आनन्दश्रुतितो ब्रह्मानन्दरूपं यदीष्यते

पूर्वसौरभोक्तानुवादः

युक्तिमल्लिका

आनन्दश्रुतितो ब्रह्मानन्दरूपं यदीष्यते ।

तर्हि प्रियशिरस्त्वादिश्रुतेरानन्दमूर्तिता ।। ७९२ ।।

अप्यङ्गीक्रियतां नोचेन्नोभयं च प्रसिद्ध्यति ।

जयी तार्किकबालः स्यात्त्वं तु भूयाः पराजयी ।। ७९३ ।।

सुरोत्तमटीका

 आनन्दमूर्तिता ब्रह्मणः आनन्दमयशिरःपाण्याद्याकार-विग्रहवत्त्वम् । नो चेत् अस्य प्रियमेव शिर इत्यादिश्रुतेरौपचारिकत्वमङ्गीकृत्य विग्रहो नाङ्गीक्रियते चेत् । तर्ह्यानन्दश्रुतेरपि उपचारणदुःखनिवृत्तिपरत्वस्य वक्तुं शक्यत्वात् उभयं मदभिलषितानन्दविग्रहवत्त्वं त्वदभिलषितानन्दस्वरूपत्वं चेत्युभयं न प्रसिध्यतीति सम्बन्धः । तार्किकबालः अष्टगुणतयाङ्गीकृत ईश्वरे स्वानभिमतसुखस्यासिद्धेर्जयवान्स्यात् ।। ७९२,७९३ ।।

सत्यप्रमोदटीका

 श्रुत्युक्तत्वाविशेषेऽपि आनन्दस्वरूपस्य तदात्मका-वयवानां च मध्ये आनन्दावयवात्मकमूर्तितामात्रपरित्यागोक्तिः वैदिकंमन्यस्य लज्जाहेतुरित्याह आनन्देति । तार्किकबालः । दुःखभीत्या सुखमप्य-पलपन्हैतुकः ।। ७९२,७९३ ।।

युक्तिमल्लिका

यद्यैक्यं निर्गुणत्वं च वाक्यस्य बलतस्तव ।

तर्हि भेदश्च सुगुणास्तत्तद्वाक्यबलान्मम ।। ७९४ ।।

सुरोत्तमटीका

 तत्तद्वाक्यबलात् भेदगुणप्रतिपादकवाक्यबलात् ।।७९४।।

युक्तिमल्लिका

यदि सिद्धानुवादेन मद्वाक्यं दुर्बलं तव ।

सिद्धत्वद्ब्रह्मवाक्तर्हि गर्ह्या मह्यं न रोचते ।। ७९५ ।।

सुरोत्तमटीका

 सिद्धत्वद्ब्रह्मवाक् स्वप्रकाशतया सिद्धस्य त्वद्ब्रह्मणः प्रतिपादिका अस्ति ब्रह्मेति चेद्वेदेत्यादिवाक् ।। ७१५ ।।

सत्यप्रमोदटीका

 सिद्धेति स्वप्रकाशतया वा भ्रमानुपपत्त्याऽधिष्ठानतया कल्पनेन वा प्रमाणान्तरसिद्धेत्यर्थः । इदं चोपेत्योक्तम् । वस्तुतः जीवब्रह्म-भेदस्य ब्रह्मगुणानां चागमं विना सिद्धेरेवाभावादिति भावः । तदुक्तं भगवत्पादैः । ‘आगमं विनेश्वरस्यैवासिद्धेः’ इति ।। ७९५ ।।

युक्तिमल्लिका

अपूर्वशशशृृङ्गोक्त्या बलवत्या तदापतेत् ।

परेण पूर्वबाधश्चेद् ब्रह्म वृत्त्या निवर्त्यताम् ।। ७९६ ।।

सुरोत्तमटीका

 बलवत्या सिद्धविषयत्वाभावेन बलवत्या । तत् शश-शृृङ्गम् । वृत्त्या श्रवणजनितान्तःकरणसाक्षाद्वृत्त्या ।। ७९६ ।।

सत्यप्रमोदटीका

 तदापतेत् शून्यतत्त्वमेव सिध्येत् । ब्रह्म वृत्त्या इति पदच्छेदः । वृत्त्या परया चरमवृत्त्या ।। ७९६ ।।

युक्तिमल्लिका

पूर्वेण परबाधश्चेद्बन्धान्मुक्तिर्निवर्त्यताम् ।

स्तुत्यं मिथ्या यदि भवेद्दृश्यं मिथ्या न किं तव ।। ७९७ ।।

सुरोत्तमटीका

 तवेत्यनेन यद्दृश्यं तन्मिथ्येति पराभिमतव्याप्तिं सूचयति ।। ७९७ ।।

सत्यप्रमोदटीका

 स्तुत्यम् उपासनाविषयः । दृश्यं ज्ञानविषयः ब्रह्म ।। ७९७ ।।

युक्तिमल्लिका

श्रुत्युत्पन्नदृशेः सच्चेच्छत्युत्पन्नस्तुतेश्च सन् ।

एकपङ्क्तिस्थगेहानां दाहादाहौ कथं वद ।

प्रतिबन्दी ततो बन्दीकरोति भवतः श्रुतिम् ।। ७९८ ।।

सुरोत्तमटीका

 श्रुत्युत्पन्नदृशेः श्रुत्युत्पन्नदर्शनविषयत्वादिति यावत् । श्रुत्युत्पन्नस्तुतेः श्रुत्युत्पन्नस्तुतिविषयत्वादिति यावत् । सन् भेदभगवद्गुणादिरपि सन्नित्यर्थः । वेदमूलत्वस्योभयत्र साम्यादेकं सत् अपरं मिथ्येति वक्तुं न शक्यत इति भावः । तत्र दृष्टान्तमाह ।। एकेति ।। ७९८ ।।

सत्यप्रमोदटीका

 एकपङ्क्तिः श्रुत्युक्तत्वम् । अग्निः अतत्वावेद-कत्वोक्तिः। तथा च स्तुत्यगुणानामिव दृश्यब्रह्मणोऽपि अतत्वताऽऽपत्ति-र्दुष्परिहरेति भावः। यद्वा अग्निः असद्वा इदमग्र आसीदिति श्रुतेरापातार्थः । पंक्तिः प्रलयकालः । तथा च ब्रह्मजगतोरुभयोरपि स्वरूपापलापः अवर्जनीयः । श्रुतौ श्रद्धालुना श्रौतार्थापलापो निन्दनीय इति प्रघट्टिकार्थः । तदुक्तं चन्द्रिकायामन्तःस्थत्वनये ‘धर्मो भेदश्च मिथ्या चेच्छ्रुतिसूत्राप्रमाणता । व्याख्याव्याजेन चोक्ता स्यात्त्वया सौगतसौहृदादि’ति ।। ७९८ ।।

युक्तिमल्लिका

किञ्चाखण्डार्थवादाख्यमयश्चणकमश्नुतः ।

दन्ताः पेतुर्भवद्वाक्यभुजङ्गस्य फणेन किम् ।। ७९९ ।।

सुरोत्तमटीका

 ऐक्यगुणमिथ्यात्ववाक्यानां प्रागुक्तदूषणं च स्मारयति ।। किञ्चेति ।। दन्ताः प्रतिपाद्यतया श्रुतिमुखस्थितत्वेन दन्तसमानाः ब्रह्मधर्मतया ब्रह्मखण्डभूतैक्याद्यर्थाः ।। ७९९ ।।

सत्यप्रमोदटीका

 अयश्चणकमश्नुतः अबोधकत्वं निष्प्रकारकबोध-जनकत्वं वा आपन्नस्य । दन्ताः परबाधनप्रकाराः । पेतुः अपगताः । भुजङ्गस्य प्रपञ्चबाधनेन परानर्थकरणोद्यतस्य । फणेन चिन्मात्रप्रतिपादनेन । तस्य साधनबाधनासमर्थत्वात् इति भावः ।। ७९९ ।।

युक्तिमल्लिका

अपौरुषेयनिर्दोषवाक्येष्वेषु यदीष्यते ।

सर्वथाऽमानता तर्हि गताऽप्रच्छन्नबौद्धता ।। ८०० ।।

सुरोत्तमटीका

 भेदवाक्यादेरतत्वावेदकत्वं वदतः परस्य दूषणमाह ।। अपौरुषेयेति ।। सर्वथा अमानता अर्थान्तरकथनं विना अतत्वावेदकत्वरूपं केवलाप्रामाण्यम् । प्रच्छन्नबौद्धता गता स्पष्टं वेदाप्रामाण्यवादित्वेन प्रच्छन्नबौद्धतागता । किन्तु प्रसिद्धबौद्धतैवागतेति योजना ।। ८०० ।।

सत्यप्रमोदटीका

 अप्रच्छन्नबौद्धता इत्यपि पदच्छेदः । गता आगता प्राप्ता इत्यर्थः ।। ८०० ।।

युक्तिमल्लिका

अमानत्वस्वतस्त्वाख्यतत्त्वस्य व्यक्तवक्तरि ।

अमानताकालकूटं यदि वक्त्रे वसेत्तव ।

स्वमानोच्चारणे शक्तिर्गमिष्यति मरिष्यसि ।। ८०१ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि परस्य प्रच्छन्नबौद्धत्वमुपपादयति ।। अमानत्वेति ।। साहित्यमुद्रया दूषणान्तरं चाह ।। अमानतेति ।। मरिष्यसि स्वेष्टसाधनशक्त्यभावे मृतप्रायो भविष्यसीत्यर्थः ।। ८०१ ।।

सत्यप्रमोदटीका

 व्यक्तवक्तरि बौद्धमताद्भिक्षित्वेति शेषः । वक्त्रे त्वदभिमत नेहनानास्तीत्यादिवाक्ये । मरिष्यसि त्वद्वाक्यस्यैवाग्रतः अप्रामाण्यापत्तेरिति भावः ।। ८०१ ।।

युक्तिमल्लिका

तस्मादबाधितार्थानि वाक्यानि स्युर्यथाश्रुतम् ।

बाधितार्थानि वाक्यानि योग्यार्थेषु नयेद्बुधः ।। ८०२ ।।

सुरोत्तमटीका

 अवान्तरप्रमेयमुपसंहरति ।। तस्मादिति ।। ८०२ ।।

सत्यप्रमोदटीका

नयेदिति तदुक्तं तत्रैव चन्द्रिकायां ‘श्रुतौ श्रद्धालुना श्रुत्योर्विषयभेदेन तात्त्विकविषयत्वस्यैव वक्तव्यत्वाच्चे’ति

