प्रपञ्चो यदि विद्येत निवर्तेत न संशयः

।। श्रीः ।।

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।।

श्रीमद्वादिराजतीर्थश्रीमत्पूज्यचरणविरचिता युक्तिमल्लिकायाम्

विश्वसौरभम्

युक्तिमल्लिका

प्रपञ्चो यदि विद्येतेतिश्रुत्यर्थः

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।। १ ।।

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ।। २ ।।

इयं श्रुतिः पञ्चभेदनित्यतासत्यते स्फुटम् ।

सयुक्तिकं साधयितुं प्रावर्तत किल क्रमात् ।। ३ ।।

श्रीमद्वादिराजतीर्थचरणारविन्दचञ्चरीक सुरोत्तमभिक्षुविरचितायां युक्तिमल्लिकाटीका विश्वसौरभम्

सुरोत्तमटीका

विश्वसौरभं निरूपयन् जगन्मिथ्यात्वप्रतिपादकत्वेन पराभिमतश्रुतेरनुकूलमर्थं वदंस्तां श्रुतिमनुवदति ।। प्रपञ्च इत्यादिना ।। ‘‘ज्ञाते द्वैतं न विद्यत’’ इत्ये-तदन्तं श्रुतेश्श्लोकद्वयमिदम् । इयं उक्ता श्रुतिः । माण्डूकोपनिषद्वाक्यद्वयेनापि तर्करीत्या प्रवर्तनात्सयुक्तिकमित्युक्तम् । यदि पदद्वयस्य लिङन्तपदानां च तर्कस्फोरकाणामप्यसन्दिग्धत्वात्स्फुटमित्युक्तम् । क्रमात्प्रथमवाक्येन भेदपञ्चक-नित्यत्वं द्वितीयवाक्येन तत्सत्यत्वमित्यर्थः ।। १-३ ।।

श्री सत्यप्रमोदतीर्थश्रीचरणविरचिता विवृतिः

सत्यप्रमोदटीका

रमाया रमणं वन्दे रामं विधिकरार्चितम् ।

श्रीमध्वं जयतीर्थार्यं वादिराजं मुनीश्वरम् ।। १ ।।

अस्मद्देशिकपादाब्जे नत्वा तत्करुणां श्रितः ।

विवृणोमि यथाबोधं धीशुध्द्यै विश्वसौरभम् ।। २ ।।

पूर्वस्मिन् सौरभे चेतनाचेतनात्मकात् विश्वस्माद्भेदः विष्णौ समर्थितः । तस्य विश्वस्य सत्यत्वमत्र समर्थ्यत इति अनन्तरसङ्गतिः स्वस्मिन् एकवाक्यता च । तत्तद्धर्मिस्वरूपस्य भेदपञ्चकस्य अनादित्वसत्यत्वसमर्थने धर्मिभूतविश्व-स्यापि तदुभयं सेत्स्यतीत्याशयवान् तत्र श्रुतिद्वयमुदाहृत्य प्रकृतिनयानुख्यानु-नोक्तदिशा तदर्थमाह प्रपञ्च इति ।। इयं श्रुतिः माण्डूकोपनिषद्गता । पञ्च-भेदेति । तत्त्वनिर्णयटीकायां उक्तप्रकारेण पञ्चभेदानां प्रकृतत्वमनुसन्धेयम् । अनादिमाययेति पूर्वश्लोके जीवेश्वरयोर्जडेश्वरयोः जीवजडयोञ्च भेदाः सन्तीति लब्धम् । ‘प्रभवः सर्वभावानां’ इत्यत्र सर्वेति विशेषणेन भावानामिति बहुवचनेन च भावशब्दितजीवानां मिथो भेदः । आवरणानां जडानामपि मिथो भेदः इति पञ्च भेदाः । नित्यतेति । अनादितेति भावः । तदुक्तं अनुव्याख्याने ‘सोऽयं सत्यो ह्यनादिश्चेत्यादि’ । स्फुटमिति । भेदपञ्चकः, अनादिः, भावत्वे सति अविनाशित्वात् । सत्यः, बाधाभावात् इति प्रयोगद्वये व्यभिचारशङ्कानिरासकत्वात् । किलेति । अस्यैव वार्थस्य ‘सोऽयं सत्यो ह्य-नादिश्च सादिश्चेन्नाशमाप्नुयात् ’इत्यादिसमाख्याश्रुत्या व्याख्यानस्य प्रसिद्ध-त्वादिति भावः । क्रमादिति । प्रथमश्लोके पूर्वार्धेन अनादित्वं उत्तरार्धेना-नादित्वं सत्यत्वं च, द्वितीयश्लोकेन सत्यत्वं इति क्रमात् ।। १–३ ।।

युक्तिमल्लिका

यदाह पञ्चद्दशतौ वर्गे वेति स पाणिनिः ।

तेन वर्गे निपातौ द्वौ वाशब्देन तथाऽपरम् ।। ४ ।।

अनुशास्ति न चेत्तत्स्यादव्ययं सव्ययं किल ।

स च प्रयोगबलतः पञ्च इत्येव गम्यते ।। ५ ।।

सुरोत्तमटीका

 यत् यस्मात् । वर्गे पञ्चानां दशानां च वर्गे द्वौ निपातौ पञ्चत् दशत् इति निपातौ । अपरं पञ्च इति निपातम् । न चेत् वाशब्देन निपातान्तरं नानुशास्ति चेत् । तदव्ययं वा इत्यव्ययम् । सव्ययं व्ययेन सहितम् । व्यर्थमित्यर्थः । उक्तनिपातद्वयानुशासनस्य पञ्चद्दशतौ वर्गे इत्येतावतैवपूर्तेस्तस्य चानुशासनस्य नित्यत्वेन कदाचिद्भवतः कदाचिन्न भवत इति तत्रैव तयोर्विकल्पासम्भवात् वाशब्दस्य वैयर्थ्यमेव स्यात् । प्रकृतिप्रत्यय-विधानादिशब्दानुशासनशून्यत्वेऽपि केवलं प्रयोगबलादेव निपात्यमानस्य शब्दस्य निपातत्वेन स्वतस्सिद्धशब्दान्तरस्य निपातपङ्क्तावत्र ग्रहणायोगाच्च वाशब्दस्य वैयर्थ्यमेव स्यात् । श्रौतप्रयोगानुसारेण पूर्वनिपातान्तरग्रहणे तु पञ्चानां वर्ग इत्यस्मिन्नर्थे स वा निपातः अयं वा निपात इत्यर्थसम्भवेन वाशब्दस्य सार्थक्यं स्यात् । पूर्ववत्स्पष्टमनुक्त्वा वाशब्देनैव सूचनात्सूत्रत्वमपि सम्यक्संपादितं स्यात् । तस्मादिदमेव सूत्रकृतोऽभिप्रेतमिति भावः । सः वाशब्दसूचितनिपातः । प्रयोगबलतः प्रपञ्च इति प्रयोगबलतः ।। ४,५ ।।

