ज्ञानेनैव च नास्तित्वं कस्य विश्वस्य जायते
ज्ञानेनाशेषनिवृत्तिरित्यस्य निरासः
युक्तिमल्लिका
ज्ञानेनैव च नास्तित्वं कस्य विश्वस्य जायते ।
प्रलये नास्तिता या तु सा ध्वंसादेव केवलम् ।। १२४ ।।
सुरोत्तमटीका
यद्यपि ज्ञानेन नाशाख्यबाधो नास्ति । तथापि नास्तित्व- बोधाख्यबाधोऽस्तीत्यतस्सोऽपि नास्तीत्याह ।। ज्ञानेनेति ।। अतस्त्वदभिलषित त्रिकालनास्तिताख्यबाधस्य नात्रावकाश इति भावः ।। १२४ ।।
सत्यप्रमोदटीका
ज्ञानेनैव च नास्तित्वं पराभिमतं ज्ञानत्वेन निवर्त्य-त्वम् । केवलं न तु ‘नास्ति नासीद्भविष्यति’ इति त्वदुक्तं त्रैकालिक-निषेधप्रतियोगित्वम् ।। १२४ ।।
युक्तिमल्लिका
किमन्यन्नाशयेज्ज्ञानी कस्य वा नास्तितां दिशेत् ।
स्वदेहस्यापि यद्दाहान्नास्तिता न स्वसंविदा ।। १२५ ।।
सुरोत्तमटीका
अन्यत् उक्तप्रकारेण नष्टजगतोऽन्यत् । दाहात् सङ्कर्षणमुखानलेन दाहात् ।। १२५ ।।
सत्यप्रमोदटीका
न स्वसंविदेति । तदुक्तं सुधायाम् । ‘किन्तु मुद्गर-प्रहारादिना घटस्येवेश्वरज्ञानेच्छाप्रयत्नैर्विनाश एव’ इति
।। १२५,१२६ ।।
युक्तिमल्लिका
अतो जगद्बाधकथा स्वाबोधादेव केवलम् ।
उच्चैर्न वाच्या विद्वत्सु महाहास्यास्प(दं)दा हि सा ।। १२६ ।।
सुरोत्तमटीका
अतः दृष्टजगतः उक्तविधयैव नाशात् । जगदन्तरस्य चाभावात् । सा ज्ञानान्नाशकथा ।। १२६ ।।
युक्तिमल्लिका
इतोऽन्यस्सर्वसंहारो न श्रौतो नापि यौक्तिकः ।
घटादिसर्वनाशो हि स्वस्वकारणशेषवान् ।। १२७ ।।
सुरोत्तमटीका
इतः ब्रह्मप्रलयात् । सर्वसंहारः ब्रह्मव्यतिरिक्तप्रकृति-प्राकृताख्यसकलजगत्संहारः ।। १२७ ।।
सत्यप्रमोदटीका
स्वस्वकारणेति । ‘वायुना हतगन्धा भूः सलिलत्वाय कल्पते’ इत्यादिभिः भागवते नाशप्रकारोक्तेः ।। १२७ ।।
युक्तिमल्लिका
दाहेन कार्यनाशेऽपि भस्मशेषः प्रदृश्यते ।
स्वस्वावयवनाशेऽपि सूक्ष्मसूक्ष्मतदंशकाः ।
शिष्टा भवन्ति तद्वस्तु कथं स्यादसदेव हि ।। १२८ ।।
अतो या या त्वयोच्येत सा सा नाशपरंपरा ।
कथं मुञ्चेदुपादानसूक्ष्मांशांशपरंपराम् ।। १२९ ।।
सुरोत्तमटीका
कार्यनाशेऽपि सकारणकार्यनाशेऽपि ।। १२८,१२९ ।।
सत्यप्रमोदटीका
कथमिति । अवयवसंयोगनाशेन कार्यनाशे अवयवा-नाम्, अवयवनाशेन तन्नाशे अवयवोपादानानाम्, अन्ततः मूलप्रकृतेरवशेषः इति कुत्रापि निःशेषनाशोऽलीक इति भावः ।। १२८,१२९ ।।
युक्तिमल्लिका
परंपरा द्विरूपेयं प्रकृतौ पर्यवस्यति ।
सर्वस्यान्ते यतस्सैव शिष्टा नष्टा च नैव सा ।। १३० ।।
सुरोत्तमटीका
द्विरूपा कारणकार्यनाशरूपा । इयं घटमारभ्य प्रकृति-पर्यन्ता । सैव प्रकृतिरेव ।। १३० ।।
