अमुक्तागम्यभूर्या हि सा साक्षान्मुक्तिरेव हि

तत्रामुक्तप्रवेशो नास्ति

युक्तिमल्लिका

अमुक्तागम्यभूर्या हि सा साक्षान्मुक्तिरेव हि ।

तत्रापि भगवद्भाग्यमुक्तं भागवते बहु ।

यदाऽगात्सनकादीन्स्वान्मुनीननुनिनीषया ।। ४११ ।।

सुरोत्तमटीका

मायातिदूरवैकुण्ठपतौ श्रूयमाणमायामाहात्म्यादिकमेव नाविद्येत्याह ।। अमुक्तेति ।। अनुनिनीषया अनुनेतुं विनयोक्त्या रञ्जयितु-मिच्छया ।। ४११ ।।

सत्यप्रमोदटीका

साक्षात् परमा । भाग्यमिति । तेन न तस्याः निर्विशेषब्रह्मभावता । अनुनिनीषा क्रोधशमनेच्छा ।। ४११ ।।

युक्तिमल्लिका

विनतातनयांसस्थः श्रिया देव्या समन्वितः ।। ४१२ ।।

चार्वङ्घ्रिजङ्घाजानूरुकटिकुक्षिवलित्रयः ।

निम्ननाभिस्फुरन्मध्यविशालोरस्स्थलोज्ज्वलः ।। ४१३ ।।

कम्बुग्रीवो वृत्तपीनदीर्घबाहुचतुष्टयः ।

अमन्दसान्द्रसौन्दर्यमन्दिरास्येन्दुमण्डलः ।। ४१४ ।।

चार्वक्षिफालनासास्यकर्णगण्डारुणाधरः ।

मन्दस्मितप्रभामिश्रसुन्दरोष्ठारुणद्युतिः ।। ४१५ ।।

किरीटहारग्रैवेयरत्नकुण्डलकौस्तुभः ।

काञ्चीकिङ्किणिमञ्जीरनूपुराद्यैर्विराजितः ।। ४१६ ।।

करस्थकमलं धुन्वन्करुणालोललोचनः ।

छत्रचामरवादित्रगीतनृत्ताक्षताङ्कुरैः ।। ४१७ ।।

व्यजनैर्धूपदीपैश्च पुष्पैर्नीराजनैः स्तवैः ।

अर्च्यमानः प्रतिपदं मुक्तसंसारबन्धनैः ।। ४१८ ।।

सुरैरसङ्ख्यैः परितो मुक्तक्लेशैः कृतोत्सवः ।

तत्रायात्किल सर्वेशो यत्र ते सनकादयः ।। ४१९ ।।

जीवन्मुक्तैश्च मुनिभिरगम्या सा हरेः पुरी ।

आसीत्परममुक्तानामास्थान्येव विवेकिनाम् ।। ४२० ।।

सुरोत्तमटीका

 भगवत आकरणमपि मायातिदूरत्वं समर्थयितुं वैकुण्ठ-पुरस्थभगवद्रूपं वर्णयति ।। विनतातनयांसस्थ इत्यादिना ।।  मुनिभि-स्सनकादिभिः ।। ४१२–४२० ।।

सत्यप्रमोदटीका

 ‘एवं तदैव’ इत्यारभ्य ‘कन्धरगतेन च कौस्तुभेन’ इत्यन्तैः भागवतश्लोकैः (३,१५/३७–४१) वर्णितं महिमानमाह ‘विनता-तनयेत्यारभ्य यत्र ते सनकादय’ इत्यन्तैः ।। फालः ललाटः ।। मुनिभिः अपरोक्षज्ञानिभिः सनकादिभिः । आस्थानी निवासभूमिः ।। ४१२–४२० ।।

युक्तिमल्लिका

न चेदन्तःपुरं सर्वान्प्रवेश्यानन्दयेद्धि तान् ।

कृपालुर्भक्तिभरितांस्ततो नामुक्तभूरसौ ।। ४२१ ।।

तत्राप्युक्तप्रमाणेन प्रभुस्साकार एव सः ।

श्रीश्च दिव्यमनोज्ञाङ्गी भृत्यास्ते दिव्यमूर्तयः ।

अनन्तास्ते च सेवन्ते सेव्यस्तैः सर्वदा प्रभुः ।। ४२२ ।।

हर्म्याणि रत्नभवनान्युद्यानोपवनानि च ।

वापीकूपतटाकानि सन्ति तत्र गृहे गृहे ।। ४२३ ।।

सुरोत्तमटीका

 तान्सनकादीन् । असौ वैकुण्ठपुरी ।। ४२१–४२३ ।।

सत्यप्रमोदटीका

 न चेत् प्रमाणानुसारेण अमुक्तैः सर्वथा प्रवेष्टुम् अयोग्या न चेत् । ‘स्वतन्त्रेच्छोऽपि भगवान्मानेऽसौ मानवान् किल’ इत्युक्तेरिति भावः ।। ४२१–४२३ ।।