सत्यप्रमोदटीका

 सूत्रे वाशब्देन वर्गरूपार्थे पञ्चशब्दः वैदिकप्रयोग-बलाज्ज्ञाप्यते इत्याह यदिति । तत्र तत्त्वनिर्णयटीकोक्तं ‘‘नात्र प्रपञ्चो विश्व-विस्तारः । किन्तु जातीयरोऽर्थे पञ्चन्शब्दाड्डुप्रत्ययः । ततश्च पञ्चविधः पञ्चः स च प्रकृष्टत्वात् प्रपञ्चः । प्रकृष्टत्वं च मोक्षाङ्गज्ञानत्वात्’’ इत्यादिकमनु-सन्धेयम् ।। सव्ययं व्यर्थम् ।। प्रयोगः वैदिकप्रयोगः ‘प्रपञ्चो भेदपञ्चकः’ इत्यादिः

।। ४,५ ।।

युक्तिमल्लिका

तत्पञ्चानां समूहोऽपि पञ्चोऽभूदनुशासनात् ।

ते च पञ्च प्रसिद्धत्वाद्भेदा वेदान्तवेदिषु ।। ६ ।।

सुरोत्तमटीका

 तत्तस्मात् । अस्यैव विवरणमनुशासनादिति । ते वर्गान्तःपातिनः पञ्च वेदान्तवेदिषु तत्त्ववादिषु प्रसिद्धत्वात्पञ्चभेदत्वेन प्रसिद्धत्वाद्भेदा एव । प्रसिद्धपरित्यागे कारणाभावादिति भावः ।। ६ ।।

सत्यप्रमोदटीका

 प्रसिद्धाः ‘‘जीवेशयोर्भिदा चैव जीवभेदः परस्परम् । जडेशयोर्जडानां च जडजीवभिदा तथा । पञ्चभेदा इमे नित्याः’’ इत्यादि-प्रमाणेषु ।। ६ ।।

युक्तिमल्लिका

उपसर्गोऽपवर्गार्थज्ञानत्वाद्विशिनष्टि तम् ।

अतः पञ्चविधो भेदः प्रपञ्चोऽभूद्विचारणे ।। ७ ।।

सुरोत्तमटीका

 उपसर्गः प्रेत्युपसर्गः । अपवर्गार्थज्ञानत्वादित्यत्रापवर्गार्थं ज्ञानं येषामिति विग्रहः । तं पञ्चम् ।। ७ ।।

सत्यप्रमोदटीका

 अपवर्गार्थेति । ‘पञ्चभेदांश्च विज्ञाय विष्णोः स्वा-भेदमेव च । निर्दोषत्वं गुणोद्रेकं ज्ञात्वा मुक्तिर्न चान्यथा’ इत्युक्तेः ।।७,८।।

युक्तिमल्लिका

तं भेदवर्गं सैषा वागाजुहाव तयाऽऽख्यया ।

तत्पञ्चभेदवर्गोऽभूत्प्रपञ्चोऽयं श्रुतौ श्रुतः ।। ८ ।।

सुरोत्तमटीका

 सैषा वाक् । ‘‘प्रपञ्चो यदि विद्येत’’ इति वाक् । तयाऽख्यया प्रपञ्च इत्याख्यया ।। ८ ।।

युक्तिमल्लिका

किं च प्रपञ्चरूपं च तं पञ्चं सुप्रपञ्चयन् ।

श्लोकः प्रपञ्चमाहेति प्राञ्चः सञ्चोदयन्ति नः ।। ९ ।।

सुरोत्तमटीका

 न केवलं प्रयोगसम्भवमात्राच्छतिः प्रपञ्चशब्देन भेदपञ्चकमाह । किन्तु प्रयोजनान्तरं च श्रुतेरभिप्रेतमित्याह ।। किञ्चेति ।। इत्यभिप्रेत्य श्रुतिरेवमाहेति भावः ।। ९ ।।

सत्यप्रमोदटीका

 अप्रसिद्धप्रपञ्चशब्देन भेदानां निर्देशे प्रयोजनमाह प्रपञ्चरूपमिति । तत्तद्भेदानां तत्तद्धर्मिस्वरूपत्वात् ।। ९ ।।

युक्तिमल्लिका

किञ्चेदं द्वैतमित्यत्रैवोत्तरार्धे स्वयं श्रुतिः ।

परामृशति यद्भेदं तेनादावपि भेदवाक् ।। १० ।।

सुरोत्तमटीका

 न केवलं सम्भावनामात्रेण श्रौतप्रपञ्चशब्दस्य भेद-परत्ववर्णनम् । किंत्विदमिति प्रागुक्तानुवादरूपपदघटितोत्तरवाक्यपर्यालोचन-यापि पूर्वोक्तः प्रपञ्चो द्वैतमेव भवेदित्याह ।। किञ्चेदमिति ।। अत्रास्मिन्नेव श्लोके परामृशति प्राक्प्रस्तुतार्थपरेणेदंपदेन परामृशति । यत् यस्मात् । आदौ पूर्वार्धे ।। १० ।।

सत्यप्रमोदटीका

 किं चोत्तरार्धे ‘इदं द्वैतं’ इति द्वैतशब्देन भेदस्यानु-वादः । इदंशब्देन तत्परामर्शश्च क्रियते । एतदुभयं पूर्वार्धेन भेदस्य प्रकृतत्व एव सम्भवति । वादानुवादयोः समानविषयकत्वनियमात् । परामर्शश्च प्रकृत-स्यैवेति नियमाच्च । अतोऽपि प्रपञ्चशब्दोऽयं भेदपर एवेत्याह किं चेत्यादिभिः ।। १०,११ ।।

युक्तिमल्लिका

प्राग्भेदाप्रस्तुतौ द्वैतपदेनेह पुनश्श्रुतिः ।

कथं तमेवानुवदेदनुक्तमनुवक्ति कः ।। ११ ।।

सुरोत्तमटीका

 किञ्चैकार्थप्रतिपादकेऽस्मिन् श्लोके पूर्वार्धे प्रतिपादित-स्यैव विशेष्यस्योत्तरार्धेऽपि प्रतिपाद्यत्वात् उत्तरत्र स्पष्टं द्वैतविकल्पादिपदेनोक्त एवार्थः पूर्वत्रापि प्रपञ्चपदेन वक्तव्यः । अन्यथा पूर्वोत्तरवाक्ययोरसङ्गति-प्रसङ्गात् । द्वैताद्वैतादिपदानां निरवकाशत्वेन प्रपञ्चपदस्योक्तविधया सावकाश-त्वेन निरवकाशानुसारेणैव सावकाशस्य योज्यत्वाच्च । अतः प्रपञ्चपदेन प्रागुक्तस्य द्वैतपदेन पुनरनुवादात् वादानुवादन्यायेनैवैकार्थ्यसिद्धिः । पूर्व-परामर्शिनेदंपदेन तं परामृश्य तस्य द्वैतताविधाने तु श्रुत्यैव प्रपञ्चशब्दस्य द्वैतार्थत्वेन व्याख्यातत्वात् किमु वकत्तव्यमैकार्थ्यम् । अतस्तत्ववादिनामाचार्य एव श्रौतमताचार्य इत्याह ।। प्राग्भेदेति ।। ११ ।।