सत्यप्रमोदटीका
द्विरूपा कार्यकारणनाशरूपा । नैव नष्टेति । प्रकृते-र्नित्यत्वं च महाप्रलयानन्तरं पुनःसृष्टावुपादानत्वात् ।। १३० ।।
युक्तिमल्लिका
नाशत्वाद्विमतो नाशस्स्याद्भावान्तरशेषवान् ।
घटनाशवदित्येषा विदोषा युक्तिरस्ति हि ।। १३१ ।।
सुरोत्तमटीका
निरूपितप्रमेयतःसिद्धमनुमानमाह ।। नाशत्वादिति ।। विमतो नाशः परोदीरितसर्वनाशः ।। १३१ ।।
सत्यप्रमोदटीका
जीवब्रह्मैक्यमाशासानेन मायिना विरुद्धधर्मोपलक्षित-सर्वप्रपञ्चस्य ज्ञाननिवर्त्यत्वरूपमिथ्यात्वं यदुच्यते तत्र निवृत्तिरूपो विनाशः कीदृश इति प्रष्टव्यम् । किम् असङ्कोचेन सर्वनाशः अथ ब्रह्मभिन्नस्य सर्वस्य भावस्य नाशः उत भावकार्यस्य, यद्वा ब्रह्मभिन्नस्य सादेरनादेः सर्वस्य नाशः इति विकल्प्य दूषयति । विमतः ज्ञानेन जायमानो निवृत्तिलक्षणः । विदोषा अव्यभिचरितव्याप्तियुता ।। १३१ ।।
युक्तिमल्लिका
निश्शेषवस्तुनाशस्य नाशमात्रेऽप्यदर्शनात् ।
वक्राभासोक्तिमात्रेण नैव स्याद्धि स यौक्तिकः ।। १३२ ।।
सुरोत्तमटीका
यौक्तिको न हि ।। १३२ ।।
सत्यप्रमोदटीका
व्यभिचाराभावमेव विशदयति अदर्शनादिति । वक्राभासेति व्याप्तिरहितत्वाद्वक्रत्वं दृष्टान्तीकृतशुक्तिरूप्ये दृग्विषयत्व-रूपदृश्यत्वस्य हेतोः तथा निवृत्तिरूपस्य साध्यस्य चाभावात् । असत्त्वेन सन्निकर्षस्य, नाशस्य चासम्भवात् । तदुक्तं न्यायामृते ‘विज्ञाननाश्यता मिथ्यारूप्यादौ नानुभूयते । किन्त्वधिष्ठानवत्सत्ये तदज्ञानेऽनुभूयते’ इति । तेनैव हेतुना प्रातिभासिकत्वस्यापि साधनसौलभ्येन आभाससाम्यं च । सः नाशः ।। १३२ ।।
युक्तिमल्लिका
अदृष्टकल्पनादोषो यतस्सर्वत्र सञ्चरेत् ।
श्रुतयश्च पुराणानि मन्मतस्यैव साक्षिणः ।। १३३ ।।
सुरोत्तमटीका
कुतो न यौक्तिक इत्यत आह ।। अदृष्टेति ।। १३३ ।।
सत्यप्रमोदटीका
श्रुतयः ‘कालश्च नित्यः प्रकृतिश्च नित्या’ इत्याद्याः । पुराणानि ‘अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः’ ‘नित्या वेदाः समस्ताश्च’ ‘न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः’ इत्यादीनि ।। १३३ ।।
युक्तिमल्लिका
किञ्च सर्वविनाशो न नाशस्यास्याविनाशनात् ।
नापि भावस्य सर्वस्य नाशो ब्रह्माविनाशनात् ।। १३४ ।।
सुरोत्तमटीका
यया कयाचन युक्त्या सर्वनाशं साधयतोऽपि स्वोक्तयुक्त्यैवान्ततस्साध्यमानसकलजगन्नाशस्यैवोर्वरितत्वेन सर्वनाशप्रतिज्ञैवेयं व्याहता स्यादित्याह ।। किञ्चेति ।। अस्य साध्यमानसर्वनाशाख्यस्य । तस्यापि नाशे पुनस्सर्वजगदुन्मज्जनप्रसङ्गादिति भावः । अस्तु तर्हि सर्वभाव-विनाश इत्यत आह ।। नापीति ।। प्राचीनपक्षेऽपीदं दूषणमनुसन्धेयम् ।। १३४ ।।
