चक्षुषा सन्निकृष्टार्थज्ञानं स्यादन्तरेव हि
वृत्तेबहिर्निस्सरणानुपपत्तिः
युक्तिमल्लिका
चक्षुषा सन्निकृष्टार्थज्ञानं स्यादन्तरेव हि ।
जानामीत्यान्तरत्वस्य सुखादाविव सिद्धितः ।। १७६ ।।
सुरोत्तमटीका
मनोवृत्तेरपि चक्षुर्द्वारा विषयपर्यन्तधावनात् समानाश्रय-त्वाशां निराकरोति ।। चक्षुषेति ।। आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति प्रसिद्धिं हिशब्देन सूचयति । तथा च मनसो बर्हिर्गमनम-प्रामाणिकमिति भावः । ज्ञानस्यान्तरत्वमनुभवारूढं करोति ।। जानामीति ।। अहं सुखीतिवत् अहं जानामीति ज्ञानस्यान्तरत्वस्य सर्वानुभवसिद्धत्वादिति भावः ।। १७६ ।।
सत्यप्रमोदटीका
यदुक्तं ज्ञानसमानाश्रयत्वेनाज्ञानं न विषयाश्रितमिति न तद्युक्तम् । मन्मते वृत्तिरूपप्रमाणज्ञानस्यापि विषयाश्रितत्वात् । विषय-सन्निकृष्टेंद्रियद्वारा निर्गतं तदाकारेण परिणतं अन्तःकरणमेव वृत्तिरित्युप-गमात् । तथा च नाज्ञानस्य पुङ्गतत्वसिद्धिः । न वा ब्रह्माश्रितत्वोपगम-विरोधः । अज्ञानाश्रयस्य विषयावच्छिन्नचैतन्यस्यैव ब्रह्मत्वात् । यथोक्तं ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इति । अतः कथं मदुक्तानुमानस्य परकिङ्करत्वं इति चेत्स्यादेतदेवं यदि अन्तःकरणस्य बहिर्निर्गमनं तावत् प्रामाणिकं स्यात् । न च तदस्ति । वृत्तेरान्तरत्वस्य सुखादेरिव जाना-मीत्याकारकसाक्ष्यनुभवसिद्धत्वात् । तादृश्या अपि वृत्तेरिन्द्रियद्वारा विषय-सन्निकर्षोपपत्तेः । तदुक्तं वादावल्यां ‘करणसामर्थ्येन विषयविषयि-भावोपपत्तेरि’ति । अतः तमसो पुङ्गतत्वोक्तिः भगवत्पादीया सुस्थैवेत्याह चक्षुषेति । तथा च प्रयोगः । ज्ञानं, आन्तरं साक्षिणं प्रति साक्षाद्विषयत्वात् सुखादिवदिति । न चासिद्धिः जानामीति प्रत्यक्षेणैव तत्सिद्धे इत्याह जानामीतीति ।। १७६ ।।
युक्तिमल्लिका
परोक्षज्ञानकरणाज्ज्ञानमन्तर्भवेद्यथा ।
तथाऽपरोक्षकरणाज्ज्ञानमप्यन्तरेव हि ।। १७७ ।।
सुरोत्तमटीका
बाह्यकरणादन्तर्ज्ञानोदयेऽन्तरङ्गदृष्टान्तमप्याह ।। परोक्षेति ।। तथा अपरोक्षकरणादिति पदच्छेदः । ज्ञानमपरोक्षज्ञानम् । परोक्ष-ज्ञान इव बाह्यकरणादन्तरेवापरोक्षज्ञानस्याप्युदयसम्भवे तद्वदेव तदाकारत्वा-भावेऽपि तज्ज्ञानत्वस्यापि सम्भवे मनोवृत्तेर्बहिर्गमनकल्पनं व्यर्थमिति भावः ।। १७७ ।।
सत्यप्रमोदटीका
ननु करणसामर्थ्येनापि बाह्यपदार्थविषयकापरोक्ष-ज्ञानस्य कथमान्तरत्वं इति चेत् लिङ्गशब्दरूपपरोक्षज्ञानकरणसामर्थ्येन विप्रकृष्टातीतानागतगोचरस्य परोक्षज्ञानस्य ज्ञानत्वेनापरोक्षज्ञानजातीयस्य यथाऽऽन्तरत्वं तथैवेति गृहाणेत्याह परोक्षेति । न च तत्राप्यसम्प्रतिपत्तिः । परोवृक्षत्तेरपि बहिर्निर्गमनस्य तत्र चैतन्यप्रतिफलनस्येत्यादेः कल्पनेऽभिव्यक्ता-परोक्षैकरसचिदुपरागेण तद्विषयस्याप्यापरोक्ष्यापातादित्याशयात् ।। १७७ ।।
युक्तिमल्लिका
यदि शब्दसहायेन मनो वैकुण्ठमाविशेत् ।
