वृथा मुण्डनमेवेदं तस्मात्तद्धर्ममुण्डनम्


 

अखण्डार्थतादूषणम्

युक्तिमल्लिका

वृथा मुण्डनमेवेदं तस्मात्तद्धर्ममुण्डनम् ।

न्यासानर्हस्य शूद्रस्य यथा मूर्धजमुण्डनम् ।। १०७५ ।।

सुरोत्तमटीका

 तस्माच्चैतन्ययोरेव नीचोच्चत्वेन विरुद्धत्वात् । तद्धर्म-मुण्डनं जीवब्रह्मचैतन्यनिष्ठसर्वज्ञत्वाल्पज्ञत्वादिधर्ममुण्डनम् । चितोरैक्यघटनाय हि विरुद्धधर्मं मुण्डनम् । उक्तविधया चितोरेव नीचोच्चतया विरुद्धत्वेनैक्यायोगे व्यर्थं धर्ममुण्डनमिति भावः । तत्र दृष्टान्तमाह ।। न्यासानर्हेति ।। १०७५ ।।

सत्यप्रमोदटीका

 मुण्डनं भागत्यागलक्षणा । वृथा चितोरेव तरतम-भावान्नैक्यसाधकम् । वृथात्वमेवोपपादयति यत इति ।। १०७५,१०७६ ।।

युक्तिमल्लिका

यतश्च मुण्डिता व्यक्तिरपि तेऽर्थस्य बाधिका ।

यस्माच्चिन्मात्रमप्यैशं शक्तं शोकादिधूनने ।

जैवं तु तदशक्तं चेत्युक्तं भागवते स्फुटम् ।। १०७६ ।।

सुरोत्तमटीका

 वैयर्थ्यमेव विशदयति ।। यतश्चेति ।। ते अर्थस्य ऐक्य-रूपार्थस्य । कथं बाधिकेत्यतः पूर्वोक्तहेतुमेव स्मारयति ।। यस्मादिति ।। तस्मात्तद्धर्ममुण्डनं व्यर्थमिति पूर्वेणान्वयः ।। १०७६ ।।

युक्तिमल्लिका

अतो न मुख्यतः काचिच्छ्रुतिर्वक्ति जगत्त्रये ।

तवापेक्षितमद्वैतं यत्सा वक्ति न तत्तव ।। १०७७ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि ऐक्यवाक्यं खण्डयति ।। अत इति ।। अतस्सकलदेववाक्यानां विशिष्टार्थपरत्वात् ब्रह्मचिदेव जीवचिदिति वाक्यस्य क्वाप्यभावाच्च । मुख्यतः अभिधावृत्त्या तवापेक्षितमद्वैतं चिन्मात्राद्वैतम् । सा तत्त्वमसीत्यादि श्रुतिः ।। १०७७ ।।

सत्यप्रमोदटीका

 अतो भक्षितेऽपि लशुने न शान्तो व्याधिरित्या-भाणकविषयस्त्वमभूरित्याह यदिति । सा तत्त्वमस्यादिश्रुतिः । तदा वक्ति ऐक्यबोधकमिति तवाभिमतम् । न तव लक्षणापक्षेऽपि भेदबोधकत्वात् न त्वदनुकूला ।। १०७७ ।।

युक्तिमल्लिका

पदद्वयेऽपि लक्ष्यार्थस्वीकारादेकलक्षणा ।

लघीयसी ततस्सर्वा श्रुतिः परमतानुगा ।। १०७८ ।।

सुरोत्तमटीका

 यत् विशिष्टैक्यं यच्च विशिष्टपरवाक्यादेव जहदजह-ल्लक्षणया चिन्मात्रैक्यमाशास्यते तदपि तदा स्यात् यदि चिन्मात्रयोस्स्पष्टमैक्य-प्रतिपादकं वाक्यं क्वापि स्यात् । तस्यैवाभावे अप्रामाणिकतदर्थपरत्व-कल्पनादपि प्रमाणिकतदधीनत्वार्थपरत्ववर्णनमेव ज्यायः । एकपदलक्षणा-रूपत्वेन लघुत्वाच्चेति भावः ।। १०७८ ।।

सत्यप्रमोदटीका

 परमतानुगा सादृश्यादिगौणैक्यपरा ।। १०७८ ।।

युक्तिमल्लिका

किं च मुख्यार्थपरयोश्शब्दयोर्लक्षणा तव ।

सामानाधिकरण्यार्थमात्रस्यामुख्यता मम ।। १०७९ ।।

अतो गुणवती गौणीवृत्तिरेतादृशस्थले ।

आदरार्हा शिरश्छेदात्करच्छेदो यतो लघुः ।। १०८० ।।

सुरोत्तमटीका

 अपि च धर्मिभूतपदार्थद्वयप्रतिपादक पदद्वयलक्षणातोपि तद्धर्मभूतैक्यार्थकविभक्तेर्लक्षणया सादृश्यपरत्वकल्पनारूपा गौणीवृत्तिरेवात्र न्याय्या योग्येतरान्वितस्वार्थाभिधायकानि पदानीति वदता त्वयापि आपाततोऽद्वैत प्रतिपादकतया प्रतीयमानेषु तत्त्वमसि । अहं ब्रह्मास्मि । सर्वं खल्विदं ब्रह्मेत्यादि वाक्येषु स्थितानां तत्त्वमादिपदानां बाधितत्वेनायोग्यमैक्य-रूपमन्वयं विहाय न्यायप्राप्ततया योग्यं सादृश्यरूपमन्वयमादायैव योजना कर्तव्या । अतश्श्रुतिः काप्यद्वैते न वर्तते । अक्षन्तु भेदपक्षपाति । शुष्कानुमा तु व्यर्था । एवं चाप्रामाणिकमेव चैक्यमासीदित्याह ।। किं चेत्यादिना ।। यत् यस्मात् । तत् तस्मात् । युक्तायुक्तयोरन्वययोर्विन्यास सन्न्यासावित्यर्थः ।। १०७९-१०८२ ।।

सत्यप्रमोदटीका

 सामानाधिकरण्येति । अभेदबोधकविशेषणमात्र-विभक्तीत्यर्थः । विशेष्यविभक्त्या नीलं घटमानय इत्यादौ कर्मत्वादिबोधनात् । तेन प्रत्ययार्थबाधेऽपि बहुबाधः समान इति दोषोऽलग्नको वेदितव्यः अत्र सुधायां सन्न्यायरत्नावल्याश्च फलतो विरोधाभावः तर्कताण्डवे ‘लक्षणातो गौण्याः प्राबल्यनिर्णयः’ इति भङ्गे उपपादितो द्रष्टव्यः ।। १०७९,१०८० ।।

युक्तिमल्लिका

यदन्विताभिधायीनि पदान्यन्वयबोधनम् ।

उपसर्जनतः कुर्युस्तन्मुख्योऽर्थः पदोदितः ।। १०८१ ।।

अयोग्यस्त्वन्वयोऽर्थो न मुख्यार्थो न तरामसौ ।

यद्युक्तायुक्तविन्याससंन्यासौ च गुणोचितौ ।। १०८२ ।।

सत्यप्रमोदटीका

 पदानि वाक्यस्थानि । उपसर्जनतः पदार्थविशेषण-त्वेन । अन्वयश्च वाक्यबोध्यः प्रमाणाविरुद्ध एव भवेत् । अन्यथा पदानां योग्यताहाने तद्घटितवाक्यस्याप्रमाणत्वापत्तेः । तत् तस्मात् युक्तस्यान्वयस्य विन्यासः स्वीकारः अयुक्तस्य च परित्यागः इत्येतौ गुणोचितौ गौणीवृत्त्या-श्रयणेनापि न्यायप्राप्तौ ।। १०८१,१०८२ ।।

युक्तिमल्लिका

योग्यान्वयं समादाय जहती बाधितं च तम् ।

मुख्यार्थावभिरक्षन्ती वृत्तिस्साति बलीयसी ।। १०८३ ।।

सुरोत्तमटीका

 गौणीलक्षणयोर्भेदं स्पष्टयितुं तयोराकारं दर्शयति ।। योग्येत्यादिना ।। सा गौणी ।। १०८३ ।।

सत्यप्रमोदटीका

 अमुख्यवृत्त्योः गौणीलक्षणयोः स्वरूपनिरूपणपूर्वकं बलाबले वक्ति । योग्येत्यादिभिः । योग्यान्वयं सादृश्याभेदरूपं समादाय । बाधितं तं स्वरूपैक्यरूपं अन्वयम् । ‘सिंहो माणवक’ इत्यत्र मुख्यार्थौ सिंहमाणवकरूपौ । सा गौणीवृत्तिः । बलीयसी लक्षणापेक्षयेति शेषः ।। १०८३ ।।

युक्तिमल्लिका

यस्यां लक्ष्यार्थनिर्दिष्टे नास्ति तद्वाचकं पदम् ।

लक्षकेणैव बोध्योऽसौ युक्तोऽन्योऽप्यन्वयोऽस्ति न ।

अगत्या जहती मुख्यं वृत्तिस्साऽतिलघीयसी ।। १०८४ ।।

आद्या गौणीति निर्दिष्टा द्वितीया लक्षणा किल ।

विरुद्धाकारसम्पत्ती वृत्ती द्वे नात्र संशयः ।। १०८५ ।।

सुरोत्तमटीका

 यस्यां लक्षणायाम् । अगत्या गौणीवद्योग्यान्वयान्तरा- भावेन मुख्यमर्थम् । सा लक्षणा ।। १०८४,१०८५ ।।

सत्यप्रमोदटीका

 यस्यां गङ्गायां घोष इत्यत्र गङ्गापदस्य तीरे लक्षणा-याम् । निर्दिष्टे तीरे । तद्वाचकं तीरवाचकम् । लक्षकेणैव गङ्गापदेनैव । असौ तीरः अगत्या = सादृश्यान्तर्गणिकभेदे सत्यपि सादृष्यत्वरूपेणानुगतस्यैकस्य तात्पर्यविषयस्य अन्वयस्याभावात् । सा लक्षणा । लघीयसी गौणीतः । केचित् सादृष्यमपि सम्बन्धविशेषं विवक्षित्वा गौण्या लक्षणायामन्तर्भाव-मिच्छन्ति । तन्मतं खण्डयति विरुद्धेति । दूषणप्रकारे विस्तरः तर्कताण्डवे ‘गौण्या लक्षणातो भेदसमर्थनं’ इति भङ्गे अत्रोक्तबलवत्त्वप्रकारस्य प्रायिकत्वं तत्रैव व्यक्तम् ।। १०८४,१०८५ ।।

युक्तिमल्लिका

तदाद्यायां मुख्ययोगोऽप्यार्थिको न तु शाब्दिकः ।

वाक्यार्थोऽप्यन्वयस्तीरघोषयोरेव न स्वयम् ।। १०८६ ।।

सुरोत्तमटीका

 यत् यस्मात् । तत् तस्मात् । अयं मुख्यलक्ष्यार्थसम्बन्धः ।। १०८६ ।।

सत्यप्रमोदटीका

 लक्षणायां मुख्ययोगः गङ्गासम्बन्धः तीरेण । आर्थिकः लक्ष्य एव । न शाब्दिकः न वाच्यः । न स्वयं न गङ्गाघोषयोरपि । अजहत्स्वार्थलक्षणायां तु दध्युपघातकत्वरूपलक्ष्यताऽवच्छेदकरूपेण उपस्थिते काकेऽप्यन्वय इति विशेषः । लक्षणायामपि गङ्गाशब्दो गङ्गातीरत्वेनैव तीरोपस्थापक इत्यस्य पञ्चधोपपादनं तर्कताण्डवे ‘लाक्षणिकादेरपि शक्य-सम्बन्धित्वादिनैव लक्ष्याद्युपस्थापकत्वसमर्थनम्’ इति भङ्गे (६८) द्रष्टव्यम् ।। १०८६ ।।

युक्तिमल्लिका

लक्ष्यार्थो निर्विकल्पा धीर्यस्य तस्य मते पदम् ।

मुख्यार्थयोगं मुख्यं च न वदेन्नापि लक्षयेत् ।। १०८७ ।।

सुरोत्तमटीका

 तस्य तार्किकस्य ।। १०८७ ।।

सत्यप्रमोदटीका

 निर्विकल्पा अन्वयानुभावकत्वशून्या । यस्य तार्किकस्य पदं लाक्षणिकादिपदम् । अन्वयं स्वार्थं वा न वदेत् नापि लक्षयेदिति । ‘वाचकमेवानुभावकम् । लाक्षणिकादिकं तु स्मारकमेव । शक्तस्यैवानुभावकत्वे तन्त्रत्वात्’ इति मण्युक्तेः । अत्र विस्तरः तर्कताण्डवे ‘लाक्षणिकादेरनुभावकत्वसमर्थनं’ इति भङ्गे (६७) ।। १०८७ ।।

युक्तिमल्लिका

पौनरुक्त्यात्सिंहपदं देवदत्तं न लक्षयेत् ।

किन्तु सिंहात्मतां सिंहसादृश्यं वाऽस्य शंसति ।। १०८८ ।।

सुरोत्तमटीका

 ननु गङ्गापदेन तीरवत्सिंहपदेनापि देवदत्तस्यैव लक्षणया निरूपणे कथं गौणी लक्षणयोर्भेद इत्यत आह ।। पौनरुक्त्यादिति ।। सिंहो देवदत्त इति वाक्ये देवदत्तपदेनैव देवदत्तस्य निरूपितत्वेन पुनः सिंहपदेनापि तस्यैव निरूपणे पुनरुक्तत्वादित्यर्थः । एवं च पदद्वयमुख्यार्थौ सिंहदेवदत्तौ ताभ्यां पदाभ्यामभिधाय मुख्यान्वयमात्रस्य परित्यागे गौणी । वाक्यार्थ-भूतमुख्यान्वयमङ्गीकृत्य एकपदमुख्यार्थस्यैव त्यागेन अमुख्यार्थान्तरनिरूपणे लक्षणेति कथं न भेदः । कथं वा लक्षणातो न गौणी गुणवतीति भावः ।। १०८८ ।।

