मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरम्
असङ्गश्रुतेरर्थः
युक्तिमल्लिका
मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरम् ।
गौरियं वाक्शुनी नेयं पुच्छं तस्या विचारय ।
यतः प्रकृतिरेवैषा माया पुच्छेऽत्र गीयते ।। १२२ ।।
सुरोत्तमटीका
मायिनं तु महेश्वरमिति श्रुत्या ब्रह्मणि मायाश्रवणात् सर्वमिदं कल्प्यत इति शङ्कां सोपहासं परिहरति ।। मायां त्विति ।। मायान्तु प्रकृतिं विंद्यान्मायिनं तु महेश्वरमिति इयं वाक् गौः गृष्टिः शुनी इयं वाक् न तत्र हेतुसूचनाय गृष्टिरित्यनुक्त्वा गौरित्येवोक्तम् । गोशब्दस्य गृष्टिवाचोरु-भयोरपि समत्वात् गोत्वमेव सम्भावितं न शुनीत्वमिति भावः । अत एव परमात्मनः जगत्कारणीभूतप्रकृतिनियामकत्वाख्यमहिमामृतमेव दोग्धि न तु स्वदंशनेन भगवति अज्ञानरूपव्रणं साधयतीति ध्वनितम् । ननु श्लोकरूपस्य वाक्यस्य पादचतुष्टयवत्त्वात् कथं गोत्वमेव निर्णीयत इत्यत आह ।। पुच्छ-मिति ।। तस्याः वाचः पुच्छं पुच्छवत्पृष्ठलंबिनं अंशम् । मायां तु प्रकृतिं विंद्यादिति वाक्यशेषमिति यावत् । यतः पुच्छे एषा माया प्रकृतिरेव प्रगीयते । एवकारेण पराभिलषितानिर्वाच्याविद्यां व्यावर्तयति । एवं चेदं पुच्छं उक्तभगवन्महिमानुकूलतया ऋज्वेव न तु भगवन्महिम्नो वक्रम् । एवं च पुच्छविचारणे ऋजुपुच्छतया गोत्वमेवास्याश्शोभते न तु शुनीत्वं तल्लक्षकवक्र-पुच्छाभावादिति भावः।। १२२ ।।
सत्यप्रमोदटीका
श्रुतौ मायित्वोक्त्या ब्रह्मणो भ्रान्तिसिद्धिरिति चोद्यं प्रत्याचष्टे मायामिति । स्यादप्येवं यदि ‘मायिनं’ इति श्रुतौ मायाशब्दस्या-ज्ञानमर्थः मतुपश्च तदाश्रयत्वमर्थोऽभिमतो भवेत् । नैतदस्ति । मायाशब्दोऽत्र प्रकृतिपरः । मतुप् च स्वामित्वार्थकः । तथा च प्रकृतिस्वामी इत्येवार्थ-सिद्धिः । कुत एतदुभयमित्यतः तिष्ठन्तु प्रमाणान्तराणि, अत्रैव वाक्ये तथा व्याख्यानादित्याह तस्या इति । पुच्छं ‘मायां तु प्रकृतिं विद्यादि’ति पूर्ववाक्यम् । महेश्वरं इत्युत्तरभागं च । न खलु प्रकृतिमहेश्वरोऽज्ञानी भ्रान्तो वेति सम्भावनार्हमिति भावः । विचारयेत्यनेन शास्त्रार्थनिर्णयप्रकारस्येत्थंभावं सूचयति । शब्दस्य नापातप्रतीत एवार्थः । किं तु मानान्तराविरुद्धः पूर्वोत्तराविरुद्धश्च । अन्यथा मीमांसावैयर्थ्यात् । तदुक्तं वार्तिके
‘अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।
अन्यश्च परिपूर्णेन समस्ताङ्गोपसंहृतौ’ इति ।
