किञ्च सद्युक्तिपरशोरेकीभावो बिभेति ते

जीवस्यौपाधिकत्वनिरासेनअणुत्वसमर्थनम्

युक्तिमल्लिका

किञ्च सद्युक्तिपरशोरेकीभावो बिभेति ते ।

द्वैधीभावमते सोऽपि सहायत्वमुपेयिवान् ।। ४५० ।।

सुरोत्तमटीका

युक्तिविरुद्धत्वाच्च जीवब्रह्मैक्यं न घटत इति साधयितुं साहित्यमुद्रया प्रस्तावं करोति ।। किञ्चेति ।। यथा दार्वादौ द्वैधीभावसाधकस्य परशोस्तदेकीभावघातकत्वं तथा जीवब्रह्मणोर्द्वैधीभावसाधकाद्युक्तिपरशोस्ते तवाभिमतः एकीभावोऽपि बिभेति । सः युक्तिपरशुः जीवब्रह्मणोर्भेदमते सहायत्वमेतीत्यर्थः ।। ४५० ।।

सत्यप्रमोदटीका

सद्युक्तिः सूत्रव्युत्पादितयुक्तिसमुदायः स एव परशुः तस्मात् । परशोः दारुसंयोगेन दारुद्वैधीभाव एव यथा दृष्टस्तथेति ध्वनिः । अतः साधूक्तमभियुक्तैः ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ।। ४५० ।।

युक्तिमल्लिका

घटेन गगनस्येव यदि देहाद्युपाधिना ।

गच्छता तत्रतत्रत्यब्रह्मभागस्य जीवता ।। ४५१ ।।

सम्पद्यते ततोऽन्ये तु न जीवा इति मन्यसे ।

मतं न मायिनोऽप्येतच्चर्चार्थं परमुच्यते ।। ४५२ ।।

सुरोत्तमटीका

यथा घटाद्युपाधिना व्याप्तगगनभागानामेव तत्र तत्र घटाद्याकाशत्वं तथा देहाद्युपाधिना व्याप्तब्रह्मभागानामेव यत्र यत्र देहो गच्छति तत्र तत्र जीवत्वमित्यङ्गीक्रियते वा उत तटाकोद्धृतघटस्थजलस्येव व्याप्तब्रह्म-चिदुद्धृत परिच्छिन्नचिद्भागानां देहाद्युपाधिना जीवत्वमुच्यते । अथवा तटाक-जलादत्यन्तविलक्षणनालिकेरस्थजलानामिव महानलादत्यन्तविलक्षण ज्योतिरिङ्गणज्योतिषामिव वा ब्रह्मणोऽत्यन्तविलक्षणानां स्वभावत एवाणूनां चिद्भागानां जीवत्वमुच्यत इति विकल्पत्रयं मनसि निधायाऽद्यन्दूषयितु-मनुवदति ।। घटेनेति ।। तत्र तत्रत्यब्रह्मभागस्य तत्र तत्र विद्यमानव्याप्त-ब्रह्मचिदंशस्य । यत्र यदा देहस्तिष्ठति तत्र तदा तद्देहस्थस्तत्रत्यब्रह्मांश एव जीव इत्युच्यते । देहस्यान्यत्र गमने चान्यत्रान्यत्र विद्यमानानां ब्रह्मचिदंशा-नामेव जीवपदवाच्यता संपद्यत इति यावत् । ततः व्याप्तब्रह्मचिदंशेभ्यः । अन्ये व्यतिरिक्ता अणवश्चेतना इत्यर्थः । एतत् इदं प्रमेयं मायिनो मतं न । चर्चार्थं युक्तिचर्चार्थं परं केवलं मायावादिनामनभिमतोऽप्ययं पक्षः युक्तयापि दूषयितुं प्रस्तावित इति भावः ।। ४५१,४५२ ।।

