स्वभावादेव सर्वं च जगत्स्यात्सचराचरम्

बौद्धाद्यभिमतस्वभावादिवादनिरासः

युक्तिमल्लिका

स्वभावादेव सर्वं च जगत्स्यात्सचराचरम् ।

किमीश्वरेणेतिवदन्प्रष्टव्यः प्रतिवादिना ।। २४५ ।।

सुरोत्तमटीका

 ननु स्वभावादेव सर्वं जगद्भवेत् किमीश्वरेणेत्येतद्बौद्धमत मनूद्य दूषयति।।स्वभावादिति ।। प्रतिवादिना प्रष्टव्यः।।२४५ ।।

सत्यप्रमोदटीका

‘स्वभावजीवकर्माणि द्रव्यं कालः श्रुति क्रियाः ।।

 यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’

इत्यनुव्याख्योदाहृतश्रुतिमनुरुन्धानः आदौ स्वभाववादमपाकरोति स्वभावादेवेत्यादिना ।। २४५ ।।

युक्तिमल्लिका

स्वभावोऽपि जडश्चेत्स्यादन्यप्रेर्यो घटादिवत् ।

जानातीच्छति पश्चाच्च गच्छतीति न किं श्रुतम् ।। २४६ ।।

सुरोत्तमटीका

 कथं स्वभावोऽपि जडः अजडोवेति । आद्यं हिनस्ति ।। जडश्चेदिति ।। ननु जडस्यापि स्वत एव प्रवृत्तिः कुतो नेत्याशङ्कां स्वतः प्रवृत्तिरहितघटदृष्टान्तेन परिहृतामपि किं तत्र कारणमिति सुहृद्भावेन पृच्छन्तं प्रत्याह ।। जानातीति ।। प्रवृत्तिहेतुभूतज्ञानेच्छाद्यभावादिति भावः ।। २४६ ।।

सत्यप्रमोदटीका

 स्वभावो जडः अजडो वा । पक्षद्वयेऽपि स्वतन्त्रोऽ-स्वतन्त्रो वा इति विकल्प्य जडः स्वतन्त्र इति पक्षं ‘अचेतनत्वं स्वातन्त्र्य-मिति चात्मप्रमाहतं’ इत्यनुव्याख्यानोक्तदिशा व्याहतत्वादुपेक्ष्य अस्वतन्त्र इति पक्षे दोषमाह स्वभावोऽपीति । प्रवृत्तिं प्रति ज्ञानेच्छाप्रयत्नादिकं कारणम् । तदभावात् न जडस्य स्वतःप्रवृत्तिः ।। २४६ ।।

युक्तिमल्लिका

अजडोऽप्यस्वतन्त्रश्चेत्प्रागुक्तं दुषणं स्मर ।

स्वातन्त्र्ये तु किमीशेनापराद्धं लघुमूर्तिना ।। २४७ ।।

सुरोत्तमटीका

 द्वितीयं निराह ।। अजडोऽपीति ।। सस्वभावः अजडोप्यस्वतन्त्रश्चेत्प्रागुक्तं दूषणं अस्वतन्त्रस्य परप्रेर्यत्वलक्षणम् । स्वभावस्य स्वातन्त्र्ये तत्तद्वस्तुस्वभावानां बहुत्वेन धर्मिणां जडत्वमङ्गीकृत्य तत्स्वभावानां चेतनत्वाङ्गीकारे अर्ध(च)जरतीयापत्त्या अनेकेषां स्वातन्त्र्ये परस्परविरोधेन जगद्विलयापत्त्या च गौरवात् लघुमूर्तिना उक्तत्रिविधगौरवाख्यदोषरहितमूर्तिना ईशेन किमपराद्धम् । अथवा यद्यनेकजगन्नियामकः एक एव न तदन्तर्भूतः स्वतन्त्रश्च । तर्हि न नामि्न विप्रतिपत्तिरिति स एवेश्वरो भविष्यतीत्याह ।। लघुमूर्तिनेति ।। एकत्वाल्लघुमूर्तिना स्वतन्त्रचेतनत्वाङ्गीकारादीशेन ईशत्वयोग्येन च त्वदुक्तस्वभावेन किमपराद्धम् । अस्माकं न कोऽप्यपकार इति भावः ।। २४७ ।।

सत्यप्रमोदटीका

 अजडः अस्वतन्त्र इति पक्षे प्रागुक्तं परप्रेर्यत्वलक्षणं दोषमतिदिशति अजडोऽपीति ।। एतेन चिच्चैत्ये केनचिन्नियते अपर्याप्त-शक्तिमत्वात् अस्वतन्त्रत्वात् रथादिवत् इति तत्वोद्योतोक्तं अनुमानं ईश्वर-साधकं विवृतं बोध्यम् । अजडः स्वतन्त्र इति पक्षे किं तादृशः स्वभावो जगदन्तर्भूतः उत भिन्नः । आद्ये किं एकः अथ अनेकः । नाद्यः । अनेकेषां स्वभावस्य एकत्वायोगात् । न द्वितीयः । स्वातन्त्र्ये अनेकत्वे च परस्पर-विरोधेन जगद्विलयापत्तेः । जगदनन्तर्भूतः एकः स्वतन्त्र इति पक्षस्तु नामान्तरेण ईश्वराङ्गीकारपर्यवसायीति नेश्वरापलापो युक्त इत्याह किमीश्व-रेणापराद्धमिति । लघुमूर्तिनेति । स्वभावपक्षस्तु, वस्तुभिन्नस्य स्वभावस्य, तदेकत्वस्य तत्स्वातन्त्र्यस्य चेति अप्रामाणिकबहुकल्पनाऽऽपत्तेर्गुरुभूत-मित्याशयः ।। २४७ ।।

युक्तिमल्लिका

स्वस्वभावात्स्वयं चेत्स्यात्तर्ह्यात्माश्रयदूषणम् ।

स्वकारणस्वभावाच्चेत्स्वभावस्ते गुरुः पतेत् ।। २४८ ।।

सुरोत्तमटीका

 अधुना स्वस्य स्वस्य स्वभावात्स्वयं स्वयमुत्पद्यते वा स्वकारणस्वकारणस्वभावाद्वेति विकल्प्याद्यं दूषयति ।। स्वस्वभावादिति ।। स्वोत्पत्तेः पूर्वं स्वस्वभावस्याप्यनुत्पन्नत्वेन पूर्वभावित्वाभावात् कथं कारणत्व-मिति भावः । द्वितीयं दूषयति ।। स्वकारणेति ।। गुरुः गौरवदोषग्रस्तः ते त्वदुक्तस्वभावः पतेद्व्यर्थो भवेदित्यर्थः । गौरवस्य पतनहेतुत्वात्पतेदित्युक्तम् । तदा कारणादेव कार्योत्पत्तिसम्भवात् पुनः कारणस्वभावस्यापि हेतुत्वाङ्गीकारे कल्पनागौरवमिति भावः ।। २४८ ।।

सत्यप्रमोदटीका

 इदानीं ‘स हि कर्ता’ ‘द्यावाभूमी जनयन्देव एकः’ इत्याद्यागमानुगृहीतेन कार्यत्वानुमानेनापि ईश्वरसिद्धिमाह स्वस्वभावादित्या-दिभिः । गिर्यङ्कुरादिकं कार्यं तावदनुभवसिद्धम् । तत्र स्वभाववादी प्रष्टव्यः । तत् किं स्वस्वभावादिनोत्पन्न स्वकारणस्वभावाद्वा । नाद्यः आत्माश्रयादित्याह स्वस्वभावादिति । न द्वितीयः । कारणादेव कार्योत्पत्तिसम्भवेन पुनः कारणस्वभावस्यापि कारणत्वाङ्गीकारो गौरवपराहत इत्याह स्वकारणेति ।। २४८ ।।

युक्तिमल्लिका

तदा कारणचक्रस्थः कर्ताऽप्यावश्यकोऽस्य हि ।

महीमहीधरादेश्च यः कर्ता स महेश्वरः ।। २४९ ।।

सुरोत्तमटीका

 स्वकारणात्स्वयम्भवतीत्युक्तेऽपि जगदीशस्य कारणत्वे किमायातमित्यत आह ।। तदेति ।। कारणचक्रस्थः कारणकलापप्रविष्टः । अस्य जगतः । ननु अस्मदादिरेव जगत्कर्तेत्यत आह ।। महीति ।। मह्याद्युपादानगोचरापरोक्षज्ञानादिकमस्मदादेर्नास्तीति भावः । न च मह्यादिकं नित्यमेवेति वाच्यम् । तन्नित्यत्वे प्रमाणाभावात् । अङ्कुरादीनामनित्यत्वानु-भवाच्च । नहि गिरिदरीवर्त्यंकुरादीनामस्मदादिः कर्ता । किं च कृषीवलादेः बीजावापमात्रकर्तृत्वेऽपि बीजादङ्कुरजननस्य ईश्वरकर्तृकस्यावश्यम्भावाच्च । अस्मदादीनामस्वातन्त्र्येणास्मत्प्रेरणकर्तृत्वेनापीश्वरस्याङ्गीकार्यत्वाच्च ।। २४९ ।।

सत्यप्रमोदटीका

 कारणमपि नैकैकमात्रं कार्यं प्रति हेतुः । केवलं दण्डमात्राद्धटोत्पत्तिप्रसङ्गात् । किन्तु कारणकलाप एव । तत्र च कर्तुरनुप्रवेशो नियतः । या क्रिया सा सकर्तृका इति व्याप्तेः । घटादिषु सर्वत्र तथा दृष्टेः । एवं च गिर्यङ्कुरादिकार्यस्यापि कर्ता तावदुपेय इत्याह तदेति । न चास्मदादिः कर्ता सम्भवति क्षित्यङ्कुरादिजगदुपादानादिगोचरापरोक्षानादिकस्याभावात् । तेन च विना कर्तृत्वानुपपत्तेः । अतः अकामेनापि सर्वज्ञः कर्ता स्वीकार्यः । स एवास्मदभिमतो महेश्वर इत्याह महीमहीधरादेरिति महेश्वर इति च ।।२४९।।

युक्तिमल्लिका

न चेत्कुलालकार्वाद्या नापेक्ष्येरन्स्थले स्थले ।

अन्यथा दृष्टहानिस्स्याददृष्टस्य च कल्पना ।। २५० ।।

सुरोत्तमटीका

 ननु कारणचक्रे कर्तैव नापेक्षितः अपेक्षितश्चेत् अदृष्ट-द्वारककर्त्रैवालं किमन्येनेत्यत आह ।। नचेदिति ।। स्थलेस्थले ग्रामे ग्रामे । कर्तारं विनावा अदृष्टद्वारककर्त्रावा कार्योत्पत्तौ ग्रामे ग्रामे प्रेक्षावतां घट-गृहतैलादिकार्याय कुलालकार्वाद्यदृष्टाद्वारककर्तृसंग्रहो व्यर्थः स्यात् । अल्प-कार्येष्वपि तदपेक्षायां महीमहीधरादिमहाकार्यकरणाय सुतरां तदपेक्षेति भावः । तदनङ्गीकारे बाधकमाह ।। अन्यथेति ।। कुलालादीनां तत्तत्कार्यकर्तृत्वस्य दृष्टत्वात् दृष्टहानिस्स्यात् । कर्तृनिरपेक्षकारणचक्रात्कार्यस्य क्वाप्यदृष्टत्वेन अदृष्टकल्पनाप्रसङ्गः स्यादित्यर्थः ।। २५० ।।

