टीकानुसारतो ह्यर्थो मूलस्योन्नीयते बुधैः
'त्रयाणामेकभावानां'इतिभा.श्लोकार्थः
युक्तिमल्लिका
टीकानुसारतो ह्यर्थो मूलस्योन्नीयते बुधैः ।
मूलकर्तृकृता टीका धार्यैव शिरसाखिलैः ।। २८६ ।।
सुरोत्तमटीका
एतत्कुत्रदृष्टमित्यत आह ।। टीकेति ।। प्रकृतेतु कैमुत्यमाह ।। मूलेति ।। मूलस्येतिहासपुराणस्यकर्त्रा व्यासेनकृता मूलकर्तृकृता टीका सूत्ररूपा । येनैव मूलं कृतं तेनैव तट्टीकापि कृताचेत्तदनुसारेण तन्मूलं योजनीयमिति किं वक्तव्यमिति भावः।। २८६ ।।
युक्तिमल्लिका
भेदशब्दो हि विद्वद्भिर्मिथो भेदे प्रयुज्यते ।
क्रमे विरोधे धीभेदे नाशेऽन्योन्यविमिश्रणे ।
असंयुक्ततयान्योन्यस्थितिश्चापि भिदोच्यते ।। २८७ ।।
सुरोत्तमटीका
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् । सर्वभूतात्मनां ब्रह्मन्सशान्तिमधिगच्छतीति भागवतश्लोके भिदाशब्दस्य योग्यार्थं वक्तुं भिदाशब्दार्थं विवेचयति ।। भेदशब्द इति ।। मिथोभेदे अन्योन्याभावे । अन्यत्स्पष्टम् ।। २८७ ।।
सत्यप्रमोदटीका
यथासन्दर्भं तादृशगतिप्रदर्शनोपयुक्ततया भेदशब्दस्य अनेकार्थान् प्रसिद्धप्रयोगैरभिनीय दर्शयति भेदेति । मिथो भेदः अन्योन्याभावः यथा ‘जीवेशयोर्भिदा चैव जीवभेदः परस्परं’ इत्यत्र प्रसिद्धः । विरोधे प्रयोगः भागवते ‘कथमेकात्मनां भेदः’ इति । एकमतीनां यदूनां कथं विरोध इति तदर्थः । एवं मित्रभेद इति पञ्चतन्त्रे । असंयुक्ततया अन्योन्यं स्थितिः स्थान-भेदः
।। २८७ ।।
युक्तिमल्लिका
भिन्ना सेना मित्रभेदः क्षीरनीरविभेदनम् ।
भिन्ननीरत्ववाङ्माघे भिदुराम्भस्त्ववागपि ।। २८८ ।।
विमिश्रतामाह यस्मात्तस्माद्भेदो विमिश्रणम् ।
द्वैधं च भेदोपायश्च पृथग्धीः केत्युदीरितम् ।। २८९ ।।
सुरोत्तमटीका
उक्तार्थे उदाहरणानिदर्शयति ।। भिन्ना सेनेति ।। घटपटौभिन्नाविति अन्योन्याभावस्योदाहरणं प्रसिद्धत्वान्नोक्तम् । भिन्ना सेनेति स्थानभेदस्योदाहरणम् । तेन स्थानभेदोपि भेदशब्दार्थ इति ग्राह्यम् । मित्रभेद इति विरोधस्योदाहरणम् । भिनत्यन्योन्यसौहार्दमिति भेदोविरोध इति भावः । क्षीरनीरविभेदनमिति मिश्रणस्योदाहरणम् । मिश्रणार्थे माघकाव्यस्थितो दाहरण द्वयमाह ।। भिन्ननीरत्वेति ।। अनेन एकत्रस्फटिकतटांशुभिन्न नीरानीलाश्मद्युतिभिदुरांभसोपरत्रेतिश्लोकं सूचयति । द्वैधं च भेदोपायश्चेति बुद्धिभेदस्योदाहरणम् । पृथग्धीरितिभ्रमस्योदाहरणम् ।। २८८,२८९ ।।
सत्यप्रमोदटीका
तस्य निदर्शनं भिन्ना सेनेति । विमिश्रतायां प्रयोगे निदर्शनानि क्षीरनीरविभेदनं भिन्नांभस्त्वं भिन्ननीरत्वं इति त्रीणि । ‘द्वैधे बहूनां वचनं’ इत्यादिको बुद्धिभेदे प्रयोगः । ‘पृथग्धीः’ इति भ्रमे ।। २८८,२८९ ।।
युक्तिमल्लिका
छिन्नभिन्नमिति प्राहुर्नष्टं घटपटादिकम् ।
भ्रमो भिदा भिनत्त्यर्थानन्यथीकृरुते यतः ।। २९० ।।
सुरोत्तमटीका
छिन्नभिन्नमिति नाशस्योदाहरणम् । भेदशब्दस्य भ्रमवाचित्वे योगंचाह ।। भ्रम इति ।। अर्थान्भिनत्तीत्यस्यार्थकथनमन्यथीकुरुत इति । शुक्तिं रजतीकरोतीत्यर्थः । भ्रमःयतोर्थान्भिनत्ति तस्माद्भिदेति योजना । पूर्वार्थाद्भिन्नार्थतासंपादकत्वेन भ्रमोपि भिदेति भावः ।। २९० ।।
सत्यप्रमोदटीका
तस्यैव पदस्य निरुक्तिदर्शनं भ्रमो भिदेत्यादिकम् । पृथक् अर्थमतिक्रम्य विद्यमाना धीरित्यर्थः । नाशार्थे भिन्नं घटादिकमिति
।। २९० ।।
युक्तिमल्लिका
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।
इति तस्योक्तिरव्यक्ता तद्व्यक्तोक्तीर्विचारय ।। २९१ ।।
सुरोत्तमटीका
यदर्थं भेदशब्दार्थ उक्तःतदिदानीं वक्तुमारभते ।। त्रयाणामिति ।। तस्यव्यासस्य । अव्यक्ता भेदशब्दस्य नानार्थकत्वात् अर्थ-विशेषव्यक्तिरहिता । तद्व्यक्तोक्तीः तस्य व्यासस्य व्यक्तोक्तीः । तथा च व्यक्तानुसारेणाव्यक्तस्यार्थो नेय इति भावः
।। २९१ ।।
सत्यप्रमोदटीका
यदर्थं भेदशब्दोऽभेदकार्येषु व्युत्पादितः तदिदानीं भागवते चतुर्थस्कन्धे अष्टमाध्याये ब्रह्मविष्णुशिवेषु भेदनिषेधकत्वेन प्रतीयमानश्लोके गतिप्रदर्शनेन निदर्शयति ।। त्रयाणामिति ।। तदध्वरे प्रादुर्भूतस्य हरेर्दक्षं प्रति वचनमिदम् । ‘सर्वभूतात्मनां ब्रह्मन् स शान्तिमधि-गच्छति’ इत्युत्तरार्धः । अयं खलु श्लोकः पौर्वापर्यपर्यालोचनायां ब्रह्मस्थस्य रुद्रस्थस्य हरेश्चेति त्रयाणां विष्णुरूपाणां स्वगतभेदराहित्यं फलरूपतात्पर्य-निर्णायकलिङ्गेन संस्थापयति । ब्रह्मशब्दशिवशब्दयोर्हरौ समन्वयं स्वात-न्त्र्योक्त्या विशदयति । अत्र भिदाशब्दः अन्तर्यामिरूपविवक्षायां स्वरूप-भेदपरः । अन्यथा विरोधादिपूर्वोक्तार्थान्तरपरः इति स्थितिः । औतिनस्तु चतुर्मुखस्य रुद्रस्य विष्णोश्चेति त्रयाणां देवानां भेदनिषेधपूर्वकं ऐक्यं कथयतीति व्याकुर्वते । तेषां व्याख्यानस्य पूर्वोत्तरविरुद्धतया अयुक्ततां प्रदर्शयितुं उपक्रमते इतीत्यादिना । तस्य व्यासस्य ।। २९१ ।।
युक्तिमल्लिका
वितर्कस्समभूत्तेषां त्रिष्वधीशेषु को महान् ।। २९२ ।।
सुरोत्तमटीका
वितर्क इत्युत्तरार्धस्य सरस्वत्यास्तटेराजन्नृषयस्सत्र-मासतेति पूर्वार्धम् । तेषामृषीणां त्रिष्वधीशेषु ब्रह्मविष्णुमहेश्वरेषु को महानिति वितर्को विचारस्समभूदिति योजना । अत्रत्रिष्वधीशेष्वित्युक्तत्वात्सकल-चेतनेभ्यो विभेदसिद्धिः । तेन सर्वैक्यं नेति सूचितम् । त्रिष्वधीशेषु को महानित्युक्तया त्रयाणामैक्यं साम्यञ्च न किन्तु त्रयाणां मध्ये एको महानिति लब्धम् । इदं च ऋषीणां प्रश्नवचनं त्रयाणां सुव्यक्तमन्योन्याभावरूपभेद-वचनम् । तेषां सिद्धान्तरूपमुत्तरपद्यञ्च विष्णोस्सर्वोत्तमत्वसमर्थनात् स्पष्ट-मन्योन्याभावरूपभेदवचनम् । अतस्त्रयाणामिति चतुर्थस्कन्धपद्यमन्योन्याभाव-रूपभेदमेव न पश्यतीति न व्याख्यातुमुचितम् । परस्परविरोधेन वाक्ययोर-प्रामाण्यप्रसङ्गात् । अतस्स्पष्टवचनोक्तमन्योन्याभावरूपभेदं विहाय त्रयाणां विरोधादिरूपं भेदं न पश्यतीत्येव व्याख्येयमिति भावः ।। २९२ ।।
सत्यप्रमोदटीका
तत्र तावत् भागवत एव विष्णोरेव ब्रह्मरुद्रापेक्षया श्रेष्ठत्वप्रतिपादकान् निरवकाशकथासन्दर्भान् दर्शयति वितर्क इत्यादिना ।। तेषां सरस्वत्यास्तटे सत्रमास्थितानामृषीणाम् ।। २९२ ।।
