नित्यानामपि नित्यो यश्चेतनानां च चेतनः
नित्यो नित्यानामिति श्रुत्यर्थः
युक्तिमल्लिका
नित्यानामपि नित्यो यश्चेतनानां च चेतनः ।
काम्यानर्थानिमान्सर्वाननित्यसुखदाञ्जडान् ।। ४२२ ।।
एको बहूनां जीवानां विदधाति किलाञ्जसा ।
सोऽन्तर्यामि किलैतेषां सर्वे नित्यसुखार्थिनः ।। ४२३ ।।
सुरोत्तमटीका
अधुना ‘‘नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषामिति’’ भेदविषयकनिरवकाशश्रुत्यन्तरं च व्याख्याति ।। नित्याना-मित्यादिना ।। नित्यानां जीवानामध्ये । नित्यः अतिशयेन नित्य इत्यर्थः । चेतनानां जीवानां मध्ये चेतनः अतिशयेन चेतन इत्यर्थः । नित्यो नित्यानां चेतनश्चेतनानामित्यस्यार्थकथनमिदम् । काम्यानर्थानिमान्सर्वानिति कामा-नित्यस्यार्थकथनम् । काम्यन्त इति कामा इति व्युत्पत्तेरिति भावः । कामान्विदधातीति कामानां सृज्यत्वोक्तेश्शाश्वतसुखस्य च दर्शनफलतया भाव्यत्वोक्तेश्चानित्यसुखदान्जडानित्युक्तम् । जीवानामेव कामसम्भवाद्बहूनां जीवानामित्युक्तम् । सः परमात्मा । एतेषां जीवानाम् । आत्मस्थपदफलित कथनं अन्तर्यामीति । अनित्यसुखस्य प्रागेव सिद्धत्वकथनात्पुनर्ध्यान-दर्शनादेर्भाविशाश्वतसुखमेव फलतयाऽभिलषितमिति भावेनोक्तं सर्वे नित्य-सुखार्थिन इति ।। ४२२,४२३ ।।
सत्यप्रमोदटीका
इदानीं
‘नित्यो नित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषां’
इति काठकश्रुतिं अशेषसिद्धान्तप्रमेयसङ्ग्राहिकां व्याकरोति अष्टविंशति-श्लोकैः नित्येत्यादिभिः । नित्यः नित्यत्वं प्रति स्वातन्त्र्यवान् । स्वयं निरवधिकनित्यत्वाश्रयश्च । ‘स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम्’ इत्युक्तेः । एवं चेतन इत्यत्रापि ध्येयम् । नित्यत्वचेतनत्वादिस्वभावधर्मान्प्रत्यपि नियामकत्वं ‘द्रव्यं कर्म च कालश्च’ इत्यादिप्रमाणात् आकाशाधिकरण-न्यायानुसारेणावगन्तव्यम् । इदं च ‘नित्यानित्यजगद्धात्रे’ इति ईशावास्य-भाष्यटीकायां विवृतम् । अतिशयेन नित्यत्वं च चतुर्विधनाशराहित्यम् । चेतनत्वे अतिशयश्च स्वपराशेषविषयकस्वतन्त्रज्ञानरूपत्वम् । कामान्= कर्मणि व्युत्पत्त्या चेतनैः काम्यमानान् अशेषान् वैषयिकपदार्थान् । एकः ‘तस्य एकत्वसङ्ख्याविधानपरत्वात्’ इति वादावल्युक्तरीत्या एकत्वसङ्ख्यावान् । असहायः स्वतन्त्रो वा । बहूनां अनन्तानां जीवराशीनाम् । विदधाति सृजति । अनेन अचेतनसर्वजगत्स्रष्टृत्वमेवोक्तं भवति । सर्वस्य जीवोपभोग्यत्वेन तददृष्टजन्यत्वात् ।। ४२२,४२३ ।।
युक्तिमल्लिका
आत्मस्थमनुपश्यन्ति नाभेदेन तमीश्वरम् ।
केचित्पश्यन्ति केचिच्च न पश्यन्ति किल प्रभुम् ।। ४२४ ।।
सुरोत्तमटीका
आत्मस्थमनुपश्यन्तीति विशिष्योक्तेर्व्यावर्त्यकथनं नाभेदे नेति । आत्मस्थमेव पश्यन्ति न त्वात्मतयेति भावः । नेतरेषामित्यस्यार्थ कथनम् । केचिच्च न पश्यन्ति किल प्रभुमिति ।। ४२४ ।।