।।८०२ ।।

युक्तिमल्लिका

निर्दुःखसुखभोगाख्यो मोक्षो वाच्यस्त्वया मया ।

यत्र त्वस्येति वाक्यं तु ज्ञानमात्रं निषेधति ।। ८०३ ।।

तच्छ्रुत्वा तार्किको हृष्येत्तत्सा तर्केण तार्किकम् ।

हन्तु सन्त्वखिला भोगा मुक्तौ सर्वजनप्रियाः ।। ८०४ ।।

सुरोत्तमटीका

 लेशतस्तदेव दर्शयति ।। निर्दुःखेति ।। भोगोऽनुभवः । तत् आपातप्रतीत ज्ञानमात्रनिषेधनम् । तत्तस्मात् । आपाततो ज्ञानमात्र निषेधपरत्वेनावयोरयुक्तार्थत्वात् । तर्केण तर्कमुद्रया । अखिला भोगाः मुक्त-स्त्रीपुरुषाणामन्योन्यं दर्शनस्पर्शनकमलाघ्राणनादिभोगाः ।। ८०३,८०४ ।।

सत्यप्रमोदटीका

 निषेधति ‘विज्ञातारमरे केन विजानीयात् येनेदं सर्वं विजानाति तं च केन विजानीयात्’ इति श्रुतेः परेण स्वपरज्ञाननिषेधपरत्वेन व्याख्यातत्वादिति भावः ।। हृष्येत् त्वत्सिद्धान्तं विस्मृत्यापलप्य वा तदभिमतधर्मोच्छित्तिरूपताया मोक्षस्य त्वया समर्थितत्वात् । सा श्रुतिः । तर्केण तर्कमुद्रया । यथोक्तमनुव्याख्याने ‘धर्मानाहाप्यनुच्छिन्नांस्तार्किकै-र्विनिवारितान्’ इति (४–२–१) ।। ८०३,८०४ ।।

युक्तिमल्लिका

सुखानुभवसिद्ध्यर्थं स्वावेद्यत्वं परित्यज ।

सुखाविषयकज्ञानरूपं सुखमयं मनः ।

किं तेन फलवत्किन्तु तद्द्रष्टुः साक्षिणः फलम् ।। ८०५ ।।

सुरोत्तमटीका

 पराभिमतं स्वावेद्यत्वरूपस्वप्रकाशत्वमपि स्वरूपभूत-सुखानुभवायोगेन दूषयति ।। सुखानुभवेति ।। सुखानुभवाभावेऽपि सुख-रूपत्वज्ञानरूपमात्रेणैव मुक्तेः साफल्यं स्यादित्यत आह ।। सुखाविषय-केति ।। सुखमयं सुखरूपम् । तेन सुखरूपत्वज्ञानरूपत्वमात्रेण । फलवत् सुखादिफलवत् । तद्द्रष्टुः तस्य मानससुखस्य द्रष्टुः ।। ८०५ ।।

सत्यप्रमोदटीका

 परित्यजेति । कर्तृकर्मविरोधं च साक्ष्यनुभव एव शमयिष्यतीति भावः । तदुक्तं तत्रैव ‘कर्तृकर्मविरोधश्च नित्यानुभवरोधतः । कथमेव पदं गच्छेदि’ति । सुखमयं इति । ‘ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ इति श्रुतेः। मनः फलवत् इति सम्बन्धः । तद्द्रष्टुः सुखविषयकानुभववतः।। ८०५ ।।

युक्तिमल्लिका

किञ्चाभिमानिव्यपदेशस्त्वित्यत्र स सूत्रकृत् ।

यतो मृदब्रवीदित्याद्यापातानुपपन्नवाक् ।

तद्वदेव परेत्याह तन्नेत्याह मतं तव ।। ८०६ ।।

सुरोत्तमटीका

 अपि च तत्त्वमसि सर्वं खल्विदं ब्रह्मेत्याद्यैक्येषु त्वंसर्व-पदाहमादिपदानां अन्तर्यामिपरदेवताविषयत्वमेव वक्तुमुचितम् । न तु बाधित-जीवैक्यकथनमित्येतत् सौत्रप्रक्रियया प्रतिपादयति ।। किं चेति ।। अनुपपन्न-वाक् । अनुपपन्नार्थवाक् तद्गदेवपरा । तत्तस्मात् ।। ८०६ ।।

सत्यप्रमोदटीका

 तद्वदेवेति । तदुक्तमनुव्याख्याने ‘विद्वद्रूढिसमाश्रयात् । ‘तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिन’ इति व्याख्यानम् । श्रुतिः तत्तदन्तर्यामि- परतयैव व्याख्येयेति भावः । अङ्गीकृतश्च अयं न्यायः परेणापि ‘ते एतस्यैव सर्वे रूपमभवन्’ (बृ.१-५-२१) इति श्रुतिव्याख्याने ‘प्राणस्येन्द्रियैर्भेदश्रुतेः वैलक्षण्याच्च तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभवनं वागादीनामिति मन्तव्यं न तादात्म्यं इति (बृ.शा.भा.२/४/१७–१८–१९) ।। ८०६ ।।

युक्तिमल्लिका

प्रत्युद्गमं प्रश्रयणमभिवादनमेव च ।

गुहाशयाय कुर्वन्ति न तु तद्देहमानिने ।। ८०७ ।।

इति यः प्राह गिरिशः सोऽपि नेत्याह ते मतम् ।

गुहाशयो देहमानीत्युक्तौ यद्देहगौ जगौ ।। ८०८ ।।

सुरोत्तमटीका

 ‘‘प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथ-स्सुमध्यमे । प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिन’’ इति भागवतस्थरुद्रवाक्येनापि जीवेश्वरयोर्भेदकथनमेवोचितं, ब्रह्मरुद्रादिषु क्रियमाण- नमस्कारपूजादीनां च तत्तदन्तर्याम्यधोक्षजाख्यभगवद्विषयत्वकथनं चोचित-मित्याह ।। प्रत्युद्गममिति ।। अनेन तद्वाक्यमर्थतः सङ्गृहीतमिति द्रष्टव्यम् । ते मतं जीवेश्वरयोरेकत्वरूपमतम् । जीवेषु बाधितार्थकवाक्यानामपि जीवपरत्व-कथनरूपमतं च । कथमित्यत आह ।। गुहेति ।। इत्युक्तौ जीवपरमात्माख्यौ द्वौ पदार्थौ । यद्यस्मात् तस्मात्तव मतं नेत्याहेति पूर्वेणान्वयः ।।८०७,८०८।।

सत्यप्रमोदटीका

 ‘प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे । प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने’ इति भागवतं (४-३-२२) जीवेश्वरयोर्भेदमेवाभिप्रैतीत्याह प्रत्युद्गमेति । गुहाशयः अन्तर्यामी । देहमानी जीवः

।। ८०७,८०८ ।।

युक्तिमल्लिका

यद्देहमानिनं प्राह जीवमेव महेश्वरः ।

सोऽत्यल्पगुणवाक्यानि जीवेष्वेवानुशास्ति तत् ।। ८०९ ।।

उपचारार्हसुगुणस्तोमोक्तीः परमात्मनि ।

सोऽन्वशिक्षद्यतः प्रत्युद्गमाद्यमादिशत्प्रभोः ।। ८१० ।।

अतः श्रुतिपुराणादौ रुद्राद्युत्कर्षवाक्तु या ।

साऽन्तर्याम्यधिदैवादिष्वित्युक्तान्तरगोचरा ।। ८११ ।।

सुरोत्तमटीका

 एतद्वाक्यबलेनैव प्रमेयान्तरं च सिद्धमित्याह ।। यदिति ।। यद्यस्मात् महेश्वरः । देहमानिनं देहाभिमानवत्त्वेन देहमानिपदवाच्यं जीवमेव प्राह । तत् तस्मात् । सः महेश्वरः अत्यल्पगुणवाक्यानि भगवत्यनु-पपन्नात्यल्पगुणप्रतिपादकवाक्यानि जीवेष्वेवानुशास्ति । न तु भगवतीति योजना । देहाभिमानाख्यनीचगुणप्रतिपादकदेहमानिपदेन जीवमेव निर्दिशन् रुद्रमहिमप्रतिपादकवाक्यानामन्तर्यामिपरत्ववत् जननमरणादिदोषप्रतिपादक-वाक्यानामपि नान्तर्यामिपरत्वम् । किन्तु जीवपरत्वमेवेति सूचितवानिति भावः

।। ८०९–८११ ।।

सत्यप्रमोदटीका

 एवेति । पूर्णगुणे परमात्मनि तद्वाक्यानां बाधादिति भावः ।। उपचारः स्वातन्त्र्येण नमनादिकम् ।। या ‘एको रुद्रो न द्वितीयाय तस्थे’ इत्यादिका । इति सूत्र इति शेषः । अन्तरगोचरा अन्तर्यामिविषयेति उक्ता निर्णीता

।। ८०९–८११ ।।

युक्तिमल्लिका

अधोक्षजो मे मनसा विधीयत इतीश्वरः ।

स एव तं यद्व्यनक्ति गुहाशयपदोदितम् ।। ८१२ ।।

एवं च विष्णोरुत्कर्षे सर्वागमगिरां भरम् ।

यो हरो वक्ति सर्वस्य स गुरुर्नात्र संशयः ।

त्रिलोचनमतायास्मै को वा द्रुह्येद्द्विलोचनः ।। ८१३ ।।

सुरोत्तमटीका

 गुहाशयोऽपि हरिरेव न त्वन्य इत्यौत्तररुद्रवाक्येनैव सिद्धमित्याह ।। अधोक्षज इति ।। अनेन सत्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । सत्वं च यस्मिन् भगवान् वासुदेवो ह्यधोक्षजो मे मनसा विधीयते इति श्लोकं गृह्णाति । अस्यार्थः । यद्यस्मात्तत्र सत्वगुणे मनसि प्रचुरे सति अपावृतः अपगतमावृतमावरणं प्रकृत्याख्यं यस्मात्सोऽपावृतः पुमान् परमपुरुषः ईयते ज्ञायते । तस्माद्विशुद्धं रजस्तमोभ्यामविमिश्रितं सत्वं सत्वगुणः । वसुदेवशब्दितं सर्वत्र निवसनशीलत्वाद्वसुदेवशब्दवाच्यः परमात्मा दीव्यते प्रकाश्यते अनेनेति व्युत्पत्त्या वसुदेवशब्दप्रतिपादितम् । अस्तु सत्व-गुणस्य वसुदेवनाम । प्रकृते किमायातमित्यत उक्तम् ।। सत्वं चेति ।। तत्सत्वं च सत्वगुणः । यस्मिन्परमात्मनि मत्स्यकूर्माद्यवतारैः स्वरक्षकस्य परमात्मनः वशे तिष्ठतीत्यर्थः । रजस्तमोगुणप्रचुरदैत्यसंहारेण सत्वगुणप्रचुरदेवतारक्षणे सत्वगुणस्यैव रक्षणं कृतं भवति । एवं वसुदेवशब्दवाच्यः सत्वगुणो यस्य वशेऽस्ति स भगवान् वसुदेवो यस्य रक्ष्यः स वासुदेव इति व्युत्पत्त्या वासुदेवः वासुदेवशब्दवाच्यः । न तु वसुदेवपुत्रत्वाद्वासुदेवः ।

