यस्यति भूतेति । अत्र भूतं चिद्रूपज्ञानं, येन आविष्टात् तत्संवलिताद-परोक्षवृत्तिज्ञानात् भीतस्य तन्निवर्त्यस्याज्ञानस्य, भूतात् चिद्रूपज्ञानात् अभीतता अनिवर्त्यता । कथमाक्षेपे । तथा च चितोऽज्ञानानिवर्तकत्वोक्तिः परस्या-पहास्यैवेति भावः ।। ११८ ।।