एकमात्राङ्गेन निर्णये लोकेऽप्यतिप्रसङ्गं श्लेषोक्त्याऽनुरूपदृष्टान्तेन दर्शयति गौरिति । इयं वाक् विष्णोर्गुणोत्कर्षे महातात्पर्यवत्त्वेन प्रमिता श्रुतिवाक् । गौः चिदचित्प्रकृतिनियामकत्वलक्षणमहिमामृतस्यैव दीग्घ्री । शुनी स्वदंशनेन भगवति अज्ञानरूपव्रणकारिणी वक्रपुच्छा । पुच्छमित्युपलक्षणम् ।महेश्वरमिति सास्नादिमत्त्वस्थानीयमग्रभागं चेत्यपि ग्राह्यम्।।१२२ ।।
युक्तिमल्लिका
यथा कुलालश्चक्री स्यात्तथा मायी तया सृजन् ।। १२३ ।।
सुरोत्तमटीका
ननु मायायाः प्रकृतित्वेप्यप्राकृतस्य भगवतः प्राकृत-त्वाख्यदोषस्स्यादित्यत आह ।। यथेति ।। यथा स्वशालास्थितचक्रमादाय तेन घटं सृजन्कुलालश्चक्री स्यात् । तथा तथा प्रकृत्याख्यमायया जगत्सृजन्नपि मायी स्यात् । चक्रिपदवाच्यस्य कुलालस्य चक्रेण बन्धाभाववत् मायिपद वाच्यस्य भगवतो मायया बन्धाभावात् ।मायाबद्धत्वरूपप्राकृतत्वं कथं स्यादिति भावः।।१२३ ।।
सत्यप्रमोदटीका
तदस्यास्तीति सम्बन्धसामान्यं मतुबर्थः । स च सम्बन्धः न समवायादिरेव । किं तु स्वामित्वमपि । तदुक्तं ‘स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । स्वातन्त्र्यं तत्र मुख्यं स्यादि’ति । तदेतद्-दृष्टान्तनिष्ठतया प्रदर्शयति यथेति । अयं भावः । यदि समवाय एव मतुबर्थः तर्हि चक्रावयव एव चक्रिपदप्रयोगः स्यात् । यदि वा संयोगस्तदा कुलाल-शालागृहे । नैवमस्ति । किं तु गृहाद्बहिर्भावदशायामपि कुलाल एव । तेन ज्ञायते स्वामित्वं एव तत्र तत्पदप्रयोगे निमित्तमिति । ‘प्रकृतिं विन्द्यादि’ति उपादानस्य प्रकृतत्वेऽपि निमित्तस्य चक्रस्य निदर्शनेन उभयविधकारणस्य नियामकत्वं श्रौतमहेश्वरपदोक्तं द्योत्यते । तथा हि श्रुतिः
‘चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीं रवीविपदि’ति ।
स्मृतिश्च ‘भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायये’ति । तथा स्वामित्वेन निमित्तेन । मायीति महेश्वर इति पूर्वप्रकृतः सम्बध्यते । तया प्रकृत्या । सृजन्निति । यथोक्तं ‘मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरमि’ति ।। १२३ ।।
युक्तिमल्लिका
किं न कोशस्थवित्तेन धनी राजा वनेचरः ।
मतुपा सर्वसर्वस्वं गले तस्य न निक्षिप ।। १२४ ।।
सुरोत्तमटीका
अधुना मायिपदप्रयोगेऽपि भगवतो मायातिदूरत्वे दृष्टान्तमाह ।। किं न कोशस्थेति ।। वनेचरः राजा कोशस्थवित्तेन धनी न किम् । तत्स्वामित्वसम्बन्धेन भवत्येव । तस्यापि धनाधारत्वमेवास्त्विति मन्दाशङ्कां सोपहासं परिहरति ।। मतुपेति ।। धनीति मतुबर्थकेन्प्रत्ययबलात् सर्वसर्वस्वं गजतुरगादिसर्वसर्वस्वं तस्य राज्ञो गले न निक्षिप । तथा सति राजमरणेनाराजकं राष्ट्रं स्यादित्युपहासः । अतश्श्रुतिरपि न त्वदभिलषितार्थ-साधिका ।। १२४ ।।