युक्तिमल्लिका
तच्छूत्वा मुनयस्सर्वे विस्मिता मुक्तसंशयाः ।
भूयांसं श्रद्दधुर्विष्णुं यतश्शान्तिर्यतो भयम् ।। २९३ ।।
सत्यप्रमोदटीका
तत् भृगुणा परीक्षापूर्वकम् कृतस्य विष्णोः सर्वोत्त-मत्व निर्णयस्य वचनम् ।। २९३ ।।
युक्तिमल्लिका
शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः ।
सद्यः शापप्रसादोङ्ग शिवो ब्रह्मा न चाच्युतः ।। २९४ ।।
सत्यप्रमोदटीका
शापेति अत्र त्रयाणां स्वभावभेदकथनेन स्वरूप-भेदोक्तिः ।। २९४ ।।
सुरोत्तमटीका
शापप्रसादयोरीशा इति श्लोके च शिवस्सद्यश्शाप-प्रसाददः ब्रह्मा च तथा । अच्युतो न चेति अच्युतस्य ताभ्यां वैलक्षण्यकथना-त्स्पष्टमन्योन्याभावःप्रतीयते ।। २९४ ।।
युक्तिमल्लिका
मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम् ।
यद्बाधसे गुहाध्वान्तं प्रदीपप्रभया यथा ।। २९५ ।।
सुरोत्तमटीका
मन्ये त्वामिति मुचुकुन्द वाक्ये च त्रयाणां देवानां मध्ये त्वां पुरुषर्षभं पुरुषोत्तमं मन्य इत्युक्तया ब्रह्मशिवाभ्यां कृष्णस्य स्पष्टमन्योन्या-भावःप्रतिपाद्यते । यद्यस्माद्गुहाध्वान्तं हृदयं गुहास्थितमज्ञानम् ।। २९५ ।।
सत्यप्रमोदटीका
मन्ये त्वामिति (भा.द.उ.अ.) मुचकुन्दस्य कृष्णं प्रति वचनम् । त्रयाणामिति निर्धारणे षष्ठी ।। २९५ ।।
युक्तिमल्लिका
देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् ।
प्रायस्ते धनिनो ब्रह्मन्न तु लक्ष्मीपतिं हरिम् ।। २९६ ।।
सुरोत्तमटीका
देवासुरमनुष्येष्विति भागवतश्लोकेपि स्पष्टं शिवा-त्कृष्णस्य वैलक्षण्यप्रतिपादनात् अन्योन्याभावसिद्धिः ।। २९६ ।।
सत्यप्रमोदटीका
देवासुरेति श्लोकः (भा.द.उ.९४ अ.श्लो.१) गुणसौरभे विवृतः ।। २९६ ।।
युक्तिमल्लिका
अत्रापि भृगुरुद्रोक्तिरत्युच्चं हरिमाह हि ।
पूर्वाव्यवहितोक्त्या च सर्वेशो विष्णुरीर्यते ।। २९७ ।।
सुरोत्तमटीका
बहिरङ्गचतुर्विधवचनमुक्तवांऽतरङ्गवचन पञ्चकविरोध-मप्याह ।। अत्रेति ।। अत्रास्मिन्नध्याये ।
यन्माययागहनयोपहतात्म
बोधाब्रह्मादयस्तनुभृतस्तमसिस्वपन्तः ।
नात्माश्रितं तवविदंत्यधुनापितत्त्वं सोयं
प्रसीदतुभवान्प्रणतात्मबन्धुरिति भृगूक्तिः ।
यस्य परमात्मनः मायया इच्छया तदधीनप्रकृत्या वा उपहतात्मबोधाः उपहतः स्वयोग्यतातिरेकेण द्रष्टुंप्रतिबद्धःआत्मबोधःपरमात्मबोधः । आत्मा-श्रितं तव तत्वं यथास्थितगुणादिभरितस्वरूपं अधुनापि न विदन्ति । प्रणतात्म- बन्धुः प्रणतानामात्मनां जीवानां बन्धुस्सोयं भगवान्प्रसीदत्विति योजना ।
तववरदवरांघ्रावाशिषाचानभिध्येह्यपि
मुनिभिरसक्तैरादरेणार्हणीये ।
यदिरचित धियं मां विद्धिलोकापविद्धं
जगति न गणयेयंत्वत्परानुग्रहेणेतिरुद्रोक्तिः ।
आशिषा फलाशया अनभिध्ये अभिध्यातुमयोग्ये असक्तैरपि मुनिभिः । तव वरदवरांघ्रौ लोकापविद्धं लोकस्नेहरहितं रचितधियं स्थापितबुद्धिं मां त्वं जानीयाः । तर्हि त्वत्परानुग्रहेण त्वत्परमानुग्रहेण । न गणयेयम् । अन्यत्सर्व-मुपेक्षयामीतिभावः । एवञ्चप्रथमपद्ये भृगुणा ब्रह्मादीनां भगवतस्सकाशान्माया-प्रतिबद्धतयास्वहृद्योधेयस्य भगवतः आधारतयासकल भगवत्तत्वाज्ञातृतया-चात्यन्तभेदस्यैव प्रतिपादितत्वात् । द्वितीयश्लोके च रुद्रेणैव स्वस्य भगव-च्चरणध्यातृतया भगवतः परमानुग्रहपात्रतया चात्यन्तभेदस्यैव प्रतिपादनात्कथं पुनरस्मिन्नेवाध्याये त्रयाणामिति पद्ये तदभेदोपि प्रतिपादनीयः । अतो निरवकाशैतत्पद्यबलाद्विरोधरूपभेदार्थकतया सावकाशस्य यो न पश्यति वै भिदामित्यस्यैवार्थांतरं वक्तव्यमिति भावः । निमित्तान्तरं चाह । पूर्वेति ।। पूर्वा भृगुरुद्रोक्तितोपिपूर्वा । अव्यवहिता अव्यवधाना पुरुषान्तरव्यवधानरहिता । उक्तिः त्रयाणामिति श्लोकवक्तुर्मैत्रेयस्यैवोक्तिः । तया ।
तमुपागतमालक्ष्यसर्वेसुरगणादयः ।
प्रणेमुस्सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ।
तत्तेजसाहतरुचस्सन्नजिह्वास्ससाध्वसाः ।
मूर्ध्नर्युद्धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ।
अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।
यथामतिगृणन्तिस्मकृतानुग्रहविग्रहम् ।
इति भगवदागमन प्रस्तावकालीन पद्यत्रयेणेत्यर्थः । त्र्यक्षोमहादेवः । अर्वागधस्तात् । तन्महिम्नामेकदेशे । तन्महिम्नामेकदेशपरिमितमहिमि्नवेति-यावत् । आद्येऽर्थे वृत्तिरन्तःकरणम् । द्वितीयेऽर्थे वर्तनं वा येषान्ते तथोक्ताः । स्वभूस्स्वयम्भूः । कृतानुग्रहविग्रहं कृतः अनुग्रहः कृपावलोकनमन्दस्मित प्रिय-वचनादिः येनसः कृतानुग्रहः सः विग्रहो यस्य । कृतौ देवासुरयोरनुग्रहविग्रहौ अनुग्रहकलहौ येनस इति वा । देवेष्वनुग्रहायदैत्यानांवधाय च यदास्वमूर्तिं दर्शयति तदा तमभ्युत्थानादिना गृह्णन्ति । अन्यदाऽदृश्यमूर्तित्वात् मनस्येव ध्यायन्तस्स्वस्व व्यापारेषु वर्तन्त इत्यर्थः । अत्र विष्णुर्ब्रह्मरुद्रादिभ्यस्सर्वेभ्य ईश इति स्पष्टमीर्यते ।। २९७ ।।
सत्यप्रमोदटीका
अत्रापि अस्मिन्नेवाध्याये । भृगो रुद्रस्य च प्रत्येकं विष्णोः स्तुतिरूपा उक्तिः । तत्र भृगोः स्तुतिः– ‘‘यन्मायया गहनयोप-हतात्मबोधा ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः । नात्माश्रितं तव विद-न्त्यधुनापि तत्त्वं सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः ।।’’ इति । अनेन ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमं तमाप’ इति श्रुत्युक्तं विष्णोः सर्वोत्तमत्वं वर्णितम् । एवं रुद्रस्य स्तुतिः– ‘‘तव वरद वराङ्घ्रा वाशिषा चानभिध्ये ह्यपि मुनिभिरसक्तैरादरेणार्हणीये । यदि रचितधियं मां विद्धि लोकापविद्धं जगति न गणयेयं त्वत्परानुग्रहेण’’ इति । अनेन विष्णोरनु-ग्रहमात्रेण रुद्रस्य कृतार्थत्वं गम्यते ।। अनयोः स्तुत्योः पूर्वया अव्यवहितया
उक्त्या, ‘तमुपागतमालक्ष्य सर्वे सुरगणादयः’ इत्यादिकया (भा.च.अ.७ श्लो. २२-२४) । व्याख्याता इमे श्लोकाः गुणसौरभे (६९७-६९९) ।। २९७ ।।
युक्तिमल्लिका
हेतुगर्भैकभावानामिति तन्मध्यगैव वाक् ।
अतोऽपि बुद्धिभेदस्य निषेध इति सिध्यति ।। २९८ ।।
सुरोत्तमटीका