युक्तिमल्लिका

वादानुवादावेकस्येत्याहुः प्राहुणिका अपि ।

इदमित्यदितार्थस्य परामर्शे तु किं पुनः ।। १२ ।।

सुरोत्तमटीका

 प्राहुणिका इत्यनेन यां कन्यां कन्यापक्षीयो वृणीध्वमिति वक्ति । तामेव वरपक्षीयोऽपि वृणीमह इत्यनुवक्ति । नान्याम् । अतोऽज्ञ-जनानामपि सम्मतोऽयमर्थ इति सूचयति ।। १२ ।।

सत्यप्रमोदटीका

 प्राहुणिका इति ।। कन्यापक्षीयैः ‘वृणीध्वमि’ त्युक्तायाः कन्याया एव वरपक्षीयैः ‘वृणीमहे’ इत्यनुवाददर्शनादिति भावः ।।

युक्तिमल्लिका

अतः प्रपञ्चभेदोऽभूच्छुतेर्हृदयशोधने ।

व्याख्यां तत्ख्यापयेद्दिक्षु भेर्याचार्यशिरोमणेः ।। १३ ।।

सुरोत्तमटीका

 तत् तस्मात् श्रुतिकृतव्याख्यानस्याचार्यकृतव्याख्यानस्य चैकत्वात् ।। १३ ।।

सत्यप्रमोदटीका

 व्याख्यां ‘तस्मादनादिरेवायम् । प्रकृष्टः पञ्चविधः भेदः प्रपञ्चः’ इत्येवं तत्त्वनिर्णयोक्ताम् । भेरीश्रुतिसंवादित्वादियमेव व्याख्या ग्राह्या इत्येवंरूपा ।। १३ ।।

युक्तिमल्लिका

त्वं च द्वैतं भिदां ब्रूषे तथाऽद्वैतं तवाऽभिदा ।

अर्थात्प्रपञ्चोऽपि भेदः किं शब्दं तु प्रमुञ्चसि ।। १४ ।।

सुरोत्तमटीका

 शब्दः प्रपञ्चशब्दो भेदपर इति स्पष्टं वचनम् ।। १४ ।।

सत्यप्रमोदटीका

 अर्थात् भेदवाचिद्वैतशब्दसमानाधिकरणेन इदंशब्देन परामृष्टत्वात् ।। १४ ।।

युक्तिमल्लिका

वागीश एव वागर्थावेकीकुर्यान्न चापरः ।

न चेद्विकल्पशब्देन भेदमेव कथं बुधाः ।

प्रावक्ष्यन्नुत्तरश्लोके नावक्ष्यन्यदि तं पुरा ।। १५ ।।

सुरोत्तमटीका

 वागीशः भारतीपतिश्श्रीमुख्यप्राणः । एकीकुर्यात् । वागनुसारेणैवार्थं वदेदित्यर्थः । न चेदपर एकीकरणासमर्थो न चेत् । तं भेदम् । पुरा पूर्ववाक्ये । प्रपञ्चद्वैतविकल्पशब्दानां भेदपरत्वस्यैव व्याख्यातत्वेना-स्मदाचार्या एव पूर्वोत्तरवाक्यानामर्थानां चैकीकरणसमर्थाः । अन्ये तु प्रपञ्च-शब्देन पूर्वश्लोके प्रपञ्चमेवोक्त्वोत्तरश्लोके च द्वैतविकल्पादिशब्दैः पुनर्भेदस्य कथनात्पूर्वोत्तरवाक्यार्थकथनासमर्था इति भावः ।। १५ ।।

सत्यप्रमोदटीका

 एकीकर्तुं प्रपञ्चः, द्वैतं, विकल्पः इति शब्दत्रयस्य भेद एक एवार्थः इति बोधयितुम् ।। १५ ।।

युक्तिमल्लिका

समाख्या हि महाव्याख्या प्रायपाठे तु किं पुनः ।

अर्थान्तरायुक्तितश्च भेदार्था वाङ्न संशयः ।। १६ ।।

सुरोत्तमटीका

 समाख्या अन्यत्र समानाख्या महाव्याख्या स्थानन्तरगत समानवाक्यस्य व्याख्यानरूपा । प्रायपाठे एकपङ्क्तावेव पाठे । वाक्यार्थपर्या-लोचनया च भेदपञ्चकमेव प्रपञ्च इत्याह ।। अर्थेति ।। १६ ।।

सत्यप्रमोदटीका

 समाख्या ‘‘प्रपञ्चो भेदपञ्चकः’’ इत्येवंरूपा । अर्थान्तरं प्रपञ्चशब्दस्य विश्वमिति, विद्यते इत्यस्य विद्यमानं सत्यं इत्यर्था-न्तरम् । अयुक्तितः उत्तरश्लोकोक्तरीत्या ।। १६ ।।

युक्तिमल्लिका

यदि प्रपञ्चो विद्येत निवर्तेत तदा किल ।

इममर्थं महाऽनर्थकरं कः पण्डितो वदेत् ।

ब्रह्मैवोन्मूलयेद्यस्मात्तर्कोऽयमतिकर्कशः ।। १७ ।।

सत्यप्रमोदटीका

 इदानीं ‘प्रपञ्चो यदि विद्येत भवेत उत्पद्येत तर्हि निवर्तेत । न च निवर्तते । तस्मादनादिरेवायं ’ इति तत्त्वनिर्णयोक्तदिशा तर्कस्वरूपं विविनक्ति । तत्र विद्यतेर्विद्यमानत्वरूपास्तित्वार्थकत्वे पराभिमते बाधकमाह यदीति । महाऽनर्थकरं ब्रह्मणोऽपि बाध्यत्वापादकम् ।। १७ ।।

युक्तिमल्लिका

बाधो निवृत्तिशब्दार्थो विद्यमानत्वमद्भुतम् ।

व्याप्नोति बाध्यतां नात्र संशयः किल धीमताम् ।। १८ ।।

सुरोत्तमटीका

 स्वाभिलषितमर्थं वक्तुं परस्यार्थमनुद्य दर्शयति ।। यदीति ।। विद्येत सत्यं भवेदित्यर्थः ।। १८ ।।

सत्यप्रमोदटीका

 अतः विद्यमानत्वबाध्यत्वयोः व्याप्तिः परोक्ता अप-हसनीयेत्याह अद्भुतमिति किलेति च ।। १८ ।।

युक्तिमल्लिका

एवं च ब्रह्मणो हर्त्री किं न व्याप्तिरियं तव ।

विपर्ययो महानासीत्तर्कस्यास्य विपर्यये ।। १९ ।।

सुरोत्तमटीका

 हर्त्री संहर्त्री । यद्विद्यते तद्बाध्यते इति व्याप्त्यङ्गीकारे ब्रह्मण एव बाध्यत्वप्रसङ्गादिति भावः । विपर्ययः अनर्थः । अबाध्यत्वेन सत्यत्वनिराकरणादिति भावः । विपर्यये विपर्ययपर्यवसान इत्यर्थः ।। १९ ।।

