किं च निर्विकृतेरेव निमित्तत्वं परात्मनः

जन्मादिनये परभाष्यस्य उत्सूत्रत्वम्

युक्तिमल्लिका

किं च निर्विकृतेरेव निमित्तत्वं परात्मनः ।

कुलालावद्यतो युक्ता तदयुक्ता तटस्थता ।। १३४ ।।

सुरोत्तमटीका

अधुनाऽस्मादप्यधिकरणादग्रे जन्मादिसूत्र एवोत्सूत्र-भाष्यत्वं दर्शयति ।। किञ्चेति ।। यतः यस्मात् । निर्विकृतेरेव निर्विकारस्यैव निमित्तत्वं जगन्निमित्तकारणत्वम् । तत्तस्मात् । तटस्थता जगज्जन्मादि-कारणत्वलक्षणस्याविद्यानिष्ठता । जन्माद्यस्य यत इति सूत्रे जगदुपादानत्वं यद्यभिप्रेतं तदा निर्विकारे ब्रह्मण्ययोगात् स्यात्कथं चित्तटस्थता । कुलालव-न्निमित्तकारणत्वस्यैव सूत्रार्थत्वसम्भवात् व्यर्थं तटस्थत्वकथनम् । नहि सूत्रकारः आदिसूत्रे ब्रह्मप्रस्ताव्याविद्याया लक्षणं ब्रूयात् । अतोप्युत्सूत्रभाष्यं परकीयभाष्यमिति भावः ।। १३४ ।।

सत्यप्रमोदटीका

 उत्सूत्रभावस्य मायिभाष्यव्यापित्वं तदीयजन्माधि-करणीयभाष्यनिदर्शनेनापि साधयति निर्विकृतेरित्यादिना । ‘तस्मादशेषक-र्तैको निर्विकारो जगत्पतिः’ इति अनुव्याख्यानं हृदि कृत्वाऽऽह कुलालव-दिति ।। कारणं भवत् उपादानं निमित्तं वा भवेत् । ब्रह्म तु न उपादानं निर्विकारत्वात् । तच्च अपराधीनत्वात् । तदुक्तं सुधायां सकलोऽपि खलु विकारोऽपराधीनो भवति’ इति । चेतनत्वादेव च तस्योपादानत्वं न सम्भवति । ‘न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनं’ इत्यनुव्याख्यानोक्तेः । अतो निमित्तकारणत्वमेवैष्टव्यम् । तच्च ब्रह्मणि उपपन्नतरमिति न सूत्रे लक्षणाश्रयणं युक्तमिति भावः ।। १३४ ।।

युक्तिमल्लिका

पञ्चमी च निमित्तेऽस्तु यदि पाणिनिशिक्षया ।

उपादाने पञ्चमीयं तस्य शिक्षान्तरं स्मर ।। १३५ ।।

सुरोत्तमटीका

 पञ्चमी यत इति पञ्चमी । ननु जनिकर्तुः प्रकृतिरिति सूत्राज्जनिधातु समायोगे पञ्चम्या उपादानपञ्चमीत्वनियमात प्रकृते च यतो वा इमानि भूतानि जायन्त इति जनिधातुश्रवणात्कथं निमित्तपञ्चमीत्वमिति शङ्कां निराकरोति ।। यदीति ।। इयं छन्दसि विद्यमाना । तस्य पाणिनेः ।। १३५ ।।

सत्यप्रमोदटीका

 ननु ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतौ यत इति पञ्चमी श्रूयते जनिधातुश्च । पाणिनिना‘जनिकर्तृः प्रकृतिरि’ति सूत्रेण प्रकृतिलक्षणउपादाने पञ्चमीविहिता । अतः तत्सूत्रविरोधात्कथं श्रुतेः निमितत्वं व्याख्यानार्हं इत्यतः चतुर्धा तन्निरस्यति पञ्चमीति । स्यादप्येवं कथञ्चिद्यदि यतः इति तसिल्प्रत्ययान्तं स्यात् । किं तु तसिप्रत्ययान्तमेव । तसिश्च सार्वविभक्तिक इत्यत्र व्याकरणसंमतिमाह शिक्षान्तरमिति ।। १३५ ।।

