अतोऽग्नावाहितं चक्रं स्वार्चिषा पुण्यदायिना


 

तप्तमुद्राधारणम्

युक्तिमल्लिका

अतोऽग्नावाहितं चक्रं स्वार्चिषा पुण्यदायिना ।

स एव तप्तं कुरुते गुरुर्भूत्वा स एव च ।। ६१५ ।।

सतां भुजे धारयति मुनीनां मध्वरूपधृक् ।

स एव धारयेद्वायुरन्यत्र गुरुषु स्थितः ।। ६१६ ।।

सुरोत्तमटीका

अतः वायोरेव पवमानसूक्तप्रतिपाद्यत्वात् । स एव वायुरेव । मध्वरूपधृक् गुरुर्भूत्वा सतां मुनीनां भुजे धारयतीति सम्बन्धः । अन्यत्र मध्वरूपादन्यत्र गुरुषु मुद्राधारणकर्तृषु परमहंसेषु स्थितः अन्तर्यामी ।। ६१५,६१६ ।।

सत्यप्रमोदटीका

तापनं अङ्कनं च मुख्यतो वायोरेवेत्याह अत इत्यादिना । गुरुषु हंसनामकपरमात्मपरंपराप्राप्तेषु पीठाधिपतिषु । न तु तदन्येषु यादृशतादृशविद्योपदेशकेषु ।। ६१५, ६१६ ।।

युक्तिमल्लिका

मध्वाख्यगुरुरूपेण पूयमानः स पावयन् ।

धारयेत्तानि रूपाणि मध्वस्यैव बहूनि तत् ।। ६१७ ।।

सुरोत्तमटीका

 तानि तत्र तत्राग्निषु स्थित्वा सुदर्शनस्थापकानि दैनन्दिनमध्वरूपैः सत्सु साक्षान्मुद्राङ्कनकर्तॄणि तत्र तत्र मुद्राङ्कनं कुर्वत्सु गुरुषु प्रेरकतया स्थितानि च । तत्तस्मात् । अत एव श्रुतौ पावमान्य इति बहुवचनमिति भावः ।। ६१७ ।।

सत्यप्रमोदटीका

 रूपाणि साक्षाद्रूपाणि पूर्वोक्तगुरुसंस्थितानि च ।। ६१७ ।।

युक्तिमल्लिका

शिष्टाचाराददृष्टस्य यदा वेदस्य कल्पना ।

स्पष्टदृष्टश्रुतिं सोऽतिबलवान्नैव मुञ्चति ।। ६१८ ।।

सुरोत्तमटीका

 सः शिष्टाचारः ।। ६१८ ।।

सत्यप्रमोदटीका

 अदृष्टस्य अनुमितस्य । बलवान् अनादितः देवादि-सत्सम्प्रदायप्राप्तः ।। ६१८ ।।

युक्तिमल्लिका

अतः श्रुतिरभूदेषा तप्तचक्राङ्कशासनम् ।

लिङ्गानुशासनं तूक्तं शासनद्वयसम्पदा ।

सहितां वैष्णवग्रामसीमां को वा न मानयेत् ।। ६१९ ।।

सुरोत्तमटीका

 लिङ्गानुशासनं ‘‘पवित्रं चरणं नेमिरि’’त्यादिकम् ।। ६१९ ।।

सत्यप्रमोदटीका

ग्रामसीमां सिद्धान्तमर्यादाम् । सीमां इत्यस्य साधुत्वं ‘निःसीमाः शक्तयोऽस्य हि’ इति प्रयोगानुसारेण ध्येयम्

।। ६१९ ।।

युक्तिमल्लिका

प्रास्तवं यत्संहिता यत्तदेव परिशिष्टवाक् ।

प्रपञ्चयति तेनाभूत्तच्च शिष्टानुशासनम् ।। ६२० ।।

सुरोत्तमटीका

 तेन परिशिष्टवाक्ययोरेकार्थत्वेन । तत् परिशिष्टवचनम् । न केवलं शिष्टाचारः किन्तु परिशिष्टवचनाख्यशिष्टवचनमप्यस्तीति भावः ।। ६२० ।।

सत्यप्रमोदटीका

 प्रास्तवं प्रस्तुतिप्राप्तम् । प्रपञ्चयति अधिकारिवर्णनेन । तेन ऐकार्थ्येन । तत् परिशिष्टवचनम् । तेन शिष्टेत्यस्य परिशिष्टेत्यर्थान्तर-मप्युक्तम् ।। ६२० ।।

युक्तिमल्लिका

प्रपञ्चनं च प्रोक्तस्य तेन वाक्यद्वयेन तत् ।

तप्तचक्राङ्कनं वक्ति वाक्यभेदो न चेद्भवेत् ।

यतोऽस्य परिशिष्टत्वं तच्छेषत्वमपेक्षते ।। ६२१ ।।

सुरोत्तमटीका

 तत् संहितापरिशिष्टसूक्तम् । तच्छेषत्वं संहिताशेषत्वम् । संहितोक्ततापाख्यार्थस्य शेषभूतो देहपावित्र्याख्यार्थ एव परिशिष्टे यतः कथ्यते अतः संहितापरिशिष्टाभ्यां तापेन देहपावित्र्यमुक्तमिति शेषः । एवं च यत्ते पवित्रमर्चिषीति संहितायामुक्ततप्तचक्रधारणाख्यार्थस्यैव कैः कैर्धृतमित्या-काङ्क्षायां शेषभूतोऽर्थः परिशिष्टे प्रतिपाद्यते । अत एव तत्परिशिष्टम् । तस्मा-दुभयत्रापि तप्तमुद्राधारणस्यैव प्रस्तुतिरिति भावः । तत् पावित्र्यहेतुभूतम् ।। ६२१ ।।

सत्यप्रमोदटीका

 शेषत्वं धारणकर्तृप्रतिपादनेन तदुपकारकत्वम् ।। ६२१ ।।

युक्तिमल्लिका

तापेन देहपावित्र्यकृत्पवित्रं जगत्रये ।

नापरं विद्यते विष्णुचक्राद्वैष्णवसंमतात् ।। ६२२ ।।

सुरोत्तमटीका

 तापेन देहपावित्र्यं सुदर्शनेनैव वक्तव्यं नान्येन । दशापवित्रादिना देहतापाभावात् । तापहेतुभूतं पवित्रं च सुदर्शनमेव भवेत् नान्यदिति भावः ।। ६२२ ।।