सत्यप्रमोदटीका
असङ्कोचेन सर्वनाश इति पक्षं दूषयति किञ्चेति । तदुक्तमनुव्याख्याने ‘अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते । निवृत्तिश्च निवर्तेत’ इति । न चेष्टापत्तिः अभावविपत्तेरेव प्रतियोग्यापत्तिरूपत्वेन विश्वस्य पुनरुन्मज्जनप्रसङ्गात् । ‘न हि सहस्राक्षोऽपि क्षयं क्षेप्तुं क्षमः’ इत्यस्य उन्मत्तवाक्यत्वप्रसङ्गाच्च ।। नापीति । ‘नाशोऽयं विमतोऽपि स्यान्नाशत्वा-त्कर्तृशेषवान्’ इत्यनुव्याख्यानात् । ब्रह्मेत्युपलक्षणं कालप्रकृत्यादीनां नित्यानां च ग्रहणम् ।। १३४ ।।
युक्तिमल्लिका
ब्रह्मभिन्नस्य भावस्य नाशे जीवोऽपि नंक्ष्यति ।
मिथ्याभूतोऽस्ति तद्भेदः परमार्थो न कुत्रचित् ।। १३५ ।।
सुरोत्तमटीका
तर्हि ब्रह्मव्यतिरिक्तभावस्य नाशोऽस्त्वित्यत आह ।। ब्रह्मभिन्नस्येति ।। जीवस्यापि ब्रह्मभिन्नत्वादिति भावः । ननु परमार्थतो मया जीवब्रह्मभेदानङ्गीकारात् कथं ब्रह्मभिन्नेत्युक्ते जीवस्य प्राप्तिरिति चेत् तर्हि पारमार्थिकभेदस्य त्वया क्वाप्यनङ्गीकाराद्ब्रह्मभिन्नपदेनैव जगतोऽप्यप्राप्ति-स्स्यात् । अपारमार्थिकभेदमादाय जगतः प्राप्तिश्चेत् तत एव जीवस्यापि प्राप्तिस्स्यादित्याह ।। मिथ्याभूत इति ।। तद्भेदः जीवेश्वरभेदः ।। १३५ ।।
सत्यप्रमोदटीका
ननु जीवो न ब्रह्मभिन्न इत्यत आह मिथ्येति । परमार्थतो भिन्नत्वं पक्षविशेषणं अतो न जीवस्य ज्ञाननिवर्त्यत्वसिद्धिरिति चेदेवं तर्हि जगतोऽपि तत्सिद्धिर्न स्यात् । तत्रापि पारमार्थिकभेदस्य त्वयाऽ-नभ्युपगमेन वियदादेः पक्षीकरणायोगादित्याह नेति । तथा च पारमार्थिकत्व-विशेषणस्य परित्यागावश्यम्भावात् जीवनाशप्रसङ्गो दुष्परिहर इति भावः ।। १३५ ।।
युक्तिमल्लिका
भावकार्यस्य सर्वस्य नाश आशास्यते यदि ।
जीवस्य जीवधर्माणां कालादेर्गगनस्य च ।
विनाशोऽनादिभावानां भवेदाकस्मिकस्तदा ।। १३६ ।।
सुरोत्तमटीका
पक्षान्तरमाशङ्क्य दूषयति ।। भावेति ।। जीवस्य जीवोपाधिभूतलिङ्गदेहस्य । तदुपहितजीवस्य वा । जीवधर्माणाम् अल्पज्ञत्वा-दीनाम् ।। १३६ ।।
सत्यप्रमोदटीका
‘एकमेवाद्वितीयम्’ इति श्रुतावेकशब्दस्य स्वकार्य-पतितमन्यदिति परेण व्याख्यानात्तदनुसारेण शङ्कते भावकार्यस्येति । अनादिभावानामिति । तेषां कार्यत्वाभावादिति भावः । जीवस्येति ‘जीव ईशो विशुद्धा चिदि’ति त्वया तस्यानादिषु परिगणनादिति भावः । जीव-धर्माणामिति अनुच्छित्तिधर्मा इति श्रुत्या यावद्द्रव्यभाविनां तेषां तत्स्वरूप-त्वेनानादित्वादिति भावः । कालादीत्यत्रादिपदेन वर्णप्रकृत्यादीनां ग्रहणम् । विनाश इति औतपालनार्थं तेषामपि नाशस्य त्वया वक्तव्यत्वात्, ज्ञानान्येन विनाशस्य च मिथ्यात्वासम्पादकत्वेन त्वदसम्मतेरिति भावः । अत उक्तम् आकस्मिक इति ।। १३६ ।।