युक्तिमल्लिका

यतः पदं यतः प्रोक्तं तेन सार्वविभक्तिकम् ।

तदपोसृजतेत्याद्या प्रथमा च सहस्रशः ।। १३६ ।।

अतो विभक्तिव्यत्यासोऽप्यत्र सर्वत्र शोभते ।

सोऽपि च्छन्दसि तेनोक्तस्ततः काऽनुपपन्नता ।। १३७ ।।

सुरोत्तमटीका

 यतः यस्मात् । तेन पाणिनिना । यतः पदं यत इति तसिप्रत्ययान्तपदम् । सार्वविभक्तिकं सर्वविभक्तिषु वर्तमानम् । यतश्च तदपोसृजतेत्याद्या प्रथमा कर्त्रर्थकप्रथमाविभक्तिस्सहस्रशोस्ति । आदिपदेन तत्तेजोसृजतेत्यादेर्ग्रहणम् । अतः कारणात् । अत्र यतः पदघटितवाक्येषु सर्वत्र तत्र तत्र विद्यमानेषु सर्वेष्वित्यर्थः । विभक्तिव्यत्यासः एकविभक्तेर्विभक्त्यन्त-रात्मकत्वम् । पाणिनिना तसिप्रत्ययान्तस्य सार्वविभक्तिकत्व कथनात् । यतो वा इमानि भूतानि जायन्त इत्यत्रापियत इति पदं येनेति कर्त्रर्थकतृतीयान्त-पदमपि स्यात् । कर्तृकरणयोस्तृतीयेति कर्तरि तृतीयाया अनुशासनात् । अत एव प्राक्कुलालवन्निमित्तत्वमिति कर्तृत्वमेव प्रस्तावितम् । तदपोसृजतेति श्रुत्यन्तरे ब्रह्मणस्स्पष्टं कर्तृत्वोक्तयाचात्र कर्त्रर्थकतृतीयाविभक्तेरेवन्याय्यत्वात् । उपलक्षणं चैतत् । अस्यामेव श्रुतौ येनेति स्थितिप्रकरणे कर्तृत्वस्योक्तत्वात् । न हि तत्र कर्तुरत्रोपादानत्वमुचितमित्यपि ग्राह्यम् । सोपि विभक्ति-व्यत्यासोपि । तेन पाणिनिना । छन्दस्युभयथा व्यत्ययोबहुलं सुपांसुलुगित्यादि तद्वचनाच्छन्दसि विभक्तिव्यत्यासोपि न्याय्य इति भावः । ततस्तस्मात् पूर्वोक्तनिमित्त चतुष्टयात् ।। १३६,१३७ ।।

सत्यप्रमोदटीका

 अतोऽत्र तृतीयाविभक्त्याश्रयणात् ‘कर्तृकरणयो-स्तृतीये’ति कर्तृत्वमेव सिध्यतीत्याह यत इति । सुस्पष्टश्रुतिसहस्रसमाख्यया चैवमित्याह तदिति ।। अस्तु वा यत इति पञ्चमी । तथाऽपि ‘व्यत्ययो बहुलं’ इति सूत्रानुसारेणात्र विभक्तिव्यत्यासेन तृतीयाविभक्तिरेव व्याख्येयेत्याह विभक्तीति । ‘छन्दस्युभयथे’ति स्पष्टानुशासनमप्यत्रास्तीत्याह छन्दसीति । ‘येन जातानि जीवन्ती’त्यत्रैव वाक्ये तृतीयायाः श्रुतत्वाच्चेत्यपि बोध्यम्