सत्यप्रमोदटीका

 लक्षणायां मुख्यस्य प्रातिपदिकस्यैव अर्थत्यागः । गौण्यां तु अमुख्यस्य प्रत्ययमात्रस्य इति प्रागुक्तं गौण्याः प्राबल्यं स्मारयति । पौनरुक्त्यादिति । किन्तु प्रातिपदिकार्यात्यागेनैव ।। १०८८ ।।

युक्तिमल्लिका

अक्षस्य पक्षपातस्तु साक्षाद्भेदः प्रदृर्श्यते ।

कामाच्च नानुमापेक्षेत्युक्तेश्शुष्कानुमाऽफला ।। १०८९ ।।

तस्मात्त्वदैक्यगाधा या मानं मूलं न दृश्यते ।

कृष्णस्नेहविनाशाय सा निर्मूला लतेव ते ।। १०९० ।।

सुरोत्तमटीका

 ते तव । कृष्णस्नेहविनाशाय भक्तिविनाशाय । तैलनाशायेति ध्वनिः । सा ऐक्यगाधा । निर्मूललतेति सम्बन्धः । मूलरहिता काचन लता गुल्मादिषु तिष्ठति । तद्रसेन अङ्गाभ्यक्ततैलनाशो भवतीति लोकप्रसिद्धिः । तद्वदियमपि तव कृष्णस्नेहविनाशाय निर्मूललतैवेति भावः ।। १०८९,१०९० ।।

सत्यप्रमोदटीका

 सर्वप्रमाणविरुद्धा निर्मूला इयं तव प्रक्रिया कृष्णे परमात्मनि तद्गुणापलापेन स्नेहविनाशिनी इति लताश्लेषेण साहित्यमुद्रयाऽऽह अक्षस्येति । काचन मूलरहिता गुल्मादिस्थिता लता अङ्गाभ्यक्तस्नेहयुक्ततैल-विनाशिनी इति प्रसिद्धिः ।। १०८९, १०९० ।।

युक्तिमल्लिका

पदद्वयोक्तयोरैक्ये विरोधान्नास्ति ते श्रुतिः ।

ऐक्यं न मुख्यतोऽर्थस्याल्लक्ष्यत्वे पदयोर्द्वयोः ।। १०९१ ।।

सुरोत्तमटीका

 प्रकारान्तरेणाप्यैक्यश्रुतेर्दौर्बल्यमुपपादयति ।। पदद्वयेति ।। १०९१ ।।

सत्यप्रमोदटीका

 ऐक्यं चिन्मात्रैक्यम् । पदयोर्द्वयोरमुख्यार्थ इत्युत्तरे-णान्वयः । श्रुतिः कथं वक्तीति योजना । तत्र हेतुः भेदश्रुतीति । अर्दिता बाधिता । नामुख्यात् फलमित्यस्यानुकर्षः । नेति निर्धर्मिताऽवच्छेदक-शाब्दबोधस्यालीकत्वात् । चितश्च निर्धर्मिकत्वात् ।। १०९१-१०९३ ।।

युक्तिमल्लिका

अमुख्यार्थं च मुख्यार्थभेदश्रुतिशतार्दिता ।

कथं वक्ति श्रुतिर्मुख्यामुख्ययोर्मुख्यतः फलम् ।। १०९२ ।।

नामुख्यान्न हि हर्यक्षस्याग्रे हरिणगर्जितम् ।

चिन्मात्रैक्ये न काऽप्यस्ति श्रुतिरित्यश्रुतं हि तत् ।। १०९३ ।।

सुरोत्तमटीका

 अमुख्यार्थं अमुख्यया वृत्त्याऽर्थरूपमैक्यम् । प्राक्पद-द्वयोदितविशिष्टैक्यादर्धांशत्यागेनैक्यमपि भाक्तमिति भावः । श्रुतिः तत्त्वमसी-त्यादि श्रुतिः । मुख्यामुख्ययोर्मध्ये मुख्यामुख्ययोर्मुख्ये संप्रत्यय इति वचनात् । मुख्यार्थत्वेन निरवकाशत्वेन बहुत्वेन च प्रबला भेदश्रुतिः अमुख्यार्थत्वेन दुर्बलामैक्यश्रुतिमाभासीकरोति । ब्रह्मचित् जीवचिदभिन्नेति मुख्यया वृत्त्या चितोरेवाभेदप्रतिपादिका श्रुतिस्त्रैलोक्येऽपि नास्ति । अतोऽपि गतमद्वैतमतमिति भावः ।। १०९२,१०९३ ।।

युक्तिमल्लिका

प्रवव्राज तदद्वैतं त्वमिवाम्नायमन्दिरात् ।

शिरोमुण्डितमस्माभिर्बाह्येभ्यो भैक्षमाददे ।। १०९४ ।।

सुरोत्तमटीका

 साहित्यमुद्रया परमपहसति ।। प्रवव्राजेति ।। आम्नायाख्यमन्दिरात् । शिरः श्रुतिशिरोरूपं ऐक्यप्रतिपादकतयाऽभिमतं वेदान्तवाक्यम् । मुण्डितं ऐक्यमस्तकादुच्छिद्यान्यत्र स्थापितम् । बाह्येभ्यः वेदबाह्येभ्यः शून्यवादिभ्यः स्वपोषकवेदान्तवाक्याभावात् शून्यवादिवचनान्येव गतिरिति तत्रैव स्थिरमभूदिति भावः ।। १०९४ ।।

सत्यप्रमोदटीका

 त्वमिव जनानां वञ्चनायैव सन्यासभाक् इव । ‘न वर्णाश्रमाचारधर्माः’ इति मन्वानस्य कुतः वास्तवं प्रव्रजनमि’ति ध्वनिः । शिरः ऐक्यवाक्यं चिन्मात्रैक्यरूपादर्थात् प्रच्यावितम् । बाह्येभ्यः इति निर्विशेषचितः शून्यादविशेषात् इति भावः ।। १०९४ ।।

युक्तिमल्लिका

स्वशिरःपातिवृक्षस्य च्छेदेनाधो मरिष्यति ।

भेदे भिन्नादिकल्पोक्तदोषेण स्वैक्यदोषवत् ।। १०९५ ।।

सुरोत्तमटीका

 भेदो भेदिभ्यां भिन्नो वाऽभिन्नो वा भिन्नाभिन्नो वेति विकल्प्य अनवस्थान्यतरमात्रपरिशेषविरोधाख्यदूषणमुक्त्वा यत् खण्डनकारेण भेददूषणं कृतम् तत् ऐक्यं ब्रह्मणो भिन्नमभिन्नं भिन्नाभिन्नं वेति विकल्पस्य दूषणस्य चैक्येऽपि समत्वात् दुर्नीतिरित्याह ।। स्वशिर इति ।। स्वयमेवाधो मरिष्यतीत्यर्थः । अस्यार्थस्य खण्डनकार एव निदर्शनमिति भावेनोक्तम् ।। भेद इति ।। आदिपदेनाभिन्नभिन्नाभिन्नयोर्ग्रहणम् । कल्पो विकल्पः ।। १०९५ ।।

सत्यप्रमोदटीका

 ‘विशिष्टादिनिराकरणयुक्तीनामपि विशिष्टाद्यपेक्ष-त्वाज्जात्युत्तरमिति न युक्तिबाधाऽपी’ति तत्त्वोद्योतं हृदि कृत्वा खण्डनकारोक्तं भेदविकल्पदूषणं अभेदपक्षेऽपि साम्योक्त्या व्याघातेन दूषयति स्वशिर इति ।। १०९५ ।।

युक्तिमल्लिका

शिशोर्जातस्य या रक्षां कुरुते जननी हि सा ।

सर्वखण्डनकारस्तु पूतनायाः कुमारकः ।। १०९६ ।।

सुरोत्तमटीका

 पुनश्च खण्डनकारमपहसति ।। शिशोरिति ।।१०९६।।

सत्यप्रमोदटीका

 शिशोः स्वाभिमतप्रमेयस्य । सा जननी स एव कथायामधिकारी ।। १०९६ ।।

युक्तिमल्लिका

सर्वं खण्डयतोप्यऽस्य खण्डनं रक्ष्यमेव हि ।

आत्मा च रक्ष्यस्तत्काले भिक्षापात्रं करे भवेत् ।। १०९७ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। सर्वमिति ।। खण्डनं सर्वखण्डनम् । एवकारेण खण्डनरक्षणाभावे सर्वस्योत्थानं भवतीति सूचयति । तत्काले सर्वखण्डनस्य आत्मनश्च प्रमाणादिना रक्षणकाले ।। १०९७ ।।

सत्यप्रमोदटीका

 ‘यदि भेददर्शनं न स्यात् तर्हि सकलव्यवहारविधुरः परः प्रसज्येत’ इति वादावलीं अनुरुध्याह सर्वमिति । ऐक्यस्य बाधितत्वे भेदोन्मज्जनप्रसङ्गात् । भिक्षेति परेभ्यो भेदं भिक्षित्वा खलु त्वया आत्मभिन्नेभ्य आत्मा रक्ष्य इति भावः ।। १०९७ ।।

युक्तिमल्लिका

परन्यायैः परो दूष्यस्स्वार्थस्साध्यो मतो यदि ।

याचिता अपि ते न्यायास्सन्याया वा न वा वद ।। १०९८ ।।

सुरोत्तमटीका

 परन्यायैः परो दूष्यते स्वार्थश्च साध्यत इति खण्डन-कारस्याभिमानं खण्डयति ।। परन्यायैरिति ।। ते न्यायाः परन्यायाः

।। १०९८ ।।

सत्यप्रमोदटीका

 ‘नापि परन्यायैः परस्य दूषणम् । परस्यापि स्वन्याय स्वक्रियाविरुद्धविकल्पसाधुत्वाप्रसिद्ध्या बोधयितुमशक्यत्वात्’ इति वादा-वल्युक्तमाह परेति ।। १०९८ ।।

युक्तिमल्लिका

सन्न्यायाश्चेज्जितं तेन दुर्न्याया अपि चेज्जितम् ।

स्वेष्टापुष्टेः किमु व्योमनीलिम्ना सोमनीलिमा ।। १०९९ ।।

सुरोत्तमटीका

 तेन प्रमाणादिव्यवस्थामङ्गीकुर्वता । जितं तेनैव जितम् । कथमित्यत उक्तम् ।। स्वेष्टापुष्टेरिति ।। स्वेष्टस्य स्वाभिमतस्य सर्वखण्डनस्य आत्मनश्च अपुष्टेः असिद्धेरित्यर्थः । दुर्न्यायस्य साधकत्वायोगात् । साधकत्वे च स्वाभीष्टवत् पराभिमतप्रमेयस्यापि सिद्धिप्रसङ्गादिति भावः । दुर्न्यायस्या-साधकत्वे दृष्टान्तमाह । किम्विति ।। गगननैल्यस्यैवाभासत्वात् यथा तेन सोमनीलिमा न भवति । तथा दुर्न्याया अपि साधका न भवन्तीत्यर्थः ।। १०९९ ।।

सत्यप्रमोदटीका

 सन्न्याया इति पक्षे । तेन परेण त्वयैव तन्न्यायानां साधुत्वाङ्गीकारात् । दुर्न्याया इति चेत् न याचितैरपि तैः तव पक्षसिद्धिः । तदाह स्वेष्टापुष्टेः । स्वेन इष्टस्य खण्डनस्यापि असिद्धेः । तत्रार्थान्तरं किमु इति याचितस्य व्योमनीलिम्न एवाप्रामाणिकत्वात् ।। १०९९ ।।

युक्तिमल्लिका

उष्ट्रः कण्टकमेवात्ति तृणं गौर्दर्दुरो मृदम् ।

शिलाकणान्कपोतोऽत्ति स्वयं शाल्योदनप्रियः ।। ११०० ।।

सुरोत्तमटीका

 किं च परन्यायैस्स्वार्थं साधयामीत्याशामात्रं वस्तुतस्तन्न घटत इत्याह ।। उष्ट्र इत्यादिना ।।  स्वयं खण्डनकारः । परन्यायेन स्वार्थं साधयति चेत् उष्ट्रादिवत् कण्टकादिभक्षणेनैव स्वोदरं पूरयेदिति भावः ।। ११०० ।।

सत्यप्रमोदटीका

 स्वयमित्यपहासः स्वयमपि कण्टकाद्याहारवान् भवेरिति ।। ११०० ।।

युक्तिमल्लिका

गोपुच्छग्रहणेनापि गोष्ठप्राप्तिर्भवेत्तव ।

गोष्ठात्तु स्वगृहप्राप्त्यै स्वयमेव यतेत हि ।। ११०१ ।।

सुरोत्तमटीका

 किं च प्रमाणादिलक्षणव्यवस्थामात्रस्य परकीयग्रन्थ-च्छायया कर्तुं शक्यत्वेऽपि स्वाभिमतप्रमेयसिद्धौ परैः प्रमाणस्यानुदितत्वात् तदर्थं स्वेनैव प्रयतितव्यमित्यत्र दृष्टान्तमाह ।। गोपुच्छेति ।। ११०१ ।।