सत्यप्रमोदटीका

 तर्कस्य विपर्यये न च बाध्यते अतो न विद्यमानं सत्यं इत्येवं विपर्ययपर्यवसाने । विपर्ययः । ब्रह्मणोऽसत्यत्वम् ।। १९ ।।

युक्तिमल्लिका

अबाध्यत्वे न नास्तित्वं यन्नास्तिकमतेऽपि न ।

अतस्सर्वैश्च धात्वर्थो वाच्योऽन्योऽत्र मयैव न ।। २० ।।

सुरोत्तमटीका

 यत् यस्मात् । नास्तिकमते । शून्यवादिमते । अतः प्रसिद्धधात्वर्थस्य विरुद्धत्वात् ।। २० ।।

युक्तिमल्लिका

उत्पत्तिनाशौ यद्व्याप्तौ निवृत्तिश्च विनाशनम् ।

अतो व्यापकशक्त्यैव व्याप्योत्पत्तिरिहागता ।। २१ ।।

सुरोत्तमटीका

 यत् यस्मात् व्याप्तौ व्याप्तिमन्तौ यत्कार्यं तदनित्यमिति नियमात् । निवृत्तिः निवर्तेतेति पदप्रातिपदिकार्थभूता निवृत्तिः । विनाशनं विनाशनमेव । निवृत्तिविनाशशब्दयोः पर्यायत्वादिति भावः । अतश्श्रुतौ निवृत्तिपदेन विनाशस्य व्यापकत्वकथनात् । व्यापकशक्तया व्यापकीभूत-विनाशशक्तया । व्याप्या विनाशव्याप्या । उत्पत्तिविनाशयोर्व्याप्यव्यापक-भावस्य सर्वसंमतत्वात् व्यापकीभूतविनाशस्य च श्रुतौ स्पष्टं निवर्तेतेति कथनात् विद्येतेति व्याप्यतयोक्ता वित्तिरुत्पत्तिरेव भवेत् । व्यापकयोग्यस्यैव व्याप्यस्य वक्तव्यत्वात् । अन्यथा गङ्गापदेन घोषाधारत्वयोग्यतीरग्रहण-माकस्मिकं स्यात् । यदा व्यापकस्य वृत्त्यन्तरकल्पनयापि स्वयोग्यव्याप्यकल्पने शक्तिः किमु वाच्यं तदा धातूनामनेकार्थत्वादित्यनुशासनात् सत्यामेव मुख्य-वृत्तौ तत्कल्पनमिति भावः ।। २१ ।।

सत्यप्रमोदटीका

 नास्तिकमते शून्यमते । तेनापि अबाध्यस्य शून्यस्य तत्वरूपताऽभ्युपगमात् । अतः उत्पत्तिर्नाश इति च क्रमेण अर्थः धात्वोर्वाच्य इत्याह उत्पत्तिरिति । शक्त्येति यद्भावत्वे सति उत्पत्तिमत् तद् विनाशवत् इत्येव व्याप्तेः सत्त्वात् ।। २१ ।।

युक्तिमल्लिका

यतः प्रागसतस्सत्तैवोत्पत्तिर्धातुतोऽपि तत् ।। २२ ।।

यथा सत्तार्थधात्वर्थो भूतिर्जन्म विदां मते ।

तथेह सत्तार्थधातोरर्थोप्युत्पत्तिरेव हि ।। २३ ।।

सुरोत्तमटीका

 विद सत्तायामिति प्रसिद्धधात्वर्थत्वेनैव द्वेधोत्पत्तिमान-यति ।। यत इति ।। धातुतः । प्रसिद्धधात्वर्थत्वतः । तत् तस्मात् । उत्पत्ति-रिहागतेति पूर्वेणान्वयः ।। २२,२३ ।।

सत्यप्रमोदटीका

 विदधातोरुत्पत्त्यर्थकत्वं त्रेधोपपादयति यत इत्यादिभिः । सत्ता च कादाचित्की विवक्षिता इति तत्त्वानिर्णयटीकोक्तिमनुरुध्याह प्रागिति ।। धात्वर्थः भूधात्वर्थः । जन्म विदामिति पदच्छेदः । विदां मीमांसकानाम् । तदुक्तं न्यायामृते ‘तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुर्भावनां भावनाविदः’ इति । तथा तत्समानार्थकविदधातोः ।। २२,२३ ।।

युक्तिमल्लिका

तस्मादुत्पत्तिरत्रार्थो यद्धात्वर्थोऽप्यनेकधा ।। २४ ।।

सुरोत्तमटीका

 निमित्तान्तरं चाह ।। यद्धात्वर्थ इति ।। यत् यस्मात् । तस्मादिति पूर्वेणान्वयः । ‘‘अनेकार्था हि धातव’’ इति वचनादिति भावः

।। २४ ।।

सत्यप्रमोदटीका

 ‘अनेकार्थत्वाद्धातूनां विद्यतिरेवोत्पत्तिवाची’ति तत्त्व-निर्णयटीकामनुरुध्याह यदिति ।। २४ ।।

युक्तिमल्लिका

एवं च नित्यजडगो जीवगो ब्रह्मगश्च यः ।

भेदवर्गः प्रपञ्चाख्यो यद्युत्पद्येत तर्ह्यसौ ।। २५ ।।

विनश्येन्न च नाशोऽस्ति तस्मान्नोत्पद्यते च सः ।

इति तन्नित्यतामाह श्रुतिर्नास्त्यत्र संशयः ।। २६ ।।

सुरोत्तमटीका

 अतोऽपि घटादिप्रपञ्चो नात्र श्रुतौ विवक्षितः । तर्कस्य विपर्ययेऽपर्यवसानप्रसङ्गात् । किन्तु नित्यधर्मिकत्वादनादिनित्यं भेदपञ्चक-मेवोक्तरीत्या श्रुत्या विवक्षितः । तर्कस्य विपर्ययेऽपर्यवसानप्रसङ्गात् । किन्तु नित्यधर्मिकत्वादनादिनित्यं भेदपञ्चकमेवोक्तरीत्या श्रुत्या विवक्षितमित्याह ।। एवं चेति ।। नित्यजडगः अव्याकृताकाशकालप्रकृतिवेदादिनिष्ठः । भेदवर्गः जडेश्वरभेदो जडजीवभेदो जडानां परस्परभेदो जीवेश्वरभेदो जीवानां परस्पर-भेदश्चेति त्रिवर्गनिष्ठः पञ्चविधो भेदसमूहः । तन्नित्यतां भेदपञ्चकनित्यताम् । पञ्चतयापि सिद्धानां पञ्चभूतादीनामुत्पन्नविनष्टत्वेन अनादिनित्यानां जीवेश्वर-नित्यजडानां त्रित्वेन च तर्कविषयत्वायोगात् अनादिनित्यतया पञ्चतया च प्रसिद्धं भेदपञ्चकमेव श्रुत्यर्थ इति भावेनोक्तं नास्त्यत्र संशय इति ।।२५,२६।।

सत्यप्रमोदटीका

 नित्यजडग इति । अनादिप्रकृत्याकाशादिधर्मिकः । भेदवर्गः जीवानां जडानां च परस्परं भेदमादाय पञ्चविधः । नित्यतां अनादिताम् ।। २५,२६ ।।