सत्यप्रमोदटीका
आत्मस्थं ‘य आत्मनि तिष्ठन्’ ‘एष ते अन्तर्याम्य-मृतः’ इत्यन्तर्यामिनयोक्तदिशा आत्मान्तर्यामिणं अनुपश्यन्ति नत्वात्म-स्वरूपत्वेन । तेषामेव शाश्वतं सुखं, नेतरेषां भेदेन अपश्यतां अभेदेन पश्यतां वा ।। ४२४ ।।
युक्तिमल्लिका
शाश्वतं तु सुखं तेषामुक्तरीत्यैव पश्यताम् ।
नाभेदकृतबुद्धीनां नाज्ञानां च भवेत्किल ।। ४२५ ।।
सुरोत्तमटीका
अनुपश्यद्भ्य इतरेषामपश्यतां दर्शनायोग्यानामिति यावत् । तेषां सुखं नेत्युक्तेरिदं लब्धम् । सर्वेऽपि पश्यन्ति चेदितरेषां नेति निषेधो व्यर्थस्स्यादिति भावः । तेषामित्यस्यैवार्थकथनमुक्तरीत्यैव पश्यता-मिति । यच्छब्दोक्तानामेव तच्छब्देन परामर्शादिति भावः । एवकारव्यवच्छेद्य-माह ।। नाभेदकृतबुद्धीनां नाज्ञानां चेति ।। भेदेन पश्यद्भ्य इतरत्वमभेदेन पश्यतां सर्वथाऽपश्यतां च सम्भवतीति भावः ।। ४२५ ।।
युक्तिमल्लिका
इत्यशेषं श्रुतिर्नित्यो नित्यानामिति शंसति ।। ४२६ ।।
सुरोत्तमटीका
इत्यशेषं प्रमेयम् । नित्योनित्यानामिति श्रुतिरिति सम्बन्धः ।। ४२६ ।।
युक्तिमल्लिका
चेतनस्यैव जन्मादिकर्तृत्वं यल्लटोदितम् ।
तटस्थत्वकथा तस्य मठस्थाभूत्कुयोगिनाम् ।। ४२७ ।।
सुरोत्तमटीका
एतच्छ्रुतिसिद्धं प्रमेयान्तरं चाह ।। चेतनस्यैवेति ।। चेतनश्चेतनानामित्यत्रोक्तचेतनस्यैव काम्यपदोक्तजडजगज्जन्मादि कर्तृत्वम् । यद्यस्मात् । लटा विदधातीत्यत्र विद्यमानकर्त्रर्थकलटा । तस्य जन्मादिकारणत्व लक्षणस्य । तटस्थत्वकथा अविद्यानिष्ठत्वकथा । मठस्था मठ एवस्थिता न तु सभायां कथितुं योग्येत्यर्थः । अनया श्रुत्या जगज्जन्मादिकर्तृत्वस्य स्पष्टं ब्रह्मचिति शंसनात् तस्यैव श्रौतत्वाविशेषेण विश्वतोमुखतया बहुश्रुत्यर्थ सूचकजन्मादिसूत्रेऽपि लक्षणत्वसम्भवेन ब्रह्मलक्षणस्याब्रह्मनिष्ठत्व कथनमपि न सभायोग्यम् । सूत्रे चास्य जन्मादि यतो भवति तद्ब्रह्मेत्येव योजनायाः प्रसिद्ध-त्वेनोपादानत्वप्राप्तेः कारणाभावात् । कर्तृत्वस्य च चित्येवानुशासनेनान्यत्र नयने कारणाभावाच्छ्रुतित्वाविशेषेणास्या एव श्रुतेर्विषयवाक्यत्वसम्भवाच्चेति भावः ।। ४२७ ।।
सत्यप्रमोदटीका
यत्=यस्मात् । चेतनस्यैव=य इति परामृष्टस्यैव चेतन इत्यस्य । लटा=विदधातीत्यत्रत्येन कर्त्रर्थकेन प्रत्ययेन । तटस्थत्व-कथा=जन्मादिकर्तृत्वं अविद्याया एव लक्षणं, ब्रह्म तु तदारोपाधिष्ठानमात्रम् । अतो नेदं ब्रह्मणः स्वरूपलक्षणं किन्तु तटस्थमेवेति मायिनां वादः । मठस्था=स्वगोष्ठीनिष्ठप्रलापमात्रम् ।। ४२७ ।।
युक्तिमल्लिका
ब्रह्मोपादानतावार्ता निर्मूला चाभवत्ततः ।
कर्तृत्वाद्येशधर्माणामध्यासोऽपि निराकृतः ।। ४२८ ।।
सुरोत्तमटीका