।। १३६, १३७ ।।

युक्तिमल्लिका

स्वमूलसूत्रमुत्सृज्य श्रुतौ कृतरतेस्तव ।

परसूत्रं परित्यज्य कुतो नासीच्छ्रुतौ रतिः ।। १३८ ।।

सुरोत्तमटीका

 पाणिनिसूत्रभयात् जन्माधिकरणे श्रुतिमुपेक्षमाणस्य परस्यानन्दमयाधिकरणोक्तस्वन्यायेनैव विरोध इत्याह ।। स्वमूलेति ।। स्वमूल-सूत्रं आनन्दमयोभ्यासादिति स्वमूलसूत्रमुत्सृज्य गुणेत्वन्यायकल्पनेति न्यायेन त्यक्त्वा । श्रुतौ ब्रह्मपुच्छमिति श्रुतौ । परसूत्रं जनिकर्तुः प्रकृतिरिति पाणिनिसूत्रं परित्यज्य त्वदुक्तन्यायेनैव परित्यज्य श्रुतौ यतो वा इमानि भूतानि जायन्त इत्यादि बहुतरश्रुतौ । अतः पूर्वोत्तरविरुद्धभाषित्वादुपेक्षणीयं परकीय-भाष्यमिति भावः ।। १३८ ।।

सत्यप्रमोदटीका

 किं च ‘ब्रह्म पुच्छं प्रतिष्ठे’ति श्रुतेरापातार्थं परिगृह्य तद्विरोधमविद्यमानमेवापाद्य त्वया खलु स्वभाष्यमूलसूत्रं तिरस्कृतम् । तस्य तव निरवकाशश्रुतिशतावसितार्थविरोधेऽपि सावकाशे परकीयपाणिनीयसूत्रे रतिनटनं वञ्चनमात्रमूलमित्याह स्वेति

।। १३८ ।।

युक्तिमल्लिका

छन्दस्युभयथाप्यस्ति कार्ये नास्ति द्वयी गतिः ।

लक्षणस्य तटस्थत्वे सर्वं कार्यमकर्तृकम् ।। १३९ ।।

सुरोत्तमटीका

 युक्त्यन्तरेणापि लक्षणस्य तटस्थतां दूषयति ।। छन्दसीति ।। छन्दसि वेदे । उभयथा क्वचिल्लौकिकमर्यादया क्वचिदलौकिक-मर्यादयाचास्ति प्रवृत्तिः । सभूमिं सेदुराजेत्यादेश्च प्रयोगस्य दर्शनात् । वेदे द्वेधेत्यनुक्त्वा छन्दस्युभयथेति वचनं स्वोक्तार्थेपाणिनि सूत्रं च स्मारयितुम् । तथा च या उपादानपञ्चमीति लोके विहिता सा वेदे निमित्तपञ्चमी च भवति । अतो न सूत्रविरोध इति भावः । कार्ये जगज्जन्मादिकार्ये द्वयी क्वचित्कर्तृकारणे सति कार्यं क्वचित्कर्तृकारणाभावेऽपि कार्यमिति द्विविधा । लक्षणस्य जन्मादिकारणत्वलक्षणस्य । तटस्थत्वे मायानिष्ठत्वे । मायाया एव जगत्कारणत्वं न ब्रह्मण इत्यङ्गीकार इत्यर्थः । सर्वं महीमहीधरादिकम् । अकर्तृकं कर्त्राख्यकारणरहितं स्यादिति सम्बन्धः । त्वन्मतेऽपि मायाया एवोपादानत्वेन कर्तृत्वानङ्गीकारात् ब्रह्मव्यतिरिक्तचेतनान्तरस्य च सृष्टेः पूर्वमभावात् जगदकर्तृकमेव स्यात् । यदि चोपादानत्वमेव तटस्थम् । कर्तृत्वं तु ब्रह्मणोप्यङ्गीक्रियते । तर्हि तदेव लक्षणमस्तु । उक्तरीत्या कर्तर्यपि पञ्चमीसम्भवात् । सूत्रोक्तलक्षणं बलादुपादाने समाकृष्याबद्धं पठित्वा कुचोद्य-मङ्गीकरोतीति न्यायेन किमर्थं लक्षणस्य ताटस्थ्यकरणमिति भावः ।। १३९ ।।