युक्तिमल्लिका
ब्रह्मान्यानादिनाशे तु नश्येद्ब्रह्मापि तादृशम् ।
अतस्सर्वविनाशोऽयं विद्वदग्रे न शोभते ।। १३७ ।।
सुरोत्तमटीका
ननु ब्रह्मान्यजडभूतसकलभावनाश एव सर्वनाशोऽङ्गी-क्रियते अतः को दोष इति चेत् । न । अनादित्वेनाङ्गीकृतगगनादीनां नाश-प्रसङ्गात् । अस्तु को दोष इत्यत आह ।। ब्रह्मान्येति ।। तादृशं अनादि-भावभूतम् । अनश्वरब्रह्मवदनादिभावानां गगनादीनामविनाशि सर्वनाश-निष्ठत्वेन नाशासम्पादकजडत्वप्रवेशमात्रेण नाश्यत्वांशायोगादिति भावः । एवमप्यन्योन्याभावात्मकजीवब्रह्मभेदस्यानष्टत्वेन त्वदभीष्टासिद्धेः ब्रह्मधर्मतया प्रतीयमानजडभूतत्वदैक्यस्यैव नष्टत्वेनेष्टहानेश्चेत्यप्यूह्यम् । नित्यत्वश्रुतिबलान्न ब्रह्मणो नाश इति चेत् तत एव गगनादीनामपि नाश इति सन्तोष्टव्यम् । ‘‘आकाशवत्सर्वगतश्च नित्य’’ इति श्रुत्या ब्रह्मणस्सन्दिग्धयोस्सर्वगतत्व-नित्यत्वयोर्दृष्टान्ततयोक्तगगने निश्चितयोस्तयोस्सत्त्वस्य श्रुत्यभिप्रेतत्वात् । अत एव गगननित्यत्वादेर्नौपचारिकत्वम् । दृष्टान्तस्य भङ्गे दार्ष्टान्तिकस्य सुतरां भग्नत्वेन ब्रह्मणि ततोऽप्यतिशयितौपचारिकत्वप्राप्तेः । अयं इदानी-मभावात्कालान्तरे कल्प्यमानः । कदाचिदस्य सर्वस्य नाशो भविष्यतीति वा सकालः सर्वविनाशवानिति वा साधयता कालस्यावश्यमङ्गीकार्यत्वादिति भावः ।। १३७ ।।
सत्यप्रमोदटीका
अनादीति ।। अभावद्वैतपक्षे भावेत्यपि पूरणीयम् । ब्रह्मापीति । ब्रह्म ज्ञाननिवर्त्यं अनादिभावत्वात् अज्ञानादिवदिति साधन-सौलभ्यादिति भावः । ब्रह्मान्यत्वेन हेतुविशेषणेऽप्रयोजकतेत्यूह्यम् । अयं भाविनाशः । न शोभते इति ।। तस्यापि भाविकालवृत्तित्वेन कालनाशोक्ते-र्व्याहतत्वेन सर्वनाशासम्भवादिति भावः । साक्ष्यादिप्रमाणबलेन तेषां ब्रह्मवदेव सत्यत्वसिद्धेरिति भावः ।। १३७ ।।
युक्तिमल्लिका
अणुत्वेशवशत्वादेरनादेरविनाशनात् ।
जीवब्रह्मैकताशा च दुराशैवाभवत्तव ।। १३८ ।।
सुरोत्तमटीका
