अद्वितीयमिति श्रुत्या द्वितीयाद्भिन्नतैव हि

अद्वितीयमिति श्रुत्यर्थः

युक्तिमल्लिका

अद्वितीयमिति श्रुत्या द्वितीयाद्भिन्नतैव हि ।

सिद्ध्येदनश्व इत्युक्त्या यथाश्वादन्यता गजे ।। ८८६ ।।

सुरोत्तमटीका

 सकलवाक्यानुस्यूतदोषमुक्त्वा प्रत्येकं च दूषयति ।। अद्वितीयमितीति ।। यथेत्यस्य तथा द्वितीयात् भिन्नतैव ब्रह्मणस्सिद्ध्येदिति सम्बन्धः ।। ८८६ ।।

सत्यप्रमोदटीका

 अद्वितीयमिति । तथा च ब्रह्म तृतीयं प्रथमं वा स्यात् । नञः पर्युशसार्थत्वाश्रयणात् । सुड नपुंसकस्य इति सूत्रे ‘नार्षेयं वृणीते न होतारं’ इति च श्रुतौ तदर्थस्यैवाश्रयणात् । (न्या.२६९) लोकेऽपि निदर्शनमाह अनश्व इति ।। ८८६ ।।

युक्तिमल्लिका

अश्वो नेति ह्यनश्वोऽभूद्गजस्तत्पुरुषाज्ञया ।

बहिरङ्गाद्बहुव्रीहेस्समासः प्रबलो ह्ययम् ।। ८८७ ।।

सुरोत्तमटीका

 दृष्टान्तं द्रढयति ।। अश्व इति ।। तत्पुरुषाज्ञया तत्पुरुषाख्य समासबलेनेत्यर्थः । राजपुरुषाज्ञयेति ध्वनिः । तत्पुरुषस्य कथं प्राबल्यमित्यत आह ।। बहिरङ्गादिति ।। बहिरङ्गात् श्रौतपदद्वयबहिर्भूता-न्यपदार्थप्रधानात् । न विद्यते द्वितीयं यस्येति समासे श्रौतनञर्थं द्वितीयपदार्थं चोल्लङ्घ्य यस्येत्य श्रौतबाह्यपदार्थस्यैव तदिति समासनिरूपणफलतयाऽन्तत-स्स्वीकारात् बहिरङ्गत्वमिति भावः । अयं तत्पुरुषः । न द्वितीयमद्वितीयमिति समासे श्रौतनञर्थ एव पर्यवसानेनान्तरङ्गत्वादिति हेतुं हिशब्देन सूचयति ।। ८८७ ।।

सत्यप्रमोदटीका

 बहिरङ्गादिति । श्रौतनञ्द्वितीयपदार्थौ विहाय अन्यब्रह्मपदार्थकात् ।। ८८७ ।।

युक्तिमल्लिका

द्वितीयाद्भिन्नतैव स्याद्द्वितीयं नेति विग्रहे ।

न घटोऽयमिति प्रोक्ते घटभेदो यथा पटे ।। ८८८ ।।

सुरोत्तमटीका

 सर्वलोकप्रसिद्धं निदर्शनान्तरं वदन्नुक्तमेवार्थं विश-दयति ।। द्वितीयादिति ।। अयं पटः घटो नेति प्रोक्त इति सम्बन्धः । तथेति पूर्वेणान्वयः । अन्योन्याभावव्यवहारस्य सर्वप्रसिद्धोदाहरणत्वादिदमुदितम् । एवमेव एकं स्वगतभेदवर्जितं सत्पदोक्तं ब्रह्मैवाद्वितीयं द्वितीयं जगन्नेत्युक्ते द्वितीयाज्जगतोऽपि भेद एव ब्रह्मणि सिद्ध्येत् । ब्रह्मण एव द्वितीयजगद्भिन्न-तयाऽन्यस्य सर्वस्य द्वितीयान्तः पातित्वेन ततो भेदाभावात् तद्व्यवच्छेदायैव-कारः । एवं च स्पष्टं भेदप्रतिपादकमिदं वाक्यमभेदेन यन्स्वस्याप्यव्युत्पन्नाद-भेदमेवार्थात्साधयेत् । न तु ब्रह्माभेदमिति भावः ।। ८८८ ।।

सत्यप्रमोदटीका

 भिन्नतैव तृतीयत्वादिः तथा चैकवाक्यता । प्रसज्य-प्रतिषेधार्थकत्वे तु वाक्यभेदापत्तिः ।। ८८८ ।।

