विद्यात्मनि भिदा बोध इति भागवते हरिः
विद्याऽऽत्मनिभिदाबोधःइतिवाक्यार्थः
युक्तिमल्लिका
विद्यात्मनि भिदा बोध इति भागवते हरिः ।
विद्या केति पुरा पृष्टो भिदा बोधं किलोक्तवान् ।। १४९७ ।।
सुरोत्तमटीका
आत्मपदार्थमाह ।। चेतनेष्विति ।। अथवा आत्मनि परमात्मनि जीवादिभ्यो भिदाबोध इति योजना ।। १४९७ ।।
सत्यप्रमोदटीका
आत्मनि जीवसमुदायधर्मिकः परमात्मप्रतियोगिकः । यद्वा आत्मशब्देन परमात्मग्रहणे तद्धर्मिको वा भेदः ग्राह्यः । भिदा अबोध इति पदच्छेदे प्रश्नोत्तरयोः स्फुटाऽसङ्गतिरित्याह का इति ।। १४९७ ।।
युक्तिमल्लिका
चेतनेष्वात्मसु भिदा जात्येकवचनादियम् ।
अबोध इति च च्छेदे बोधच्छेदो भविष्यति ।
बोधाभावं हि को बोद्धा विद्यां बुद्धिमते वदेत् ।। १४९८ ।।
राजा तत्पुरुषो मेने नान्यस्य पदसेवनम् ।
बहुव्रीहेस्तु चोरस्य स्याच्चास्यान्यानुयायिता ।। १४९९ ।।
सुरोत्तमटीका
च्छेदे पदच्छेदे । कथं बोधच्छेद इत्यत आह ।। बोधाभावमिति ।। का विद्येति प्रश्नस्य बोधाभावो विद्येत्युत्तरस्य च विद्याभाव एव विद्येत्यत्र पर्यवसानेन परस्परविरुद्धत्वादिति भावः । उपलक्षणं चैतत् । भेददृष्ट्येति प्रागुक्तसमाख्याबोधच्छेदोपि ग्राह्यः । ननु न बोधः अबोध इत्युक्ते भवत्येव विरोधः । न विद्यते बोधो यस्मात्स इति समासे कथं विरोध इति चेत् न । तथापि बोधाभाव प्रवेशस्यापरिहाराद्विरोध एव । अन्यपदार्थ प्रधान-बहुव्रीहेस्स्वपदमात्र प्रधानस्य तत्पुरुषस्य श्रेष्ठत्वाच्च नासौ समास इत्येतमर्थं साहित्यमुद्रयाऽऽह ।। राजेति ।। तत्पुरुषस्य श्रेष्ठत्वाद्राजेत्युक्तम् । अन्यस्य यस्य स तथेति वाक्यान्तरस्य । पदं यस्येति पदम् । यद्वा अन्यस्य प्रतिपादकं वा पदं तस्य सेवनम् । बहुव्रीहिवदन्यपदार्थप्रधानो न भवतीत्यर्थः । राजा यथाऽन्यपदानुसरणं न करोति तथेति ध्वनिना राजोपमा । चौर्येण बहुव्रीहि-मांश्चोरोपि भवतीत्यतश्चोरस्येति बहुव्रीहेर्विशेषणमुक्तम् । स्वस्मिन्धनाभावात् चोरोप्यन्यानुयायी । अयमपि तथेति भावेनोक्तं अन्यानुयायितेति ।। १४९८,१४९९ ।।
सत्यप्रमोदटीका
बहुव्रीहिस्तु जघन्यत्वात् सम्भवति तत्पुरुषो नाश्रयणीय इति साहित्यमुद्रयाऽऽह राजेति । नान्यस्येति । स्वपदमात्र-मात्रप्रधानः । चोरस्य चौर्येण बहुव्रीहिमतः ।। १४९८, १४९९ ।।
युक्तिमल्लिका
श्रेष्ठं पदं समारूढः कथं नीचो बुभूषति ।