सत्यप्रमोदटीका

 परिशेषप्रमाणमाह तापेनेति ।। ६२२ ।।

युक्तिमल्लिका

जडर्चां श्रवणायोगान्न ताः प्रार्थयते मुनिः ।

ऋगर्थीभूतपवनतनूनां प्रार्थनं हि तत् ।। ६२३ ।।

सुरोत्तमटीका

 ननु पावमान्य इत्यत्र पवमानतनूनां कुतो ग्रहणमित्यत आह ।। जडर्चामित्यादिना ।। श्रवणायोगात् प्रार्थनावचनश्रवणायोगात् । ताः पवमानप्रतिपादकऋचः । उपलक्षणं चैतत् । ‘इन्द्रः सुनीती सहमा पुनातु सोमः स्वस्त्यावरुणः समीच्येत्यादिवचनात्’ इन्द्रसोमादिपदवाच्यपवमान-तनूनामेव प्रार्थनात् पूर्वश्रुतावपि तासामेव प्रार्थनमिति द्रष्टव्यम् ।। ६२३ ।।

सत्यप्रमोदटीका

 प्रार्थनकर्मत्वात् जडानामृचां ग्रहणं न सम्भवतीत्याह जडेति ।। ६२३ ।।

युक्तिमल्लिका

यतस्तत्रैव स मुनिर्देवैर्देवीः समाहिताः ।

इत्याह तेन सर्वर्क्षु देवैः सह समाहिताः ।। ६२४ ।।

देव्यश्च सन्ति भारत्या मूर्तयो वायुमूर्तयः ।

मानिन्यः प्रतिपाद्याश्च ततस्तत्प्रतिपादिताः ।। ६२५ ।।

सुरोत्तमटीका

 निमित्तान्तरं चाह ।। यत इति ।। तत्रैव येन देवा इति श्रुतेः पूर्वं पावमानीर्दिशंतु न इमं लोकमथो अमुम् । कामां त्समर्धयंतु नो देवैर्देवीस्समाहिता इति श्रुतावेव । अयमर्थः । पावमानीः पावमान्यः । पवमानसूक्तसम्बन्धिन्य इत्यर्थः । देवैः देवशब्दवाच्यपवमानमूर्तिभिः सह समाहिताः सम्यगाहिताः । पवमानसूक्तस्थऋचां प्रतिपाद्यतया अभिमानितया च स्थिता इत्यर्थः । देवीः देव्यः भारतीमूर्तयः नः इमं लोकं अथो अनन्तरं अमुं परलोकं च दिशन्तु । नः कामान् काम्यन्त इति कामाः तान् इहामुत्र च काम्यसकलार्थानित्यर्थः । समर्धयन्तु समृद्धान् कुर्वन्त्विति ।

एवं चास्यां श्रुतौ पवमानसूक्तस्थऋक्प्रतिपाद्यतया तदभिमानितया च देवशब्दवाच्यपवमानमूर्तीनां देवीशब्दवाच्यभारतीमूर्तीनां च पावमानीपदेन प्रस्तुतत्वाद्येन देवा इति श्रुतावपि पावमानीपदं गुरुत्वयोग्यपवमानतनूनामेव प्रतिपादकमिति भावः । सः येन देवा इति मन्त्रद्रष्टा । समाहिता इत्यत्र देव्यः पुंलिङ्गतया स्त्रीलिङ्गतया च देवपदसम्बन्धिन्यः । मानिन्यः प्रतिपाद्याः भारतीमूर्तयो वायुमूर्तयश्च यतः सन्तीत्याहेति क्रियाध्याहारेण सम्बन्धः ।। ६२४,६२५ ।।

सत्यप्रमोदटीका

 तत्र पूर्वश्रुतौ ‘कामान् समर्धयन्तु नः देवैर्देवीः समाहिता’ इत्यत्र । मानिन्यः अभिमानिन्यः । यतः सन्तीत्याह ततः ताभिः सर्वाभिः ऋग्भिः प्रतिपादिताः ।। ६२५ ।।

युक्तिमल्लिका

चक्राङ्कधारणं तेषु कुर्वन्त्यो वायुमूर्तयः ।

प्रधानभूताः प्रार्थ्यन्ते शेषे शेषिणि वाक्चये ।। ६२६ ।।

सुरोत्तमटीका

 चक्राङ्कधारणं कुर्वन्त्यः प्रधानभूता इत्यनेन पूर्वश्रुतौ वायुमूर्तीनामेव ग्रहणे निमित्तं सूचयति । युक्त्यन्तरं चाह ।। शेष इति ।। शेषे संहिताशेषात्मकपरिशिष्टरूपे । शेषिणि प्रधानभूतसंहितारूपे । वाक्ये वाक्य-समूहे । अङ्गप्रधानवचनानामैकार्थ्यनियमात् सूक्तप्रतिपाद्यवायोरेव परिशिष्ट-वचनेऽपि प्रतिपाद्यत्वात् येन देवा इत्यादिश्रुतिरपि वायुप्रतिपादिकैव । अतोऽपि पावमान्य इति पदं वायुमूर्तीनामेव प्रतिपादकमिति भावः ।। ६२६।।

सत्यप्रमोदटीका

 देवैः इति पूर्वं निर्देशे कारणमाह कुर्वन्त्य इति । वाक्चये वाक्यसमूहे परिशेषसंहितारूपे ।। ६२६ ।।

युक्तिमल्लिका

न यस्य सर्वमोक्षेऽपि मोक्षः साधर्म्यधर्मिणि ।

तच्चक्रलाञ्छनं मोक्षयोग्यात्को मोचयेद्बुधः ।। ६२७ ।।

सुरोत्तमटीका

 श्रीमुद्राधारणस्य मोक्षयोग्येष्वावश्यकत्वयुक्तिं चाह ।। न यस्येति ।। यस्य चक्रादिधारणस्य । साधर्म्यधर्मिणि सारूप्याख्यसादृश्य-धर्मिणि । सर्वमोक्षेऽपि सकलसंसारमोक्षेऽपि । मोक्षो मोचनं नेति सम्बन्धः । मोक्षयोग्यादित्यनेन तमोयोग्यान्मध्यमजीवाच्च चक्रादिमोचनं सम्भावितमिति सूचयति । अत एव तावुभौ स्वगतावपि चक्रादिधारणाभावात् संसारेऽपि चक्रादिधारणनिन्दां कुर्वाते । मोक्षयोग्यास्तु वैष्णवाः मोक्षेऽप्यावश्यकस्य संसारे सुतरामपेक्षितत्वात् चक्रादिधारणं स्तुवन्ति । श्रुतयो वासिष्ठादिस्मृतयश्च उक्तविधया चक्रादिधारणं स्तुवन्तीति भावः । अनेनैव निन्दावचनानां गतिरपि सूचितेति द्रष्टव्यम् ।। ६२७ ।।