सत्यप्रमोदटीका

 भेदस्य स्वाभाविकत्वसिद्धये तदौपाधिकत्वं दूषयति घटेनेत्यादिभिः । अत्र त्रयः प्रकाराः सम्भाविताः । गमनवता घटेन उपाधिना अवच्छिन्नस्तत्प्रदेशस्य आकाशः यथा घटाकाशसंज्ञां लभते तथा गच्छता देहेनावच्छिन्नं तत्तत्प्रदेशस्थं ब्रह्मैव जीवभावमापद्यते इति । यद्वा तटाकादुद्धृतं घटे स्थितं जलमिव व्याप्तब्रह्मचितः पृथक्कृत्य समुद्धृतश्चिद्भागः एव जीव इति । अथवा स्वरूपोपाधिना अत्यन्तभिन्ना एवाणुभूता जीवा उत्क्रान्तिगत्या गति-मन्त इति च । तत्र आद्यपक्षे जीवस्य नैव गमनादिकम् । किन्तु उपाधि-भूतदेहस्यैव । द्वितीये घटेन सह तदन्तस्थोदकस्येव देहेन सह जीवस्यापि गमनादिकं भवति । तृतीयस्तु सिद्धान्तसंमत इति विवेकः । तत्र अन्तिमं परिशेषेण निर्धारयितुं आद्यं तावद्दुदूषयिषुः प्रस्तावयति घटेनेति । ननु मायिभिः कुत्राप्यनुपन्यस्तोऽयं पक्षो न विकल्पमर्हतीति चेन्न । ‘न ममत्वं मुमुक्षूणामनिर्वचनीयवादिनामि’ति वदन् दूषणमात्रदुर्व्यसनी परः स्वसिद्धान्त-मप्यपलप्य पक्षमेतं परिगृह्णामीति वक्तुमुत्सहेतापि । अतः सम्भावितस्याप्यनूद्य दूषणं श्लिष्टमित्याह मतमिति ।। ४५१,४५२ ।।

युक्तिमल्लिका

तर्हिदेहाद्युपाधीनां गमनं केन हेतुना ।

ब्रह्मणो निष्क्रियत्वोक्तेस्तदन्यस्य जडत्वतः ।। ४५३ ।।

सुरोत्तमटीका

 दूषयति ।। तर्हीति ।। गमनं इतस्ततश्चलनम् । तदन्यस्य देहाद्युपाधेः ।। ४५३ ।।

सत्यप्रमोदटीका

 अस्मिन् पक्षे देहाद्युपाधेर्गमनं किं ब्रह्मणः क्रियया उत स्वतः । नाद्यः इत्याह ब्रह्मण इति । न द्वितीयोऽपीत्याह जडत्वत इति ।।

युक्तिमल्लिका

परिस्पन्दक्रिया नैव परे ब्रह्मणि ते मते ।

ततस्तत्क्रियया देहक्रिया नेत्यक्रिया भवेत् ।। ४५४ ।।

सुरोत्तमटीका

 परिस्पन्दक्रिया परिस्पन्दरूपक्रिया । ब्रह्मणो व्याप्तत्वा-दितस्ततः परिस्पन्दनं मायिमते सर्वथा नास्तीति भावः । तत्क्रियया ब्रह्म-परिस्पन्दनेन ।। ४५४ ।।

सत्यप्रमोदटीका

 परिस्पन्देति प्रकृतापेक्षया । वस्तुतस्तु क्रियासामान्य-निषेध एवेति मन्तव्यम् । फलितमाह अक्रियेति ।। ४५४ ।।

युक्तिमल्लिका

इतः क्षिपति किं कश्चित्ततः कर्षति किं परः ।

अतस्स्थिरांशजीवत्वे स्थैर्यस्यान्न गतागतम् ।। ४५५ ।।

सुरोत्तमटीका

 घटस्य घटाकाशस्य च क्रियाभावेऽपि चेतनान्तरेणेतः क्षेपणात् ततः आकर्षणाद्वा कदाचित्क्रिया सम्भवति । देहे तु ब्रह्म-व्यतिरिक्तचेतनान्तरस्यानङ्गीकारान्न कदापि क्रियेत्याह ।। इत इति ।। कश्चिच्चेतनः । परः अन्यः । अतः पूर्वोक्तहेतोः । स्थिरांशजीवत्वे स्थिर-ब्रह्मांशजीवत्वे ।। ४५५ ।।

सत्यप्रमोदटीका

 चेतनान्तरेण क्षेपणे उत्कर्षणे वा उपाधौ गति-रुपपद्यतामिति तत्राह किमिति । आक्षेपे । नास्त्येव तन्मते ब्रह्मव्यतिरिक्तं चेतनान्तरमिति भावः ।। ४५५ ।।