युक्तिमल्लिका

इत्यर्धे नित्यतामुक्त्वा वक्त्यर्धे सत्यतां च सा ।। २७ ।।

सत्यप्रमोदटीका

 एवं पूर्वार्धेन भेदस्य सादित्वं निरस्य उत्तरार्धेन मायामात्रमित्यादिना मिथ्यात्वं निरस्यते इत्याह इतीति ।। २७ ।।

युक्तिमल्लिका

मात्रा लेशस्तद्विहीनस्स्यादमात्रो विवेकिनाम् ।

मायालेशोज्खितं वस्तु मायाऽमात्रं ततोऽभवत् ।। २८ ।।

उक्तद्वैतं च मायाया लेशतोऽप्युज्खितं किल ।

अतस्तद्ब्रह्मवद्द्वैतं सच्चाभूत्परमार्थतः ।। २९ ।।

सुरोत्तमटीका

 पर्वार्धे नित्यतामुक्त्वा पुनरुत्तरार्धे मिथ्यात्वकथनस्य विरुद्धत्वान्न तच्छब्दसम्भवात्तस्य च पदस्य भेदराहित्यार्थकत्वात् । मायाया अमात्रं मात्रारहितमिति कुलिशक्षतानामवेदनाज्ञमितिवद्योगसम्भवाच्च । सादेरेव मायामयत्वेनानादेरस्य ब्रह्मवन्मायालेशसहितत्वस्याप्ययोगेन कथं मिथ्यात्वमिति हेतुगर्भतया परं धिक्कृत्य स्वाभिमतसत्यत्वं स्थापयितुं श्रुतेरयमुत्तरदानक्रमः ।। २८,२९ ।।

सत्यप्रमोदटीका

 मायामात्रमित्यस्य‘मितं त्रातं मायाख्यहरिविद्यया’ इत्यनुव्याख्यानोक्तेऽर्थे सत्येव मायाशब्दस्य पराभिमतमर्थमुपेत्याप्याह मात्रेति । अनादित्वात् ब्रह्मवदेव निरुपादानकत्वात्, अविद्योपादानकत्वरूपमिथ्यात्व-वार्ताया मात्रया लेशतोऽप्यत्रासंभावितत्वादित्याह मायालेशोज्खितमिति ।। २८,२९ ।।

युक्तिमल्लिका

माया हि कल्पनामूलं तस्या लेशोऽपि यस्य न ।

तद्द्वैतं परमं तत्त्वं किं (नासी) न स्याच्छब्दशोधने ।। ३० ।।

सुरोत्तमटीका

 शब्दशोधने मायामात्रशब्दशोधने ।। ३० ।।

सत्यप्रमोदटीका

 हीत्यनेन भ्रमोपादानत्वमविद्याया लक्षणमिति तन्मत-प्रसिद्धिं द्योतयति ।। ३० ।।

युक्तिमल्लिका

मिथ्यात्वार्थं तु पूर्वोक्तं नित्यत्वं सहते न ते ।

उत्तरश्लोकतर्कोऽपि न्यक्करोत्यतिकर्कशः ।। ३१ ।।

सुरोत्तमटीका

 पूर्वोक्तं नित्यत्वं ते मिथ्यात्वार्थं न सहत इति योजना । उत्तरश्लोकतर्कः यदि केनचित्कल्पितस्स्यात् तर्हि निवर्तेत बाध्येत । न च विनिवर्तते । तस्मान्न कल्पित इति तर्कः ।। ३१ ।।

सत्यप्रमोदटीका

 यत्किञ्चित्कालवृत्तित्वमपि कालत्रयनिषेधप्रतियोगित्व-रूपमिथ्यात्वं यदा विरुणद्धि तदा पूर्वार्धोक्तं भेदस्यानादिनित्यत्वं तु मिथ्यात्वं न सहते इति किं वक्तव्यमित्याशयेनाह मिथ्यात्वेति । अतिकर्कशः कल्पका-भावात् कल्पितत्वाभावः इति सुदृढव्याप्तिकः ।। ३१ ।।

युक्तिमल्लिका

एवं सा द्वैतसत्यत्वं साधयित्वा सहेतुकम् ।

औतस्सर्वभावानामित्याद्युक्तिं स्वरोधिनीम् ।

अर्थान्तरे नेतुकामा पुनराह श्रुतिः किल ।। ३२ ।।

सुरोत्तमटीका

 ‘‘औतं परमार्थत’’ इति वाक्यशेषस्य सङ्गतिमाह ।। एवमिति ।। ३२ ।।

सत्यप्रमोदटीका

 ‘औतं परमार्थतः’ इति श्रुतेरापातार्थविरोधं श्रुतिः स्वयमेव परिहरतीत्याह पुनरिति ।। ३२ ।।

युक्तिमल्लिका

यदद्वैतं तत्र तत्र श्रूयते स्मर्यतेऽपि वा ।

सर्वोत्तमत्वात्परममर्थं हरिमपेक्ष्य तत् ।। ३३ ।।

सुरोत्तमटीका

 सङ्गतिमुक्त्वार्थमाह ।। यतद्वैतमिति ।। अपेक्ष्य अन्तर्भाव्य । एवं च स्ववत्सर्वोत्तमीभूतद्वितीयरहित इत्यर्थमपेक्ष्य तदद्वैतपदं श्रुतौ श्रूयत इति भावः ।। ३३ ।।

सत्यप्रमोदटीका

 परमार्थशब्दो योगेन परमश्चासावर्थश्चेति व्युत्पत्त्या स्वतन्त्रं हरिमाह । न पुनः परपरिभाषामात्रकल्पितं पारमार्थिकसत्यरूपं सत्- प्रभेदम् । ‘स्वतन्त्रं परमार्थाख्यं’ इति स्मृत्यैव निरुक्तत्वेन यववराहाधि-करणन्यायेन शास्त्रे शास्त्रीयार्थस्यैव ग्राह्यत्वात् । अवयवशक्तेः क्लृप्तत्वेन प्रोक्षण्यधिकरणन्यायेन समुदायशक्तिकल्पनानवकाशात् । पञ्चमी च ल्यब्लोप-निमित्ता । अतः स्वतन्त्रो हरिरेक एव इत्यर्थः फलित इत्याह यदित्यादिना । (न्याया. १३५ प.२७७) उक्तं चानुव्याख्याने ‘उत्तमोऽर्थो हरिस्त्वेक-स्तदन्यन्मध्यमाधमं’ इति ।। ३३ ।।

युक्तिमल्लिका

यतो ल्यब्लोपतः प्राप्ता पञ्चम्यस्ति स्थले स्थले ।

अतस्साऽर्थान्तरं ब्रूयादित्युक्त्वा विरराम च ।। ३४ ।।

सुरोत्तमटीका

 स्थले स्थले प्रासादमारुह्य प्रेक्षत इत्याद्यर्थे प्रयुक्ते प्रासादात्प्रेक्षत इति वाक्ये आरुह्येति ल्यपःल्यबन्तपदस्य लोपं निमित्तीकृत्य प्राप्ता प्रासादादित्यादि पञ्चमी । अर्थान्तरम् उत्तमद्वितीयरहित इत्यर्थम् । सा औतस्सर्वभावानामिति श्रुतिः