ततः जन्मादिसूत्रे उपादानत्वाप्रसङ्गात् । कर्तृत्वा-द्यानामीशधर्माणामध्यासोऽपि ततो मोक्षोपयोगिसाक्षात्कारविषयत्वान्निराकृत इति ततश्शब्दस्यावृत्तिः ।। ४२८ ।।
सत्यप्रमोदटीका
ततः विश्वतोमुखस्य सूत्रस्योदाहरणवाक्येऽत्र विदधातीति कर्तृत्वस्यैवोक्तेः चेतनस्य विकारित्वलक्षणोपादानत्वासम्भवाच्च । आद्यपदेन नित्यत्वचेतनत्वादयो ग्राह्याः । निराकृत इति अध्यस्तधर्मेषु अत्रोक्तमोक्षहेतुसाक्षात्कारविषयत्वासम्भवादिति भावः ।। ४२८ ।।
युक्तिमल्लिका
महासामर्थ्यमीशस्य प्रभुत्वं च प्रसाधितम् ।
स्वातन्त्र्यं तस्य जीवानां पारतन्त्र्यं च साधितम् ।। ४२९ ।।
सुरोत्तमटीका
ततोऽनन्तजीवापेक्षितकाम्यपदार्थस्रष्टृत्वात्तैर्ध्येयत्वाच्च महासामर्थ्यं प्रभुत्वं च प्रसाधितमिति पूर्ववदावृत्त्या योजनीयम् । महा-सामर्थ्यमित्युपलक्षणम् । अनन्तपदार्थोपादानद्रष्टृत्वात्सार्वज्ञ्यं च । तस्य नारायणस्य । एक एव विदधाति न त्वन्यप्रेरित इत्युक्तया स्वतन्त्रः कर्तेति वचनात्कर्तृत्वोक्तया च स्वातन्त्र्यम् । तद्दत्तभोगभोक्तृत्वाज्जीवानां पारतन्त्र्यं च
।। ४२९ ।।
सत्यप्रमोदटीका
हरिः महासामर्थ्यवान् अशेषजगत्स्रष्टृत्वात् प्रभुः शाश्वतसुखप्रदत्वात् व्यतिरेकेण जीववत् इति प्रसाधितम् । अखिलजगदुपादान गोचरापरोक्षज्ञानस्य सार्वज्ञस्य कर्तृत्वान्तर्गतत्वयैव सिद्धिरित्याह सार्वज्ञेति । नित्यो नित्यानां इति स्वभावनियामकत्वकथनेन एवं चेतनश्चेतनानां इति जीवान्प्रति बिम्बत्वशंसनेन च सिद्धमाह स्वातन्त्र्यमिति । तत एव प्रतिबिम्बानां जीवानां पारतन्त्र्यं च सिद्धमित्याह जीवानामिति ।। ४२९ ।।
युक्तिमल्लिका
निर्धारणे तु या षष्ठी सा निर्धारितवस्तुनि ।
आधिक्यं वक्त्यतश्चेशे सार्वज्ञं नित्यदेहिता ।। ४३० ।।
सुरोत्तमटीका
अतः कारणाच्च चेतनश्चेतनानामित्यनेन सार्वज्ञम् । नित्यो नित्यानामित्यनेन नित्यदेहिता अनित्यदेहेभ्यस्स्वरूपतो नित्येभ्यश्च जीवेभ्योऽतिशयः परिशेषात्साधिता एवेति भावः । पूर्वमपि सार्वज्ञस्य प्रसाधितत्वाच्चशब्दः ।। ४३० ।।
सत्यप्रमोदटीका
निरवधिकप्रवृत्तिनिमित्ताश्रयत्वरूपमहायोगवृत्तेः नित्य चेतनशब्दयोर्वर्णितत्वेन नित्यत्वचेतनत्वयोः आधिक्यं निरतिशयत्वं च सिद्ध-मित्याह आधिक्यमिति । तदेव विविच्याह सार्वज्ञमिति । चेतनत्वे अतिशयः सार्वज्ञं नित्यत्वेऽतिशयश्च नित्यदेहितेति विवेको द्रष्टव्यः ।। ४३० ।।
युक्तिमल्लिका
अभ्यासेन गुणेष्वस्यास्तात्पर्यं गम्यते श्रुतेः ।। ४३१ ।।
सुरोत्तमटीका
गुणेषु नित्यत्वचेतनत्वैकत्वकर्तृत्वाद्युक्तया भगवद्गुणे-ष्वेवाभ्यासेनासकृदुक्तया पौनःपुन्येन गुणानामेव कथितत्वादित्यर्थः । अस्या-श्श्रुतेरिति सम्बन्धः ।। ४३१ ।।
सत्यप्रमोदटीका
अभ्यासेनेति स्वातन्त्र्यस्य नित्यः इति स्वभाव-नियामकत्वेन एक इत्यसहायत्वेनेत्यादिना एवं सार्वज्ञस्य चेतन इति परम-चेतनत्वेन विदधातीति जगत्कर्तृत्वेन इत्येवं प्रत्येकं गुणानामसकृदुक्त्येत्यर्थः ।। ४३१ ।।