युक्तिमल्लिका

शून्यगेहस्थघटवद्देहो देही घटाभ्रवत् ।

अतिदूरस्थितस्वर्गगमनं त्वतिदूरतः ।। ४५६ ।।

सुरोत्तमटीका

 तत्र दृष्टान्तमाह ।। शून्येति ।। चालकपुरुषाभावसूचनाय शून्येत्युक्तम् । देही जीवः घटाभ्रवत् घटान्तस्स्थिताकाशवत् । ईषच्चलन-स्याप्ययोगे दूरचलनं दूरापास्तमिति भावः ।। ४५६ ।।

सत्यप्रमोदटीका

 किं चैतस्मिन्मते पुण्येन ऊर्ध्वलोकप्राप्तिप्रत्याशा दूरमिहिता । सा न देहस्थक्रियया प्रवर्तकाभावादित्याह शून्येति ।। ४५६ ।।

युक्तिमल्लिका

वातोऽपि तिर्यक्पवनः को वा तं जडमुन्नयेत् ।

शवभूषणवत्सर्वं जीवजातमभूदहो ।। ४५७ ।।

सुरोत्तमटीका

 वायुवशात्तृणादीनामिवोर्ध्वगमनं भविष्यतीति मन्दाशङ्कां परिहरति ।। वातोऽपीति ।। पाञ्चभौतिकयातनादेहस्यैव स्वर्गगमनप्रसिद्धे-र्जडमित्युक्तम् । परिहसति ।। शवभूषणवदिति ।। यथा शवभूषणानां चालक-पुरुषाभावाच्चलनाभावः । ब्रह्मचैतन्यस्य व्याप्तत्वेन चालकत्वायोगात् तथा जीवच्छरीराणामपि मृतशरीरस्वभावोऽभूदिति भावः ।। ४५७ ।।

सत्यप्रमोदटीका

 वातस्यापि जडत्वेन देहसमानयोगक्षेमत्वान्न प्रवर्त-कत्व मित्याह वात इति । नापि जीवस्य क्रियया तस्य निष्क्रियत्वाभ्युप-गमात् । शवभूषणवदिति शवे प्रवर्तकचेतनाभावात् भूषणस्य च स्वयं निष्क्रियत्वादिति भावः ।। ४५७ ।।

युक्तिमल्लिका

किं चैकपदविन्यासे प्रागंशे देहनिर्गतेः ।

मृतिस्यादपरांशे तु जनिस्याद्देहसङ्गतेः ।। ४५८ ।।

देहयोगवियोगौ हि जीवजन्ममृती श्रुते ।

पदे पदे प्रेतकर्म जातकर्म करोति कः ।। ४५९ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। किञ्चेति ।। अपहसति ।। पदेपद इति ।। ४५८,४५९ ।।

सत्यप्रमोदटीका

 अभ्युपगम्यापि देहे क्रियां चेतने स्थिरत्वोपगमेन प्राप्तं दोषं सप्रमाणमनूद्य अतिप्रसङ्गोक्त्या अपहसति किं चेति पदेपदे इति च ।। ४५८,४५९ ।।

युक्तिमल्लिका

तदंशाज्ञानमूलस्य मनआदेरपि क्षयात् ।

कल्पान्तलय एवायं कल्पादिमजनिश्च सा ।। ४६० ।।

सुरोत्तमटीका

 पूर्वांशाज्ञानोपादानकलिङ्गशरीरादेरपि नाशादुत्तरांशा-ज्ञानोपादानकस्य लिङ्गशरीरादेः पुनरुत्पत्तेश्च बाह्यदेहवियोगयोगरूपावान्तर-मरणजननवत् नेमे मृतिजन्मनी किं तु मोक्षकालीनमहामृतिवल्लिङ्गशरीर-स्यैवोत्पत्तिरूपमहाजन्मवच्चाभूतामित्याह ।। तदंशेति ।। आदिपदेन लिङ्गदेहो गृह्यते । कल्पान्तपदेन मुक्तिकाल उच्यते । कल्पादिपदेन च लिङ्गदेहोत्पत्ति-कालः ।। ४६० ।।