सत्यप्रमोदटीका

 सारूप्यमोक्षेऽपि चक्रधारणानुवृत्तेः श्रुतत्वान्मोक्ष-योग्यानां तदावश्यकं इत्याह नेति । सर्वमोक्षे सकलसंसारान्मुक्तावपि

।। ६२७ ।।

युक्तिमल्लिका

चमूषत्साधुचम्वां सन्वैष्णवेषु समुज्ज्वलन् ।

सुखी हरिर्हि यस्येनः स श्येनो विष्णुकिङ्करः ।। ६२८ ।।

नयन्सुखभुवं स्वीयांश्छकुनाख्योऽपि स प्रभुः ।

बिभृत्वा धारणाशीलोद्रप्संश्चित्तद्रवान्वितः ।। ६२९ ।।

सुरोत्तमटीका

 पवमानसूक्तस्थऋग्भिश्चक्रादिधारणं प्रस्तुत्य इदानीं पूयमानसूक्तस्थेन चमूषच्छ््येनश्शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्तीति वचनेन चक्रादि-चतुरायुधधारणमपि स्तौति । अस्येत्थं निरुक्तमामनन्ति । चमूः कर्मसङ्घाः । श्येनो जीवः । शकुनस्तस्यान्तराविशेषः । विभृत्वेति विशेषेण पोषयित्वा । शकुन इति शुकनामा, सदिति परब्रह्मरूपं भवति, गोविन्दुर्गोविन्दस्येति द्रप्सोऽङ्गसङ्गिचन्दनविन्दनादायुधानि बिभ्रदिति धारयन् अपामूर्मिं सचमानः समुद्रं अपामूर्मिमिति बुद्बुदायमानं संसृतिकारम्भककर्म सचमानो निराकरण-शीलः समुद्रमिति मुद्राभिः सहितं वपुर्दर्शयन् महिष इति संसार्यपि तुरीयं धामेति महदानन्दं वक्तीति जानीते ऊर्ध्वो गन्धर्वो अधिनाके अस्थादित्यपि निगमो भवतीति ।

तथा चायमर्थः । श्येनः पक्षिषु श्येन इव स्थूलो देवर्ष्यादिजीवः । श्येनो जीव इति वचनात् । शकुनः । शुक इव सूक्ष्ममनुष्यादिजीवः । शकुन-स्तस्यान्तराविशेषः शकुन इति शुकनामेति वचनात् । जीवेषूक्ततारतम्यज्ञानं चापेक्षितमिति सूचनायेत्थमुक्तम् । गोविन्दुः गोविन्दनामकनारायणस्य । भगवतस्सकलवेदप्रतिपाद्यत्वज्ञानस्याप्यावश्यकत्वसूचनायेत्थमुक्तम् । गाः विद्याः विन्दत इति व्युत्पत्तेः । गोविन्दुर्गोविन्दस्येति वचनात् । आयुधानि चक्रशङ्खगदापद्माद्यायुधानि । बिभृत्वा श्रुतिस्मृत्यादिभिस्तद्धारणं पोषयित्वा । बिभृत्वा पोषयित्वेति वचनात् । केवलं मुद्राधारणमेव नालम् । किन्तु सदाश्रीमुद्राधारणस्यावश्यकत्वसमर्थनमप्यपेक्षितमिति सूचनायेत्थमुक्तम् ।

द्रप्सः गोपीचन्दनाख्यद्रवद्रव्यात् । सुमनस इतिवत् पञ्चम्यन्तं छान्दसमिदम् । चन्दनविन्दनादिति वचनबलादयमर्थो लभ्यते । चन्दनं गोपीचन्दनं विन्दनं तस्य लाभः । तस्मादिति निरुक्तस्यार्थः । बिभ्रत् सदा धारयन् । समुद्रं तप्तमुद्रासहितं देहं च दर्शयन् । समुद्रमिति मुद्रादिभिः सहितं वपुर्दर्शयन्निति वचनादयमर्थो लभ्यते । गोपीचन्दनेन चक्रादिधारणस्य प्रागुक्तत्वादत्र तप्तमुद्राधारणमेव लभ्यते । अन्यथा पौनरुक्त्यात् । एवं च द्विविधमुद्राधारणस्यापि इयमेव श्रुतिःप्रापिका । अपामूर्मिं अपामूर्मिमिव विद्यमानं संसारारम्भककर्मबुद्बुदायमानं संसृतिकारम्भकं कर्मेतिवचनात् । सचमानः चमु अदन इति धातोः संहरन् । सचमानो निराकरणशील इति वचनात् । तुरीयं धाम परमानन्दरूपम् । तुरीयं धामेतिवचनात् । चमूषत् अनादिकालमारभ्य स्वैस्स्वैः क्रियमाण कर्मराशिषु साक्षितया विद्यमानं परम्ब्रह्म । चमूःकर्मसङ्घास्सदिति परब्रह्मरूपं भवतीति वचनात् । महिष-स्संसार्यपि सन् पूर्वोक्तो विष्णुचक्राङ्कितो वैष्णवजीवः विवक्ति विशेषेण जानीते अपरोक्षीकृत्य पश्यतीत्यर्थः । महिषस्संसार्यपिवक्तीति जानीत इति वचनात् ।

ऊर्ध्वो गन्धर्वो अधिनाके अस्थाद्विश्वारूपा प्रतिचक्षाणो अस्य । भानुश्शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसीमातरा शुचिरिति निरुक्तोक्त-समाख्याश्रुतेरप्ययमर्थः । अस्य परमात्मनः गन्धर्वः गच्छत्यवगच्छत्येभिः तं परमात्मानमिति गानि चक्रशङ्कादीनि तस्यासाधारणचिह्नानि तेषां धर्वो धारणशीलः । गोविन्दुरायुधानि बिभ्रदिति वचनसमाख्यारूपत्वादत्राप्यय-मेवार्थो लभ्यते । अस्य परमात्मनः । विश्वा विश्वानि स्वहृदयगुहायां प्रविष्टानि । विश प्रवेशन इति धातोः । रूपा रूपाणि बिम्बरूपाणीत्यर्थः । प्रतिचक्षाणः अपरोक्षीकृत्य पश्यन् । इदं च तुरीयं धाम विवक्तीत्यस्य साक्षात्समाख्यारूपं, बिम्बापरोक्षज्ञानिनां संसारारम्भककर्मनाशावश्यम्भा-वादपामूर्मिं सचमान इत्यस्य परंपरया समाख्येति द्रष्टव्यम् ।

