पक्षोऽन्यस्तु सभामध्ये हास्याय स्यात्परं नृणां
'अशब्दमस्पर्शमि' त्यादिश्रुत्यर्थः
युक्तिमल्लिका
पक्षोऽन्यस्तु सभामध्ये हास्याय स्यात्परं नृणां ।। ३६५ ।।
सत्यप्रमोदटीका
अन्यः लोकवेदबाह्यः । ‘पक्षः शुद्धशुभगुणपरिपूर्णो मुकुन्दः अशुद्ध इति’ शुद्धिमुखसद्गुणरहितस्तु शुद्ध इति च पक्षः । नृणां पामराणामपि । किं पुनः प्रेक्षावतामिति भावः ।। ३६५ ।।
सुरोत्तमटीका
अन्यः पक्षः ज्ञानानन्दादि शुभगुणभरितत्वेन शबल-ब्रह्मतापक्षः । हास्याय शुभगुणभरितत्वेन अन्यापादकशबलत्ववादीसभामध्ये हास्योऽसीति भावः ।। ३६५ ।।
युक्तिमल्लिका
मलिनद्रव्यसंयोगे मालिन्यं वाससोऽपि हि ।
शुद्धवस्तुसमायोगे श्लाघ्यं स्यात्स्वर्गिणामपि ।। ३६६ ।।
सुरोत्तमटीका
तदेव दृष्टान्तमुखेनोपपादयति ।। मलिनेति ।। मलिन-द्रव्यसंयोगे पङ्कादिमलिनद्रव्यसंयोगे शुद्धवस्तुसमायोगे कौसुम्भरसादिश्लाघ्य-वस्तुसमायोगे । स्वर्गिणां देवानां तादृशवस्त्रादिनाऽलंकारे प्रीतिदर्शनादिति भावः ।। ३६६ ।।
सत्यप्रमोदटीका
हास्यत्वमेव दृष्टान्तेन व्यनक्ति मलिनेत्यादिना । संयोगेन कादाचित्केन । अपीत्यनेन किं वाच्यं अनाद्यविद्यामलिनायास्तव चित इति ध्वन्यते । स्यात् वास इति विपरिणामेनानुकृष्यते ।अपि किमुत लक्ष्म्यात्मकपीताम्बरधारिण इति सूचकः।।३६६ ।।
युक्तिमल्लिका
किं न कौसुम्भकुसुमरक्तिमा वस्त्रभूषणम् ।
न किं कुङ्कुमसौगन्ध्यं गन्धसौगन्ध्यवर्धनम् ।। ३६७ ।।
सुरोत्तमटीका
शुद्धवस्तुसमायोगेन श्लाघ्यतायामुदाहरणद्वयमाह ।। किं नेत्यादिना ।। वस्त्रभूषणं किं नेति सम्बन्धः । कुङ्कुमेन सौगन्ध्यं कुङ्कुम-सौगन्ध्यं कुङ्कुमसुगन्धयुक्तत्वमित्यर्थः । पाटलवर्णस्याप्युपलक्षणमेतत् । गन्धस्य सौगन्ध्यं सुगन्धत्वं कौसुम्भरसमिलितवस्त्रं कुङ्कुमरसोपेतचन्दनादिकं च राजादिभिरपि श्लाघ्यमेव दृष्टम् । अतः शुभगुणसमुदायैर्ब्रह्मणस्सर्वजनश्लाघ्यतैव स्यात् । न तु दूष्यत्वमिति भावः ।। ३६७ ।।
सत्यप्रमोदटीका
रक्तिमा आगन्तुकः सुन्दरवर्णः । सौगन्ध्यं आगन्तुक सुगन्धसम्बन्धः । किमुताप्राकृतस्वरूपरुक्मवर्णोपेतः ‘सद्देहः सुखगन्धश्चे’ति श्रुतिसिद्धो मुकुन्द इति भावः ।। ३६७ ।।
युक्तिमल्लिका
शौक्ल्योत्तेजकयोगे स्याद्वस्त्रस्य ह्यतिशुक्लता ।। ३६८ ।।
सुरोत्तमटीका
तदेव पुनर्दृष्टान्तान्तरमुखेन दर्शयति ।। शौक्ल्येति ।। शौक्ल्योत्तेजकयोगे रजकादिभिः क्रियमाणे ।। ३६८ ।।
सत्यप्रमोदटीका
उत्तेजकः प्रतिबन्धकनिरासकः । किमुत नित्य-निरस्तदोष इति हृदयम् ।। ३६८ ।।
युक्तिमल्लिका
शक्तिसौन्दर्यशौर्यादियोगात् श्लाघ्यतरो हरिः ।
ज्ञानेनाज्ञानादिदोषान्यद्दूरे द्रावयेत्प्रभुः ।। ३६९ ।।
सुरोत्तमटीका
ज्ञानादिगुणानामज्ञानादिदोषनिवारकत्वेनापि श्लाघ्यत्व-मित्याह ।। ज्ञानेनेति ।। आदिपदेन संशयविपर्ययनिद्रापशब्दादिदोषा गृह्यन्ते ।। ३६९ ।।
सत्यप्रमोदटीका
दोषे तद्विरोधिगुणाभावः प्रयोजकः । हरिस्तु शक्तिमुखसकलसद्गुणनित्ययोगेन श्लाघ्यतरः । अतो न तत्राज्ञानादि-दोषावकाशः । तदुक्तं ‘प्रभाजालोल्लासोपहतसकलावद्यतमसे’ इतीत्याह शक्तीति ।। ३६९ ।।
युक्तिमल्लिका
यदि स्वरूपज्ञानस्य नाज्ञानप्रतिकूलता ।
तदा मुक्तस्य चाज्ञानात्पुनस्संसारिताऽऽपतेत् ।। ३७० ।।
सुरोत्तमटीका
स्वरूपज्ञानमज्ञानाविरोधीति पक्षं दूषयति ।। यदीति ।। मुक्तस्य संसारान्मुक्तस्य अज्ञानात्स्वरूपज्ञानस्याज्ञानाविरोधित्वे विरोधि भूत-बाह्यज्ञानस्य मुक्तावसम्भवाच्चाज्ञानप्राप्तेरित्यर्थः ।। ३७० ।।
सत्यप्रमोदटीका
यदुक्तं अज्ञानस्य चिन्मात्राश्रयत्वं तत एव तयोरविरोधित्वं चेति तत्प्राग् दूषितत्वेऽपि दोषान्तरविवक्षया पुनराशङ्कते यदि इति । समाधत्ते तदेति । मुक्तस्य चिन्मात्रस्य । अज्ञानात् अज्ञानापातात् । संसारिता ‘सा संसार उदाहृतः’ इति अविद्याया एव त्वया संसाररूपत्वोप-गमात् मुक्तेः संसारत्वं चापतेदित्यर्थः ।। ३७० ।।
युक्तिमल्लिका
भ्रान्त्युत्थितस्य तत्रैव भूयो भूयो भ्रमोऽस्ति हि ।
नष्टाज्ञानस्य च भ्रान्त्या कल्पनाऽपि पुनः पुनः ।। ३७१ ।।
सुरोत्तमटीका
नन्वज्ञानस्य अविद्यानिवृत्तिलक्षणमुक्तौ नाशात्कथं पुनरज्ञानकल्पनेत्यत आह ।। भ्रान्त्युत्थितस्येति ।। भ्रान्त्युत्थितस्य बाधक-ज्ञानेन भ्रान्तेरुत्थितस्य सकृन्नष्टभ्रमस्य तत्रैव तस्मिन्नेवार्थे भूयो भूयः कालान्तरे भ्रमोऽस्ति हीति भावः । नष्टाज्ञानस्य प्राथमिकभ्रमनाशे नष्टाज्ञानस्य नष्टाज्ञानजातीयस्याज्ञानान्तरस्य पुनःपुनः कल्पनापि भ्रान्त्या इदं न जानामीत्यज्ञानकल्पकसाक्षिरूपभ्रान्त्या अस्ति हि । तथा च अज्ञाननाशा-नन्तरमपि यथा अज्ञानान्तराण्यपि तत्तद्भ्रान्त्या कल्प्यन्ते । एवं मुक्तेऽपि ब्रह्मणि स्वरूपज्ञानस्याज्ञानाविरोधित्वात् प्रत्युत तस्यैवाज्ञानभ्रान्तिरूपत्वा-त्तेनैवा ज्ञानान्तरकल्पनापि स्यात् । तेन च संसारोऽपि स्यादिति भावः ।। ३७१ ।।
सत्यप्रमोदटीका
‘अविद्याऽस्तमयो मोक्षः’ इति मदभ्युपगमात् कथं मोक्षे तदापादनमिति चेत् स्यादियमाशङ्का यदि प्रागस्तमिताया अविद्याया एव मोक्षे सद्भाव आपाद्येत । नैवं । किं त्वज्ञानान्तरस्यैवेति वक्तुं एकस्याज्ञानस्य नाशेऽपि तज्जातीयस्याज्ञानान्तरस्य पुनरुत्पत्तिं भ्रमदृष्टान्तेनोपपादयति । भ्रान्तीति । हि अनुभवसिद्धम् । ननु भ्रान्तेः पुनर्बाधानन्तरं कदाचिदुत्थान-दर्शनेऽप्यज्ञानस्य किमायातमित्यतो भ्रान्तेरज्ञानकार्यत्वात्तदुत्थाने तदुत्थान-स्यावश्यकत्वादित्याह भ्रान्त्येति । कल्पनाऽपि इत्यस्य अस्ति हीत्यनेना-वर्तितेनान्वयः ।। ३७१ ।।
युक्तिमल्लिका
अज्ञानभ्रान्तये दोषः कल्प्याऽज्ञानान्न चापरः ।
प्रातीतिकं च तेऽज्ञानं नापि स्वभ्रमकारणम् ।। ३७२ ।।
सुरोत्तमटीका
ननु दोषाभावान्न मुक्तावज्ञानभ्रान्तिरित्यत आह ।। अज्ञानभ्रान्तय इति ।। अज्ञानभ्रान्तये यो दोषः सः उपरिकल्प्यं यदज्ञानं तस्मादन्यो न । अज्ञानपरंपरायाः परेणानङ्गीकारात् । अतो मुक्तावपि कल्प्याज्ञानाख्यदोषस्य सत्त्वेनाज्ञानभ्रमस्स्यादिति भावः । एतेन सविलासा-विद्यायाः नष्टत्वात्कथं पुनरज्ञानज्ञानमिति निरस्तम् । प्राचीनसकलाज्ञान-नाशेऽपि मुक्तावेवाज्ञानभ्रमरूपेण स्वरूपज्ञानेन पुनस्तत्रैवाज्ञानान्तरकल्पनया संसारित्वापादनस्यापरिहारात् । प्राक्कल्प्याज्ञानस्यैव दोषत्वमित्युक्तम् । इदानीमज्ञानभ्रमे दोष एव नापेक्षित इत्याह ।। प्रातीतिकं चेति ।। प्रातीतिकं प्रतीतिसमसमयवर्ति न तु प्रतीतेः पूर्वं विद्यमानमित्यर्थः । अतस्स्वभ्रमकारण-मपि नेति योजना । कारणस्य पूर्वभावित्वनियमात् ।। ३७२ ।।