सत्यप्रमोदटीका

 किं चेयं पादनिक्षेपमात्रेण उपाधिसम्बन्धापगमेन जायमाना मृतिः शुद्धब्रह्मभावरूपमोक्षापत्तिरेवेत्यापतति । तदंशस्य जीवस्य मनआदेर्लिङ्गदेहस्यापि क्षयादित्याह कल्पान्तेति । मुक्तिकालीनेत्यर्थः । तथा च मूत्रपुरीषोत्सर्जनार्थं एकपादविक्षेपेणैव मोक्षप्राप्तेः श्रवणादिसाधनानाम-करणीयत्वापत्तिः । सा अपरांशस्य सम्पद्यमाना ।। ४६० ।।

युक्तिमल्लिका

पूर्वांशे कर्म नष्टं हि नान्यांशेऽपि क्व देहिता ।

कृतहान्यकृतप्राप्त्या मतमेतद्विगर्हितम् ।। ४६१ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। पूर्वांश इति ।। पूर्वांशे विद्यमानं कर्म पूर्वांशाज्ञानोपादान कर्मेति यावत् । अन्यांशे उत्तरांशे कर्म न न जातम् । देहोत्पत्तेः पूर्वं तद्देहकार्यकर्मोत्पत्तेरयोगात् । अतो देहिता क्व । कर्मनिमित्त-देहदेहिभावः क्व । स्वकर्मनिमित्तदेहसंबन्धेन हि देहित्वम् । अन्यथा मातु-रुदरस्थशिशोरपि मातृदेहे न देहित्वप्रसङ्गः । स्वकर्मच प्राक्तनं नष्टं पश्चात्तनमनुत्पन्नम् । अतस्तन्निमित्तदेहितापि कथं स्यादिति भावः । कृतहान्यकृतप्राप्त्या कृतहानिसहिताकृतप्राप्त्या । स्वर्गादिफलजनकत्वेन श्रुत-पुण्यपापादिकर्मणां फलोत्पत्तेः पूर्वमेव नाशाख्यकृतहानिरूपदोषेण कर्मा-नार्जितदेहादिप्राप्त्याख्याकृताभ्यागमाख्यदोषेण चेत्यर्थः ।। ४६१ ।।

सत्यप्रमोदटीका

 दोषान्तरं चाह पूर्वेति । नष्टं हि यस्मात् ततः कृतहानिः कृतानां कर्मणां वैयर्थ्यम् । अन्यांशे कर्म न इत्यन्वयः । किं तत इत्यत आह क्व देहितेति । पूर्वं तु तस्य देहसम्बन्धमभ्युपगम्यैव जनिरुक्तेति भावः । पूर्वकर्माभावेऽपि तस्य देहसम्बन्धाभ्युपगमे दोषमाह अकृतप्राप्त्येति । तेनानुभूयमानानां फलानां निष्कारणकत्वापत्तिः । विस्तरः ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ग्रन्थे (प.८१ द्वि.भागे) ।। ४६१ ।।

युक्तिमल्लिका

अन्ते मृतिश्च का वाच्या देहस्यांशान्तरे स्थितेः ।

इन्द्रियोपरतेस्सा चेत्सुप्तिश्च मरणं भवेत् ।। ४६२ ।।

चिद्रूपसाक्षिसामर्थ्यात्तद्वत्स्याद्धि प्रबुद्धता ।। ४६३ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। अन्त इति ।। अंशान्तरे ब्रह्म-चैतन्यांशान्तरे । शङ्कते ।। इन्द्रियेति ।। उत्तरमाह ।। सुप्तिश्चेति ।। दूषणान्तरं चाह ।। चिद्रूपेति ।। प्रबुद्धता मृतस्य पुनरुत्थानम् । अङ्गीकृत्येदमुदितम् । वस्तुतस्तु चिदंशसम्बन्धस्य सर्वत्र सत्वादुपरतिरेव न स्यादित्यपि द्रष्टव्यम् ।। ४६२, ४६३ ।।

सत्यप्रमोदटीका

 किं च अत्र पक्षे मृतिजन्मनी एवानुपपन्ने । तथा हि । मृतिर्नाम किं सर्वथा देहचेतनयोर्वियोग उत सत्यपि सम्बन्धे इन्द्रियमात्रोपरमो वा । नाद्यः तदभावादित्याह देहस्येति । न द्वितीयः । सुप्तेरपि मरणत्वापत्तेः ।। पुनरुत्थानं तु सुप्तिवदेव स्यादित्याह सुप्तिरिति तद्वदिति च ।। ४६२,४६३ ।।