सत्यप्रमोदटीका

 ननु जीवानामदृष्टेनैव घटाद्युत्पत्तिरिति संमतिः । तथा च जीवानामेव क्षित्यङ्कुरादिकं प्रति अदृष्टद्वारा कर्तृत्वसम्भवे किमीश्वरेणेति शङ्कां बाधकोक्त्या निरस्यति न चेदिति । ज्ञानेच्छापूर्वककर्तॄणां कुलालादीनां तथा सत्यपलापः स्यात् । न च तथाऽस्त्विति वाच्यम् । दृष्टहान्यादि-प्रसङ्गादित्याह अन्यथेति ।। २५० ।।

युक्तिमल्लिका

यत्नेन साध्यते मोक्षो यदि तर्हि स्वभाववाक् ।

अभावमाप नो चेत्ते व्रतचर्या बहिर्ययौ ।। २५१ ।।

सुरोत्तमटीका

 प्रकारान्तरेण दूषयति ।। यत्नेति ।। यदि मोक्षः यत्नेन साध्यते तर्हि स्वभाववाक् स्वभावादेव सर्वं भवतीति वाक् अभावं नाशमापेति सम्बन्धः । नोचेत् यत्नसाध्यो न भवति किं तु स्वभावादेव भवतीत्यङ्गीकारे ते तव बौद्धजैनादेः व्रतचर्या व्रताचरणं बहिर्ययौ ग्रामाद्बहिर्गतेत्यर्थः ।। २५१ ।।

सत्यप्रमोदटीका

 ‘चिदचित्तनु सर्वमसौ तु हरिर्यमयेदि’ति भगवत्पादी-योक्तिं विवृण्वानः निरीश्वरवादानपाकरोति यत्नेनेत्यादिना । स्वभावो वा कर्म वा, विना यत्नं न प्रवृत्तेरीष्टे जडस्य यत्नवता चेतनेन प्रेर्यत्वनियमात् । तदुक्तं ‘विना यत्नं न हठो नापि कर्मे’ति । स्वभावकर्मादिकं जडं, चेतनप्रेर्यं, जडत्वात् कुठारवदित्यनुमानमिहाभिप्रेतम् ।। २५१,२५२ ।।

युक्तिमल्लिका

जडस्वभावकर्मादि प्रेर्यं स्यादजडेन हि ।

किं कुठारस्स्वयं गच्छेद्धटो वा जलमाहरेत् ।। २५२ ।।

सुरोत्तमटीका

 यदुक्तं स्वभावस्य जडत्वे परप्रेर्यत्वं तज्जैनैः कर्तृतयोक्त-कर्मादिष्वप्यतिदिशन् उपपादयति ।। जडेति ।। जडं च तत्स्वभावकर्मादिकं चेति विग्रहः । स्वयं हस्ताद्यालम्बनं विना गच्छेत् वनं प्रतीति शेषः । घटो वेत्यत्रापि स्वयमित्यावर्तनीयम् ।। २५२ ।।

युक्तिमल्लिका

स्वभावस्य तिरस्कारः पुरस्कारश्च पावके ।

दृश्यते मणिमन्त्राद्यैर्न तत्तस्य स्वतन्त्रता ।। २५३ ।।

सुरोत्तमटीका

 मणिमन्त्रादिना वह्नेरुष्णत्वस्वभावस्यापि तिरस्कार-दर्शनात्पुनरुत्तेजकेन पुरस्कारदर्शनाच्च न स्वभावस्य स्वातन्त्र्यमित्याह ।। स्वभावस्येति ।। तिरस्कारः प्रतिबन्धः । पुरस्कारश्शक्त्याविर्भावः । तत्तस्मात् तस्य स्वभावस्य ।। २५३ ।।

सत्यप्रमोदटीका

 स्वभावस्य पारतन्त्र्यमनुभावयति स्वभावस्येति ।। २५३ ।।

युक्तिमल्लिका

स्वानिष्टस्य हि कर्मादेः प्रेरको न स्वयं जनः ।

अतस्तत्प्रेरणायान्यो मान्यः कोऽपि मनीषिणा ।। २५४ ।।

सुरोत्तमटीका

 स्वभावकर्मादेश्चेतनप्रेर्यत्वमुक्तम् । स चेतनो नास्मदादि- रनुभवबाधितत्वादित्याह ।। स्वानिष्टस्येति ।। कर्मपदेन स्वजिह्वादंशनादि-कर्मस्वोदरशूलादेर्हेतुभूतं पापं चोच्यते । आदिपदेन उन्मादादिकं स्वभावो गृह्यते । अतः स्वस्य स्वानिष्टपे्रेरकत्वायोगात् । अन्यः अस्मदादेः । कोऽपीत्यनेन अस्मदाद्यदृष्टशक्तिमत्त्वं द्योतयति ।। २५४ ।।

सत्यप्रमोदटीका

 चेतनस्यापि तदाह स्वानिष्टस्येति । अतः परमचेतन उपेय इत्याह मान्य इति ।। २५४ ।।

युक्तिमल्लिका

न हि पुण्यस्य लघुता पापस्य गुरुताऽपि वा ।

यदुन्नयेल्लाघवाद्वा गौरवाद्वाऽप्यधो नयेत् ।

अतः शिलादिदृष्टान्तोऽप्युक्तेर्भाराय केवलम् ।। २५५ ।।

सुरोत्तमटीका

 ननु उत्कटवायुना पुरुषस्याप्युद्गमनदर्शनात् कण्ठलग्न-शिलाभारेण जले पुरुषस्याधोगमनदर्शनाच्च जडमेव पुण्यपापरूपं कर्म ऊर्ध्वा-धोगमनहेतुर्भवेत् किमीश्वरेणेति मन्दाशङ्कां परिहरति ।। नहीति ।। लघु-तेत्युपलक्षणम् । वेगोपि ग्राह्यः । ननु पुण्यपापयोर्लघुत्वगुरुत्वचिन्ता किमर्थेत्यत उक्तं यदिति ।। यत् पुण्यं उन्नयेत् पुरुषं ऊर्ध्वं स्वर्गं नयेत् । यच्च पापं पुरुषमधोनरकं नयेत् । तयोः पुण्यपापयोः वायुवत् शिलावच्च लघुत्व-गुरुत्वे नैव स्तो हीति भावः । अतः पुण्यपापयोर्लघुत्वगुरुत्वाभावात् । आदिपदेन वायुर्ग्राह्यः । उक्तेर्भाराय वचनगौरवाय शास्त्रबहुत्वायेत्यर्थः ।। २५५ ।।

सत्यप्रमोदटीका

 पुण्यं ऊर्ध्वगतिहेतुः लघुत्वात् उत्कटवायुवत्; पापं अधोगतिहेतुः गुरुत्वात् शिलावत् इत्यनुमानविरोधमाशङ्क्य दृष्टान्तस्य साध्यवैकल्येन निराह  न हीति ।। २५५ ।।

युक्तिमल्लिका

सर्वस्य कर्ता तत्रापि किं न कर्ता महेश्वरः ।। २५६ ।।

सुरोत्तमटीका

इदानीं दृष्टान्तेऽपि केवलजडकर्तृताया मन्मतेऽभावा-दसंप्रतिपन्नो दृष्टान्त इत्याह ।। सर्वस्येति ।।तत्रापि शिलादावपि।।२५६ ।।

सत्यप्रमोदटीका

 कुत एवमित्यत आह सर्वस्येति । ‘पयोऽम्बुवच्चे-त्तत्रापि’ इत्युक्तदिशा जडवायुशिलयोः ऊर्ध्वाधोगतिहेतुत्वमपि ईशनियत-मित्याह महेश्वर इति ।। २५६ ।।

युक्तिमल्लिका

यस्स्तम्भसम्भवो डिम्भं हिरण्यकशिपोरपात् ।

सोऽन्तर्यामी मम स्वामी कस्य न स्याद्विचारय ।। २५७ ।।

सुरोत्तमटीका

 तस्य शिलान्तर्गतत्वमनुभावयति ।। य इति ।। स्तम्भ-सम्भवः शिलास्तम्भमध्यादाविर्भूतो नरसिंहः हिरण्यकशिपोर्डिभमर्भकं प्रह्लादम् । पोतः पाकोऽर्भको डिंभ इत्यभिधानात् । अपात् अरक्षत् । अनेन सर्पाग्निजलशस्त्रादिस्वभावतिरस्कारकर्तृत्वं च भगवतो द्योतयति । सोऽयं मम स्वामी कस्यान्तर्यामी न स्यात् । विचारय युक्तिं पश्येति योजना । अति-दृढतरशिलान्तरपि यस्तिष्ठति । सोऽन्यत्र वाय्वादौ मृदुतरवस्तुनि कुत्र कुत्र न स्यात् । सर्वत्रापि स्यादेवेति भावः । मम स्वामीत्यनेन चेतनानामपि प्रवृत्ति-स्तदधीना । अन्यथा चेतनान्तरे अदृष्टा ईदृशीग्रन्थकरणशक्तिः कथमभूदिति सूचयति । नचैतत्कुत इति वाच्यम् । अहोबलक्षेत्रे निर्गच्छता नृसिंहेन विदारितशिलास्तम्भे बृहत्तरच्छिद्रस्याद्यापि सर्वैर्दृश्यमानत्वात् ।। २५७ ।।

सत्यप्रमोदटीका

 अनुभवसिद्धं चैतदित्याह स्तम्भेति ।। डिम्भं अर्भकं प्रह्लादम् ।। २५७ ।।

युक्तिमल्लिका

शिला यदि स्वसत्त्वेन जले नयति पूरुषम् ।

स्थले कस्मान्न नयति समे या नीयते नरैः ।। २५८ ।।

सुरोत्तमटीका

 किञ्च शिलाया यदि जले पुरुषप्रवर्तकत्वं तर्हि स्थलेऽपि पुरुषं प्रवर्तयेत् । नचैतद्दृष्टम् ।। प्रत्युत स्वस्यैव पुरुषेण नीयमानत्वं दृश्यते । अतः पतनहेतुभारादेव अधोगमनमित्याह ।। शिलेति ।। स्वसत्त्वेन स्वसामर्थ्येन समे स्थले कस्मान्ननयति । याशिला नरैर्नीयते । समे स्थल इत्यावर्तनीयम् । सा शिलेति सम्बन्धः । अतः शिलायाः पुरुषप्रवर्तकत्व-मनानुभविकमिति भावः

।। २५८ ।।

सत्यप्रमोदटीका

 गुरुत्वहेतोः समस्थले विद्यमानशिलायां व्यभिचारोऽ-पीत्याह शिलेति ।। २५८ ।।

युक्तिमल्लिका

अश्मा यस्मान्नतेऽप्स्वेव तिर्यक्पर्यक्च गच्छति ।

अतस्स्वतः कृतिस्तस्य न जले नापि च स्थले ।। २५९ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। अश्मेति ।। ते तव दृष्टान्तभूतः अश्मा शिला अप्सु जलेषु तिर्यक् तिरश्चीनतया पर्यक् परितः । स्वत इत्यावर्तनीयम् । यस्मान्न गच्छति । अतस्तस्याः शिलायाः स्वतः कृतिः प्रवृत्तिः । उपलक्षणमेतत् । प्रवर्तकत्वं चेति द्रष्टव्यम् ।। २५९ ।।

सत्यप्रमोदटीका

 अस्तु वा क्वचिदधोगतिहेतुत्वम् । न तावता शिलायाः स्वतः प्रवृत्तिसिद्धिः कुत्रापीत्याह अश्मेति ।। २५९ ।।