युक्तिमल्लिका

किञ्चाद्वितीयशब्दोऽयं लयस्थब्रह्मगोचरः ।

अतो जगत्प्रागभावध्वंसो नञ्वक्ति नापरम् ।। ८८९ ।।

द्वितीयध्वंसवद्वा तत्प्रागभाववदेव वा ।

ब्रह्म स्यान्नहि मिथ्यात्वलब्धिरेतावता तव ।। ८९० ।।

नञो दुराग्रहो नास्ति विरुद्धस्यैव बोधने ।। ८९१ ।।

सुरोत्तमटीका

 बहुव्रीह्याश्रयणेऽपि प्रकरणविरोधान्न त्वदभिलषित-सिद्धिरित्याह ।। किं चेति ।। सदेवेदमग्र आसीदिति प्राथमिकवाक्ये इदमग्रे अस्याग्र इति प्रलयस्य प्रस्तुतत्वादिति भावः । अतः प्रलयकालीनब्रह्म-गोचरत्वात् । अपरमत्यन्ताभावम् । न विद्यते द्वितीयं यस्येति समासेऽपि नञः प्रलयकालीनः पूर्वजगद्ध्वंसो वा उत्तरजगत्प्रागभावो वाऽर्थस्स्यात् । तदानी-मुभयोरपि जागरूकत्वात् । नञर्थयोग्यत्वाच्च । न हि तन्तुसंयोगनाशजन्य पटध्वंसदशायामिह तन्तुषु पटो नेति निषेधः प्राचीनपटध्वंसं वा तत्रैव भावि पटान्तरप्रागभावं वा विना पटस्यात्यन्ताभावमेव वदन्क्वापि दृष्ट इति भावः । एतावता ध्वंसप्रागभाववत्त्वमात्रेणात्यन्ताभावस्यैव मिथ्यात्वेन त्वया विवक्षित-त्वादिति भावः ।। ८८९-८९१ ।।

सत्यप्रमोदटीका

 अस्तु बहुव्रीहिः । तथाऽपि न मिथ्यात्वसिद्धिः । न पूर्वजगद्ध्वंसः उत्तरजगत्प्रागभावः इत्यर्थकत्वस्यैव ग्राह्यत्वात् । अत्यन्ता-भावार्थकत्वं तु नैव सम्भवति । प्रलयेऽपि कालप्रकृत्यादीनां सद्भावेन तन्निषेधायोगात् इत्याह अत इति ।। ८८९-८९१ ।।

युक्तिमल्लिका

त्रिकालासत्त्वरूपं ते मिथ्यात्वं हि सतः पुरा ।

लये लीनस्य नैवाभून्नापि पश्चाद् भविष्यतः ।। ८९२ ।।

सुरोत्तमटीका

 विरुद्धस्याभावस्य विरोधमेवोपपादयति ।। त्रिकालेति ।। पुरा प्रलयात्पूर्वम् । सतः विद्यमानस्य । लये प्रलये । लीनस्य प्रध्वस्तस्य जगतः । प्रध्वंसस्य प्राक्प्रतियोगिसत्त्वनियमात् । पुरा सत इत्युक्तम् । पश्चा-त्प्रलयोत्तरसृष्टिकाले । प्रागभावस्य पश्चात्प्रतियोगिसत्त्वनियमादिति भावः ।। ८९२ ।।

सत्यप्रमोदटीका

 उत्पत्तिविरोधवतो जडतोऽसत्त्वं विरुद्धमित्याह त्रिकालेति । उक्तं हि ‘न निरोधो न चोत्पत्तिरि’ति गौडपादकारिकाव्याख्याने परेणैव । सतो घटादेः हि उत्पत्तिर्विनाशो वा दृष्टः । नासतः शशविषाणा-देरिति ।। ८९२ ।।

युक्तिमल्लिका

जगच्च सर्वमेतादृगनीदृक्छृङ्गमस्ति ते ।। ८९३ ।।

सुरोत्तमटीका

 सर्वमतीतमनागतं च । एतादृक् एकं प्रध्वंसप्रतियोगितया प्राक्सत् । अपरं प्रागभावप्रतियोगितयोत्तरत्र सत् । अनीदृक् प्रागप्यसत् । उत्तरत्राप्यसत् । तदानीमप्यसत् ।। ८९३ ।।

सत्यप्रमोदटीका

 एतादृक् प्रागभावप्रध्वंसयोः प्रतियोगि । अनीदृक् अत्यन्ताभावप्रतियोगि । अपहसति ते इति ।। ८९३ ।।

युक्तिमल्लिका

यदि तस्यैव मिथ्यात्वमाशास्से पशुता तदा ।

त्वत्तो गतेति जीवैक्यवादो भग्नस्तवैव हि ।। ८९४ ।।

सुरोत्तमटीका

 ननु तर्हि तस्यैव शृृङ्गस्य मिथ्यात्वं वदिष्यामीत्यतस्तव मते तदप्यशक्यमित्याह ।। यदीति ।। जीवैक्यं पशुजीवैक्यम्