सत्यप्रमोदटीका
ननु मुक्तौ नाज्ञानभ्रान्तिः सम्भवति । भ्रान्तिं प्रति दोषस्य कारणत्वात् मुक्तौ च दोषाभावादिति चेन्न । अज्ञानविषयकभ्रान्तिं प्रत्यज्ञानस्यैव दोषतया कारणत्वं वक्तव्यम् । इतरस्याज्ञानकार्यत्वेन तत् कारणत्वासम्भवात् । मोक्षे च चिन्मात्राश्रिताज्ञानस्य त्वन्मते सम्भवेन तेन च भ्रान्त्युपपत्तिरिति नोक्तदोषनिस्तार इत्याह अज्ञानेति । वस्तुतोऽज्ञानभ्रमस्य प्रातीतिकस्य दोषापेक्षैव नेत्याह प्रातीतिकमिति । अज्ञानभ्रान्तेरेवाज्ञानत्वेन न स्वं प्रति स्वस्यैव कारणत्वम् । कारणस्य पूर्वभावित्वनियमात् इति भावः
।। ३७२ ।।
युक्तिमल्लिका
अतो भ्रान्त्येककल्प्यस्य कुत्र कुत्र न कल्पना ।
अनादि नास्ति चेत्किं नश्छिन्नं मायैव कल्प्यतां ।। ३७३ ।।
सुरोत्तमटीका
अतः अज्ञानभ्रमस्य दोषापेक्षत्वानङ्गीकारात् । भ्रान्त्येककल्प्यस्य केवलभ्रान्तिमात्रेण कल्प्यस्य कुत्र कुत्र न कल्पना । कल्पकज्ञानसद्भावे सर्वत्रापि कल्पना स्यादिति भावः । ननु मुक्तौ कल्प्यमानाज्ञानस्य कथमनादित्वमित्यत आह ।। अनादीति ।। किं न श्छिन्नमित्यनेन यथा तव भ्रमानन्तरभ्रमे कल्प्यमानमज्ञानं सादि । तथात्रापि सम्भवादिति सूचयति ।। ३७३ ।।
सत्यप्रमोदटीका
अतः स्वकल्पनायै दोषानपेक्षत्वात् । भ्रान्त्येक-कल्प्यस्य भ्रान्तिमात्रस्वरूपस्य प्रातीतिकस्य । कुत्र कुत्रेति । तथा च मुक्ता-वपि तत्कल्पनं सुलभमेवेति सुस्थं मुक्तस्य संसारित्वापादनमिति भावः । नन्वेवं मुक्तावज्ञानांतरोत्थानकल्पने तस्यानादित्वं न स्यादिति आक्षिपति अनादीति । परिहरति साद्येवेति । तथा चेष्टापत्तिरिति भावः । तावताऽपि संसारित्वापत्तेरपरिहारादित्याह किं न इति ।। ३७३ ।।
युक्तिमल्लिका
अतस्स्वरूपज्ञानेन ज्वज्ज्वालोज्ज्वलेन हि ।
अज्ञानोच्चाटनं वाच्यं यत्सङ्गान्मनसोऽपि चित् ।। ३७४ ।।
सुरोत्तमटीका
उपसंहरति ।। अत इति ।। अतस्स्वरूपज्ञानस्याज्ञाना-विरोधित्वे मुक्तावप्यज्ञानापातात् । यत्सङ्गात् यस्याश्चितस्सङ्गात् । मनसोऽपि चित् ज्ञानमर्थावभानशक्तिः अज्ञाननिर्हरणशक्तिश्चेत्यर्थः ।। ३७४ ।।
सत्यप्रमोदटीका
अतः अज्ञानाविरोधे मुक्तावप्यज्ञानापातात्, स्वरूप-ज्ञानस्य ज्ञानत्वस्यैवाभावप्रसङ्गाच्च । यत्सङ्गात् आत्मस्वरूपसंयोगसामर्थ्यादेव । चित् भावप्रधानो निर्देशः । चित्त्वं अर्थप्रकाशनेऽज्ञाननिवर्तने च शक्तत्वम् ।। ३७४ ।।
युक्तिमल्लिका
मायां व्युदस्य चिच्छक्त्येत्युक्तं वाक्यमनुस्मर ।
दोषेण शबलो दूष्यो गुणेन तु मनःप्रियः ।। ३७५ ।।
सुरोत्तमटीका
उक्तयुक्त्युपोद्वलकस्मृतिं च स्मारयति ।। मायामिति ।। ३७५ ।।
सत्यप्रमोदटीका
पूर्वोक्तस्मृतिसिद्धं चैतदित्याह मायामिति ।। ३७५ ।।
युक्तिमल्लिका
गोश्शाबल्यं न किं लाल्यं श्वित्रिणश्चित्ररूपवत् ।
नित्यमुक्तत्वशुद्धत्ववचनात्क्वास्य दोषिता ।। ३७६ ।।
सुरोत्तमटीका
दोषेण शबलत्वमेव दूष्यम् । न तु गुणेनेत्यत्र दृष्टान्त-द्वयमपि दर्शयंश्छबलत्वनिराकरणमुपसंहरति ।। दोषेणेति ।। गोः शाबल्यं शबलत्वम् । श्वित्रिणः कुष्ठव्याधिमतः चित्ररूपवत् नानारूपवत् । लाल्यं किं नेति व्यतिरेकदृष्टान्तः । अस्य परमात्मनः नित्यमुक्तत्वशुद्धत्ववचनात् ‘‘विद्यामयो यस्स तु नित्यमुक्तः अविकारोक्षरश्शुद्ध’’ इत्यादि वचनात् दोषिता क्व । दोषाशबलितत्वे इदं च हेतुद्वयमिति भावः ।। ३७६ ।।
सत्यप्रमोदटीका
शाबल्यमात्रं न दूषणमित्यत्र दृष्टान्तमाह गोरिति । तथा च विमतो नित्यमुक्तत्वादिगुणशबलो विष्णुः लाल्य एव गुणशाबल्यात् गोशाबल्यवत् व्यतिरेकेण श्वित्रिशाबल्यवदिति प्रयोगः सूचितः ।। ३७६ ।।
युक्तिमल्लिका
क्रियाऽऽवेशप्रसङ्गेन कर्तृत्वं न चितो यदि ।
तर्हि ज्ञप्तिश्च चिन्नस्यात्सा धात्वर्थक्रिया यतः ।। ३७७ ।।
सुरोत्तमटीका
ननु कर्तृत्वाङ्गीकारे क्रियावेशाख्यदोषः स्यात् । अतः कथं क्वास्य दोषितेत्युक्तमित्यत आह ।। क्रियावेशेति ।। क्रियावेशप्रसङ्गेन क्रियावेशाख्य दोषप्रसङ्गेन । तर्हि चित् ब्रह्मचित् ज्ञप्तिश्च न स्यात् । यतस्सा ज्ञप्तिः धात्वर्थरूपा क्रिया तत इति योजना ।। ३७७ ।।
सत्यप्रमोदटीका
ननु विष्णुर्दूष्यः दोषशबलत्वादिति सत्प्रतिपक्षता । न चासिद्धिः । तस्य जगज्जन्मादिकर्तृत्वाङ्गीकारात् । कर्तृत्वस्य च क्रियावेश-प्रसङ्गेन दोषत्वादित्याशङ्क्य समाधत्ते यदीत्यादिना । किं क्रिया धात्वर्थः परिस्पन्दो वा । नाद्यः ज्ञाप्तिस्वरूपत्वस्याप्यभावापातात् । ज्ञप्तेरपि धात्वर्थ-त्वादित्याह तर्हि ज्ञप्तिरिति । इदं चोपलक्षणं । अस्त्यादिधात्वर्थ-सत्तादेरप्यभावापातादिति बोध्यम् ।। ३७७ ।।
युक्तिमल्लिका
निष्क्रियं त्विति वेदस्य पक्षपातो न विद्यते ।
क्रियामात्रनिषेधित्वाद्द्वयं च प्रतिषेधति ।। ३७८ ।।
सुरोत्तमटीका
निष्क्रियं त्विति वेदस्य निष्कलं निष्क्रियं शान्तमिति वेदस्येत्यर्थः । प्रकृतोपयोगित्वात् तावत एव ग्रहणम् । पक्षपातः ज्ञप्तित्व-रूपक्रियामङ्गीकृत्य कर्तृत्वरूपक्रियानङ्गीकाररूपः । निष्क्रियमिति वाक्येन सामान्यतः क्रियानिषेधाङ्गीकारे कर्तृत्वनिषेधवत् ज्ञप्तित्वनिषेधोऽपि स्यात् । उभयोरपि क्रियात्वाविशेषादिति भावः ।। ३७८ ।।
सत्यप्रमोदटीका
तर्हि श्रुतिविरोधात् क्रियानिषेधोऽस्तु । ‘निष्कलं निष्क्रियं’ इति श्रुत्या क्रियानिषेधावगमादित्याक्षेपं परिहरति निष्क्रियमिति किमेषा श्रुतिः क्रियामात्रं प्रतिषेधति उत प्रमितेतरक्रियाम् । नाद्यः । ज्ञप्तित्वाभावरूपदोषतादवस्थ्यात् । कर्तृत्वमात्रं प्रतिषिध्य ज्ञप्तित्वाप्रतिषेधे कारणाभावात् । उभयोरपि धात्वर्थत्वाविशेषादिति भावः ।। ३७८ ।।
युक्तिमल्लिका
पराऽस्येति श्रुतिः प्राह सह ज्ञानबलक्रियाः ।
अतः श्रौतमिदं त्यक्त्वा स्वगोत्रकलहाक्षमा ।
श्रुतिर्निषेधतीशे द्वे पुण्यपापाभिधे क्रिये ।। ३७९ ।।
सुरोत्तमटीका