युक्तयन्तरं चाह ।। हेतुगर्भेति ।। तन्मध्यगैव त्रयाणा-मितिश्लोकमध्यगैव । एकभावानामिति हेतुगर्भावागस्ति । एकबुद्धित्वं हि बुद्धिभेदाभाव एवहेतुः । नतुस्वरूपभेदाभावे । एकबुद्धीनामपि ज्येष्ठकनिष्ठानां स्वरूपभेददर्शनात् । अतोप्येकभावानामिति विशेषणदानादपि बुद्धिभेदस्यैव निषेध इति सिद्ध्यति ।। २९८ ।।
सत्यप्रमोदटीका
एकभावानां एकविषयकमतिमताम् । अनेन विशेषणेन, उत्तरत्र निषिध्यमानो भेदः मतिभेद एवेति सिध्यतीत्याह हेत्विति
।। २९८ ।।
युक्तिमल्लिका
मुनिभिश्चर्चितं तत्र तत्र गत्वा विनिश्चितम् ।
भयहृत्त्वेन च प्रोक्तं कथं स्याद्व्यावहारिकम् ।। २९९ ।।
सुरोत्तमटीका
ननूक्तस्सर्वोपि भेदःव्यावहारिकोस्त्वित्यत आह ।। मुनिभिरिति ।। मुनिभिस्सर्वज्ञैश्चर्चितं विचारितम् । तत्र तत्र ब्रह्मसभायां रुद्रसभायां विष्णुसभायांच गत्वा विनिश्चितम् । ब्रह्मा न भवति शिवोपि न भवति । किन्तुविष्णुरेवेति निश्चितम् । भयहृत्त्वेन इत्येतन्मुनितनयास्य-पद्मगर्भपीयूषं भवभयहृत्परस्यपुंस इति संसारभयहारित्वेन प्रोक्तमिदं प्रमेयं कथं व्यावहारिकं स्यादिति भावः । किञ्चबहुवाक्यविरोधि एकमेव वाक्यं व्यावहारिकार्थ परं भवतु । बहूनामनुग्रहोन्याय्य इति वचनात् । प्रायोपवेशनं कृत्वा मोक्षमेवापेक्षमाणं परीक्षितं प्रतिव्यावहारिकार्थनिरूपणे कारणाभावा-च्चास्मदुक्तरीत्योभयोरप्यव्यावहारिकार्थ परत्व सम्भवाच्च न क्वाप्यतत्वावेदकत्व-रूपव्यावहारिकार्थत्वकल्पनावकाशः । एतत्सर्वं च शब्देन सूचयति ।।२९९।।
सत्यप्रमोदटीका
चर्चितं=‘वितर्कः समभूत्तेषां’ इत्युक्तेः । विशिष्य प्रत्येकं त्रयाणां परीक्षापूर्वकं निश्चितम् । भयहृत्वेन ‘यतः शान्तिर्यतोऽभयम्’ इति संसारभयं परिहृत्य शान्तिरूपमोक्षहेतुज्ञानविषयत्वेन भृगुणा प्रोक्तम् । व्यावहारिकम् अविद्याकल्पितम् । न ह्याविद्यकज्ञानं अविद्यानिवृत्तिहेतुरिति भावः ।। २९९ ।।
युक्तिमल्लिका
इदं तु दक्षयज्ञघ्नक्रूरकिङ्करशङ्किना ।
मुनिना तत्प्रियायोक्तमिति स्याद्व्यावहारिकम् ।। ३०० ।।
सुरोत्तमटीका
युक्तयन्तरेणापि त्रयाणामिति पद्यस्यैव व्यावहारि-कार्थत्वं युक्तमित्याह ।। इदं त्विति ।। इदं त्रयाणामिति पद्यम् । दक्षयज्ञघ्नस्य शङ्करस्यकिंकरेभ्य श्शङ्किना विष्णोरेव सर्वोत्तमत्वे कथिते मामपि घातयन्तीति शङ्कावता । अविद्यमानार्थकथनेहेतुगर्भं विशेषणमिदम् । तत्प्रियाय तेषां किङ्कराणां प्रियायोक्तम् । नतु वस्तुस्थित्या । इतिहेतोःव्यावहारिकं स्यादिति योजना । यथा क्रूरचोरादिभ्यो भीतस्तत्प्रियार्थमनृतमेव वदति । तथैतत्पद्योक्त-मेवानृतं भवितुमर्हतीति भावः
।। ३०० ।।
सत्यप्रमोदटीका
कथञ्चिदुपचारकल्पना त्रयाणामित्यस्यैव श्लोकस्य सम्भावितेत्याह इदं तु इति । इयं सम्भावनाऽप्यापातत एव । तात्पर्यं तु पूर्वोदाहृतानां विष्णुसर्वोत्तमत्वप्रतिपादकानां श्लोकानां निरुपचरिततया स्वार्थ-परत्व एव । मुनेः रुद्रांशस्य शुकस्य अवधूतशिरोमणेरकुतोभयस्य तात्विक-प्रमेयोक्तौ क्रूरकिङ्कराणां सकाशात् भयशङ्काया अप्रसक्तेरेवेति मन्तव्यम् ।।
युक्तिमल्लिका
विशिष्टैक्यं च तेनास्ति ततोऽन्योर्थस्तवैव हि ।
अमुख्यवृत्तिः किल ते मुख्यार्थे सति सा कथम् ।। ३०१ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। विशिष्टैक्यमिति ।। भिन्नभिन्न-देहोपाधिविशिष्टानां त्रयाणामेषां देवानामैक्यं विशिष्टैक्यं ते मते नास्ति । ततःविशिष्टानां परस्परं भेदस्यैवाङ्गीकारात् । अन्यःअर्थः भेदपदस्यान्योन्या-भावातिरिक्तविरोधाद्यर्थः । ननु यद्यपि विशिष्टयोस्साक्षादैक्यं नास्ति । तथापि जहदजहल्लक्षणया देहान्तःकरणादिविशेषणभागन्त्यक्त्वा केवलं विशेष्य-मात्रस्यैक्यमस्ति । तदपेक्षयभिदां न पश्यतीत्युक्तिरित्यत आह ।। अमुख्येति ।। मुख्यार्थे विरोधरूपमुख्यार्थे सति साऽमुख्यवृत्तिः ।। ३०१ ।।
सत्यप्रमोदटीका
किञ्च औतमतरीत्याऽपि अत्र निषिध्यमानो भेदः न तावद्विशिष्टानाम् । विशिष्टभेदस्याङ्गीकारेण तन्निषेधेऽपसिद्धान्तापातात् । नापि चिन्मात्रस्य लक्षणया । विरोधाद्यनेकमुख्यार्थानां वक्ष्यमाणरीत्या सम्भवेन लक्षणाबीजस्य मुख्यार्थानुपपत्तेरभावात् । चिच्चितोर्भेदस्याप्रसक्ते-स्तन्निषेधायोगात् । ‘मत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्’ इति हर्यनुग्रहफलत्वेनोक्तस्यैव शान्त्याधिगमस्य ‘स शान्तिमधिगच्छति’ इत्येव-मत्रापि फलतयोक्तत्वेन तस्य निर्विशेषचैतन्यज्ञानफलत्वानुपपत्तेः । अधि-गच्छतीत्युक्तप्राप्तेः प्राप्तृप्राप्तव्यरूपभेदस्यैव साधकत्वाच्च । परमते भेदमात्रस्य निषेद्धव्यत्वेन त्रयाणामेव केवलं विशिष्य भेदनिषेधकत्वे शेषभेदविध्यनुज्ञाप-कत्वेन विरोधाच्च । ‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम्’ इति गीतायां भूतानां परस्परं भेदस्य, तदन्त-र्यामिण ईश्वरस्यैव चैक्योक्तेः तद्विरोधाच्च इत्यादिकं दूषणमूह्यम् ।। ३०१ ।।
युक्तिमल्लिका
विभजस्व यथा न्यायं नैव भेदो यथा भवेत् ।। ३०२ ।।
सुरोत्तमटीका
प्राग्भेदशब्दस्य विरोधवाचित्वं वहिरं गोदाहरणेनोक्तम् । इदानीमस्मिन्नेवग्रन्थे तदस्तीत्याह ।। विभजस्वेति ।। अष्टमस्कन्धेऽमृतमथन-प्रस्तावे नारायणीं प्रतिदैत्यानां वचनमिदम् । यथान्यायं सुधांविभजस्वविभागं कृत्त्वादिश । भेदः देवानामस्माकं च विरोधः यथा नैव भवेत् । तथा विभजस्वेति पूर्वेणान्वयः ।। ३०२ ।।
सत्यप्रमोदटीका
भागवत एव विरोधार्थे भेदशब्दप्रयोगं दर्शयति विभज स्वेति । (भा.अ.८ श्लो.५३) दैत्यानां मोहिनीं प्रति वचनम् ।। ३०२ ।।
युक्तिमल्लिका
यन्निमित्तस्स वै शापो यादृशो द्विजसत्तम ।
कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ।। ३०३ ।।
सुरोत्तमटीका
यन्निमित्त इत्येकादशस्कन्धेपरीक्षित्प्रश्नरूपवचनम् । एकात्मनामेकबुद्धीनां यादवानां भेदः अन्योन्ययुद्धहेतुविरोधःकथमासीत् । एतद्वदस्वेतिशुकं प्रति प्रार्थनम् । यद्यस्मात् ।। ३०३ ।।
सत्यप्रमोदटीका
परीक्षितः शुकं प्रति प्रश्नः (भा.एका.अ.१ श्लो.९) यदिति ।। सदा अविरुद्धबुद्धीनां यदूनां कुलसंहारहेतुः अन्योन्यं विरोधः केन निमित्तेनाभूदिति प्रश्नाशयः ।। ३०३ ।।
युक्तिमल्लिका
इत्यस्मिन्नेव यद्ग्रन्थे तत्र तत्र प्रयुज्यते ।