।। ८९४ ।।

सत्यप्रमोदटीका

अद्वितीयपदस्य मम शृङ्गात्यन्ताभाव एवार्थोऽ-स्त्वित्यत आह यदीति । शृङ्गवतः पशोः शृङ्गरहितेन त्वया विरुद्धधर्माधि-करणत्वेन भेदप्राप्त्या पशुजीवस्य त्वयैक्यासिद्धिः । सा च तव जीवैक्यवादिनः सिद्धान्त इत्याह भग्न इति ।। ८९४ ।।

युक्तिमल्लिका

अग्रशब्दोक्तकालस्य सत्त्वात्तत्समयेऽपि च ।

द्वितीयशून्यं तद्ब्रह्म न तदा नान्यदाऽप्यभूत् ।। ८९५ ।।

सुरोत्तमटीका

 द्वितीयशब्देनानित्यजगद्विवक्षायामुक्तैव गतिः । नित्य-जगद्विवक्षायान्तु तस्य प्रलयकालेऽपि विद्यमानत्वेनोक्तविधयापि निषेधा-योगात् । त्रिकालस्थायिनि नित्ये त्वदभिमतत्रैकालिक निषेधस्य सुतराम-योगात्समाभ्यधिकराहित्यमेवाद्वितीयशब्दार्थो वक्तव्य इत्याह ।। अग्रेति ।। तदा प्रलयकाले । अन्यदा सृष्टिकाले ।। ८९५ ।।

सत्यप्रमोदटीका

 कालस्येत्युपलक्षणम् । ‘सलिल एको द्रष्टा’ इति सलिलस्य ‘तदैक्षत नामरूपे व्याकरोदि’ति ईक्षणनामरूपात्मकप्रपञ्चस्य तत्रैव पूर्वोत्तरवाक्यैः सत्त्वावगमादित्यपि द्रष्टव्यम् (न्या.२६६) ।। ८९५ ।।

युक्तिमल्लिका

स्वासिनैव स्वयं छिन्नः कालस्य कुटिला गतिः ।

यत्स्वाभिमतवाक्येन स्वस्यैवाभूत्पराभवः ।। ८९६ ।।

सुरोत्तमटीका

 स्वासिना स्वस्यासिसमेन परनिराकरणार्थमसित्वे-नाभिमतेन वाक्येन । अद्वितीयत्वप्रतिपादकवाक्य एव कालाख्यद्वितीय-स्योक्तत्वात्स्वयं मायी छिन्नः । तत्र लौकिकमाभाणकं संवादयति ।। कालस्येति ।। कालवशात्कस्मिंश्चिदनिष्ट आगते कालस्य कुटिला गतिरिति सर्वे वदन्ति । अग्रशब्दोक्तकालमहिम्नैव मत हान्याख्यानिष्टप्राप्तेरस्योदाहरणं मायावाद्येवेति भावः । यत् यस्मात् ।। ८९६ ।।

सत्यप्रमोदटीका

 स्वासिना स्वपक्षसाधकतयोदाहृतवाक्यगतेन अग्रे इति पदेन प्रतिपाद्यकालाख्यद्वितीयवस्तुना । अहो बत अनर्थकरोऽयं कालो मायिन इत्याह कालस्येति ।। ८९६ ।।

युक्तिमल्लिका

नष्टिर्महदवज्ञायामर्थस्य स्यात्पदे पदे ।

यदच्युतस्य नीचैक्यवादैः कुप्येत्पदावली ।। ८९७ ।।

सुरोत्तमटीका

 एवं च दुर्नीतिविषयोऽपि स एवाभूदित्याह ।। नष्टिरिति ।। महदवज्ञायां महतः पूज्यस्यावज्ञायाम् । अर्थपदेन द्रव्यं शब्दार्थश्च गृह्यते । पदशब्देन चाङ्घ्रिविक्षेपस्सुप्तिङन्तं पदं च गृह्यते । यद्यस्मात् । पदावली अग्रा द्वितीयादिपदावली कुप्येत् परोदीरितमर्थं न सहत इत्यर्थः । वाक्यस्थपद-विरुद्धत्वात् परस्यार्थो नष्ट इति भावः ।। ८९७ ।।

सत्यप्रमोदटीका

 महदवज्ञायां ब्रह्मणो नीचजीवैक्यबोधनेन निन्दायाम् । पदे पदे अग्रसलिलाद्वितीयादिपदबोधितस्य अर्थस्य कालादिकस्य नष्टिः अपलापः । अन्यत्र प्रतिपदं वित्तनाशः ।। ८९७ ।।