ऊर्ध्वः मनुष्यादिजीवेभ्य उत्कृष्टः । भानुः सूर्यः । इदं च श्येन-पदोक्तसकलोत्तमजीवानामुपलक्षणम् । अतस्तस्यैव समाख्यारूपं च । देवेष्वेव चक्रादिलाञ्छनमप्रसिद्धत्वात्तेष्वेव तदनुशास्ति समाख्यावाक्यम् । मनुष्येषु तु कैमुत्येन तत्सिद्ध्यतीति हृदयम् । साक्षान्मेरुं परितोऽन्तरिक्षचारितया श्येनोपमा सूर्यस्यैव सम्भवतीत्यतस्तस्यैव ग्रहणम् । नाके स्वर्गे अधिकतया अस्थात् स्थितिमकरोत् । आधिपत्यमन्वभूदित्यर्थः । अनेन देवानां स्वलिङ्ग-विधारणेनात्मकृतानामिति भागवतोक्तचक्रादिभगवदायुधांकधारणं न हि देवपदप्राप्ता ब्रह्मदर्शनवर्जिता इति स्मृत्युक्तमपरोक्षज्ञानं च सङ्गृहीतम् । एवं च एतच्छ्रुतिद्वयसमाख्ययापि येन देवा इत्यस्यास्मदुक्त एवार्थ इति ज्ञातव्यम् । शुक्रेण शोकघ्नेन । रीङ्क्षय इति धातोः । शोचिषा कान्त्या व्यद्यौत् विशेषेण द्युतिमानभूत् । न केवलं भानुः स्वयमेव द्युतिमानभूत् किन्तु तमेव भान्त-मनुभाति सर्वमिति श्रुत्युक्तरीत्या परप्रकाशव्याप्यप्यभूदिति प्रदर्शनाय चरम-चरणप्रवृत्तिः । शुचिः शुद्धः । इदं च भूम्यन्तरिक्षस्थाशुचिपदार्थस्पर्शेऽपि लेपाभावसूचनार्थम् । मातरा मातरौ । जगन्मातृस्थानीयौ जगन्मातृभूत-श्रीभूम्याख्यश्रीरूपद्वयसन्निधियुक्ते वा । रोदसी द्यावापृथिव्यौ । प्रारूरुचत् प्रकर्षेण शोभयामास । रुचि दीप्ताविति धातोः । इदं च ऊर्ध्वो गन्धर्व इत्यत्र स्वोक्तोर्ध्वत्वसमर्थनार्थम् । ग्रन्थकारस्तु पूयमाने पवमानस्यैव प्रतिपाद्यत्वात् निरुक्तकारोपात्तसमाख्याश्रुत्यनुसारात् मध्वविषयत्वे स्वेन वक्ष्यमाणरीत्या सकलश्रौतपदानां स्वारसिकार्थलाभाच्च सूर्यस्थवाय्ववतारभूतमध्वविषयतयैव चमूषदिति श्रुतिं योजयति ।। चमूष इत्यादिना ।। साधुचम्वां सन्निति चमूषदिति पदस्यार्थः । तस्य तात्पर्यकथनं वैष्णवेषु समुज्ज्वलन्निति । सुखी हरिरिति श्येनपदस्यार्थकथनम् ।। शस्य सुखस्य कुःभूमिः तां नयतीति शकुन इत्यर्थः । बिभृत्वेत्यस्यार्थ कथनं धारणाशील इति । बिभृत्वन् शब्द इति ज्ञातव्यम् ।। ६२८,६२९ ।।

सत्यप्रमोदटीका

 इदानीं पूयमानसूक्तस्थं ‘चमूषच्छ्येनः शकुनो बिभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति’ इति मन्त्रं व्याख्याति चमूषदिति । वैष्णवसेनानायकः इत्यर्थः श्येनः शी परमसुखः हरिः आसमन्तात् इनः स्वामी यस्य सः । शस्य सुखस्य कुं भूमिं मोक्षं नयतीति शकुनः ‘स एनान् ब्रह्म गमयती’ति श्रुतेः । बिभृत्वा बिभृत्वन् इति शब्दस्य प्रथमान्तं रूपम् । शास्त्रार्थ-धारणशीलः । तत्पोषकः । जगद्धारको वा सूत्रनामकः । द्रवान्वितः परम-दयालुः ।। ६२८, ६२९ ।।

युक्तिमल्लिका

आयुधानि सदा बिभ्रद्भुजकण्ठोदरादिषु ।

चक्रशङ्खगदापद्मपूर्वाण्यखिलवाक्पतेः ।। ६३० ।।

गोविन्दुर्गोपतेर्वा स्वस्वामिनः सेविनां प्रभुः ।

अपां ज्ञानप्रवाहाणामूर्मिमौन्नत्यसम्पदम् ।। ६३१ ।।

समुद्रं वेदशास्त्राख्यं सचमानः स्वचेतसा ।

सम्बन्धं प्रापयन्मध्वो मरुदंशो भवाद्बहिः ।। ६३२ ।।

स्थितेस्तुर्यं मुक्तलोकाधारत्वाद्धामसंज्ञितम् ।

परं ब्रह्म विशेषेण वक्तीत्याह श्रुतिः परा ।

समवाये सचिद्धातुं यतो व्याख्यान्ति शाब्दिकाः ।। ६३३ ।।

सुरोत्तमटीका

 गोविन्दुरित्यस्यार्थकथनम् अखिलवाक्पतेरिति ।। गोपतेः गोपालस्य वेति तस्यैव पदस्यार्थान्तरकथनम् । महिष इत्यस्यार्थकथनं स्वस्वामिनस्सेविनां प्रभुरिति । सचमान इत्यस्यार्थकथनं स्वचेतसा सम्बन्धं प्रापयन्निति । तुर्यन्तुरीयनामकम् । सचमान इत्यस्य मूलीभूतं धातुमाह ।। समवाय इति ।। अनेन सच समवाय इति धातुं सूचयति ।। ६३०–६३३ ।।

सत्यप्रमोदटीका

 गोविन्दुः वाक्पतेः गोपालकृष्णस्य वा आयुधानि बिभ्रत् । महिषः तत्वदेवानां प्रभुः ।। ६३०–६३३ ।।