ननु ‘‘सत्यं ज्ञानमनन्तं ब्रह्मे’’ति ज्ञानत्वस्य विहित-त्वान्न तन्निषेधति । ज्ञानातिरिक्तक्रियायाः विधायकाभावात्तन्मात्रं निषेधतीत्यत आह ।। परास्येति ।। ज्ञानबलक्रियाः सहैकवाक्येनैव प्राह । अतः ज्ञानक्रिययोरेकवाक्योक्तत्वेन तयोरेकाङ्गीकारस्यापरनिराकरणस्य चायोगात् श्रौतमिदं ज्ञानं जगत्सृष्ट्यादिक्रियां च । स्वगोत्रकलहाक्षमा निष्क्रियश्रुत्या सर्वथा क्रियानिषेधे ‘‘स्वाभाविकी ज्ञानबलक्रिया चे’’ति श्रुत्यन्तरविरोधाख्य-कलहप्रसङ्गात् तत्राक्षमेत्यर्थः । स्वगोत्रकलहस्य लोकेपि निन्दितत्वात् श्रुत्यन्तरविरोधस्यापि गोत्रकलहत्वेन निर्देश इति ज्ञातव्यम् । पुण्यपापाभिधे क्रिये तयोरपि सत्क्रिया दुष्क्रियेति क्रियाशब्दवाच्यत्वात् ‘‘पुण्यपापे विधूये’’ति भगवज्ज्ञानिष्वपि विनिन्दिते भगवति सुतरां विनिन्दितत्वेन ते एव निषेधति । ईश इत्यनेन स्वोच्चारयितृत्वेन स्वस्या अपि ईशत्वात् । ईशे तस्मिन्क्रियामात्रनिषेधे स्वोच्चारणक्रियामेव न कुर्यादिति दोषान्तराच्च भीतिं सूचयति ।। ३७९ ।।
सत्यप्रमोदटीका
द्वितीयस्त्वनुमत इत्याह परेति । जगत्कर्तृत्वं विकारानापादकत्वाच्छ्रुतिप्रमितमेवेति न तन्निषेधः । अन्यथाऽन्यतरश्रुत्य-प्रामाण्यापत्तेरित्याह स्वेति । तर्हि निष्क्रियत्वश्रुतेः किं नैरर्थक्यं, नेत्याह निषेधति इति पुण्यपापे तयोर्वृद्धिक्षयहेतुत्वात् । परिपूर्णे वृद्धिक्षययोरभावात् । ‘न कर्मणा वर्धते नो कनीयानि’ति श्रुतिप्रतिषिद्धत्वादित्याशयः ।। ३७९ ।।
युक्तिमल्लिका
दुश्शब्दस्पर्शरूपादीन्विषयान्जडविग्रहं ।
अशब्दत्वादिका वाणी निवारयति वैदिकी ।। ३८० ।।
सुरोत्तमटीका
अशब्दमस्पर्शमरूपमित्यादि श्रुत्या ब्रह्मणः रूपादि-राहित्याख्यदोषः कथ्यत इति भ्रान्तिं निवारयितुमाह ।। दुःशब्देति ।। दुःशब्दस्पर्शरूपादीनित्यत्र दुरिति विशेषणं सर्वत्र सम्बध्यते । शब्दे दोषः तुच्छत्वशून्यत्वदुःखाधारत्वबन्धाधारत्वादिप्रतिपादकत्वं तादृशशब्दराहित्य-मशब्दश्रुतेरर्थः । स्पर्शादिषु प्राकृतत्वमेव दुष्टत्वं तद्राहित्यमेवास्पर्शमित्यादि श्रुतेरर्थः अशरीरमिति । श्रुतेर्जडविग्रहाभाव एवार्थः ।। ३८० ।।
सत्यप्रमोदटीका
श्रुतीनां पूर्वोत्तराविरुद्धो यथायोग्य एवार्थो वर्णनीय इति व्युत्पादितं न्यायं ‘अशब्दमस्पर्शमरूपमि’ति श्रुतावप्यतिदिशन् परकृत-तदपव्याख्यां प्रत्याख्याति दुःशब्देत्यादिभिः । अशब्दं इत्यत्र बहुव्रीहिणा शब्दाभाववत्त्वं तावद्भगवतः प्रतीयते । सर्वथा शब्दाप्रतिपाद्यत्वं अर्थोऽस्येति तु न सम्भवति । ‘सर्वे वेदा यत्पदमामनन्ती’ति स्मृते । ‘वेदा ह्येवैनं वेदयन्ती’ति श्रुतेश्च ।
‘सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ।
सर्वेषामपि वेदानामितिहासपुराणयोः’ ।। इति ।
तत्वनिर्णयोदाहृतप्रमाणेन तस्य गुणोत्कर्षे एव सर्वागमान महातात्पर्योक्ति विरोधात् । अतो दुरागमाज्ञेयत्वमेव तच्छब्दार्थो वाच्यः । ‘दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः’ इति प्रमाणं चात्र मानम् । एवं अरूपं इत्यस्य सर्वथा रूपाभाववत्त्वं अर्थो नोेपद्यते । ‘रुक्मवर्णं’ ‘श्यामाच्छबलं प्रपद्ये’ इत्यादिश्रुतेः ‘नानावर्णाकृतीनि’ इत्यादिस्मृतेश्च रूपप्रमितेः । अतः ‘भूतेभ्योऽसौ परो यतः । अरूपवानिति प्रोक्तः’ इति भाष्योदाहृतस्मृत्यनुसारेण प्राकृतरूपराहित्यमेवार्थो वाच्यः । एवं अस्पर्शमित्यादीनि च प्राकृतस्पर्शादिरहिततया व्याख्येयानि । तथा ज्ञाननन्दात्मकविग्रहवत्त्वेन प्रमितेऽस्मिन् अशरीरत्वं श्रूयमाणं जडविग्रह-राहित्यपरत्वेन नेयमित्यादि समर्थयितुं तावत्प्रतिजानीते अशब्दत्वादिकेति ।। ३८० ।।
युक्तिमल्लिका
न चेन्निष्कलशब्देन न स्याज्ज्ञानकलाऽपि ते ।
कथञ्चित्तत्समाधाने सर्वत्रैवं मतिं कुरु ।। ३८१ ।।
सुरोत्तमटीका
न चेदुक्तरीत्या दुश्शब्दादिराहित्यमर्थो न किं तु सामान्यतश्शब्दादिराहित्यमेवार्थश्चेत् । ‘‘निष्कलं निष्क्रियं शान्तमि’’त्यत्र निष्कलशब्देन समानन्यायत्वात् कलामात्रं निवार्यत इति ब्रह्मणि ज्ञानकलापि ते मते न स्यादिति सम्बन्धः । चतुष्षष्टिकलामध्ये ज्ञानस्यापि कलात्वेन पठितत्वात् । कथंचित्तत्समाधाने कलाशब्देन जडकला एव कथ्यन्ते न तु कलासामान्यमिति समाधाने । सर्वत्राशब्दमित्यादावपि ।। ३८१ ।।
सत्यप्रमोदटीका
उक्तन्यायं उक्तातिप्रसङ्गं स्मारयन्परेणापि पुनरङ्गी-कारयति न चेदिति । श्रुत्यन्तरप्रमितमपि श्रुत्यन्तरेण निषिध्यते चेदित्यर्थः । निष्कलशब्देन ‘निष्कलं निष्क्रियं शान्तं’ इति श्रुत्या । ते त्वत्संमता । ‘सत्यं ज्ञानमनन्तं’ इति श्रुतिसिद्धा च । कथञ्चित् प्राकृतकलाराहित्येन । सर्वत्र अशब्दमित्यादावपि । एवं पूर्वोत्तराविरुद्धप्रमाणान्तराविरुद्धार्थवर्णने ।।३८१।।
युक्तिमल्लिका
अशब्दश्रुतिलक्ष्यत्वे मुख्यार्थाशब्दता गता ।
अशब्दश्रुतिवाच्यत्वे मुख्यार्थाशब्दता गता ।। ३८२ ।।
सुरोत्तमटीका
अशब्दश्रुतेस्सामान्यतश्शब्दशून्यार्थकत्वे दोषान्तरं चाह ।। अशब्दश्रुतिलक्ष्यत्व इति ।। ब्रह्मणस्सर्वथा शब्दशून्यत्वं वदतः अशब्दमिति श्रुत्या ब्रह्म लक्ष्यं वा वाच्यं वा अबोध्यमेव वेति विकल्प्य पक्षत्रयेऽप्येकमेव दूषणमुक्तम् । मुख्यार्थोऽशब्द शब्दस्य मुख्यार्थभूताऽ-शब्दताशब्दमात्रागोचरता ।। गतेति ।। शब्दलक्ष्यत्वेऽपि गङ्गापदेन तीरस्येव शब्दगोचरत्वेन शब्दागोचरता गता । वाच्यत्वेऽपि सुतराम् ।। ३८२ ।।
सत्यप्रमोदटीका
उपपादनाय विकल्पयति । अशब्देति । सर्वथा शब्दसम्बन्धाभावमर्थं वदन् प्रष्टव्यः । किमशब्दशब्दस्य अयं लक्ष्यार्थः उत वाच्यः इति । आद्ये आह मुख्यार्थतेति । त्वयैव वाच्यार्थरूपपक्षस्य परित्यागादिति भावः । न द्वितीयः । एतच्छब्दवाच्यत्वस्यैव सद्भावे सर्वथा शब्दसम्बन्धाभावरूपो मुख्यार्थस्त्वदभिमतो गत इति भावः । यद्वा शक्ति-र्लक्षणा वा भवतु सम्बन्धमात्रस्याङ्गीकृतत्वेन सर्वथा सम्बन्धाभावपक्षः गत इत्युभयत्रैक एव दोषः ।। ३८२ ।।
युक्तिमल्लिका
अशब्दश्रुत्यबोध्यत्वे मुख्यार्थाशब्दता गता ।। ३८३ ।।
सुरोत्तमटीका
सर्वथा तच्छब्दाबोध्यत्वे तु प्रमाणाभावेनैवशब्दागोचरता गतेत्यर्थः ।। ३८३ ।।
सत्यप्रमोदटीका
अथैतद्दोषपरिहाराय बोध्यत्वमेव नाङ्गीक्रियते तर्हि प्रमाणाभावादेव मतं गतमित्याह अशब्देति ।। ३८३ ।।