शङ्कास्कन्दितमूर्तिस्सा विद्या नोर्ध्वं यियासति ।। १५०० ।।
सुरोत्तमटीका
तथापि प्रकृते किमित्यत आह ।। श्रेष्ठमिति ।। समारूढश्शब्दः प्रधानसमासे सत्यप्रधान समासायोगादिति भावः । किं च तत्पुरुषपक्षे दमइन्द्रियनिग्रह इत्यादाविव प्राक्शङ्कितविद्यां विद्यापदेनानूद्य भिदा बोध इति भिदाबोधस्यैव विद्यात्वविधानं करोतीति वाक्यार्थः सम्भवति । अस्यैव विशेष्यपदत्वात् । बहुव्रीहौ त्वस्य विशेषणपदत्वात् विशेष्यपदान्तर-मध्याहार्यम् । तथा अतोऽपि तत्पुरुष एव श्रेयान् । तथा च प्रायपाठविरोधः । तत्पुरुषयोश्चभवत्तत्पुरुषस्य विरुद्धत्वेनाभावघटिततया गुरुत्वेनासमर्थतया-क्लिष्टत्वेन चास्मत्तत्पुरुष एव श्लाघ्यः । नन्वनुवादकपदमेव विधायकवाक्येऽपि विशेष्यतया सम्बध्यत इति चेत् । तत्राह ।। शङ्केति ।। शङ्कायां शङ्काग्रन्थे आस्कन्दिता प्राधान्येन विद्यमाना मूर्तिर्यस्यास्सा तथोक्ता । सा विद्या तदनुवादरूपतयाऽस्मिन् वाक्ये विद्यमानाविद्या । विद्यापदमित्यर्थः । ऊर्ध्वं विधायक वाक्यमूर्धनि । आवृत्तेरपि दोषत्वात् अयमपि पक्षो न साधीयानिति भावः । शङ्काग्रन्थादपि नावृत्ति तदनुवादरूपादस्माद्ग्रन्थादपि नावृत्तिरिति सूचनाय शङ्का स्कन्दितमूर्तिरित्युक्तम् ।। १५०० ।।
सत्यप्रमोदटीका
दम इन्द्रियनिग्रह इत्यादिपूर्ववाक्येषु उद्देश्यवाचक-पदानां पूर्वं पाठात्तत्प्रायानुरोधेन विद्यामुद्दिश्य भिदा बोधत्वं विधीयते इति अवश्यं वाच्यम् । अन्यथा प्रायपाठविरोधापत्तेः । इन्द्रियनिग्रह इत्यादिषु तत्पुरुषत्वेन विधेयत्वं सम्भवति विशेष्यपदत्वात् । भिदाबोध इत्यत्र बहुव्रीह्या-श्रयणे तस्य विशेषणपदत्वापत्त्या विशेष्यं पदान्तरमध्याहार्यम् । तथा च अध्याहार एव दोषः । अनुवादकमेव विद्यापदं विधेयकोटौ विशेष्यत्वेन सम्बध्यते इति चेत्तत्राह श्रेष्ठमिति । अनुवादकं हि पदं श्रेष्ठम् । शङ्काऽ-स्कन्दित मूर्तित्वात् । तत्तादृशं अनुवादपरं ऊर्ध्वं विधेयपरस्य भिदाबोध इति पदस्य विशेष्यतां न यियासति । अन्वयायोग्यमिति भावः । विरुद्धत्रिक-द्वयापत्तेः ।। १५०० ।।
युक्तिमल्लिका
स्थानान्तरेष्वदृष्टोऽस्या न स्थानद्वयसङ्गमः ।
स्त्रीपुंसयोश्च योगोऽयं सूते दोषकुमारकम् ।। १५०१ ।।
सुरोत्तमटीका