युक्तिमल्लिका
अनन्तानन्तजीवेषु स्थितस्याप्येकतोक्तितः ।
अनन्तस्वावताराणां स्वस्य चाभेद ईरितः ।। ४३२ ।।
सुरोत्तमटीका
स्थितस्य आत्मस्थमित्युक्तयाऽनन्तरूपैस्स्थितस्य । एक इत्येकत्वोक्तितः ।। ४३२ ।।
सत्यप्रमोदटीका
अनन्तानन्तजीवेषु=चेतनानां, तेषां, नेतरेषां, इत्यादिबहुवचनप्रयोगेण तथा बहूनामिति असङ्कोचेन बहुत्वोक्त्या च सिद्धानन्त्यविशिष्टेषु । एकतोक्तितः=चेतनः नित्यः आत्मस्थ इत्याद्येकवचन-प्रयोगेण तथा एकः इति कण्ठोक्त्या च । स्वावताराणां= स्वस्यान्तर्यामि-रूपाणां, यद्वा बहूनां=साधूनां तत्तत्काले परित्राणाय कामान्विदधातीत्युक्त-तदभीष्टदानसिद्धये स्वीकृतानां रामकृष्णाद्यवताररूपाणाम् । अभेदोक्त्या एक इति तथा यः तं इत्येकवचनेन च । अभेदः स्वगतभेदराहित्यम्
।। ४३२ ।।
युक्तिमल्लिका
भेदकार्यकरश्शक्तिविशेषः परमात्मनि ।
पुच्छस्य पुच्छिनैक्यं तत्कैमुत्येन प्रसाधितम् ।। ४३३ ।।
सुरोत्तमटीका
भेदकार्यकरः एकत्वेऽप्यनन्तरूपत्वाख्यभेदकार्यकरः । एक इति श्रुत्या ब्रह्मणि स्वगतभेदाभावस्सर्वसंप्रतिपन्नः । उक्तविधया भेद-कार्यस्यापि दर्शनात् तत्साधको भेदप्रतिनिधिस्सामर्थ्यविशेषाख्यो विशेषोऽपि भगवत्यनयैव श्रुत्याऽर्थात्प्रसाधित इति भावः । तत्तस्मात् । दूरदूरस्थानेक-रूपैर्मूलरूपस्यैक्य कथनात्पुच्छस्याऽनन्दमयपादस्य पुच्छिनाऽनन्दमयाख्या-वयविना । भिन्नभिन्नजीवगतान्योन्यासम्बद्धरूपाणामैक्यसिद्धौ सदा सम्बद्धैक-देहभाग भूतपुच्छैक्यस्य सुतरां सिद्धेः कैमुत्येनेत्युक्तम् ।। ४३३ ।।
सत्यप्रमोदटीका
विशेष इति न च अचिन्त्यशक्त्यैवोपपत्तिः । भेद-व्यवहारनिर्वाहाय यथाप्रमाणं विशेषस्याप्यभ्युपगमनीयत्वात् इत्याशयः । कैमुत्येनेति । विश्लिष्टानामैक्ये संश्लिष्टस्य पुच्छस्य सुतरां तत्सिद्धेरिति भावः ।। ४३३ ।।
युक्तिमल्लिका
स्वाभेदेन गुणादीनां चिन्मयत्वं प्रसादितम् ।
ध्येयतोक्त्येष्टदैवत्वं सौन्दर्यं सुप्रसन्नता ।। ४३४ ।।
सुरोत्तमटीका
स्वाभेदेन स्वगतसकलगुणाद्यभेदकथनेन । आदिपदेन देहादिकं गृह्यते । आत्मस्थमात्मनि ध्येयतया स्थितमित्यपरोक्षज्ञानसाधन-ध्यानस्यापि कथनाद्ध्येयतोक्तयेत्युक्तम् । अन्यथाऽऽत्मस्थत्वमात्रस्यासुर-जीवेष्वपि विद्यमानत्वात्तेषामपि दर्शनप्रसङ्गः ।। ४३४ ।।
सत्यप्रमोदटीका
चिन्मयत्वं इत्यत्र मयटः तादात्म्यमर्थः । गुणानां चित्स्वरूपतोक्त्या अरूपमस्पर्शमित्यादिश्रुतेः प्राकृतगुणनिषेधो गतिरुक्ता भवति । ध्येयतेति अनुपश्यन्तीत्यस्य निदिध्यासनसाक्षात्कारोभयकर्तृत्वार्थस्य विवक्षितत्वात् मानसवशसनापरिणतस्य वस्तुनो मनसाऽवलोकनस्यैव च ध्यानरूपत्वादिति भावः । एवंविधं आदरनैरन्तर्याभ्यां बहुकालोपचितं ध्यानं, ध्येयस्य दैवस्य इष्टत्वं सौन्दर्यं सुप्रसन्नत्वं च विना न सञ्जाघटीतीति भावः ।। ४३४ ।।