युक्तिमल्लिका

पूयमानस्य सूक्तस्था तन्माध्वीयं कथा ध्रुवम् ।

यतः प्रवचनं कुर्वद्वायोरूपं श्रुतिर्जगौ ।। ६३४ ।।

सुरोत्तमटीका

 यतः प्रवचनं कुर्वद्वायोरूपं श्रुतिर्जगौ तत्तस्मादिति पूर्वेणान्वयः ।। ६३४ ।।

सत्यप्रमोदटीका

 यतः तत् तस्मादिति पूर्वेणान्वयः ।। ६३४ ।।

युक्तिमल्लिका

तच्चमूषु सतां सेयं कथा भक्तिमतां सताम् ।

सेनास्तुतौ च सेनानीस्तुतिरेव यतो भवेत् ।। ६३५ ।।

सुरोत्तमटीका

 चमूषु मध्वसेनासु सन्निति जात्येकवचनाभिप्रायेण सकलवैष्णवैः क्रियमाणचक्रादिधारणस्य श्रौतत्वसिद्ध्यर्थं वैष्णवमात्रविषयतया वा इयं श्रुतिर्योज्येत्याह ।। तच्चमूष्विति ।। तच्चमूषु मध्वचमूषु । । पूयमानसूक्ते कथमन्यस्तुतिरित्यत आह ।। सेनेति ।। ततश्चायं समुदायार्थः । चमूषत् वैष्णवसेनामध्ये गुरुतया तिष्ठन्, शी आनन्दरूपी परमात्मा आसम्यक् इनो यस्य सः श्येनः । महालक्ष्म्याः अवान्तरस्वामित्वेऽपि मुख्यस्वामित्वं विष्णोरेवेति दर्शनायेत्थमुक्तम् । शकुं मोक्षाख्यसुखभूमिं नयतीति शकुनः । कुःपृथ्वीत्यभिधानम् । बिभृत्वा वेदशास्त्राद्यर्थानां सदा धारणशीलः सत्तर्कैस्तेषां पोषको वा । श्वासरूपेण जगद्धारणशीलो वा । गोविन्दुः कृष्णस्य आयुधानि सहस्रारचक्रं शतावर्तशङ्खं सहस्रदलपद्मं षोडशारगदां चेति चतुरायुधानि भुजद्वये उरोभागद्वये च । चतुर्भुजत्वे तु स्वबाह्यभुजद्वये च बिभ्रत् । द्रप्सः भक्तेषु सर्वदा चित्तद्रववान् । द्रवणमेव द्रप्सा अर्श आदिभ्योऽजिति वचनात् तद्वान्द्रप्सः । अपां ज्ञानरसानां ऊर्मिं उत्तुङ्ग-तरङ्गस्थानीयोत्कर्षवन्तम् । समुद्रं वेदशास्त्राख्यसमुद्रं सचमानः स्वमनसा सम्बन्धं प्रापयन् । अन्तर्णीतणित्वादयमर्थो लभ्यते । स्वमनसा सदा तं समुद्रं सम्बध्नन्वा । अथवा अपां ज्ञानरसानां ऊर्मिं उत्कर्षवन्तं समुद्रं ज्ञानमुद्रया सहितं वेदव्यासं हयग्रीवं च सचमानः मनसा सम्बध्नन् सदा ध्यायन्नित्यर्थः । पुत्रतया शिष्यतया च सम्बध्नन्वा । जननमरणादिप्रवाहानां ऊर्मिं उत्कर्षवन्तं समुद्रं संसारसमुद्रं सचमानो निराकुर्वन्वा । महिषः सकलजीवानां श्रेष्ठः वायोरवताररूपो मध्वः तुरीयं सर्वेषामवसाने विद्यमानम् । धाम सकलाधारभूतं विष्ण्वाख्यं परं ब्रह्म विवक्ति विशेषण वक्ति अपरोक्षीकृत्य जानीते च । वैष्णवमात्रविषयेषु चमूषत् वैष्णवसङ्घे स्थितः शी सुखी परमात्मा आसमंतात् जन्मजन्मनि इनो यस्य स तथोक्तः । शकुं निरवधिकसुखभूमिं परमात्मानं नयति यथायोग्यं स्वशिष्यादिषु उपदिशतीति शकुनः । गोविन्दुरायुधानि बिभ्रत् द्रप्सः यथायोग्यं चित्तद्रववान् । अपामूर्मिं समुद्रं ज्ञानरसोर्मिमन्तं वेदशास्त्राख्यसमुद्रं सचमानः श्रवणमननादिना यथायोग्यं सम्बध्नन् । महिषः अधममध्यमजीवेभ्यः श्रेष्ठः तुरीयं धाम विवक्ति अपरोक्षीकृत्य जानीत इति योजना । निरुक्तोक्तरीत्या वा योजना ।

जीवेष्वपि पक्षिपश्वादियोनिसद्भावदर्शनाय श्येनशकुनमहिषपदानि । अपां जलानामूर्मिं ऊर्मिमन्तं समुद्रं प्रसिद्धसमुद्रं सचमानः पानेन संहरन् अगस्त्यः अभिमानितया सम्बध्नन् वरुणो वा नदीरूपेण सम्बध्नन् गङ्गादिनद्यभिमानि-देवतासमूहो वा । वेदशास्त्राख्यसमुद्रम् अभिमानितया सम्बध्नन् सरस्वती-भारत्यादिदेवस्त्रीसमूहो वा । गङ्गायाः अपामूर्मिं हरिचरणप्रक्षालनेन पवित्री-कृत्य समुद्रं बहिर्जटाभस्माद्यवैदिकमुद्रयासहितं स्वपुत्रं शिवं पावयितुं सचमानः प्रापयन् ब्रह्मा वा तव श्रिये मरुतो मर्जयन्त इति श्रुतेः स्वजटामध्यपतितमपां प्रवाहं भगीरथप्रार्थनया समुद्रं प्रापयन्,

एवमात्मभुवादिष्टः परिक्रम्य गिरां पतिम् ।

बाढमित्यभ्युपामन्त्र्य विवेश तपसे वनम् ।।

इति तपोहेतोर्घनोदकसमुद्रं सचमानः । अन्तर्गोविन्दस्यायुधानि बिभ्रच्छिवो वा । अराख्यं ण्याख्यं वा मुक्तिस्थानस्थं महासमुद्रं सचमानः मुक्तगणो वात्र प्रतिपाद्यत इति सर्वेषामपि भगवच्चक्राद्यायुधांकधारणे अधिकारं सूचयितुं विशिष्य विशेष्यमनिर्दिशन्तीति श्रुतिः उक्तविधया सर्वत्र सम्भवद्विशेषण-गणैरेव यतः प्रवृत्ता तस्मादुक्तः सर्वोऽप्यर्थः श्रुतेरभिप्रेत एवेति ज्ञातव्यम् ।। ६३५ ।।