अस्मिन्पक्षे दोषान्तरं चाह ।। स्थानान्तरेष्विति ।। जिह्वोपस्थजयोधृतिः । शमो मन्निष्ठताबुद्धेर्दम इन्द्रियनिग्रह इत्यादावदृष्टः । स्थानद्वयसङ्गमः अनुवादस्थानेविधिस्थाने च सङ्गमः । अस्याः विद्यायाः । विद्यापदस्येत्यर्थः । नेति योजना । स्थलान्तरेष्वावृत्तेरदर्शनात् अत्रैव कथ-मावृत्तिरिति भावः । दोषान्तरं चाह ।। स्त्रीपुंसयोरिति ।। स्त्रीलिङ्गपुल्लिङ्गयो-रित्यर्थः । बहुव्रीहेर्विशेष्यलिङ्गत्वनियमात् विशेष्यस्य च स्त्रीलिङ्गत्वात् भिदा बोधेति पदप्रयोगः स्यात् । तत्पुरुषे तु बोधस्यैव विशेष्यत्वात् तस्य च नित्यपुल्लिङ्गत्वात् न काप्यनुपपत्तिरिति भावः । स्त्रीपुरुषयोगे पुत्रोत्पत्तेरावश्य-कत्वात् दोषकुमारकमित्युक्तम् ।। १५०१ ।।
सत्यप्रमोदटीका
अध्याहारपक्षे दोषान्तरमाह स्थानान्तरेषु इति । पूर्वत्र शमो मन्निष्ठताबुद्धेः इत्यादौ सर्वत्र केवलं उद्देश्यपरपदानि विधेय-परपदेभ्यो नियमेन पूर्वमेव प्रयुक्तानि । अत्रैव पुनः तस्य उभयत्र सङ्गमः विरुद्धः । किञ्चैवमपि बहुव्रीहेर्विशेषणपदत्वेन विशेष्य समानलिङ्गवत्त्वस्य नियतेः, भिदायाः अबोधो यस्याः सा भिदाबोधा अविद्येत्येव स्यात् न पुनः भिदाबोध इति । दोषं साहित्यमुद्रयाऽऽह स्त्रीपुरुषयोरिति । योगः विशेषण-विशेष्यभावेन प्रयोगः ।। १५०१ ।।
युक्तिमल्लिका
अध्याहारो बहुव्रीहिवृद्ध्यै किं स्याद्विचारय ।। १५०२ ।।
सुरोत्तमटीका
क्रियापदादेरध्याहार सम्भवेऽपि रूढिं विना योग-मात्रेणैव प्रवृत्तस्य साकाङ्क्षविशेषणपदरूपबहुव्रीहेः प्रधानभूतविशेष्यपदस्यैवा-ध्याहारो महादोष इत्येतत्साहित्यमुद्रयोपपादयति ।। अध्याहार इति ।। यथा अधिकारारे क्रियमाणे गृहस्थित बहुव्रीहेरेव नाशो भवति । तथाऽध्याहारा-भावेपि पूर्वोत्तरवाक्य समाख्यया सम्भवत्प्रधानसमासे सति शाकाद्यध्याहारं विना प्रधानान्नस्यैवाध्याहारे बहुव्रीहिनाशवत्प्रधानपदाध्याहारसापेक्षो बहुव्रीहि-रेवायमनपेक्षस्स्यादिति भावः ।। १५०२ ।।
सत्यप्रमोदटीका
‘यत्रानवसरोऽन्यत्र’ इत्युक्तां अध्याहारमर्यादामुल्लङ्घ्य कुतोऽयं स्वच्छन्दाध्याहारो बहुव्रीहिसमासपक्षस्य क्षपणकर एव न पोषक इति श्लेषेणाह बह्विति । अधिकः आहारः सञ्चितस्य व्रीहेः क्षपणहेतुरेव यथा तथेति ध्वनिः ।। १५०२ ।।
युक्तिमल्लिका
तर्हि सत्सदसच्चासन्न च कालजवोऽपि न ।
यदा शास्त्रं समाकृष्य शयीत सलिले हरिः ।। १५०३ ।।
आरुवन्दे हि देवेषु वायुस्तस्य प्रसादतः ।। १५०४ ।।
सुरोत्तमटीका