विरोधे भेदशब्दोऽयं सामादौ लौकिकैरपि ।
अतो यं मुख्य एवार्थो मुख्ये सति न लक्षणा ।। ३०४ ।।
सुरोत्तमटीका
इत्यस्मिन्ग्रन्थे अयं भेदशब्दः विरोधे प्रयुज्यते । सामादौ सामदानभेददण्डाख्यनीतिचतुष्टये लौकिकैरपि भेदशब्दो विरोधे प्रयुज्यते । अतोवैदिकलौकिकबहुप्रयोगबलात् । अयं विरोधः अर्थः भेद-शब्दार्थः । उपलक्षणं चैतत् । बहुशो विरोध एव भेदशब्दं प्रयुञ्जानस्य व्यासस्यात्रापि स एवाभिमत इति द्रष्टव्यम् ।। ३०४ ।।
सत्यप्रमोदटीका
सामादौ सामदानभेददण्डरूपनीतिचतुष्टये । अतो रूढ््यनुमापकस्य प्रयोगबाहुल्यरूपलिङ्गस्य सद्भावात् । सा त्वत्कल्पित-चिदैक्यसिध्यर्थं कैरपि प्रमाणविद्भिरनङ्गीकृता जहदजहल्लक्षणा ।। ३०४ ।।
युक्तिमल्लिका
अथवा वागियं तेषामेकार्थविषयाः सदा ।
ये भावास्तद्भिदां नेति बुद्धिभेदं निषेधति ।। ३०५ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि योजनिकामाह ।। अथवेति ।। इयं वाक् त्रयाणामिति वाक् । तेषां ब्रह्मविष्णुशिवानामेकार्थविषयाः ये भावाः मनोवृत्तयः । एकार्थविषयबुद्धय इति यावत् । तेषामिति द्वे अपि व्यधिकरण-षष्ठ्यौ । भिदां न पश्यतीति साक्षाद्बुद्धीनामेव भेदोनिषिध्यते ।। ३०५ ।।
सत्यप्रमोदटीका
तमेव श्लोकं रीत्यन्तरेण योजयति अथवेति । त्रयाणां ब्रह्मविष्णुशिवानाम् । सम्बन्धे षष्ठी । एकभावानां एकविषयकबुद्धीनाम् । भिदां भिन्नविषयकत्कम् ।। ३०५ ।।
युक्तिमल्लिका
तदैव यत्प्रसज्येत निषेधस्तस्य युज्यते ।
शैववैष्णवयोर्वैरं मिषतां तु तयोरपि ।
विरोधशङ्का तत्रैव प्रसक्ता सा निषिध्यते ।। ३०६ ।।
सुरोत्तमटीका
युक्तयन्तरं चाह ।। तदैवेति ।। तदा तत्र यत्प्रसज्येत-तदेवनिषिध्यते । प्रसक्तस्यैवखलुनिषेधोदृष्टः । प्रसक्तिश्चबुद्धिभेदस्यैवा-स्तीत्याह ।। शैववैष्णवयोरिति ।। दक्षाध्वरेशैवानां वैष्णवानां च शाप-ताडनादिना परस्परं वैरं प्रवृत्तम् । तद्वैरं मिषतां पश्यतां जनानां तयोस्त-त्स्वामिनोर्विष्णुशिवयोरपि विरोधशङ्का तत्र दक्षाध्यर एवप्रसक्ता । स्वामिनो-र्विरोधाभावेभृत्याः किमितिकलहं कुर्युः । अतोभृत्यकलहदर्शनात् स्वामिनोरपि कलहशङ्काप्राप्ता । सा कलहशङ्का निषिध्यते । प्रसक्तस्यैव निषेधसम्भवात् ।।
सत्यप्रमोदटीका
निषेधायापेक्षिता अव्यवहितपूर्वप्रसक्तिरपि प्रकृते बुद्धिभेदस्यैव न स्वरूपभेदस्येत्याह तदेति ।। शैवः नन्दीश्वरः । वैष्णवः भृगुः तयोः । वैरम्तदनुमापकं अन्योन्यं शापविसर्जनादिकम् । मिषतां पश्यतां जनानाम् । तयोः शिवस्य विष्णोश्च । विरोधशङ्का भृत्ययोः विरोधेन तत्स्वामिनोरपि विरोधो भवेदिति सम्भावना ।। ३०६ ।।
युक्तिमल्लिका
रूपभेदप्रसक्तिस्तु सदा त्रिस्थानवासिनाम् ।
अतोऽत्रैव न तत्प्राप्तिर्निषेधोऽयं च तस्य न ।। ३०७ ।।
सुरोत्तमटीका
त्रिस्थानवासिनां सत्यलोकवैकुण्ठकैलासवासिनाम् । उपलक्षणं चैतत् । भिन्नायुधानां भिन्नवाहनानां भिन्नकरणानां चेति द्रष्टव्यम् । ब्रह्मविष्णुशिवानां रूपभेदप्रसक्तिःस्वरूपभेदप्रसक्तिः सदा दक्षाध्वरात्पूर्वमपि वर्तते । अतःपूर्वमपि विद्यमानत्वात् । अत्र दक्षाध्वरे । तत्प्राप्तिः । रूपभेद-प्राप्तिः । तस्यरूपभेदस्य । विरोधःबुद्धिभेदश्चदक्षाध्वर एवप्रसक्तौ । न पूर्वम् । अतोऽनयोरेवात्रनिषेधोयुक्त इति भावः ।। ३०७ ।।
सत्यप्रमोदटीका
त्रिस्थानवासिनां इति हेतुगर्भं विशेषणम् । ब्रह्मविष्णु- शिवाः स्वरूपतो भिन्नाः (सत्यलोकवैकुण्ठकैलासरूप) भिन्नस्थानस्थितत्वात् सम्मतवत् इति प्रयोगो ध्येयः । इयं च स्वरूपभेदप्रसक्तिः सर्वदैवास्तीति न दक्षाध्वरप्रसङ्गे इदानीमेव तन्निषेधस्य न विशेषसङ्गतिरिति भावः ।। ३०७ ।।
युक्तिमल्लिका
पूज्यपूजकभावेन प्रेम्णस्तत्रैव दर्शनात् ।
विरोधस्तु निषेधार्हः कथं भेदो निषिध्यते ।। ३०८ ।।
सुरोत्तमटीका
किञ्च निषेधयोग्य एव निषेद्धव्यो नतु तदयोग्यः । निषेधयोग्यश्च विरोध एव न स्वरूपभेद इत्याह ।। पूज्यपूजकेति ।। पूज्यो विष्णुः । पूजकाब्रह्मादयः । तेषां भावेन । प्रेम्णः अन्योन्यं स्नेहस्य । तत्रैव दक्षाध्वर एव । निषेधार्हःनिषेधयोग्यः । अन्योन्यं तेषां प्रेम्णः सर्वैरपि दर्शनात् तद्विरुद्धो विरोध एव भ्रान्तिमूलत्वान्निषेधयोग्यः । उपलक्षणं चैतत् । बुद्धिभेदोपि निषेधयोग्य इति द्रष्टव्यम् । भेदस्य निषेधानर्हत्वमुपपादयति ।। कथमिति ।। ३०८ ।।
सत्यप्रमोदटीका
किञ्च शैववैष्णवयोः दक्षाध्वरे कलहः आगन्तुक-क्षुद्रकारणनिमित्त एव । न तेन स्वामिनोः शिवविष्ण्वोर्विरोधः शक्यसाधनः । ब्रह्मणः विष्णोश्च विरोधवार्तेव न । अतः भ्रान्त्यैव कल्पित इति युक्त-स्तन्निषेधः । स्वरूपभेदस्तु त्रयाणां ‘नाहं न च शिवोऽन्ये च तच्छक्त्येकांश-भागिनः’ इति चतुर्मुखवाक्याद्यनेकप्रमाणप्रमितः । अत्रैव दक्षाध्वरे ब्रह्मणा शिवेन च कृतया विष्णोः पूजया च सर्वैः प्रत्यक्षीकृतः । अतः स नैव निषेधार्हः इत्याह पूज्येति ।। ३०८ ।।
युक्तिमल्लिका
तदैव तत्सभामध्ये त्रिरूपाणां त्रिलिङ्गिनाम् ।
स्तोतृस्तव्यतया नम्यनन्तृभावेन च स्थितेः ।। ३०९ ।।
सुरोत्तमटीका
तत्सभामध्ये दक्षाध्वरसभामध्ये । त्रिरूपाणान्त्रीणि चतुर्मुखैकमुखपञ्चमुखानि रूपाणि येषान्ते । त्रिलिङ्गिनां अक्षमाला चक्र शूलाख्यलिङ्गत्रयवतां तेषां प्रामाणिको भेदः कथं निषिध्यत इति पूर्वेणान्वयः । स्तोतारो ब्रह्माद्याः । स्तव्यो नारायणस्तेषां भावस्तया । नन्तारो ब्रह्माद्याः नम्यो नारायणस्तेषां भावस्तया च स्थितेर्दक्षाध्वरेऽवस्थिते-स्स्तोतृस्तव्यभावादि घटकः कथं भेदो निषिध्यत इति पूर्वेणान्वयः । उक्तविरुद्धधर्मचतुष्टय घटकस्वरूपभेदस्य तत्रैव प्रामाणिकतया सिद्धत्वात् न तत्स्वरूपभेदो निषेधार्ह इति भावः ।। ३०९ ।।
सत्यप्रमोदटीका
सा च पूजा स्तुतिनतिरूपानेकविधेत्याह तदेति ।। ३०९ ।।
युक्तिमल्लिका
तमुपागतमालक्ष्य सर्वे सुरगणादयः ।
प्रणेमुस्सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकः ।। ३१० ।।
तत्तेजसा हतरुचस्सन्नजिह्वास्ससाध्वसाः ।
मूध्नर्युद्धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ।। ३११ ।।
अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।
यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ।। ३१२ ।।