युक्तिमल्लिका
यद्यशब्दश्रुतेरर्थस्सर्वथाशब्ददूरता ।
तर्हीयं च श्रुतिस्तत्र मानं नेति जितं परैः ।। ३८४ ।।
सत्यप्रमोदटीका
तदेव विवृणोति यदीति । जितं प्रतिप्रमाणाभावादेव ।। ३८४ ।।
युक्तिमल्लिका
कथञ्चिच्छब्दयोगे तु श्रुतेर्मुख्यार्थता गता ।
यथायोग्यार्थकथने जितं त्वत्प्रतिवादिभिः ।। ३८५ ।।
सुरोत्तमटीका
कथञ्चित् शब्दयोगे अशब्दत्वरूपस्वाभिलषितार्थ-सिद्ध्यर्थं अशब्दश्रुत्युक्तशब्दाख्यशब्दयोगे । सर्वथाशब्दगोचरत्वस्य त्वयैव परित्यक्तत्वात् श्रुतेर्मुख्यार्थता गता । त्वत्प्रतिवादिभिर्ब्रह्मणः सर्वसच्छब्द-वाच्यत्ववादिभिर्जितम् । त्वया स्वाभिलषितार्थसिद्ध्यर्थं क्रियमाणसंकोचवत् तैरपि दुश्शब्देत्याद्युक्तरीत्या संकोचस्य कर्तुं शक्यत्वात् । दोषवर्जिते ब्रह्मणि तैरुच्यमानदुश्शब्ददूरत्वरूपार्थस्यैव योग्यत्वादिति भावः ।। ३८५ ।।
सत्यप्रमोदटीका
यथायोग्येति । दुरागमावेद्यत्वरूपेत्यर्थः ।सङ्कोचस्यै-वाश्रयणीयत्वेऽस्मदुक्तसङ्कोचस्य प्रमाणानुगुणस्य योग्यत्वात्।।३८५ ।।
युक्तिमल्लिका
यद्यस्पर्शश्रुतेरर्थस्सर्वथा स्पर्शशून्यता ।
न स्पृशेत्तर्ह्यविद्याऽपि जितं त्वत् प्रतिवादिभिः ।। ३८६ ।।
सुरोत्तमटीका
अस्पर्शश्रुतेरपि सर्वथास्पर्शशून्यार्थकत्वे दोषमाह ।। यदीति ।। तर्हि अविद्या मायावादिभिः उच्यमाना न स्पृशेत् ब्रह्मणस्स्पर्शं न कुर्यात् । त्वत्प्रतिवादिभिः अविद्यास्पर्शदूरत्ववादिभिः ।। ३८६ ।।
सत्यप्रमोदटीका
अविद्या प्रकृतिः । उपलक्षणमेतत् । तस्य पादस्पर्शेन विष्णुपद्याः पावित्र्यं न सिद्धयेत् । व्यजनेन तद्वीजनाद्युपचारपूजा च निरर्थका स्यादित्यादिदूषणं द्रष्टव्यम् ।। ३८६ ।।
युक्तिमल्लिका
कथञ्चित्स्पर्शितायां तु श्रुतेर्मुख्यार्थता गता ।
यथायोग्यार्थकथने जितं त्वत्प्रतिवादिभिः ।। ३८७ ।।
सुरोत्तमटीका
कथंचित् स्पर्शितायां व्यावहारिकस्पर्शेन स्पर्शिताया-मित्यर्थः । मुख्यार्थता सर्वथास्पर्शशून्यत्वरूपमुख्यार्थता । यथायोग्यार्थकथने ब्रह्मणि यद्योग्यं तस्यैवार्थस्य कथने पूर्ववत् त्वत्प्रतिवादिभिर्जितम् । अप्राकृते ब्रह्मणि प्राकृतस्पर्शराहित्यस्याविद्याख्यप्रकृतिस्पर्शराहित्यस्य योग्यत्वादिति भावः ।। ३८७ ।।
सत्यप्रमोदटीका
कथञ्चित् व्यावहारिकस्पर्शमात्रेण । मुख्यार्थता स्पर्शसामान्याभावार्थत्वम् ।। यथायोग्येति दाहशोषणक्लेदनादिविकारा-नापादकेत्यर्थः ।। ३८७ ।।
युक्तिमल्लिका
यद्यस्ति मायिको देहश्श्रुतेर्मुख्यार्थता गता ।
सोऽपि नैवास्ति चेत्तर्हि माया वन्ध्याऽभवत्तव ।। ३८८ ।।
सुरोत्तमटीका
अशरीरश्रुतेरपि सर्वथा शरीरराहित्यार्थकत्वे दोषमाह ।। यद्यस्तीति ।। मुख्यार्थता सर्वथा शरीरराहित्यरूपमुख्यार्थता । सोऽपि मायिकदेहोऽपि । वन्ध्या स्वजन्यफलरहितेति यावत् । ब्रह्मणि देहं संपाद्य संसारानुभावकत्वं हि मायायाः फलम् । तदभावे सा व्यर्थेति भावः ।।३८८।।
सत्यप्रमोदटीका
देहोऽपि किं अमायिको नास्ति मायिकस्त्वस्तीति, उत सर्वथा नास्त्येवेति आहोस्वित् प्रमितस्य सद्देहस्य ज्ञानानन्दात्मकस्य सद्भावेऽपि प्राकृतो बन्धहेतुर्नास्तीति विकल्प्य नाद्य इत्याह श्रुतेरिति । मुख्यार्थता त्वदभिमता सर्वथा देहाभावरूपार्थता । द्वितीय आह मायेति । वन्ध्या ईश्वरदेहजननरूपस्वकार्यशून्या ।। तृतीयमङ्गीकारेण परिहरति यथायोग्येति ।। ३८८, ३८९ ।।
युक्तिमल्लिका
यथायोग्यार्थकथने जितं त्वत्प्रतिवादिभिः ।। ३८९ ।।
सुरोत्तमटीका
तदर्थं यथायोग्यार्थकथने । अप्राकृते ब्रह्मणि प्राकृतदेह-राहित्यस्यैव योग्यत्वात् अशरीरश्रुतेः प्राकृतशरीरराहित्यरूपार्थं वदद्भिः त्वत्प्रतिवादिभिर्जितमिति सम्बन्धः ।। ३८९ ।।
युक्तिमल्लिका
सर्वथा रूपराहित्ये रुग्मवर्णश्रुतिर्गता ।
मायारूपेण रूपित्वे श्रुतेर्मुख्यार्थता गता ।
यथायोग्यार्थकथने जितं त्वत्प्रतिवादिभिः ।। ३९० ।।
सुरोत्तमटीका
अरूपश्रुतेः सर्वथा रूपराहित्यार्थकत्वे दोषमाह ।। सर्वथेति ।। मायारूपेण मायाकल्पितरूपेण श्रुतेर्मुख्यार्थता सर्वथा रूप-राहित्यारूपमुख्यार्थता । यथायोग्यार्थकथने अप्राकृते ब्रह्मणि प्राकृतरूप-राहित्यस्यैव योग्यत्वात् तद्वदद्भिस्त्वत्प्रतिवादिभिर्जितमिति संबन्धः । अत एवादित्यवर्णं तमसः परस्तादिति श्रुतिः तमः पदोक्तप्रकृतिं निषिध्य रूपमाह ।। ३९० ।।
सत्यप्रमोदटीका
एवं अरूपमित्यत्रापि विकल्प्य सर्वथारूपराहित्यं श्रुतिविरोधेन परिहृत्य मायिकरूपवत्वं श्रुतेर्मुख्यार्थपरित्यागदण्डभयेन त्याजयित्वा परिशेषतः ‘आनन्दरूपमजरमि’ त्यादिश्रुतिसिद्धाप्राकृतरूपार्थ-कत्वं समर्थनीयमित्याह सर्वथेति ।। ३९० ।।
युक्तिमल्लिका
मायिकोऽर्थो निषेधस्य वारको यदि नेष्यते ।
घटे सत्यपि किं भूमिरघटेति न कथ्यते ।। ३९१ ।।
सुरोत्तमटीका
यदि मायिकोऽर्थः मायाकल्पितोऽर्थो देहादिः निषेधस्य अशरीरमिति निषेधस्य वारकः निवारको न । मायिकार्थे सत्यपि सामान्य-निषेधः कर्तुं शक्यत इति यावत् । दूषणमाह ।। घटे सत्यपीति ।। तर्हि मायिकघटे सत्यपि भूमिरघटेति किं न कथ्यते । मायिकस्य सामान्यनिषेध-विरोधित्वाभावे सत्येव घटे भूमिरघटेति कथनीयैव । न च तथा कथ्यते । अतो मायिकोऽपि पदार्थः सामान्यनिषेधविरोधीति भावः ।। ३९१ ।।
सत्यप्रमोदटीका
मायिकोऽर्थः मायाकल्पितः रूपस्पर्शदेहादिरूपः प्रागुक्तः । निषेधस्य अरूपमित्यादिसामान्यनिषेधस्य । वारकः विरोधी । घटे तन्मतेन मायिके । किं न कथ्यते इति आक्षेपः । तदपि कथ्येत । न तु तथाऽस्ति । अतः वारकत्वमङ्गीकरणीयमेवेति न पूर्वोक्तातिप्रसङ्गनिस्तार इति ।। ३९१ ।।
युक्तिमल्लिका
किं तु प्रमाणासिद्धोऽर्थस्स्वतस्तं च्यावयेद्बली ।
कन्यकाऽनुदरेत्यादौ यथा व्यवहृतौ सतां ।। ३९२ ।।
सुरोत्तमटीका
कस्तर्हि सामान्यनिषेधस्य सङ्कोचक इत्यत आह ।। किं त्विति ।। प्रमाणसिद्धो योऽर्थो घटादिः सः बली प्रामाणिकत्वेन बलवान् स्वतः स्वस्मात् तं सामान्यनिषेधं च्यावयेत् अन्यत्र नयेत् । तस्योदाहरणमाह ।। कन्यकेति ।। अनुदरा कन्यकेत्यादौ सतां व्यवहृतौ यथा तथात्रापीति सम्बन्धः। अनुदरा कन्यकेत्यत्र प्रमाणसिद्धसूक्ष्मोदरं विहायानुदरेति पदं तस्यामप्रामाणिकं स्थूलोदरमेव निषेधति । तथा अशब्दादि श्रौतसामान्यनिषेधोऽपि प्रामाणिकं नारायणादिशब्दं लक्ष्मीकरादिस्पर्शं रुग्मवर्णादिरूपं सहस्रशीर्षेत्यादिश्रुत्युक्ता-लौकिकदेहं च विहाय दुश्शब्दादीनेव निषेधतीति भावः ।। ३९२ ।।