सत्यप्रमोदटीका

 गोपुच्छग्रहणेन पराभ्युपगतप्रमाणाद्यभ्युपगमेन गोष्ठ-प्राप्तिः परसिद्धान्तसिद्धिः । स्वगृहप्राप्त्यै स्वाभ्युपगतचिन्मात्रस्य अनिर्वच-नीया विद्यादिकस्य सिद्ध्यै स्वयमेव यतेत अविद्यातत्कार्यमिथ्यात्वसाधक-प्रमाणानां उपन्यस्य समर्थनीयत्वात् । पराक्रान्तं च परेण तदर्थम् ।।११०१।।

युक्तिमल्लिका

अभेदार्थे बाधिते तु श्रुतेरन्यार्थतां परः ।

ब्रूते परस्य न्यायेऽस्मिंस्त्वं कस्मान्न प्रवर्तसे ।। ११०२ ।।

सुरोत्तमटीका

 स्वयं शाल्योदनप्रिय इत्युक्तन्यायं तदीयशास्त्रार्थेऽपि दर्शयति ।। अभेदार्थ इत्यादिना ।। अस्मिन् बाधितार्थपरित्यागरूपे ।।११०२।।

सत्यप्रमोदटीका

 किञ्च ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति न्यायम् । परो ब्रूते । तत्र तव न प्रवृत्तिः । प्रत्युत भेदवाक्यानां सर्वथाऽ-तत्त्वावेदकतैवेति त्वं आस्थितः । अतो रिक्थमिदं ते वचः परन्यायाङ्गीकार इतीत्याह अभेदार्थे इति ।। ११०२ ।।

युक्तिमल्लिका

विच्छिद्य सिंहपुच्छादिपुरुषस्य करादि च ।

तयोरैक्यं वदन्तः के परे यद्याचको भवान् ।। ११०३ ।।

सुरोत्तमटीका

 तयोर्मुण्डितसिंहपुरुषव्यक्त्योः । यद्याचकः येषां परेषां याचकः । ते परे क इति पूर्वेणान्वयः ।। ११०३ ।।

सत्यप्रमोदटीका

 किञ्च त्वया दुर्भाषिताः न्याया न केनापि परेणोक्ता इति अनेकधा निरूपयति विच्छिद्येति जहदजहल्लक्षणा न केनापि स्वीकृतेति भावः ।। ११०३ ।।

युक्तिमल्लिका

परन्यायैः परो बोध्य इति वाङ्मात्रमेव ते ।

मिथ्याभूतप्रमाणेन कोऽर्थसिद्धिं परो वदेत् ।। ११०४ ।।

ऐक्यवेदकवाक्यानां मानत्वं कः परो वदेत् ।

अन्येषां वेदभागानाममानत्वं च को वदेत् ।

शब्दादेवापरोक्षं च कः परो वक्ति भूतले ।। ११०५ ।।

सुरोत्तमटीका

 प्रमेयान्तरेष्वपि दर्शयति ।। मिथ्याभूतेत्यादिना

।। ११०४, ११०५ ।।

सत्यप्रमोदटीका

 एवं मिथ्याभूतस्य साधकत्वं, प्रत्यक्षादिसकल-प्रमाणविरुद्धार्थे वाक्यानां प्रामाण्यं, तत्सिद्धार्थबोधकानां अमानत्वं, शब्दादेवापरोक्षं इत्यादीनि न केनापि परेण स्वीकृतानि । अत्र सर्वत्रापि अगत्या स्वन्यायानुसृतिरेव वक्तव्या । तथैव परःप्रमेयं स्वं स्थापयेदेवेत्याह मिथ्येत्यादिना । अस्थापीति लुङ् ।। ११०४-११०६ ।।

युक्तिमल्लिका

इत्थं न्यायस्यैव भेदान्नान्यस्य न्यायतस्तव ।

अर्थसिद्धिर्भवेन्मन्दस्वन्यायानुसृतौ च ते ।

वाच्या सर्वा व्यवस्थापि तेनास्थापि मतं परैः ।। ११०६ ।।

सुरोत्तमटीका

 इत्थं पूर्वोक्तप्रकारेण । न्यायस्य स्वन्यायस्य । जात्येक- वचनम् । स्वन्यायानामित्यर्थः । स्वन्यायानुसृतौ स्वन्यायानां स्वकपोल-कल्पितसाधक प्रमाणाद्यनुसृतौ । व्यवस्था प्रमाणलक्षणादिव्यवस्था । परेण हि तत्त्वावेदकत्वं प्रमाणलक्षणमुदितं शब्दरूपप्रमाणस्य च शाब्दप्रमाजनकत्वमेव लक्षणमुदितम् । अतत्वावेदकप्रमाणं शब्दादेवापरोक्षज्ञानं शब्दादेव निर्विकल्पकं च वदतस्तव तानि लक्षणानि मा भूवन् । अतस्त्वयापि प्रमाणलक्षणादिकं स्वाभीष्ट साधकप्रमाणनि च पृथगेव वक्तव्यानीति भावः । तेन परेणापि प्रमाणादिव्यवस्थाङ्गीकारेण । मतं प्रमाणादिव्यवस्थायाः प्रामाणिकत्वमतम् ।। ११०६ ।।

युक्तिमल्लिका

सोऽयमित्यादिवाक्येऽपि न त्यागोस्ति पदार्थयोः ।। ११०७ ।।

सुरोत्तमटीका

 सोऽयं देवदत्त इत्यत्र पदद्वयस्य स्वरूपमात्रे लक्षणेति परस्य पक्षः । सोपि न । तद्देशकालादीनामिदानीमभावेन तत्पदमात्रे लक्षणा-याः कथञ्चिद्वक्तुं शक्यत्वेऽपि एतत्पदार्थभूतैतद्देशकालसंयोगस्य वाक्यप्रयोग-कालेऽपि विद्यमानत्वेन पररीत्याप्येतत्पदलक्षणायां कारणाभावात् । विचार्य-माणे तु पदद्वयेऽपि न लक्षणेत्याह ।। सोऽयमिति ।। ११०७,११०८ ।।

सत्यप्रमोदटीका

 तत्त्वमस्यादिवाक्यं अखण्डार्थनिष्ठं अकार्यकारण-द्रव्यमात्रनिष्ठत्वे सति समानाधिकृतत्वात् तन्मात्रप्रश्नोत्तरत्वात् । सोऽयं देवदत्त इति वाक्यवत् इति परानुमानं दूषयति सोऽयमित्यादिना । तत् दृष्टान्तः साध्यविकलः । अनुपपत्त्यभावेन सः अयं इति पदयोः लक्षणाऽऽश्रयणा-नुपपत्तेरित्याह नेति ।। ११०७ ।।

युक्तिमल्लिका

प्राग्देशकालयोगस्यातीतत्वं वक्ति तत्पदम् ।

इदम्पदं तु वक्त्येतद्देशकालानुबन्धिताम् ।। ११०८ ।।

तद्देशकालयोगस्य ह्यस्य यं तत्पदोदितम् ।

कस्त्यजेदन्यदस्त्येव विशेषणपदोदितम् ।। ११०९ ।।

सुरोत्तमटीका

 तत्पदं तदिति पदम् । अन्यत् एतद्देशकालसम्बन्धि-त्वम् । इदानीमतीतो यः काशीदेशकालसम्बन्धः स एव तत्पदार्थः । तथा च सोऽयमित्यत्र स इत्युक्त प्राग्जातकाशीदेशकालसम्बन्ध ध्वंसवानेवायं न त्वन्य इति वाक्यार्थपर्यवसानं स्यात् । अन्यथा काशीस्थस्य चास्य चैक्यासिद्धिः । देवदत्तस्वरूपमात्रस्य च अयमिति पदेनैव बोधयितुं शक्यत्वात् पदान्तरेवैयर्थ्यं च स्यादिति भावः ।। ११०९ ।।

सत्यप्रमोदटीका

 ‘अनित्यदेशकालसम्बन्धित्वस्य सत्त्वान्न सोऽयं देवतेत्युपमा च’ इति तत्त्वोद्योतवाक्यं विवृणोति प्रागिति सः इति । सः इति पदं खलु न अतीतदेशकालसम्बन्धमाह येन तस्य अयमिति इदन्ताविधान-कालेऽभावेन अनुपपत्त्या पदार्थस्वरूपमात्रे लक्षणाऽऽश्रयणं किं नाम तस्यातीतत्वमपि । अतीतत्वं च ध्वंस इदानीमस्त्येवेति काऽनुपपत्तिः इत्याह क इति । अन्यत् इदन्ता एतद्देशकालसम्बन्धः । स तु अस्त्येवेत्यविवादम् । अतः न पदद्वयेऽपि लक्षणाऽवकाशः ।। ११०८, ११०९ ।।

युक्तिमल्लिका

विशेष्यपदवाच्यस्य त्वीषत्त्यागोऽपि नेष्यते ।

वाक्येऽस्मिन्नन्यवाक्ये तु मृद्घटस्स्वर्णमेव हि ।

कर्णभूषणमित्याद्ये नैकत्यागेऽपि विद्यते ।। १११० ।।

सुरोत्तमटीका

 विशेष्यपदवाच्यस्य देवदत्तपदवाच्यस्येत्यर्थः । मायिनस्तु तद्ब्रह्म त्वमसीत्यत्र विशेष्यपदवाच्यब्रह्मत्वस्यापि त्यागोऽस्ति । अतोऽपि नेदं तस्योदाहरणमिति भावः । अस्मिन्वाक्ये सोऽयं देवदत्त इति वाक्ये । इत्याद्ये अन्यवाक्ये इति सम्बन्धः । अन्यवाक्ये ऐक्यप्रतिपादक-वाक्यान्तरे । एकत्यागेऽपि एकपदवाच्यस्यापि त्याग इत्यर्थः । मृत्त्व-घटत्वादिविशिष्टयोरैक्यम् । न त्वेकस्यापि पदवाच्यस्य त्यागोऽस्ति । इदमेव च तवोदाहरणम् । न तु तत् । तत्र हि तत्पदवाच्यातीतदेशकालयो-रिदानीमभावेनागत्या तवापि मते स्वरूपमात्रलक्षणा । तत्त्वमसीति वाक्ये तु तत्पदं न देशकालपरं किंतु पूर्वोक्तसत्यत्व आत्मत्वादि गुणपरामर्शि । तेषां च ऐक्योक्तिदशायामपि सत्त्वेन अनुपपत्तेरभावात् किमर्थं लक्षणा । विरुद्धधर्म-विशिष्टयोरैक्यानुपपत्त्या लक्षणा चेत् । कुत्रेदं दृष्टम् । मृद्घटाद्यैक्यवाक्ये लक्षणाया एवाभावात् । सोयमिति वाक्ये च निमित्तान्तरेणैव लक्षणा न तु विशेषणयोः परस्पर विरोधात् । एकस्यैव गगनस्य द्विदेशकालवर्तित्व-दर्शनात् । अतस्तवैक्यवाक्यस्य ब्रह्मसदृशत्वार्थकत्वे सिंहो देवदत्त इत्यैक्य-वाक्यमेवोदाहरणं स्यात् । पदद्वयोक्तसिंहत्वदेवदत्तत्वयोस्तत्रैव विरोधात् । विरुद्धगुणत्यागेन मुण्डितव्यक्त्योरैक्यकथने तु अदृष्टकल्पनाख्यरोगस्य न किञ्चिदौषधमिति भावः ।। १११० ।।

सत्यप्रमोदटीका

 ऐक्यसिद्धये मृद्घटः सुवर्णभूषणं इत्यादिकमेव त्वया उदाहर्तुमुचितम् ।तत्र तु एकस्यापि न त्याग इत्याह मृदिति।।१११० ।।

युक्तिमल्लिका

यो दण्डी कुण्डली चासाविति दण्डविशिष्टतः ।

स्यात्कुण्डलविशिष्टैक्यं किमेके दण्डकुण्डले ।। ११११ ।।

सुरोत्तमटीका

 नन्वेवं सोऽयमिति वाक्यस्थ पदद्वयस्यापि विशिष्टपरत्वे तयोश्च विशेष्यभूतदेवदत्तेनैक्ये विशेषणभूतयोरतीतवर्तमानदेशकालयोरपि तेनैक्यं स्यादित्यत आह ।। यो दण्डीति ।। ११११ ।।

सत्यप्रमोदटीका

 सामानाधिकरण्यं हि दण्डाश्रयस्य कुण्डलाश्रयेणैव तादात्म्यमवलम्बते न तु दण्डकुण्डलयोरित्याह य इति ।। ११११ ।।

युक्तिमल्लिका

विशेष्योपादानकस्य विशिष्टस्य हि जन्मनि ।

विशेषणं निमित्तं नस्तदैक्येऽस्यैकता कुतः ।। १११२ ।।

सुरोत्तमटीका

 विशिष्टैक्येऽपि विशेषणैक्याभावे कारणमाह ।। विशेष्येति ।। विशेष्यो देवदत्तः नः मते । तदैक्ये उपादानोपादेय-रूपविशेष्यविशिष्टयोरैक्ये । अस्य निमित्तभूतं दण्डादेः ।। १११२ ।।

सत्यप्रमोदटीका

 विशेष्यः पुरुषः, विशिष्टः दण्डी, विशेषणं दण्डः । तत्र पुरुषोपादानकदण्ड््युत्पत्तौ दण्डः निमित्तकारणम् । तदैक्ये पुरुषाद्दण्डिनो भेदाभेदेन अभेदस्यापि सत्त्वे । अस्य दण्डस्य ।। १११२ ।।

युक्तिमल्लिका

अथौद्धत्याद्विशिष्टैक्यं यदि क्वापि न मन्यसे ।

तर्हि दृष्टान्तशून्यत्वाद्गतमापादनं तव ।। १११३ ।।

सुरोत्तमटीका

 ननु क्वापि विशिष्टैक्यं मया नाङ्गीक्रियते । अतो मदुक्त-व्याप्तिव्यभिचारस्य नेदमुदाहरणमित्यत आह ।। अथेति ।। उपादानोपादेय-योस्सम्भावितैक्यस्य परित्यागादौद्धत्यादित्युक्तम् । आपादनं विशिष्टैक्ये विशेषणयोरप्यैक्यं स्यादित्यापादनम् ।। १११३ ।।