युक्तिमल्लिका

उपादेयमुपादानगत्यैवान्यत्र गच्छति ।

पूर्वांशाज्ञानजो देहः कथं तस्य ह्यचालने ।

चलेदन्यत्र तन्माता गुर्विणी सर्वदा तव ।। ४६४ ।।

सुरोत्तमटीका

 प्रकारान्तरेण देहचलनायोगमुपपादयन्परं परिहसति ।। उपादेयमिति ।। न हि मृत्पिण्डगमनं विना घटो गच्छतीति भावः । तस्य पूर्वांशाज्ञानस्य । तत्तस्मात् गर्भस्थशिशुचलनायोगात् ।। ४६४ ।।

सत्यप्रमोदटीका

 प्रकारान्तरेण देहस्य चलनशून्यतां साधयति उपादेय-मिति । एवकारेण उपदानगतेर्व्यापकत्वमुक्तं भवति । वह्निमानेव धूमवानिति-वत् । देहस्य च निष्क्रियमज्ञानमेवोपादानम् । तथाच प्रयोगः, देहः निष्क्रियो निष्क्रियोपादानकत्वात् घटवदिति । तथा च तव देहस्य जनन्युदरा-न्निष्क्रमणाभाव एवेत्याह तदिति ।। ४६४ ।।

युक्तिमल्लिका

उत्पत्तिस्थितिनाशश्च तत्रतत्रैव देहिनाम् ।

भवेयुर्निष्क्रियासङ्गाद्देहोऽपि स्याद्विनिष्क्रियः ।। ४६५ ।।

सुरोत्तमटीका

 तत्र तत्र यत्र यत्रोत्पत्तिस्तत्र तत्रैव ।। ४६५ ।।

सत्यप्रमोदटीका

 निष्क्रियायाः चितः सङ्गात् ।। ४६५ ।।

युक्तिमल्लिका

व्याप्तांशस्यैव जीवत्वे गजादौ गजमात्रता ।

अणावणुप्रमाणं चेत्यागतं ह्यतिनिन्दितम् ।। ४६६ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। व्याप्तेति ।। गजमात्रता जीवस्य गजप्रमाणता । आकाशस्य घटप्रदेश इव व्याप्तचिदंशस्य यावद्गजदेहप्रदेशेऽपि विद्यमानत्वादिति भावः । अणौ पिपीलिकादौ । पूर्वोक्तैव युक्तिः । अति-निन्दितं जैनमतमित्यर्थः

।। ४६६ ।।

सत्यप्रमोदटीका

 कायपरिमाणवादिजैनमतप्रवेशापत्तिरूपदोषान्तरमाह व्याप्तेति । तत्तद्देहव्याप्तेत्यर्थः ।। ४६६ ।।

युक्तिमल्लिका

योंशो विप्रत्वमापेदे स एवांशः क्षणान्तरे ।

हीनोऽपि स्यादिति प्राप्ता नानायोनिः पदे पदे ।। ४६७ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। योंऽश इति ।। यः अंशः व्याप्त-ब्रह्मण एकत्र स्थिरीभूतोंऽशः । विप्रत्वं तत्रैवागतविप्रदेहसङ्गे सति विप्रत्वं प्राप । क्षणान्तरे विप्रदेहस्य ततोगमनानन्तरं चण्डालदेहादेस्तत्रागमनक्षणे । इति हेतोः ।। ४६७ ।।

सत्यप्रमोदटीका

 स्थिरांशप्रदेशं प्रति विप्रदेहापगमानन्तरं चण्डाल-देहोपगमे सतीत्यर्थः ।। ४६७ ।।

युक्तिमल्लिका

उत्क्रान्तिगत्या गतीनामित्याह ब्रह्मसूत्रकृत् ।

अतोऽणुजीवता श्लाघ्या योग्या वाग्मिजनप्रिया ।। ४६८ ।।

सुरोत्तमटीका

 अतस्स्थिरांशजीवभावस्यायुक्तत्वात् । अणुजीवता अणूनामितस्ततोगमनशीलानां सूक्ष्माणां चिदंशानां जीवता, त्वदभिमत-द्वितीयपक्षानुसारेण वा अस्माकमप्यनुमततृतीयपक्षानुसारेण वा श्लाघ्ये-त्यादिना सम्बन्धः ।। ४६८ ।।