सत्यप्रमोदटीका
यत्र क्वचित्सामान्यनिषेधस्य सङ्कोचः तत्र स विशेषस्य प्रमितत्वे एवेति दृष्टान्तमुखेन वक्ति कन्यकेति । तत्र तनूदरस्य प्रमितत्वेन उदरसामान्यनिषेधः तदितरस्थूलोदरनिषेधपरत्वेन सङ्कोच्यते । न तु तथाऽत्र मायिकरूपादिः प्रमितो येनात्रापि सङ्कोच इति भावः ।। ३९२ ।।
युक्तिमल्लिका
आदित्यवर्णं तमसः परस्तादिति वैदिकी ।
वागविद्यानिवृत्तौ च रूपमाह परात्मनः ।। ३९३ ।।
सुरोत्तमटीका
अधुना श्रुत्याश्रौतयुक्तिभिश्च भगवति अप्राकृतरूपादिकं साधयति ।। आदित्यवर्णमिति ।। तमसः परस्तादिति श्रुतौ कथितत्वाद-विद्यानिवृत्तौ चेत्युक्तम् । अतस्तन्न प्राकृतम् । नाप्यपारमार्थिकमिति सिद्धम् ।। ३९३ ।।
सत्यप्रमोदटीका
श्रुतियुक्तिसिद्धमप्राकृतरूपादिकं नैव निषेधार्हमित्याह आदित्यवर्णमिति । न चास्यापारमार्थिकत्वं शङ्क्यं अविद्यानिवृत्त्युत्तर-कालीनस्थितेः ‘तमसः पारे’ इति श्रुत्या वर्णितत्वात् । न ह्यपारमार्थिकस्या-विद्यकस्य तथात्वं सम्भवति ।। ३९३ ।।
युक्तिमल्लिका
रूपं च स्पर्शतो व्याप्तं तौ साकाराश्रितौ सदा ।
ततश्चैतन्यमात्रेऽपि श्रुता साकारता मता ।। ३९४ ।।
सुरोत्तमटीका
यद्रूपवत् तत्स्पर्शवदिति व्याप्तेः रूपं च स्पर्शतो व्याप्तमित्युक्तम् । तौ रूपस्पर्शौ । सदा साकाराश्रितौ । आकारवत्सु सावयववर्तुलाद्याकारवत्सुपृथिव्यप्तेजोवायुष्वेव विद्यमानत्वेन तयोस्साकार-पदार्थाश्रितत्वनियमादित्यर्थः । अस्त्वेवं किमत इत्यत आह ।। तत इति ।। श्रुता विश्वतश्चक्षुरित्यादिना चैतन्यमात्रेऽपि श्रुता साकारता मता युक्तेरपि संमता । युक्त्यापि तमसः परस्तादित्युक्ताप्राकृतप्रदेशेऽपि रूपस्पर्शाकाराणां साधितत्वात् । श्रुतेत्यनेन श्रुतिसंमत्या भगवति युक्तिसिद्धोऽसौ चाकारः । हस्तपादाद्याकार इति सूचितम् । ननु साकारत्वे कथं नानित्यत्वमिति चेत् परमाणोः पारिमाण्डल्यवत् हस्ताद्याकारस्यापि नित्यत्वादिति ब्रूमः । उभयो-रपि नित्यत्वे कथमवयवावयविभाव इति चेत् । न । आकाशतत्परिमाण-योर्गुणगुणिभाववदिति सन्तोष्टव्यम् ।। ३९४ ।।
सत्यप्रमोदटीका
गुणसौरभे ‘चितां साकारतां स्तुमः’ इत्यादिना निरवकारवस्त्वेव नास्तीत्युपपादनपूर्वकं चेतनमात्राणां करचरणाद्याकारः साधितः । परमचेतनस्य हरेरपि साकारत्वं ‘सहस्रशीर्षा पुरुषः’ ‘सर्वतः पाणिपादं तत्’ इत्यादिश्रुतिस्मृतिसिद्धं बाधकपरिहारपूर्वकं युक्तिभिः स्थापयति रूपं चेत्यादिना । विमतः आकारवान् स्पर्शवत्त्वात् घटवत् । न चासिद्धिः । स्पर्शवान् रूपवत्त्वात्तद्वदेव इति तत्सिद्धेः । न च तत्राप्यसिद्धिः । ‘रुक्मवर्णं कर्तारं’ ‘पश्यन्त्यदोरूपमदभ्रचक्षुषः’ इत्यादिश्रुतिस्मृतितः सिद्धेः । श्रुतिसिद्ध- मप्याकारं न्यायेनोपपादयितुमयं प्रयत्नः । एवं स्रष्टृत्वपालयितृत्ववेदोपदेष्ट-त्वादियुक्तिभिरपि साकारत्वसिद्धिः न्यायामृतोक्तदिशा ज्ञातव्या । न चारोपिताकारसिद्ध्यार्थान्तरता । तमसः परत्वोक्तेः । हिरण्मयः पुरुषो दृश्यते’ इति ज्ञानिनां वर्तमानतयाऽपरोक्षज्ञानविषयत्वोक्तेः । ‘य एनं विदुरमृतास्ते भवन्ति’ इति तज्ज्ञानस्य मोचकत्वोक्तेः ।। ३९४ ।।
युक्तिमल्लिका
अतस्स विश्वतश्चक्षुर्विश्वतोमुख एव च ।
विश्वतोबाहुरीशोऽसौ विश्वतःपात्परः प्रभुः ।। ३९५ ।।
सुरोत्तमटीका
अतः श्रुतियुक्तिमूलत्वात् । ‘‘विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुतविश्वतस्पादि’’ति । प्राक् सूचितश्रुतेः प्रतीकग्रहणाय विश्वतश्चक्षुरित्यादिविशेषणमुक्तम् ।। ३९५ ।।
सत्यप्रमोदटीका
साकारत्वे पुरुषसूक्तं प्रमाणयति विश्वत इति ।।३९५।।
युक्तिमल्लिका
मायाभावेऽपि यो देहो ज्ञानानंन्दात्मको ह्यसौ ।
सुखरूपं हि तद्बह्म ज्ञानरूपं न मृण्मयम् ।। ३९६ ।।
सुरोत्तमटीका
भगवतः अमायिकदेहवत्त्वे प्राक्सूचितां युक्तिं विशदय-न्युक्त्यन्तरमाह ।। मायाभावेऽपीति ।। तमसःपरस्तादिति श्रुत्या देहस्यापि मायारहितस्थले साधितत्वात् मायाभावेऽपीत्युक्तम् । तद्ब्रह्म सुखरूपं हि आनन्दो ब्रह्म कं ब्रह्म खं ब्रह्म विज्ञानमानन्दं ब्रह्म ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहमित्यादि श्रुतिस्मृतिप्रसिद्धिं हिशब्दद्वयेन सूचयति मृण्मयं न हीत्यत्र मृण्मयपदेन पाञ्चभौतिकदेहवत्त्वे घटादिवत् मृण्मयत्वस्याप्या-पत्त्याऽतिहीनता स्यादिति विपक्षे बाधकं च सूचयति
।। ३९६ ।।
सत्यप्रमोदटीका
नचायं विग्रहो भौतिक इति शङ्क्यम् । ‘तमसः-परमुच्यते’ ‘न सत्तन्नासदुच्यते’ इति गीतायां अप्राकृतत्वस्य अभौतिकत्वस्य चोक्तेः । अतः ज्ञानानन्दान्मकमेवेत्याह ज्ञानेति । हिशब्देन ‘आनन्दज्ञान-शक्त्यादिदेहं विष्णुं तु ये जनाः । ओहं भूतदेहं वा विदुस्ते चाधरं तमः’ इत्यादितत्वप्रदीपोदाहृतश्रुतिप्रसिद्धिमाह । मृण्मयं भौतिकम् ।। ३९६ ।।
युक्तिमल्लिका
सत्वादिमृण्मयान्तोऽयं मायासन्तान एव हि ।
मायामयमिदं विश्वं रोमकूपेऽप्यणुः किल ।। ३९७ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। सत्वादीति ।। सत्वगुणादिश्चासौ मृण्मयान्तश्चेति समासः । अयं महदहङ्कारादिजडप्रपञ्चः । मायासन्तानः मायोत्पन्नकार्यपरम्परा । इदं पूर्वोक्तं विश्वमखिलं मायामयं विष्णोः रोमकूपे अणुः किल अणुवत्तिष्ठति किल । किलेत्यनेन यत्र प्रविष्टः परमाणुवदिति भागवतवाक्यं सूचयति ।। ३९७ ।।
सत्यप्रमोदटीका
अप्राकृतत्वादेवाभौतिकत्वं च सिद्ध्यति भूतानां मायाऽऽख्यप्रकृतिकार्यत्वादित्याह सत्त्वादीति । सन्तानः उपादेयम् । अप्राकृतत्वं युक्त्या साधयति मायामयमिति । न हि ततोऽणुः तदुपादानं चेति सम्भवति ।। ३९७ ।।
युक्तिमल्लिका
महाकायस्य कायोऽसौ चिन्मयो न हि मृण्मयः ।
न यत्र श्रूयते माया सत्वादेस्तत्र का कथा ।। ३९८ ।।
सुरोत्तमटीका