सत्यप्रमोदटीका

 जनिकर्तुरिति सूत्रस्य सावकाशत्वं उक्तं स्मारयति छन्दसीति । श्रुतीनां निरवकाशत्वं द्योतयति कार्ये इति । यत्कार्यं तत्सकर्तृक- मेवेति व्याप्तेः । सृष्टेः प्राग्विद्यमानं खलु एकमेवाद्वितीयं ब्रह्म । तस्य च कर्तृत्वानङ्गीकारे जगदकर्तृकमेवापद्यते इति भावः । नैष दोषः । मया ब्रह्मणः उपादानत्वस्येव कर्तृत्वस्याप्यङ्गीकारादिति चेन्न । उपादानत्वस्य दूषितत्वात् । कर्तृत्वमात्राङ्गीकारे तु अनुज्ञया वर्तामहे इत्याशयः ।। १३९ ।।

युक्तिमल्लिका

जिज्ञास्ये लक्षणं नाभूदजिज्ञास्येऽस्ति यन्ति किम् ।

तद्ब्रह्मेत्युपदेश्यं किं जिज्ञासा कस्य कथ्यताम् ।। १४० ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। जिज्ञास्य इति ।। लक्षणं त्वदभितम- लक्षणं जिज्ञास्ये अथातो ब्रह्मजिज्ञासेति जिज्ञास्यतयोक्ते ब्रह्मणि नाभूत् । किं त्वजिज्ञास्ये अज्ञान एवास्ति । अतः प्रकृतानुपयोगित्वादपि त्वत्कल्पन-मसङ्गतमिति भावः । दूषणान्तरं चाह ।। यन्तीति ।। यतो वा इमानि भूतानि जायन्त इति वाक्यखण्डेऽज्ञानस्यैव प्रतिपाद्यत्वे यत्प्रयन्तीत्यत्र किं यन्ति प्राप्नुवन्ति । नह्यज्ञानं तवापि मते मुक्तप्राप्यम् । तत्र ब्रह्मणोवश्यं प्रतिपाद्यत्वे पूर्ववाक्येऽपि तदेवप्रतिपाद्यं स्यात् । नत्वन्यत् । तथा सति वाक्य योजनाऽ-योगादिति भावः । दूषणान्तरं चाह ।। तद्ब्रह्मेति ।। यत्पदेन प्रागुक्तं वस्तु तदिति परामृश्य ब्रह्मेत्युपदेश्यं किं नह्यज्ञानं ब्रह्मपदेनोपदेश्यमिति भावः । युक्त्यन्तरं चाह ।। जिज्ञासेति ।। पूर्ववत्तत्पदेन परामृश्य विजिज्ञासस्वेति लोटाविहिताजिज्ञासाकस्य नहि ब्रह्मणोन्यस्य जिज्ञास्यतेति भावः ।। १४० ।।

सत्यप्रमोदटीका

 सूत्रे जिज्ञास्यत्वेनोक्तं ब्रह्मैव न मायेति परस्यापि संमतम् । न च तत्रापि विवदितव्यम् । यत्प्रयन्ति इति प्राप्यत्वस्य, ‘तद् ब्रह्म’ इति परामर्शस्य च अविद्यायामसम्भवादेव । अतः द्वितीयसूत्रोक्तं लक्षणं ब्रह्मण एव भवितुं युक्तं न त्वेवाविद्याया इत्याह जिज्ञास्य इति ।। १४० ।।

युक्तिमल्लिका

यदि श्रुत्या पुच्छमेव ब्रह्म लक्षणवत्तदा ।

श्रुतेर्बलाद्ब्रह्म भवेदनन्यार्था यतस्त्वियम् ।। १४१ ।।

सुरोत्तमटीका

 श्रौतब्रह्मपदप्रयोगात्पुच्छस्य ब्रह्मत्ववत् अत्रापि ब्रह्मपद-प्रयोगादेव जगत्कारणस्य ब्रह्मत्वमित्याह ।। यदीति ।। तदा लक्षणवदित्यादि योजना । यतः यस्मात् । इयं श्रुतिरनन्यार्था । उक्तरीत्याऽन्यार्थशून्या ।। १४१ ।।