सत्यप्रमोदटीका

 श्रुतिसूत्रविरुद्धं चैतन्मतमित्याह उत्क्रान्तीति ।।४६८।।

युक्तिमल्लिका

चलदंशो हि जीवस्स्यान्नास्थिरांशः कदाचन ।

चैतन्याचलने कस्य चलनं स्याज्जगत्रये ।। ४६९ ।।

सुरोत्तमटीका

 पूर्वपक्षोक्तदूषणं स्मारयन्निममेव पक्षं स्थिरीकरोति ।। चलदंश इति ।। ४६९ ।।

सत्यप्रमोदटीका

 चितः स्वतो निश्चलत्वे जगन्मात्रं निश्चलं स्यादित्याह चैतन्येति ।। ४६९ ।।

युक्तिमल्लिका

चलच्चेतनहस्तस्थो घटश्चलति नापरः ।। ४७० ।।

सुरोत्तमटीका

 चलदंशस्यैव जीवत्वं सर्वानुभवसिद्धं करोति ।। चल-दिति ।।स्वगृहात्तटाकपर्यन्तं चलतश्चेतनस्य हस्तस्थित इत्यर्थः।।४७० ।।

सत्यप्रमोदटीका

 उपपादयति चलदिति ।। ४७० ।।

युक्तिमल्लिका

परिस्पन्दक्रिया नैव परे ब्रह्मणि ते मते ।

सहस्रोपाधिसम्बन्धेऽप्यक्रियस्य क्रिया न हि ।। ४७१ ।।

किं क्रियानिष्क्रिये व्योमि्न स्यात्कारकशतैरपि ।

स्थिरांशजीववादोतो न स्थिरः प्राज्ञसंसदि ।। ४७२ ।।

सुरोत्तमटीका

 ननु स्वभावतो निष्क्रियस्यापि मायाख्योपाधिवशात्क्रिया भवतीत्याशङ्कां सयुक्तिकं परिहृत्य पुनरणुत्वमेव दृढीकरोति ।। परिस्पन्देति ।। अक्रियस्य स्वभावतः क्रियारहितस्य ।। निष्क्रिये स्वभावतः क्रियायोग्ये । घटाद्युपाधीनामितस्ततोगमनेऽपि तदन्तस्स्थव्योम्नो गमनादर्शनादिति भावः । अतः प्रयत्नशतेनापि व्याप्ते व्योमि्न क्रियाऽदर्शनात्स्थिरांशजीववादो न स्थिर इति सम्बन्धः । एतेन मायावाद्यभिमतद्वितीयपक्षोऽपि निरस्तः । क्रिया-योग्यतटाकजलादुद्धृतघटजलस्य क्रियासम्भवेऽपि व्याप्ततया क्रियाया अयोग्ये ब्रह्मणि व्योम्नीवोपाधिशतेन भिन्नभिन्नांशीकरणेऽपि सक्रियत्व संपादनस्या-शक्यतया सक्रियस्यदेहान्तस्स्थजीवचैतन्यस्य दहनशिखातोन्यखद्योतप्रभावत् ब्रह्मचैतन्या दन्यत्वस्यैव वक्तव्यत्वात् ।। ४७१, ४७२ ।।

सत्यप्रमोदटीका

 सहस्रोपाधिसम्बन्धेऽपि स्वभावधर्मस्य चितो निष्क्रियत्वस्य नैवापाय इति सोपपत्तिकमाह परिस्पन्देति व्योम्नीति च । एतेन तटाकादुद्धृतजलस्य घटस्य गमनादिनागमनादिकमिव ब्रह्मचिदुद्धृतचिदंशस्य जीवस्य देहगमनादिनागमनादिकमिति द्वितीयपक्षोऽपि निरस्तः । चेतनस्य सक्रियत्वे खलु तदधीनक्रियाया घटे, तत एव तदन्तःस्थे जले सम्भवेऽपि त्वत्पक्षे ब्रह्मचित; निष्क्रियत्वेन तदुद्धृतचिदंशभागेऽपि जीवे क्रियाऽसम्भवो न तत एव घट इव देहे वा, तदुपाधिसम्बन्धनिर्मितेन तदन्तर्गतजल इव औपाधिकजीवे वा उत्क्रान्तिगत्यागतीनां दुर्घटत्वमेवेत्याशयः ।।४७१,४७२।।