किञ्च ऐक्यरक्षणाय खल्वयं सर्वविनाशोऽङ्गीक्रियते । ब्रह्मातिरिक्तभावरूपजडविनाशाङ्गीकारे च ‘‘अविनाशी वा ओऽयमात्माऽनु-च्छित्ति धर्मे’’ति श्रुतावनुच्छित्तिरेव धर्मो यस्येति समासाङ्गीकारे पौनरुक्त्य-भयेन न विद्यते उच्छित्तिर्येषां ते धर्मा यस्येत्येव वक्तव्यतया नित्यत्वेन प्रमितजीवधर्माणां धर्म्यभिन्नतया चेतनरूपाणां च नाशप्रसक्तेरेवाभावेन तवैक्यस्यानवसर एवेति भावेनाह ।। अणुत्वेति ।। आदिपदेन ‘‘नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा । स्वाभाविकी ज्ञानबलक्रिया चे’’त्यादिश्रुत्या च नित्यतयोक्तभगवद्धर्माणां सङ्ग्रहः । चेतनातिरिक्तकालाकाशादि जड-जगन्मात्रनाशसाधने जीवब्रह्मणोर्बहिर्भूतत्वादिति भावः । अथ यदि चिन्मात्र-मङ्गीकृत्य श्रुतिमनादृत्य च भावरूपचिद्धर्माणां भावरूपजगतश्च नाशोऽङ्गी-क्रियते । तदाप्यैक्यस्यैव नष्टत्वेनैक्याभावस्य चावशिष्टत्वेन भवदनिष्टस्या-परिहारात् । अथ यदि धर्मधर्मिणोरभेदमङ्गीकृत्य तवैक्यं रिरक्षसि । तदा त्वदीयमृतसञ्जीवनेनैव पुनरुज्जीवितास्सार्वज्ञादयो धर्माः किञ्चिज्ज्ञत्वादयो जीवधर्माश्चोभयतो गृहीतमुद्गरास्तवैक्यमेव रामभटा राक्षसचमूमिव हन्युः । एवं च जगन्नाशाय प्रयतमानस्य तवैव नाशोऽभूदिति च दुराशैवाभवत्तवेत्यव-धारयतो भावः ।। १३८ ।।
सत्यप्रमोदटीका
ब्रह्मभिन्नभावरूपजडविनाशपक्षे ऐक्यासिद्धिं दोषमाह अणुत्वेति । आदिपदेन ब्रह्मधर्माः सर्वज्ञत्वादयः । तथा च स्वभावभूतविरुद्ध-धर्माणां चेतनत्वेन निवृत्त्यसिद्ध्या भागत्यागासम्भवेन नैक्यसिद्धिरिति भावः । ऐक्यस्यौपाधिकस्य निरुपाधिकब्रह्मस्वरूपत्वासम्भवेन भावरूपत्वेन च तन्नाशापत्तिश्च ।। १३८ ।।
युक्तिमल्लिका
अनादिभावभूतानामेतेषां परमात्मवत् ।
अज्ञानोपादानता ते न मिथ्यात्वं च (न) युक्तिमत् ।। १३९ ।।
सुरोत्तमटीका
ते मते । अज्ञानोपादानता मिथ्यात्वं चेति सम्बन्धः ।। १३९ ।।
सत्यप्रमोदटीका
अविद्यातत्कार्यान्यतरत्वस्य तव मिथ्यात्वलक्षणत्वेन तथा ज्ञानमज्ञानस्यैव निवर्तकं इति च नियमेन अनादीनां अज्ञानोपादान-कत्वासम्भवेन तेषां अनिवृत्तिरेवापद्यते इत्याह अनादीति । तदुक्तं वादा-वल्याम् ‘अनादिभावरूपस्य विज्ञानविलापनाऽसम्भवाच्च ब्रह्मवदि’ति ।।१३९।।
युक्तिमल्लिका
सादेरनादेस्सर्वस्य ब्रह्मणोऽन्यस्य वै क्षयः ।
उक्तरीत्या स नैवाभूद्यो मायावादिनां मतः ।। १४० ।।
सुरोत्तमटीका
उक्तरीत्या सङ्कर्षणमुखाग्निनेत्याद्युक्तरीत्या ।। १४० ।।
सत्यप्रमोदटीका
प्रकारान्तरेणैव प्रलयप्रतिपादकप्रागुक्तश्रुतिस्मृति-विरोधश्च वज्रलेप इत्याह उक्तेति ।। १४० ।।
युक्तिमल्लिका
साद्यदृष्टैस्सहान्यस्य कार्यमात्रस्य च क्षये ।
यः पुनः कारणाभावात्सृष्ट्यभावस्तु कथ्यते ।
चित्रं स तार्किकोक्तोऽपि प्रतितर्कहतो भवेत् ।। १४१ ।।
सुरोत्तमटीका