सत्यप्रमोदटीका
स्वातन्त्र्यं शब्दवृत्तेः कारणमिति निदर्शितम् । मुख्यं च तदित्याह किमिति । यद्यस्याधीनं तत्तस्य मुख्यं भवति । यथेष्टविनियोग-योग्यत्वात् । न तु यत्र यत्सम्बद्धं तत्तस्य मुख्यतः । तेन धनित्वं जयित्वमिव राज्ञ एव मुख्यं न तु कोशपालस्य भृत्यस्येति भावः ।एवमपि यो दुराग्रही तं अनिष्टप्रदर्शनेनोपहसति मतुपेति तदर्थकेन्प्रत्ययबलात् इत्यर्थः।।१२४ ।।
युक्तिमल्लिका
सर्वज्ञं खलु तद्ब्रह्म कथमज्ञानवद्भवेत् ।
स्वरूपस्य सदा दृष्टेस्सर्वस्यान्यस्य चाञ्जसा ।। १२५ ।।
सुरोत्तमटीका
युक्त्यन्तरेणापि भगवत्यज्ञानं न घटत इत्याह ।। सर्वज्ञ-मिति ।। तदेव सार्वज्ञ्यं विवृणोति ।। स्वरूपस्येति ।। स्वरूपस्यात्मस्वरूपस्य अन्यस्य सर्वस्य जगतः सदा दृष्टेः सर्वज्ञेन ब्रह्मणा दृष्टत्वादित्यर्थः । यत्रैव ज्ञानं तत्रैव तदैव कथमज्ञानम् । अतस्सर्वज्ञः अज्ञानवानिति मतं माता वन्ध्येतिवद्व्याहतमिति भावः ।। १२५ ।।
सत्यप्रमोदटीका
‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन’ इति भगव-त्पादोक्तिमनुरुध्याह सर्वज्ञमिति । खलु निश्चयः । ‘यः सर्वज्ञः सर्ववित्’ इति श्रुतेः ‘आत्मानमन्यं च स वेद विद्वान्’ इति स्मृतेश्च । सदा अञ्जसेति च स्वरूपस्यान्यस्य चेत्युभयत्र सम्बध्यते । अञ्जसा स्वातन्त्र्येण, निरतिशयस्पष्ट-तया, अशेषविशेषपुरस्सरं च । दृष्टेरित्यनेन साक्षिणस्तस्य ज्ञानस्य परोक्षतां प्रत्याह । ‘विमतो नाज्ञानवान् सर्वज्ञत्वात्’ इति सामान्यतो दृष्टानुमानमिह विवक्षितम् । तेन विशेषव्याप्तौ न दृष्टान्ताभावदोषः । ‘यो यत्र ज्ञानवान्नासौ तत्राज्ञानवान् इति सामान्यव्याप्तेरविरोधात्’ इति टीकोक्तेरित्यवधेयम् । तदेतदुक्तं न्यायामृते
‘सर्वं हि यो विजानीते तस्य कुत्रापि नाज्ञता ।
न हि यो यद्विजानीते स तत्राज्ञानवान् भवेदि’ति ।
सर्वज्ञः अज्ञानवांश्च इति व्याहतमिति फलितम् ।। १२५ ।।
युक्तिमल्लिका
असङ्गस्य यतस्सङ्गो विनाऽज्ञानं न युज्यते ।
अतस्सार्वज्ञमप्यज्ञानापेक्षमिति यन्मतम् ।। १२६ ।।
सुरोत्तमटीका