सत्यप्रमोदटीका

 एवं व्यभिचारे प्रदर्शिते तत्परिहाराय यदि वैयात्या-त्कुत्रापि विशिष्टैक्यं नाङ्गीकरोमि इति ब्रूयात्तर्हि तर्के आपादकासिद्धिरित्याह अथेति ।। १११३ ।।

युक्तिमल्लिका

अस्ति रूपविशिष्टैक्ये रूपैक्यमपि यद्यपि ।

भेदाभेदमते तच्च न ते तर्कनिदर्शनम् ।। १११४ ।।

सुरोत्तमटीका

 ननु रूपविशिष्टस्य घटेनैक्ये आवयोर्मते धर्मधर्मिणो-र्भेदाभेदाङ्गीकारात् विशेषणीभूतरूपस्यापि घटेनैक्यमस्ति । अत इदमेव मम व्याप्तेरुदाहरणं भविष्यतीति शङ्कामनूद्य दूषयति ।। अस्तीति ।। १११४ ।।

सत्यप्रमोदटीका

 रूपविशिष्टैक्ये रूपी घटः इत्यत्र रूपविशिष्टस्य घटेनैक्ये रूपैक्यं रूपस्य घटेनैक्यम् । भेदाभेदमते अयावद्द्रव्यभाविधर्माणां धर्मिणा भेदाभेदौ इति मते । तत्रोपाधिनिमित्त एवाभेदः काचित्कः न त्वत्तर्कोपयोगिव्याप्तिं प्रयोजयतीत्याह औपाधिकेति । ‘सहदर्शनमात्रेण न व्याप्तिरवसीयते’ इत्युक्तेः । सोपाधिकसम्बन्धेनापि व्याप्त्यध्यवसाये वह्ने-र्धूमेनापि तन्निश्चयः स्यादिति भावः ।। १११४-१११६ ।।

युक्तिमल्लिका

कार्यकारणभावाद्वा धर्मधर्मित्वतोऽपि वा ।

ईदृग्विशेषणैक्यस्य प्राप्तिस्तव ममापि च ।। १११५ ।।

सुरोत्तमटीका

 तद्रूपविशिष्टैक्ये विशेषणीभूतरूपैक्यं कुत इत्यत आह ।। कार्येति ।। १११५ ।।

युक्तिमल्लिका

अप्रयोजकमेवाभूद्विशिष्टैक्यमिहावयोः ।

औपाधिकसमावेशे व्याप्यव्यापकता न हि ।। १११६ ।।

सुरोत्तमटीका

 अप्रयोजकं रूपघटयोरैक्ये उपादानोपादेयभावस्यैव प्रयोजकत्वेन विशिष्टैक्यं प्रयोजकं नेत्यर्थः । इह रूपविशिष्टैक्यस्थले । औपाधिकसमागमे उपादानोपादेयत्वरूपैक्योपाधिसम्बन्धनिमित्तसमागमे ।। १११६ ।।

युक्तिमल्लिका

अतो निदर्शनं नेदं यदि भिन्ने विशेषणे ।

विशिष्टैक्यबलादेव स्यादैक्यमपि कुत्रचित् ।। १११७ ।।

निदर्शनं तदेव स्यात्तच्च नाङ्गीकृतं त्वया ।

तदा निदर्शनं नेति सुष्ठूक्तं पूर्वसूरिभिः ।। १११८ ।।

सुरोत्तमटीका

 अतः अत्र विशिष्टैक्यस्याप्रयोजकत्वात् । भिन्ने कार्यकारणभावानवलम्बिनि अत्यन्तभिन्ने दण्डकुण्डलादौ । तत् अत्यन्तभिन्न-विशेषणस्थलीयविशिष्टैक्यम् । नाङ्गीकृतमित्युपलक्षणम् । दण्डकुण्डलविशिष्टै-क्येऽपि दण्डकुण्डलैक्यादर्शनेन व्यभिचार इत्यपि द्रष्टव्यम् ।।१११७,१११८।।

सत्यप्रमोदटीका

 इदं रूपघटनिदर्शनम् । न व्याप्तिसाधनं न । तर्हि कीदृशं निदर्शनं व्याप्तिगमकं स्यादित्यत आह यदीति । भिन्ने कार्यकारण-भावाद्युपाधिमन्तरेणापि स्वभावत एव भिन्ने धूमवह्निरूपे विशेषणे विशिष्टैक्य-बलात् धूमवतः वह्निमतश्च पर्वतस्य विशिष्टस्यैक्यबलात् ऐक्यं धूमवह्निरूप-विशेषणयोरैक्यं स्यात् । तर्हि तदेव निदर्शनं व्याप्तिनिश्चायकं स्यात् इति उत्तरेणान्वयः । तादृशं निदर्शनं नास्ति त्वया नाङ्गीकृतं च । सुष्ठु उक्तं व्याप्तिविकलस्तव तर्काभासः इत्युक्तम् ।। १११७, १११८ ।।

युक्तिमल्लिका

किञ्चैवमपि सार्वज्ञपूर्वधर्मविशिष्टतः ।

अज्ञतादिविशिष्टाच्च चिन्मात्रैक्यमिहोच्यताम् ।। १११९ ।।

सुरोत्तमटीका

 अपि च सोऽयमित्यत्र दृष्टान्ते तर्कबलेन विशिष्टैक्यं निराकुर्वता परेण तत्त्वमसीत्यत्रापि तेनैव तर्केण विशिष्टैक्यनिराकरणं कर्तव्यम् । अन्यथा दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यप्रसङ्गात् । अत्र च तर्कस्येष्टापादन रूपाभासत्वमित्याह ।। किं चेति ।। चिन्मात्रैक्यं चिन्मात्रेणैक्यम् । चिन्निष्ठविशेषणानामपि चिद्रूपत्वात् ईदृशविशिष्टैक्यमपि चिन्मात्रैक्यमेवेति परपरिहासार्थमुदितम् ।। १११९ ।।

सत्यप्रमोदटीका

 विपर्यये पर्यवसानविकालोऽपीत्याह किञ्चेति । ‘नास्ति च विशेषणयोः सर्वज्ञत्वाल्पज्ञतयोरैक्यं अतो विशिष्टयोर्जीवेशयोरपि नैक्यं इति अखण्डवादिना त्वया पर्यवसातव्यम् । न च तथा प्रकृते सम्भवति । अल्पज्ञत्वादिधर्माणां जीवेन चिता सर्वज्ञत्वादिधर्माणां परमात्मना चिता चाभिन्नत्वेन, जीवेशयोरिव तत्तदभिन्नयोर्विवशेषणयोश्चिन्मात्रैक्यस्य त्वद्रीत्यैव निष्प्रत्यूहत्वादित्याह चिन्मात्रेति । उक्तैतद्बाधकाभावात् ।बाधकाभिमतस्य तर्कस्य आभासत्वादिति भावः ।। १११९, ११२० ।।

युक्तिमल्लिका

यतोऽस्ति गुणगुण्यैक्यमपि जीवे हरौ च नः ।

उक्तैतद्बाधकाभावाल्लक्षणावसरोऽत्र न ।। ११२० ।।

सुरोत्तमटीका

 अस्मिन्विशिष्टैक्ये विशेषणैक्यमपि इष्टमेवेत्याशयेनोक्तम् ।। यत इति ।। नः मते । इदं चोपलक्षणम् । परेणापि धर्मधर्मिणोरैक्याङ्गी-कारात् । उक्तैतद्बाधकाभावात् विशिष्टैक्ये विशेषणैक्यमपि स्यादिति बाधका-भावादित्यर्थः । अत्र तत्त्वमसीति वाक्ये ।। ११२० ।।

युक्तिमल्लिका

विशेषणद्वयस्यात्र यद्यप्यस्ति विरुद्धता ।

न सा दृष्टान्तवाक्ये मे तदेतौ द्राविडान्ध्रकौ ।। ११२१ ।।

सुरोत्तमटीका

 विशेषणद्वयस्य तत्पदोक्तसार्वज्ञादिविशेषणस्य त्वंपदोक्त किंचिज्ज्ञात्वादिविशेषणस्य चेत्यर्थः । सा विशेषणद्वयविरुद्धता । दृष्टान्त-वाक्ये सोऽयमितिवाक्ये । एकस्यैव देवदत्तस्य काशीदेशकालस्थत्वस्य एतद्देशकालस्थत्वस्य च क्रमेण सम्भवेन विरोधाभावात् । युगपद्देशकाल-द्वयवर्तित्वं च न वाक्यार्थः । वक्तुरनभिप्रेतत्वात् । म इत्युपलक्षणम् । विद्वन्मात्रस्य चेति द्रष्टव्यम् । तत् तस्मात् दृष्टान्ते विरोधाभावात् । दार्ष्टान्तिक वाक्ये तर्कस्यानवकाशात् । एतौ दृष्टान्तदार्ष्टान्तिकौ । द्राविडभाषां आन्ध्रो न जानाति । आन्ध्रवार्तां च द्राविडो न जानाति । तद्वदेतावप्यभूतामिति भावः ।। ११२१ ।।

सत्यप्रमोदटीका

 अत्र दार्ष्टान्तिके । विरुद्धता कदाऽपि असहाव-स्थानम् । सा विरुद्धता । दृष्टान्तवाक्ये सोऽयं देवदत्त इत्यत्र मे न । क्रमेण श्यामत्वरक्तत्वयोरेकस्मिन् फले इव तत्तेदन्तयोरपि एकस्मिन् देवदत्ते समावेशसम्भवादेव । तदुक्तं न्यायामृते

कालद्वयेन योगस्य क्रमेण स्थायि वस्तुनि ।

 नैल्यरक्तत्ववत्सत्त्वात्तदुक्तौ का विरुद्धता’

इति (१९३ । प.४९१) । एतौ दृष्टान्तदार्ष्टान्तिकौ । द्राविडान्ध्रकौ अन्योन्यवार्तानभिज्ञौ ।। ११२१ ।।

युक्तिमल्लिका

तत्ते दृष्टान्तचर्चेयं न दार्ष्टान्तिकसिद्धये ।

क्रमेलकोयङ्कदली पक्वत्वङ्मोचनं च सा ।। ११२२ ।।

सुरोत्तमटीका

 तत्तस्मात् दृष्टान्ते क्रियमाणचर्चायाः दार्ष्टान्तिकाननु-गुणत्वात् । अयं दार्ष्टान्तिकः । सा दृष्टान्तचर्चा । यथा महता प्रयत्नेन आपणादानीय कदलीपक्वत्वङ्मोचनेऽपि कण्टकभक्षकस्योष्ट्रस्य न तेन प्रयोजनम् । तथेयमपि चर्चा दार्ष्टान्तिकाननुगुणत्वाद्व्यर्थेति भावः । ननु दण्डविशिष्ट कुण्डलविशिष्टैक्ये दण्डकुण्डलयोरुपलक्षणत्वमेव न विशेषणत्वमिति चेत् । तर्हि विशिष्टैक्यस्याप्यभावात् देवदत्तो देवदत्त इतिवत् वाक्यस्य वैयर्थ्यं स्यात् । अदण्डिव्यावृत्त्या अकुण्डलिव्यावृत्त्या च विशिष्टैक्यात् न वैयर्थ्यमिति चेत् । न । दण्डकुण्डलपदाभ्यां दण्डकुण्डलयोरसमर्पणे उक्तव्यावृत्त्योरप्यसम्भवात् । कथं तर्हि काकवद्देवदत्तगृहमित्यत्र काकादीनां गृहव्यावर्तकत्वमिति चेत् तत्रापि कदाचित्काकसम्बन्धस्य विद्यमानत्वादेव तदसम्बन्धिगृहाद्व्यावृत्तिः । न तूष्णीम् । अन्यथा सर्वथा काकासम्बन्धिनि गृहेऽपि काकवदिति प्रयोगप्रसङ्गात् । मतुपो वैयर्थ्याच्च । एवं तर्हि काकोऽपि विशेषणमेवाभूत् । नोपलक्षणमिति चेत् । सत्यम् । तदसम्बन्धिनस्तद्व्यावर्तकत्वायोगात्तत्सम्बन्धे च तद्विशेषणत्वा-परिहारान्न महदन्तरं विशेषणोपलक्षणयोः । कुण्डलादीनां बहुकालसम्बन्धात् व्यावर्तकान्तरमनन्तर्भाव्यसाक्षाद्व्यावर्तकत्वाद्वा काकादीनामल्पकालं सम्बन्धा-त्स्वापगमेऽप्युत्तृणत्वादिव्यावर्तकान्तरमन्तर्भाव्य व्यावर्तकत्वाद्वा क्वापि द्वि-प्रकारत्वकथा । किं च वसति सोऽयमित्यत्रापि तत्पदेना तद्व्यावृत्तेः इदंपदेन चानिदंपदार्थव्यावृत्तेश्चावश्यकत्वेन विशिष्टैक्यस्यैवापातात् स्वरूपैक्यकथायां नेदमुदाहरणं स्यात् ।