सत्यप्रमोदटीका

 किं च यस्या ब्रह्मश्रुतेर्बलात्त्वया पुच्छं ब्रह्मेत्यङ्गीकृतं तस्या एवानन्यार्थाया ब्रह्मश्रुतेः कारणवाक्येऽपि सद्भावात् लक्षणलक्षितं ब्रह्मैव त्वयाऽङ्गीकार्यमित्याह यदीति ।। १४१ ।।

युक्तिमल्लिका

अन्तस्सूत्रमिवोक्तं च बहिस्सूत्रं विसृज्यताम् ।। १४२ ।।

सुरोत्तमटीका

 प्राक्पाणिनिसूत्रविरोधे आशङ्किते तस्यैव सूत्रान्तरा-त्समाधानं कृतम् । अधुना गौतमसूत्रवत् श्रुतिप्रतिकूलार्थ कथकं तत्सूत्र-मेवोपेक्ष्यमित्याह ।। अन्तरिति अन्तस्सूत्रं ब्रह्मसूत्रम् । उक्तं सूत्रं पाणिनि-सूत्रम् ।। १४२ ।।

सत्यप्रमोदटीका

 नन्वेवं पाणिनिसूत्रविरोध उक्त इति तत्राह अन्तरिति । स्वभाष्यमूलभूतं अन्तःसूत्रम् । अतथाभूतं पाणिनिसूत्रं तु बहिःसूत्रम् । त्वया खलु गुणे त्वन्यायकल्पनेति न्यायव्याजेन अन्तःसूत्रं तिरस्कृतम् । तेनैव न्यायेन पाणिनिसूत्रमेव श्रुतेर्बलात्त्यज्यताम् । लक्षणस्य स्वरूपलक्षणत्वमेव श्रुतेर्बला-त्त्यज्यताम् । लक्षणस्य स्वरूपलक्षणत्वमेव स्वीक्रियतामिति भावः ।। १४२ ।।

युक्तिमल्लिका

यदि ते पाणिनेस्सूत्रे भाराच्छ्रुतितिरस्कृतिः ।

लक्षणस्य तटस्थत्वं तर्हि व्यासानुशासनात् ।

ब्रह्मानन्दमयं भूयात्पुच्छं स्यात्तव पृष्ठतः ।। १४३ ।।

सुरोत्तमटीका

 श्रुतितिरस्कृतिः यतो वा इमानीति श्रुतितिरस्कारः । व्यासानुशासनात् जन्माद्यस्य यत इति आनन्दमयोभ्यासादिति च व्याससूत्रात् । लक्षणस्य तटस्थत्वं भूयाद्बहिर्भूयात् । आनन्दमयं ब्रह्मभूयात् । पुच्छं कोशपुच्छत्वेनाभिमतं पुच्छं तवपृष्ठतस्स्यादिति योजना । व्याससूत्रविरोधात् आनन्दमयस्य कोशतामङ्गीकृत्य तत्पुच्छस्यैव ब्रह्मतावादं पृष्ठेनिक्षिप । अस्मदग्रे न प्रपञ्चयेति भावः । व्यासपदेन वेदविस्तारार्थं प्रवृत्तत्वाद्व्यास एववेदमर्यादां वेद । न तु पाणिनिः । अतो वेदार्थनिर्णये व्याससूत्रमेवानु-सर्तव्यमिति सूचयति । ईदृशं व्याससूत्रमुत्सृज्य तद्भाष्यकारित्वाभिमानवा-न्परसूत्रे कृतरतिस्त्वं पशुरेवेति सूचयितुं च पुच्छं तवपृष्ठतस्स्यादित्युक्तम् । अत्र पुच्छपदेन लाङ्गूलमेव ग्राह्यम् ।। १४३ ।।