सुरोत्तमटीका
दक्षाध्वरे स्तोतृस्तुत्यभावादिना ब्रह्मविष्णुशिवानामव-स्थान प्रतिपादकं तत्रत्यवाक्यत्रयं पठन्विस्पष्टभेदप्रतिपादकैतच्छ्लोकानु-सारेणैवा स्पष्टस्य त्रयाणामिति श्लोकस्यार्थ उन्नेय इत्याह ।। तमुपागतमिति ।। श्लोकाभिप्रायस्तु प्रागेव विवृतः । त्रिकालज्ञानवान् अतीतानागतवर्तमानदर्शी तात्कालिकाज्ञानी तस्मिन्नध्याय एव प्रागुक्तश्लोकाज्ञानी नहीति योजना
।। ३१०-३१२ ।।
सत्यप्रमोदटीका
तामेव निदर्शयति तमित्यादिभिः त्रिभिः । व्याख्याता इमे श्लोकाः गुणसौरभे (६९७-६९९) ।। ३१०-३१२ ।।
युक्तिमल्लिका
इति पूर्वोक्तविस्पष्टवाक्यादस्पष्टनिर्णयः ।
न हि तात्कालिकाज्ञानी त्रिकालज्ञानवान्मुनिः ।। ३१३ ।।
सत्यप्रमोदटीका
मुनिः शुकः ।। अस्पष्टनिर्णयः । भिदाशब्दस्य ‘यो न पश्यति वै भिदां’ इत्यत्रत्यस्य स्वरूपभेदपरत्वं विनिवार्य विरोधपरत्वेन निर्णयः ।। ३१३ ।।
युक्तिमल्लिका
महिम्नयर्वाग्वृत्तयश्चेत्कथं तेऽधिकवृत्तिना ।
हरिणैक्यं प्राप्नुवन्तीत्यादिवाक्यं विचार्यताम् ।। ३१४ ।।
सुरोत्तमटीका
ते ब्रह्माद्याः । इत्यनेन प्रकारेण । आदिवाक्यं आदौ हर्यागमनप्रस्तावे विद्यमानमिदं वाक्यं विचार्यताम् । विवेकिभिरिति शेषः ।।
सत्यप्रमोदटीका
इति एतदर्थपरम् । आदिवाक्यं अप्यर्वाग्वृत्तयः’ इत्यादिरूपम् ।। ३१४ ।।
युक्तिमल्लिका
यन्मायया गहनयेत्युक्तं मध्ये भृगोर्वचः ।
आश्रयाश्रयिभावाद्यैस्स्वरूपैक्यं निषेधति ।। ३१५ ।।
सुरोत्तमटीका
मध्यगतभृगुवाक्येनापि स्वरूपभेद एव सिध्द्यतीत्याह ।। यन्माययेति ।। मध्ये तमुपागतमित्यादि श्लोकत्रयादुपरि त्रयाणामिति श्लोकादधस्तादित्यर्थः ।। ३१५ ।।
सत्यप्रमोदटीका
मध्ये ‘अप्यर्वाग्वृत्तय’ इति श्लोकस्य ‘त्रयाणामेक-भावानां’ इति श्लोकस्य च मध्ये ।। वचः
‘यन्मायया गहनयाऽपहृतात्मबोधा
ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः ।
नात्माश्रितं तव विदन्त्यधुनाऽपि तत्त्वं
सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः’
इति स्तुतिरूपम् । आद्यैरित्यनेन तैः साकल्येनाज्ञेयत्वं प्रणतत्वं, तद्बन्धुत्वं इत्यादिकं ग्राह्यम् ।। ३१५ ।।
युक्तिमल्लिका
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।
इत्यन्तिमं वचस्तच्च कथं हन्त्यादिमध्यमौ ।। ३१६ ।।
सुरोत्तमटीका
तत् अन्तिमवाक्यं आदिमध्यमौ प्रागुक्तश्लोकत्रयं भृगुवाक्यं च । भवन्मते उपक्रमस्य ज्यायस्त्वादुभयोरपि मते बहुत्वेनादि मध्यवचनानामेव प्रबलत्वादिति भावः ।। ३१६ ।।
सत्यप्रमोदटीका
आदिमध्यमौ अनेकाभ्यां निरवकाशाभ्यां ताभ्यां स्थापितं स्वरूपभेदम् । हन्ति बाधते । न हि दुर्बलं प्रबलसाधनस्येष्टे इति भावः । अतः अन्तिमस्यैव विरोधाभावः अर्थ आश्रयणीयः ।। ३१६ ।।
युक्तिमल्लिका
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।
आदिमध्यान्तपद्यानां स शान्तिमधिगच्छति ।। ३१७ ।।
सुरोत्तमटीका
अधुनात्रयाणामिति पद्यस्य पादमात्रस्य व्यत्यासे कृते तदेव परस्योत्तरं भवतीत्याह ।। त्रयाणामिति ।। एकभावानामेक प्रकारकाभि-प्रायाणां त्रयाणामादिमध्यान्तपद्यानां तमुपागतमालक्ष्य यन्माय या गहनया त्रयाणामेकभावानामिति पद्यानामित्यर्थः । यः पुरुषः भिदां वाक्यभेदं न पश्यति । वाक्यभेदो यथाभवति तथा तदर्थं न पश्यतीति यावत् । एकस्मिन्नध्याये एकेनर्षिणा प्रोच्यमानपद्यानामेकवाक्यतैव कर्तव्या । वाक्य-भेदस्तु सर्वथा न कर्तव्यः । सम्भवत्येकवाक्यत्वे वाक्यभेदोहि दूषणमिति यस्य विवेकोस्तीति भावः । सपुरुषश्शान्तिं कलहशान्तिमधिगच्छति । पूर्वोत्तरा-विरुद्धार्थस्यैव विवेकिना वक्तव्यत्वात् । स्वरूपभेदाभावस्य चोक्तरीत्यापूर्व-विरुद्धत्वाद्भिदाशब्दस्य पूर्वोत्तराविरुद्धबुद्धिभेदाद्यर्थकत्वमेव वक्तव्यमित्यनु-सन्धाय भेदवादिभिस्सहकलहं मुञ्चतीति भावः । वैशब्देन वाक्यभेदस्य दोषता प्रसिद्धेति सूचयति । अथवा आदिमध्यान्तपद्यानामित्यनेन सर्वस्मिन्नादौ मध्येऽवसाने च भूतः विद्यमानः आत्मा स्वरूपं येषां पद्यानां तानीति सर्वभूतात्मनामिति पदस्यैवार्थस्सूचितः । अतोनेकस्यापि पादस्य व्यत्यासः । तच्छंकितश्लोकेनैव तस्योत्तरदानमिति भावः । एवं च परबाणेनैव परस्य घातकरणात् अति चमत्कारोयमिति ज्ञातव्यम् ।। ३१७ ।।
सत्यप्रमोदटीका
मुमुक्षुणा खलु ‘पूर्वोत्तराविरुद्धः प्रमाणान्तराविरुद्धश्च शास्त्रार्थः’ इति शास्त्रमर्यादाऽवश्यं माननीया इत्येतदर्थपरतयाऽपि त्रयाणामिति श्लोकं योजयति त्रयाणामिति । आदिमध्यान्तपद्यानामिति शेषोक्तिः । एकभावानां अन्योन्यमविरुद्धाशयानाम् । सर्वभूतात्मनां सर्वस्मिन् ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति स्मृत्यनुसारेण सर्वव्यापके विष्णौ भूतः प्रतिपादकतया विद्यमानः आत्मा स्वरूपं येषां ते सर्वभूतात्मानः तेषाम् । भिदां विरुद्धार्थकल्पनेन अन्यतरस्याप्रामाण्यम् यः न पश्यति किन्तु ‘वेद-वेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति न्यायमनुरुध्य भिदां इत्यस्य विरोधार्थकत्वं आश्रित्य एकवाक्यतयाऽर्थमङ्गीकरोति सः अधिकारी यथार्थज्ञानी शान्तिं मोक्षं अधिगच्छति । अनेवम्भूतस्य मिथ्याज्ञानिनस्तम एव परायणमिति भावः ।। ३१७ ।।
युक्तिमल्लिका
यदि स्वरूपभेदस्य निन्दैवेयं भवेत्तदा ।
व्यर्थोच्छिष्टाहुतेराज्ञा सर्वाशर्वाहुतिर्यतः ।
निर्मूल एव कलहो निर्मूला शान्तिरप्यभूत् ।। ३१८ ।।
सुरोत्तमटीका
प्राक्स्वरूपभेदनिषेधे पूर्वविरोध उक्तः । इदानीमुत्तर-विरोधं चाह ।। यदीति ।। उच्छिष्टाहुतेर्यज्ञावसाने यज्ञोच्छिष्ट द्रव्येण क्रियमाण- रुद्राहुतेराज्ञादेव ऋष्यादीनामतिदेशः व्यर्था । तत्र हेतुः । यतः कारणात् ब्रह्मविष्णुरुद्राणां स्वरूपैक्ये सति सर्वा विष्णुब्रह्मादीनुद्दिश्य क्रियमाणा-प्याहुतिश्शर्वस्य महादेवस्याहुतिरेव । अत इति पूर्वेणान्वयः । त्रयाणामेषामैक्ये कलहोपि निर्मूलः । विष्णौ क्रियमाणभक्तेरेव स्वभक्तित्वाद्रुद्रस्य कोपकारणं किमपि नास्तीति भावः । शान्तिरपि निर्मूला । मदाहुतिरेवत्वदाहुतिरिति विष्णुनावक्तव्यम् । उच्छिष्टाहुतिदानाख्य शान्तिरपि निर्मूलेति भावः ।।३१८।।