ननु तत्त्वमसीत्यत्राप्यस्तु तर्हि व्यावृत्तिविशिष्टैक्यं सार्वज्ञादिगुण-विशिष्टैक्यमेव नाङ्गीक्रियत इति चेन्न अभाववैशिष्ट्याङ्गीकारे सुतरां निर्विकल्प- कत्वासम्भवात् । किं च देवदत्तस्सोयमित्यत्र एकस्यैव देवदत्तस्यैकदोभय-देशस्थत्वायोगात् अतीत काशीदेशस्थत्वानुवादकतत्पदव्यावर्त्यस्य तदा काशी-देशावर्तिनोन्यत्वस्यैव प्राप्त्या इदानीमेतद्देशस्थत्वार्थकेदंपदव्यावर्त्यस्य चेदानीमे-तद्देशातिरिक्त देशवर्तिनोन्यत्वस्यैव प्राप्त्या व्यावृत्तिविशिष्टैक्यस्याप्यसम्भवात् । तत्त्वमसीत्यत्र सार्वज्ञादिगुणविशिष्टार्थकतत्पदेन किञ्चिज्ज्ञजीवस्यैव व्यावर्तित-त्वेनाल्पज्ञत्वादिविशिष्टार्थकत्वंपदेन च सर्वज्ञब्रह्मण एव व्यावर्तितत्वेन व्यावृत्तेश्च भेदापरपर्यायत्वेन पुनस्तयोरैक्यायोगात् । अङ्गीकृत्य चेदमुदितम् । वस्तुतस्त्वतद्व्यावृत्तिवैशिष्ट्यापेक्षया तत्तद्वैशिष्ट्यस्यैव लघुत्वात् यथासम्भवं वाक्यार्थत्वमूह्यम् । अतः सोऽयमिति दृष्टान्तस्य न कथञ्चिदपि परमते प्रकृतोपयोगः । प्रत्युताविरुद्धपदद्वयार्थकतया ऐक्योपयोगितद्वाक्यं विरुद्धपद-द्वयार्थकतया साक्षादैक्यविरोधिनस्तत्त्वमसीति वाक्यस्य प्रतिकूलमेव ।

किं च विशेषणस्योपलक्षणस्य वा किमिदं व्यावर्तकत्वं नाम । न तावद्वस्तु निष्ठव्यावृत्तिजनकत्वम् । घटपटादिनिष्ठव्यावृत्त्याख्यभेदस्य विलक्षण तत्त-त्सामग्रीभेदेनैव सम्भवात् । उत्पद्यमानघटेन सहजायमानस्य भेदस्य वस्तु-निष्ठविशेषणस्य च सहोत्पद्यमानस्यान्योन्यं जन्यजनकभावासम्भवाच्च । नापि वस्तुनिष्ठव्यावृत्तिबोधजनकत्वं विलक्षणस्वस्वसामग्य्रा बोध्यमानवस्तुतस्स्वेतर-सकलासङ्कीर्णतयैव बोधनियमेन तत्तद्वस्तुनिष्ठव्यावृत्तिबोधेऽपि विशेषणा-द्यनपेक्षणात् । किं तु व्यावृत्तौ विप्रतिपन्नं मन्दं प्रतिलिङ्गतया व्यावृत्त्यनु-मापकत्वमेव । अनुभवस्य परं प्रत्युपन्यासायोगात् । लिङ्गं च तत्र सदेव भवेत् । अन्यथा स्वरूपासिद्धिप्रसङ्गात् । कथं तर्हि काकादीनामुपलक्षणत्वमिति चेत् । न । तस्यापि गृहे विद्यमानतादशायां न काप्यनुपपत्तिः । गृहादपगमे तु तत्कृतमुत्तृणत्वादिकमेव व्यावर्तकम् । गुरूणां टीका कुरूणां क्षेत्रमित्यत्रापि गुरुकृतत्वं कुरुयुद्धयोग्यभूमित्वं च तत्तन्निष्ठमेव लिङ्गम् । घटाभाव इत्यत्र चा भावनिष्ठं घटप्रतियोगिकत्वमेव लिङ्गम् । गुर्वादीनां च साक्षात्तन्निष्ठत्वाभावेन मुख्यव्यावर्तकत्वाभावात् व्यावर्तकघटकतया व्यावर्तकत्वोपचारात् उपलक्षणत्व- कथा । ज्ञानस्य च भिन्नभिन्नस्वस्वसामग्रीसामर्थ्यात् व्यावृत्ततयैव जायमानस्य न घटो व्यावर्तकः । ज्ञानग्राहकसाक्षिणैव तन्निष्ठव्यावृत्तेरपि स्वसामर्थ्येन ग्रहणसम्भवात् ज्ञाननिष्ठव्यावृत्तिबोधेऽपि न घटस्योपयोगः । अतीतानागतज्ञाने उभयोरप्यसम्भवात् । एकस्मिन्नेव घटे भूयोभूयोजायमान ज्ञानस्य तत्प्रागभाव-भेदात्सामग्रीभेदोऽस्त्येव । ज्ञानजनकसन्निकर्षाश्रयतया विषयस्यापि ज्ञाने नियमेनोल्लेखात् विषयस्यापि व्यावर्तकत्वोपचारः । ज्ञानव्यावृत्तौ विवदमानं प्रति तु घटविषयकत्वाख्यज्ञाननिष्ठलिङ्गेन ज्ञानान्तराद्व्यावृत्तिर्बोध्यते । भ्रमे च भिन्नभिन्नदोषघटितसामग्य्रा भिन्नोभिन्नो भ्रमोऽपि जायते । तस्मिंश्च भ्रमे दोषसामर्थ्यादेवाविद्यमानस्य तस्य तस्य भ्रान्तार्थस्य चोल्लेखनियमाद्व्यावर्त-कत्वोपचारः । परं प्रति व्यावृत्तिबोधनाय तु शशविषाणविषयकत्वं ज्ञान-निष्ठमेव लिङ्गम् । तस्य च सत्यत्वेन कारणत्व सम्भवान्न काप्यनुपपत्तिः । न हि भिन्नभिन्नांकुरजन्यकलमबीजभेदो देवदत्त सम्बन्धायत्तः । मध्येमार्गं पतितबीजभेदाभावप्रसङ्गात् । देवदत्तस्यैव बीजेषु परस्परं भेदाभावप्रसङ्गाच्च । बीजनिष्ठदेवदत्तसम्बन्धित्वं यज्ञदत्तीय बीजादितो व्यावृत्तिबोधे कदाचिदुप-युज्येतापि । एवं च दण्डकुण्डलयोरुपलक्षणत्वोक्तावपि विशेषणत्वस्यैवोक्त-त्वेनोक्ततर्कस्य व्यभिचारतादवस्थ्यम् ।। ११२२ ।।

सत्यप्रमोदटीका

 तत् तस्मात् । न सिद्धये प्रत्युत अखण्डार्थत्व-खण्डनायैव । दृष्टान्तवाक्यस्य विशिष्टार्थकत्वादेव । तदुक्तं तत्त्वोद्योते ‘अतः कैर्विशेषणैर्विशिष्ट इति प्रश्ने प्रकृष्टप्रकाश तद्देशकालादिविशिष्ट एव वाक्यार्थः’ इति । अतः स्वरूपमात्रप्रश्नोत्तरत्वहेतोः अखण्डार्थनिष्ठत्वरूपसाध्यस्य च अभावात् दृष्टान्तचर्चा त्वया क्रियमाणा सर्वाऽपि अनर्थायैव । तत्र दृष्टान्तः क्रमेलकः उष्ट्रः । अयं दार्ष्टान्तिकः । सा चर्चा । कदलीफलस्येव पुरुषार्थस्य हेतोः प्रमाणादिकस्य चर्चा, कण्टकभक्षयितुरिव जगत्कण्टकस्यैक्यस्य प्रतिपादयितुस्तस्य वाक्यस्य प्रमाणविचारोऽनर्थकर एवेति ध्वनिः ।। तथा हि । विशिष्टैक्यानुपपत्तावपि दुण्डकुण्डलोपलक्षितयोरैक्यं विवक्ष्यते इति चेत् देवदत्तस्वरूपमात्रैक्यसिद्ध्या वाक्यवैयर्थ्यम् । अदण्डिव्यावृत्त्यादिसिद्ध्या सार्थक्यं इति च न युक्तम् । दण्डसम्बन्धानुक्तौ व्यावर्तकत्वासिद्धेः । काकस्य उपलक्षकत्वमपि तस्य वा तत्कृतस्योत्तृणत्वादिधर्मस्य गृहसम्बन्ध एव सिद्ध्यति । सर्वथा तदसम्बन्धिनस्तद्व्यावर्तकत्वमलौकिकम् । व्यावृत्ति-वैशिष्ट्यासिद्ध्याऽपि सखण्डार्थत्वमेव । अभाववैशिष्ट्याङ्गीकारेऽपि तदपरि-हारात् । व्यावृत्तेश्च भेदापरपर्यायत्वेन तदङ्गीकारस्य सुतरामनर्थकत्वात् । व्यावर्तकत्वं च न व्यावृत्तिजनकत्वम् । धर्मिस्वरूपायाव्यावृत्तेः धर्मिजनकेनैव उत्पत्तेः । विशेषणस्य वा उपलक्षणस्य वा तज्जनकत्वायोगात् । नापि व्यावृत्तिधीजनकत्वम् । धर्मिज्ञाने एव सर्वतो व्यावृत्तिज्ञानस्यापि सिद्धत्वात् । तदुक्तं तत्त्वनिर्णये ‘भेदश्च स्वरूपदर्शन एव सिद्धः’ । किन्तु व्यावृत्तिधी-हेतुधीविषयत्वम् । तच्चानुमापकत्वं व्यावर्त्यसम्बन्धमेवापेक्षते । पर्वतसम्बन्धिनि एव धूमे अवह्निमद्व्यावर्तकत्वदर्शनात् । तथा च सत्यत्वादेः सर्वथा चिदसम्बन्धिनः कथं व्यावर्तकत्वम् । ज्ञानं च विषयमनन्तर्भाव्य स्वसामग्री-महिम्नैव ज्ञानान्तरव्यावृत्तम् । कलमबीजाद्भिन्ने वेत्रबीजे तथाभावदर्शनात् । देवदत्तसम्बन्धित्वस्य उभयत्राविशेषात् । मध्येमार्गं पतितयोस्तदभावाच्च ।। अतः उपलक्षणत्वेऽपि उपलक्ष्यसम्बन्धस्यानिवार्यत्वेन सखण्डार्थमेव । विस्तरो न्यायामृते । (२१३) ।। ११२२ ।।

युक्तिमल्लिका

यथा धूमविशिष्टस्य वह्निवैशिष्ट्यवर्णने ।

न विशेषणयोरैक्यं न त्यागो नापि लक्षणा ।। ११२३ ।।

सुरोत्तमटीका

 अधुना परोदीरिततर्कस्योक्तकुत्सितशङ्कानर्हं व्यभिचार-स्थलमाह ।। यथाधूमेति ।। त्यागो विशेषणयोः । लक्षणा पर्वतस्वरूपमात्र-लक्षणा ।। ११२३ ।।

सत्यप्रमोदटीका

 विशिष्टैक्येऽपि न विशेषणैक्यं न वा विशेषणत्यागेन स्वरूपमात्रे लक्षणा इत्यत्र स्पष्टं दृष्टान्तमाह यथेति ।। ११२३ ।।

युक्तिमल्लिका

तथा सति कथं व्याप्तिर्धूमवह्न्योः प्रसिद्ध्यति ।

व्याप्तिबोधार्थमेवैतद्वचनं सर्ववादिनाम् ।। ११२४ ।।

सुरोत्तमटीका

 तथा सति विशेषणत्यागादौ सति । धूमवन्ह्योर्व्याप्ति-बोधनाय प्रयुज्यमानेऽस्मिन्वाक्ये तयोरवश्यं ग्राह्यतया विशेषणत्वात् उभय-विशिष्टेन विशेष्यभूतपर्वतेनैक्याभावाच्च सुस्थः परकीयतर्कस्यात्र व्यभिचार इति भावः ।। ११२४ ।।

सत्यप्रमोदटीका

 विपक्षे व्याप्तेरेवासिद्धिं दोषमाह तथेति ।। ११२४ ।।

युक्तिमल्लिका

इदं तु तत्पदं पूर्ववाक्योक्तगुणयुक्तताम् ।

ब्रह्मणो वक्ति देशादिव्यापकस्य न चापरम् ।। ११२५ ।।

सुरोत्तमटीका

 प्रकारान्तरेण दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं सूचयन् तत्पदोक्तगुणत्यागे वाक्यार्थत्याग एव स्यादित्याह ।। इदं त्विति ।। देशादिव्यापकस्य । अपरं सोऽयमिति वाक्यस्थ तत्पदवत् अतीतदेशकाल-सम्बन्धिताम् । सर्वदेशसम्बन्धिनि ब्रह्मणि अतीतदेशस्यैवायोगात् । इदानीं त्यक्तो देशो ह्यतीतदेशः । स चाणोरेव घटते न व्याप्तस्य । अतः प्रागुक्त धर्मपरामर्शकमेव तत्त्वमसीत्यत्र तदिति पदमिति भावः ।। ११२५ ।।

सत्यप्रमोदटीका

 इदं तत्त्वमसीत्यत्र विद्यमानम् । न चापरमिति । देवदत्तस्येव तदेतद्देशकालसम्बन्धिताम् । तस्या देशकालापरिच्छिन्नो सिद्धत्वेनाबोधनीयत्वात् ।। ११२५ ।।

युक्तिमल्लिका

सत्यत्वात्मत्वैतदात्म्यपूर्वाः पूर्वपदोदिताः ।

गुणास्स्वार्थसमास्तेषां त्यागोऽर्थत्याग एव ते ।। ११२६ ।।

सुरोत्तमटीका

 पूर्वपदोदिताः । ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मेति वाक्यस्थैतदात्म्यादिपदोदिता इत्यर्थः । तदात्म्यपदेनैक्यमेव हि परो वक्ति । सत्यत्वात्मत्वादिकं च पराभिलषितं प्रमेयम् । अतस्तत्त्यागो वाक्यार्थ-त्याग एवेति भावः ।। ११२६ ।।