युक्तिमल्लिका

तदीशगौरवात्स्वीयगौरवाच्च नयेदधः ।

यतस्स गौरवं धर्मं चक्रे पतनकारणम् ।। २६० ।।

सुरोत्तमटीका

 कस्तर्हि स्वशक्त्याऽधोगमनहेतुरित्यत आह ।। तदिति ।। तत्तस्मादन्यस्य प्रवर्तकत्वायोगात् ईशगौरवादीशमाहात्म्यात् ईशानुगृहीत-स्वीयगौरवाद्भाराच्चेत्यर्थः । अधः पुरुषं नयेत् । ननु गुरुत्वस्याप्यधोगमनहेतुत्वं कथमित्यत आह ।। यत इति ।। स ईश्वरः । गौरवं गुरुत्वम् । गुरुत्वं तु गुणो हेतुराद्ये पतनकर्मणीति हि तल्लक्षणम् । अत ईशानुगृहीतस्य तस्याप्यधोग-मनहेतुत्वं युज्यत इति भावः ।। २६० ।।

सत्यप्रमोदटीका

 गुरुत्वादेः पतनादिहेतुत्वस्वभावोऽपि सर्व ईश्वर-नियमादेवेत्याह तदीशेति ।। २६० ।।

युक्तिमल्लिका

यदा स धर्मसामर्थ्यं रुणद्धि न तदा पतेत् ।

न मग्नो मन्दरः कस्मान्मही वा नाप्सु मज्जति ।। २६१ ।।

सुरोत्तमटीका

 नन्वेवं तर्हि गुरुत्वादेव पातोऽस्तु किमीश्वरानुग्रहेणेत्यत आह ।। यदेति ।। धर्मसामर्थ्यं गौरवाख्यधर्मसामर्थ्यम् । तदा न पतेत् शिलेत्यनुवर्तते । एतदनुभावयति ।। नेति ।। मन्दरः महाभारवान् शतयोजन-परिमितः कनकाचलः अप्सु क्षीरसमुद्रजलेषु । मही पञ्चाशत्कोटिविस्तीर्णा भूः अप्सु स्वाधोभागस्थितगर्भोदकेषु ।। २६१ ।।

सत्यप्रमोदटीका

 स्वभावस्य ईश्वरनियतत्वमित्येतत्कुत इति चेत् । ईश्वरप्रेरणाभावे स्वभावस्य स्वकार्यकारित्वादर्शनादेव । तत्रागमं प्रमाणयति मन्दर इति । प्रत्यक्षं च तत्राह मही वेति ।। २६१ ।।

युक्तिमल्लिका

यद्दत्तवरतो वार्पु नलहस्तार्पिताश्शिलाः ।

उन्ममज्जुस्स दौर्जन्यं कस्य कस्य न भर्जयेत् ।। २६२ ।।

सुरोत्तमटीका

 स्थलांतरेऽप्येतदनुभावयति ।। यद्दत्तेति ।। येनेश्वरेण दत्तवरतः नलहस्तार्पिताः सेतुं कुर्वतो नलाख्यवानरस्य हस्तार्पिताः उन्ममज्जुः ऊर्ध्वं ममज्जुः । जलोपर्येव स्थिताः नाधोगता इत्यर्थः । नाधोगच्छंत्विति यस्य वचनमात्रात् पर्वतरूपस्थूलशिला अपि नाधोगता इति भावः । स ईश्वरः जडस्यैव स्वतः प्रवर्तकत्वं वदतः कस्य कस्य दौर्जन्यं न भर्जयेत् । इमामीश्वरशक्तिं दृष्ट्वा सर्वस्यापि निरुत्तरतेति भावः ।। २६२ ।।

सत्यप्रमोदटीका

 गुरुत्वहेतोः जलस्थशिलायामेव व्यभिचार इत्याह नलहस्तेति ।। २६२ ।।

युक्तिमल्लिका

विषमारोहतीशस्य सत्त्वादेव न तु स्वतः ।

किं विषादो विषादासीच्छिशोस्तस्य शिवस्य वा ।। २६३ ।।

सुरोत्तमटीका

 ननु सर्पादिदंशजनितविषं स्वत एवोर्ध्वं गच्छतीत्यत आह ।। विषमिति ।। ईशस्य सत्त्वादेव उक्तयुक्त्या विषस्याप्यन्तर्गतेशस्य सत्त्वात्सामर्थ्यात् आरोहति । ऊर्ध्वं गच्छति । न स्वसामर्थ्यात् । कुत एतदित्यत आह ।। किमिति ।। शिशोः प्रह्लादस्य तस्य शिशुरूपस्य कृष्णस्य शिवस्य वा विषात् सर्पदंशनविषात् पूतनादत्तविषात् कालकूटविषाद्वा विषादः ऊर्ध्वारोहजनितदुःखमासीत्किं नासीदेवेत्यर्थः । अत ईशानुग्रहाभावे विषस्याप्यूर्ध्वगमनशक्तिर्नास्तीति सर्वानुभवसिद्धमिति भावः ।। २६३ ।।

सत्यप्रमोदटीका

 प्रह्लादे शिवे च अन्वयव्यभिचारात् विषस्यापि न स्वत ऊर्ध्वगमनशक्तिरित्याह विषमिति ।। २६३ ।।

युक्तिमल्लिका

अतो दृष्टं समस्तं च दृष्टाच्चेश्वरतो भवेत् ।

अदृष्टमीश्वारदेवेत्यासीत्सर्वधुरन्धरः ।। २६४ ।।

सुरोत्तमटीका

 नन्वेवमीश्वरादेव सर्वकार्यसम्भवे दृष्टकारणकलापा-पलापस्स्यादित्यत आह ।। अत इति ।। अतः यथाप्रमाणं सर्वस्याप्यङ्गी-कर्तव्यत्वात् दृष्टं मृत्कुलालादिकारणवत्तया द्दृष्टं घटादि दृष्टात्कुलालादि-कारणादीश्वरतश्चेति सम्बन्धः । अदृष्टं दृष्टकर्त्रादिकारणशून्यमङ्कुरादीत्यर्थः । सर्वधुरंधरः सकलकार्यधुरन्धरः ।। २६४ ।।

सत्यप्रमोदटीका

 अदृष्टं अङ्कुरादि । ईश्वरादेवेति । एवकारोऽ-योगव्यवच्छेदपरः । ईश्वरादन्यस्वतन्त्रकारणव्यवच्छेदपरो वा । सत्त्वाच्चावर-स्येतिसूत्रीय, ‘अवरस्य तदधीनस्य कारणस्य सत्त्वात्’ इति भाष्ये स्वेच्छया परतन्त्रसाधनसापेक्षत्वाभ्युपगमादिति ध्येयम् । एतच्चात्र धुरन्धर इति शब्देन ध्वन्यते । सत्स्वपि इतरेषु कारणेषु, अयमेव स्वतन्त्रत्वात्प्रधान इति । अन्यथा कारणमित्यवक्ष्यत् ।। २६४ ।।

युक्तिमल्लिका

तस्मात्पक्षे पक्षसमे यस्यानैकान्त्यचोदना ।

वेद नासौ पुमाञ्च्छास्त्रमर्यादामार्यगर्हितः ।। २६५ ।।

सुरोत्तमटीका

 ईश्वरकर्तृकत्वस्य व्यभिचारस्थलतया तैस्तैर्वादिभिरुक्त-वक्ष्यमाण सकलदृष्टान्तानामपि साधारणं दूषणमाह ।। तस्मादिति ।। तस्मात्सर्वस्य कार्यस्यास्माभिरीशकर्तृकत्वाङ्गीकारात् पक्षे स्वभावादौ पक्षसमे शिलादौ यस्य वादिनः अनैकान्त्यचोदना व्यभिचारकथनं आर्यगर्हितः असौ पुमान् शास्त्रमर्यादां न वेदेति सम्बन्धः । नहि पक्षे पक्षसमे वा व्यभिचार इत्यार्यवचनात् । पक्षसमानीमानि यत्कार्यं तत्सकर्तृक मित्यस्मदुक्तव्याप्तेर्न व्यभिचारस्थलानीति भावः ।। २६५ ।।

सत्यप्रमोदटीका

 ननु कार्यत्वं स्वभावे कर्मणि चास्ति तत्र सकर्तृकत्वं नास्तीति व्यभिचार इति तत्राह पक्षे इति । व्यभिचारनिरूपकतया पराभि-मतानां सर्वेषां पक्षत्वात् न व्यभिचार इति भावः ।। १६५ ।।

युक्तिमल्लिका

रत्नप्रभा स्वभावश्चेत्कुतो नास्ति शिलान्तरे ।

ततस्तत्रैव सा भूयादित्यत्रास्ति नियामकः ।। २६६ ।।

सुरोत्तमटीका

 अधुना स्वभाववादिनो मुखेनैव नियामकमीश्वरं साधयति ।। रत्नेति ।। रत्नस्यापि शिलात्वात् तत्प्रभा शिलास्वभावश्चेत्तर्हि शिलान्तरे रत्नातिरिक्तशिलान्तरे । तत्रैव रत्नरूपशिलायामेव । सा प्रभा । स एवेश्वर इति भावः ।। २६६ ।।

सत्यप्रमोदटीका

 शिलात्वेनैकजातीयेऽपि रत्ने शिलान्तरेऽनुपलभ्यमानः प्रभाविशेषः जातिस्वभावनियामकमीश्वरं गमयतीत्याह प्रभेति ।।२६६ ।।

युक्तिमल्लिका

नार्यैश्च वार्यः कार्येऽसौ हर्यैश्वर्येर्यवीर्यवान् ।

निर्दैवमृद्ध्यै तं विद्वान्कोऽद्याऽऽदद्याद्धि बौद्धवत् ।। २६७ ।।

सुरोत्तमटीका

 एवं सर्वस्यापीश्वरकृतत्वे परोदीरितस्वभावादिकं किं सर्वथा नापेक्षितं नेत्याह ।। नेति ।। हर्यैश्वर्येण ईर्यं प्रेर्यं वीर्यमस्यास्तीति स तथोक्तः । असौ स्वभावादिः । निर्दैवं दैवरहितं दैवानधीनमित्यर्थः । तं स्वभावं को वा आदद्यात् । अनादाने व्यतिरेकदृष्टान्तमाह ।। बौद्धवदिति ।। यथा बौद्ध आदद्यात् तथाऽन्यो न कोऽपीति भावः । किं चाङ्गीकृतोऽप्ययं स्वभावः न साक्षात्तत्तत्कार्येषु कारणम् । किं तु दण्डमृत्पिण्डादीनां कारणानां योग्यतारूपः स्वभावः कारणतावच्छेदकतया परंपराकारणमेव ।। २६७ ।।

सत्यप्रमोदटीका

 किञ्च, न वयं स्वभावादिकं कार्योत्पत्तौ नोपयुज्यत एवेति वदामः । किन्तु तस्य परप्रेरणयैव प्रयोजकत्वं ब्रूमः । न तु बौद्धवत् तत्स्वातन्त्र्यमित्याह नार्यैरिति ।। किञ्च शक्तिरूपोऽयं स्वभावः न कारणं किन्तु कारणतारूप एवेत्यवधेयम् । तदुक्तं सुधायां– ‘ततोऽन्वय-व्यतिरेकसमधिगम्यमतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युप-गमनीयम् । तदेव च शक्ति’रिति ।। २६७ ।।

युक्तिमल्लिका

किं चाचेतनमात्रस्य स्वभावोऽन्यनियम्यता ।

अतो भवत्स्वभावेन प्रभुराविर्बभूव मे ।। २६८ ।।

सुरोत्तमटीका

 रीत्यन्तरेण स्वभावादेव जगदीश्वरस्सिद्ध्यतीत्याह ।। किं चेति ।। यतोऽचेतनमात्रस्यान्यनियम्यता स्वभावः अत इत्यर्थः । तथा च स्वभावकर्माद्यचेतनस्यैवान्यनियम्यत्वस्वभावादेव मे प्रभुरीश्वरः आविर्बभूव सिद्धो भूदित्यर्थः । स्वभाववादिनाऽपि त्वया स्वभावस्यभावस्यापि रक्षणीय-त्वादिति भावः ।। २६८ ।।