युक्तिमल्लिका

अतः श्रौताणुतासिद्धा तवापि च ममापि च ।

देहान्तःकरणान्तस्थस्सोधोञ्चत्योर्ध्वमञ्चति ।। ४७३ ।।

सुरोत्तमटीका

 अतस्तृतीयपक्ष एव त्वयाप्याश्रयणीय इत्याह ।। अत इति ।। अतस्स्थिरांशजीवभावस्यायुक्तत्वात् । श्रौताणुता अणुर्ह्येष आत्मेति श्रुतिसिद्धस्वाभाविकाणुता । उपलक्षणं चैतत् । ब्रह्मभिन्नता चेत्यपि द्रष्टव्यम् । सः स्वाभाविकाणुजीवः ।। ४७३ ।।

सत्यप्रमोदटीका

 अतः=जीवे अणुत्वस्य अत एव ब्रह्मभिन्नत्वस्य चाङ्गीकारमन्तरा उक्तदोषाणां दुष्परिहरत्वात् । श्रौता=‘अणुर्ह्येष आत्मा’ इत्यादि श्रुतिसिद्धा । सः बिम्बभूतस्य ब्रह्मणः स्वतन्त्रक्रियाया अधीना या क्रिया तद्वान् अणुः जीवः ।। ४७३ ।।

युक्तिमल्लिका

एवं चोभयतः पाशारज्जुर्बध्नाति ते गलम् ।। ४७४ ।।

सुरोत्तमटीका

 अतः पक्षद्वये परस्यानुपपत्तिरेवेत्याह ।। एवं चेति ।।

सत्यप्रमोदटीका

 उभयतः सार्वभक्तिकः तसिः जीवः स्थिरांशः इति चलदंश इति च उभयपक्षेऽपीत्यर्थः ।। ४७४ ।।

युक्तिमल्लिका

स्थिरांशस्यैव जीवत्वे भवदैक्यकथा वृथा ।

चलदंशस्य जीवत्वे भवदैक्यकथा वृथा ।। ४७५ ।।

सुरोत्तमटीका

 उभयतः पाशारज्जुमेवोपपादयति ।। स्थिरेति ।। भवदैक्यकथा भवता क्रियमाणैक्यकथा । शिष्यजीवस्य त्वत्समीपागमनेऽ-समर्थत्वात्तव च तत्समीपगमनासमर्थत्वेन भवदैक्यकथा अरण्ये रोदनमासीदिति भावः । चलदंशस्य जीवत्वे उक्तदूषणभिया चलदंशजीवत्वेऽङ्गीकृते भवतः ब्रह्मणा सहैक्यकथा वृथा । ब्रह्मणो विभुतया क्रियाऽयोग्यत्वेन सक्रियस्य भवत उद्धृतांशतयाप्यैक्यायोगादिति भावः ।। ४७५ ।।

सत्यप्रमोदटीका

 उपपादयति स्थिरेति । कथायाः खलु परप्रत्यायनमेव फलम् । सा च वक्तृश्रोतुर्वा वक्तुर्वा अन्योन्यं प्रति गमन एव सम्भवति । स्थिरांशजीवपक्षे च उभयोरपि गमनं असम्भवि । अतः त्वदैक्यकथा निष्फलै-वेत्याह वृथेति । चलदंशपक्षेऽपि कथा वृथा प्रमाणविरुद्धत्वादनुपादेयेति योज्यम् । ब्रह्म हि विभु निष्क्रियं च । तदुद्धृतांशस्तु भवान् परिच्छिन्नः सक्रियश्च । एवमीदृशयोरैक्यं कथं न प्रमाणबाधितमिति भावः ।। ४७५ ।।

युक्तिमल्लिका

तस्मात्त्वदैक्यवादोऽयं तवैक्यायैव केवलम् ।। ४७६ ।।

सुरोत्तमटीका

 तस्माद्द्विधैक्यपक्षस्याप्यनुपपन्नत्वात् । अयं प्रागुक्तपक्ष-द्वयोक्तः केवलं तवैक्याय एकाकित्वाय । युक्तिविरुद्धपक्षाङ्गीकारिणस्तव समीपं प्रति कोऽपि प्रेक्षावान्नायाति । अतस्त्वमेकाकी भूया इति भावः । एकाकित्वायेत्यनुक्त्वा ऐक्यायेति वचनमन्ततः कस्यचिदैक्यस्यास्माभिरेव दत्तत्वात् वयमपि तवोपकारिण इति परपरिहासार्थम् ।। ४७६ ।।