सत्यप्रमोदटीका
विष्णोः सर्वेभ्य उत्तमत्वे ज्ञापकमुक्त्वा, ब्रह्मणो रुद्रादुत्तमत्वेऽपि पूर्वप्रवृत्तां कथां ज्ञापिकामाह यदीति ।। अत्र आगताय ब्रह्मणे रुद्रः उत्थाय चक्रे शिरसाऽभिवन्दनम्’ इति, तथा ब्रह्मणा तदनुग्रहाय ‘एष ते रुद्रभागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै’ इति उच्छिष्टाहुतेराज्ञा कृतेति च कथा श्रूयते । स्वरूपैक्ये तदेतदसङ्गतमेव स्यात् । न हि क्वापि स्वात्मने एव प्रणामः स्वात्मन्येव चानुग्रहः क्रियमाणो दृष्टचरः । अतो विरोधार्थक एवायं भिदाशब्दः इति विपर्यये पर्यवसातव्यम् ।। ३१८ ।।
युक्तिमल्लिका
पारमार्थ्येन भेदोऽयं यदि नेति मतं तव ।
अपारमार्थ्येन तदा नेत्यार्यस्य मतं भवेत् ।
अतस्सुस्थिर एवायं भेदोऽभूत्पदकल्पने ।। ३१९ ।।
सुरोत्तमटीका
शङ्कते ।। पारमार्थ्येनेति ।। उत्तरमाह ।। अपार-मार्थ्येति ।। आर्यस्य तत्ववादिनः । अतोऽपारमार्थ्येनेति पदाध्याहारात् । सुस्थिरः अपारमार्थ्येन न पश्यतीत्युक्ते पारमार्थ्येनैव पश्यतीत्यर्थलाभात् अति स्थिरः । पदकल्पने अविद्यमानपदाध्याहारे । सर्वथाऽपेक्षितस्य पदस्योपादाने अध्याहारः । उक्तरीत्या यथास्थितपदेनैवार्थघटनायामपि बलात्कारेण पदान्तरोपादानात्कल्पन इत्युक्तम् ।। ३१९ ।।
सत्यप्रमोदटीका
अथ मन्येत । अस्तु भेदः । स चापारमार्थिको व्यावहारिक एव । पारमार्थिक एव च निषिध्यत इति । तत्र प्रष्टव्यम् । स किं प्रत्यक्षादाकलितोऽन्यो वा यो निषिध्यते । आद्ये कथमङ्गीकृतस्य निराकरणम् । अन्यश्चेन्निषिध्यतां न नो हानिरित्याह पारमार्थ्येनेति न हि प्रत्यक्षादि-प्रमितादन्यः पारमार्थिको भेदो नामास्तीति भावः । तदुक्तं भगवत्पादैः ‘प्रत्यक्षादिसिद्धत्वे च भेदस्य तद्विरोधादेवाप्रामाण्यमभेदागमस्ये’ति । किं च अविद्यमानस्य पारमार्थ्येन इति पदस्य कल्पनं किं प्रमाणबलात्क्रियते उत एवमेव वा । नाद्यः । तदभावादेव । त्वया प्रमाणमात्रस्य मिथ्यात्वाङ्गीकाराच्च । न द्वितीयः । एवं तर्हि अपारमार्थ्येन इत्यप्यध्याहारसम्भवेन तवैवानिष्टमापद्यत इत्याह अपारमार्थ्येनेति । सुस्थिरः । द्वौ नञाविति न्यायादिति भावः ।।३१९।।
युक्तिमल्लिका
कथमार्यो न चरमो वाक्यप्रामाण्यरक्षणात् ।
अनार्यश्च कथं नाद्यो वाक्यप्रामाण्यशिक्षणात् ।। ३२० ।।
सुरोत्तमटीका
चरमः तत्ववादी कथमार्यो न वाक्यद्वयस्यापि प्रामाण्य-रक्षणात् आर्यश्श्रेष्ठ एव । आद्यः मायावादी । भेदस्यापारमार्थिकत्व कथने तत्प्रतिपादकवाक्यानामप्रामाण्याख्यशिक्षाकरणादित्यर्थः ।। ३२० ।।
सत्यप्रमोदटीका
‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति न्यायस्य सम्माननात्तत्त्ववादी आर्यः तदवधीरणान्मायी अनार्य इत्याह कथमिति । तदुक्तं चन्द्रिकायां अन्तरधिकरणे । श्रुतौ श्रद्धालुना श्रुत्योर्विषयभेदेन तात्त्विकविषयत्वस्यैव वक्तव्यत्वाच्च इति ।। ३२० ।।
युक्तिमल्लिका
न चेदपारमार्थ्येन तत्त्वमस्यादिवागपि ।
वक्त्यैक्यं पारमार्थ्येन त्वं त्वमेवासि तच्च तत् ।। ३२१ ।।
इत्याहेति भवेच्छत्या मिथ्यार्थस्तन्न कथ्यते ।
मुख्ये बाधेऽप्यमुख्यार्थः कथ्यते सावकाशया ।। ३२२ ।।
सुरोत्तमटीका
नचेत् मदुक्ताध्याहारमनङ्गीकृत्य भेदस्य पारमार्थ्यमेव निषिध्यते चेत् । तर्हि तत्त्वमस्यादिवागप्यपारमार्थ्येनैक्यं वक्ति । पारमार्थ्येन त्वं पदस्य तत्पदस्यावृत्तिं कृत्वा त्वं त्वमेव तत्तदेवेति जीवस्य ब्रह्मणश्चात्यन्त-वैलक्षण्यप्रतिपादनेन भेदमेव वक्तीति तत्ववाद्यपि वदेत् । इयांस्तु विशेषः । मायावादिनातु भेदस्यापारमार्थिकत्वमुक्त्वा तत्प्रतिपादक वाक्यस्यातत्वा-वेदकत्वमेवोक्तम् । तत्ववादीतु तत्त्वमसीति वाक्यस्यैक्यार्थेऽप्रामाण्यमुक्त्वा तदेववाक्यं स्वार्थे प्रमाणीकृतवांश्च । अतस्सर्वथावाक्यस्याप्रामाण्याकथनात् पूर्ववदयमेव विदुषामार्य इति भावः । इत्याहेतिभवेत् इत्यर्थमाहेतिस्यात् । तत्तस्मात् । अर्थमिथ्यात्वं यथा न भवति तादृशाध्याहारादेस्संभवात् । तदेवविवेचयति ।। मुख्य इति ।। ३२१,३२२ ।।
सत्यप्रमोदटीका
न चेत्
‘यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् ।
वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत्’
इति शब्दाध्याहारनीतिं न्यक्कृत्य त्वया निरङ्कुशोऽध्याहार आस्थीयते चेत् । अपारमार्थ्येनेति । इति पदेनाध्याहृतेन इति शेषः । अपारमार्थ्येन इत्यावर्तते । वाक् अपारमार्थ्येन ऐक्यं वक्ति इत्याहेति । भवेत् इति योजना । तथा सति फलितमर्थं भेदावधारणमाह त्वं त्वमेवेति । बाधेऽपि इत्यत्रापिपदेन प्रकृते मुख्यार्थबाधो नास्त्येवेति गर्हां सूचयति । आत्मा तत्त्वमसीत्यत्र अतदिति पदच्छेदाश्रयणात्, प्रकृते च भिदाशब्दस्य विरोधरूपमुख्यार्थस्यैव स्वीकारा-च्चेति भावः ।। ३२१,३२२ ।।
युक्तिमल्लिका
सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् ।
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ।। ३२३ ।।
इत्यसंयुक्तताभेदो ग्रन्थेऽस्मिन्नेव कथ्यते ।
असंयुज्यस्थितिं तेषामियं वाक्तन्निषेधति ।
सदा संयुज्यवसतामङ्गहृत्पद्मधामसु ।। ३२४ ।।
सुरोत्तमटीका
भिदाशब्दस्य भागवतोक्तरीत्यैवार्थान्तरमाह ।। सोऽनु-प्रविष्ट इति ।। सः भगवान्नारायणः । तं गणं तत्वदेवतागणम् । भिन्नं अन्योन्यासंयुक्ततया स्थितं संयोजयामास । अन्यत्स्पष्टम् । इत्यनेन प्रकारेण असंयुक्तता अन्योन्यसंयोगराहित्यमेव भेद इति कथ्यते । तेषां ब्रह्मविष्णु-शिवानाम् । याऽसंयुज्यस्थितिः मन्ददृष्टीनां प्रतीयमाना ताम् । अङ्गं नाभ्या-द्यवयवः । हृत्पद्मं च । तान्येव धामानि । तेषु संयुज्यवसतां तेषामित्यन्वयः । सदा नारायणनाभौ मनः प्रसादे वा ब्रह्मासंयुज्य तिष्ठति । मनस्यंतःकरणे क्रोधे वा रुद्रस्संयुज्य तिष्ठति । नित्यं ध्यायतोस्तयोर्हृत्पद्मे विष्णुस्तिष्ठति । अतस्तेषामसंयोगाख्यभेदं वा भिदां न पश्यतीति वाङ्निषेधतीति भावः ।। ३२३,३२४ ।।
सत्यप्रमोदटीका