सत्यप्रमोदटीका

 स्वभावस्य अचेतनत्वस्वभावः स्वतःप्रवृत्तिविधुरः स्वप्रवर्तकमीश्वरमाविर्भावयतीत्याह किञ्चेति ।। २६८ ।।

युक्तिमल्लिका

स च स्वेच्छानुसारेण तत्तद्वस्तु तथा तथा ।

तनुते तेषु चाप्येकमुच्चं नीचं करोति च ।। २६९ ।।

सुरोत्तमटीका

 ननु स्वतन्त्रचेतनाङ्गीकारेऽपि नानापदार्थेषु वैचित्र्यं कथं स्यादित्यत आह ।। सचेति ।। तत्तद्वस्तु तथा तथा यद्वस्तु यादृशं तथेत्यर्थः । तेषु सृष्टेषु पदार्थेषु एकमुच्चं अपरं नीचं करोतीति सम्बन्धः ।। २६९ ।।

सत्यप्रमोदटीका

वस्तुवैचित्र्ये च ईश्वरसङ्कल्पो निमित्तम् । स च ईश्वरः स्वतन्त्रोऽपि प्रमाणानुसारी । न पर्यनुयोगमर्हति । स्वातन्त्र्यं च ‘सर्वस्येशानः’ इत्यादिप्रमाणप्रमितम्।तदनङ्गीकारे प्रपञ्चप्रविलयापत्ति-रतिप्रसङ्ग इत्याह द्वाभ्याम् स चेत्यादिना।।२६९,२७० ।।

युक्तिमल्लिका

स्वतन्त्रस्य च तस्येच्छा नियोक्तुं नैव शक्यते ।

अराजकमिदं राष्ट्रं न चेन्नष्टं भविष्यति ।। २७० ।।

सुरोत्तमटीका

 नन्वेवं कुतः करोतीत्यत आह ।। स्वतन्त्रस्येति ।। स्वतन्त्रेच्छाया नियन्तुमशक्यत्वादिति लौकिकप्रवादादिति भावः । तस्य स्वातन्त्र्यानङ्गीकारे बाधकमाह ।। अराजकमिति ।। अराजकं नियामक-रहितम् । नचेत्सतु स्वतन्त्रो न चेत् ।। २७० ।।

युक्तिमल्लिका

नरेषु कश्चिन्मूकोऽस्ति वाचालोऽप्यस्ति कश्चन ।

सोऽयं नरस्वभावो न तवापि च ममापि च ।। २७१ ।।

सुरोत्तमटीका

 स्वभाववादिनो मुखेनैव कर्मणोऽपि कारणतां वाचयितु-माह ।। नरेष्विति ।। निर्धारणे सप्तमी । सोऽयं मूकत्वादिः तवापि च ममापि च । मत इति शेषः ।। २७१ ।।

सत्यप्रमोदटीका

 ‘न च कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः’ इति भगवत्पादोक्तिमाश्रित्य अचेतनत्वरूपसाधारणदोषेण कालकर्म-स्वभावादीनां जडानामेव स्वातन्त्र्येण कारणत्वप्रतिपादनपराणि निरीश्वराणि

जिन-बुद्ध-भाट्ट-साङ्ख्य-प्राभाकरादिमतानि हिनस्ति नरेष्वित्यादिभिः नवभिः । तत्र स्वभाववादी तावत्प्रष्टव्यः किं स्वभाव एक एव कारणं उत कर्मापि इति । आद्ये आह नरेष्विति । मूकत्वेति सर्ववैचित्र्योपलक्षणम् ।। २७१ ।।

युक्तिमल्लिका

कर्मापि चेद्गतं तर्हि स्वभावाङ्घ्र्युपसर्पणम् ।

क्वचित् स्वभावः कर्मापि क्वचिच्चेत्कलहो भवेत् ।। २७२ ।।

सुरोत्तमटीका

 मूकत्वादौ पापादिकं कारणमित्यत आह ।। कर्मापीति ।। अत्र कर्म कारणताङ्गीकारात् स्वभावादेव सर्वं भवतीति वादो गत इति भावः । क्वचित्कार्ये स्वभावः क्वचिच्च कर्मकारणमित्यङ्गीक्रियत इत्यत आह ।। कलह इति ।। उभयोरपि स्वतन्त्रकारणत्वे अन्योन्यप्रतिबन्धात् किमपि कार्यं न भवेदिति भावः ।। २७२ ।।

सत्यप्रमोदटीका

 द्वितीये आह कर्मापीति । तथा चापसिद्धान्त इति भावः । न च देशकालभेदेन व्यवस्थितिः । विनिगमकाभावेन परस्पर-प्रतिरोधेन कार्यमात्रप्रविलयापत्तेरित्याह क्वचिदिति ।। २७२ ।।

युक्तिमल्लिका

अथ कर्मापि राजा चेज्जडता तस्य किं कृता ।

जनने मरणे वाऽपि किं कर्ता तस्य नेष्यते ।। २७३ ।।

सुरोत्तमटीका

 कर्मणस्स्वतन्त्रकारणत्वं रीत्यन्तरेण दूषयति ।। अथेति ।। राजा चेत् स्वतन्त्रकारणं चेत् तस्य कर्मणः । जडतेत्यनित्यत्वादे-रुपलक्षणम् । यद्यपीदं दूषणं स्वभावपक्षेऽपि वक्तुं शक्यते । तथापि चेतनस्वभावे जडत्वाभावादुपेक्षितम् । कर्मतु पुण्यपापरूपं जडमेवेति सुष्ठूक्तं जडता तस्य किं कृतेति । मरणे नाशे तस्य कर्मणः ।। २७३ ।।

सत्यप्रमोदटीका

 किञ्च कर्मादिजडेषु जडत्वजननविनाशादीनि अवद्यानि दृश्यन्ते । न च तानि स्वतन्त्रेषु सम्भवन्ति । अतस्तत्कर्ताऽन्योऽपेक्षितः । सोऽपि चेत्सावद्य एव तर्हि अस्वतन्त्र आपद्येत कर्त्रन्तरसापेक्षश्च स्यात् । तथा चानवस्थितिरसम्भवश्च । अतो निरवद्य उररीकरणीयः । एवं च कथं नेश्वरसिद्धिरित्याह अथेति द्वाभ्याम् ।। २७३,२७४ ।।

युक्तिमल्लिका

अतोऽवद्यं जडत्वाद्यं स्वभावानां च कर्मणाम् ।

यतोऽभून्निरवद्योऽसौ कथं सिद्ध्येन्न सिद्धराट् ।। २७४ ।।

सुरोत्तमटीका

 अतः कर्मादिस्वतन्त्रकारणतावादो नाङ्गीकार्य इत्याह ।। अत इति ।। स्वभावानां च कर्मणां जडत्वोत्पन्नत्वाद्यं अवद्यं दूषणं यतो नारायणादभूत् । असौ निरवद्यः सिद्धराट् कथं न सिद्ध्येदिति सम्बन्धः । निरवद्य इत्यनेन कर्मण्युक्तं दूषणं भगवति नायातीति सूचितम् ।। २७४ ।।

युक्तिमल्लिका

यदि तत्तत्कृतं कर्म तज्जन्ममरणादिकम् ।

अन्यचैतन्यसाचिव्यशून्यमेव करोति ते ।। २७५ ।।

सुरोत्तमटीका

 लोकसिद्धहिंस्यहिंसकभावान्यथानुपपत्त्याऽपि केवलकर्म-कारणत्ववादस्त्याज्य इत्याह ।। यदीति ।। तत्तत्कृतं तैस्तैः पुरुषैः कृतं तव कर्तृत्वेनाभिमतं कर्म तज्जन्ममरणादिकं तेषां तेषां जन्ममरणादिकं अन्य-चैतन्यसाचिव्यशून्यमित्यनेन केवलत्वं द्योतयति । अन्यः हन्यमानादन्यश्चेतनः तस्य यच्चैतन्यं ज्ञानेच्छा प्रयत्नादि तत्साचिव्यं साहाय्यं तेन शून्यमेवेत्यर्थः । अदृष्टद्वारककर्तृभूतात् हिंस्यादन्यादृष्टाद्वारकप्रयत्नपूर्वकहंतृचेतनसाहाय्यरहित-मिति भावः ।। २७५ ।।

सत्यप्रमोदटीका

 हिंसा दोषः, अहिंसा गुणः इत्यादिप्रकारैः गुणदोष-विभागस्तावत्सर्वसमयिभिरङ्गीकृतः । स च जीवेषु प्रत्यक्षसिद्धस्य ज्ञानेन्छा-पूर्वककर्तृत्वस्यानभ्युपगमे दुरुपपादः । न हि जडं कर्मादिकं प्रति विधिनिषेधौ तत्तच्छास्त्रप्रतिपाद्यौ सम्भवतः । नापि स्वतन्त्रमीश्वरं प्रति । जीवोऽपि चेत्सर्वथा न कर्ता न स विधिनिषेधविषयः । तथा च तत्परशास्त्रस्याप्रामाण्यं लोकव्यवहारविलोपः । परस्परहिंसादीनां निरङ्कुशतया प्रवृत्तेः । अत ईश्वर-नियतं जीवकर्तृत्वमेष्टव्यं सर्ववादिभिरित्याह यदीत्यादिभिश्चतुर्भिः

।। २७५-२७८ ।।

युक्तिमल्लिका

तर्हि हन्ता न कोऽप्यासीत्स्वस्वकर्महते जने ।

अतो हिंसादोषवादो गतो यस्ते मते मतः ।। २७६ ।।

सुरोत्तमटीका

 दूषयति ।। तर्हीति ।। हन्तृचेतनस्याकारणत्वात् हन्ता पुरुषो नकोऽप्यासीदित्यर्थः । हन्तुश्चेतनस्याभावे को दोष इत्यत आह ।। अत इति ।। हिंसादोषवादः देवदत्तेन यज्ञदत्तस्य हिंसाकरणे दोषवादो गत इति सम्बन्धः ।। २७६ ।।

युक्तिमल्लिका

अथ कर्त्रन्तरापेक्षं कर्मापि कुरुते तव ।

तर्हि सर्वस्य कर्तारमाक्षिपेत्कञ्चनेश्वरम् ।। २७७ ।।

सुरोत्तमटीका

 ननु केवलकर्मणो न कारणत्वम् । येनोक्तं समस्तं स्यात् । किं तु कर्त्रन्तरसापेक्षं कर्म कारणमिति पक्षान्तरमनूद्य दूषयति ।। अथेति ।। तवमत इति शेषः । तर्हि केवलकर्मणः क्षित्यादिकर्तृत्वायोगात् सर्वस्याप्यदृष्टद्वारककर्तारमीश्वरमाक्षिपेत् साधयेदिति सम्बन्धः । कंचनेत्यनेन इदानीमीश्वरस्वरूपचर्चाऽनवसर इति सूचयति अतर्क्यमहिमानमिति वा । अयं विकल्पः स्वभावमतेऽपि समः । तस्यापि हिंसादोषवादित्वात् ।। २७७ ।।

युक्तिमल्लिका

निरीश्वरान्भाट्टसाङ्ख्यप्राभाकरमतानुगान् ।

चित्रमेकप्रहारोऽयं युक्त्या त्रीनप्यखण्डवत् ।। १७८ ।।

सुरोत्तमटीका

 एकं प्रत्युक्तं दूषणमन्यत्राप्यतिदिशति ।। निरीश्वरा-निति ।। अयमेकप्रहारः कर्त्रनपेक्षकारणकलापस्य कार्यार्जकत्वायोगरूपप्रहारः ।। २७८ ।।