पुनर्निवृत्तिशून्यं स्याद्दीर्घनिद्रा भवेत्तदा ।। १७८ ।।
सुरोत्तमटीका
परोक्षज्ञानेऽपि मनोवृत्तेर्विषयपर्यन्तधावनमस्त्विति मन्दाशङ्कां परिहरति ।। यदीति ।। तर्हीति शेषः । चक्षुर्वत् शब्दस्य पुनरावृत्तिशून्यत्वादित्यर्थः । दीर्घनिद्रा मरणम् । तथा च ग्रहणस्मरणादेर-भावान्मृतप्रायोऽसीति भावः ।। १७८ ।।
सत्यप्रमोदटीका
परोक्षवृत्तेर्बहिर्निर्गमनकल्पनं अनर्थकरं चेत्याह यदीति । शब्देति परोक्षज्ञानकरणोपलक्षणम् । वैकुण्ठं पुनरावृत्तिशून्यं स्थानम् । आविशेत् अन्तरेव विषयीकरणमन्तरा स्वरूपत एव प्रविशेत् । आपाद्यस्यानिष्टत्वं व्यनक्ति दीर्घनिद्रेति । मरणेत्यर्थः
।। १७८ ।।
युक्तिमल्लिका
मनोयात्रा तु जीवस्य यात्राकाले परं भवेत् ।
अन्तःकरणमेतस्मादन्तःकार्यकरं हि तत् ।। १७९ ।।
सुरोत्तमटीका
तदुपपादयति ।। मनोयात्रेति ।। मनसो बहिर्यात्रेत्यर्थः । जीवस्य देहाद्बहिर्यात्राकाले । हि यस्मात् अन्तःकार्यकरम् । एतस्मात्तन्मनः अन्तःकरणमिति योजना । बहिर्गत्वा कार्यकारिचक्षुरादि-वद्बाह्यकरणमेव स्यात् नत्वन्तःकरणमिति भावः
।। १७९ ।।
सत्यप्रमोदटीका
तत्कथमित्यह आह मनोयात्रेति मनसो देहाद-पुनरावृत्तये बहिर्निर्गतिः । यात्राकाले जीवस्य देहाद्बहिर्निर्गमनकाले परं केवलं न तु जीवनावस्थायाम् । ‘न ह्यमनाः पुमांस्तिष्ठती’ति श्रुतेरिति भावः ।। तथा च वैकुण्ठशब्दश्रवणसमनन्तरं जायमानं वृत्तिज्ञानं मरणपर्यवसायीति भावः । अन्तःकरणमिति यौगिकनाम्नोऽवयवार्थपर्यालोचनयाऽपि मनसः अन्तःस्थित्यैव ज्ञानकरणत्वं लभ्यते इत्याह अन्तःकरणमिति ।। १७९ ।।
युक्तिमल्लिका
अतो ज्ञानवदज्ञानमान्तरं साक्षिणो बलात् ।
एकदेशत्वमनयोर्नाश्यनाशकयोर्ध्रुवम् ।। १८० ।।
सुरोत्तमटीका
अतः ज्ञानस्यान्तरत्वात् साक्षिणः अहं जानामीतिवदहं न जानमीत्यस्यापि जीवनिष्ठत्वग्राहिणः । प्रागुक्तमेव हेतुद्वयं संगृह्य स्मारयति ।। एकदेशत्वमिति ।। अनयोर्ज्ञानाज्ञानयोः ।। १८० ।।
सत्यप्रमोदटीका
अतः । वृत्तेर्विषयव्यापित्वस्याप्रामाणिकत्वात् तत्कल्पनाया अनर्थहेतुत्वात् आन्तरत्वस्य जानामीति साक्षिप्रत्ययसिद्धत्वात् अन्तःकरणशब्दनिर्वचनबलाच्च सिद्धत्वात् । साक्षिण इति । न जानामीति साक्षादेव ज्ञातृपुरुषनिष्ठतया च विषयीकुर्वत इत्यर्थः । ध्रुवमित्यनेन नाश्य-नाशकयोरेकदेशत्वनियमस्याव्यभिचारं व्यनक्ति ।। १८० ।।
युक्तिमल्लिका
न चेदन्याश्रितज्ञानमन्याज्ञानं निवर्तयेत् ।
अज्ञानमप्यान्तरं तन्न बाह्यविषयाश्रितम् ।। १८१ ।।
सुरोत्तमटीका
अन्याश्रितज्ञानं चैत्राश्रितज्ञानम् । अन्याज्ञानं मैत्राश्रिता ज्ञानम् । साक्षिणो बलादित्येतद्विशदयन्नुपसंहरति ।। अज्ञानमिति ।। तत्तस्मात् ।। १८१ ।।
सत्यप्रमोदटीका
नियमानङ्गीकारेऽतिप्रसङ्गं बाधकमाह न चेदिति । तथा चानुभवविरोध इति भावः । उपसंहरति अज्ञानमिति ।। १८१ ।।
युक्तिमल्लिका
अहमज्ञ इति ह्यक्षं जीवाज्ञानस्य साधकम् ।