सत्यप्रमोदटीका

 तस्मात् प्रेक्षावतः श्रोतुरसम्भवात् । ऐक्याय= एकाकित्वाय । केवलमित्यनेन अंशांशिनोरैक्यं व्यवच्छिनत्ति ।। ४७६ ।।

युक्तिमल्लिका

अणुरेव हि जीवोऽयं कण्ठेऽक्ष्णि हृदि वा स्थितेः ।

देहाद्देहान्तरगतेरुद्गतेश्चाप्यवाग्गतेः ।। ४७७ ।।

प्रवेशाच्च यवव्रीहितिलमाषादिकाङ्कुरे ।

अन्नद्वारा च पितरि पितृद्वारा च मातरि ।। ४७८ ।।

सुरोत्तमटीका

 अधुना द्वितीयपक्षे दूषणान्तराणि च व्युत्पाद्य दर्शयन्स्वमतानुकूलत्वात्तृतीय पक्षमेव प्रबलयति ।। अणुरिति ।। स्वप्ने कण्ठे, जाग्रदवस्थायामक्षिणि, सुप्तौ हृदीति विवेकः । सर्वत्राणुरिति सम्बध्यते

।। ४७७,४७८ ।।

सत्यप्रमोदटीका

 अतः स्थिरांशपक्षस्य चलदंशपक्षस्य च दुष्टत्वात्, तृतीयः, स्वभावतः अणुत्वभिन्नत्वपक्ष एव, निर्दोषत्वात्समाश्रयणीय इत्याह अणुरेव हीत्यादिभिश्चतुर्भिः । औतभाष्येऽपि‘उत्क्रान्तिगत्यागतीनां’ इत्यारभ्य दश सूत्राणि जीवाणुत्वसमर्थनपरतयैव व्याख्यातानि । व्याप्तत्वप्रतिपादकानि श्रुतिवाक्यानि जीवभिन्नपरमात्मपराण्येवेति च ॐ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् इति सूत्रेण समर्थितम् । यातु स्वयमेव प्रमाणं व्याख्यातानां दशसूत्राणां पूर्वपक्षसूत्रत्वोक्तिः सा स्वमतदुराग्रहमूलैव । अत्र विशेषः भे.प.ब्र.सूत्राणि ग्रन्थे (प.७२-२८२) ।। ४७७-४७८ ।।

युक्तिमल्लिका

अणूनि जीवचैतन्यान्यन्यानि च तनौ तनौ ।

नानाकर्मानुबन्धीनि नानायोनिगतानि च ।। ४७९ ।।

सुरोत्तमटीका

 अणुत्वमुपसंहरति ।। अणूनीति ।। अणूनि स्वभावत एवाणूनि । देहाख्योपाधिसम्बन्धात्पूर्वमप्यणुत्वात् । अन्यानि परस्परं भिन्नानि । तत्र हेतुद्वयमाह ।। नानेति ।। कर्मवैचित्र्याद्योनिवैचित्र्याच्च परस्परं भिन्नानीति भावः ।। ४७९ ।।

युक्तिमल्लिका

अन्यच्च ब्रह्मचैतन्यं सदा सर्वत्र तिष्ठति ।

स्वच्छमच्छेद्यमच्छिद्रं कूटस्थमचलं ध्रुवम् ।। ४८० ।।

सुरोत्तमटीका

 जीवविरुद्धस्वभावत्वात् ब्रह्मचैतन्यं चान्यदेवेत्याह ।। अन्यच्चेति ।। विरुद्धस्वभावत्वमेव दर्शयति ।। सदा सर्वत्रेत्यादिना ।। उपलक्षणं चैतत् । कर्मयोन्यादि दूरं चेति ग्राह्यम् ।। ४८० ।।

सत्यप्रमोदटीका

 ब्रह्मणो व्याप्तांशः खण्डशः सञ्छिद्य निष्पन्ना अंशाः जीवा इति पक्षे प्राग्दूषितमपि पुनः सुबहुधा दूषयिष्यन्प्रतिजानीते अच्छेद्यमच्छिद्रमिति ।। ४८० ।।