युक्तिमल्लिका

तस्माञ्जडानुसरणं त्यक्त्वा भज महाप्रभुम् ।

स्वभावकालकर्मादेस्सर्वस्यास्य नियामकम् ।। २७९ ।।

सुरोत्तमटीका

 ईश्वरसमर्थनमुपसंहरति ।। तस्मादिति ।। २७९ ।।

सत्यप्रमोदटीका

 उपसंहरति तस्मादिति ।। २७९ ।।

युक्तिमल्लिका

एकस्य पापमन्यस्य नांहस्स्यादिति चोह्यते ।

दारा गुरूणां पापाय न तथा गृहमेधिनाम् ।। २८० ।।

सुरोत्तमटीका

 सर्वसंहारकस्य गोपीरमणस्य विष्णोर्गोविप्रहननागम्या-गमनादिकं नदोषश्चेत्तदन्येषामपि दोषो नस्यादिति चोद्यं परिहरति ।। एकस्येति ।। एकस्य पापरूपं कर्मान्यस्य पापहेतुर्न भवतीत्येतदुपपादयति ।। दारा इति ।। गुरूणां तपस्विनाम् । तथा चान्येषां दोषकृदपि हननादिकं नविष्णोर्दोषकृदिति भावः ।। २८० ।।

सत्यप्रमोदटीका

 ‘तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा’ इति भागवतोक्तं कृष्णस्य परनारीगमनेऽपि निर्दोषत्वं विवृणोति एकस्येति ।।२८०।।

युक्तिमल्लिका

युक्तिस्तु तत्र व्यर्थैव विवेकोऽतो विधेर्बलात् ।

तत्रांहस्तद्यत्र तत्त्वे प्राचां वाचो न चेन्न च ।। २८१ ।।

सुरोत्तमटीका

 तत्र पुण्यपापविषये एकस्य पापमन्यस्यापि पापं स्यादित्यादियुक्तिः व्यर्था व्यभिचारात् प्रयोजनासाधिकेत्यर्थः । तर्हि कस्मा-त्पुण्यपापनियम इत्यत आह ।। विवेक इति ।। अतः युक्तेरभावात् । विधेरित्युपलक्षणम् । निषेधादित्यपि ग्राह्यम् । विवेकः पुण्यत्वपापत्वविवेकः । यद्यस्य विहितं तत्तस्य पुण्यदम् । यत्तु यस्य निषिद्धं तत्तस्य पापदमिति विधिनिषेधाभ्यामेव पुण्यपापव्यवस्था । अत एव दारपरिग्रहो निषिद्धत्वाद्गुरो-र्दोषहेतुः । गृहस्थस्य तु तदभावान्न दोषहेतुरिति त्वयापि वक्तव्यम् । एवं च हिंसाऽगम्यागमनादिकं राजाज्ञोल्लङ्घनं प्रजानामिवास्माकमेव दोषहेतुः । न तु विधिनिषेधादिनियामकस्य । सर्वेश्वरस्य तु राजाज्ञोल्लङ्घनं राज्ञ इव न दोषहेतुरिति भावः । तदेव विशदयति ।। तत्रेति ।। यत्र यस्मिन्कर्मणि तत्वे दोषत्वे प्राचां श्रुतिस्मृतिनियामकानां सर्वेश्वरमन्वादीनां वाचः सन्तीति शेषः । तत्कर्म तत्र तस्मिन्स्थले अंहः पापम् । तत्साधनमिति यावत् ।। २८१ ।।

सत्यप्रमोदटीका

 व्यर्था । प्रबलप्रमाणविरोधात् स्वार्थासाधिका । प्राचां वाचः सदागमाः ।। २८१ ।।

युक्तिमल्लिका

निखद्यतया यस्तु श्रुत्याद्यैस्स्तूयतेतराम् ।

कृत्वाऽपि न स कर्माणि लिप्यते जगदीश्वरः ।। २८२ ।।

सुरोत्तमटीका

 एवं प्राचीनवचनानुसरणेन क्वापि विष्णोर्दोष इत्याह ।। निरवद्यतयेति ।। यस्तु जगदीश्वर इति सम्बन्धः ।। २८२ ।।

सत्यप्रमोदटीका

 धर्मिग्राहकप्रमाणबाधश्चेत्याह निरवद्यतयेति ।। ‘निरनिष्टो निरवद्यः’ इति श्रुतिः । ‘न मां कर्माणि लिम्पन्ति’ इति गीतोक्तमाह कृत्वाऽपीति । तत्र हेतुः जगदीश्वर इति । स्वतन्त्र इत्यर्थः । तदुक्तं ‘स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः’ इति ।। २८२ ।।

युक्तिमल्लिका

नापि कारयितुः पापं कर्तृवद्युक्तितो भवेत् ।

मङ्क्तुर्जलेषु यद्दुःखं किं तन्मज्जयितुः प्रभोः ।। २८३ ।।

सुरोत्तमटीका

 ननु पापप्रेरकस्य जगदीश्वरस्य कर्ता कारयिताचेति वचनेन पापं स्यादित्यत आह ।। नापीति ।। कर्तृवत् पापकर्तृवत् । युक्तितः न भवेदित्येतदुपपादयति ।। मङ्क्तुरिति ।। मङ्क्तुः मज्जनकर्तुः । तत् दुःखम् । प्रभो राजादेः ।। २८३ ।।

सत्यप्रमोदटीका

 ‘स कारयेत्पुण्यमथापि पापं न तावता दोष-वानीशिताऽपि’ इति भाष्योक्तमाह नापीति ।। ईशितेति हेतुगर्भं विशेषणम्

।। २८३ ।।

युक्तिमल्लिका

विधेः पदानुसरणे विधितातस्य किं भयम् ।

करणात्प्रेरणाद्यस्य न भीरिति स गर्जति ।। २८४ ।।

सुरोत्तमटीका

 ननु युक्तिं विहाय विधिबलात्तन्निर्णय इत्यत आह ।। विधेरिति ।। पदानुसरणे पादानुसरण इत्यर्थः । विधितातस्य विधिकर्तुः ब्रह्मतातस्येति वा । करणात् पापकरणात् । प्रेरणात् तत्प्रेरणात् । यस्य जगदीश्वरस्य । स विधिः । न कर्मणा वर्धते नो कनीयात् सृजत्यवत्यत्ति न तत्र सज्जत इत्यादि श्रुतिस्मृतिरूपः ।। २८४ ।।

सत्यप्रमोदटीका

 विधितातस्य विधिसत्त्वनियामकस्य । तदुक्तं ‘ईशो यतो गुणदोषादिसत्त्वे’ इति ।। न भीरिति स गर्जति । ‘भीरपि यं बिभेति’ ‘दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः’ इति निर्भयत्वं निर्दोषत्वं च निरवकाशतया प्रतिपादयति ।। २८४ ।।

युक्तिमल्लिका

यतो विधिर्निषेधो नॄन्विदधाति निषेधति ।

ताभ्यां बन्धो हि बद्धानां मुक्तानां स्यात्कथं वद ।। २८५ ।।

सुरोत्तमटीका

 प्रकारान्तरेण हरेर्विधिनिषेधाविषयत्वमुपपादयति ।। यत इति ।। विधिः प्रातस्सन्ध्यामुपासीतेत्यादिः । निषेधो न सुरां पिबेदित्यादि । नॄन् सांसारिकपुरुषान् प्रतीति शेषः । स्यात् बन्ध इत्यनुवर्तते । कथं न कथञ्चिदपीति भावः । मुक्तानामित्युक्त्या भवन्मतेऽपि स्वसमयोक्तसांसारिक व्रताचरणाभावेऽपि मुक्तत्वादेव हि मुक्तानां न दोष इति ध्वनयति । वदेत्युक्त्या स्वोक्तेरतिदृढत्वं परस्य प्रत्युत्तराभावं च सूचयति ।। २८५ ।।

सत्यप्रमोदटीका

 नॄन् संसारिणः । मुक्तानामित्युपलक्षणं जीवन्मुक्तानां समाधिस्थानां चेति ज्ञेयम् । ‘नैव तस्य कृतेनार्थः नाकृतेनेह कश्चन’ इति गीतोक्तेः ।। २८५ ।।

युक्तिमल्लिका

यस्तु प्रस्तूयते श्रुत्या नित्यमुक्ततया प्रभुः ।

स निर्दोषो विजयते हयग्रीवाभिधो हरिः ।। २८६ ।।

सुरोत्तमटीका

 मुक्तानामपि विधिनिषेधरूपबन्धो नास्ति किल, नित्य-मुक्तस्य तु किमुतेति भावेनाह ।। य इति ।। श्रुत्येत्युपलक्षणम् । प्रलयेऽपि वटपत्रशायिनो जननमरणाभावयुक्त्या चेत्यपि ग्राह्यम् ।। २८६ ।।

सत्यप्रमोदटीका

 प्रस्तूयते प्रकर्षेण स्तूयते । स निर्दोष इति । अत्र ग्रन्थकृतैव पाषण्डमतखण्डनग्रन्थे कृतस्य मङ्गलश्लोकस्य ‘यत्सृष्टिचातुरीतोऽब्ज मपङ्कं पङ्कवास्यपि’ इति पूर्वार्धोऽनुसन्धेयः । तत्सृष्टवस्तूनामप्येवं निर्लेपत्वे सृष्टिकर्तुर्हयग्रीवस्य स्वतो लेपानर्हत्वं किमु वक्तव्यमिति भावः ।। २८६ ।।

युक्तिमल्लिका

व्रतस्था हस्तविन्यस्तसूत्रात्ते सूतकांहसा ।

न लिप्यते किल स्त्री च हन्तेशो लिप्यते किल ।। २८७ ।।

सुरोत्तमटीका

 हरेर्दोषित्वकथां प्रतिबन्द्या परिहरति ।। व्रतस्थेति ।। व्रतस्थाजिनसमयोक्तव्रतस्था ते तव स्त्रीचेति सम्बन्धः । हस्तविन्यस्तसूत्रात् मन्त्रितहस्तबद्धकङ्कणसूत्रात् । सूतकांहसा रजोरूपसूतकदोषेण । किलेत्युपहासः । हस्तन्यस्तसूत्रतुल्यमपि जगदीश्वरस्य सामर्थ्यं नास्तीत्ये-तदतिनिकृष्टमिति भावः ।। २८७ ।।

सत्यप्रमोदटीका

 यस्य कस्यचित्क्षुद्रसूत्रस्य सम्बन्धः स्वस्त्रीणां पाप-निवारणहेतुर्जैनैरङ्गीकृतः । सूत्रसप्तशतीपतेः यज्ञोपवीताख्यत्रिसूत्रीधरस्य अस्मदीशस्य सुपवित्राणां सूत्राणां सम्बन्धस्य तद्धेतुत्वानङ्गीकारे कथं न स्वव्याघातः इति भावः ।। इयांस्तु विशेषः । त्वदभिमतं दुर्मन्त्रमन्त्रितं कुविन्दकृतं कुसूत्रम् । इदं तु मन्त्रवर्णात्मकं त्रयीमयं, तन्निर्णायकं च मुकुन्दकृतं सुसूत्रं इति । सप्तशती गीता ।। २८७,२८८ ।।