युक्तिमल्लिका

स्वरेण प्रणवाख्येन मन्त्रेण हृदिगं सदा ।

परतश्च परं देवं महतश्च महत्तरम् ।। ६३६ ।।

धृतोर्ध्वपुण्ड्रः श्रुतसच्चक्रधारीह यः पुमान् ।

विष्णुं ध्यायति सर्वत्र स महात्मेति सांप्रतम् ।। ६३७ ।।

प्रसिद्धोपनिषच्चाह शृपाक इति धातुतः ।

तप्तचक्राङ्कोर्ध्वपुण्ड्रधृतिस्तुतिपरा स्फुटम् ।। ६३८ ।।

सुरोत्तमटीका

 इदानीं धृतोर्ध्वपुण्ड्रः श्रुतचक्रधारी विष्णुं परं ध्यायति यो माहात्मा । स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यन्महतो महान्तमिति स्पष्टं तप्तचक्रोर्ध्वपुण्ड्रधारणप्रतिपादकं सृगालोपनिषद्वाक्यमर्थतो गृह्णाति ।। स्वरेणेति ।। शृृपाक इति धातोः श्रुतचक्रधारी तप्तचक्रधारीत्यर्थः । इह लोके । इहेति सदिति च पदं छन्दोभङ्गपरिहारार्थम् । सांप्रतं प्रसिद्धा । अद्यापि सौराष्ट्रदेशादौ वैदिकैः पठ्यमानेत्यर्थः ।। ६३६–६३८ ।।

सत्यप्रमोदटीका

 स्पष्टं सृगालोपनिषद्वाक्यं ‘धृतोर्ध्वपुण्ड्रः (शृ)श्रुत-चक्रधारी विष्णुं परं ध्यायति यो महात्मा । स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यन्महतो महान्तं’ इत्येतद्वाख्याति स्वरेणेति ।। श्रुतेति तप्तेत्यर्थः ।। ६३५–६३८ ।।

युक्तिमल्लिका

द्विरेखमूर्ध्वपुण्ड्रं च भवति द्विभुजे सदा ।

तप्तचक्रं धाययतीत्याह काचन वेदवाक् ।। ६३९ ।।

काण्वानां सा शतपथब्राह्मणे किल वर्तते ।

यद्वेदस्य शिरो वक्ति तदेव हि वपुर्मतम् ।। ६४० ।।

तस्मादियं च वाक्स्तौति तप्तचक्रायुधाङ्कनम् ।

अचक्रधारिव्याख्यादिप्रत्याख्यानचिकीर्षया ।। ६४१ ।।

सुरोत्तमटीका

 द्विरेखमूर्ध्वपुण्ड्रं चेत्यनेन द्विरेखमूर्ध्वपुण्ड्रं भवति तप्तं चक्रं द्विभुजे धाययतीति काण्वानां शतपथाख्यब्राह्मणे अद्यापि वैदिकैः पठ्यमानं ऊर्ध्वपुण्ड्रतप्तचक्रधारणे तात्पर्यद्योतनाय एकप्रकारेणैवासकृदभ्यस्तं वाक्यं गृह्णाति ।। धाययतीति ।। धारयतीत्यर्थः । द्विभुज इत्यनेन विदो विदुरिति स्मृतावाह । उभयालाभे चक्रलाञ्छनस्यैव मुख्यत्वात् तद्धारणमेव विहितमिति सूचितम् । अत एव पूर्वाप्युपनिषत् श्रुतचक्रधारीत्येवाह । संहितावाक्यान्यपि पवित्रपदवाच्यसुदर्शनधारणमेव स्तुवन्ति । गोविन्दु-रायुधानि बिभ्रदिति वचनाच्चतुरायुधधारणमपि न्याय्यम् ।

दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।

सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ।।

इति स्मृत्यनुसारेणायुधद्वयधारणमपि विहितम् । अतः श्रुतिस्मृतीनां तप्तचक्राङ्करहितपुरुषनिन्दन एव महान् भरः । धारणं तु यथारुचि कर्तव्यमिति भावः । साहित्यमुद्रया संहितोपनिषदोरैकार्थ्यं सम्पादयति ।। यदिति ।। वेदस्य शिरः उपनिषत् । वपुर्मतं वपुषः वपुःस्थानीयायाः संहितायाः मतमभिमतम् । लोके हि शिरसा यद्वक्ति तदेवं हस्तपादादिकमनुकरोति । अतो वेदेऽपि मुख्यतया शिरःस्थानीयोपनिषदा स्पष्टं यत्तप्तचक्रधारणं विहितं तदेव गोविन्दु-रायुधानि बिभ्रदिति संहितावाक्येनापि विधातव्यं नान्यत् । अतोऽत्रापि मुख्यतस्तप्तायुधानां धारणमेवाभिप्रेतमिति भावः । इयं वाक् गोविन्दुर्द्रप्स आयुधानीति वाक् । अचक्रधारिव्याख्यादिप्रत्याख्यानचिकीर्षया तप्तचक्राङ्क-मकुर्वतः पुरुषस्य कपोलकल्पितं यत्किञ्चिद्व्याख्यादि । आदिपदेन तप्तचक्राङ्क-धारणाख्यानाचारोऽपि गृह्यते । तस्य प्रत्याख्यानचिकीर्षया ।। ६३९–६४१ ।।

सत्यप्रमोदटीका

 ‘द्विरेखमूर्ध्वपुण्ड्रं भवति तप्तं चक्रं द्विभुजे धाययती’ति शतपथवाक्यमप्यत्र प्रमाणयति द्वीति । धाययति धारयति ।। उपनिषदः संहितावाक्यस्य चैकार्थत्वं साहित्यमुद्रयाऽऽह यदिति शिरः उपनिषद् । वपुः संहिता । लोकेऽपि उत्तमाङ्गानुकारित्वं हस्तपादादिवपुषः प्रसिद्धमिति भावः ।। ६३९,६४१ ।।

युक्तिमल्लिका

अत्रापि च पवित्रं त इति वाग्वायुगं हरिम् ।

स्तुवन्ती तप्तचक्राङ्कधारणं वक्ति सुस्फुटम् ।। ६४२ ।।

सुरोत्तमटीका

 अत्रापि पूयमानेऽपि । पवित्रन्त इति वागित्यनेन ‘पवित्रन्ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्नतदामो अश्नुते शृृतास इद्वहन्तस्तत्समाशतेति’ श्रुतिं गृह्णाति । अयमर्थः । हे ब्रह्मण-स्पते वेदानां पते चतुर्मुखब्रह्मणस्पते वा । नारायण ते पवित्रं सुदर्शनं विततं जगति विशेषेण व्याप्तं सूर्यमण्डलवत् प्रभया व्याप्तिर्न किन्तु स्वरूपेण व्याप्तिरिति सूचनाय वीत्युपसर्गः । तत्र निमित्तं प्रभुरित्यादि । प्रभुस्त्वं विश्वतः गात्राणि प्राणिनां शरीराणि पर्येषि परितः प्राप्नोषि व्याप्नोषीत्यर्थः । सुदर्शनधारिणस्तव सर्वशरीरेषु अन्तर्यामितया व्याप्तत्वात्तव करस्थं सुदर्शनमपि सर्वत्र व्याप्तमिति भावः ।