।। ३४ ।।

सत्यप्रमोदटीका

 स्थले स्थले इति । आसानात्प्रेक्षते, श्वश्वा जिह्नेति इत्यादौ ।। ३४ ।।

युक्तिमल्लिका

पुनः कुवादि(भिः) नां प्रोक्तकुतर्कच्छेदनायसा ।

तर्कमुद्रामुपाश्रित्य प्रतिब्रूते परान्किल ।। ३५ ।।

सुरोत्तमटीका

 द्वितीयश्लोकस्य सङ्गतिमाह ।। पुनरिति ।। अनादि-नित्यत्वस्य प्राक्प्रस्तावितत्वेन विवेकिनां मते पुनरज्ञानकल्पितत्वादिशङ्काया एवानुत्थानात् कुवादिनां कुत्सितानां दुराग्रहगृहीतानां वादिनामित्युक्तम् । मायामात्रपदस्य प्रागुक्तयौगिकार्थमनङ्गीकुर्वतां वादिनां सम्भवदर्थद्वयपदस्या-पेक्षितमर्थं नाङ्गीकरोषि चेत् स्पष्टमेव वदामीति प्रवृत्तेति भावः ।। ३५ ।।

सत्यप्रमोदटीका

 एवं भेदस्य भास्करादिमतप्राप्तं सत्योपाधिकृतत्वं निरस्य मायावादप्राप्तमारोपितत्वं निरस्यति श्रुतिरित्याह पुनरिति । कुतर्कः भेदः कल्पितः भेदत्वात् चन्द्रभेदवत् इत्येवंरूपः ।। ३५ ।।

युक्तिमल्लिका

विकल्पनामा भेदोऽयं वस्तुवैचित्र्यकल्पनात् ।

संवृत्या मायया वाऽज्ञानेन वा येन केनचित् ।। ३६ ।।

यदि कल्पित एव स्याद्बाधाख्यविनिवृत्तिमान् ।

तदा स्यादुपसर्गोऽसौ यतो बाधमसाधयत् ।। ३७ ।।

सुरोत्तमटीका

 असावुपसर्गः वीत्युपसर्गः ।। ३६,३७ ।।

सत्यप्रमोदटीका

 ‘विकल्पः प्रकृतो भेदः यदि केनचिदज्ञानादिना कल्पितः स्यात्तर्हि चन्द्रभेदवन्निवर्तेत । बाध्येत । न च बाध्यते । तस्मान्न कल्पितः । किं तु सत्य एव ’ इति सुधोक्तिमनुरुध्याह विकल्प इति । तथा च अनुमानस्य बाधितत्वमुपाधिरित्युक्तं भवति ।। केनाचिदित्यस्यार्थमाह संवृत्येत्यादिना । शून्यवादिमतानुसारेण संवृत्येति । औतमतानुसारेण मायया अज्ञानेन वा । मायया अम्बरादिकं व्यावहारिकम् । अज्ञानाख्या-विद्यया दुःखादिकं प्रातिभासिकं इति विवेकः । यद्वा येन केनचिदिति कल्पकाभावोक्तिः । तथा हि कल्पकं न चिन्मात्रम् । तस्य कल्पनोपयुक्त-देहेन्द्रियाद्यभावात् । न जीवः स्वयं कल्पितत्वात् ।।

विनिवृत्तिशब्दस्य बाधः इत्यर्थं साधयति असौ उपसर्गः । ‘वि’ इत्येवं-रूपः । प्राचीनः नीत्युपसर्गः । अभाववाक् । अभावं वक्तीति, अभाववाची । विशब्दः विशेषवाची । विशेषश्च कालत्रयवृत्तित्वम् । तथा च विनिवृत्तिः अत्यन्ताभावः ।। ३६–३८ ।।

युक्तिमल्लिका

यत्प्राचीनोपसर्गोऽत्र नञर्थोऽभाववाक्ततः ।

विशेषेण निवृत्तिर्या सोऽत्यन्ताभाव एव हि ।। ३८ ।।

सुरोत्तमटीका

 कथमित्यत आह ।। यदिति ।। यत् यस्मात् । प्राचीनोपसर्गः नीत्युपसर्गः । निवृत्तिरभावः । सः विशेषेणाभावः । अत एव उत्तरभावरूपविनाशवाचकनिवृत्तिपदे पूर्वश्रुतौ अस्योपसर्गस्याभावः ।। ३८ ।।

युक्तिमल्लिका

न च बाधोऽस्य नित्यस्य तेनासौ कल्पितोऽपि न ।

इति सा भेदसत्यत्वद्रोहिणां प्राहिणोद्भयम् ।। ३९ ।।

सुरोत्तमटीका

 सहेतुकं विपर्यये पर्यवसानमाह ।। न चेति ।। नित्यस्य कालत्रयेऽपि विद्यमानस्य । बाधः कालत्रयेऽभावः ।। ३९ ।।

सत्यप्रमोदटीका

 नित्यस्य पूर्वश्लोके साधितरीत्या अनादिनित्यस्य । एवं मायामात्रं इत्युक्तेः ईश्वरस्वरूपप्रज्ञप्तिरूपमायाविषयत्वात् । ईश्वरेण सर्वदा वर्तमानतयाऽनुभूयमानत्वात् इति यावत् । ‘यदि ईश्वरेणानुभूयमानोऽपि बाध्येत तर्हि ईश्वरस्य भ्रान्तत्वं प्रसज्येत । बाध्यशुक्तिकारजतद्रष्टृवत् । न चेश्वरस्य भ्रान्तत्वं युज्यते’ इति वादावल्युक्तमत्रानुसन्धेयम् ।। ३९ ।।

युक्तिमल्लिका

अथवा भेदतत्वेऽस्मिन् भिन्नाभिन्नादिरूपकः ।

विकल्पो यदि केनापि कल्पितः स्यात्कुबुद्धिना ।। ४० ।।

सुरोत्तमटीका

 भेदे खण्डनकृतोक्तभिन्नाभिन्नादिविकल्पदूषणमैक्येऽपि प्राञ्चःप्रासञ्जयन् । तं च श्रौतं कर्तुं श्रुतेरर्थान्तरमाह ।। अथवेति ।। ४० ।।

सत्यप्रमोदटीका

 ‘किं चैवं ब्रह्मण्यपि प्रपञ्चाद्भिन्नं अभिन्नं वेत्यादि विकल्पदोषाः समा एव’ इति तत्त्वोद्योतोक्तं श्रुत्यारूढं दर्शयति अथवेति