प्राग्भेदे प्रमाणतयोक्तश्रुतिगीतावाक्यस्य विस्तरेणार्थं वदंस्तत्समाख्याबलात्तेनैव कृतेऽस्मिन्नपि वाक्ये तदनुसारेणैवार्थो वक्तव्य इत्याह ।। तर्हीति ।। यदा शयीत तर्हीति सम्बन्धः । उभयमित्यस्यार्थ-स्सदसदिति । मूर्तामूर्तयोरेकत्वायोगात् सन्नित्यमसदनित्यमिति व्युत्पत्त्या नित्यानित्यपुराणादिकमनेन गृह्यते । शयीतेत्यस्य योग्यतया शेषपूरणं सलिल इति । अपकृष्येत्यस्यार्थकथनं स्वहृद्गुहां प्रवश्येति ।। १५०३,१५०४ ।।
सत्यप्रमोदटीका
एतद्वाक्यस्य भेदपरत्वं पूर्वोदाहृतश्रुतिगीतिका-वाक्यविवरणेन द्रढयति तर्हीत्यादिभिः । अत्र भेदस्मरणस्य मुक्तिकालीनत्व-वर्णनेन भेदस्य तात्त्विकत्वम् । सदसन्नेति मूर्तामूर्तात्मकजगत्प्रलयोक्त्या परान्तकालत्वोक्तिः । सलिले ‘अप्रकेतं सलिलमासीत्’ इत्युक्तप्रलयोदधौ । महोदधिशयोन्तक इत्युक्तेः । सृतेः गताः ‘अस्माल्लोकात्प्रेत्य’ इत्युक्त्या मुक्ताः । परमात्मनि जगज्जन्ममरणादिकारणत्वलक्षणं महिमानमनुसन्धाय स्वभावशक्त्या फलनैरपेक्ष्येण आत्मनि भिदां स्मरन्ति ।। १५०३-१५०७ ।।
युक्तिमल्लिका
तदा प्रागसतो जन्म सतो मृतिमथात्मनि ।
भिदां च ये पणमृते स्मरन्तीशसृतेर्गताः ।। १५०५ ।।
तेषामुपविशाम्नाय ध्वनिं वैकुण्ठवासिनाम् ।
इत्याह श्रुतिगीतायां भगवान्बादरायणः ।। १५०६ ।।
मूर्तामूर्ताख्यभूतानां लयो ब्रह्मलयः किल ।
कालस्य रूपमात्रं तु तदाप्यस्ति जवोस्य न ।
जरामरणयोग्यस्य जवार्हजगतः क्षयात् ।। १५०७ ।।
नित्यवेदात्मकं शास्त्रमपकृष्य स्वहृद्गुहाम् ।
प्रवेश्य शेते किल स वटपत्रपुटे प्रभुः ।। १५०८ ।।
सुरोत्तमटीका
तदा प्रलयकाले । तर्हीत्यस्यार्थोऽयम् । ईशेति योग्यतया हरेस्संबोधनम् । प्रलये संसारिणां सुप्तत्वेन स्मरणासम्भवात् सृतेर्गता इत्युक्तम् । जनिमृतिपदाभ्यां भगवन्निष्ठं तत्कर्तृत्वं लक्ष्यते । जगज्जन्मादिकारणत्वम् । अत एव परमात्मनि भेदं च ये स्मरन्तीत्यर्थः । प्रकारान्तरेण पदच्छेदासम्भवात् निरवकाशमिदं पद्यम् ।। १५०५-१५०८ ।।
सत्यप्रमोदटीका
अपकृष्य पदसमन्वयपरत्वं समापाद्य ।। १५०८ ।।
युक्तिमल्लिका
एवं च ब्रह्मकल्पान्ते सन्ति सन्तस्स्मरन्ति च ।
जगतां जन्ममरणे परमात्मनि सर्वतः ।। १५०९ ।।
भिदां चेत्यागतं स्पष्टं शयानस्य तु देहिता ।
स्मर्तृणां बहुता चार्थात्प्राप्ता शब्दार्थविन्मते ।। १५१० ।।
सुरोत्तमटीका
एतद्वाक्यफलितमाह ।। एवं चेति ।। भिदां च स्मरन्तीति सम्बन्धः ।। १५०९,१५१० ।।