नन्वसङ्गस्य ब्रह्मस्वरूपभूतज्ञानस्य विषयसङ्गो विनाऽ-ज्ञानं न घटत इति सार्वज्ञ्यमेवाज्ञानमाक्षिपतीति शङ्कामनूद्य दूषयति ।। असङ्गस्येति ।। अस्यार्थस्स्पष्टः । उत्तरं वक्तुं प्रच्छति ।। स प्रष्टव्य इति ।। असङ्गस्याज्ञानं तत्तदर्थसङ्गसंपादकमिति वदन्प्रष्टव्यः किमज्ञानं सन्धानकरण्या-ख्यौषधवदसङ्गयोस्सम्बन्धकरणस्वभावम् उत कांस्यादिपात्रखण्डद्वय-सन्धायकत्रपुसीसादिवत् एकवारं द्रवीभूय पश्चाद्घनीभवत्स्वभावं वा । असङ्गयोस्संश्लेषकारिवस्तु द्विप्रकारकमेव दृष्टम् । अज्ञानं च न तादृश-स्वभावमतः कथमसंगस्य ब्रह्मणस्संगहेतुस्स्यादिति प्रश्नपद्यार्थः ।।१२६,१२७।।
सत्यप्रमोदटीका
‘असङ्गश्रुतिस्तु परमेश्वरस्य पापादिसम्बन्धाभाव-वादिनी’ इति वादावल्युक्तिं समर्थयितुं आक्षिपति असङ्गस्येति । यदुक्तं ‘ब्रह्म नाज्ञानाश्रयः सर्वज्ञत्वात्’ इति न तद्युक्तम् । हेतोर्विरुद्धत्वात् । ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतिः खलु ब्रह्मस्वरूपज्ञप्तेः असङ्गत्वं अभिधत्ते । ‘यः सर्वज्ञ’ इति श्रुतिः तस्याः सर्वसम्बन्धम् । न च श्रुत्योरन्यतराप्रामाण्यं युक्तम् । कथं तर्हि विरोधपरिहार इत्यतः ब्रह्म स्वभावतोऽसङ्गमपि अज्ञानरूपोपाधि-सम्बन्धेन सर्वज्ञं इत्येव व्यवस्थाऽऽश्रयणीयेत्याह विनेति । तथा च सर्वज्ञत्वहेतुर्विरुद्ध इति वक्ति अत इति ।। १२६ ।।
युक्तिमल्लिका
स प्रष्टव्यः किमज्ञानं सन्धानकरणी तव ।
किं वा द्रवत्वनिबिडत्वार्हसीसादिधातुवत् ।। १२७ ।।
सत्यप्रमोदटीका
परिहरति स इति । प्रष्टव्यः प्रश्नपूर्वकं दूषणीय इति यावत् । अन्यथा छलप्रसङ्गात् । सन्धानकरणी युद्धादौ विश्लेषितस्योत्तमाङ्गस्य साङ्गोपाङ्गकबन्धेन संश्लेषसम्पादकसन्धनाकरण्याख्यवनस्पतिवत्, किं अज्ञानं दूरस्थतया विश्लिष्टाया ब्रह्मचितः सर्वपदार्थैः सम्बद्धत्वसम्पादनहेतुः इति भावः । तव ब्रह्माश्रिततया त्वदभिमतम् । सीसादिधातुवत् । यथा सीसत्रप्वादिकं पाकेन द्रवीभूय पुनः निबिडतां प्राप्य कास्यादिपात्रखण्डद्वयस्य अखण्डतासम्पादकं तथा किं सखण्डस्य ब्रह्मज्ञानस्य सर्वसङ्गसम्पादने हेतूभूय अखण्डत्वसम्पादकं वेति भावः ।। १२७ ।।
युक्तिमल्लिका
व्यापिनी चिन्न नेतव्या नानेतव्या च केनचित् ।
अतस्स्वतस्तत्तदर्थसङ्गस्तस्या भविष्यति ।। १२८ ।।
सुरोत्तमटीका
ब्रह्मचिद्दूरेतिष्ठति ।। अर्थोपि दूरे ।। अतस्तयोस्सर्प-मण्डूकयोरिव सम्बन्धघटनायाज्ञानमिति पक्षं दूषयति ।। व्यापिनीति ।। व्यापिनी सर्वत्र व्याप्ता चित् ब्रह्मचित् । नेतव्या इतोऽन्यत्र नेतव्या न । आनेतव्या अन्यतोऽत्रानेतव्या च नेति योजना । अतस्सकलमूर्तद्रव्यसङ्गि-त्वात् । स्वतः स्वभावत एव तस्याः ब्रह्मचितः ।। १२८ ।।
सत्यप्रमोदटीका