मायावाद्यभिमतं ब्रह्मव्यतिरिक्तसाद्यनादिजगन्नाशाख्य-सर्वनाशं दूषयित्वा सादिभिस्सर्वादृष्टैस्सह सादिजगतां सर्वेषां नाशं पुनः कार्यमात्रस्य सर्वथाऽनुत्पत्तिं वदतस्तार्किकस्य सर्वनाशं दूषयति ।। सादीति ।। सादिभिरुत्पत्तिसहितैः । अदृष्टैस्सर्वादृष्टैः । अन्यस्य महीमहीधरादेः । कारणाभावात् कारणीभूतादृष्टाभावात् । सः सृष्ट्यभावः ।। १४१ ।।
सत्यप्रमोदटीका
तार्किका एव प्रतिपन्नाः । परान्तकाले जायमाने महालये सर्वादृष्टनाशो न भवति । किन्तु तदानीन्तनज्ञानिमात्रस्य । इतरेषाम् अज्ञानिनाम् अदृष्टस्योर्वरितत्वात् पुनः सृष्ट्यन्तराणि भवन्ति । चरम-ब्रह्मलयाख्यान्तलये तु सर्वादृष्टविनाशः । अतो निमित्ताभावान्न पुनः सृष्ट्यन्तरमिति तदेतदप्रामाणिकं कुकल्पनामात्रम् । महालयातिरिक्तस्य तदभिमतचरमलयस्यैवाभावात् सृष्टिप्रलयप्रवाहस्य अनादिनित्यत्वेन प्रमितत्वा-दिति दूषयति नवभिः सादीत्यादिभिः । सादिभिः सर्वादृष्टैः सह भूभूधरादेः । क्षये अन्तलये नाशे सति । सः अन्तलयः । प्रतितर्क अग्रे, विमतः प्रलयः अदृष्टशेषवान् इति पद्ये वक्ष्यते । प्रत्यनुमानस्य श्रुतिसचिवत्वेनैव तेन तत्कल्पनाया बाध इति भावः ।। १४१ ।।
युक्तिमल्लिका
ब्रह्मणः शतवर्षाख्यपरान्तो यो महालयः ।
सर्वकार्यकरण्डस्य ब्रह्माण्डस्यास्य सप्तभिः ।। १४२ ।।
युक्तस्यावरणैरस्मिन् जायमाने पुनः पुनः ।
अनादितोऽनुवृत्ते च स्पष्टं सृष्ट्यन्तरान्विते ।। १४३ ।।
कार्यमात्रलये तावत्कार्यादृष्टस्य सर्वथा ।
लयो नाजायत किल कथं सोऽन्ते भविष्यति ।। १४४ ।।
सुरोत्तमटीका
अस्मिन् महाप्रलये पुनःपुनर्जायमाने सतीति सम्बन्धः । अदृष्टस्य सर्वथा सर्वात्मना लयः । सर्वादृष्टलय इति यावत् । सः सर्वा-दृष्टलयः। अन्ते त्वदभिमतचरमब्रह्मलये ।। १४२–१४४ ।।
सत्यप्रमोदटीका
यः महान् लयः, अस्मिन् कार्यादृष्टस्य सर्वथा लयो नाजायत किल, कथं सः अन्ते भविष्यति इति श्लोकत्रयस्यैकान्वयः । अनुवृत्ते सृष्ट्यन्तरान्विते इत्यनेन परम्पराया अविच्छेदेन नित्यत्वं निदर्शयति।। १४२–१४४ ।।
युक्तिमल्लिका
न ह्येतेभ्यो लयेभ्यश्च स्यादन्योऽभ्यधिको लयः ।
एभ्यो ब्रह्मादिदेवेभ्यो ज्ञानी कोऽभ्यधिको वद ।। १४५ ।।
सुरोत्तमटीका
एभ्यः अनादिकालमारभ्येदानींतनब्रह्मपर्यन्तमनुभूततत्त-द्देवेभ्यः ।। १४५ ।।
सत्यप्रमोदटीका
एभ्यः प्रमितेभ्यः । अभ्यधिकः क इति । अन्यस्यैवाप्रामाणिकत्वात् तस्याधिकत्वं तु दूरे इति भावः ।। १४५ ।।
युक्तिमल्लिका
कालस्यान्त्यस्य शृङ्गं न नापि तद्गलयस्य च ।