सत्यप्रमोदटीका

 पूर्वपदेति ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा इति पूर्वपदेत्यर्थः । ते इति उक्तगुणानां त्वत्सिद्धान्तपरमप्रमेयत्वात्

।। ११२६ ।।

युक्तिमल्लिका

अतः क्लीबविवाहार्थं चित्रस्त्रीप्रार्थनं तव ।। ११२७ ।।

सुरोत्तमटीका

 अतः तत्पदोक्तब्रह्मगुणत्यागायोगात् । चित्रस्त्रीप्रार्थनं चित्रलिखितस्त्रीप्रार्थनम् । उक्तविधया तत्त्वमसीति वाक्यस्थतत्पदस्वरूपमात्र लक्षणायोगात् तदर्थमसाध्यदृष्टान्तगवेषणं क्लीबविवाहाय चित्रस्त्रीप्रार्थनवत् स्वाकौशलस्योतकमेवेत्यर्थः ।। ११२७ ।।

सत्यप्रमोदटीका

 क्लीबेति सर्वथा ज्ञानरूपसूत्यजनकतत्त्वमसि-वाक्येत्यर्थः । अखण्डार्थत्वं ज्ञानाजनकमिति चानर्थान्तरम् । सर्वेषां ज्ञानानां इदमित्थमिति सप्रकारकतयैव उत्पद्यमानत्वस्वरूपत्वात् । चित्रस्त्रीप्रार्थनं असम्भविदृष्टान्तगवेषणम् ।। ११२७ ।।

युक्तिमल्लिका

विशेष्यब्रह्मशब्दार्थसार्वज्ञादिगुणाम्बुधेः ।

निषेधः कुत्र दृष्टस्ते त्वं पदार्थगुणस्य च ।। ११२८ ।।

सुरोत्तमटीका

 अपि च सोऽयं देवदत्त इति वाक्येऽपि देवदत्तपदार्थ-स्यायमिति पदार्थस्य च त्यागादर्शनेन तत्त्वमसीत्यत्रापि तद्ब्रह्मेति विशेष्य-वाचकब्रह्मपदार्थस्य त्वमिति पदार्थस्य च त्यागे निदर्शनाभावेन सुस्थिरत्वात् तयोश्च त्वदभिलषितैक्य घातकत्वात् कथमैक्यं वाक्यार्थ इत्याह ।। विशेष्येति ।। ‘अथ कस्मादुच्यते ब्रह्मेति बृहंतो ह्यस्मिन्गुणा’ इति श्रुतेस्सार्वज्ञादि गुणाम्बुधेरित्युक्तम्

।। ११२८ ।।

सत्यप्रमोदटीका

 गुणानां त्यागः न तन्मिथ्यात्वं प्रमाणाभावात् । प्रत्युत जीवगुणानां ‘अविनाशी वे’त्यादिश्रुतिभिः, ईशगुणानां च ‘न कर्मणा वर्धते’ । ‘एष नित्यो महिमा’ इत्यादिभिः सत्यत्वेन सिद्धत्वादित्याह विशेष्येति ।। ११२८ ।।

युक्तिमल्लिका

किञ्चाविनाशी जीवोनुच्छित्तिधर्माश्रुतौश्रुतः ।

न कर्मणा कनीयान्यो नित्योऽस्य महिमाऽपि च ।। ११२९ ।।

सुरोत्तमटीका

 जीवगुणानां ब्रह्मगुणानां चाविनाशित्वाच्च न त्याग इत्याह ।। किं चेति ।। अविनाशी वा ओऽयमात्मानुच्छित्तिधर्मा । एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् इति श्रुतिद्वयमनेन गृह्णाति । कर्मनिमित्तकहान्यभावश्रवणात् परं ब्रह्मैवायं ब्राह्मणो न ब्राह्मण-मात्रमिति युक्तिसूचनाय यः कर्मणा नो कनीयानित्युक्तम् । तद्गुणसंत्यागः तयोर्जीवब्रह्मणोर्गुणसंत्यागः । सिंहो देवदत्तः यजमानः प्रस्तर इत्यादि विरुद्धार्थकवाक्येषु जहदजहल्लक्षणया परैरैक्यानङ्गीकारात्परन्यायो नैवास्ती-त्युक्तम् । अतस्त्वं दग्धारण्यमृगोऽभवः । दग्धारण्यमृगस्य हि वनस्थतृणा-भावात् स्वन्यायो नास्ति । तस्मिन्सस्यादेरभावात्परन्यायोऽपि यथा नास्ति तथा तवापि स्वरीत्या गुणत्यागोऽपि नाभूत् । गुणत्यागे पररीतिस्तु नास्त्येव । अतस्त्वमपि तादृशोऽभूरिति भावः ।। ११२९,११३० ।।

युक्तिमल्लिका

अतस्तद्गुणसन्त्यागः प्राणत्यागः श्रुतेर्भवेत् ।

परन्यायस्तु नैवास्ति दग्धारण्यमृगोऽभवः ।। ११३० ।।

सत्यप्रमोदटीका

 दग्धेति तस्य स्वतो वा वनाद्याचितस्य वाऽऽहारस्या- भावादित्याशयः ।। ११३० ।।

युक्तिमल्लिका

यद्यैक्योक्तिबलादेव गुणानां बाधनं तदा ।

उत्पन्नबालमन्त्रेण विरोधग्रहनिग्रहः ।

निगृहीते च तस्मिंत्स्याद्बालस्योत्पादनं तव ।। ११३१ ।।

सुरोत्तमटीका

 ऐक्योक्तया निर्गुणोक्तया वा विरुद्धगुणसंत्याग इति शङ्कां गुणसौरभोक्त युक्तिमेव साहित्यमुद्रया स्मारयन्परिहरति ।। यदीति ।। विरोधिग्रहनिग्रहः उत्पत्ति विरोधिग्रहपरिहार इत्यर्थः । तस्मिन्विरोधिग्रहे । तव मते ।। ११३१,११३२ ।।

सत्यप्रमोदटीका

 वाक्येति तत्त्वमस्यादिवाक्येत्यर्थः । तदेवाद्यापि गहननिविष्टमिति नैक्यसाधनमित्यर्थः । तथा चान्योन्याश्रय इति भावः । तत्र दृष्टान्त उत्पन्नेति ।। ११३१ ।।

युक्तिमल्लिका

सामान्यनिर्गुणोक्त्यापि न गुणोक्तेः पराभवः ।

यदग्नीषोमवाक्येनैव हिंसा वागपोद्यते ।। ११३२ ।।

यदि तत्त्वंपदाभ्यां ते रूपमात्रनिरूपणम् ।

चिच्चिदित्येव चोक्तं स्यात्कस्यैक्यं तेन साध्यते ।। ११३३ ।।

सुरोत्तमटीका

 दोषान्तरं च वदति ।। यदि तत्त्वंपदाभ्यामिति

।। ११३३,११३४ ।।

सत्यप्रमोदटीका

 विशेषविषयकत्वेन निरवकाशत्वेन च गुणोक्तीनां प्राबल्ये दृष्टान्तः यदिति । निर्गुणवाक्यं तु सामान्यविषयकं प्राकृतगुण-राहित्यार्थकत्वेन सावकाशं चेति भावः ।। ११३२, ११३३ ।।

युक्तिमल्लिका

सोऽयमित्यत्र चोक्तं स्यात्प्राक्कालाद्यविवक्षणे ।

देवदत्तो देवदत्तो घटो घट इति स्फुटम् ।। ११३४ ।।

एवं च प्रत्यभिज्ञानस्वरूपस्यैव भर्जनात् ।

स्थैर्यासिद्धिः पदार्थानां प्राप्ता च पुनरुक्तता ।। ११३५ ।।

सुरोत्तमटीका

 प्रत्यभिज्ञानस्वरूपस्य सोयं घट इत्यादि प्रत्यभिज्ञान-स्वरूपस्य ।। ११३५ ।।

सत्यप्रमोदटीका

 सोऽयमित्यत्र प्राक्कालाद्यविवक्षणे देवदत्तः देवदत्त इति स्फुटं उक्तं स्यादिति योजना । अतः अभिज्ञाद्वयात्प्रत्यभिज्ञायाः प्रमेय-भेदो न स्यात् । एकस्मिन्कालद्वयसम्बन्धस्याग्रहणात् । भेदभ्रमनिवृत्तिः स्थैर्य-बोधकत्वं च न स्यात् । तथा च जितं क्षणिकवादिभिः । प्रत्यभिज्ञा-व्यतिरिक्तस्य तन्निराकरणोपायस्याभावादिति भावः । एतेन यदुक्तं विवरणे ‘सिद्धं तु निवर्तकत्वादि’ति । अभेदाबोधनेऽपि भेदभ्रमनिवर्तकत्वमात्रेण वाक्यप्रामाण्यमिति तदपि निरस्तम् । अभिज्ञाद्वयेनेव तन्निरासासम्भव-स्योक्तत्वात् ।। ११३४,११३५ ।।

युक्तिमल्लिका

पदेनानुदितो धर्मो नैव व्यावर्तको भवेत् ।

न ह्ययं घट इत्युक्ते सिद्ध्येद्रक्तघटान्यता ।। ११३६ ।।

सुरोत्तमटीका

 व्यावर्तकधर्मानुक्तौ व्यावृत्तेरप्यसिद्धिरित्यत्र दृष्टान्त-माह ।। न हीति ।। ११३६ ।।

सत्यप्रमोदटीका

 तदेव विवृणोति पदेनेति । धर्मः सत्यत्वादिः । व्यावर्तकः असत्यादितः । निदर्शयति नेति किन्तु घटे रक्तत्वविरोधि-श्यामत्वाद्युक्तावेवेति शेषः ।। ११३६ ।।

युक्तिमल्लिका

अतस्स्वेष्टार्थसिद्ध्यर्थं तत्तदर्थपरिग्रहे ।

आवश्यके रूपमात्रलक्षणा कुत्र कथ्यताम् ।। ११३७ ।।

सुरोत्तमटीका

 अतः उक्तदृष्टान्तबलात् । स्वेष्टार्थो व्यावृत्तिः । तत्सिद्ध्यर्थम् ।। ११३७ ।।

सत्यप्रमोदटीका

 रूपेति स्वरूपेत्यर्थः ।। ११३७ ।।

युक्तिमल्लिका

पूर्वोत्तरत्वं चैकस्य स्यादेवोक्तव्यवस्थया ।

तत्सोऽयमिति वाक्यार्थ ऐक्यं स्यादविरोधतः ।। ११३८ ।।

सुरोत्तमटीका

 उक्तव्यवस्थया क्रमिकदेशकालव्यवस्थया । तत्पदस्य पूर्वदेशकालध्वंस वैशिष्ठ्यव्यवस्थया वा । तत्तस्मात् ।। ११३८ ।।

सत्यप्रमोदटीका

 उक्तव्यवस्थयेति । यथोक्तं न्यायामृते ‘तत्तादेरतीत-त्वेऽपि यदान्विततया ज्ञाते एव तात्पर्यविषयीभूतेतरान्वयधीः तत्त्वरूप-विशेषणत्वस्य सम्भवात्’ इति अत एवाहुः सदसद्वा समानाधिकरणं विशेषणमि’ति च ।। ११३८-११४० ।।

युक्तिमल्लिका

सार्वज्ञसर्वशक्तत्वपूर्णानन्दत्वपूर्वकः ।

तत्पदार्थो ब्रह्मगुणो दुःखित्वाज्ञत्वपूर्वकः ।। ११३९ ।।

जैवो गुणस्त्वं पदार्थो यदि तत्त्वं पदोदितः ।

कथं पुनस्तयोरैक्यं स्यादत्यन्तविरुद्धयोः ।। ११४० ।।

सुरोत्तमटीका

 विरोधं स्फोरयितुं तत्त्वंपदाभ्यामुक्तगुणान्स्पष्टमाह ।। सार्वज्ञेति ।। ११३९,११४० ।।

युक्तिमल्लिका

असीत्यैक्यस्य धर्माणां लटोक्ता वर्तमानता ।

श्रुत्युक्तधर्मस्याध्यासे त्वैक्याध्यासः कुतो न ते ।। ११४१ ।।

सुरोत्तमटीका

 मिथ्यात्वात् विरुद्धगुणत्याग इति शङ्कां परिहर्तुं धर्माध्यासपक्षमैक्यप्रतिबन्द्या दूषयति ।। असीति ।। ऐक्यस्य धर्माणां च वर्तमानता । त्वमेव दण्डीकुण्डली चासीत्युक्ते दण्डकुण्डलयोरपि वर्तमानत्व-लाभादिति भावः । एवं च धर्माणामैक्यस्य च सह वा प्रवृत्तिस्सह वा निवृत्तिरित्याह ।। श्रुत्युक्तेति ।। ११४१ ।।

सत्यप्रमोदटीका

 तत् त्वमसीत्यनेन तत् त्वम्पदाभ्यां धर्माः, असीत्यैक्यं, लटा च वर्तमानता इति त्रयं उक्तम् । तत्र धर्माणां अध्याये ऐक्यस्यापि तथात्वं, ऐक्यस्य सत्यत्वे वा धर्माणामपि सत्यत्वं अवश्यं अङ्गीकार्यं श्रुत्युक्तत्वाविशेषात् इत्याह असीति

।। ११४१ ।।

युक्तिमल्लिका

त्यजेदेकं कुलस्यार्थ इति न्यायमनुस्मर ।। ११४२ ।।

सुरोत्तमटीका

 विरुद्धबहुगुणानां तत्प्रतिपादकबहुश्रुतीनां च रक्षणाय ऐक्यत्याग एव न्याय्य इत्याह ।। त्यजेदिति ।। अनेन त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थ आत्मार्थे पृथिवीं त्यजेदिति वाक्यं सङ्गृह्णाति ।। ११४२ ।।