आद्यं पक्षं दूषयति व्यापिनीति चितो नयनेन प्रपञ्चा-द्विश्लेषः, पुनरानयनेन तेन संश्लेष इति वक्तव्यम् । नोभयं सम्भवति । चितः व्याप्तत्वेन क्रियाऽसम्भवात् । क्रियया विभागसंयोगोत्पत्ती मूर्तेष्वेव न अमूर्त इति भावः । विश्लेषस्यैवासम्भवेन प्रश्न एवायं न युक्त इति द्योतनाय न नेतव्येत्युक्तिः । उपेत्यापि विश्लेषं पुनः संश्लेषस्यासम्भवद्योतनाय नानेतव्ये-त्युक्तिरिति विवेकः । स्वतः सतः सार्वज्ञस्य घटनाय नान्यापेक्षेत्यत्रैव तात्पर्यम् । अतः सङ्गशब्देन संश्लेषविवक्षाया अशक्यत्वात् विषयविषयि-भावस्यैव वक्तव्यत्वात्, ज्ञानस्य विषयसम्बन्धस्वभावत्वेन तदर्थमन्यान-पेक्षणात्, परमते चितः स्वयं ज्ञानरूपत्वेन सम्बन्धस्यैवानपेक्षणाच्च । सङ्गः विषयीकारित्वम् । स्वयमखण्डायाश्चितः अखण्डत्वसम्पादनार्थतः सीसादेरिवा-ज्ञानव्यपेक्षेति पक्षस्य दोषस्तु सुस्फुटः शिष्यैरेवोह्यतामिति न पृथङ् निराकृतः ।। १२८ ।।
युक्तिमल्लिका
असङ्गत्वश्रुतेर्भीतिस्तवापि च ममापि च ।। १२९ ।।
सुरोत्तमटीका
असङ्गश्रुतिर्बाधिकेति चेत् किमज्ञानेन तत्रोपायः क्रियते । नह्यज्ञानं तस्याः मुखमोटनं कर्तुं शक्नोति । अतश्श्रुतितो भीतिरुभयोस्समेत्याह ।। असङ्गत्वेति ।। १२९ ।।
सत्यप्रमोदटीका
यदि तर्हि चितः विषयसङ्गः स्वभावः, असङ्गत्व-श्रुतिविरोध आपद्यत इत्यतो वक्ति असङ्गत्वेति । भीतिः विरोधापत्तिशङ्का । तवापीति । तथा च ‘यत्रोभयोः सम’ इति न्यायेन न मां प्रत्येव पर्यनुयोग इति भावः ।। १२९ ।।
युक्तिमल्लिका
यदि स्वभावतोऽसङ्ग इत्यर्थस्स्याच्छतेस्तव ।
ममाप्युपाधितोऽसङ्ग इति स्यादुक्तयुक्तितः ।। १३० ।।
सुरोत्तमटीका
स्वभावतोऽसङ्ग उपाधितस्तु ससङ्गो भवतीति तव श्रुत्यर्थश्चेत् तर्हि मम उपाधितोऽसङ्गः । ब्रह्मचरित्रस्य निरुपाधिकत्वात् । स्वभावत एव ससङ्ग इति श्रुत्यर्थो भविष्यति । कथमन्यथा सर्वव्यापित्व-प्रतिपादकश्रुतिर्जीवेदित्याह ।। यदीति ।। उक्तयुक्तितः भवदज्ञानाख्योपाधे-स्सन्धानकरणादिस्वभावाभावाख्ययुक्तित इत्यर्थः ।। १३० ।।
सत्यप्रमोदटीका
ननु न साम्यम् । स्वभावत इति पदाध्याहारेण मम शङ्कानिस्तारसम्भवादित्यतो हन्त तर्हि ममापि उपाधित इति पदाध्याहारेण परिहारः सुलभ इत्याह यदीत्यादिना ।। तथा च ‘परिहारोऽपि वा समः’ इति न्यायेन पुनः पर्यनुयोगानुपपत्तिस्तदवस्था । दोषपरिहारयोः साम्योक्ति-रियमापाततः । वस्तुतो मत्पक्ष एवादरणीय इत्याह उक्तयुक्तित इति । ज्ञानमात्रस्य विषयीकारित्वस्वाभाव्यादिति ‘स्वतस्तत्तदर्थसङ्ग’ इति पूर्वोक्त-युक्तित इति भावः । तदुक्तं तत्वोद्योतटीकायां ‘निर्विषयत्वे ज्ञानमेव न स्याद् घटवदि’ति । तथा च चित् स्वभावत एव विषयसम्बन्धवती न तु पुन-रुपाधित इति मत्पक्ष एव प्रमाणवानिति भावः ।। १३० ।।