एवं महाकायस्य नारायणस्यासौ कायः कोटिब्रह्माण्ड-विग्रह इति वासुदेवसहस्रनामोक्तकोटिब्रह्माण्डाश्रयकायः चिन्मय एव व्याप्त-परमात्मस्वरूपज्ञानानन्दात्मक एव न तु मृण्मयः । मृदुपलक्षितपञ्चभूतमयो न हि । सत्वगुणादिसकलमायासन्तानैर्मिलित्वा तद्रोम्णोऽपि कर्तुमशक्यत्वा-द्बृहच्छरीरश्रुत्युक्तमहाकायोऽसौ केन वा प्रकृतिविकारेण कर्तव्यः । अतः कशब्दोक्तसुखरूपत्वात् अयपयगताविति धातोर्ज्ञानरूपत्वाच्च काय इति युक्तिं हिशब्देन सूचयति । एवं शपदोक्तसुखं रपदोक्तक्रीडां ईरपदोक्तज्ञानं चादाय श्रुतौ शरीरमिति चोच्यत इति द्रष्टव्यम् । शीर्यत इति व्युत्पत्तौ श्रुत्युक्तबृह बृंह वृद्धाविति धात्वर्थबृहत्त्वानुपपत्तेः तन्वावृधानेति समाख्याश्रुतिविरोधाच्चेत्यपि द्रष्टव्यम् । एतदेव न वर्तते यत्र रजस्तमस्तयोस्सत्वं च मिश्रं ‘‘न च कालविक्रमः । न यत्र माया किमुतापरे हरेः रनुव्रता यत्र सुरासुरार्चिता’’ इति वचनान्तरप्राप्तयुक्त्यन्तरं सूचयन् स्पष्टयति ।। न यत्रेत्यादिना ।। ३९८ ।।
सत्यप्रमोदटीका
असौ अनन्तकोटिब्रह्माण्डाश्रयः । कैमुत्येनापि विग्रहस्याप्राकृतत्वं वक्ति नेति । तल्लोकोऽप्यप्राकृतो यदा किमु तल्लोकाधि-पतिरिति भावः ।। ३९८ ।।
युक्तिमल्लिका
स्वकार्यैस्सह माया यद्रोमकूपं न पूरयेत् ।
तस्य व्याप्तं शरीरं तच्चिद्रूपं न जडोद्भवम् ।। ३९९ ।।
सुरोत्तमटीका
यद्रोमकूपं मायातत्कार्यशून्यत्वेनोक्तवैकुण्ठस्थितनारायण-रोमकूपम् । तस्य नारायणस्य । पूर्वं प्रकृतिविकाराणामल्पत्वात् न महा-परिमाणभगवद्देहोपादानत्वमित्युक्तम् । अधुना मायातत्कार्यशून्यस्थलीयस्य कथं मायोपादानकत्वम् । उपादानरहितस्थले उपादेयस्य स्थित्ययोगादिति युक्ति-रुच्यत इति विवेकः ।। ३९९ ।।
सत्यप्रमोदटीका
तस्य नारायणस्य । व्याप्तं प्रकृतितोऽपि अनन्त-व्याप्तिमदनन्तम् ।। ३९९ ।।
युक्तिमल्लिका
सुखज्ञानसुखस्पर्शस्सुखगन्धस्सुखाकृतिः ।
नखादिस्वशिखान्तं च सुखतेजोमयः प्रभुः ।। ४०० ।।
सुरोत्तमटीका
तर्हि किं रूपोऽसावित्यतः प्राक्संक्षिप्योक्तं प्रपञ्चयति ।। सुखेत्यादिना ।। सुखमयाकारस्यानानुभविकत्वशङ्कापरिहाराय सुखतेजोमय इत्युक्तम् । सुखमप्राकृतम् । तेजश्चाप्राकृतं स तन्मय इत्यर्थः ।
‘‘दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सद्दशी सा स्याद्भासस्तस्य महात्मन’’
इति गीतोक्तं भगवत्तेजः कथं लौकिकम् । सूर्यतेजोतिरिक्ततेजसः लोकेऽदर्शनात् ।। ४०० ।।
सत्यप्रमोदटीका
सुखज्ञानेति । तथा हि तत्वप्रदीपोदाहृतपैङ्गिश्रुतिः ‘तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम् । चिदानन्दभुजं ज्ञानसुखैकपद-साङ्गुलिम् । आकेशादानखाग्रेभ्यः पूर्णचित्सुखशक्तिकमि’त्यादिः ।। ४०० ।।
युक्तिमल्लिका
अलौकिकशरीरेषु विद्यते ह्यशरीरता ।
यथाऽदृश्यशरीरोत्था दैवी वागशरीरवाक् ।। ४०१ ।।
सुरोत्तमटीका
एवमशरीरश्रुतिरप्यलौकिकविग्रहमादाय घटत इत्यत्र लौकिकदृष्टान्तमाह ।। अलौकिकशरीरेष्विति ।। अदृश्यशरीरोत्था अस्मदादिभिरदृश्यालौकिकदेवशरीरताल्वोष्ठपुटोत्थदैविकवाक् आकाशवाणी अशरीरवागित्युच्यते । सर्वथा शरीराभावे वागुच्चारणस्यैवायोगादलौकिक-शरीरोच्चरितैव वाक् यथा शरीरवाक् तथाऽलौकिकशरीरेषु भगवद्रूपेषु अशरीरता युक्तैवेति पूर्वेणान्वयः ।। ४०१ ।।
सत्यप्रमोदटीका
अशरीरश्रुतेर्विरोधं तद्गतिं दृष्टान्तोक्त्या वर्णयन्परिहरति अलौकिकेति । यथोक्तं भगवत्पादैः अरूपाधिकरणभाष्ये ‘विलक्षणरूपत्वात् । यथा चक्षुरादिप्रकाशे विद्यमाने वैलक्षण्यादप्रकाशादिव्यवहार’ इति ।। ४०१ ।।
युक्तिमल्लिका
विलक्षणशरीरत्वान्न तद्दुःखादिकारणम् ।
अजीर्णता मनुष्यान्नाद्देवान्नादजरोऽमरः ।। ४०२ ।।
सुरोत्तमटीका
तर्हि शरीरवत्त्वाद्दुःखादिकं स्यादित्यत आह ।। विलक्षणशरीरत्वादिति ।। तद्भगवच्छरीरम् । तत्र दृष्टान्तमाह ।। अजीर्ण-तेति ।। देवान्नात् अमृतात् । यथा मनुष्यान्नविलक्षणदेवान्नेन मनुष्यान्नव-द्दुःखदत्वं प्रत्युतदुःखकारणीभूतजरामरणादिपरिहारकत्वमेव । तथा मनुष्य-देहाद्विलक्षणो भगवद्देहो न दुःखदायी प्रत्युत महासुखहेतुः जरामरणाद्य-भावहेतुश्चेति भावः ।। ४०२ ।।
सत्यप्रमोदटीका
तत एव न दुःखादिप्रसक्तिरित्याह विलक्षणेति । नेति । प्रत्युत सुखप्रयोजकमेव । तदुक्तं न्यायामृते ‘अप्राकृतानन्दमयविग्रहस्य दुःखाभावेनैव व्याप्तेः ।’ इत्यादि । विस्तरस्तत्रैव ब्रह्मणो निराकारत्वभङ्गे । कारणवैलक्षण्ये कार्येऽपि तन्नियतमित्यत्र दृष्टान्तः अजीर्णतेति ।। ४०२ ।।
युक्तिमल्लिका
कर्तृता न चितश्चेत्स्यादकृतागमसङ्कटम् ।
कर्तृता मिलिते चेत्स्यादुभयोरपि कर्तृता ।। ४०३ ।।
सुरोत्तमटीका
क्रियावेशान्न कर्तृतेति मतं प्राग्दूषितम् । इदानीं चिन्मात्रस्य न कर्तृतेति मतं दूषयति ।। कर्तृतेति ।। चितश्चिन्मात्रस्य अकृतागम सङ्कटं न कृतमकृतम् । स्वेनाकृतसाधनस्य फलस्य मोक्षरूप-स्यागमः प्राप्तिस्स एव सङ्कटम् । चितोऽकर्तृत्वे तेनाकृतसाधनो मोक्षः कथं चिन्मात्रस्य स्यादिति भावः । मिलिते विशिष्टे उभयोर्विशेषणविशेष्यभूतयोः उपाधिचैतन्ययोः ।। ४०३ ।।
सत्यप्रमोदटीका
यच्चोच्यते मनःस्थं कर्तृत्वमात्मन्यध्यस्तं न तु तात्विकमिति तदिदानीं दूषयति कर्तृतेति । अकृतागमसङ्कटं उपलक्षणम् । कृतहानसङ्कटं चेति बोध्यम् । तदुक्तं न्यायामृते कर्तृत्वाध्यासभङ्गे ‘मनसः श्रवणादिकर्तृत्वे तत्फलं मोक्षोऽपि तस्यैव स्यात् ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायेन यस्मिन् साधनकृतिः तस्यैव फलभाक्त्वात् अन्यथा कृतहानाकृता-भ्यागमप्रसङ्गादि’ति । अथैतद्दोषपरिहाराय यदि मनोविशिष्टे जीवे कर्तृतोच्यते तर्हि उभयोरपि कर्तृताप्राप्त्या चितोऽकर्तृत्वं इति रिक्थं वच इत्याह मिलिते इति । विशिष्टे इत्यर्थः ।। ४०३ ।।
युक्तिमल्लिका
विशिष्टस्य हि कर्तृत्वे विशेष्यस्यापि कर्तृता ।
वस्तुतः कर्तृतां को वा वक्त्यनात्मनि युक्तिमान् ।। ४०४ ।।
सुरोत्तमटीका
तदेवोपपादयति ।। विशिष्टस्येति ।। अनात्मनि जडे । वस्तुतः स्वभावतः कर्तृताम् । अनेन घटश्चलतीत्यादौ कर्तृत्वमौपचारिकमिति सूचयति । युक्तिमानिति जडस्य कर्तृत्वं युक्तिविरुद्धमिति द्योतयितुं हेतुगर्भं विशेषणम् ।। ४०४ ।।
सत्यप्रमोदटीका
तत्कथमित्यत आह विशिष्टस्येति । इदं चोपेत्योक्तम् । वस्तुत आत्मन एव कर्तृत्वं नानात्मनः मनसः, यक्तिविरुद्धत्वादित्याह को वेति ।। ४०४ ।।
युक्तिमल्लिका