युक्तिमल्लिका

का भीः स्वगुणसम्बद्धसूत्रसप्तशतीपतेः ।

कण्ठोपकण्ठे नृहरेस्त्रिसूत्रीसूत्रितस्य च ।। २८८ ।।

सुरोत्तमटीका

 तन्तुवायकृतैकसूत्रसम्बन्धमात्रेण पापालेपे व्यासकृत-शास्त्ररूपसप्तशतीसूत्रप्रतिपाद्यमहिम्नो यज्ञोपवीताख्यत्रिसूत्रीशोभित कण्ठस्य च विष्णोः पापालेपः किमु वक्तव्य इत्याह ।। काभीरिति ।। स्वगुणसम्बद्धेत्य-नेनानन्तगुणप्रतिपादकत्वं सूत्रसप्तशत्याः द्योतयति ।। ब्रह्ममीमांसाशास्त्रे सयुक्तिकं निर्दोषतया प्रतिपादितस्य लोके पापकृतो ब्राह्मणस्य शिखायज्ञोप-वीतच्छेददर्शनात् अस्य च सदा अच्छिन्नवैशिष्ट्यद्योतकयज्ञोपवीतवतः न कथञ्चिदपि पापशङ्केति भावः । एवं च सर्वत्रास्य ग्रन्थकृतः साहित्योक्तिरपि शास्त्ररूपैवेति द्रष्टव्यम् ।। २८८ ।।

युक्तिमल्लिका

अस्त्यावश्यकधर्मस्य प्रत्यवायोऽकृतौ सृतौ ।

मुक्ते मुक्तत्वतोऽसौ न ततस्तच्चाघवारकम् ।। २८९ ।।

सुरोत्तमटीका

 मुक्तत्वादीश्वरस्य बन्धो नास्तीत्येतत्प्रपञ्चयति ।। अस्तीत्यादिना ।। आवश्यकधर्मस्याकृताविति सम्बन्धः । मुक्ते पुरुषे असौ प्रत्यवायः । मुक्तत्वतः बन्धरहितत्वात् । तच्च मुक्तत्वं च ।। २८९ ।।

सत्यप्रमोदटीका

 विमत ईश्वरः अकृतौ प्रत्यवायवान्न, मुक्तत्वात् व्यतिरेकेण संसारिवत् ।। हेतूच्छित्तिर्विपक्षे बाधिका ।। २८९ ।।

युक्तिमल्लिका

तस्मादेवास्मदीशोऽपि सर्वस्माच्च न लिप्यताम् ।

एकत्र वारकं कस्मान्नापरत्र निवारकम् ।। २९० ।।

सुरोत्तमटीका

 तस्मादेव मुक्तत्वादेव सर्वस्मात्पुण्यपापरूपबन्धात् ।। एकत्र कर्तव्यकर्माकरणे अपरत्र हिंसागम्यागमनादौ । विहिताकरणादागत-पापवारकस्य निषिद्धकरणादागतपापनिवारकत्वमपि स्यादेव न्यायसाम्यात् । न हि स्वगृहपंकक्षालनसमर्थं जलं परगृहपंकक्षालनासमर्थं दृष्टमिति भावः।।२९०।।

सत्यप्रमोदटीका

 ईश्वरस्य निषिद्धकृतिः, न लेपहेतुः, मुक्तसम्बन्धि-त्वात्, आवश्यकस्य अकृतिवत् । न चाप्रयोजकता । मुक्तत्वं अकृतौ लेपस्य वारकं, कृतौ तु नेति न युक्तियुक्तम् । अर्धजरतीयापत्तेः इत्याह तस्मादिति ।। २९० ।।

युक्तिमल्लिका

मुक्तत्वं च सदा क्लेशवर्जितत्वेन सिद्ध्यति ।। २९१ ।।

सुरोत्तमटीका

 नन्वसिद्धो हेतुरित्यत आह ।। मुक्तत्वं चेति ।। दुःख-मेव हि संसारः । देहगेहादिकं तु दुःखसाधनत्वात् संसार इत्युपचर्यते । अतः सर्वदा दुःखरहितत्वात् मुक्तत्वं हरेः सेत्स्यतीति भावः ।। २९१ ।।

सत्यप्रमोदटीका

 न च मुक्तत्वमसिद्धम् । विमतः बन्धात्यन्ताभाव-लक्षणमुक्तत्ववान् क्लेशरहितत्वात् घटवत्, व्यतिरेकेण बद्धवत् इति तत्सिद्धेः ।। २९१ ।।

युक्तिमल्लिका

तच्च जन्मजरामृत्युक्षुत्तृडादिविवर्जनात् ।

अनुमीयते श्रिया साकं सर्पतल्पपरायणे ।

नारायणे पयस्सिन्धौ कृतधामि्न त्रिधामि्न नः ।। २९२ ।।

सुरोत्तमटीका

 तत्क्लेशवर्जितत्वं सर्पतल्पपरायणे महाप्रलय इति शेषः । प्रलये तत्क्लेशवर्जितत्वं सर्पतल्पपरायणे महाप्रलय इति शेषः । प्रलये सर्पतल्पपरायण इति हेतुगर्भं विशेषणम् । प्रलयेऽपि ब्रह्मणश्शतवर्षपर्यन्तं अन्नाद्यभावेऽपि सुखितया उर्वरितस्य जन्माद्यभावोऽपि सिद्ध्यतीति हेतु-सूचनात् । नोऽस्माकं नारायण इति सम्बन्धः । ततश्चायं प्रयोगः । विष्णु-र्मुक्तो भवितुमर्हति दुःखरहितत्वात् संप्रतिपन्नमुक्तवत् । विष्णुर्निर्दुःखो भवितुमर्हति जन्मादिशून्यत्वात्संप्रतिपन्न मुक्तवत् । विष्णुर्जन्मादिरहितो भवितुमर्हति प्रलयेऽप्यनष्टदेहादिमत्वात्संप्रतिपन्नवदिति । त्रिधाम्नीत्यनेन तद्धामत्रयेऽपि क्लेशो नास्तीति सूचितम् ।। २९२ ।।

सत्यप्रमोदटीका

 न च तत्राप्यसिद्धिः । विमतः क्लेशरहितः क्लेशहेतु-जन्मादिशून्यत्वात् । विपक्षे अकारणकार्योत्पत्तिर्बाधिका । विमतो जन्मादि-शून्यः प्रलये सत्वात् । न चासिद्धिः ‘एको नारायण आसीत्’ ‘आनीदवातं स्वधया तदेकम्’ इत्यादिश्रुतिसिद्धेः ।। २९२ ।।

युक्तिमल्लिका

युगे युगे परक्लेशहत्यै चावतितीर्षति ।

अनुत्तीर्णस्स्वयं पङ्कात्परं तारयतीह कः ।। २९३ ।।

सुरोत्तमटीका

 तस्य क्लेशाभावे युक्त्यन्तरं चाह ।। युगे युग इति ।। अवतितीर्षति अवतारं कर्तुमिच्छति । नारायण इति पूर्वेणान्वयः । अवति-तीर्षतीति वदता तदाप्यवतरणमेव न जन्मेति सूचितम् । परमन्यम् । इह लोके ।। २९३ ।।

सत्यप्रमोदटीका

 विमतः स्वयं क्लेशहीनः परेषां क्लेशहन्तृत्वात् । न चाप्रयोजकता । ‘अनुत्तीर्णः स्वयं पङ्कादि’ति न्यायविरोधात् ।। २९३ ।।

युक्तिमल्लिका

नित्यमुक्ता च सा भार्या नित्यमुक्तः पतिश्च सः ।

बाहुभ्यामेव बन्धोऽस्ति न तयोर्भवबन्धनम् ।। २९४ ।।

सुरोत्तमटीका

 ननु कलत्रवत्त्वान्नारायणस्य संसार इति जैनादीनां शङ्कां परिहरति ।। नित्यमुक्ताचेत्यादिना ।। सा भार्या लक्ष्मीः स पतिर्नारायणः । उभयोरपि प्रलयेऽप्यविनष्टदेहत्वेन पतिवत्पत्न््नया अपि मुक्तत्वसाधनसौलभ्या-दिति भावः । भार्याहि न स्वत एव संसाररूपा । अपि तु संसारदुःखसाधन-तया । भार्याया भर्तुर्दुःखहेतुत्वं च स्वजरामरणादिना लोके दृष्टम् । प्रलयेऽप्यविनष्टदेहा लक्ष्मीर्न तादृशीति कथं तस्याः संसारहेतुत्वमिति भावेनाह ।। बाहुभ्यामेवेति ।। तयोर्लक्ष्मीनारायणयोः । बाहुभ्यामेव बन्धोऽ-स्तीति सरसोक्तिः । आलिङ्गनमित्यर्थः । ननु दुःखाहेतुत्वेऽपि स्त्रीत्वादेव संसारहेतुत्वमिति चेत् तर्हि पुंस्त्वादेव भवदीयमुक्तानामपि कुतोन संसार-हेतुत्वम् । पुंसां स्त्र्यादिविषयाशाया अपरिहारात् । अलौकिकपुरुषत्वान्न तदाशेति चेत् तर्हि अलौकिकस्त्रीत्वादियमपि न संसारहेतुरिति समम् । नच मुक्तौ स्त्रीणामभावः । पुरुषाणामप्यभावापातात् । मुक्त्यर्थं व्रतादिकमाचरतः पुरुषस्य मुक्तावावश्यकताचेत् तर्हि तादृशस्त्रीणामपि मुक्तौ कथं नावश्यकता । ननु तासामपि पुंस्त्वापत्त्यैव मुक्तिरिति चेत् तर्हि पुंसामपि स्त्रीत्वापत्त्यैव मुक्तिरिति मुक्तौ पुंसामेवाभावः किं न स्यात् । विनिगमने कारणाभावा-दुभयोरपि मुक्तावावश्यकतेत्यतो यत्किञ्चिदेतत् । वक्ष्यति चैतद्ग्रन्थकारस्स्वयमेव ।। २९४ ।।

सत्यप्रमोदटीका

 न च, विमतः न मुक्तः कलत्रवत्वात् संमतवत् इति सत्प्रतिपक्षता । संसारिकलत्रवत्त्वस्य उपाधित्वात् । लक्ष्म्याः असंसारित्वेन न साधनव्यापकता । न च स्त्रीत्वादेव संसारित्वम् । अप्रयोजकत्वात् । प्रमाण-बाधाच्च । पुरुषत्वादेव मुक्तस्यापि तथात्वापाताच्च । अलौकिकत्वेन समाधानं तूभयत्र समम् ।। २९४ ।।

युक्तिमल्लिका

अनाद्योर्न भवाद्योऽस्ति भवो ह्येष पुनर्भवः ।। २९५ ।।

सुरोत्तमटीका

 युक्त्यन्तरेणापि मुक्तत्वमुपपादयति ।। अनाद्योरिति ।। भवस्संसारः । आद्यपदेन संसारध्वंसो गृह्यते । अनादिकालमारभ्य अनुत्पन्नेन केवलं सुखहेतुना देहेन विशिष्टयोः कथं संसार इति भावः ।। नन्वनादित्वेन जन्माभावसिद्धावपि संसाराभावः कथं सिद्ध्येदित्यत आह ।। भवोहीति ।। एषभव इति सम्बन्धः । भवस्संसारः पुनर्भवः निघंट्वादौ पुनः पुनरुत्पत्त्या पुनर्भवसंज्ञितः । उत्पत्त्यभावेतु अपुनर्भव एवेति कथमनाद्योर्भवाद्य इति भावः। नचानादित्वमसिद्धम् । रुद्रपितुर्ब्रह्मण इव ब्रह्मपितुर्नारायणस्येव नारायण-पितुःकस्यचिल्लोके प्रसिद्ध्यभावादेवानादित्वसिद्धेः ।। २९५ ।।