युक्तिमल्लिका
किञ्च त्वदज्ञानतोऽपि सङ्गस्तस्य कथं वद ।
यदसङ्ग इति श्रुत्या सर्वसङ्गो निषिध्यते ।। १३१ ।।
सुरोत्तमटीका
ब्रह्मण्यज्ञानसङ्गे खल्वन्यार्थसङ्घटकं तत्स्यात् । अन्यथाऽतिप्रसङ्गात् । असङ्गश्रुतिस्सङ्गत्वाविशेषादज्ञानसङ्गमपि निषेधती-त्याह ।। किं चेति ।। यद्यस्मात् ।। १३१ ।।
सत्यप्रमोदटीका
अज्ञानसम्बन्धाद्ब्रह्म सर्वज्ञमिति तदा स्याद्यदि ब्रह्म अज्ञानसम्बन्धवद्भवेत् । तदेव त्वन्मतेऽसम्भवि । असङ्गश्रुतेः सम्बन्ध-सामान्याभावार्थकत्वस्य त्वया स्वीकृतेः । तथा च त्वदर्थस्त्वत्पक्षमेव व्याहन्तीत्याह किञ्चेति । सम्बन्धसामान्यशून्यं अज्ञानसम्बन्धवच्चेति स्फुटा व्याहतिरिति भावः । यत् यस्मात् । निषिध्यते त्वयेति शेषः । मत्पक्षे तु ‘लेपरूपमपाकरोदि’ति गतिर्वक्ष्यत इति भावः ।। १३१ ।।
युक्तिमल्लिका
अथाज्ञानान्यसङ्गो नेत्यर्थेऽनर्थपरंपरा ।
या श्रुतिर्निरनिष्टं तं निरवद्यं च शंसति ।
महाशक्तिमतस्तस्य सा दोषं किल शेषयेत् ।। १३२ ।।
सुरोत्तमटीका
अज्ञानान्यसङ्गो नेत्यसङ्गश्रुतेरर्थः । तेनाज्ञानसङ्गं न सा श्रुतिर्निषेधतीति पक्षमप्यनूद्य दूषयति ।। अथेति ।। अनर्थपरम्परामुपपादयितु-मेकमनर्थं तावदाह ।। याश्रुतिरिति ।। या श्रुतिः निरनिष्टो निरवद्य इत्यादिका । तं परमात्मानम् । तस्य परमात्मनः । सा श्रुतिः । तत्सजातीया असङ्गश्रुतिरिति यावत् । दोषं अज्ञानरूपदोषम् । महाशक्तिमत इत्यनेनाज्ञान-निर्हरणसर्मथत्वाख्ययुक्तिविरोधं सूचयति । अज्ञानान्यसङ्गरहितमित्यर्थकथनेना-ज्ञानरूपदोषस्य ब्रह्मण्यवशेषणे उक्तश्रुतियुक्तिविरोध इति भावः ।। १३२ ।।
सत्यप्रमोदटीका
परपक्षे व्याहतिपरिहारमाशङ्कते अथेति । तथा च असङ्ग इत्यत्र नञ् न सामान्याभावपरः किं तु अज्ञानव्यतिरिक्तविशेषाभावपर एवेति भावः । परिहरति अर्थे इति । त्वदुक्तरीत्या सङ्कोचेनार्थेऽङ्गीक्रियमाणे सतीत्यर्थः । अनर्थेति नञः अभावः विरोधश्चार्थः । प्रमाणानुगुण्याभावः प्रमाणविरोधश्चेति । परम्परेति । प्रमाणसामान्याभावः सर्वप्रमाणविरोधः व्याहतिः इत्यादिका । श्रुतिविरोधं तावदाह निरनिष्टमिति । अज्ञानं तु अनिष्टं सर्वदोषमूलत्वात् अवद्यं चेति कथं एषा श्रुतिः तत्सम्बन्धं ब्रह्मणो न निरुणद्धि इत्याशयः । युक्तिविरोधमाह महाशक्तिमत इति । ‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इति श्रुतिसिद्धपूर्णशक्तिमत इत्यर्थः । तथा च ‘परमात्मा अज्ञानाद्यशेषदोषरहितः पूर्णशक्तिमत्त्वादिति युक्तिविरोधः । इयं च युक्तिः सर्वधर्मोपपत्तिनये व्युत्पादिता । किल अपहासे ।। १३२ ।।