भिदाशब्दस्य सावकाशतां सम्भवदनेकार्थतोक्त्या द्रढयति स इति । भिन्नं असंयुक्तम् । अस्मिन्नेव ग्रन्थे तृ. स्कं. षष्ठे अध्याये । इयं वाक् । त्रयाणामित्यादि वाक् । अङ्गानि हृत्पद्म च इति धामसु । एकं पदम् । ‘सयुजा सखायौ’ इति श्रुतेः । हृत्पद्मेत्युक्त्या शिवेन ब्रह्मणा च तदधिष्ठितस्य विष्णोः ध्येयत्वमुक्तं भवति । तदुक्तमत्रैव ‘अधोक्षजो मे मनसा विधीयते’ इति शिवेन, ‘यन्मे हृदौत्कण्ठ््यवता धृतो हरिः’ इति ब्रह्मणा च विष्णोः ध्यानम् ।। ३२३,३२४ ।।
युक्तिमल्लिका
उक्ताविरोधसिद्ध्यर्थमर्थोऽयं च निगद्यते ।। ३२५ ।।
सुरोत्तमटीका
अस्यार्थस्य पूर्वोक्तार्थेन सहसम्बन्धं घटयति ।। उक्ता-विरोधेति ।। ब्रह्मशिवयोर्विष्णुध्यातृत्वाद्विष्णोश्च तदाधारत्वेन सदा संयुक्तत्वा-द्विरोधादेरवकाश एव नास्तीति भावः ।। ३२५ ।।
सत्यप्रमोदटीका
चशब्दो न केवलं भिदाशब्दस्य सावकाशता दृढी-करणार्थः किन्तु अविरोधसिध्यर्थं च कथितः इति भावं समुच्चिनोति ।। नित्यं ध्यात्रोः शिवब्रह्मणोर्ध्येयेन हरिणा कथं विरोध इति ।। ३२५ ।।
युक्तिमल्लिका
देवानुद्दीपयन्विष्णुर्दैवैरूपैः किलाविशत् ।
असुरानासुरैरूपैर्नागान्नगाकृतिः किल ।। ३२६ ।।
अन्तस्सर्वत्र तद्रूपरूपो विष्णुश्च तिष्ठति ।
तद्ब्रह्मस्थब्रह्मरूपाच्छिवस्थशिवरूपतः ।
पृथक्स्थितस्य विष्णोर्वाग्भेदमेषा निषेधति ।। ३२७ ।।
सुरोत्तमटीका
भिदाशब्दस्य स्वरूपभेदपरत्वेऽपि भागवत प्रक्रिययैव योजनिकाप्रकारमाह ।। देवानिति ।। अनेन पद्येन ‘‘तथाऽसुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । उद्दीपयन्देवगणांश्च विष्णुर्दैवेन नागेन्द्रमथा-परेण ।’’ इति भागवतवाक्यमर्थतो गृह्णाति । अतो भागवते प्रोक्तत्वात् । सर्वत्र देवासुरसरीसृपादिषु । तद्रूपरूपः तेषां रूपवद्रूपं यस्य सः । तत्तस्मात् ब्रह्मणि ब्रह्मरूपेण रुद्रे रुद्ररूपेण भगवतोप्यन्तर्यामितया स्थितत्वात् । एषावाक् त्रयाणामिति वाक् । भेदं अन्योन्याभावरूपभेदम् । एकभावानामेक-स्वभावानां त्रयाणां ब्रह्मस्थविष्णु रुद्रस्थविष्णु पृथक्स्थितविष्णुरूपाणां भिदां न पश्यतीति वाक्यार्थः । त्रयाणामिति सामान्यतस्त्रित्व वाचकपदस्योक्त-भगवद्रूपेष्वपि नेतुं शक्यत्वादिति भावः ।। ३२६,३२७ ।।
सत्यप्रमोदटीका
देवानिति । इदं पद्यं, भागवते अष्टमस्कन्धे सप्तमाध्याये
‘तथाऽसुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् ।
उद्दीपयन् देवगणांश्च विष्णुर्दैवेन नागेन्द्रमथापरेण’
इति पद्यस्यार्थसङ्ग्रहपरम् । अत्र ‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन्’ इति सर्वगतत्वनये अनुव्याख्यानोक्तं एकस्यैव विष्णोर्बहुरूपग्रहणेन देवासुरनागशक्तिप्रबोधकत्वं निरूप्यते । न तावता विष्णोः स्वरूपभेद-प्रसक्तिरस्ति । एवं ‘ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थितः’ इत्युक्तदिशा शिवे ब्रह्मणि च स्थितयोरन्तर्यामिरूपयोस्तथा बहिःस्थितस्य विष्णुरूपस्य च भेदनिषेधः ‘त्रयाणामेकभावानां’ इति श्लोकेन क्रियते । तदुक्तं गीतायां ‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकमि’ति अहमात्मा गुडाकेश सर्वभूताशयस्थितः इति च । तथा च भिदाशब्दस्य स्वरूपभेदपरत्वेऽपि न काऽप्यनुपपत्तिरिति योजनान्तरमाह अन्तरिति ।। ३२६, ३२७ ।।
युक्तिमल्लिका
संयुज्यैव स्थितिं प्रोक्ता स्थिरीकर्तृमिदं वचः ।
हृदिस्थरूपप्रेमित्वादवैरं वा तयोर्हरौ ।। ३२८ ।।
सुरोत्तमटीका
अस्याप्यर्थस्य द्वेधापूर्वोक्तार्थे सङ्गतिमाह ।। संयुज्येति ।। अन्तर्यामिरूपयोः पृथक्स्थितरूपस्य च भेदाभावेऽस्यापि रूपस्य सदा संयुज्यैव स्थितिरुक्तप्रायेति भावः । अवैरमविरोधम् । युक्तिस्तु पूर्ववदेव द्रष्टव्या ।।३२८।।
सत्यप्रमोदटीका
इदं वचः अन्तर्यामिरूपोक्तिः ।। ३२८ ।।
युक्तिमल्लिका
अन्तर्यामिविवक्षायां भेदो नाशो भ्रमोऽपि वा ।
मिश्रणं वा क्रमादेषु त्रितयं वाङ्निषेधति ।। ३२९ ।।
सुरोत्तमटीका
पुनरर्थत्रयमाह ।। अन्तर्यामीति ।। एषु रूपत्रयेषु । त्रयाणामेषां भगवद्रूपाणां भिदां नाशं भ्रमं मिश्रणं च यो न पश्यति । इत्यर्थत्रयं च सम्भवतीति भावः ।। ३२९ ।।
सत्यप्रमोदटीका
अस्यां विवक्षायां विष्णोर्महिमातिशयलाभोऽपि भवतीत्याह अन्तर्यामीति । एषु त्रिषु रूपेषु । त्रितयं नाशं भ्रमं मिश्रणं चेत्येवंरूपम् ।। ३२९ ।।
युक्तिमल्लिका
अभेदघटनायोक्ता त्रयाणामप्यनाश्यता ।
नश्यद्देहेऽप्यनाशाय तद्देहे भ्रमशून्यता ।
अविद्याद्यैरमिश्रत्वं तदभ्रान्त्यै निगद्यते ।। ३३० ।।
सुरोत्तमटीका
तत्र नाशाभावार्थस्य पूर्वोक्तार्थ सङ्गतिमाह ।। अभेदेति ।। अभेदघटनाय पूर्वोक्तभेदाभावघटनाय । एकस्य नाशेऽपरस्य चानाशेह्यभेदो न घटते । सर्वेषामनाशे वैलक्षण्याभावात्प्रागुक्ताभेदो घटत इति भावः । भ्रमा-भावार्थस्यापि प्रागुक्तानाशार्थे सङ्गतिमाह ।। नश्यदिति ।। तद्देहे तयोर्ब्रह्म-रुद्रयोर्देहे भ्रमशून्यता अहं ममताख्यभ्रमशून्यता उक्ता । तद्देहाभिमाने सति ह्यन्तर्यामिरूपयोरपि देहनाशप्रयुक्तनाशस्स्यात् । देहाभिमानाख्यभ्रमाभावे तन्नाशेप्यनयोरनाश्यता दृढीकृतेति भावः । तृतीयार्थस्यापि द्वितीयार्थेन सङ्गतिमाह ।। अविद्याद्यैरिति ।। भिदाशब्दस्य मिश्रणार्थत्वे केन मिश्रण-मित्याकाङ्क्षापूरणायाविद्याद्यैरित्युक्तम् । अविद्यादिदोषैर्मिश्रणं यो न पश्यतीति तृतीयोर्थः । अविद्यादिदोषामिश्रत्वं च तदभ्रान्त्यै तयोरन्तर्यामिरूपयो-र्देहाभिमानाख्य भ्रान्त्यभावाय निगद्यत इति योजना ।। ३३० ।।
सत्यप्रमोदटीका
निषेधप्रकारमुपपादयति अभेदेति । मूलरूपस्य चतुर्विधनाशाभावः ‘यः स्वतन्त्रः परो विष्णुर्जन्ममृत्यादिवर्जितः’ इति तत्त्वनिर्णयोदाहृतब्रह्माण्डादिप्रमाणैस्तावत्प्रमितः । तत्र यदि अन्तर्यामि-रूपयोर्द्वयोरन्यतरस्यापि वा नाशः स्यात् तर्हि रूपत्रयस्याभेदो न स्यात् । नाशानाशरूपविरुद्धधर्माक्रान्तत्वेन भेदस्यैव प्राप्तेः । निषिद्धश्च भेदोऽनेनैव पद्येन । अतोऽन्तर्यामिरूपयोरपि नाशाभावः सिध्यति । चेतनस्य स्वरूपतो नित्यस्य नाशो नाम स्वभिन्ने प्राकृतदेहे भ्रममूलकस्य ममेत्यभिमानस्य नाश एव । अतो नाशाभावादेव तन्निमित्तभ्रमाभावः तेन च तन्निमित्तभूताज्ञान-मिश्रणाभावश्च सिध्यत इत्याह अभेदेति । यथोक्तं भागवते ‘यन्निबन्धोऽभि-मानोऽयं यद्वधात्प्राणिनां वधः । तथा न यस्य कैवल्यादभिमानोऽखि-लात्मनः’ । इति । कैवल्यात् देहाभावादेव । अत्र निषिध्यमानं मिश्रणं हेयोपादेयरहितमित्युक्तरीत्या उपादेयानां गुणानां हेयैरविद्यादिदोषैर्मिश्रणमेव प्रमाणानुगुण्यादित्याह अविद्येति ।। ३३० ।।