नापि साक्षात्सत्वगुणस्यैवाधारतया वासुदेवः । तथा सति त्रिगुण-वर्जितत्वार्थकत्वेन मदभिमतया गुणमात्रनिषेधकत्वेन त्वदभिमतया निर्गुण-श्रुत्यैव विरोधात् । सात्विकसनकादिवदस्याप्युत्पत्तिसम्भवेन वसुदेव-पुत्रत्वार्थकशब्दस्यान्यार्थकथनायोगात् प्राकृततया दर्शनयोग्यत्वसम्भवेन वक्ष्य-माणाधोक्षजपदायोगात् सत्वगुणप्रचुरब्रह्मण इव मनसा धार्यत्वमात्रसम्भवेऽपि विधीयत इति वक्ष्यमाणस्य सर्वेभ्योऽप्यतिशयेन धार्यत्वस्यायोगात् । सत्वात्सञ्जायते ज्ञानमिति वचनान्मनोवृत्तिरूपभगवत्साक्षात्कारकरणस्य सत्व-गुणस्य साक्षात्कर्तृजीवेष्वेव वृत्तेरुचितत्वेन ईयत इत्युक्तज्ञेयभगवन्निष्ठतायाः प्रयोजनाभावात् ।

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

सात्विकी राजसी चैव तामसी चैव तां शृृणु ।।

इति गीतावचने सात्विकादित्रितयकारणीभूतस्वभावपदोदितजीवस्वरूप-भूतसात्विकत्वराजसत्वतामसत्वाख्यस्वभावत्रयस्य त्रिधापदमहिम्ना सूचितस्य सात्विकसात्विकत्व, सात्विकराजसत्व, सात्विकतामसत्वाख्य सज्जीवनिष्ठ-प्राकृतगुणनिमित्तत्रैविध्यस्य राजससात्विकत्व राजसराजसत्वराजसतामस-त्वाख्यमध्यमजीवनिष्ठप्राकृतगुणनिमित्तत्रैविध्यस्य तामससात्विकत्व तामस राजसत्व तामसतामसत्वाख्याधमजीवनिष्ठप्राकृतगुणनिमित्तत्रैविध्यस्य चेत्येवं नवविधबाह्यविभागस्य कारणीभूतस्वभावपदोदितजीवस्वरूपसात्विक-सात्विकत्वादिविभागनवकस्य च देहीति पदोदितजीवेष्वेव कथनात् । स्वयोग्यस्वरूपज्ञानानन्दादेः सदाऽवभासनस्वभावाः सात्विकसात्विकाः स्वयोग्यमौक्तान्नपानादिविषयेषु च मध्ये मध्ये अभिलाषस्वभावाः सात्विक-राजसाः मुक्त्यनन्तरमपि स्वयोग्यस्वरूपमानेष्वेव सर्वदा शक्तिमन्तः कदाचि-द्व्यक्तिमन्तः कदाचिदव्यक्तिमन्तश्च सात्विकतामसा इति उत्तमानां स्वरूपे विभागः ।

मध्यमाधमेषु तत्स्वरूपदोषाणामपि सम्भवान्न कश्चित्क्षुद्रोपद्रवः । बाह्यतत्वज्ञानकरणस्यापि सत्वगुणस्य हेयत्व घटनाय स्वरूपज्ञानं प्रत्यावरण-त्वावश्यम्भावेन भगवतोऽपावृतपदोक्तावरण शून्यत्वायोगात् । अत एव समग्रविज्ञानवैचित्र्याय स्वरूप विभागस्याप्यपेक्षितत्वात् । संसारदशायां मानसज्ञानवैचित्र्याय प्राकृत गुणत्रयनिमित्तभागत्रयस्याप्यपेक्षितत्वात् ।

ननु सज्जीवेषु च बहिः राजसत्वतामसत्वयोः किमर्थं प्रवेशः । दुर्जीवेषु च सात्विकत्वराजसत्वयोः कुतो निवेशः । मध्यमजीवेषु च सात्विकत्वतामस-त्वयोः किं प्रयोजनमिति चेत् सत्यम् । बहिः सज्जीवानामपि कादाचित्क-सांसारिकभ्रमप्रमादादेः क्रमेण सम्पादनार्थं तयोरपेक्षितत्वात् । सात्विक-सात्विकेषु तात्विकयोगिषु रुद्रादिषु प्रमादादेरल्पत्वादविवक्षा । स्वरूपे च भगवतः स्वमहिम्नैव जीवानां योग्यतातिरेकेणादृश्यत्वसम्भवेऽपि दृश्यजगति क्रमात्स्वयोग्यतातिरेकेण ज्ञानप्रतिरोधार्थम् । अत एव मिथ्याज्ञानिषु कल्यादे-र्बहुमिथ्याज्ञानित्वादुत्तमत्वम् । तादृशस्वभावस्यापि वक्तुमुचितत्वात् । दुर्जीवेषु स्वरूपे बहिश्च तामसतामसानां राक्षसानामिव अन्यत्रापि तमोनिमित्तकबहुतर-मिथ्याज्ञानप्रसक्तौ सत्यां क्रमेण तन्निरोधार्थम् । मध्यमजीवेषु च सर्वत्रापि रजोगुणस्वभावेनैव मिश्रज्ञानसम्भवेऽपि तेषां चैक प्रकारत्वाभावेन तन्निष्ठमिश्र- ज्ञानस्यापि तारतम्यबोधनाय तस्यैव ज्ञानस्योच्चत्वनीचत्वसंपादनार्थम् । प्राथमिकसत्वप्रवेशे तज्जन्यतत्वज्ञानस्यापि सत्वप्रवेशरहितमध्यमाधमकोटिभ्या-माधिक्यसिद्धे मिश्रजीवत्वमहिम्ना मिश्रत्वसंपादकरजोमहिम्ना च मिथ्या-ज्ञानस्यापि आधिक्यसिद्धेः मध्यमराजसराजसत्वतमसोरुभयोरप्यप्रवेशेन उच्चादधमस्य नीचादुत्तमस्य मिश्रज्ञानस्य द्विर्बद्धरजःपदमहिम्ना सिद्धेः ईषत्सत्वतमःप्रवेशस्य चाविवक्षितत्वात् । अधमपक्षे सत्वाप्रवेशेन रजःपदद्वया-भावेन तमःपदप्रवेशेन च प्राचीनपक्षद्वयादपि सत्वगुणजन्यतत्वज्ञानस्याल्पत्व-सिद्धौ पूर्वोक्तन्यायेन तामसपक्षोदितमिथ्याज्ञानस्याप्यल्पत्वसिद्धेः सत्वतमो-गुणजन्यसत्कर्मदुष्कर्मप्राबल्येन तयोरुभयोरुत्तमाधमत्वसिध्यर्थं वा सात्विक-तामसत्वोक्तेः सार्थक्यात् । राजसराजसपदोक्तमध्यमे तु सत्कर्मदुष्कर्मणो-रन्यतरस्याप्याधिक्यालाभेनोभयोरपि समत्वस्यैव लाभे मध्यमत्वस्यैव सिद्धेः ।

न च वाच्यं तामसपदप्रयोगेन मिथ्याज्ञानबाहुल्ये पूर्ववत्तत्वज्ञानस्य च बाहुल्यमत्रापि स्यादिति । तथा सति प्राचीनपक्षस्यान्तिमपक्षस्य च साङ्कर्य-प्रसङ्गात् । अधमेष्वेषु ज्ञानोत्कर्षायोगाच्च । अथवा तमसाऽज्ञानमेव चेति वचनेन तमोगुणादज्ञानस्यापि सम्भवात् पूर्वोक्तकोटिद्वयादपि अन्तिमेष्वेषु अज्ञानातिशयद्योतनाय तामसत्वोक्तिरिति द्रष्टव्यम् । अथवा सत्वपदेन मायानिबर्हणसामर्थ्यं ब्रह्मादीनां स्वरूपतः सात्विकसात्विकत्वे भगवतस्ततोऽ-प्यतिशयितसात्विकत्वस्य न्यायप्राप्तत्वात् सत्वपदेन तस्य स्वभावत एव सत्वं ग्राह्यम् । अत्र विशेषशक्त्या आधाराधेयभावस्यैव सम्भवान्न कश्चित्क्षुद्रोपद्रवः । एतेनैवापाततो दोषापादकशब्दानामपि भाष्यादौ उक्तविधया भगवति गुण-परतयैव योजयितुं शक्तिसद्भावे तेऽपि शब्दा विष्णुपरतयैव योज्या इति सूचितम् । ननु वसुदेव पुत्रत्वाख्यप्रसिद्धार्थ एव कुतो नेत्यत उक्तम् । अधोक्षजो हीति ।। यस्मादधस्तादेवाक्षजमक्षजनितं ज्ञानं सो धोक्षजोऽहि मनुष्यदृशामगोचरो नारायणः कथं कस्यचित् पुत्रो भवेत् । अतः द्वेधा सत्वगुणाख्यवसुदेव सम्बन्धित्वादेव भगवान् वासुदेव इति पूर्वेणान्वयः । सः वासुदेवः मे मनसा विधीयते विशेषेण वि विशिष्टतया विःपरमात्मेति वा धीयते धार्यते अथवा सः वासुदेवः मे मनसा मां विधत्त इत्यादि वाक्यानां शुकरूपेण व्याख्यानसमये मदुपदिष्टज्ञानेन विधीयते सर्वैर्नमस्कर्तव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्यादिविधेरभिधेयः विकल्यापोह्य इत्यादि विधेश्च विषयीक्रियते । सकलविधीनां विषयतया प्रतिपाद्यत इत्यर्थः । एवं च मच्छिष्यो यस्त्वम् । अहं त्वां न नमस्करोमीति कथं कोपं करोषि गुरूपदिष्ट-ज्ञानग्रहणे दक्षत्वाद्दक्षशब्दवाच्यो यस्त्वं कथमधुना अदक्षोऽभूरिति फलितोऽर्थः । स एव पूर्वश्लोकोक्त एव ईश्वरः रुद्रः । यद्यस्मात् ।। ८१२,८१३ ।।