सत्यप्रमोदटीका

 विमतः अपुनर्भववान् भवरहितत्वात् । भवः उत्पत्तिः। तद्राहित्यं च उभयोः सुप्रसिद्धम् । सामान्याभावेन विशेषाभावसिद्धिः ।। विमतः संसारी कामित्वात् इति चेन्न । असिद्धेः । विमतः न स्त्रीकामुकः तन्निरपेक्षेण अपत्योत्पादकत्वात् । तच्च विधितातस्य पद्मनाभस्य सुप्रसिद्धम् । कामित्वं अप्रयोजकं च । मुक्तानामपि कामसद्भावात् । मुक्तत्वं तु कामाहतत्व-मात्रेणोपपन्नम् इत्याह पत्येति ।। २९५, २९६ ।।

युक्तिमल्लिका

पत्या तेन कुतोऽपत्यशतवत्यभवन्न सा ।

सत्सु दारेषु नाभेस्स पुत्रं कस्मादजीजनत् ।। २९६ ।।

सुरोत्तमटीका

 ननु कामितया रमायां रमणाद्धरेस्संसार इति चेत् न । तथापि दुःखस्याभावात् कुतस्संसारः । दुःखस्यैव संसारत्वात् । ननु कामस्संसार इति चेत् न । सोऽपि कामितपदार्थालाभे दुःखहेतुतयाऽस्तु वा संसारः। सत्यकामत्वेतु कामोऽपि मुक्तत्वसाधक एव परिपूर्णस्य हरेः । सोऽपि न लक्ष्म्यामित्याह ।। पत्येति ।। यदि तस्यां रमते तर्हि पत्या भर्त्रा तेन नारायणेन तत्सकाशादिति यावत् । सा लक्ष्मीः । कामाद्रमणाभावे निमित्तांतरं चाह ।। सत्स्विति ।। सः नारायणः पुत्रं ब्रह्माणम् अजीजनत् जनयामास ।। २९६ ।।

युक्तिमल्लिका

अतस्स भरणाद्भर्ता सा भार्या भ्रियते यतः ।

तत्तयोर्नित्यसुखिनोर्न संसारोऽस्त्यदुःखिनोः ।। २९७ ।।

सुरोत्तमटीका

 अतः कामितया रमणाभावात् स नारायणः भरणात् पोषणात् । यतः भ्रियते पोष्यते अतः सा भार्येति सम्बन्धः । संसाराभाव-साधनमुपसंहरन्नेव युक्त्यन्तरं चाह ।। तदित्यादिना ।। तयोर्लक्ष्मीनारायणयोः ।। २९७ ।।

सत्यप्रमोदटीका

 किञ्च नित्यसुखिनोर्दम्पत्योः न दुःखं शङ्कार्हं इत्याह अत इति ।। २९७ ।।

युक्तिमल्लिका

दुःखमेव हि संसारो दुःखहेतुत्वतोऽपरम् ।

उपचारेण संसारो न दुःखं नापि दुःखदा ।। २९८ ।।

सा भार्या केन संसारो यदि स्त्रीत्वेन संसृतिः ।

तर्हि पुंस्त्वाच्च संसार इति मुक्तिर्गता तव ।। २९९ ।।

सुरोत्तमटीका

 हि यस्माद्दुःखमेव संसारः । अपरं प्राकृतशरीरादिकं दुःखहेतुत्वतः उपचारेण संसार इत्युच्यते । लक्ष्मीश्च न दुःखं दुःखरूपा नेति यावत् । दुःखदा नापि । दुःखहेतुर्नेत्यर्थः । सा भार्या लक्ष्मीः केन निमित्तेन संसारः संसाररूपा । युक्तिस्तु पूर्वोक्तैव द्रष्टव्या । स्त्रीत्वेन संसृतिस्संसाररूपा तर्हि पुंस्त्वाच्च मुक्तोऽपि संसारः संसाररूप इति हेतोस्तव मुक्तिर्गतेति सम्बन्धः ।। २९८,२९९ ।।

सत्यप्रमोदटीका

 तत एव तयोः संसारशङ्का गर्भस्त्रावेणापसारिता दुःखस्यैव मुख्यतः संसारत्वादित्याह दुःखमिति । नेत्यादिकस्योत्तरत्र सेत्यनेनान्वयः ।।

किञ्च जैनैर्मुक्तौ मित्रसम्पत्तिरङ्गीक्रियते न कलत्रसम्पत्तिः । तत्कुत इति वाच्यम् । कलत्रं स्त्रीत्वात्संसाररूपमिति चेत् मित्रमपि पुंस्त्वात्कुतो न तथा । अतः लक्ष्मीपतित्वं विष्णोर्न संसारित्वहेतुरित्याह सेति ।। २९८, २९९ ।।

युक्तिमल्लिका

कलत्राणीव मित्राणि भवायेह भवन्ति हि ।

मुक्तौ चेन्मित्रसम्पत्तिस्त्रीसम्पत्तिः कुतो न ते ।। ३०० ।।

सुरोत्तमटीका

 कलत्रसम्पत्तेस्संसारत्वं प्रतिबन्द्या दूषयति ।। कल-त्राणीति ।। इहलोके कलत्राणीव मित्राणि भवाय संसाराय भवन्ति हि । मुक्तौ मित्रसंपत्तिश्चेदस्ति तर्हि स्त्रीसम्पत्तिः कुतस्ते मते नेति सम्बन्धः ।। ३०० ।।

सत्यप्रमोदटीका

 एवं इतरमुक्तानामपि स्त्रीसहायत्वं न संसारापादक-मित्याह मुक्ताविति ।। ३०० ।।

युक्तिमल्लिका

रागाभावेन या शान्तिस्सा देवीदेवयोस्समा ।

अतः कलत्रशून्यस्य गुरोर्वाक्ये भरं त्यज ।। ३०१ ।।

सुरोत्तमटीका

 ननु रागाभावात् मित्रसंपत्तिर्न संसारायेत्यत आह ।। रागाभावेनेति ।। या शान्तिर्दोषपरिहाररूपा । सा शान्तिर्देवी देवयोर्लक्ष्मी-नारायणयोस्समा । नारीदर्शने कथं न राग इति चेत् मित्रदर्शने कथं नराग इति समम् । अलौकिक रूपत्वान्मित्रदर्शनेपि नरागश्चेत्समं कलत्रेऽपि । कलत्रशून्यस्येत्यनेन स्वयं नष्टः परान्नाशयतीति न्यायावतारं सूचयति ।।३०१।।

सत्यप्रमोदटीका

 अथ मित्रदर्शनं न मुक्तत्वविरोधि रागाहेतुत्वादिति चेत् तदेव कुतः । अलौकिरूपवत्त्वान्मित्राणामिति चेत् समं कलत्राणामिति तद्दर्शनमपि मुक्तौ न दोषावहम् । कलत्रशून्यस्य तवगुरोर्वाक्यं तु विप्रलम्भ-मूलत्वादुपेक्षणीयमित्याह अत इति ।। ३०१ ।।

युक्तिमल्लिका

उन्नयोर्जितधर्मेण भार्यां च सहधर्मिणीम् ।। ३०२ ।।

सततोर्ध्वगतिर्नॄणां महाक्लेशकरी तव ।

मुक्तौ स्याच्चेत्सुखकरी भार्या केन भयङ्करी ।। ३०३ ।।

सुरोत्तमटीका

 तदुक्तमोक्षस्वरूपं दूषयन्नेव भार्यासंपत्तेर्दोषत्वं दूषयति ।। सततेति ।। तवमते मुक्तौ सुखकरी स्याच्चेदिति सम्बन्धः । तर्हि भार्यापि केन निमित्तेन भयंकरी । तथा च मुक्तौ सततोर्ध्वगतिवद्भार्याप्यङ्गीकार्येति भावः ।। ३०२,३०३ ।।

सत्यप्रमोदटीका

 किञ्च जैनाः सततोर्ध्वगतेर्मोक्षरूपतामाहुः । सा च महाक्लेशकरीति सर्वानुभवसिद्धम् । तदुक्तम् भगवत्पादैः ‘नित्यमूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा’ इति । एवं विकृतिहेतुत्वेन आत्मनो विनाशा-पादिका च । एतदप्युक्तं ‘अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा’ इति । तथा च दुःखहेतुं आत्मस्वरूपनाशहेतुं च नित्योर्ध्वगतिमङ्गीकुर्वतः सुख-साधनभार्यां त्वनङ्गीकुर्वतो जैनस्य विकेकवैधुर्यमपहसति सततेति ।। ३०३ ।।

युक्तिमल्लिका

वृथा वेदेषु देवेषु सत्सु यज्ञादिकारिषु ।

न मत्सरं कुरु महादोषमीषत्पराकुरु ।। ३०४ ।।

सुरोत्तमटीका

 वृथेत्यनेन वेदादिनिन्दनं महादोषकरं मत्सरादेवेति सूचयति ।। ३०४ ।।

सत्यप्रमोदटीका

 मात्सर्यं दोषेषु महत् । तद्दूषितानि निरीश्वराण्य-वैदिकानि जैनादिमतानि दूरतो हेयानीति ‘दुःशास्त्रं तु परित्यजेदि’ति भगवत्पादोपदेशमनुरुध्य मुमुक्षुं प्रति हितोक्तिमाह वृथेति । महादोषं मत्सरं ईषदपि न कुरु इत्यन्वयः । पराकुरु सर्वात्मना परित्यज ।। ३०४ ।।

युक्तिमल्लिका

अतो वैदिकमर्यादैवाङ्गीकार्या विवेकिना ।

वैदिकानां तु कलहो वेदार्थास्फूर्तितः परम् ।। ३०५ ।।

सुरोत्तमटीका

 अत इत्युपसंहारः । ननु वैदिकमर्यादाङ्गीकारिणामपि भवतां कुतः परस्परं कलह इत्यत आह ।। वैदिकानामिति ।। अस्फूर्तित इत्युपलक्षणम् । विपरीतस्फूर्तित इत्यपि ग्राह्यम् । कलहशान्तिस्तु ब्रह्म-मीमांसोक्तरीत्या सम्यगुपक्रमादीनां निर्णये सति स्यात् । अत एव मध्व-भाष्योपरि न भाष्यमिति भावः ।। ३०५ ।।

सत्यप्रमोदटीका

 ‘अतोऽपौरुषेयवाक्येनैव धर्मादिसिद्धेः सर्ववादिनां तदङ्गीकार्यं’ इति तत्त्वनिर्णयोक्तमाह अत इति । ‘नन्वेवं सति वेदेनैव सर्वेषां धर्मप्रतिपत्तिरित्यायातम् । तर्हि वादिविप्रतिपत्तिर्न स्यात् । सत्यमेव तत् किन्तु धर्मादिस्वरूपे वेदेन प्रतीते तद्विशेषेषु तमतिक्रम्य स्वमतिदोषाद्वादि-विप्रतिपत्तयः प्रतीयन्ते’ । इति तत्वनिर्णयटीकोक्तमाह वैदिकानां त्विति ।। ३०५ ।।

युक्तिमल्लिका

क्वचित्सदसतोश्चैकीभावः स्थानैक्यतो भवेत् ।

सुरासुरास्सुधार्थे प्राङ्नैकीभूताः किमम्बुधौ ।। ३०६ ।।

सुरोत्तमटीका

 तर्हि मां प्रति सर्वे भवदादय एकीभूय कुतो विवदंत इत्यत आह ।। क्वचिदिति ।। सदसतोः प्रशस्ताप्रशस्तयोर्वादिनोः । तदनु-भावयति ।। सुरासुरा इति ।। यद्वा महाप्रमाणभूतो वेदः सदसतोः कथमापाततोऽप्यनुकूल इत्यत आह ।। क्वचिदिति ।। योजनातु पूर्ववत् । दैत्यानाममृताशया देवैस्सहैकवास इव स्वेषामप्युपकारस्स्यादिति दुराशयाऽस्म-देकानुकूले वेदे परेषामपि प्रवेशः । वस्तुतस्तु देवानामेवामृतमिवास्माक-मेवानुकूलो वेद इति भावः । यद्वा वेदोक्तयज्ञकर्तव्यत्वादौ उभयोस्संमत्या त्वया सह विवाद इति भावः ।। ३०६ ।।