अदृष्टकल्पनादोषो ह्यदृष्टं कल्पयत्यहो ।। १४६ ।।
सुरोत्तमटीका
अदृष्टं जगदन्तरजनकादृष्टम् ।। १४६ ।।
सत्यप्रमोदटीका
शृङ्गं ज्ञापक आगमः । दोषः अदृष्टं कल्पयतीति । दोषेण त्वत्कल्पनायाः पराहतत्वात् प्रमाणबलेन सृष्ट्यन्तरकारणमदृष्टं निराबाधं सिध्यतीति भावः ।। १४६ ।।
युक्तिमल्लिका
विमतः प्रलयोऽदृष्टशेषवान्प्रलयत्वतः ।
यथाऽयं प्रलयश्चेति युक्तिं कोऽत्येति तत्सताम् ।। १४७ ।।
सुरोत्तमटीका
तत्कल्पनाप्रकारमेवानुमानरचनयाऽऽह ।। विमत इति ।। तत्तस्मात् ।। १४७ ।।
सत्यप्रमोदटीका
युक्तिं ‘धाता यथापूर्वमकल्पयदि’त्यादि प्रमाणानु-गृहीताम् ।। १४७ ।।
युक्तिमल्लिका
किञ्चान्त्या साऽपि सृष्टिस्ते सर्वसृष्ट्युपमा भवेत् ।
ज्ञानिमात्रावृता सा न पशुपक्ष्यादिसंवृता ।
तस्यां च ज्ञानिमात्रस्यादृष्टनाशस्तु पूर्ववत् ।। १४८ ।।
सुरोत्तमटीका
युक्त्यन्तरेणापि तार्किकाभिमतं सर्वनाशं दूषयति ।। किञ्चेति ।। पशुपक्ष्यादिसंवृता सा त्वदभिमतसर्वनाशात्पूर्वं विद्यमाना सृष्टिः ज्ञानिमात्रावृता नेति सम्बन्धः । तस्यां सृष्टौ । ज्ञानिमात्रस्य सकला-परोक्षज्ञानिसमुदायस्येत्यर्थः ।। १४८ ।।
सत्यप्रमोदटीका
किञ्च त्वदभिमतायाम् अन्तिमसृष्टावपि न ज्ञानि-मात्राः किन्तु अज्ञानिनः पशुपक्ष्यादयः प्राक्तनसृष्टिष्विव सन्त्येव । अज्ञानिनां च नादृष्टनाशः तव संमतः । अन्तलये सर्वादृष्टनाश इति रिक्थं वच इत्याह द्वाभ्यां किञ्चेत्यादिना ।। इदं चोपलक्षणम् । विशेषानभ्युपगन्तुस्तस्य मते प्रलयकाले ईश्वरसञ्जिहीर्षाधीनत्वस्य दुर्वचत्वात्प्रलयोपाधिकत्वस्याङ्गीकारात् अन्योन्याश्रयेण प्रलयस्यैवासिद्धिरिति दोषोऽवगन्तव्यः । तदुक्तमनुव्याख्याने ‘न हि कालविशेषोऽस्ति तत्पक्षे’ इति ।। १४८,१४९ ।।
युक्तिमल्लिका
सर्वादृष्टविनाशस्तु हेत्वभावान्न यौक्तिकः ।
तस्माद्वैदिकतर्काग्रे शुष्कतर्को न शोभते ।। १४९ ।।
सुरोत्तमटीका
सर्वादृष्टविनाशः सकलपशुपक्ष्यादिजीवनिष्ठादृष्ट-विनाशः । हेत्वभावात् अपरोक्षज्ञानाख्यहेत्वभावात् ।। १४९ ।।
युक्तिमल्लिका
सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत् ।
इति श्रुतिरनाद्यन्तकालीनाऽन्वग्रहीद्धि नः ।। १५० ।।
सुरोत्तमटीका
अन्वग्रहीत् अनुग्रहमकरोत् ।। १५० ।।
सत्यप्रमोदटीका
अनादीति प्रामाण्योक्तिः । नः प्रक्रियामिति शेषः । श्रुतिः ‘व्यदधाच्छाश्वतीभ्यः समाभ्यः’ । ‘शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते’ ‘यथेदानीं तथा चाग्रे पश्चादप्येतदीदृशम्’ इत्यादीनि प्रमाणान्यप्यत्रानु-सन्धेयानि ।। १५० ।।