सत्यप्रमोदटीका

 अत्र चान्तर्यामी हरिरेवेत्याह अधोक्षज इति ।। ‘सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । सत्त्वं च यस्मिन्भगवान्वासुदेवो ह्यधोक्षजो मे मनसा विधीयते’ इत्युत्तररुद्रवाक्येन (४–३–२३) गुहाशयः अधोक्षजो वासुदेवो विष्णुरेवावसीयते इत्याह अधोक्षज इति । अत्र भगवदपरोक्षज्ञानहेतुसत्त्वगुणस्य रक्षको विष्णुरेव रुद्रध्यानविषयो निरूप्यते । गुहाशयत्वस्य तस्मिन्नेव ‘यो वेद निहितं गुहायां’ इति श्रुतौ ‘गुहां प्रविष्टावात्मानौ’ इति सूत्रे ‘ईश्वरः सर्वभूतानां हद्देशेऽर्जुन तिष्ठति’ इति गीतायां च प्रसिद्धेः । अतः प्रस्थानत्रयानुरोधियथार्थज्ञानशीलत्वादपि रुद्रस्य त्रिलोचन इति नामधेयमित्याशयवानाह त्रिलोचनमतायेति । द्विलोचनः विशेष्यावृत्तिधर्मप्रकारकज्ञानवान् । जीवे ब्रह्मैक्यवादी मायी ।। ८१२,८१३।।

युक्तिमल्लिका

भेदस्य व्यावहार्यत्वे स्यादैक्यं प्रातिभासिकम् ।

भेदो ह्यैक्यनिषेधात्मा तस्याद्यैव निषिद्धता ।

किं न दद्यात्त्वदद्वैते ब्रह्मज्ञानान्यबाध्यताम् ।। ८१४ ।।

इदानीमेव बाध्यत्वाच्छुक्तिरूप्येऽपि सा दशा ।

अतो वृद्ध्यर्थिनश्चित्रं मूलनाशो भवेत्तव ।। ८१५ ।।

सुरोत्तमटीका

 प्रमेयान्तरेऽपि प्रतिबन्दीं ग्रहीतुमुक्तम् ।। भेदस्येति ।। ऐक्ये प्रातिभासिकत्वोपपादनायोक्तम् ।। भेदो हीति ।। तस्य ऐक्यस्य औव निषिद्धता ब्रह्मज्ञानान्यबाध्यतां किं न दद्यादिति सम्बन्धः ।। सा प्राति-भासिकताख्या । एवं च वृद्धिमिच्छतो मूलमपि नष्टमित्याभाणकं त्वमेवानु-करोषीत्याह ।। अत इति ।। ८१४,८१५ ।।

सत्यप्रमोदटीका

 न च पूर्वोक्तो भेदो व्यावहारिक इति वाच्यम् । तथा सत्यपि व्यावहारिकशुक्तिविषयकज्ञानेन बाध्यस्य रूप्यस्य प्रतिभासिकत्त्ववत् व्यावहारिकभेदज्ञानेन बाध्यस्यैक्यस्य प्रातिभासिकत्वापत्तिरित्याह भेदस्येति । वृद्धिः ऐक्यस्य पारमार्थिकत्वम् । मूलनाशः ऐक्यस्येदानीमेव ब्रह्मज्ञानान्येन भेदज्ञानेन निवृत्त्या प्रातिभासिकत्वरूपनिकृष्टताऽऽपातः ।। ८१४, ८१५ ।।

युक्तिमल्लिका

एवमेव त्रिकालेषु निषेधाभावरूपिणी ।

सत्यता व्यावहार्या चेन्मिथ्यात्वं प्रातिभासिकम् ।। ८१६ ।।

भवेत्पूर्वोक्तमार्गेण गुणाभावनिषेधकः ।

अभावाभावरूपत्वाद्भावरूपा गुणाः प्रभोः ।। ८१७ ।।

व्यावहार्या यदि तदा नैर्गुण्यं प्रातिभासिकम् ।

भवेदघटभूमेः किं सघटा भूर्न बाधिका ।। ८१८ ।।

सुरोत्तमटीका

 इममेव दोषं प्रमेयद्वयेऽप्यतिदेष्टुमुक्तम् ।। एवमिति ।। अभावाभावरूपत्वाद्गुणाभावनिषेधकाः प्रभोः भावरूपा गुणा यदि व्यावहार्या इति सम्बन्धः । भावस्याप्यभावनिषेधकत्वे दृष्टान्तकथनायोक्तं अघटभूमेरिति ।। ८१६–८१८ ।।

सत्यप्रमोदटीका

 उक्तन्यायं मिथ्यात्वे नैर्गुण्ये चातिदिशति एवमेवेति । त्रिकालेषु इति । ‘स्वकाले ह्यस्तितां गृह्णन्साक्षात्कारस्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यतामि’ति न्यायामृतोक्तेः । व्यावहार्या चेदिति । एवमपि दुराग्रहेण सत्त्यत्वस्य ब्रह्मज्ञानबाध्यत्वं ब्रूषे चेदित्यर्थः । मिथ्यात्वं त्वदुक्तरीत्याऽपि ब्रह्मज्ञानेतरेण व्यावहारिकसत्यताग्राहकप्रमाणेन बाध्यत्वात् प्रातिभासिकं भवेदित्युत्तरेणान्वयः । पूर्वोक्तमार्गेण इत्येतत्पूर्वत्र उत्तरत्र च सम्बध्यते । भावरूपगुणानां कथमभावनिषेधकत्वं इत्यत आह अभावाभाव-रूपत्वादिति । अनन्तरप्रतीतौ इति शेषः । तदेव दृष्टान्तोक्त्या स्फोरयति अघटभूमेः घटाभाववद्भूतलमिति धियः । सघटा भूः घटवद्भूतलमिति ज्ञानम्

।। ८१६–८१८ ।।

युक्तिमल्लिका

प्रातिभासिकमानानि मानान्यासन्यतस्तव ।

तस्मान्मन्मानमार्ताण्डः प्रलयार्को भवेद्द्विषाम् ।। ८१९ ।।

ऐक्यनैर्गुण्यमिथ्यात्वान्यधः कृत्यैव यद्भवान् ।

भेदसद्गुणसत्यत्वान्यालंब्येश्वरपूजनम् ।। ८२० ।।

गुणानुस्मरणं श्रौतस्मार्तकर्माणि चानिशम् ।

करोषि केन कस्यातो बाधोऽनादौ भवेद्वद ।। ८२१ ।।

सुरोत्तमटीका

 तव मानानि ऐक्यमिथ्यात्वनिर्गुणत्वप्रतिपादकमानानि । यतः प्रातिभासिकमानानि उक्तविधया प्रातिभासिकैक्यादेः प्रतिपादक-मानान्यासन् । मन्मानमार्ताण्डः मदभिमतभेदसत्यत्वसगुणत्वप्रतिपादक-प्रमाणाख्यमार्ताण्डः ।। ऐक्यादीनां स्वेन प्रागुक्तबाधं परस्याप्यनुभवारूढं कर्तुमुक्तम् ।। एक्येति ।। यद्यस्मात् । अतः कारणात् अनादौ संसारे केन कस्य बाधः भवेत् । वदेति सम्बन्धः । त्वमप्यस्मिन्संसारेऽनादिकाल-मारभ्यैक्यादिकं सांसारिक व्यवहाराननुकूलत्वादनादृत्य भेदादिकमेव पुरस्कृत्य भेदसापेक्षभगवत्पूजनं गुणसापेक्षं गुणानुस्मरणरूपभगवद्ध्यानं सत्यत्वसापेक्ष-नित्यनैमित्तिक कर्माणि च करोषि, अन्यथैषां त्वदभिमतव्यावहारिकत्वमेव न स्यात् । अत इदानीं भेदादिना ऐक्यादेः कथं न बाध इति भावः ।। ८१९–८२१ ।।

सत्यप्रमोदटीका

 प्रातिभासिकेति । प्रातिभासिकविषयकेत्यर्थः । मानानि ऐक्यमिथ्यात्वनिर्गुणत्वविषयकाणि । मार्ताण्डः व्यावहारिक-भेदसत्यत्वसगुणत्वविषयकत्वेन प्रबलत्वात्पराभिमतप्रातिभासिकविषयकमाना-भासान्धकारनिराकरणे अनायासेन समर्थः । परेण क्रियमाणपूजादिकर्मानुष्ठानं तस्य भेदादीनां अबाध्यत्वावगमं गमयतीत्याह ऐक्येति । अधःकृत्य बाधिता-न्यवगमय्य । आलम्ब्य बाधकत्वेन पारमार्थ्यं स्वीकृत्य । अनादौ संसारे ।। ८२०, ८२१ ।।

युक्तिमल्लिका

चिदेकतां न बाधेत यद्ययं तर्हि साऽप्यमुम् ।

न बाधेत न्यायसाम्यात्तद्भेदोऽभूदबाधितः ।। ८२२ ।।

सुरोत्तमटीका

 अथ यदि विशिष्टयोर्भेदः विशिष्टयोरैक्यमेव बाधते न तु चितोरैक्यमिति वदसि तर्हि चितोरैक्यमपि चितोरेव भेदं बाधते न तु विशिष्टयोर्भेदम् । एवं च ब्रह्मज्ञानेऽप्यबाध्यत्वात् मदभिमतो जीवेश्वरयोर्भेदो वज्रलेपायितोऽभूदित्याह ।। चिदेकतामिति ।। चितोरेकतामित्यर्थः । अयं विशिष्टयोर्भेदः । सा चितोरेकता । अमुं विशिष्टयोर्भेदम् । न्यायसाम्यात् भिन्नविषयाख्यन्यायसाम्यात् । तत्तस्मात् । अङ्गीकृत्येदं दूषणान्तरमुक्तम् । वस्तुगत्या जीवेश्वराख्यविशिष्टयोर्भेदग्राहिणा साक्षिणा दुःखस्याननुभवित्री चित् न तद्विरुद्धस्वभावजीवचिदिति तयोश्चितोरपि भेदस्य तेनैवेदानीं गृहीतत्वेन चिदैक्यस्यापि प्रातिभासिकत्वापरिहारादित्यपि द्रष्टव्यम् । इदं च पुनरिति ग्रन्थकार एव सूचयिष्यति ।। ८२२ ।।