सत्यप्रमोदटीका
देहिता इति मुक्तप्राप्यस्य साकारता, स्मरन्तीति बहुवचनेन मुक्तानां बहुत्वं यदेति शास्त्रमिति च कालो वेद इति जडद्वयस्य इत्यादिसिद्धिः । तेन ‘यत्र तु सर्वमात्मैवाभूत्’ इत्यत्र औतिभिः कल्पितः अद्वितीयतावादो निराकृतो ध्येयः ।।१५०९-१५११ ।।
युक्तिमल्लिका
यतो जडद्वयं मुक्तो मुक्ताश्च बहवो भवन् ।
तेनाद्वितीयतामुक्तौ शुक्तौ रूप्यमभूत्तव ।। १५११ ।।
सुरोत्तमटीका
जडद्वयं वेदकालात्मकम् । तेन कारणेन । तव मते । मुक्तावद्वितीयता ।। १५११ ।।
युक्तिमल्लिका
जीवन्मुक्तिर्हि देहादौ सति मुक्तिरियं परा ।
परान्तकालादपरो मुक्तेः कालो न यौक्तिकः ।। १५१२ ।।
सुरोत्तमटीका
ननु जीवन्मुक्तिदशेयं भवत्वित्यत आह ।। जीवन्मुक्ति-र्हीति ।। देहादौ सति सत्येव जीवन्मुक्तिरङ्गीक्रियते । शुकनारदादौ तथा दर्शनात् । इयं चराचरसकलजगत्क्षयरूपापरममुक्तिः । परान्तकालात् ब्रह्मणश्शतायुरात्मकपरस्यान्तकालात् ।। १५१२ ।।
सत्यप्रमोदटीका
सकलप्रपञ्चनाशश्रवणान्नेयं जीवन्मुक्तिः किन्तु परम-मुक्तिरेव । जीवन्मुक्तौ देहादीनामवस्थितेरित्याह जीवदिति । मुक्तेः परममुक्तेः अपरः कालः अपरमुक्तिकालः इति यावत् ।। १५१२ ।।
युक्तिमल्लिका
तदापि भेदस्तद्बोधश्चास्ति श्रौतस्मृतेर्बलात् ।। १५१३ ।।
सुरोत्तमटीका
भिदामित्युक्त्या भेदः स्मरन्तीत्युक्त्या तद्बोध इति विवेकः । श्रौतस्मृतेः श्रुतिमूलव्यासवाक्यात्मकस्मृतेः ।। १५१३ ।।
सत्यप्रमोदटीका
बोधः स्मरन्तीत्युक्तः । सन्ततं हरिस्मरणं तद्धर्मिक-भेदस्मरणमेवेति हृदयम् । आधारता भेदव्याप्तलिङ्गम् । श्रौतस्मृतेः श्रुति-गीतिकायाः पञ्चमवेदस्य । तद्बोध एव भिदाबोधः न तु भिदाया अबोधः ।। १५१३, १५१४ ।।
युक्तिमल्लिका
आत्मनीति हि सप्तम्या यद्भेदाधारतोदिता ।
अतस्तत्परमं तत्त्वं विद्या तद्बोध एव हि ।। १५१४ ।।
सुरोत्तमटीका
यत् यस्मात् । उदिता परमात्मनः । अतः मुक्तावपि भेदस्मरणकथनात् । तत् भेदात्मकं तत्वम् । तद्बोधः भेदबोधः । तस्माद्भिदाया बोध इत्येव समासो वक्तव्यः नत्वपर इति भावः ।। १५१४ ।।
युक्तिमल्लिका
भेददृष्ट्याऽभिमानेन निस्सङ्गेनापि कर्मणा ।
इत्याह स प्रभुर्व्यासो मोक्षसाधनबोधने ।। १५१५ ।।
सुरोत्तमटीका