युक्तिमल्लिका
तदन्तस्थस्य सार्वज्ञशक्तिस्वातन्त्र्यपूर्वकाः ।
स्रष्टृत्वकामदातृत्वमुक्तिदत्वादयो गुणाः ।
सर्वेश्वरत्वपूर्णत्वनित्यत्वाद्याश्च साधिताः ।। ४३५ ।।
सुरोत्तमटीका
भेदसाधनार्थमुक्तयाश्रुत्याऽऽनुषङ्गिकतया सिद्धभगव-द्गुणानपि बुद्धावारोहाय संगृह्णाति ।। तदिति ।। तत्श्रौतपदरत्नबलात् । बहूनां कामान्विदधातीत्युक्तया स्वस्य तदनपेक्षत्वलाभात्पूर्णत्वसिद्धिरिति द्रष्टव्यम् ।। ४३५ ।।
सत्यप्रमोदटीका
तदन्तस्थस्येति । अन्तर्यामित्वरूपस्यात्मत्वस्य गुणपूर्तिरूपत्वात् सार्वज्ञादिगुणानामपि सिद्धिरनेनैव सुलभेत्युक्तं भवति
।। ४३५ ।।
युक्तिमल्लिका
मोक्षोपयोगिज्ञानत्वं तमित्युक्त्यैषु दर्शितम् ।
ततोऽपि तद्गुणाम्भोधेः पारमार्थ्यं प्रसिद्ध्यति ।। ४३६ ।।
सुरोत्तमटीका
एषु गुणेषु ।। ४३६ ।।
सत्यप्रमोदटीका
पारमार्थ्यमिति आविद्यकज्ञानेनाविद्यानिवृत्तिरूप-मोक्षस्यासम्भवादेवेति भावः ।। ४३६ ।।
युक्तिमल्लिका
मुक्तानां बहुता मुक्तस्वामित्वं च प्रभोरभूत् ।
आत्मस्थभगवद्दृष्टेर्मुक्तावप्यनुवर्तनम् ।। ४३७ ।।
सुरोत्तमटीका
तेषां शाश्वतं सुखमित्युक्तया मुक्तानां बहुता । तस्य च सुखस्य तं येनुपश्यन्ति तेषां सुखमितरेषां नेत्युक्तयाऽपरोक्षज्ञानप्रसन्न भगव-दधीनत्वलाभात् मुक्तस्वामित्वं च सिद्धमिति भावः । येऽन्वपश्यन्नित्य-नुक्त्वाऽनुपश्यन्तीति लटा निर्देशात् सुखकाले आत्मस्थसगुणभगवद्दर्शन-स्याप्युक्तया तस्य मुक्तावप्यनुवर्तनं सिद्धमित्यर्थः । इतोऽपि गुणादेर्न मिथ्यात्वमिति भावः ।। ४३७ ।।
सत्यप्रमोदटीका
तेषामिति बहुवचनेन मुक्तानां बहुत्वम् । येऽनु-पश्यन्ति तेषामेव नेतरेषामित्युक्त्या ‘यस्य प्रसादात्परमार्तिरूपादस्मा-त्संसारान्मुच्यते नापरेण’ इति प्रमाणानुरोधेन मोक्षस्य प्रसादैकसाध्यत्वलाभेन ‘मुक्तानां परमा गतिरि’त्युक्तं मुक्तस्वामित्वं च सिद्धमित्याह मुक्तेति । अनुपश्यन्तीत्यस्य दर्शनजन्यप्रसादवन्तो भवन्तीत्यर्थकत्वात् । अनुपश्यन्तीति दर्शनस्य मोक्षानन्तरमनुवृत्तिः तस्य सुखरूपता च लब्धेत्याह आत्मेति ।। ४३७ ।।
युक्तिमल्लिका
पञ्चभेदास्तया सिद्धा मुक्तेर्नित्यसुखात्मता ।
भेदज्ञानैकसाध्यत्वमुक्तसर्वविशेषणैः ।। ४३८ ।।
तारतम्येन तद्दृष्टिर्जीवानां त्रिप्रकारता ।
आत्मस्थद्रष्टृभिन्नत्वं द्वेधा भवति यद्विदाम् ।। ४३९ ।।
सुरोत्तमटीका