सत्यप्रमोदटीका

 अयं विशिष्टयोर्भेदः । न बाधेत भिन्नविषय-कत्वादिति शेषः । न्यायेति भिन्नविषयकत्वेत्यर्थः ।। ८२२ ।।

युक्तिमल्लिका

विशिष्टैक्यपरं वाक्यं प्रातिभासिकमानताम् ।

गतं चितोरेकता तन्मानाभावादसत्यभूत् ।। ८२३ ।।

सुरोत्तमटीका

 किञ्च चितोरैक्यमपि विशिष्टयोरैक्यप्रतिपादकवाक्य-बलादेव परेण वक्तव्यम् । तच्चोक्तविधया प्रातिभासिकप्रमाणतया अकिञ्चि-त्करमभूत् । अतस्त्वदभिमतचिदैक्यमेव प्रमाणाभावात् शशशृृङ्गोपममभू-दित्याह ।। विशिष्टैक्येति ।। तत्तस्मात् ।। ८२३ ।।

सत्यप्रमोदटीका

 प्रातिभासिकतां गतमिति । उक्तरीत्या ब्रह्मान्येन विशिष्टयोर्भेदग्राहकप्रमाणेन बाधितत्वात् इत्याशयः । मानस्यैव प्रातिभासिकत्वे तत्प्रामाण्यपरिरक्षणार्थं चिदैक्यपरत्वरूपार्थान्तरपरिकल्पन-स्यानावश्यकत्वादुपेक्ष्यमेव तदिति न तेन लक्षणयाऽपि ऐक्यसिद्धिरित्याह असती इति ।। ८२३ ।।

युक्तिमल्लिका

अतत्वावेदकं वाक्यमुपेक्ष्यं भेदवाक्यवत् ।

कः शुक्तिरूप्यतावाक्यमुद्दिधीर्षति शुद्धधीः ।। ८२४ ।।

सुरोत्तमटीका

 न च वाच्यं वाक्यस्वारस्यलब्धार्थमादाय अतत्वावेदक-मपि तदैक्यवाक्यं कथञ्चित्प्रामाण्यस्य रक्षणायार्थान्तरे नेतव्यमिति । अतत्वा-वेदकभेदवाक्याप्रामाण्याङ्गीकारवत् गतिसामान्यादिति सूत्रन्यायेन वेदमात्रेऽ-प्येकवाक्यत्वरक्षणायात्वावेदके तवैक्यवाक्येऽप्यप्रामाण्यस्यैवाङ्गीकर्तुमुचितत्वा-दित्याह ।। अतत्वावेदकमिति ।। अभ्युपगम्य भेदवाक्यवदित्युक्तम् । वस्तु-गत्या मायिमतेऽपि व्यावहारिकप्रमाणतयाऽङ्गीकृतभेदवाक्य साम्यमुक्तविधया प्रातिभासिकप्रमाणत्वेनाङ्गीकृतैक्यवाक्यस्य न वक्तुमुचितं किं तु तादृशमेव वाक्यं वाच्यम् । तच्च नास्तीत्याशयेनाह ।। क इति ।। अनेन प्रातिभासिकार्थ-प्रतिपादके भवद्वाक्ये प्रामाण्यस्यैवाभावात् कस्य रक्षणार्थमर्थान्तरानु-सरणमित्यपि सूचितम् ।। ८२४ ।।

सत्यप्रमोदटीका

 तत्र परसंमतं दृष्टान्तमाह क इति । उद्दिधीर्षति जहदजहल्लक्षणामाश्रित्य पदार्थस्वरूपैक्यपरतया व्याख्यास्यति

।। ८२४ ।।

युक्तिमल्लिका

न चेद्भेदप्रमाणं च दृष्टेऽर्थे व्यावहारिके ।

जीवब्रह्मचितोरेव भेदं लक्षणया वदेत् ।। ८२५ ।।

सुरोत्तमटीका

 बाधकान्तरं चाह ।। न चेदिति ।। न चेद्वेदवाक्ये सर्वथा अप्रामाण्यं न वक्तव्यं चेत् । दृष्टे वाक्यस्वारस्यतो लब्धे अर्थे-विशिष्टयोर्भेदे । अवश्यं चैतदेव । प्रातिभासिकार्थवाक्यस्यार्थान्तरं वदता व्यावहारिकार्थकवाक्ये सुतरामर्थान्तरस्यैव वक्तव्यत्वात् विशिष्टैक्यवाक्ये चिदैक्यवद्विशिष्टभेदवाक्ये भेदस्यैव न्यायप्राप्तत्वाच्च ।। ८२५ ।।

सत्यप्रमोदटीका

 न चेदिति । अतत्वावेदकस्यापि तत्त्वमसीत्यादि-विशिष्टैक्यपरस्य वाक्यस्योपेक्षां न करोषि चेत् । चिदैक्यरूपार्थान्तरवर्णनेन गत्यन्तरं वर्णयसि चेदित्यर्थः । भेदप्रमाणं ‘भिन्नो देवः परमो जीवसङ्घा-दित्यादिकम् । दृष्टे मुख्यवृत्त्या लब्धे त्वद्रीत्याऽनुपपन्ने सति । चितोः भागत्यागलक्षणया शुद्धचितोरेव । तत्र त्वयैवं वक्तव्यम् । लक्ष्यार्थोऽपि प्रमाणाविरुद्ध एव भवेत् । न च चिद्भेदस्तथेति । समानमेतच्चिदैक्यलक्षणाया-मपीति भावः ।।८२५ ।।

युक्तिमल्लिका

अतः पुनश्चिदेकत्वं प्रातिभासिकतां गतम् ।

एवं च घट्टकुट््यान्ते प्रभातोऽभून्न संशयः ।। ८२६ ।।

सुरोत्तमटीका

 अतः अत्तृत्त्वानत्तृत्वाख्यमुक्तिसहितचिद्भेदग्राहिभेद-वाक्येनापि चिदैक्यस्य बाधितत्वात् ।अत एव पुनःशब्दः।।८२६ ।।

सत्यप्रमोदटीका

 अतः लक्षणाया दूषितत्वात् ।। ८२३ ।।

युक्तिमल्लिका

वस्तुतस्तु चितोरेव विशेषणबलात्तयोः ।

भिदा सम्पाद्यते तेन चोद्यस्यावसरोऽपि न ।। ८२७ ।।

सुरोत्तमटीका

 अङ्गीकृत्य विशिष्टभेदबोधकवाक्याल्लक्षणया चिद्भेद-सिद्धिरित्युक्तम् । वस्तुगत्या विशिष्टभेदकथनसमय एव विशेष्यभूतचितोरपि भेदः सिध्यतीत्याह ।। वस्तुत इति ।। संपाद्यते सम्यक् ज्ञाप्यते । गत्यर्थानां ज्ञानार्थत्वात् सर्वज्ञत्वाल्पज्ञत्वरूपविरुद्धविशेषणाभ्यां प्राक् विद्यमान एव चिद्भेदो बोध्यते । नत्वपूर्वः क्रियते गोत्वाश्वत्वयोरिव एकस्मिन्धर्मिणि एकदैव सम्बन्धायोग्ययोर्विरुद्धविशेषणयोः सम्बन्धस्फुटनायैव प्राक् भेदस्यापेक्षित-त्वात् । अतः कथं विरुद्धविशेषणसम्बन्धात् प्रागविद्यमानचिद्भेदकरणम् । किन्तु विरुद्धविशेषणसम्बन्धात् पूर्वमेव सहानवस्थितयोस्तयोः पृथक् पृथक् सहानवस्थानाय केवलचित्येव पार्थक्यं च वक्तव्यम् । अन्यथा अन्योन्याश्रय-प्रसङ्गः । न च वाच्यमेकेनैव घटाद्युपाधिना यत्र भेदः संपाद्यते तत्रोक्त-विरोधाभावात् भेदः कर्तुं शक्यत इति तत्राप्याकाशैकदेशसम्बद्धेन घटेन स्वासम्बन्धिप्रदेशान्तरात् खलु भेदः संपादनीयः । तथा चोपाधिसम्बन्ध-वत्त्वासम्बन्धवत्त्वाख्य विरुद्धविशेषणद्वयादेव भेदज्ञापनेनास्यापि पक्षस्य प्राचीनपक्षसमत्वादेकदेशत्वस्यापि भेदसापेक्षत्वाच्चेति भावः । तेन कारणेन । चोद्यस्य विशिष्टभेदप्रतिपादकवाक्यं चिदैक्यस्य न बाधकमिति चोद्यस्य

।। ८२७ ।।

सत्यप्रमोदटीका

 तुशब्दः निर्धर्मकशुद्धचित एवालीकत्वरूपविशेषस्य सूचकः । चितोरेव पूर्वमपि विरुद्धधर्माक्रान्तयोरेव । सम्पाद्यते मूढबुद्धि-व्यपेक्षया स्पष्टतया ज्ञाप्यते । नत्वेवाविद्यमानः क्रियते इति भावः । चोद्यस्य भिन्नविषयकत्वात् विशिष्टभेदः शुद्धचिदैक्यं न बाधत इति चोद्यस्य । नेति । उक्तरीत्या शुद्धचित एवालीकत्वादिति भावः ।।८२७ ।।

युक्तिमल्लिका

अन्यदौपाधिकं सर्वमुपाधौ इति जायते ।

उपाध्यपगमे गच्छेद्भेदस्तु न तथा किल ।। ८२८ ।।

सुरोत्तमटीका

 ननु जपाकुसुमाद्युपाधिना स्फटिके रक्तिमोत्पत्तिदर्शनात् विरुद्धधर्माख्योपाधिना भेदोत्पत्तिः कुतो नेत्यत आह ।। अन्यदिति ।। गच्छेत् नश्येत् ।। ८२८ ।।