सत्यप्रमोदटीका

 अथ तटस्थत्वसिद्ध्यर्थं तन्न्यायस्यैव परित्यागः तर्हि आनन्दमयस्य ब्रह्मत्वसिद्धिरित्याह ब्रह्मेति । पुच्छं=ब्रह्म पुच्छमेव न तु आनन्दमय इति ते वादः तव पृष्ठतः स्यात्=सभायां प्रतिवादिनं प्रति उदाहरणानर्हः स्यात् । तथा, तव सूत्रापलापिनः पुच्छं=लाङ्गूलं पृष्ठतः स्यात् त्वं पशुवत् विदुषां निन्द्यो भवेरित्याशयः ।। १४३ ।।

युक्तिमल्लिका

अतः पुच्छश्रुतिस्तेऽभूद् ह्रस्वकौपीनपुच्छवत् ।

एकं सन्धित्सतो वाक्यमपरं च्यवते यतः ।। १४४ ।।

सुरोत्तमटीका

 अतः पूर्वोक्तनिमित्तात् । ते पुच्छश्रुतिः । यतः यस्मात् । एकं सूत्रमुल्लङ्घ्य श्रुतिबलात्पुच्छस्यैव ब्रह्मत्वम् । अपरं पाणिनि सूत्रमाश्रित्य श्रुतिसूत्रोक्तलक्षणस्य तटस्थत्वकरणम् । अत इति पूर्वेणान्वयः ।। १४४ ।।

सत्यप्रमोदटीका

 ज्ञेयमुभयतः पाशारज्जुरित्याह अत इति ।। १४४ ।।

युक्तिमल्लिका

यदा मूलभ्रमादेव टीकां त्यजसि संमताम् ।

तदा मूलप्रमारुद्धां टीकां काकोऽपि न स्पृशेत् ।। १४५ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि दूषयति ।। यदेति ।। मूलभ्रमात् सूत्रमूलीभूतपुच्छश्रुतेरर्थ भ्रमात् । संमतां तवाभिमतां टीका मेतच्छ्रुत्यर्थ-निर्णयाय कृतामानन्दमयोभ्यासादिति सूत्ररूपाम् । मूलटीकापदाभ्यां टीकानु-सारेणैव मूलार्थो ज्ञेयः । तद्विरुद्धार्थं वदन्स्वयमेव भ्रान्त इति सूचयति । अत एव मूलभ्रमादित्युक्तम् । मूलप्रमारुद्धां टीकात्वेनाभिमतत्वद्भाष्यमूलत्वे-नाभिमतब्रह्मसूत्रार्थ प्रमयारुद्धां विरुद्धां टीकां त्वद्भाष्यरूपाम् । यस्तु मूलभ्रान्तार्थविरोधेनापि टीकां त्यजति तस्य मूलप्रमितार्थविरुद्धां टीकां को वा नेत्रद्वयवान्स्पृशेत् । अन्ततः एकनेत्रवान् काकोपि न स्पृशेदिति भावः ।। १४५ ।।

सत्यप्रमोदटीका

 अपि च टीकानुसारेण मूलं योज्यमिति स्थितिः । यदाहुः । व्याख्यानतो विशेषार्थप्रतिपत्तिरिति । सूत्रं च सर्वज्ञप्रणीतं श्रुतेः स्वतन्त्रव्याख्यानम् । त्वं तु श्रुतेस्त्वत्कुकल्पितम् दुरर्थं परिगृह्य तद्विरोधमापाद्य सूत्रमन्यथयितुं प्रक्रान्तः । व्याख्यानस्य प्राबल्यं सर्वसंमतं त्वया अवधीरितम् । समानन्यायेन सूत्रविरोधे तद्व्याख्यानाभिमतस्य त्वद्भाष्यस्यैव तिरस्करणीयता बलादापतिता इत्याह यदेति ।। अयं पुनर्विशेषः । सूत्ररूपटीका प्रमाण-सम्मता । तव तु भाष्यं अप्रमाणं स्वव्याहतिविजृम्भितं च । एवमीदृशं भाष्यं एकदृष्टिर्वायसोऽपि दूरात्परिहरेत् किं पुनर्विवेकिन इत्याह काकोऽपीति ।। १४५ ।।