अस्तु भगवतो भगवत्सुदर्शनस्य च व्याप्तत्वं तथापि प्रकृते किमायातमित्यत उक्तम् ।। अतप्ततनूरित्यादि ।। तेन चक्रेणातप्ता बाहुमूले तापरहिता तनुर्यस्य सोऽतप्ततनुः । तापे करणं किंचिद्वक्तव्यं, तच्च प्राक् सुदर्शनस्य प्रस्तुतत्वेन शिष्टाचारबलेन च तस्यैव करणतया सम्बन्धो युक्तो न त्वन्यस्येति भावः । अत एवाऽऽमः तापाख्यसंस्काररहितः पुरुषः तत् मोक्षसुखं नाश्नुते । विष्णु-चक्राङ्करहितस्य वैकुण्ठसुखानुभवेन सह सर्वथा सन्धानाभावदर्शनाय विसन्धि-करणम् । सुदर्शनधारणस्य मोक्षसुखाशनं प्रति कारणत्वनिर्णयाय व्यतिरेक-व्याप्तिमुक्त्वा अन्वयमप्याह ।। श्रितास इत्यादिना । श्रितासः चक्रेण पक्वभुजाः । भुजे तप्तसुदर्शनाङ्कसहिता इत्यर्थः । इत् इत्थं तप्तसुदर्शनाङ्कवदेव वहन्तः गोपीचन्दनादिना धारयन्तश्च वैष्णवजनाः तन्मोक्षसुखं समाशत सम्यगभक्षयन्त । अशूभक्षण इति धातोः । आसतेति बहुवचनांतपदवदिदं द्रष्टव्यम् । सम्यगन्वभूवन्नित्यर्थः । अश्नुवतेति वक्तव्ये आशतेत्यलौकिक-पदप्रयोगः, सांसारिकसुखाशनवत् नेदं भेदघटितमशनं किन्तु स्वरूपभूत-सुखस्यैव विशेषशक्त्याऽशनमिति लोकवैलक्षण्यप्रदर्शनाय अविकृतसुखाशन-द्योतनाय वा यथास्थितधातुजमेव पदं युक्तम् । चक्राङ्कधारणे सति मौक्त-सुखावश्यम्भावात् तदभावे तदभावाच्च मोक्षसुखाशनं प्रत्यादौ तदेवासाधारण-कारणमिति भावः । जीवानां स्वरूपभूतदेहेष्वपि सुदर्शनधारिणस्तव बिम्ब-रूपतया व्याप्तत्वात् बिम्बसारूप्याख्यमोक्षमभीप्सतां स्वरूपभूतदेहे चक्राङ्क-स्यावश्यकत्वात् तदनुसारेणैव बाह्यदेहस्यापि सत्त्वौचित्यात् तदनुमापकतया बाह्यदेहेऽपि तप्तसुदर्शनाङ्ककरणमावश्यकमिति सूचनाय प्रभुर्गात्राणि पर्येषी-त्युक्तम् ।। ६४२ ।।

सत्यप्रमोदटीका

 ‘पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्रुते (शृ) श्रुतास इद्बहन्तस्तत्समासत’ इति श्रुत्यर्थं शंसति अत्रापीति । पूयमानेऽपीत्यर्थः । सुस्फुटम् अन्वयव्यतिरेक-प्रदर्शनपूर्वकम् ।। ६४२ ।।

युक्तिमल्लिका

ब्रह्मणो वेदराशीनां पते लक्ष्मीपते तव ।

पवित्रहस्तगं चक्रं व्याप्तं सर्वत्र सर्वदा ।। ६४३ ।।

सुरोत्तमटीका

 एतदेवाभिप्रेत्याह ।। ब्रह्मण इत्यादिना ।। ६४३ ।।

सत्यप्रमोदटीका

 हस्तगम् इति हेतुगर्भं विशेषणम् । हस्तस्य व्याप्तत्वात् तेन धृतस्य चक्रस्यापि तथात्वमिति ।। ६४३ ।।

युक्तिमल्लिका

प्रभुस्त्वं देहिगात्राणि यतः पर्येषि विश्वतः ।

चक्रव्याप्तौ हेतुभूता चक्रिव्याप्तिरितीरिता ।

नान्यत्पवित्रं प्राण्यङ्गव्यापि नापि जगत्रये ।। ६४४ ।।

तेनातप्ततनूरामः पाकहीनो श्रुतेन तत् ।

आमुष्मिकफलं यद्धि प्रसिद्धं भोक्षसंज्ञितम् ।। ६४५ ।।

सुरोत्तमटीका

 इति हेतोः ईरिता श्रुतौ कथिता । अन्यत् दशा-पवित्रादिकम् । प्राण्यङ्गव्यापि न जगत्रये व्याप्यपि नेति सम्बन्धः ।। तेन पूतेन पूर्वार्धोक्तसुदर्शनेन । अतप्ततनूः अत एव आमः । यत् मोक्षसंज्ञित-मामुष्मिकफलं लोके प्रसिद्धं तदिति सम्बन्धः । तदिति सामान्येनोक्तावपि मोक्षसुखस्यैव प्राप्तिसूचनाय प्रसिद्धमित्युक्तम् । प्रसिद्धत्वात्तस्यैव तत्पदेन ग्रहणमिति भावः ।। ६४४,६४५ ।।

सत्यप्रमोदटीका

 विश्वतः तन्वा एव न केवलं कान्त्या कीर्त्या वा । ‘परो मात्रया तन्वा वृधान’ इत्युक्तेः । अन्यत् पराभिमतं दशापवित्रादिकम् । व्यापि न इति पदच्छेदः । आम इत्यस्यार्थः पाकहीन इति । नेति व्यतिरेक-प्रदर्शनम् । तदित्यनूद्य अर्थमाह आमुष्मिकमित्यादिना ।। ६४४, ६४५ ।।

युक्तिमल्लिका

शृतासस्तेन पक्वाङ्गा वहन्तश्च दिने दिने ।

गोपीचन्दनतो भक्तास्तत्समेत्य समाशत ।

इत्यर्थं वागियं स्पष्टमाचष्ट किल वैष्णवी ।। ६४६ ।।

सुरोत्तमटीका

 गोपीचन्दनतो वहन्त इति सम्बन्धः । तत् मोक्षसुखं समेत्य समाशत सम्यगश्नुत मोक्षसुखाशनं कुर्वतः वैकुण्ठादिलोकेषु तिष्ठन्तीति भावः ।। ६४६ ।।