भेददृष्टेर्मोक्षसाधनविरक्तिभक्तिभ्यां सह भागवत एव पाठात् भिदाबोध एव विद्या । नत्वबोध इत्याह ।। भेददृष्ट्येति ।। भेददृष्ट्या भगवति भेदापरोक्षज्ञानेन । अभिमानेन तस्मिन्भगवत्येव ममायं स्वामीति स्नेहेन । भक्तयेत्यर्थः । इतरत्स्पष्टम् । ज्ञानेनेत्येवोक्ते ऐक्य ज्ञानस्यापि प्राप्ते-स्तन्निरासाय भेददृष्ट्येति ज्ञानं विशिनष्टि । भक्तेस्स्वरूपापरिज्ञानात् अभिमानेनेति तां च विशिनष्टि । कर्मणो प्रधानसाधनत्वात्तस्य ज्ञानभक्तिसाम्यं गर्हयितुमपि पदम् । अनेन वैराग्यमुपलक्ष्यते । एतदुपलक्षितवैराग्य समुच्चयाय वा अपि पदम् ।। १५१५ ।।
सत्यप्रमोदटीका
मोक्षसाधनेषु प्राधान्येन भेदसाक्षात्कारस्य भागवते पठनादपि न अबोधः विद्याशब्दार्थ इत्याह भेदेति । दृशिर्हि साक्षात्कारः । ‘दृष्ट्वैव तं मुच्यते’ इत्युक्तब्रह्मसाक्षात्कारः अपि भेदसाक्षात्कार एव । भेदस्य तद्धर्मिकस्य तत्स्वरूपत्वात् ।। १५१५ ।।
युक्तिमल्लिका
भगवत्यभिमानो हि भक्तिर्निस्सङ्गकर्म च ।
निवृत्तिस्सैव विद्वद्भिर्विरक्तिरिति चोच्यते ।। १५१६ ।।
सुरोत्तमटीका
सैव निवृत्तिरेव ।। १५१६ ।।
सत्यप्रमोदटीका
अभितो हरेः मानेन बहुमानेन आग्रहेण च । निः-सङ्गेनापि कर्मणा फलाभिसन्धिरहितनिवृत्तकर्मणा च मुक्तः सन् ‘कर्तृत्वा-त्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । स सङ्गत्य’ इत्युत्तरवाक्येनान्वयः ।।१५१६।।
युक्तिमल्लिका
भेददृष्टिं च तत्पंक्तौ ज्ञानाख्यां यां पुरा जगौ ।
अकाराख्यकुठारेण किं तां हन्ति मुरान्तकः ।। १५१७ ।।
सुरोत्तमटीका
यां ज्ञानाख्यभेददृष्टिम् । पुराभक्तेः पूर्वम् । अकाराख्य-कुठारेण अबोध इति पदच्छेदे भेददृष्टिनिन्दकोयमकारः । तेन कुठारेण । तां ज्ञानभक्तिविरक्त्याख्यमोक्षसाधनेषु प्रथमां भेददृष्टिम् ।। १५१७ ।।
सत्यप्रमोदटीका
पुरा जगौ भागवते तृतीयस्कन्धे । तां भेददृष्टिम् । किं हन्ति । दशमस्कन्धे भिदाया अबोधेन इत्युक्तिकुठारेण कथं निषेधति । स्वव्याघातापातात् । मुरान्तकः । ऐक्यवादिनः मुरासुरस्य संहर्ता ।।१५१७।।
युक्तिमल्लिका
तदबोधस्तवैवासीद्भेदोयमकुतो भयः ।। १५१८ ।।
सुरोत्तमटीका
तत् तस्मात् अबोधः पूर्वोत्तरवाक्यार्थाबोधः ।।१५१८।।
सत्यप्रमोदटीका
अबोधः विपरीतबोधः । तव अपव्याख्यातुः ।। १५१८ ।।
युक्तिमल्लिका
द्विरूपाप्येकरूपाया रथिसारथितां व्यधात् ।
सेयं वाक्पार्थकल्पा मे त्वं चापार्थो भवो ध्रुवम् ।। १५१९ ।।
सुरोत्तमटीका