युक्तिमल्लिका

परिस्पन्दक्रियामात्रं मास्तु वा व्याप्तवस्तुनः ।

जगज्जन्मादिकरणक्रिया हेया कुतो वद ।। १४६ ।।

सुरोत्तमटीका

 ननु निष्क्रियश्रुतिविरोधात्कथं ब्रह्मणि जगत्कारणत्व रूपक्रियावेश इत्यत आह ।। परिस्पन्देति ।। शङ्कैवेयं तावद्विवेचनीया । ब्रह्मजगत्करोतीत्युक्ते हि जगतः करणे उत्पत्तिरूपक्रियायां ब्रह्मणो निमित्ततैव लभ्यते । उत्पत्तिरूपा सा क्रियातु जगन्निष्ठैव न तु ब्रह्मनिष्ठा । अतो जगन्निष्ठजन्ममरणादिक्रियाभावं ब्रह्मणि प्रतिपादयन्त्यानिष्क्रियत्वश्रुत्या किं नश्छिन्नम् । जगत्कर्तृतायां च जगन्निष्ठतत्तत्क्रियाकरणादिकारण जात-प्रयोजकत्वरूपस्वातन्त्र्यस्यैव लाभात्का नो हानिः । प्रत्युतस्वातन्त्र्याख्य महामहिमलाभ एव । स्वतन्त्रः कर्तेति स्मरणात् । अतश्श्रुतेरनुकूलतया प्रतिकूलत्वशङ्कैवेयं स्वाज्ञानमूलत्वात् प्रेक्षावद्भिरुपेक्षणीया । अतोभ्युपगम-वादेनैव निष्क्रियश्रुतेरर्थान्तरावकाशदानमुत्तरं चेति ज्ञातव्यम् । व्याप्तवस्तुनः परिस्पन्दक्रियामात्रं मास्तुवेत्यनेनायमप्यङ्गीकारवाद एव । न वस्तुस्थित्या । अचिन्त्यैश्वर्यशक्तयाऽणिमाद्यष्टैश्वर्यशक्तया अणोरणीयान्महतोमहीयानिति श्रुत्याचाणुमूर्तीनां महामूर्तेश्च सत्त्वेन गमनागमनादेरपि सम्भवात् । जगज्जन्मादिकरणक्रिया जगज्जन्मादिकरणानुकूलज्ञानेच्छा प्रयत्नादिरूपो-व्यापारः ।। १४६ ।।

सत्यप्रमोदटीका

 ननु कर्तृत्वस्य स्वरूपलक्षणत्वे निष्क्रियत्वश्रुतिविरोध इति चेत् किं सा श्रुतिः परिस्पन्दक्रियामात्रं निषेधति उत क्रियासामान्यं वा । आद्ये प्रकृते न काचिदस्माकं हीयते । ‘स्वतन्त्रः कर्ते’ति स्मृतिसिद्धायाः इतरकारकप्रयोजकत्वरूपाया स्वातन्त्र्यपर्यवसन्नायाः क्रियायाः अनपायात् । निमित्तकारणे, काले इव, परिस्पन्दराहित्यस्य अकिञ्चित्करत्वात् । उपादान-त्वस्य प्रागेव निरस्तत्वादित्याह परिस्पन्देति ।। अभ्युपगम्य चेयमुक्तिः । वस्तुतः परिस्पन्दस्यापि तस्मिन् प्रमितत्वात् । यथोक्तं जन्माधिकरणे सुधायां ‘परिस्पन्दाभावे प्रमाणाभावात् । परममहत्परिमाणमस्तीति चेत् न । अणु-मध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात्’ इति । क्रियासामान्यनिषेधपक्षस्तु ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादिप्रमाण-पराहतः ।। १४६ ।।

युक्तिमल्लिका

निमित्तमस्तु तद्ब्रह्म जगज्जालस्य कालवत् ।

उपादानत्ववार्ता च नात्र श्रौताध्वशोधने ।। १४७ ।।

सुरोत्तमटीका

कालवत् यथाकालस्य व्याप्ततया क्रियाशून्यस्यापि निमित्तत्वं तथेति भावः । अत्रास्मिन्नधिकरणे ।। १४७ ।।