तया श्रुत्या । पञ्चभेदसिद्धिप्रकारं स्वयमेव वक्ष्यति । सुखस्य शाश्वतत्वकथनादात्मस्थं येऽनुपश्यन्तीति कथनाच्च मुक्तेर्नित्य-सुखात्मता भेदज्ञानैकसाध्यत्वं च सिद्धमिति योजना । तमितिश्रुत्युक्तसकल-विशेषणविशिष्टस्य परामर्शात् तदित्युक्तम् । अनुपश्यन्तीत्यत्रोक्तस्यान्वित्युप-सर्गस्यानुसृत्येत्यर्थ सद्भावाद्योग्यतामनुसृत्येत्युक्तम् । अनन्तरमित्यस्यापि सद्भावाद्विष्णोरनु ब्रह्मा तमनु रुद्र इत्यस्यार्थस्य लाभात्तारतम्येनेत्युक्तम् । तस्य भगवतो दृष्टिस्तद्दृष्टिः । सा च सा दृष्टिश्चेति वा । यद्यस्मात् । विदां विदुषां मते । द्वेधा वैपरीत्येन द्रष्टृतया सर्वथा तदद्रष्टृतया च । तत्तस्मात् । द्रष्टॄणां विपरीतद्रष्टॄणां अद्रष्टॄणां जीवानां च लाभात् । यद्वा द्वेधा वैपरीत्येन द्रष्टृतयो-भयथापि द्रष्टृतयेत्यर्थः । एवं च सम्यग्द्रष्टृविपरीतद्रष्टृमिश्रद्रष्टॄणां च लाभा-दित्यर्थः ।। ४३८,४३९ ।।
सत्यप्रमोदटीका
शाश्वतं सुखमित्युक्त्या लब्धमर्थमाह नित्येति । एतेन निर्विशेषात्मभावत्वं एकविंशतिदुःखध्वंसरूपतां इत्यादिना मोक्षस्वरूपं अन्यथा वर्णयतो दुर्वादाः निराकृताः । आत्मस्थं न तु आत्मत्वेन इत्युक्त्या लब्धमर्थमाह भेदेति । तच्च विज्ञानं पूर्वोक्तं भेदज्ञानम् । विशेषणैः व्यावर्तक-धर्मैः सहितम् । तमिति सकलगुणविशिष्टस्यैव परामर्शादिति भावः । ‘अनु’ इत्यस्य अनुसृत्येत्यर्थः । योग्यतया अनादिसिद्धयोग्यतातारतम्यलाभः । अनेन ॐ नाविशेषादिति सूत्रार्थ उक्तः । अनेन साधने तारतम्यकथनेन ‘साधन-स्योत्तमत्वेन साध्यं चोत्तममाप्नुयुरि’ति प्रमाणानुसारेण मुक्तौ च तारतम्य-सिद्धिः निरूपिता । त्रिप्रकारतामुपपादयति नेतरेषामिति । तथा हि । इतरेषा-मित्युक्तं आत्मस्थत्वेन सर्वोत्तमत्वेन तावद् द्रष्टृभिन्नत्वं द्वेधा । ऐक्येन असर्वोत्तमत्वेन च । तथा च तत्त्वज्ञानिनः अन्यथाज्ञानिनः मिश्रबुद्धयश्चेति त्रिप्रकारता । तदनुरोधेण फलस्यापि त्रिप्रकारताऽनेनैवोक्ता ध्येया । तत्त्व-ज्ञानिनां शाश्वतं सुखम् । ऐक्यज्ञानिनां तु शाश्वतं न सुखम् । नञो विरोधार्थकत्वेन शाश्वतं दुःखम् । मिश्रबुद्धीनां तु न शाश्वतं सुखं, दुःखामिश्रं सुखं वा, किन्तु दुःखमिश्रमेवेत्यर्थलाभात् ।। ४३८,४३९ ।।
युक्तिमल्लिका
चेतनानां बहुत्वोक्त्या जीवभेदः परस्परम् ।
दातुः प्रभोरनेकेभ्यो भेदश्चैकस्य सिद्ध्यति ।। ४४० ।।
सुरोत्तमटीका
पञ्चभेदसिद्धिप्रकारं दर्शयति ।। चेतनानामिति ।। इदं च बहूनामित्यस्योपलक्षणम् । चेतनानां बहुत्वोक्तया दातुः प्रभोरेकस्येति विशेषणबलादनेकेभ्यः प्रतिग्रहीतृभ्यो भृत्येभ्यश्चेति लभ्यते ।। ४४० ।।
सत्यप्रमोदटीका
बहुत्वोक्त्येति । बहूनामिति साक्षात् कण्ठतः, नित्यानां, चेतनानां, ये, तेषां, इति बहुवचनप्रयोगेण चेत्यर्थः । एकस्येति । एक इत्युक्तस्य यः तमिति च एकवचनान्तशब्देन परामृष्टस्य चेत्यर्थः ।। दातुःप्रभोरिति च भेदकधर्मकथनम् । तेन अनेकेभ्य इत्यनन्तरं प्रतिगृहीतृभ्यः भृत्येभ्यः इति चोपस्कर्तव्यम् ।। ४४० ।।
युक्तिमल्लिका
तेन जीवेशयोर्भेदस्साधितस्सोपपत्तिकः ।
मोक्षोपयोगिज्ञानत्वाद्भेदस्यात्यन्तसत्यता ।। ४४१ ।।