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
इति वेदेन मायेयं जीवगैवेति गीयते ।। १८२ ।।
सुरोत्तमटीका
अहं साक्षी । प्राग्ब्रह्माश्रिताज्ञानपक्षे बाधकतयोदाहृतां श्रुतिं जीवाज्ञानपक्षे साधकत्वेनाप्युदाहरति ।। अनादीति ।। १८२ ।।
सत्यप्रमोदटीका
अज्ञानस्य जीव एवाश्रितत्वे प्रागुक्तानि प्रत्यक्षादीनि त्रीण्यपि प्रमाणनि स्मारयति अहमित्यादिभिः ।। अहममिर्थस्य जीवत्वं ‘अह-मित्येव यो वेद्यः स जीव इति कीर्तितः’ इति तत्वनिर्णयोदाहृतश्रुतिसिद्धम् । अक्षं साक्ष्यनुभवः । तस्य च प्राबल्यं धर्मिग्राहकत्वादुपजीव्यत्वेन नित्य-निर्दोषत्वेन च ज्ञेयम् । श्रुतिमपि स्पष्टां अज्ञानस्य जीवाश्रितत्वे आह अनादीति । श्रुतावेकवचनं तु ‘यथा नीतिपरो राजा’ इतिवत् समुदाय-विवक्षया युक्तम् । अत्र जीवशब्दो मायावादिनाऽपि संसारिजीवपर इति एकजीववादावसरेऽङ्गीकृतम् ।। १८२ ।।
युक्तिमल्लिका
ऐक्येन च प्रमाणानामन्यथीकरणं वृथा ।
ऐक्यासिद्धेरयुक्तं च प्रमाता जीव एव हि ।
न चेत्सर्वैक्यतस्सर्वमस्तव्यस्तं भवेत्तव ।। १८३ ।।
सुरोत्तमटीका
जीवब्रह्मणोरैक्येन समाधास्यामीत्याशां निराकर्तुं प्रागुक्तदूषणगणं बुद्धावारोहाय स्मारयति ।। ऐक्येनेति ।। अन्यथीकरणं जीवविषयाणां ब्रह्मविषयत्वकरणम् । हीत्यनेन परमते कर्तृकर्मभावविरोधाङ्गी-कारात् प्रमेये ब्रह्मणि प्रमातृत्वं न जीवैक्येनापि नेतुं शक्यत इति सूचयति ।। १८३ ।।
सत्यप्रमोदटीका
ननु ब्रह्मण एव मायोपाधिसम्बन्धेन जीवव्यवहारः स्वभावतस्त्वैक्यमेवेति चेत् ‘ऐक्यात्तदेव चेद्ब्रह्मं अन्योन्याश्रयता तदा’ (श्लो. ७४) इत्यादिप्रागुक्तदूषणगणं मा विस्मार्षीरित्याह ऐक्येनेति । अन्यथीकरणं ब्रह्मविषयकानीत्यपार्थोक्तिः । वृथाभावमेवोपपादयति ऐक्यासिद्धेरिति । अपव्याख्यामात्रेणार्थासिद्धेरिति भावः । उत्तरार्धे ‘आत्मानं बुध्यते तदा’ इति एकस्येव कर्तृकर्ममावोक्तेर्निर्विशेषे ब्रह्मणि तदसम्भवान्नात्र जीवशब्दो ब्रह्मपर इत्याह प्रमातेति । आत्मानमिति द्वितीयान्तोक्तप्रमेयश्च जीव एवेति ग्राह्यम् । न चेत् भेददर्शनादरणं न चेत् । सर्वं साधनदूषणादिसकलव्यवहारजातम् । अस्तव्यस्तं साधनस्यैव दूषणत्वमित्यादिप्राप्त्या विप्रलुप्तम् । तदुक्तं वादावल्यां ‘यदि भेददर्शनं न स्यात्तर्हि सकलव्यवहारविधुरः परः प्रसज्येते’ति ।।१८३।।
युक्तिमल्लिका
अज्ञानं ज्ञातृपुंनिष्ठं ज्ञानेनैकाश्रयत्वतः ।
सुखवद्दुःखवच्चैति ह्यनुमाऽप्यस्त्यबाधिता ।। १८४ ।।
सुरोत्तमटीका
अज्ञानस्य जीवाश्रितत्वे प्रत्यक्षं श्रुतिं चोक्त्वाऽनुमान-मप्याह ।। अज्ञानमिति ।। विवादपदमज्ञानं ज्ञातृपुंनिष्ठं ज्ञानसमानाश्रयत्वात् । सुखवद्दुःखवद्वेति प्रयोगो द्रष्टव्यः ।। १८४ ।।
सत्यप्रमोदटीका
अनुमानमप्यज्ञानस्य जीवाश्रितत्वमेवावगमयतीत्याह अज्ञत्वमिति । इदं च ‘ज्ञानं तु ज्ञातृपुंस्येवेत्यादिना, (श्लो.१७३) प्रागुप-पादितं ध्येयम् ।। १८४ ।।