युक्तिमल्लिका
अन्तर्यामिविवक्षायां मुख्यास्यादेकभावना ।
भिन्नभिन्नमनस्कत्वान्न चेन्नातोऽपि तस्य वाक् ।। ३३१ ।।
सुरोत्तमटीका
अन्तर्यामिविवक्षायास्सूचकं च मूल एवास्तीत्याह ।। अन्तर्यामीति ।। एकः भावोन्तःकरणं येषामिति ह्येकभावशब्दार्थः । स च परमात्मरूपेषु तदन्तःकरणस्याप्येकत्वाद्घटते । न चेदन्तर्यामिविवक्षा नक्रियते चेत् भिन्नभिन्नमनस्कत्वादेक भावानामिति विशेषणं न घटत इत्यर्थः । अतः एकभावानामिति विशेषणस्य घटनीयत्वात् । तस्यान्तर्यामिणः ।। ३३१ ।।
सत्यप्रमोदटीका
अस्यां विवक्षायां एकभावानामित्यस्य मुख्यार्थ एव ज्ञापक इत्याह अन्तर्यामीति । अत्र भावोऽन्योन्यसुखदुःखाद्यनुसन्धान-प्रयोजकं अन्तःकरणम् । तदैक्ये मूर्तित्रयस्य स्वरूपैक्यं सुलभमेवेति भावः । अन्तःकरणैक्यं च भिन्नान्तःकरणाभावादेवेति भावः ।। ३३१ ।।
युक्तिमल्लिका
रूढलक्षणयाऽन्यत्र बुद्धेरैक्यं च भिन्नता ।
विषयस्यैक्यभेदाभ्यामुक्ते मुख्यं तु तद्धरौ ।। ३३२ ।।
सुरोत्तमटीका
अन्यत्र भगवतोन्यत्र । बुद्धेरैक्यं भिन्नताच बुद्ध्यैक्यं बुद्धिभेदश्चेत्यर्थः । रूढलक्षणया विषयस्यैक्य भेदाभ्यामुक्तै । विषयेक्या-द्बुद्ध्यैक्यमुक्तम् । विषयभेदाद्बुद्धिभिन्नता चोक्ता । बहुपुरुषेषु बुद्धैक्यं लक्षणयैकविषयकबुद्धित्वादेव वक्तव्यम् । न तु साक्षाद्बुद्धीनामेवैक्यमस्ति । बुद्धिभेदोपि लक्षणयाभिन्नविषयकबुद्धित्वादेव वक्तव्यः । बुद्धिस्वरूपभेदस्य सर्वदा विद्यमानत्वात् । तस्माद्भगवतोन्यत्रोभयमप्यमुख्यमेव । बुद्धिभेद-स्वरूपनिरूपणं तु प्रसङ्गादिति ज्ञातव्यम् । तद्बुध्द्यैक्यं हरौमुख्यम् । अतो-मुख्यार्थलाभायोक्तविधया भगवद्रूपाणामेवात्र निरूपणं कर्तव्यमिति भावः ।। ३३२ ।।
सत्यप्रमोदटीका
अन्यत्र स्वरूपभेदवत्सु लोके ब्राह्मणादिषु । भिन्नता इत्यनन्तरं इति द्वे इति शेषः । उक्ते इत्यनेनान्वयः । प्रथमाद्विवचनम् । विषयैक्यभेदाभ्यामिति क्रमेणान्वयः । विषयैक्ये बुद्ध्यैक्यं, इदानीं ब्राह्मणा एकभावा इति । विषयभेदे बुद्धिभेदः पूर्वं ब्राह्मणाभिन्नभावा इति च प्रयोगात् । उभयत्र भावशब्दस्य विषये रूढलक्षणैव । हरौ तु तत् एकभावत्वं मुख्यं तु मुख्यमेव न चान्तर्यामिविवक्षायां विष्णोरेकत्वेन त्रयाणामित्युक्तत्रित्वानु-पपत्तिः । ‘द्वित्वं चैकस्य युज्यते’ इति अनुव्याख्यानोक्तदिशा विशेषबले-नोपपत्तेः ।। ३३२ ।।
युक्तिमल्लिका
शब्दो नेयो ह्यनेकार्थे निर्णीतोऽर्थः क्व नीयते ।
पुत्रो न पुत्रीति वाक्यं निर्णीतार्थानुसारि हि ।। ३३३ ।।
सुरोत्तमटीका
भिदां न पश्यतीति शब्दमात्रबलात्त्रिदेवतैक्यं वदताम-प्रौढिं दर्शयति ।। शब्द इति ।। शब्दोऽनेकार्थे नेयः एकार्थायोगेन्यार्थेपि नेतुं शक्यः । नानार्थकत्वाच्छब्दानाम् । निर्णीतोर्थः स्वामिभृत्यभावेन पूर्वोत्तर-प्रकरणेषु निश्चितः अस्मिन्श्लोकेऽपि तत्समाख्यया त्रयाणामिति भेदसापेक्ष-त्रित्वोक्त्या एतच्छ्लोकार्थ वक्तृमैत्रेयदृष्ठ्या निश्चितो ब्रह्मविष्णुशिवानाम-न्योन्याभावरूपार्थः क्व नीयते । कथं तस्य निषेधः क्रियते । अन्तर्यामि-पक्षेऽस्माकं त्रित्वोक्तिस्तु विशेषवलादन्यपक्षे भेदबलात् । परस्यतु निर्विशेष-वादिनः सर्वत्र भेदबलादेव । अतस्त्रित्वकथनात् कथं न भेदनिश्चयः । किं च परमते सर्वभूतात्मनामिति सर्वभूतैक्यकथनात् त्रयाणामेव भेद प्रतिषेधे-कारणाभावाच्च । अतोन्यत्र सम्भावितविरोधरूपभेदस्य जितमनस्केष्वेषु प्रतिषेध इत्येवपरेणापि वक्तुमुचितमिति भावः । अनेकार्थशब्दस्य निर्णीतार्थानुसारित्वं दृष्टान्तेन घटयति ।। पुत्र इति ।। कश्चिदल्पशकुनज्ञः गर्भस्थशिशुः पुत्रोवा-पुत्रीवेति विचारिते सति पुत्रेतिवाक्यं प्रयुङ्क्ते । तद्धि नञःपूर्वपदयोगे पुत्रीत्वमेव स्थापयति । उत्तरपदयोगे च पुत्रत्वमेव स्थापयति । अतः पुत्रेजाते तदनु-कूलतया तद्वाक्यं व्याख्याति । पुत्र्यां च जातायां तदनुकूलतयैव व्याख्याति तथा च वाक्यस्य निर्णीतार्थानुसारित्वमत्रैव प्रसिद्धमिति भावः ।। ३३३ ।।
सत्यप्रमोदटीका
अपि च शब्दार्थयोः अर्थस्यैव प्राधान्यम् । अतः प्रमाणनिर्णीतार्थानुसारेण सावकाशाः शब्दा एव योजनीयाः । न तु वैपरीत्य-मित्याह शब्द इति । अन्यथा वाक्यस्य योग्यताविरहेणाप्रामाण्यापत्तिः । एकार्थकोऽपि शब्दो वृत्त्यन्तराश्रयणेन भवत्यर्थान्तरपरः । अर्थस्तु नैवमिति भावः । तत्रानुरूपं लौकिकनिदर्शनमाह पुत्र इति । गर्भस्थः शिशुः पुत्रः पुत्री वेति पृष्टः कश्चन शकुनशास्त्रमजानानः स्वाज्ञानमाच्छादयन् ब्रूते पुत्रो न पुत्री इति । इदं च वाक्यं नञः पूर्वेण उत्तरेण वा शब्देन योजनायां अर्थद्वयपरतया व्याख्यानार्हम् । यदि पुत्रो जायेत, न पुत्री इत्यन्वयेन अथ पुत्री तर्हि न पुत्र इत्यन्वयेन व्याख्यानसम्भवात् । नैवं पुत्रस्य पुत्र्या वाऽन्यथाभवनं शक्य-सम्भावनम् । प्रकृते च ब्रह्मविष्णुशिवानां स्वरूपभेदः परःसहस्त्रैः प्रमाणै-रवसितः । अतः सम्भवदनेकार्थो भिदाशब्द एव तदानुगुण्येन व्याख्यातव्य इति भावः । यथोक्तं गुणसौरभे तत्तत्पदार्थसामर्थ्यानुपमर्देन शब्दतः । अर्थो बोध्यो न शब्दस्य सत्त्वादर्थोपमर्दनमिति ।(श्लो.८५८) अत्र निदर्श-नान्तराणि तत्रोक्तान्यनुसन्धेयानि।। ३३३ ।।
युक्तिमल्लिका
अतो निर्विषराशिस्थो विषबिन्दुश्च निर्विषम् ।
ग्रन्थेऽस्मिन्नेव यद्बह्वी त्रयाणां भेदवाक्स्फुटा ।। ३३४ ।।
सुरोत्तमटीका
भागवतश्लोकार्थकथनमुपसंहरं पुनर्निदर्शनान्तरमप्याह ।। अत इति ।। यद्यस्मात् । भेदवाक् बह्वीस्फुटा च । अतो निर्विषराशिस्थ विषबिन्दुर्यथानिर्विषमेव भवति ।तथा इदमपि वाक्यं पूर्वोत्तरबहुतर भेद-वाक्यघातकं न भवतीति भावः।।३३४ ।।
सत्यप्रमोदटीका
विषबिन्दुः विपरीतलक्षणया अमृतबिन्दुः । शास्त्रोक्तस्य विषबिन्दुत्वानुपपत्तेः । अतः ‘धर्मो भवत्यधर्मोऽपि’ इत्यत्र अधर्मवत्प्रतीयमानोऽपि इतिवत् अत्रापि विषबिन्दुवत्प्रतीयमानोऽपि इति व्याख्येयम् ।। ३३४ ।।