सुरोत्तमटीका
तेन बहुविधभेदकधर्मसद्भावेन ।। ४४१ ।।
सत्यप्रमोदटीका
ज्ञानत्वात्=ज्ञानविषयत्वात् ।। ४४१ ।।
युक्तिमल्लिका
काम्यानां च बहुत्वोक्त्या जडभेदः परस्परम् ।
तेषामीशकृतत्वोक्त्या जडेश्वरभिदा तथा ।। ४४२ ।।
सुरोत्तमटीका
कामानिति काम्यानां बहुत्वोक्तया । तेषां काम्यानाम् । विदधातीति ईशकृतत्वोक्तया ।। ४४२ ।।
सत्यप्रमोदटीका
काम्यानां मुक्तैरमुक्तैश्च काम्यमानानां गन्धमाल्या-दीनाम् ।। ४४२ ।।
युक्तिमल्लिका
सृष्ट्युक्त्या तस्य जगतस्सत्यत्वमपि सिद्ध्यति ।
सदैव वर्तमानत्वं लटा विश्वस्य सूचितम् ।। ४४३ ।।
सुरोत्तमटीका
तस्य काम्यरूपस्य । मिथ्याभूतशुक्तिरजतादेश्श-शशशृृङ्गस्य च सृष्ट्यदर्शनादिति भावः । निर्माणक्रियायास्सदातनत्वे निर्मेय-जगतोऽप्यर्थात्सदातनत्वलाभात्सूचितमित्युक्तम् ।। ४४३ ।।
सत्यप्रमोदटीका
सत्यत्वमिति । ‘सतो हि घटादेरुत्पत्तिर्दृष्टा नासतः शशविषाणादेरि’ति मायिभाष्योक्तरीत्यैवेति भावः । लटेति क्रियासा-तत्यार्थकेनेति भावः । वर्तमानत्वं प्रवाहत इति शेषः । ‘न काप्यनीदृशं विश्वं तत्तत्कालानुसारतः’ इति भगवत्पादोक्तेः । विधानविधीयमानयोः सम-कालीनत्वनियमात् ‘याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः’ इति समाख्यानाच्च ।। ४४३ ।।
युक्तिमल्लिका
जीवसम्बन्धितोक्त्या च जडजीवभिदा स्फुटा ।। ४४४ ।।
सुरोत्तमटीका
बहूनां कामानिति जीवसम्बन्धितोक्तया सम्बन्धस्य षष्ठ्यर्थत्वात्तस्य च द्विनिष्ठतायाः प्रसिद्धत्वात्स्फुटेत्युक्तम् । उपलक्षणं चैतत् । कार्यत्वाकार्यत्वाभ्यां जडत्वचेतनत्वाभ्यां चेति द्रष्टव्यम् ।। ४४४ ।।
सत्यप्रमोदटीका
जीवसम्बन्धितेति बहूनामिति षष्ठ्या इत्यादिः ।।४४४
युक्तिमल्लिका
एकजीवकथा जीवाभेदो जीवेश्वराभिदा ।
चिद्रूपतैव जीवानां चित्यकर्तृत्वमित्यपि ।। ४४५ ।।
सुरोत्तमटीका
एवं स्वमतसिद्धिप्रकारमुक्त्वा परमतनिराकरणप्रकार-मप्याह ।। एकजीवेति ।। बहूनामिति जीवबाहुल्यकथनादेकजीवकथा एक एव जीव इति कथा । बहुजीववादेऽपि जीवाभेदः । जीवानां परस्परभेदश्चोक्त-विधया जीवेश्वरभेदसाधनाज्जीवेश्वराभिदा । मुक्तौ संसारे च सुखभोक्तृत्व-कथनात् जीवानां चिद्रूपतैव भोक्तृत्वादिरहित चिन्मात्ररूपतेत्यर्थः । चेतनो विदधातीत्युक्तत्वात् चितोऽकर्तृत्वम् ।। ४४५ ।।
सत्यप्रमोदटीका
जीवानां इति । ब्रह्मणश्चेति योज्यम् । चिद्रूपता जहदजहल्लक्षणया प्रातिपदिकार्थत्वम् । अकर्तृत्वं अन्तःकरणगतकर्तृत्वादीनां चिति अध्यासः ।। ४४५ ।।
युक्तिमल्लिका
निष्प्रकारैक्यविज्ञानान्मुक्तिर्जगदसत्यता ।
सकृत्सर्वविमोक्षश्चेत्येतत्सर्वं हि दूषितम् ।। ४४६ ।।
सुरोत्तमटीका
आत्मस्थं तमनुपश्यन्तीति स प्रकारकभेदज्ञानस्योक्त-त्वान्निष्प्रकारकैक्यविज्ञानान्मुक्तिः । निष्प्रकारं च तदैक्यविज्ञानं चेति समासः । स्रष्टृत्वोक्तेर्जगदसत्यता । तेषां सुखमितरेषां नेत्युक्तेस्सकृत्सर्व मोक्षश्चेत्ये-तत्सर्वमनया श्रुत्या विदूषितमिति सम्बन्धः ।। ४४६ ।।