सत्यप्रमोदटीका

 अन्यत् पाकरूपोपाधिना पृथिव्या रूपं इत्यादिकम् । तुशब्दो भेदस्य धर्मिस्वरूपत्वरूपविशेषद्योतकः । किल ‘विद्यमानस्य भेदस्य ज्ञापको नैव कारकः । उपाधिर्दृष्टपूर्वो हि’ इति प्रसिद्धम् ।। ८२८ ।।

युक्तिमल्लिका

स्वसम्बन्ध्येकदेशस्य स्वासम्बन्धिप्रदेशतः ।

भेदं स कालयेत्किं स्याद्घटाभ्रान्तर्घटाद्भिदा ।। ८२९ ।।

सुरोत्तमटीका

 सः भेदोपाधिः । कालयेत् ज्ञापयेत् । घटोपाधेः घटाभ्रान्तः घटोदरस्थाकाशान्तः भिदा किं स्यादिति सम्बन्धः । घटोपाधेः स्वासम्बन्धिप्रदेशान्तरादेव भेदो ज्ञाप्यते न तु घटोदरस्थाकाशांशानामेव मिथोभेदः प्रदर्श्यते ।। ८२९ ।।

सत्यप्रमोदटीका

 ‘खेऽपि देशान्तरस्य सः । ज्ञापको न तु कारकः’ इति भगवत्पादोक्तिमनुरुध्याह स्वेति । भेदं पूर्वमेव स्वभावतयैव विद्यमानम् । कालयेत् मूढभेदव्यपेक्षया ज्ञापयेत् । घटाभ्रान्तः घटाकाशांशयोरन्तर्गणिकः । घटोपाधिना न भेदो ज्ञाप्यते । किन्तु घटासम्बन्धिप्रदेशान्तरादेव । सर्वथा विद्यमानस्यैव भेदस्य ज्ञापक इति भावः ।। ८२९ ।।

युक्तिमल्लिका

अतः स्वतो विशेषं वा भेदं वा भेद्यवस्तुनि ।

योऽपेक्षते स्वयोग्याय स्वयमेव कथं पुनः ।

कुर्यादुपाधिस्तौ पूर्वौ न हि स स्वपितुः पिता ।। ८३० ।।

सुरोत्तमटीका

 उपाधेः सम्बन्धासम्बन्धौ च प्रागेव स्थितभेदसापेक्षा-विति कथं तस्य कारकावित्याह ।। अत इति ।। अतः घटोपाधिना घटाभ्र एव भेदस्याज्ञापनात् । यः भेदकोपाधिः । तौ भेदविशेषौ । सः उपाधिः ।।८३०।।

सत्यप्रमोदटीका

 ‘अन्तरशब्दो विशेषवचन’ इति उपाधिखण्डन-टीकाऽनुरोधेनाह विशेषं वेति अव्याकृताकाशपक्षे । तदंशानां अत्यन्ता-भेदात् । भेदं वेति भूताकाशपक्षे इति व्यवस्थितविकल्पो ध्येयः । स्वयोगाय स्वसम्बन्धाय । तौ विशेषं वा भेदं वा । उपाधेः सम्बन्धो हि एकदेशेनैव वाच्यः। अन्यथोपाधिर्भेदको न भवेत् । तदुक्तं ‘सर्वगश्चेन्न भेदक’ इति । सोऽपि एकदेशः उपाध्यन्तरेण चेत्तस्याप्येकदेशेनैव सम्बन्धो वाच्यः । स एकदेशः पूर्वेवोपाधिकृतश्चेदन्योन्याश्रय इत्याह न हीति । उपाधिपरम्परा-भ्युपगमेऽनवस्था तदुक्तम् ‘एकदेशेऽनवस्था स्यादि’ति ।। ८३० ।।

युक्तिमल्लिका

वृक्षाग्रे कपिसंयोगो वृक्षमूले परं न सः ।

भावाभावविरोधस्य न चेच्छान्तिर्भविष्यति ।

तत्संयोगस्वभावाच्च परिहारो भवेन्न ते ।। ८३१ ।।

सुरोत्तमटीका

 नन्वेकस्मिन्वृक्ष एव कपिसंयोगतदभाववत् एकस्मिन्नेव गगने घटसम्बन्धावपि स्यातामित्यत आह ।। वृक्षेति ।। तत्राप्यंशभेदादेव संयोगतदभावौ न त्वेकस्मिन्नेवेति भावः । तत्तस्मात् ।। ८३१ ।।

सत्यप्रमोदटीका

 ‘प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानाधिकरणत्व-मिति चेन्न । तस्य विरुद्धत्वात् ।’ इति टीकोक्तिमनुसृत्याह वृक्षेति । अत्र विरुद्धत्वादित्यस्य प्रतियोगिताऽवच्छेदकावच्छिन्नप्रतियोगिसमानाधिकरणत्वे सति तादृक्प्रतियोगिसमानकालीनत्वाभावादिति परिष्कारो मन्दारमञ्ज-र्युक्तोऽनुसन्धेयः ।। ८३१ ।।

युक्तिमल्लिका

एवं च भेदमात्रस्योपाधेर्जन्म न युक्तिमत् ।

तद्विद्यमानभेदस्य ज्ञापकोऽसौ न कारकः ।। ८३२ ।।

सुरोत्तमटीका

 भेदमात्रस्य केवलभेदमात्रस्य । तत्तस्मात् । असौ भेदोपाधिः ।। ८३२ ।।

सत्यप्रमोदटीका

 भेदमात्रस्य कृत्स्नस्य भेदस्य ।। ८३२ ।।

युक्तिमल्लिका

अतो विशिष्टभेदश्च स्वतश्चिद्भेदमाक्षिपेत् ।

द्विर्बद्धभेदाद्बाधस्तच्चिदैक्यस्यैव घातकः ।। ८३३ ।।

तद्यामिकानां सदसि किं स्यात्तस्करकैतवैः ।

उक्तिव्यत्यासेऽपि कुर्युश्चौर्यस्य स्थैर्यमेव ते ।। ८३४ ।।

सुरोत्तमटीका

 स्वतः स्वस्वभावतः । द्विर्बद्धभेदात् विशिष्ट-स्वभावगतचिद्भेदात् । पूर्वोक्तरीत्या लक्षणबलादागतचिद्भेदाच्चेत्यर्थः । तत्तस्मात् प्रकारद्वयेन प्रमाणसिद्धत्वात् ।। लोकरीत्याऽपरमपहसति ।। तदिति ।। तत् तस्मात् । ते यामिकाः ।। ८३३,८३४ ।।

सत्यप्रमोदटीका

 अतः प्रमाणविरुद्धभागत्यागलक्षणाश्रयणन्याय-साम्यात् । द्विरिति विशिष्टभेदशुद्धचिद्भेदेत्येवं प्रकारद्वयेनेत्यर्थः । यामिकानां भेदप्रतिपादनेन तद्रक्षणे निरवकाशतया सदा जागरितानां प्रमाणानां, सदसि बहूनां समावेशे । तस्करकैतवैः प्रत्यक्षदृष्टभेदापलापाय भागत्यागादि-वक्रमार्गानुसारिभिः त्वदभिमतमानाभासैः कतिपयमात्रैः । उक्तिव्यत्यासेऽपि भेदप्रमाणानां व्यावहारिकविषयत्वेन व्यत्यासे तैः प्रवृत्तत्वेऽपि । चौर्यस्य प्रातिभासिकत्वेनासाधकत्वपात्त्या स्वस्वरूपापहारस्य । स्थैर्यम् उभयमत-रीत्याऽपि सिद्धिम् ।। ८३३, ८३४ ।।

युक्तिमल्लिका

परेऽव्यये सर्व एकीभवन्तीति च या श्रुतिः ।

सा च गोष्ठे गाव एकीभवन्तीत्यादिवाक्यवत् ।

मुक्तानामेकतामाह गवामिव परस्परम् ।। ८३५ ।।

सुरोत्तमटीका

 अधुना मोक्षे ऐक्यप्रतिपादकतया पराभिमतस्य कर्माणि विज्ञानमयश्च आत्मापरेऽव्यये सर्व एकीभवन्तीति वाक्यस्यार्थमाह ।। परेऽव्यय इति ।। ८३५ ।।

सत्यप्रमोदटीका

 ‘गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ इति श्रुतिः मुक्तौ जीवपरयोरभेदं वक्ति इति अपव्याख्यानं प्रत्याख्याति पर इति ‘एकीभावः मत्यैक्यं वा क्षीराब्ध्यादिस्थिततद्रूपापेक्षया स्थानैक्यं वा’ इति तत्त्वनिर्णयमनुरुध्याह सा चेति । तदुक्तं तत्रैव टीकायां ‘प्रागीश्वरव्यक्ति-स्थानापेक्षयाऽन्यत्रेतस्ततः स्थितास्तत्र मिलिता भवन्ति’ इति ।। ८३५ ।।

युक्तिमल्लिका

आधारं गोष्ठवद्ब्रह्म परं सर्वोत्तमत्वतः ।

पूर्णत्वतो वा महिमव्ययस्याभावतोऽव्ययम् ।। ८३६ ।।

अनुशास्ति न चेच्च्विस्त्वां हिनस्तीति मतिर्मम ।

अभूततद्भाववादी भूततद्भाववादिनम् ।। ८३७ ।।

सुरोत्तमटीका

 आधारमनुशास्ति सप्तमीबलादाधारमनुशास्ति । च्विः एकीभवन्तीत्यत्र विद्यमानश्च्विप्रत्ययः । भूततद्भाववादिनं भूतस्य प्रागेव विद्यमानस्य तद्भावस्य ब्रह्मभावस्य, वादिनम् । अभूततद्भावार्थक्वचित्प्रत्ययः प्रागविद्यमानस्य मुक्तानां हरेश्च वैकुण्ठाख्य स्थानैक्यस्य प्रतिपादन एव घटते न तु संसारदशायामपि विद्यमानतयाऽङ्गीकृतजीवब्रह्मैक्यस्य प्रतिपादन इति भावः ।। ८३६,८३७ ।।