इममेवार्थं साहित्यमुद्रयाऽलङ्करोति ।। द्विरूपेति ।। द्विरूपा अबोधबोधाख्यरूपद्वयानुकूलेव स्थितापि एकरूपा समास प्राधान्या-दिना बोध इत्येव रूपवती । रथिसारथितां अन्ततस्सिद्धरूपेण परं प्रतिरथित्वं स्वयुक्तिरूपेण सारथ्यं च । अथवा भेददृष्ट्या भिदां स्मरन्तीति निरवकाशरूपं भिदा बोध इति सावकाशरूपं च यस्याः भागवत वाचः सा द्विरूपा । यद्वा आपाततो व्यावहारिकत्वशङ्कार्हा । साक्षान्मोक्षसाधनत्वसाक्षान्मोक्षकालीनत्व युक्त्या तदनर्हा चेति द्विरूपा । एतादृश्यपि या पुनरेकरूपा निरवकाश-वाक्यद्वयसमाख्यया अस्या अपि निरवकाशत्वप्राप्त्या सर्वापि निरवककाश-त्वाख्यैकरूपा । रथिसारथितां परं प्रतियुद्धाय प्रयुक्तत्वात् भिदाबोध इति श्लोको रथी । निरवकाशसमाख्यारूपतया इमौ श्लोकौ सारथी । इमौ वा श्लोकौ भेदसाधकतया परं प्रत्यपि प्रयोक्तुं शक्यत्वाद्रथिनौ । मुक्तिकालीनत्व-मोक्षसाधनपङ्क्तिस्थत्वाख्ययुक्तिगर्भत्वात् सारथिनौ च । एवं च द्वेधा द्विरूपत्वमेकरूपत्वं च । त्रेधा रथिसारथित्वम् । एकं विचार्यवाक्यं समाख्यावाक्यद्वयं चेति त्रयश्च पार्था लब्धा इति द्रष्टव्यम् । अत एवाह ।। सेयं वामिति ।। पार्थकल्पा पार्थत्रयकल्पा । एकपार्थेनेव ईदृशनिरवकाशैकवाक्येनैव परो जेतुं शक्यते । बहुतरवाक्येषु सत्सु किं वक्तव्यमिति भावेन पार्थत्रय-कल्पेत्युक्तम् । अपार्थः प्रत्युत्तरासमर्थत्वाद्व्यर्थः । अस्माकमिव निरवकाश-वाक्यरूपपार्थरहितत्वात् अपार्थश्च । पार्थस्यापि षण्डरूपेण सहप्राक् द्विरूपस्य पुनः पुंरूपस्यैव दर्शनात् द्विरूपत्वमेकरूपत्वं च रथित्वं सारथित्वं च उत्तर-गोग्रहणे प्रसिद्धमेव ।। १५१९ ।।
सत्यप्रमोदटीका
साहित्यमुद्रया रञ्जयति द्विरूपेति । अविमर्शकाले अबोध इति वस्तुगत्या बोध इति द्विरूपेत्यर्थः । उत्तरगोग्रहणकाले पार्थः अविवेकेन कुरूणां प्राक् सारथिवत् अनन्तरं रचितया यथेति ध्वनिः । वाक् भागवतवाक्यं पार्थकल्पा पार्थसदृशी ।। अपार्थः प्रत्युत्तरासमर्थः ।।१५१९।।
युक्तिमल्लिका
अतो मम गृहान्नीता भवतोऽप्युत्तरा कृतीः ।
गा गृह्णामि न सन्देहस्त्वं तु दुर्योधनो भव ।। १५२० ।।
सुरोत्तमटीका
अतः निरवकाशभगवद्वाक्यविरुद्धत्वात् । गाः तवैक्य-श्रुतीः । दुर्योधनः युद्धासमर्थः ।। १५२० ।।
सत्यप्रमोदटीका
मे गृहात् सदागमात् नीताः दुराग्रहेण अन्यथा योजिताः । उत्तररूपाः गाः वाक्यानि । गृह्णामि याथातथ्येन योजयामि । दुर्योधनः कथायामसमर्थः ।। १५२० ।।