युक्तिमल्लिका
सर्वेश्वरत्वकर्तृत्वसर्वव्यापित्वपूर्वकान् ।
गुणान्पोषयितुं कस्मान्नादोषं शेषयेज्जगत् ।। १३३ ।।
सुरोत्तमटीका
अतः महदादिजगदन्यसङ्गो नास्तीति ब्रह्मणि निषिद्धा-ज्ञानं संप्रतिषिध्य सर्वेश्वरत्वादिभगवद्गुणपोषकदोषानाधायकजगदवशेषणं श्रेय इत्याह ।। सर्वेश्वरत्वेति ।। ईश्वरत्वं च कर्तृत्वं च ईश्वरत्वकर्तृत्वे सर्वस्येश्वरत्व- कर्तृत्वे इति विग्रहः । पोषयितुं पुष्टीकर्तुम् । सर्वस्यापि जगतोऽवशेषणेहि सर्वेश्वरत्वादेः पोषणं स्यात् । अन्यथा सर्वस्याभावे कस्येश्वरत्वादिकमिति गुण-पुष्टिर्न स्यादिति भावः । अदोषं दोषानाधायकं जगत्कस्मान्न शेषयेत् । जगतोऽन्यसङ्गराहित्यार्थमुक्त्वा जगत् शेषयेदेवेत्यर्थः ।। १३३ ।।
सत्यप्रमोदटीका
जगता सह नियम्यनियामकभावं, व्याप्यव्यापकभावं, कर्मकर्तृभावं इत्येतान्सम्बन्धान् असङ्गश्रुतिर्नैव निषेधति । तेषां ‘एष सर्वेश्वरः’, ‘स हि कर्ता’ ‘तन्वा वृधान’ इत्यादिश्रुतिसिद्धत्वात् । किं तु तान् शेषयेदेव । गुणोत्कर्षे महातात्पर्यवत्या श्रुत्या कथं गुणनिषेधः इति भावः । अदोषं भगवति दोषानापादकम् । जगत् जगता सह पूर्वोक्तसम्बन्धजातम् ।। १३३ ।।
युक्तिमल्लिका
स्वसङ्गवन्मङ्गलार्थं सङ्गमङ्गीकरोति तत् ।
अज्ञानदुःखकर्मादिलेपरूपमपाकरोत् ।। १३४ ।।
सुरोत्तमटीका
तत्तस्मात् । स्वसङ्गवत् प्रतिपाद्यप्रतिपादकभावेन श्रुति-सम्बन्धवत् । अनेनाज्ञानतोऽन्यसङ्गो नेत्यर्थकथने श्रुतेरपि ब्रह्मणा सह सङ्गोन भवेदेव । अतः ब्रह्मज्ञानस्य सर्वार्थसम्बन्धे न किञ्चिद्बाधकमत एतादृशार्थ-कथनेऽस्मदिष्टसिद्धिरेवेत्यनर्थान्तरं च सूचितम् । मङ्गलार्थमित्यनेन परम-मङ्गलश्रुतिप्रतिपादितमहदाद्याधारत्वरूपगुणसङ्गं सर्वस्य वशी सर्वस्येशान इत्यादिश्रुतिप्रतिपादितपरममङ्गलगुणसङ्गं श्री सदोपास्य पादाब्जोऽनन्त-श्रीश्रीनिकेतन इत्यादिस्मृत्युक्तपरममङ्गलमहालक्ष्मीसङ्गम् अनन्तस्स्वप्रतिपादिता- सङ्गत्वाख्यगुण सङ्गंच सङ्गृह्णाति । तर्ह्यसङ्गश्रुतेः का गतिरित्यतः निरवद्यत्व-श्रुतिसमाख्यया दोषरूपगुणासङ्ग एवेत्याह ।। अज्ञानेति ।। १३४ ।।
सत्यप्रमोदटीका