मर्त्यैर्वर्त्ये यत्स्वतन्त्रः कर्तेत्याहुर्विपश्चितः ।। ४०५ ।।
सुरोत्तमटीका
तामेव युक्तिं प्रदर्शयति ।। मर्त्यैरिति ।। मर्त्यैः मनुष्यैः वर्त्ये प्रवर्त्यमाने गमनच्छिदादिकर्मणि यद्यस्माद्विपश्चितः स्वतन्त्रः करणादीनां प्रेरकस्वेच्छाधीनप्रवृत्तिर्देवदत्तः कर्तेत्याहुः । कुठारेण च्छिनत्ति पादेन गच्छती-त्यादौ तस्मिन्नेव कर्तृपदप्रयोगात् । विशेषणीभूतपादादौ करण पदप्रयोगाच्चेति भावः ।। ४०५ ।।
सत्यप्रमोदटीका
मर्त्यैः चेतनैः वर्त्ये प्रवर्त्यमाने कर्मणि । विपश्चितः वैयाकरणाः ।। ४०५ ।।
युक्तिमल्लिका
यथा दण्डमृदाद्यर्थैर्विशिष्टो लक्षितोऽपि वा ।
कुलाल एव घटकृत्ते सर्वे कारकान्तरम् ।। ४०६ ।।
सुरोत्तमटीका
एतदेवोदाहरणमुखेन दर्शयति ।। यथेति ।। दण्ड-मृदाद्यर्थैर्घटकारण दण्डमृदादिवस्तुभिः आदिपदेन कालादिकं गृह्यते । तैर्विशिष्टो लक्षितोऽपि वेति यथा सम्भवमूह्यमिति भावः । कुलाल एव कुलालाख्यचेतन एव घटकृत् कुंभकारः । एवकारेण मृदादिकं व्यवच्छिनत्ति । ते सर्वे मृद्दण्डाद्याः कारकान्तरं कर्तृव्यतिरिक्तकारकाणि । कुलालः मृद्दण्डादि-निमित्तात् स्वशालायां घटं करोतीत्यभियुक्तप्रयोगदर्शनादिति भावः ।।४०६।।
युक्तिमल्लिका
देहान्तःकरणाद्यैश्च विशिष्टो लक्षितोऽपि वा ।
जीव एव तथा कर्ता तत्सर्वं कारकान्तरम् ।। ४०७ ।।
सुरोत्तमटीका
दृष्टान्तमुक्त्वा दार्ष्टान्तिकेऽपि योजयति ।। देहेति ।। तथा कुम्भकारवत् । तत्सर्वं देहान्तःकरणादिकम् ।। ४०७ ।।
सत्यप्रमोदटीका
विवृणोति यथेति । कुलालः दण्डाद्यैः घटं करोति इति हि सार्वजनीनः प्रत्ययः । न तु पुनर्दण्डादिकं कुलालेन करोतीति । कारकान्तरं समुदायैकवचनं कर्मकरणादिकारकान्तराणि । जीव एवेति । तदुक्तं महाभारततात्पर्यनिर्णये ‘प्रत्यक्षैषा कर्तृता जीवसंस्था’ इति । सूत्रं च ‘कर्ता शास्त्रार्थवत्त्वात्’ इति । विशिष्टो वा लक्षितो वेत्यनास्था । सर्वथा जडस्य तस्य कर्तृत्वं न सम्भवत्येवेत्यत्र तात्पर्यम् ।। ४०६, ४०७ ।।
युक्तिमल्लिका
मनो हि करणं तस्य देहोऽधिकरणं स्मृतम् ।
कर्तृत्वे कोऽस्ति दायादी मायाऽपि करणान्तरम् ।। ४०८ ।।
सुरोत्तमटीका
तदेव दर्शयति ।। मनो हीति ।। तस्य चेतनस्य मनः-करणम् । हीत्यनेन मनसः अन्तःकरणत्वं सर्वजनसिद्धमिति दर्शयति । देहः अधिकरणं देहे हृद्गुहायां जीवस्य स्थितत्वेन प्रसिद्धत्वात् । कर्तृत्वे चैतन्यनिष्ठकर्तृत्वे । दायादी कर्तृत्वैकांशभागी कोऽस्ति न कोऽपीत्यर्थः । अविद्या कर्त्री भविष्यतीत्यत आह ।। मायापीति ।। मायया शबलितस्सन् देहे स्थितः अन्तःकरणेन चक्षुषा च स्त्र्यादिविषयं पश्यतीति प्रयोगान्मायाया अपि करणत्वमेवेति भावः । अथवा मायावशादिति प्रयोगदर्शनात्करणान्तरं कारकान्तरं वा । कर्मणि कर्तृत्वमनङ्गीकुर्वतः करणेषु कर्तृत्वाङ्गीकारः स्वन्यायविरुद्धश्चेत्यपि ज्ञेयम् । देहविशिष्टस्यैव यजमानस्य यागकर्तृत्वे तद्देहा-पाये सति स्वर्गाख्यफलभोक्तृत्वस्याकस्मिकत्वप्रसङ्गाच्च ।। ४०८ ।।
सत्यप्रमोदटीका
कारकन्तरत्वं मनआदीनां विवृणोति मन इति । तदुक्तं गीताभाष्ये ‘समश्चाभिमानो मनसि काष्ठादिवदि’ति । अधिकरणं कर्तृद्वारा क्रियाश्रयः न तु साक्षात् । अधिकरणस्य तल्लक्षणत्वात् । स्मृतमिति तदुक्तं गीतायां ‘अधिष्ठानं तथा कर्ता करणं च पृथग्विधं’ इति । अधिष्ठानं भूमिदेहादिः । कर्ता स्वतन्त्रो विष्णुः । पराधीनकर्ता जीवः । दायादी कर्तृत्वैकांशभाग् । मायाऽपि प्रकृतिरपि । ‘पुरुषः प्रकृतिस्थो हि भुंक्ते प्रकृतिजान् गुणान्’ इति गीतायां भोजनादिक्रियाकर्तुर्जीवस्य प्रकृतिस्थ इति विशेषणेन प्रकृतेरप्यधिष्ठानत्वस्य लाभात् ।। ४०८ ।।
युक्तिमल्लिका
विशिष्टार्थविमर्शेऽभूद्यताश्चिन्मात्रकर्तृता ।
मुसलाच्च त्वचं कश्चिन्मोचयेत्तद्विचक्षणः ।। ४०९ ।।
सुरोत्तमटीका
मायान्तःकरणदेहादीनां मायावाद्यभिमतविशेषणानां कर्तृव्यतिरिक्तकारकान्तरत्वनिदर्शनेनाकर्तृत्वोपपादनस्वकौशलं ग्रन्थकारः स्वयमेव स्तौति । विशिष्टार्थेति । विमर्शे विचारे यतश्चिन्मात्रकर्तृताभूत् । तत्तस्माद्विचक्षणः मुसलाच्च त्वचं मोचयत् । अन्यासाध्यमपि कार्यं कस्य चित्कुशलस्य साध्यं स्यादिति भावः ।। ४०९ ।।
सत्यप्रमोदटीका
विशिष्टार्थः देहेन्द्रियादिविशिष्टचेतनः । तस्य विमर्शे प्राप्ताप्राप्तविवेकेन विचारे कृते सति । चिन्मात्रकर्तृतेति ज्ञानेच्छाप्रयत्नवत एव कुलालादेः कर्तृत्वदर्शनेन दण्डादेरचेतनस्य विशेषणस्य तददर्शनेनेति भावः । एवं जीवस्य मुक्तौ प्राकृतदेहेन्द्रियाद्यभावेऽपि जक्षन् क्रीडन्नित्यादिश्रुतेः कर्तृत्व दर्शनात् संसारेऽपि जीवस्य देहादुत्क्रमणे देहादीनां कर्तृत्वादर्शनाच्चेत्यन्वय-व्यतिरेकाभ्यामिति भावः । विचक्षणः विशिष्टस्य कर्तृत्वे प्राप्ते, सति च विशेषणे तद्बाधे, विशेष्यचेतनगतमेव तत्पर्यवस्यतीति निर्णये कुशलः ग्रन्थकार इति ध्वनिः ।। ४०९ ।।
युक्तिमल्लिका
अतो विशिष्टकर्तृत्ववादं शिष्टा न मेनिरे ।
सहकार्येव तत्रापि जडं कर्ता तु चेतनः ।। ४१० ।।
सुरोत्तमटीका
उपसंहरति ।। अत इति ।। अतः विशेषणानां सर्वेषां कारणान्तरेषु प्रवेशात् । तत्रापि विशिष्टेऽपि जडमुक्तरीत्या सहकार्येव । कर्ता तु चेतन एवेति सम्बन्धः ।। ४१० ।।
सत्यप्रमोदटीका
उपसंहरति अत इति ।। ४१० ।।
युक्तिमल्लिका
द्वावुद्दिश्य कृते यागे देवतात्वं द्वयोरपि ।
द्विदैवत्यं हि तत्कर्म सङ्कल्पो देवते इति ।। ४११ ।।
सुरोत्तमटीका
नन्वग्नीषोमयो र्देवतात्ववत् कर्तृत्वं व्यासज्यवृत्ति कुतो नेति चेत् । न । कारणविभागप्रदर्शनेन दूषितत्वात् । अग्नीषोमावुद्दिश्य क्रियमाणकर्मणः द्विदेवतात्वस्यैव तत्कर्तृभिरुच्यमानत्वाद्दृष्टान्तोऽपि न घटत इत्याह ।। द्वावुद्दिश्येति ।। देवते अग्नीषोमौ देवते ।। ४११ ।।
सत्यप्रमोदटीका
अग्नीषोमीययागे देवतात्वस्य व्यासज्यवृत्तित्ववत् कर्तृत्वस्य देहचेतनोभयवृत्तित्वशङ्कां वैषम्यप्रदर्शनेन परिहरति द्वाविति । युक्तं तस्य यागस्य द्विदैवत्यं द्वयोरप्युद्देशेन कृतत्वात् सङ्कल्पस्य च तथाविधत्वात् । प्रकृते तु देहादीनां जडत्वेन तेषु कर्तृत्वस्यासम्भवेन कारकान्तरत्वस्यैवानु-भवादित्याह उद्दिश्येति ।। ४११ ।।
युक्तिमल्लिका
समूहालम्बनज्ञाने विषयत्वं यथा पृथक् ।