।। ४० ।।

युक्तिमल्लिका

औते तस्य दुस्तत्वे विनिवर्तेत तर्हि सः ।

विनिवृत्तिं यतः प्राहुः परावृत्त्यागतिं बुधाः ।। ४१ ।।

इति वाऽर्थमभिप्रेत्य दुस्तर्कं धिक्चकार सा ।

अतः खण्डनकारस्य खण्डयामास खण्डनम् ।। ४१ ।।

सुरोत्तमटीका

 तस्य मायिनः । सः विकल्पः । विनिवर्तेत परावृत्या गच्छेत् । परस्यापादितो विकल्पस्स्वपक्षेऽप्यापतेदिति यावत् । वृत्तिर्वर्तनजीवन इत्यनुशासनाज्जीवनस्य वृत्तित्वे निवृत्तिरभावः । वर्तनस्य वृत्तित्वे निवृत्तिः परावृत्तिरित्याह ।। विनिवृत्तिमिति ।। निर्विशेषब्रह्मवादिना परेणास्मद्व-त्परिहर्तुमशक्यत्वेनापरिहार्येयं निवृत्तिःपरस्येति सूचयितुं श्रुतिरुपसर्गेण तां विशिनष्टि । तेन नेदं प्रतिबन्दीमात्रग्रहणम् । किन्तु परस्य गलग्रहणमेवेति श्रुतिरेव विस्मरणशीला नास्मानपि बोधयतीति भावः ।। ४१,४२ ।।

सत्यप्रमोदटीका

 औते निर्विशेषे ब्रह्मणि ।। ४१,४२ ।।

युक्तिमल्लिका

बोधोऽयं तर्हि सर्वस्य कुतो नासीदितीरिते ।

तत्र हेतुमुपादातुं पुनः प्रावर्तत श्रुतिः ।। ४३ ।।

सुरोत्तमटीका

 ‘‘उपदेशादयं वाद’’ इत्युत्तरार्धसङ्गतिमाह ।। बोधोऽयमिति ।। अयं भेदनित्यत्व सत्यत्वविषयः ।। ४३ ।।

सत्यप्रमोदटीका

 ‘‘तदेतदुपदेशात् श्रुत्याद्यनुसारित्वात् । अयमेव सतां वादः । यो भेदसत्यत्वादिविषयः । द्वैतं न विद्यते इति तु तत्त्वेऽज्ञाते सति भवति । अतो दुर्वाद इति’’ इति सुधोक्तिमनुरुध्याह बोध इति । अयं श्लोक-द्वयेन निर्णीतः । हेतुं ‘तमसा मुष्टदृष्टयः’ इत्यनुव्याख्यानोक्तम् ।। ४३ ।।

युक्तिमल्लिका

गुरुपदेशाज्ज्ञातेऽर्थे सोऽयं वादस्सतां हृदि ।

स्थिरीभवति तच्चित्ते नाद्वैतं विद्यते किल ।। ४४ ।।

सुरोत्तमटीका

 श्रौतपदानि योजयति ।। गुर्विति ।। सतां हृदि स्थिरीभवतीत्येतदन्तेन ‘‘उपदेशादयं वादो ज्ञात’’ इति वाक्ययोजना कृतेति ज्ञातव्यम् । गुरोरिति अर्थ इति चोपदेशज्ञातपदयोरपेक्षितशेषपूरणम् । तच्चित्ते गुरूपदिष्टज्ञानेन दृढभेदज्ञानवतस्तस्य विदुषश्चित्ते । नाद्वैतं विद्यत इति औतं न विद्यत इत्यस्यापेक्षितशेषपूरणपूर्वकमर्थकथनम् ।। ४४ ।।

सत्यप्रमोदटीका

 गुरुः भेदज्ञानी सम्यग्लक्षणसंपन्नः । ‘‘प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ’’ इति श्रुतेः । उपदेशः सुप्रसन्नेन कृतः । स्थिरीभवति सफलं भवति । ‘सम्यग्लक्षणसंपन्नो यद्दद्यात्सुप्रसन्नधीः । शिष्याय सत्यं भवति तत्सर्वं नात्र संशयः ’ इत्युक्तेः । ज्ञाते गुरूपदेशानुसारेण तत्त्वे ज्ञाते सति । औतं इति पदच्छेदमाश्रित्याह औतं इति ।। ४४ ।।

युक्तिमल्लिका

गुरूपदेशात्तत्वार्थे त्वज्ञाते स्वस्वबुद्धिभिः ।

यस्मिन्कस्मिंश्चिदर्थे च ज्ञाते सति दुरात्मनाम् ।। ४५ ।।

तेषां हृदि तमो दातुं सोऽयं वादस्तु तिष्ठति ।

यः पूर्वखण्डने प्रोक्तो न द्वैतं विद्यते किल ।। ४६ ।।

सुरोत्तमटीका

 अज्ञात इति द्वैतमिति च पदच्छेदेऽप्यर्थमाह ।। गुरूप-देशादिति ।। अत्राप्यर्थयोग्यं शेषपूरणं स्वस्वबुद्धिभिरित्यादि । अनेन ज्ञात इत्यपि पदच्छेदमभिप्रैति । तत्वार्थेऽज्ञाते स्वोत्प्रेक्षया यस्मिन्कस्मिंश्चि-द्विपरीतार्थे च ज्ञाते सतीत्यर्थः । सोऽयं वादः भेदो भिन्नो वाऽभिन्नो वेत्यादि विकल्पदूषणरूपवादः । न द्वैतं विद्यते किलेति द्वैतं न विद्यत इत्यस्यार्थ-कथनम् । गुरुमुल्लङ्घ्य स्वोत्प्रेक्षयाऽऽपातार्थ एव कृतमतीनामद्वैते रुचिर्जायते । द्वैतेऽरुचिश्च । गुरुणा स्वाभिप्राये विविच्य बोधिते सति पूर्वोत्तराविरुद्ध-योग्यवाक्यार्थज्ञाने सति द्वैत एव रुचिर्जायते नत्वद्वैते । एवं चोद्धतानुद्धतभेदेन विदुषां द्वैविध्यात्सर्वेषामेकप्रकारो बोधो न जायत इति श्रुतेर्हृदयम् ।।४५,४६।।

सत्यप्रमोदटीका

 अज्ञाते द्वैतं न विद्यते इति पदच्छेदमाश्रित्य श्रुतिं ‘‘द्वैतं न विद्यते इति तस्मादज्ञानिनां मतम्’’ इति समाख्यावाक्यानु-सारेणार्थान्तरपरतया योजयति गुर्विति ‘पुंसां हि मतयो गुणभेदतः । पृथक् प्रजायन्ते तमसैवान्यथामतिः’ इत्यनुव्याख्यानानुसारेणाह दुरात्मनामिति ।। ४५,४६ ।।

युक्तिमल्लिका

इत्यर्थद्वयमप्युत्तरार्धेऽसौ वाग्जगौ किल ।

भेदसौरभसर्वस्वं नित्यं सत्यमतोऽभवत् ।। ४७ ।।

सुरोत्तमटीका

 एतच्छ्रुतिव्याख्यानं सौरभद्वयसङ्गतत्वादादौ कृतमिति सूचयन्विश्वसौरभसर्वस्वमारभते ।। भेदतः युक्तितः ।। ४७ ।।