सत्यप्रमोदटीका

 आधारम् इत्यस्य अनुशास्तीत्युत्तरेणान्वयः । एवं परं अव्ययं इत्यनयोरपि । च्विप्रत्ययोऽप्येवं सति मुख्यः स्यात् । एकस्थान-स्थितत्वस्य मुक्तेः प्रागभूतस्य मुक्तौ सत्यां भावाङ्गीकारात् । पराभिप्रेतार्थे प्रागप्यैक्यस्य तन्मते सिद्धत्वेन अभूततद्भावासम्भवादित्याह च्विरिति ।। ८३६, ८३७ ।।

युक्तिमल्लिका

कलानां कर्मणां चैव जडानां कथमेकता ।

परेणैकीभवन्तीति प्रयोगश्च भवेत्तदा ।

सप्तमीयं भवद्ग्रन्थस्याष्टमीं कुरुते सदा ।। ८३८ ।।

सुरोत्तमटीका

 परपक्षे दूषणान्तरमाह ।। कलानामिति ।। गताः कलाः पञ्चदशप्रतिष्ठा इत्यत्रोक्तकलानाम् । कर्माणीत्यत्रोक्तकर्मणाम् । ऐक्या-सम्भवसूचनाय जडानामिति ग्रन्थकृतो वचनम् । तदा ब्रह्मणैवैक्यस्य श्रुत्यभि-प्रेतत्वे । परेणेति तृतीयाप्रयोग एव स्यात् । न तु सप्तमीत्यर्थः । शब्दार्थाकुशलं परमपहसति ।। सप्तमीति ।। अष्टमीं अष्टमीतिथिम् । भगव-द्ग्रन्थस्यापाठ्यत्वप्रयोजकानध्ययनां कुरुत इति भावः ।। ८३८ ।।

सत्यप्रमोदटीका

 कलाशब्दस्य जडार्थतामुपेत्याह कलानामिति । देवतापरत्वे निवृत्तिशब्दस्यानेकार्थताकल्पनाप्रसङ्गादिति भावः । तदा ऐक्याभिप्राये । अष्टमीम् अष्टमीतिथिवत् अध्ययनानर्हत्वम् ।। ८३८ ।।

युक्तिमल्लिका

वक्ति कारणमात्रस्य सत्यतां मृत्तिकाश्रुतिः ।

कार्यमात्रस्य सद्भावं वक्ति कार्ष्णायसश्रुतिः ।। ८३९ ।।

सुरोत्तमटीका

 वाचारम्भणश्रुत्या सत्यत्वसाधनप्रकारमाह ।। वक्तीति ।। मृत्तिकाश्रुतिः ‘यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति’ श्रुतिरित्यर्थः । कारणमात्रस्य उपलक्षणया उपादानकारणसमुदायस्य सकलकारणसमुदायस्य वा सत्यतां वक्तीति योजना । न त्वकारणतया परेणाभिमत ब्रह्मचिन्मात्रस्येति भावः । कार्यमात्रस्य नखनिकृन्तनाख्यकार्ष्णायसस्य कार्यरूपत्वेन उपलक्षणया सकलकार्यस्य न तु सर्वथा अकार्यस्य ब्रह्मचिन्मात्रस्येति भावः । सद्भावं सत्यत्वम् । कार्ष्णायसश्रुतिः यथा सौम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णाय सं ज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यमिति श्रुतिरित्यर्थः ।। ८३९ ।।

सत्यप्रमोदटीका

 पररीत्या ‘मृत्तिकेत्येव सत्यं’ इति श्रुतिः मृत्तिकोप-लक्षितसकलकारणप्रपञ्चस्य सत्यत्वं अभिप्रैति । अन्यथा यस्य कस्य-चित्कारणस्य मिथ्यात्वे ‘ब्रह्म सत्यं कारणत्वात् मृत्तिकावत् इति अनुमाने हेतोस्तत्रैव व्यभिचारः प्रसज्यते । ‘कार्ष्णायसमित्येव सत्यं’ इति श्रुतौ कार्ष्णायसस्यान्त्यावयवित्वेन कार्यत्वमेवास्ति । समानन्यायेन सर्वस्य कार्य-प्रपञ्चस्य सत्यत्वसिद्धिः ।। ८३९ ।।

युक्तिमल्लिका

उपादानस्य सत्यत्वे कार्यसत्त्वमभूद्बलात् ।

उपादेयस्य सत्यत्वे सत्सत्त्वं च भवेद्बलात् ।

अतो द्विर्बद्धसत्यत्वं को वा मोचयितुं क्षमः ।। ८४० ।।

सुरोत्तमटीका

 वाक्यमर्यादया आगतकार्यकारणसत्यत्वमुक्त्वाऽर्था-दागततत्सत्यत्वमप्याह ।। उपादानस्येति ।। तत्सत्त्वम् उपादानसत्त्वम् । उपादानोपादेययोरभिन्नत्वेनैकसत्यत्वे अपरसत्यत्वस्याप्यावश्यकत्वादिति भावः ।। द्विर्बद्धसत्यत्वं वाक्यादर्थाच्चागतसत्यत्वम् । इदं च इति शब्दमुपेक्ष्य पररीत्यैवार्थकथनेऽपि वाक्यद्वयस्य स्वारसिकार्थमर्यादया कार्यकारणात्मक-प्रपञ्चसत्यतैव सिद्ध्येत् । न तु ब्रह्मसत्यत्वं जगन्मिथ्यात्वं चेति ज्ञापना-योदितम् । वस्तुतस्तु विष्णुतत्वनिर्णयादावुक्त एवार्थो द्रष्टव्यः ।। ८४० ।।

सत्यप्रमोदटीका

 एवं शब्दात्कार्यकारणप्रपञ्चस्य सत्यत्वसिद्धिप्रकार-मुक्त्वा अर्थतोऽपि तत्सिद्धिमाह उपादानेति । बलात् उपादानोपादेययोर-भेदबलात् । अन्यथा एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा व्याहन्येत । द्विःशब्दः अर्थतश्चेत्युक्तप्रकारद्वयेन । बद्धसत्यत्वं निरवकाशतया सिद्धं सत्यत्वम् । यद्यपि परपरिकल्पितस्यार्थस्यायुक्तताऽनुव्याख्याने समर्थिता तथाऽपि परस्याकौशल-प्रकटनाय, अभ्युपगमवादेनापि परस्य व्याघातः समर्थितो ध्येयः ।। ८४० ।।

युक्तिमल्लिका

वाचारम्भणवाक्तस्माद्यथापूर्वमिति श्रुतेः ।

नामरूपात्मकस्यास्य वक्त्येकविधतां सदा ।

उक्तं विकारसत्यत्वं त्वदर्थं बाधते यतः ।। ८४१ ।।

सुरोत्तमटीका

 श्रौतपदशक्त्यैव लभ्यं मूलग्रन्थानुकूलमर्थान्तरं चाह ।। वाचारम्भणेति ।। तस्मात् परोदीरितार्थस्य श्रौतपदलभ्यत्वात् । अस्य जगतः सदैकविधताम् । विकारः षट्शरावादिविकारः । मृत्तिका, वाचारम्भणं वाचा वागिन्द्रियेण आरम्भणं यस्य तत् वाचारम्भणं नामधेयं घटमृत्तिकादिनामधेयं च इत्येव इदानीं यथा वर्तते अनेन प्रकारेणैव सर्वदा तिष्ठति । कार्य-कारणात्मकं नामरूपात्मकमिदं जगत् अनाद्यन्तकालेष्वप्येकप्रकारमेवेत्यर्थः । अत एव शुक्लः कम्बलः, शुक्ला पटी, शुक्लं वस्त्रं, तानीमानि शुक्लानि, तदिदं शुक्लमिति वत् विकारः सत्यः, मृत्तिकेत्येव सत्या, नामधेयं सत्यं, तानीमानि सत्यानि, तदिदं सत्यमिति श्रुतेः एकप्रकारवद्विषयजगत्सत्यत्व रूपार्थलाभात् अनादिकालमारभ्य यस्य यस्य घटादेर्यद्रूपं यच्च नाम तस्य तस्य पदार्थस्य सर्वदा तद्रूपत्वं तन्नामधेयत्वं च वाचारम्भणवाक् वक्तीति सम्बन्धः । इदं चोपलक्षणम् । कार्यकारणात्मकस्य नामरूपात्मकस्यास्यैव प्रपञ्चस्य पृथक्-पृथक् बहूनां वचनान्ततयेति त्रिवाचाशपथपूर्वकं सत्यत्वं च वक्तीत्यपि द्रष्टव्यम् । अत एव नपुंसकैकवचनप्रयोगः । यत इत्यस्यार्थं स्वयमेवाह ।। उक्तमिति ।। विकारसत्यत्वं नखनिकृन्तनाख्यविकारसत्यत्वम् । त्वदर्थं विकारो नामधेयमित्यत्राभिप्रेतं कार्यमिथ्यात्वम् ।। ८४१ ।।

सत्यप्रमोदटीका

 कारणं सत्यं, कार्यं मिथ्या इति परोक्तार्थस्य अयुक्त-त्वात् । अन्यथा मृत्तिकाया अपि स्वकारणकार्यत्वेन तस्या अपि मिथ्यात्वा-पातेन मृत्तिकैव सत्यं इत्यस्यापि अयुक्तताऽऽपातात् । यतः उक्तं ‘नख-निकृन्तनमेव सत्यं’ इति अन्त्यावयविनो विकारस्य सत्यत्वं, त्वदर्थं कार्यं मिथ्या इत्येवं रूपं बाधते तस्मात् इति उत्तरार्धेन अन्वयः । एवं प्रपञ्चस्य सत्यत्वपरतया श्रुतिं व्याख्याय नामरूपात्मकस्य तस्य कालत्रयेऽप्येक-प्रकारतापरतयाऽपि तां योजयति नामेति । श्रुतेरित्युपलक्षणम् । ‘न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः’ इत्यादिस्मृतेश्चेत्यपि ग्राह्यम् । ‘इत्येव’ अनेनैव प्रकारेण न तु पुनः कल्पान्तरेष्वपि नामरूपव्यत्यासेनेति । वक्ति प्रतिपादयति । अनेन श्रौतसत्यपदस्य नित्यं इत्यर्थान्तरमिति ज्ञापितम् । ‘एतत्सत्यं ब्रह्मपुरं’ इत्यत्र तदर्थे प्रयोगात् ।। ८४१ ।।