सत्यप्रमोदटीका
निष्प्रकारकेति । तमात्मस्थं इति सविशेषणस्यैव परामर्शादिति भावः । सकृदिति । तेषां नेतरेषां इति बद्धमुक्तव्यवस्थोक्तेरिति भावः ।। ४४६ ।।
युक्तिमल्लिका
एतावन्तमपि ह्यर्थमेकैव श्रुतिराददे ।
सर्वश्रुत्यर्थकुशलौ सूत्रभाष्यकृतौ स्तुमः ।। ४४७ ।।
सुरोत्तमटीका
उक्तरीत्या सकलस्वसिद्धान्तसाधिकां सकलपरमत-बाधिकां चेमां श्रुतिं स्तुवन्नेतादृशसकलश्रुतिमीमांसानिपुणौ सूत्रभाष्यकारौ च स्तौति ।। एतावन्तमित्यादिना ।। ४४७ ।।
युक्तिमल्लिका
तस्मादेकाङ्गवीरोऽयं वेदव्यासभटाग्रणीः ।
तत्तद्वाक्यैश्च तत्सिद्धौ द्विर्बद्धस्य सुबद्धता ।। ४४८ ।।
सुरोत्तमटीका
अयमुक्तवाक्यरूपो वेदव्यासभटाग्रणीरेकाङ्गवीर-स्सहायान्तरमनपेक्ष्य स्वयमेक एव सर्वदुर्मतसेनासंहारक इत्यर्थः । तत्तद्वाक्यै-र्जगत्सत्यत्वादि साधकैस्तैस्तैर्विश्वं सत्यं, द्वासुपर्णा, गुणाश्श्रुतास्सुविरुद्धाश्च देवे सन्तीत्यादि वाक्यैस्तत्सिद्धौ जगत्सत्यत्वादिसिद्धौ । एकप्रमाणोक्त-स्यार्थस्य प्रमाणान्तरेण साधनेऽनुवादकतयाऽप्रामाण्यं यः परोऽवक्ति सः द्विर्बद्धं सुबद्धं भवतीति लौकिकाभाणकमपि न जानातीतिसूचनाय द्विर्बद्धस्य सुबद्धतेत्युक्तम् ।। ४४८ ।।
सत्यप्रमोदटीका
अयं पूर्वश्लोकोक्तो भाष्यकारः एकाङ्गवीरः सूत्रानु-गृहीतेन एकेनापि श्रुतिवाक्येन ओन वीरः सिद्धान्तभूतसर्वप्रमेयसमर्थनकार्य-स्यान्तगामी । एवं तर्हि किं प्रातिस्विकतया तत्तत्प्रमेयसाधकानां इतरेषां प्रमाणानामनुवादकत्वेनाप्रामाण्यं इत्यत आह द्विः इति । उपलक्षणं बहुवार-मित्यर्थः । बद्धस्य प्रमितस्य सुबद्धता सुदृढतया क्षिप्रनिःशङ्कप्रवृत्तिजनकता । तदुक्तं भगवत्पादैः बहुप्रमाणसंवादश्च दाढर्््यहेतुरेव’ इति । एवं सुधायामपि ‘यावद्यावदधिकं प्रमीयते तावत्तावन्निःशङ्कां क्षिप्रप्रवृत्तिं प्रसूते इत्यनुभव- सिद्धमि’ति । अनेनैव लोकव्यवहारमप्यत्र प्रमाणयति द्विरिति । न तु द्वितीयादिबन्धनस्य अकार्यकारितेति भावः ।। ४४८ ।।
युक्तिमल्लिका
तद्व्यासकृतविस्तारा श्रुतिः सूत्रानुसारिणी ।
तानि सर्वाणि भेदादेस्साधकानीति सुस्थितम् ।। ४४९ ।।
सुरोत्तमटीका
तत्तस्मात् । तानि सूत्राणि । सुस्थितम् । सकल-मस्मन्मतप्रमेयं सुस्थितमासीदित्यर्थः ।। ४४९ ।।
सत्यप्रमोदटीका
विस्तारः, विभागः अर्थनिर्णयो वा तानि सूत्राणि । तदुक्तं महाभारततात्पर्यनिर्णये
‘सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता ।
अभेदः सर्वरूपेषु जीवभेदः सदैव हि ।
विष्णोरुक्तानि सूत्रेषु सर्ववेदेड््यता तथा’
इति तस्मात्सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः इति च ।। ४४९ ।।