सत्यप्रमोदटीका

 अथ द्वयं सात्विकानां भेदज्ञानं, तामसानां अभेदज्ञानं इत्येवंरूपम् । नित्यमिति । निवर्तेत्यस्य इष्टापादनत्वपरिहारः तत्त्वनिर्णय-टीकातद्भावबोधादितोऽवसेयः । तथा हि । ‘यदि जडजीवभेदो नश्येत् तदा जीवस्य जडत्वापत्त्या मोक्षशास्त्रवैयर्थ्यम् । यदि जडेश्वरभेदो नश्येत्तदा ईश्वरस्य जडत्वापत्त्या सत्यं ज्ञानमित्यादिशास्त्रस्य विरुद्धार्थत्वापत्तिः । यदि जीवानां परस्परं भेदो नश्येत् तर्हि परस्परमैक्यापत्त्या परस्परगतसुखदुःखाद्यनु-सन्धानापत्तिः । यदि जीवेश्वरभेदो नश्येत् तदेश्वरस्य वा दुःखाद्यनुभवः, जीवस्य वा सार्वज्ञाद्यनुभवः स्यादिति यथायथं श्रुत्यनुभवरूपप्रमाणविरुद्धार्थ-स्वीकारापत्तिरूपानिष्टापत्तिः’

।। ४७ ।।

युक्तिमल्लिका

धर्मस्य धर्मिमूलत्वाज्जीवनित्यजडात्मकम् ।

विश्वसौरभसर्वस्वमपि तादृगभूद्बलात् ।। ४८ ।।

एवञ्च प्रकृतेर्नित्यसत्यभावे समर्थिते ।

तदुपादानकं सर्वं सत्यमासीदिदं जगत् ।। ४९ ।।

सुरोत्तमटीका

 तादृक् नित्यं सत्यं च । विश्वसौरभान्तर्गतं जीवाख्यं नित्यजडात्मकं च वस्तुद्वयमेतच्छ्रुतिबलादेव नित्यं सत्यं चासीदिति भावः ।। ४८,४९ ।।

सत्यप्रमोदटीका

 धर्मस्य भेदस्य । धर्मिमूलत्वात् धर्मिस्वरूपत्वात् । जीवेति जीवाश्च नित्यजडाश्च तदात्मकम् । विश्वसौरभसर्वस्वं ईशावास्यत्वात् सुरभि सर्वं विश्वम् । तादृग् सत्यं नित्यं च ।। सर्वं जडरूपं प्राकृतम् । सत्यं आसीत् । उपादानं सत्यं,उपादेयं मिथ्या इत्यस्य व्याहतत्वात् इति भावः ।। ४८,४९ ।।

युक्तिमल्लिका

अतः श्रुतिरियं रम्या देहलीदीपवद्बभौ ।

यतस्स्थानद्वयस्यार्थमुदमीमिलदुच्चकैः ।। ५० ।।

सुरोत्तमटीका

 उदमीमिलत् उन्मीलयामास ।। ५० ।।

सत्यप्रमोदटीका

 उदमीमिलत् प्रकाशयामास । अन्तरङ्गसाधनपरं आवृत्त्यधिकरणं फलनिरूपणौपयिकं चेति यथा फलाध्यायोपक्रमे निवेशितं तथाऽस्या अपि श्रुतेः उभयसौरभोपकारिण्या अत्र चर्चा श्लिष्टेति भावः ।। ५० ।।

युक्तिमल्लिका

श्रीमध्वमुनिचन्द्रस्य ज्योत्स्ना कृत्स्ना जगत्त्रये ।

मद्हृद्व्योम््नयस्य सद्धामि्न व्याप्तेयमपि चन्द्रिका ।। ५१ ।।

सुरोत्तमटीका

 एतच्छ्रुतिव्याख्यानकौशलं श्रीमदाचार्यकृपयैव प्राप्तमिति मन्वानस्तं स्तौति ।। श्रीमध्वेति ।। ज्योत्स्ना वाग्वैखर्याख्यज्योत्स्ना । कृत्स्ना संपूर्णा यथा चन्द्रज्योत्स्ना त्रैलोक्यव्यापिन्यपि चन्द्रस्यैव नान्यस्य तथा मध्वमुनेर्वाग्वैखरी त्रिलोकीस्तानां सर्वेषां साधूनां स्वशिष्यत्वात् स्वमुखतो व्याख्यानेन वा तत्तद्धृदिस्थित्वा बोधोद्बोधनेन वा त्रैलोक्यव्यापिन्यपि तस्यै-वेत्यर्थः । अस्य सद्धामि्न मद्धृद्व्योमि्न च व्याप्तेयं चन्द्रिका श्रीमध्वमुनि-चन्द्रस्यैवेति योजना । ममापि तद्भक्तेष्वेकत्वात् स एव बोधोद्बोधक इति भावः ।। ५१ ।।

सत्यप्रमोदटीका

 स्वहृदये श्रीमध्वमुनिचन्द्रचन्द्रिकायाः कृपापूर्वं सन्निहितत्वादेवेदं व्याख्यानकौशलं प्राप्तमिति तन्महिमानं संस्मरति श्रीमध्व-मुनीति । जगत्त्रये इत्युपलक्षणम् । ‘अपि त्रिलोक्या बहिरुल्लसन्ती’ इत्युक्तेः ।। ५१ ।।

युक्तिमल्लिका

दयाशीलेन कालेन पालेनातिबलीयसा ।

मह्यै द्रुह्यन्मदान्मुह्यंस्तस्करः प्रतिचस्करे ।। ५२ ।।

सुरोत्तमटीका

 वराहावतारकथया विश्वसत्यत्वमनुभावयति ।। दया-शीलेनेति ।। तस्करः हिरण्याक्षः । प्रतिचस्करे निहतोऽभूत् ।। ५२ ।।

सत्यप्रमोदटीका

 समुद्रे निमज्जनेन भूलोकस्य तिरोभावं प्रापितवन्तं हिरण्याक्षं वराहो भूत्वा सञ्जहार । स हरिर्ब्रह्मातिरिक्तस्य सर्वस्यात्यन्ताभावं समीहमानानां मायिनां दौर्जन्यं कथं न भर्जयेदित्याह दयाशीलेनेति । प्रतिचस्करे संहृतः ।। ५२ ।।

युक्तिमल्लिका

तिरो(धान)भावकृतो हन्ता सोऽत्यन्ताभावकारिणम् ।

रक्षोरुक्षेभहर्यक्षो न रक्षेदिति मे मतिः ।। ५३ ।।

सुरोत्तमटीका

 तिरोभावकृतः विद्यमानाया एव भूमेर्जलान्तर्नीत्वाऽ-दर्शनमात्रं संपादितवतः । सः वराहः ।। ५३ ।।

सत्यप्रमोदटीका

 हन्ता तमःप्रापयिता । अत्यन्ताभावकारिणं मिथ्यात्ववर्णनेन विश्वस्वरूपापलापिनम् । न रक्षेत् तमसि क्षिपेदेवेति भावः । तेन ‘स व्यासरूपो भगवान् क्षमाब्धिः’ इत्युक्तिः प्रौढिवाद एवेति भावः । (भेदप.ब्र.सू.प.) ।। ५३ ।।