सत्यप्रमोदटीका

 इदं चोपेत्योक्तम् । वस्तुतस्तु बहुधर्मरक्षणाय एकस्यैक्यमात्रस्य परित्याग एवोचितः इत्याह त्यजेदिति ।। ११४२ ।।

युक्तिमल्लिका

अद्याप्यसिद्धेरैक्यस्य धर्माध्यासः कुतो हरेः ।

सत्यस्सो अस्य महिमेत्यस्ति हि श्रुतिरञ्जसा ।। ११४३ ।।

सुरोत्तमटीका

 नन्वैक्यश्रुतिबलादेव धर्माध्यास इत्यत आह ।। अद्यापीति ।। ११४३ ।।

सत्यप्रमोदटीका

 ऐक्यवाक्यबलादेव धर्माध्याससिद्धिरिति न युक्तमित्याह अद्यापीति ।। ११४३ ।।

युक्तिमल्लिका

अध्यस्तधर्माद्व्यावृत्तौ भवेच्छुक्तिरशुक्तिका ।

इतरस्माद्विरूप्यत्वं व्यावर्तयति धर्मिणम् ।। ११४४ ।।

सुरोत्तमटीका

 धर्माध्यासे व्यावृत्तचैतन्यद्वयासिद्ध्या जीवब्रह्मैक्या-सिद्धिश्चेत्याह ।। अध्यस्तधर्मादिति ।। इतरस्मात् स्वाधारादन्यस्मात् शुक्त्यादेः ।। ११४४ ।।

सत्यप्रमोदटीका

 वस्तुवृत्तिधर्मस्यैव व्यावर्तकत्वं न तु अध्यस्तस्येत्य-नङ्गीकारेऽतिप्रसङ्गमाह भवेदिति । रूप्यत्वं विद्यमानमेव नत्वध्यस्तम्

।। ११४४,११४५ ।।

युक्तिमल्लिका

किञ्च सर्वज्ञताल्पज्ञाद्व्यावर्तयति धर्मिणम् ।

व्यावृत्तिर्नामभेदोऽतो व्याहतिश्च ध्रुवा तव ।। ११४५ ।।

सुरोत्तमटीका

 दोषान्तरं चाह ।। किं चेति ।। व्याख्यातप्रायमेतत् ।। ११४५ ।।

युक्तिमल्लिका

किञ्च कल्प्यमकल्प्यं वा सार्वज्ञं ब्रह्मणश्चितः ।

सार्वज्ञरहितायास्ते शुद्धायास्स्वोपलक्षिताम् ।। ११४६ ।।

चितं व्यावर्तयेन्न्यायसाम्याज्जीवचितो यथा ।

जैवो धर्मोऽपि तच्छून्यचिन्मात्रात्स्वोपलक्षिताम् ।। ११४७ ।।

चितं व्यावर्तयेदेव ततश्चिन्मात्रयोस्तव ।

कथमैक्यमिदं वाक्यं वक्ति यौक्तिकसंसदि ।। ११४८ ।।

सुरोत्तमटीका

 पुनरपि प्रबलं दोषान्तरमाह ।। किं च कल्प्यमिति ।। कल्प्यमध्यस्तम् । ब्रह्मणः सर्वज्ञब्रह्मचैतन्यस्य । तत्कल्प्यमकल्प्यं वा भवतु । तथापि ते मते सार्वज्ञरहितायाश्शुद्धचितः निर्गुणचैतन्यात् स्वोपलक्षितां चितं ब्रह्मचितं जीवचितो यथा व्यावर्तयेत् तथा व्यावर्तयेदेव । न्यायसाम्यादित्यनेन सार्वज्ञराहित्यस्य जीवचैतन्ये शुद्धचैतन्ये च वर्तमानत्वसाम्येन सार्वज्ञाद्यर्थ-कतत्पदेनोभयव्यावृत्तिरपि न्याय्येति सूचयति । जैवो धर्मः अल्पज्ञत्वादिः । ततः पदद्वयेनापि शुद्धचैतन्यस्य व्यावर्तितत्वेन तद्भिन्नयोः किञ्चिज्ज्ञत्वसर्वज्ञ-त्वाश्रययोश्चैतन्ययोरेवैक्यलाभात् चिन्मात्रयोर्द्वेधा क्रोडीकृत सकलचितोश्शुद्ध-ब्रह्मचिदैक्यस्यात्राप्रतिपादनादिति भावः ।। ११४६-११४८ ।।

सत्यप्रमोदटीका

 चिन्मात्रैक्यं तु सर्वथा न सिद्ध्यतीत्याह त्रिभिः किञ्चेत्यादिना । कल्प्यमित्यनास्थया । सार्वज्ञं तत्पदोक्तम् । ब्रह्मणः चितः ब्रह्मचिति विद्यमानम् । सार्वज्ञरहितादिति हेतुगर्भम् ।। शुद्धायाः चितः चिन्मात्रा । स्वोपलक्षितां चितं सर्वज्ञत्वोपलक्षितां ब्रह्मचितम् । व्यावर्तयेत् तत्र हेतुः न्यायसाम्यात् इति । साम्यस्थलं जीवचितो यथेति । एवं जैवो धर्मः अल्पज्ञत्वं त्वम्पदोक्तम् । स्वोपलक्षितां चितं अल्पज्ञत्वोपलक्षितां जीव-चितम् । व्यावर्तयेदेव न्यायसाम्यात् ब्रह्मचितं यथा इति योजनीयम् । तथा च तदित्यस्य सर्वज्ञं ब्रह्मचिदेव न तु जीवचित् नापि चिन्मात्रं इत्यर्थः, त्वमित्यस्य च अल्पज्ञजीवचिदेव न तु ब्रह्मचित् नापि चिन्मात्रं इत्यर्थः सम्पन्न इति चिन्मात्रस्य पदद्वयेनापि व्यावर्तितत्वात् न कथञ्चित्तदैक्य-सिद्धिरित्याशयः।। ११४६-११४८ ।।

युक्तिमल्लिका

व्यावृत्तेरनपेक्षायां चिच्चिदित्येव तद्वदेत् ।

का नो हानिरतो भेदवादिनां तत्त्ववादिनाम् ।। ११४९ ।।

सुरोत्तमटीका

 मास्तु तर्हि पदद्वयस्यापि व्यावर्तकत्वमित्यत आह ।। व्यावृत्तेरिति ।। तद्वाक्यम् । अतिसूक्ष्मत्वात् प्रबलत्वाच्च अस्य दूषणस्य किमन्येनेत्युपसंहरति ।। अत इति ।। अतो घटो घट इतिवत् चिदेव चिदिति सर्वसिद्धप्रमेयानुवादात् तत्त्वमसीति पदच्छेदेऽपि मायावाद्युक्तार्थस्यायोगात् ।। ११४९ ।।

सत्यप्रमोदटीका

 व्यावृत्तेरनपेक्षायां अन्यापोह एव शब्दार्थ इति बौद्धमताप्रमोषेण लक्षणचिन्मात्रैक्याङ्गीकारे । का नो हानिः प्रत्युत तदैव आगतः स एव पौनरुक्त्यवैयर्थ्यादिरूपः दुरात्मा दोष पिशाचः इति भावः ।। ११४९ ।।

युक्तिमल्लिका

अतः प्रत्यक्पराग्भावादल्पसाम्यात्तयोस्सदा ।

सादृश्यैक्यपरैवेयं वाग्बिम्बप्रतिबिम्बयोः ।। ११५० ।।

सादृश्यैक्येऽपि वाक्सिंहो देवदत्त इति स्फुटा ।

मुखं चन्द्रः पदं पद्ममित्याद्याश्च सहस्रशः ।। ११५१ ।।

सुरोत्तमटीका

 प्रतिमुखे इदं मुखमितिवत् प्रतिबिम्बे जीवे त्वं तदसीति बिम्बैक्योक्तिरेवेयं श्रुतिरित्याह ।। अत इति ।। अतः मुख्यैक्यायोगात्

।। ११५०,११५१ ।।

सत्यप्रमोदटीका

 ‘प्रतिबिम्बेष्वल्पसाम्यं’ इति भाष्योक्तमाह अल्पेति ।। ११५०,११५१ ।।

युक्तिमल्लिका

एकत्वरूपणे न स्यादुपमानोपमेययोः ।

रूपकाख्यो ह्यलङ्कारो वाक्यसौन्दर्यपोषकः ।। ११५२ ।।

सुरोत्तमटीका

 तत्सदृशस्य तदभिन्नतया व्यवहारे किं कारणमित्यत आह ।। एकत्वेऽपि ।। हीत्यनेन एकत्वरूपणं यत्स्यादुपमानोपमेययोः रूपकं नामेति रूपकालङ्कार लक्षणप्रसिद्धिं सूचयति । उपलक्षणं चैतत् । शौर्यधैर्य-पराक्रम शत्रुसंहारापलायनसाहसादिधर्माणां लघूक्तया लाभाच्चेत्यपि द्रष्टव्यम् ।। ११५२ ।।

सत्यप्रमोदटीका

 यादृश्यैक्ये अभेदव्यवहारः ‘अखिलाज्ञानमतध्वान्तदि वाकरः’ इत्यत्रेव रूपकालङ्कारपोषक इत्याह एकत्वेति । एवं प्रयोगे लघुमाशब्देन बह्वर्थलाभश्च फलम् ।। ११५२,११५३ ।।

युक्तिमल्लिका

अतस्सार्वजनीनेऽर्थे सति सर्वा विरोधिनि ।

स्वतोऽन्यतो विरुद्धार्थं को नून्मादी वदेद्वद ।। ११५३ ।।

सुरोत्तमटीका

 स्वतः स्वपदाभ्याम् । अन्यतः भेदश्रुत्यादितः ।।११५३।।

युक्तिमल्लिका

ईशाभेदस्य कथनं स्तब्धस्तब्धत्ववृद्धिदम् ।

प्रकृतासङ्गतं च स्याच्छिष्यकल्पतरोर्गुरोः ।। ११५४ ।।

सुरोत्तमटीका

 ऐक्यार्थे दोषान्तरं चाह ।। ईशेति ।। स्तब्धस्य श्वेतकेतोः । स्तब्धत्व वृद्धिदं गुरोः कथनमिति सम्बन्धः । अनूचानमानीस्तब्ध एयायेति श्रुत्युक्तस्याहंकारेण स्तब्धस्य श्वेतकेतोः ईशैक्यकथनं पुनरपि गर्वाभिवृद्धिहेतुत्वादसङ्गतमिति भावः । शिष्यकल्पतरोरित्यनेन शिष्यानिष्ट-करणमनुचितमिति सूचयति ।। ११५४ ।।

सत्यप्रमोदटीका

 शिष्यकल्पतरोः पुत्रवत्सलस्य उद्दालकमुनेः । स्तब्धस्य प्रागेवानूचानमानिनः स्तब्धस्य पुत्रस्य । स्तब्धत्ववृद्धिदः । ‘ईश्वरोऽहमहं भोगी’ इति अभेदानुसन्धानस्य स्तब्धतारूपत्वात् ।। ११५४ ।।

युक्तिमल्लिका

मानेन स्तब्धचित्तस्य प्रतिबिम्बत्वरूपणे ।

ईशाधीनत्वबोधाप्त्या वाक्यं स्यादतिसङ्गतम् ।। ११५५ ।।

सुरोत्तमटीका

 अस्मदर्थस्तु प्रकृतसङ्गत एवेत्याह ।। मानेनेति ।। ११५५ ।।

सत्यप्रमोदटीका

 गर्वपरिहारप्रकरणत्वात् ईशाधीनत्वोक्तिरेव श्लिष्टे-त्याह मानेनेति । तदुक्तं तत्त्वनिर्णये सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयास’ इत्यात्मनोऽन्यं अनूचानत्वादिगुणप्रदं परम-विज्ञाय स्तब्धस्य पराधीनत्वज्ञापनेन स्तब्धतां निरस्य तन्निष्ठा ह्यत्रोपदिश्यते इति ।। ११५५ ।।

युक्तिमल्लिका

दृष्टेऽर्थेऽयुक्तशिष्टोक्तेस्तमेवार्थं विमर्शवान् ।

को गृहणीयाद्विषं भुंक्ष्वेत्युक्ते किं विषमत्ति तत् ।। ११५६ ।।

सुरोत्तमटीका

 ननु यथास्थितवाक्यार्थग्रहणेन गर्ववृद्धेः परिहार इत्यत आह ।। दृष्ट इति ।। दृष्टेऽर्थे आपाततः दृष्टेऽर्थे । अयुक्तायाः युक्तिबाधितायाः । शिष्टस्य आप्तस्य उक्तेरित्यर्थः । तत् अयुक्तमापातार्थम् । तत् तदेव ।।११५६।।

सत्यप्रमोदटीका

 दृष्टेऽर्थे आपातप्रतीतार्थे अयुक्ता च सा शिष्टोक्तिः इति विग्रहः । शिष्टस्य आप्तस्य उक्तिः । आप्तोक्तस्यापि प्रमाणविरुद्धस्या-पातार्थस्य, विमर्शवान् शिष्यः, कः तमेवार्थं अयुक्तमेवार्थं गृह्णीयात् । तत्र निदर्शनं विषं भुंक्ष्वेति । द्विषदन्नं न भोक्तव्यमिति तात्पर्येण आप्तेनोक्ते सति । किं विषमत्ति नैव अत्ति । किन्तुं प्रमाणविरुद्धार्थप्रयोगेण तस्य क्रोधं अनुमाय, क्रोधस्य च आत्मनः शत्रुगृहान्न भक्षणोद्यमत इति च अनुमाय, द्विषदन्नस्य अभोक्तव्यतामेव वाक्यतात्पर्यार्थं निश्चिनोति । तदुक्तं ‘वाक्यलिङ्गानुमा हि सा’ इति ।। ११५६ ।।