सत्यप्रमोदटीका

 वहन्त इत्यस्य गोपीचन्दनत इत्यनेनान्वयः । तेन दिने दिन इत्युपपन्नम् । तदित्यन्वयप्रदर्शनम् । समाशत सम्यक् अन्वभूवन् ।। ६४६ ।।

युक्तिमल्लिका

तदेषा पूयमानस्य सूक्तस्था वायुगं हरिम् ।

स्तौति वायुमतस्थानां धर्मस्तवनतत्परा ।। ६४७ ।।

वायोः सूक्तं वदेद्वायुं वायुगं वा हरिं वदेत् ।

वदेद्वा वातरस(श)नमुनिधर्मं सुनिर्मलम् ।। ६४८ ।।

सुरोत्तमटीका

 तत् तस्मात् । एषा पवित्रन्त इति वाक् । वायुगं हरिमिति पूयमानप्रकरणविरोधपरिहारार्थम् । मुमुक्षुमात्रकथनेऽपि पूयमान-प्रकरणविरोधपरिहाराय वायुमतस्थानामित्युक्तम् । उपलक्षणं चैतत् । श्रुतौ श्रुतास इति बहुवचनप्रयोगात् वायोरप्यत्र प्रतिपाद्यत्वसम्भवान्न प्रकरणविरोध इत्यपि द्रष्टव्यम् । अत एवातप्ततनूरिति प्रागेकवचनान्तपदेन प्रस्तावेऽपि तदुल्लङ्घ्य बहुवचनान्तपदेन प्रस्तुतिः । किमर्थं तर्हि पूर्वमप्येकवचनान्तपदेन प्रस्तुतिरिति चेत् सत्यं तदुक्तैकजीववादस्याप्यनुवादायेति ब्रूमः । सर्वेषा-मनुवादानर्हतया वा तेष्वेकस्य ग्रहणम् । दशापवित्रपरतया व्याख्याने तु विशेषेण व्याप्तत्वानुपपत्तिः । सोमरससङ्ग्राहकमृण्मयपात्रे गात्रपदप्रयोगायोगः । सोमरसे प्रभुत्वायोगः । अतप्ततनुरित्यस्य प्रकृतानुपयोगः । तत्र तनूपदेन शरीरग्रहणे गात्रपदेनापि तस्यैव ग्रहणम् । अन्यथा प्रायपाठविरोध इति दूषणानि द्रष्टव्यानि । दशापवित्रे मन्त्रनियोगस्य तु गतिरुक्तैव ।।५४७,६४८।।

सत्यप्रमोदटीका

 पूयमानस्य वायोः । तेन वायोः स्तुतिः ज्ञापिता ।। ६४७ ।।

युक्तिमल्लिका

ब्रह्मास्त्ररूपगायत्री शत्रोः संहारकर्मणि ।

नियुक्तेत्येव किं वक्ति रिपुसेनाप्रणाशनम् ।। ६४९ ।।

सुरोत्तमटीका

 यत्र मन्त्रस्य विनियोगः स एव मन्त्रस्यार्थ इति न्यायस्यान्यत्रापि व्यभिचारमाह ।। ब्रह्मास्त्रेति ।। ब्रह्मास्त्ररूपगायत्री ब्रह्मास्त्र-मन्त्ररूपगायत्रीत्यर्थः । ब्रह्मास्त्रमुखेन रिपुसेनासंहारे विनियुक्ताया गायत्र्याः रिपुसेनाप्रतिपादकत्वाभावाद्यत्र विनियोगः स एव मन्त्रार्थ इति न्यायोऽत्रापि व्यभिचरित इति भावः ।। ६४९ ।।

सत्यप्रमोदटीका

 अस्य मन्त्रस्य दशापवित्रे विनियोगेऽपि तदर्थकत्वे बाधसद्भावात् उक्तत्रितयस्तुतिपरत्वं योग्यतावशात् श्लिष्टतरमित्यत्र दृष्टान्तमाह ब्रह्मास्त्रेति ।। ६४९ ।।

युक्तिमल्लिका

सुदर्शनस्य मीमांसा द्रष्टव्या विस्तरार्थिभिः ।

उपकर्तुः प्रतिकृतेरशक्त्येहापि तत्कथा ।

अतोऽस्मदुक्त एवार्थ इति सर्वं मनोरमम् ।। ६५० ।।

सुरोत्तमटीका

 पवित्रं ब्रह्मणस्पत्यं लोकव्याप्तं सुदर्शनम् । तेनातप्ता तनूर्येषां ते न यान्ति हरेः पदमिति एतच्छ्रुतिव्याख्यानरूपपद्मपुराणवचनानु-कूल्यादपि स्वोक्त एव श्रुत्यर्थो न त्वन्य इति युक्तेरपि सूचनाय स्वकृत-सुदर्शनमीमांसातिदेशः । सुदर्शनमीमांसायाः पृथक्कृतत्वे किमत्रापि तन्मीमांस-येत्यत आह ।। उपकर्तुरिति ।। उपकर्तुः स्वस्योपकर्तुः सुदर्शनदेवस्य सुदर्शन-मन्त्रोपास्त्या स्वस्य सकलाभीष्टसिद्धेर्जातत्वादुपकर्तुरित्युक्तम् । प्रतिकृतेः स्तुतिव्यतिरिक्तप्रत्युपकारस्य अशक्त्या कर्तुं शक्त्यभावेन इहापि युक्तिमल्लिकायामपि । तत्कथा सुदर्शनकथा । स्वोपकारकसुदर्शनदेवस्य तदुपकारसदृशप्रत्युपकारकरणे शक्त्यभावात् वारं वारं स्तुतिर्वा कर्तव्येत्या-शयेनात्रापि तत्कथेति भावः।।६५० ।।

सत्यप्रमोदटीका

 सुदर्शनस्य मीमांसेति ग्रन्थकारेण विरचितं प्रबन्धान्तरम् । पुनरपि अत्र तन्मीमांसायां प्रयोजनं सुदर्शनदेवस्य स्तुति-रेवेत्याह उपकर्तुरिति । तदुक्तं सुधायां ‘‘आर्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यमि’’ति । प्रतिक्रियायाः सर्वथाऽशक्यत्वेऽपि स्वकीय-कर्तव्यतामात्रेण वारं वारं स्तुतिरित्याशयः । अनेन सुदर्शनदेवोपासनेनैव ग्रन्थकृत एवमीदृशलोकविलक्षणप्रतिभादिसकलाभीष्टसिद्धिरिति ज्ञायते ।। ६५०, ५६१ ।।