परमते अनर्थान्तरमाह स्वसङ्गवदिति । अयं भावः । यदि वाक्यमिदं सङ्गसामान्यं निषेधेत् तर्हि स्वेन सह प्रतिपाद्यप्रतिपादक-भावलक्षणसम्बन्धमपि निषेधेत् तथा चाबोधकं सदप्रमाणमापद्येत इति उपपत्तिविरोधः पराभिमतार्थस्येति भावः । यद्वा व्याघातरूपमनर्थान्तरं चाह स्वसङ्गवदिति स्वेत्यस्य पूर्वप्रकृतमसङ्गत्वमर्थः । तेन सङ्गं असङ्गत्वरूपधर्म-सम्बन्धं यदि निषेधेत् तर्हि व्याहतभाषिणी स्यात् । स्वयं विहितस्य स्वेनैव निषेधे कथं न व्याहतिरिति । मङ्गलार्थं मङ्गलानां श्रुतिस्मृतीनां अर्थं अभिधेयं सङ्गं मङ्गलगुणसङ्गं परममङ्गलमहालक्ष्मीसङ्गं च । अङ्गीकरोति न प्रतिषेधति । ‘अप्रतिषिद्धमनुमतमि’ति न्यायादित्याशयः । तर्हि निषेधस्य को विषय इत्यतः चिन्तासन्तापाद्यशेषदोषलेप एवेत्याह अज्ञानेति । तदुक्तं न्यायामृते प्रतिकर्मव्यवस्थाभङ्गे ‘‘असङ्गो ह्ययमिति श्रुतिरीश्वरस्य तत्तत्कृतलेपाभावपरा ‘स यत्तत्र किञ्चित्पश्यति अनन्वागतस्तेन भवति’ इति पूर्ववाक्यात् ‘यथाऽऽ-काश स्थितो नित्यं वायुः सर्वत्रगो महान्’ इत्यादिस्मृतेश्च’’ इति ।। १३४ ।।
युक्तिमल्लिका
अथवा दुर्जनैस्सङ्गं स्नेहरूपं निषेधति ।
प्रमातृत्वप्रमेयत्वसङ्गं वा तैर्न्यवारयत् ।
अतस्त्वच्छरपातस्य लक्ष्यं वक्षोऽभवत्तव ।। १३५ ।।
सुरोत्तमटीका
अर्थान्तरं चाह ।। अथवेति ।। सत्सङ्गः गुणपूर्वकं प्रीतिः सङ्ग इत्यादौ सङ्गशब्दस्य स्नेहे प्रयोगादिति भावः । तैर्दैत्यैः प्रमातृत्व-प्रमेयत्वरूपसङ्गं प्रमातृप्रमेयभावलक्षणसङ्गं ब्रह्मणीति शेषः । दुर्जनाः ब्रह्मणः प्रमातारो न भवन्ति । ब्रह्म च तेषां प्रमेयं न भवतीत्यसङ्गश्रुतेरर्थ इति भावः । अतः असङ्गश्रुतेरज्ञानसङ्गराहित्यस्य तदप्रमेयत्वस्यार्थतया प्राप्ते-रित्यर्थः । तव वक्ष एव लक्ष्यं वेध्यमभवदित्यर्थः ।। १३५ ।।
सत्यप्रमोदटीका
‘सङ्गस्तु गुणसम्प्रीतिर्गुणवत्त्वेऽतिनिश्चयात्’ इत्येकादश- स्कन्धभागवततात्पर्योक्तिमनुरुन्धानोऽसङ्गश्रुतेरर्थान्तरमाह अथवेति । दुर्जनैः असङ्गश्रुतेरन्यथाऽर्थं परिकल्प्य भगवतो गुणसम्बन्धमपलपद्भिर्मायावादिभिः । सङ्गं स्नेहम् । निषेधति ‘परा पूर्वेषां सख्या वृणक्ति’ इति श्रुतेः । इदमुपलक्षणम् । सङ्गविरुद्धं च द्वेषं अभिधत्ते इत्यपि ग्राह्यम् । ‘मोघज्ञाना विचेतसः’ ‘विदूर-काष्ठाय मुहुः कुयोगिनां’ इत्यादिस्मृतिलब्धं असङ्गश्रुतेः पुनरर्थान्तरमाह प्रमातृत्वेति । प्रमाश्रयत्वनिवारणेन परेषां ब्रह्मविषयिणीं भ्रान्तिं संमन्यते । शरस्य असङ्गश्रुतेः । पातस्य ब्रह्मणः अज्ञानसम्बन्धं साधयितुं त्वया उदाहरणस्य । त्वद्वक्षः ब्रह्मणः अज्ञानाश्रयत्वलक्षणस्तव सिद्धान्त एव लक्ष्यं निराकृतिविषयः । वृकासुरस्येव तवायमुद्यमः अपहसनीय इति भावः ।। १३५ ।।