तथा विशिष्टविज्ञाने विषयत्वं पृथक्पृथक् ।। ४१२ ।।
सुरोत्तमटीका
दृश्यत्वं विशिष्टस्यैव न विशेष्ये अतोमिथ्यात्वसाधक-दृग्विषयत्वरूपदृश्यत्वस्य न चिन्मात्रे व्यभिचार इति यन्मायिमतं तदपि दृगविषयत्वे अप्रामाणिकत्वाख्यदोषापत्त्या दूषयति ।। समूहेति ।। दण्डीति विशिष्टज्ञाने दण्डदेवदत्ततत्सम्बन्धानामपि पृथक्पृथग्विषयत्वदर्शनात् ।।४१२।।
युक्तिमल्लिका
व्यासज्यवृत्तिधर्मोऽयं न हि द्वित्व पृथक्त्ववत् ।। ४१३ ।।
सुरोत्तमटीका
अयं विषयत्वरूपधर्मः । द्वित्वेति स्वमतरीत्या पृथक्त्वेति पररीत्योक्तमिति द्रष्टव्यम् । अन्यथा विशेष्यवद्विशेषणस्यापि दृश्यत्वाभावेन न क्वापि विशेषणस्य मिथ्यात्वमिति भावः । यदि च दण्डादे-र्विशेषणस्य पृथक्प्रतीत्या दृश्यत्वं तर्हि ब्रह्म विशिष्टप्रतीतावपीदं विशेष्यमिदं विशेषणमिति शिष्यं प्रति बोधनसमये ब्रह्मचितोऽपि पृथक्प्रतीत्या दृश्यत्वमिति समम् । किं च यया युक्त्या विशेष्यं दृश्यत्वाद्बहिष्करोऽपि तयैव युक्त्या साधिष्ठानत्वनियतभ्रमेऽपि विशेषणस्य दृश्यत्वाद्बहिष्कारसम्भवेन दृष्टान्तस्य साधनवैकल्यापरिहारात् । वस्त्रपिहितदेवदत्तानुल्लेखे सति विशिष्टप्रतीत्यदर्शनेन त्रितयोल्लेखस्याप्यावश्यकत्वात् । उल्लेख्यत्वातिरिक्तविषयत्वाभावाच्च । अखण्डार्थवादिना त्वया वेदान्तानां ब्रह्मचिन्मात्रविषयकनिर्विकल्पकप्रमाजनक-त्वाङ्गीकारेण चिन्मात्रे व्यभिचारस्य वज्रलेपायितत्वात् ।। ४१३ ।।
सत्यप्रमोदटीका
विषयत्वमपि न व्यासज्यवृत्ति समूहालम्बनज्ञानस्थल इव विशिष्टविषयकज्ञानस्थलेऽपि विषयत्वस्य विशेषणविशेष्यतत्सम्बन्धेषु पृथक् पृथक् प्रत्येकमेव विश्रान्तत्वादित्याह समूहेति । अयं विषयत्वरूपधर्मः द्वित्ववत् पृथक्त्ववद्वा न हि व्यासज्यवृत्तिधर्म इति योजना । अयं भावः । परेण मिथ्यात्वे दृश्यत्वं हेतूकृतम् । विशिष्टं च मिथ्या । तत्र दृग्विषयत्वं विद्यमानं किं विशेष्ये चिन्मात्रे उत विशेषणे देहादिप्रपञ्चमात्रे इति विचार-णीयम् । नाद्यः अनैकान्त्यात् प्रपञ्चस्य मिथ्यात्वासिद्ध्यापत्तेश्च । न द्वितीयः विशेष्यस्यात्मनोऽसिद्ध्यापत्तेः । ज्ञानं विना वस्तुनोऽसिद्धेः । त्वदभिमत-स्वप्रकाशत्वस्य निराकरणात् । परेण चरमवृत्तिं प्रति अखण्डस्य चिन्मात्रस्य विषयत्वाङ्गीकाराच्च । अतः विशिष्टज्ञाने प्रत्येकं उभयोर्विषयत्वमङ्गीकरणीयम् । व्यासज्यवृत्तित्वं तु तस्यानुभवपराहतम् । एवं कर्तृत्वस्यापीति । द्वित्वं इति स्वरीत्या । पृथक्त्वं च पररीत्या ।। ४१३ ।।
युक्तिमल्लिका
केवलस्य ह्यकर्तृत्वे किं नश्छिन्नं हरिश्च नः ।
कालप्रकृतिकर्माद्यैस्सहैव कुरुते जगत् ।। ४१४ ।।
सुरोत्तमटीका
युक्तियुक्तत्वाद्विशेष्यस्यैव कर्तृत्वमुपपादितम् । कारकान्तर सहकारस्तु कर्तुर्भगवतोऽप्यस्तीत्याह ।। केवलस्येति ।। केवलस्य कारकान्तरासहकृतस्य । कालप्रकृतिविशिष्टस्य हरेः कर्तृत्वमस्त्विति भावः ।। ४१४ ।।
सत्यप्रमोदटीका
अस्तु वा जडसहकारवतः एवात्मनः कर्तृत्वम् । तथाऽपि भगवतो जगत्कर्तृत्वं निष्प्रत्यूहमेव । स्वेच्छया तेन स्वाधीनकाल-प्रकृतिकर्मादिसहकारस्य स्वीकारात् इत्याह केवलेति । न चैवमीश्वरस्य न्यूनता । सहकारिणामपि तदधीनसत्तादिमत्त्वात् । एवंविधसाधन-सम्पत्तेरैश्वर्यद्योतकत्वात् । तदुक्तं भगवत्पादैः
‘साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते ।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेदि’ति ।। ४१४ ।।
युक्तिमल्लिका
देहान्तःकरणाद्येव कर्तृत्वे घटकं यदि ।
आनन्दमात्रकरणदेहादेरस्तु कर्तृता ।। ४१५ ।।
सुरोत्तमटीका
शङ्कते ।। देहेति ।। परिहरति ।। आनन्दमात्रेति ।। आनन्दमात्राः करणदेहादयो यस्येति विग्रहः ।। ४१५ ।।
सत्यप्रमोदटीका
ननु च न यादृशतादृशसहकारः कर्तृत्वघटकः । किं तु देहान्तःकरणादिसहकार एवेति चेत् । एवमपि ईश्वरस्य जगत्कर्तृत्वं निराबाधं तस्य आनन्दमात्रदेहादिकरणसद्भावादित्याह देहेति ।। ४१५ ।।
युक्तिमल्लिका
विदितोऽसि भवान्साक्षात्पुरुषः प्रकृतेः परः ।
केवलानुभवानन्दस्वरूपस्सर्वबुद्धिदृक् ।
इति भागवते प्रोक्तेः का नो हानिरतो वद ।। ४१६ ।।
सुरोत्तमटीका
आनन्दमात्रदेहत्वे प्रागुक्तभागवतवाक्यं स्मारयन्निष्टापत्तिं करोति ।। विदितोऽसीति ।। नोऽस्माकं तव वादिनाम् ।। ४१६ ।।
सत्यप्रमोदटीका
तत्सद्भावे भागवतोक्तिं स्मारयति विदित इति
।। ४१६ ।।
युक्तिमल्लिका
यदि दृष्टं जडस्यैव सहायत्वं गृहे गृहे ।
तदा दरिद्रदेशस्थः स्वर्णकुम्भजलं त्यजेत् ।। ४१७ ।।
सुरोत्तमटीका
पुनरपि शङ्कते ।। यदि दृष्टमिति ।। जडस्य देहस्य सहायत्वं कर्तृत्वोपयोगित्वम् । सोपहासमुत्तरमाह ।। तदेति ।। स्वग्रामे मृद्धटस्यैव जलाहरणोपयोगित्वदर्शनात् सभाग्यग्रामे ततोऽप्युत्तमस्वर्णघटोदकं त्यजेत् । स्वग्रामे अदृष्टत्वस्य तत्रापि साम्यात् । कार्यस्य ततोऽतितरां सम्भवे स्वग्रामे अदृष्टिरप्रयोजिका चेत् प्रकृतेऽपि दीयतां दृष्टिरिति भावः ।। ४१७ ।।
सत्यप्रमोदटीका
ननु च आनन्दमयस्य देहादेः सहायत्वं नाङ्गीक्रियते प्रतिगृहं जडस्यैव तस्य सहायत्वदर्शनादिति क्षुद्राशङ्कामनूद्य सोपहासं धिक्करोति यदीति । यज्जलं तन्मृद्धटस्थमिति दरिद्रगृहेषु सहचारदर्शनात्स्वर्णकुम्भस्थं जलमेव नेति निश्चित्य दरिद्रस्तत्परित्यजेत् । अथ ब्रूयात् न सहचारदर्शनमात्रं व्याप्तिनिश्चायकं किं त्वव्यभिचारादिसम्पत्तौ सत्यामिति तदा प्रकृतेऽपि दीयतां सैव दृष्टिरिति भावः । तदुक्त भगवत्पादैः ‘सहदर्शनमात्रेण न व्याप्ति-रवसीयते’ इति ।। ४१७ ।।
युक्तिमल्लिका
सुवर्णगरुडस्थस्य यात्रा स्वस्था भवेत्किल ।
साक्षाद्गरुडकण्ठस्थश्चित्रं यात्राऽक्षमः किल ।। ४१८ ।।
सुरोत्तमटीका
तदेवोपपादयति ।। सुवर्णेति ।। स्वस्था भवेत् । चेतनभूतावेशादिना । यात्रायामक्षमः यथा जडस्य गरुडाकारस्य चेतनानु-ग्रहमात्रेण कार्यकारित्वे साक्षाच्चेतनगरुडस्य सुतरां कार्यकारित्वं तथा जडदेहात् चिदात्मकदेहस्य कार्यकारित्वं कैमुत्यसिद्धमिति भावः ।। ४१८ ।।
सत्यप्रमोदटीका
अचेतनस्यैव सहायत्वं न चेतनात्मकस्येति कुहकशङ्कां दृष्टन्तोक्त्या प्रत्याचष्टे सुवर्णेति । यात्रायामक्षमः इति विग्रहः
।। ४१८ ।।