सत्यप्रमोदटीका

 स्थानैक्यतः, स्थानं वेदप्रामाण्यादिकं यत्किञ्चित्, आपाततः सम्प्रतिपत्तिविषयः, तस्य ऐक्यतः साधारण्यमपेक्ष्य । तात्पर्यार्थे तु सम्प्रतिपत्तिर्नास्त्येव । यथा समुद्रमथनसमये असुरैः कृते सर्पस्य मुख-भागग्रहणे, उच्चैःश्रवसः सुरायाश्च स्वीकारे सुराणां सम्प्रतिपत्तिः तद्वत् । यथा च ईप्सितस्य अमृतस्य लाभः सुराणामेव, दैत्यानां तु सत्याच्च्युतानां संहृतिरेव, एवं अमृतत्वस्य प्राप्तिः तत्त्ववादिनामेव, मायिनां तु मिथ्यावादिनां तमःप्राप्तिरेव तथेति भावः ।। ३०६ ।।

युक्तिमल्लिका

त्यक्तैकमत्यरूपैक्यान्निघ्नन्ति बलिनोऽबलान् ।

यथा पुरन्दरः पूर्वदेवान्देवर्षिहर्षकृत् ।। ३०७ ।।

सुरोत्तमटीका

 क्वचित्स्थाने एकीभूता एव मत्यैक्याभावे पुनर्विवदन्त इत्येतदपि देवासुरदृष्टान्तेनैव दर्शयति ।। त्यक्तेति ।। ३०७ ।।

सत्यप्रमोदटीका

 पुरन्दरः तत्स्थानीयो जयतीर्थार्यः, पूर्वदेवान् कुसम-यिनः निरस्य, न्यायसुधाप्रदानेन देवर्षिहर्षकृत्, भूसुराणां सन्तोषकृत्

।। ३०७ ।।

युक्तिमल्लिका

प्रतिपक्षी सदृक्षः स्यात्प्राचो नीचो न वै भवेत् ।

कालात्ययापदिष्टस्य नो चेत्सत्प्रतिपक्षता ।। ३०८ ।।

सुरोत्तमटीका

 ननु तथापि सतामसतां च वैदिकत्वेन साम्यात्तत्व-वादिना भवता मायावादी जेतुमशक्य इत्यत आह ।। प्रतिपक्षीति ।। प्रतिपक्षी प्रतिवादी । सदृक्षः सदृशः । तत्ववादिवत् निरवकाशतया वेदार्थवादीति यावत् । प्राचः श्रेष्ठस्य निरवकाशार्थवादिन इति यावत् । नीचः अपकृष्टः सावकाशपूर्वोत्तरविरुद्धार्थवादी । तदनङ्गीकारे बाधकमाह ।। कालात्ययाप-दिष्टस्येति ।। नो चेत् सदृशः (एव) प्रतिपक्षी नो चेत् । कालात्ययापदिष्टस्य सत्प्रतिपक्षता स्यात् । नीचस्यापि प्रतिपक्षत्वे वह्निरनुष्णः पदार्थत्वादित्यनु-मानस्यापि वह्नेरुष्णत्वग्राहिस्पार्शनप्रत्यक्षं प्रति वा तदनुगृहीतप्रबलानुमानं प्रति वा सत्प्रतिपक्षता स्यात् । तथाच कालात्ययापदिष्टस्योच्छेदः स्यादिति भावः ।। ३०८ ।।

सत्यप्रमोदटीका

 प्राचः अपौरुषेयागममूलस्य तथाऽनादिसाक्षिप्रत्यक्ष-सिद्धस्य च तत्ववादस्य, नीचः तयोरतत्वावेदकत्वं वर्णयन् मायावादः । सदृक्षः । समानबलत्वेन विरोधी । नैव भवेत् कुत एव तद्बाधकः इति भावः । हीनबलस्यापि बाधकत्वाङ्गीकारेऽतिप्रसङ्गमाह कालेति । तदुक्तं वादावल्यां ‘अन्यथा दहनशैत्यानुमानमपि तदुष्णतावगाहिप्रत्यक्षबाधेन प्रमाणं प्रसज्येत’ इति ।। ३०८ ।।

युक्तिमल्लिका

महत्त्वं च गुणेनैव नाकारेण धनेन वा ।

सावकाशैक्यवाक्यानि बाधते किं न भेदवाक् ।। ३०९ ।।

सुरोत्तमटीका

 ननु मायावादिनामपि बहुग्रन्थकर्तृत्वात् तत्ववादिसाम्य-मित्यत आह ।। महत्त्वं चेति ।। गुणेनैव युक्त्यादिगुणेनैव । गुणवत एव महत्त्वमुपपादयति ।। सावकाशेति ।। निरवकाशत्वगुणवती भेदवागेकैव सावकाशैक्यवाक्यानि न बाधते किम् । बाधत एव । सावकाशैक्यवाक्या-नीत्यनेन निरवकाशत्वाभावं बहुत्वं नानार्थानुकूलत्वं च ध्वनयति । तथा च निरवकाशभेदवाक्यस्य यथामहत्त्वं सावकाशैक्यवाक्यस्य निरवकाशत्वलक्षण-गुणाभावेनामहत्त्वं च तथा युक्तिरहितबहुग्रन्थकर्तॄणां मायावादिनां न महत्त्वम् । सयुक्तिकग्रन्थकर्तॄणां तत्ववादिनामेव महत्त्वम् । अतो न वैदिकत्वमात्रेणोभयोस्साम्यमिति भावः ।। ३०९ ।।

सत्यप्रमोदटीका

 महत्त्वं बलवत्त्वम् । गुणेन ब्रह्मतर्कोक्तेन ‘बहुत्वाच्च स्वभावतः’ इत्युक्तनिमित्तेन । आकारेण ग्रन्थविस्तरेण । धनेन युक्याभासेन । सावकाशेति उपलक्षणम् उपजीवकेत्यपि ग्राह्यम् । भेदवागित्यनन्तरं निरवकाशा उपजीव्या चेति शेषः । एकाऽपि स्वभावप्रबला भेदवाक् दुर्बला-न्यनेकानि ऐक्यवाक्यानि बाधत एव । तदुक्तं सुमध्वविजये ‘प्राच्यं शास्त्रं यत्सपादं तु लक्षं वाक्येनैकेनाक्षिपद्धर्षतीर्थः’ इति । बहुत्वं च तदीयग्रन्थ-विस्तरापेक्षयैव । वस्तुतस्तु भेदसाधकप्रमाणानामेव बहुत्वम् । तदुक्तं तत्त्वनिर्णयटीकायाम् ‘एवमुपजीव्यत्वनिरवकाशत्वलक्षणस्वभावबलवत्प्रमाण-बाधितत्वात् ऐक्यागमस्याप्रामाण्यमित्युक्तम् । न केवलमेतावत् किन्तु बहुत्वलक्षणबलवद्भिरेतैरेव प्रमाणैर्बाधितत्वाच्च’ इति ।। ३०९ ।।

युक्तिमल्लिका

मानत्वस्य स्वतस्त्वेन सा नातत्वं वदेत्क्वचित् ।

दोषश्च वेदेनानादौ बाधोऽप्यन्यार्थतैव तत् ।। ३१० ।।

सुरोत्तमटीका

 ननु मिथ्याभूतमेवाभेदं भेदवाक् वदतीत्यत आह ।। मानत्वस्येति ।। भेदवाक्यजनितभेदज्ञानस्य यन्मानत्वं तद्वतितत्प्रकारकत्व-लक्षणप्रमाणत्वं तस्य स्वतस्त्वेन दोषाभावे ज्ञानकरणमात्रजन्यत्वेनेत्यर्थः । सा भेदवाक् अतत्वं मिथ्याभूतभेदरूपार्थं क्वचिदपि न वदेत् । आवयोर्मते प्रामाण्यस्य स्वतस्त्वेनौत्सर्गिकत्वात् भेदवाक्यजनितं ज्ञानमुत्सर्गतः प्रमैव भवेत् । अतस्तद्विषयो भेदोऽपि विद्यमान एव भवेन्नाविद्यमान इति भावः । ननु दोषजन्यत्वेनापवादेन वेदवाक्यजन्यज्ञानेऽप्यप्रामाण्यमित्यत आह ।। दोषश्चेति ।। स्पष्टे निरवकाशे च भेदवाक्ये प्रतिपत्तृदोषा सम्भवेन वेदरूप-करणदोषात् खलु ज्ञाने दुष्टता वाच्या । अनादौ वेदे च स नास्तीति वेदजन्यभेदज्ञानं प्रमैवेति भावः । ननु भवतैवैक्यवाक्यस्य बाध उक्तः । तत्कथं न वेदस्य दुष्टत्वमित्यत आह ।। बाधोऽपीति ।। तत् वेदस्य सर्वथाऽप्रामाण्यरूपदुष्टत्वासम्भवात् आपातप्रतीतविरुद्धार्थप्रच्यावनेना-विरुद्धार्थताकल्पनमेव बाधो न सर्वथाऽप्रामाण्यमेवेति भावः । एतेन भेदवाक्यप्रतीतभेदवत्प्रामाण्यस्य स्वतस्त्वादेवैक्यवाक्यप्रतीतमैक्यमपि तत्वं स्यादिति शङ्का परास्ता । पूर्वोत्तरविरुद्धस्य अत एव वाक्यतात्पर्यापरिज्ञानात् त्वयैव भ्रान्त्या प्रतिपन्नस्य त्वदैक्यस्य वाक्यार्थत्वस्यैवाभावात् । सावकाशेऽ-स्मिन्योग्यस्यैव कस्यचिदैक्यस्य तदर्थत्वाच्च । न हि सिंहो देवदत्त इति वाक्यादापातप्रतीतं सिंहदेवदत्तस्वरूपैक्यं वाक्यार्थ इत्युच्यते । किंतु तयो-स्सादृश्यैक्यमेव । तत्र च तद्वाक्यस्य प्रामाण्यवत् ऐक्यवाक्यस्यापि विरुद्धतया योग्यतारहितत्ववदैक्ये प्रामाण्यायोगेन जीवब्रह्मणोस्सादृश्यैक्य एव प्रामाण्य-मिति स्वतस्त्वेनात्रापि प्रामाण्यनियमात्यागात् । भेदवाक्येतु अर्थान्तरे प्रामाण्यासम्भवात् भेदरूपार्थ एव स्वतस्त्वबलात्प्रामाण्यमिति न भेदवाक्य-स्यैक्यप्रतिबन्दीति भावः ।। ३१० ।।

सत्यप्रमोदटीका

 स्वतस्त्वेन औत्सर्गिकत्वेन । तदुक्तं वादावल्यां ‘प्रामाण्यं हि ज्ञानस्योत्सर्गतः, अपवादादप्रामाण्यम्’ इति । क्वचिदिति । अन्यथा व्याघातादिति भावः । यथोक्तं तत्रैव ‘अतत्त्वावेदकं प्रामाण्यं चेति व्याघातः’ इति । अत्र करणदोषलक्षणोऽपवादो नास्तीत्याह अनादाविति । कथं तर्हि श्रौतस्यैक्यवाक्यस्य बाध इत्यत आह बाधोऽपीति । अन्यार्थतेति । तदुक्तं तत्त्वोद्योते ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति । अन्यार्थश्च

स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

 सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः’

इति अनुव्याख्यानोक्तदिशा बोध्यः ।। ३१० ।।

।। इति बौद्धवादनिरासः ।।