युक्तिमल्लिका

अत एव गुरुशिष्यस्तब्धबुद्धिं पदे पदे ।

विचारशीलां रचयन्स्पष्टं नाचष्ट कार्यवित् ।। ११५७ ।।

सुरोत्तमटीका

 तर्हीशाधीनोऽसीति स्पष्टं किमिति नोक्तवानित्यत आह ।। अत एवेति ।। कार्यवित् स्तब्धत्वविमोचनाख्यकार्यवित्।।११५७ ।।

सत्यप्रमोदटीका

 तदाधीनोऽसीति स्पष्टमनुक्तौ कारणमाह विचारेति ।। ११५७ ।।

युक्तिमल्लिका

अद्यापि बुद्धिवैशद्यसिद्ध्यर्थं वक्रमुद्रया ।

आलिख्य वर्णशिक्षायां मेधामाधावयन्ति हि ।। ११५८ ।।

सुरोत्तमटीका

 वक्रमुद्रया आलिख्य । नाम्नोनुलोमवर्णानां प्रतिलोम्ना लेखनं कृत्वा । वर्णशिक्षायां अक्षरशिक्षाकाले ।। ११५८ ।।

सत्यप्रमोदटीका

 वक्रमुद्रया क्रममुल्लङ्घ्य ।। ११५८ ।।

युक्तिमल्लिका

बोधोबुद्ध्यै तथा प्राह मन्तारं मन इत्यपि ।

अभ्रमाय प्रजाशब्दं तत्र प्रायुंक्त चोपरि ।। ११५९ ।।

सुरोत्तमटीका

 तथा ऐक्यव्यपदेशवत् । तत्र मनश्शब्देनोक्ते इदमपि बोधो बोधनार्थमेवेति भावः ।। ११५९ ।।

सत्यप्रमोदटीका

 ‘मननान्मन उद्दिष्ट’ इति विमर्शार्थं मन्तारं जीवं मनःशब्देन प्राह । मम भ्रमो मा भूदिति कृपया प्रजाशब्दप्रयोगेण तदर्थं व्यवृणोत् ।। ११५९ ।।

युक्तिमल्लिका

अहं ब्रह्मेति योऽनुक्त्वा त्वं ब्रह्मेत्याह मां गुरुः ।

अतो नास्य प्रतीतार्थ इत्यन्यार्थे करोन्मतिम् ।। ११६० ।।

सुरोत्तमटीका

 श्वेतकेतोर्विमर्शप्रकारमाह ।। अहमिति ।। यः गुरुः अतः मत्तोऽप्यधिकस्य स्वस्य ब्रह्मत्वाकीर्तनात् । अस्य गुरोः । इति हेतोः

।। ११६० ।।

सत्यप्रमोदटीका

 यदि जीवाभेद एव पित्रा जिज्ञापयिषितः तदा मदधिकस्य स्वस्यैव अग्रतः ब्रह्मतां ‘अहं ब्रह्मेति शब्दविन्यासेन अवदिष्यत् । तथाऽनुक्त्वा अधमं मां ‘त्वं ब्रह्मेति’ उक्तवान् । अतः, अस्य वाक्यस्य । न प्रतीतार्थः प्रतीत एवार्थः, न तात्पर्यविषयभूतः । स्वाशिष्यब्रह्मतां स्वस्य अशिष्यरूपं प्रत्युत स्वामित्वेन नित्यं आराध्यदेवतारूपं यद् ब्रह्म, तदात्मतां तदैक्यम् । यद्वा स्वेन अशिष्या, उपदेष्टुमनर्हा अनर्थहेतुभूता या ब्रह्मता ब्रह्मैक्यं ताम् । अधुना असीत्युक्त्या वर्तमानकाले । स्वकाले ‘नाहं निर्दुःख’ इति भेदस्य अस्तितां गृह्णान् साक्षी तस्य त्रिकालबाध्यतामेव निश्चिनोतीति हृदयम् । तदुक्तं

स्वकाले ह्यस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् ।

 प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यतामि’ति ।। ११६०,११६१ ।।

युक्तिमल्लिका

कथं स्वशिष्यस्य मम स्वाशिष्यब्रह्मतां वदेत् ।

कथं च दुःखिनोऽज्ञस्य ब्रह्मत्वमपि मेऽधुना ।। ११६१ ।।

सुरोत्तमटीका

 विमर्शान्तराण्याह ।। कथमित्यादिना ।। स्वाशिष्य-ब्रह्मतां स्वाशिष्यभूतं प्रत्युत देवरूपं यद्ब्रह्म तद्भावम् । अहं तु शिष्यतया स्वोपासकः । ब्रह्म तु स्वस्याप्युपास्यं तदैक्यं मम कथं ब्रूयात् । ब्रूयाच्चे-द्ब्रह्मोपासनवन्मदुपासनमपि कुतो न कुर्यात् । अतस्स्वोपास्यब्रह्मैक्यमपि नोक्तवान् । किं त्वस्य वाक्यस्यान्योऽर्थोऽस्तीति मतिं कृतवानिति भावः । दुःखिनो ज्ञस्य मे इति सम्बन्धः । ब्रह्मत्वं सर्वज्ञनित्यसुखित्वरूपब्रह्मत्वम् । अधुना स्यात् । भाव्यैक्यस्य कथञ्चित्सम्भवेऽपि असीति लटोक्तवर्तमानैक्यं कथं स्यादिति सूचनायाधुनेत्युक्तम् ।। ११६१ ।।

युक्तिमल्लिका

प्रजामूलब्रह्मता स्यात्कथं तास्वधमस्य मे ।

प्राणसंस्थस्य जीवस्य प्राणाख्यब्रह्मता च न ।

सुप्तौ च येन सम्पन्नस्सो सुप्तौ स्यामहं कथम् ।। ११६२ ।।

सुरोत्तमटीका

 तासु प्रजासु । ‘प्राणसंस्थं मन’ इति श्रुतेः प्राणाधारस्य जीवस्य । न युक्तियुक्ता न । येनेशेन । सः ईशः ।। ११६२ ।।

सत्यप्रमोदटीका

 प्रजामूलेति ‘सन्मूलाः सोम्य इमाः सर्वाः प्रजाः’ इत्यत्रोक्तेत्यर्थः । प्राणसंस्थस्येति । ‘प्राणबन्धनं हि सोम्य मनः’ इत्युक्त-स्येति भावः । सम्पन्नः न तु एकीभूतः ।। ११६२ ।।

युक्तिमल्लिका

करुणापूर्णगुरुणा तन्नात्र ब्रह्मतोच्यते ।

ममेति निर्ममो भूत्वा पुनर्मीमांसकोऽभवत् ।। ११६३ ।।

सुरोत्तमटीका

 तत्तस्मात् । इति एवं विमृश्य ।। ११६३ ।।

सत्यप्रमोदटीका

 निर्ममः ममैवेदं अनूचानत्वं इति स्तब्धतायाः निष्क्रान्तः ।। ११६३ ।।

युक्तिमल्लिका

अस्ति सादृश्यमात्राच्च वस्तुवस्त्वन्तरात्मना ।

कथ्यमानं तत्र तत्र सेयं वाक्तावतैव न ।। ११६४ ।।

सुरोत्तमटीका

 तत्र सिंहो देवदत्त इत्यादौ । इयं तत्त्वमसीत्यादिरूपा । तावता सादृश्यैक्यमात्रेण ।। ११६४ ।।

सत्यप्रमोदटीका

 तत्र तत्र आदित्यो यूपः, अग्निर्माणवकः इति लोकवेदयोः । तावतैव केवलं सादृश्यमात्रेण । किन्तु प्रतिबिम्बस्येव तन्नियम्यत्वेनापि । यथोक्तं भाष्ये ‘अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा’ इति ।। ११६४-११६६ ।।

युक्तिमल्लिका

प्रतीचस्स्वनियन्तुश्च कथं सादृश्यमात्रतः ।

पराचीशनियम्ये च मयीयं वाक्प्रवर्तताम् ।। ११६५ ।।

सुरोत्तमटीका

 स्वनियंतुश्च ब्रह्मणः सादृश्यमात्रतः कथं प्रवर्ततामिति सम्बन्धः ।। ११६५ ।।

युक्तिमल्लिका

प्रतिबिम्बं दर्पणस्थं मुखमित्येव लौकिकाः ।

वदन्ति तन्नियम्योऽसौ परा क्व प्रतिदृश्यते ।। ११६६ ।।

सुरोत्तमटीका

 तन्नियम्यः तेन बिम्बेन नियम्यः । असौ प्रतिबिम्बः । प्रतिदृश्यते आभिमुख्येन दृश्यते ।। ११६६ ।।

युक्तिमल्लिका

अतस्तद्विधतामेव लघूक्त्या मयि बोधयन् ।

मतिं प्रचारयंश्चोचे नोचेदाचार्यता कथम् ।। ११६७ ।।

सुरोत्तमटीका

 अतः ब्रह्मणः बिम्बस्वभावत्वात् मम च प्रतिबिम्ब-स्वभावत्वात् । तद्विधतां प्रतिबिम्बवत् बिम्बभूतपरमात्मनियम्यताम् । तस्मा-त्पराक्त्वं तदाभिमुख्यं चेत्यर्थः । लघूक्त्या त्वं तदसीति अक्षरचतुष्टयात्मक-वाक्योक्त्या । नो चेत् नियम्यत्वतदधीनत्वतत्सादृश्यपराक्त्वाऽऽभि-मुख्यरूपाणां बहूनामर्थानां लघूक्त्या कथमकुशलो नो चेत् ।। ११६७ ।।

सत्यप्रमोदटीका

 तद्विधतां प्रतिमुखविधतां तदधीनत्वतत्सादृश्य-पराक्त्वाभिमुख्यरूपाम् ।। ११६७ ।।

युक्तिमल्लिका

तस्मात्प्रत्यक्पराग्भावो नियामकनियम्यता ।

अशब्दोच्चारणस्येव सादृश्यं चाल्पमेव मे ।

इति प्रबुध्य दुर्बुद्धिं त्यक्त्वा भक्तो भवत्प्रभोः ।। ११६८ ।।

सुरोत्तमटीका

 अशब्दोच्चारणस्येव शब्दोच्चारणरहितप्रतिमुखस्येव । यथा शब्दोच्चारण सहितमुखस्य तद्रहितप्रतिमुखस्य च नैक्यं नापि सर्वसादृश्यं तथा मे सादृश्यं ब्रह्मसादृश्यं अल्पं तत्स्वातन्त्र्याभावात् । चशब्दसमुच्चितमैक्यं च अल्पम् । किञ्चित्सादृश्यादिरूपं न तु सर्वथैक्यमित्यर्थः ।। ११६८ ।।

सत्यप्रमोदटीका

 अशब्दोच्चारणस्य शब्दोच्चारणरहितस्य प्रतिमुखस्य । अल्पमेव चित्वादिना न तु सार्वज्ञादितद्गतासाधारणधर्मैः

।।११६८-११७०।।

युक्तिमल्लिका

अथापि कृपया शिष्यस्यायोग्यार्थे प्रमादतः ।

गतिं निवारयंत्सूत्रशकुन्यादीन्न्यदर्शयत् ।। ११६९ ।।

सुरोत्तमटीका

 अथापि युक्त्या स्वाभिप्रायस्य बोद्धुं शक्यत्वेऽपि । न्यदर्शयत् दृष्टान्ततयोक्तवान् ।। ११६९ ।।

युक्तिमल्लिका

तदुक्तस्पष्टदृष्टान्ते स्वयोग्यां प्रतिबिम्बताम् ।

ज्ञात्वेशाधीनताबोधादस्तब्धोऽभूदिति स्थितम् ।। ११७० ।।

सुरोत्तमटीका

 तत्तस्मात् उक्तयुक्तिसमुदायात् ।। ११७० ।।

युक्तिमल्लिका

किञ्च जीवब्रह्मभावो यदि तस्य विवक्षितः ।

तर्ह्यहं तदिति ब्रूयात्सर्वं तदिति वा वदेत् ।

त्वं तदित्युपदेशस्तु व्यर्थस्तद्भावमानिनि ।। ११७१ ।।

सुरोत्तमटीका

 प्रागुक्तस्यातदिति पदच्छेदस्यातिसुलभत्वात्पुनरपि तमेव स्मारयति ।। किं चेति ।। तद्भावमानिनि गर्वेणाहमीश्वर इति भावनायुक्ते ।। ११७१ ।।

सत्यप्रमोदटीका

 तद्भावमानिनि ब्रह्मनिष्ठस्य स्वातन्त्र्यलक्षणस्य स्वस्मिन्नस्तीत्यनुसन्धानवति ।व्यर्थः ज्ञातज्ञापकत्वेन निष्फलः।।११७१ ।।

युक्तिमल्लिका

गर्विष्ठगर्वनिर्वाणकुर्वन्गुर्वग्रणीरसौ

अतद्वस्तुत्वमित्याहेत्यस्ति शस्ता गतिश्च मे ।। ११७२ ।।

सुरोत्तमटीका

 शस्ता प्रशस्ता । उपक्रमोपसंहारानुगुणतया काठिन्या-भावेन च सर्वजनमनो हरेत्यर्थः ।। ११७२ ।।

सत्यप्रमोदटीका

 अतः प्रकरणानुरोधाय अतदित्येव पदच्छेद इत्याह अत इति ।। ११७२ ।।