युक्तिमल्लिका

अक्लीबेन सहोक्तौ च क्लीबोऽसौ शिष्यते किल ।

शिष्यमाणस्य तस्यैकवद्भावोऽप्युचितः किल ।। ८४२ ।।

सुरोत्तमटीका

 ननु कथमयं श्रुतेरर्थो लभ्यत इत्याशङ्क्य नपुंसके-नैकवचनमन्यतरस्यामिति सूत्रं किलपदेन सूचयन् अक्लीबेन सहोक्तौ क्लीबं शिष्यते एकत्वमस्य वा स्यादिति वृत्तिं दर्शयति ।। अक्लीबेनेति ।। अक्लीबेन स्त्रीलिङ्गपुंल्लिङ्गान्तपदेन सहोक्तौ नपुंसकलिङ्गान्तपदस्य सहकथने स्त्रीलिङ्ग-पंुल्लिङ्गान्तपदानामेकस्मिन्वाक्ये सहपाठ इत्यर्थः । असौ त्रिलिङ्गान्तपदार्थ-विषयकः शब्दः क्लीबः नपुंसकलिङ्गान्तःशिष्यते प्राक् त्रिलिङ्गान्तविशेषण पदेनोदितानां तेषां पुनस्तेनैव पदेन परामर्शे तत्पदं बहुवचनान्तनपुंसकलिङ्गं भवति एकवचनान्तं वा स्यादित्यर्थः । एकवद्भावः एकवचनान्तत्वम् । अतस्त्रिलिङ्गान्तपदोक्तानां मृत्तिकादीनां सत्यमित्येकवचनान्तनपुंसकलिङ्गपदेन सत्यत्वविधानं घटत इति भावः ।। ८४२ ।।

सत्यप्रमोदटीका

 अक्लीबेन मृत्तिका विकारः इति पदद्वयेन । सहोक्तौ नामधेयमिति पदस्येति भावः । असौ सत्यमिति शब्दः । शिष्यते ‘अक्लीबेन सहोक्तौ क्लीबं शिष्यते एकत्वमस्य वा स्यादि’ति वृत्तौ । तेन सत्यमिति एकवचनान्तनपुंसकलिङ्गशब्दप्रयोगः साधुरिति भावः ।।त्रिवारमुक्त्या अभ्यासेनोक्तार्थे तात्पर्यं च द्योत्यते ।।८४२ ।।

युक्तिमल्लिका

मृज्ज्ञाने सर्वमृत्कार्यज्ञानं सर्वत्र सर्वदा ।

नामाद्यव्यत्यये सत्येव स्यादित्याह तं च वाक् ।। ८४३ ।।

सुरोत्तमटीका

 ननु किमर्थः नामादीनामव्यत्यासः श्रुत्या प्रतिपाद्यत इत्यतः प्रयोजनद्वयमाह ।। मृदिति ।। तम् अव्यत्ययम् । अस्मिन्कल्पे मृत्तिकावाचकमृत्पदस्य कल्पान्तरे पदार्थान्तरवाचकत्वे मृत्तिकायाः पदान्तर-वाच्यत्वे च एतत्कल्पीयमृत्पिण्डः कल्पान्तरीयमृत्पिण्डः एतत्कल्पीयमृण्मयं कल्पान्तरीयमृण्मयं च भिन्नं भिन्नं स्यात् । इदानींतन मृण्मयानां कल्पान्तरीय-मृण्मयानां चाकारश्च भिन्नः भिन्नः स्यात् । तथा चेदानीं ज्ञातेनैकमृत्पिण्डेनै-तद्विजातीयकल्पान्तरस्थमृण्मयज्ञानायोगात् सर्वमृण्मयज्ञानं कथं स्यात् । इदानीं ज्ञातघटाकारात्कल्पान्तरस्थ घटाकारस्यापि व्यत्यासे श्रुत्युक्तं सादृश्या-देकविज्ञानेन सर्वविज्ञानं च कथं स्यात् । व्याप्तिज्ञानसङ्केतग्रहणादिकं च कथं स्यात् । अतः श्रुतिर्नाम्नां रूपाणां चाव्यत्यासमाहेति भावः ।। ८४३ ।।

सत्यप्रमोदटीका

 श्रुतौ सर्वकल्पसाधारण्येन सादृश्यादेकविज्ञानेन सर्वविज्ञानप्रतिज्ञाऽन्यथाऽनुपपत्त्याऽपि नाम्नां रूपाणां च सर्वकल्पेष्वेकविधता सिद्ध्यति । अन्यथा कल्पान्तरे मृत्पिण्डस्य तद्विकाराणां च वैसादृश्ये श्रौत-प्रतिज्ञा व्याहन्येतेत्याह मृदिति । एवं नियतवर्णपदस्वरवाक्यात्मकस्य वेदस्य प्रामाण्यं च हीयेतेति भावः ।। ८४३ ।।

युक्तिमल्लिका

व्यत्यासाभावतः स्वोक्तसत्यत्वस्थापनाय च ।

महावाक्योक्ततत्त्वेऽस्मिन्व्यावहारिकता च न ।। ८४४ ।।

सुरोत्तमटीका

 अत्रोक्तसत्यपदस्य व्यावहारिकसत्यत्वपरतां निवार-यति ।। महावाक्येति ।। ८४४ ।।

सत्यप्रमोदटीका

 व्यत्ययाभावोक्त्या परोक्तं बाध्यत्वापरपर्यायं व्यावहारिकत्वमपि पराकृतमित्याह व्यत्यासेति । न हि ‘याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’ इत्युक्तस्य बाध्यत्वं सञ्जाघटीतीति भावः ।। ८४४ ।।

युक्तिमल्लिका

एवकारोऽकारणस्याकार्यस्य च न सत्यता ।

इत्याह तेन सत्तायास्त्रैविध्यं प्रत्यषिध्यत ।। ८४५ ।।

सुरोत्तमटीका

 इत्येवेति पदं देहलीदीपन्यायेन पूर्वत्रोत्तरत्र च सम्बध्यते । एवं च इत्येव सत्यं न त्वन्यदित्यर्थलाभेनाकारणरूपस्याकार्य-रूपस्य च शुक्तिरूप्यादेः परोदीरितसत्यतानिवारितेत्याह ।। एवकार इति ।। तेन कारणेन ।। ८४५ ।।

सत्यप्रमोदटीका

 कार्यकारणभावव्यवहारनिर्वाहकत्वरूपव्यावहारिक-सत्यत्वस्य पारमार्थिकसत्यत्वानतिरेकात् ‘इत्येव सत्यं’ इति श्रुतावेव-कारेणाकार्यकारणभावस्य शुक्तिरूप्यादेः सत्यत्वव्यवच्छेदात्पारमार्थिकमेकमेव सत्यमिति श्रुत्या व्यवस्थापनात् परपरिकल्पितं सत्तात्रैविध्यमपि भग्नमित्याह एवेति ।। ८४५ ।।

युक्तिमल्लिका

यन्नामरूपयोश्चान्यथात्वं न स कदाऽन्यथा ।

कार्यकारणरूपं च नामरूपात्मकं जगत् ।

द्वेधा निर्दिश्य तत्सत्त्वमपि वक्ति सयुक्तिकम् ।। ८४६ ।।

सुरोत्तमटीका

 तर्हि ब्रह्मणि जगति च सत्ताद्वैविध्यं स्यादित्येतत् प्रागर्थाद्दूषितमपि पुनः श्रौतमर्यादया च दूषयति ।। यदिति ।। यद्यस्मात् ।। नामरूपयोश्चान्यथात्वं वैपरीत्यम् । न इत्येवेति श्रुत्या प्रतिपादनात् कदापि न घटते । तस्मात् सः नामरूपात्मकप्रपञ्चः । कदा अन्यथा मिथ्याभूतः । न कदापीत्यर्थः । जगतोऽपि ब्रह्मवत्कदापि व्यत्यासाभावात् पारमार्थिकत्वमेव वक्तव्यम् । अतः सत्ताद्वैविध्यमपि न श्रुतेरभिप्रेतमिति भावः । नन्वेवं तर्हि जगदित्येव सत्यमित्येतावतैवालं किमर्थं जगतो विभागकथनमित्यत आह ।। कार्येति ।। सयुक्तिकमिति वदता नामाभिधेयत्वाद्रूपवत्त्वात्कारणरूपत्वा-त्कार्यरूपत्वाच्चेति युक्तिचतुष्टयसूचनार्थं विभागकथनमिति द्योतितम् ।। ८४६।।

सत्यप्रमोदटीका

 यत् यस्य प्रपञ्चस्य । सः प्रपञ्चः । कदाऽन्यथा न कदाऽपि बाध्यः । ब्रह्मवदेव । ब्रह्म सर्वप्रकारेण नित्यम् । प्रपञ्चस्तु प्रवाहत इति तु वैषम्यमात्रम् । अबाध्यत्वे न कोऽपि विशेषः । अत उक्तरूपं व्यावहारिकं पारमार्थिकमिति चानर्थान्तरमित्याशयः । द्वेधा पूर्वोक्तप्रकारेण प्रत्येकं प्रकारद्वयेन । सयुक्तिकं नामवत्त्वात् रूपवत्त्वाच्च, कार्यरूपत्वात्, कारणरूपत्वात् इति युक्तिचतुष्टयपूर्वकम् । अपि शब्देन अन्योन्यभेदं परमात्मभेदं च । ‘आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ इति आकाशपदवाच्यस्य परमात्मनो नामरूपात्प्रपञ्चाद्भेदज्ञापनात् । एवं चेतन-त्वेनोपादानोपादेयभावाभावात् प्रधानत्वेनास्वतन्त्रचेतनभिन्नत्वाच्च ।। ८४६ ।।

युक्तिमल्लिका

यदा मृदपि विज्ञातसादृश्याज्ज्ञापयेज्जगत् ।

तदा समर्थः सामर्थ्याद्विज्ञातः पुरुषोत्तमः ।

कथं न दद्यात्सार्वज्ञमिति कैमुत्यतः प्रभोः ।। ८४७ ।।

सार्वज्ञदानशक्तिं सा बोधयन्ती मुहुर्मुहुः ।

निदर्शनत्रयमिदं नृणां प्रादर्शयच्छ्रुतिः ।। ८४८ ।।

सुरोत्तमटीका

 इदानीं यथा सोम्येति वाक्यत्रयस्य येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं भवतीति मूलोपक्रमवाक्येन सङ्गतिमाह ।। यदेति ।। सा यथा सोम्येत्यादिश्रुतिः । निदर्शनत्रयमिति वदता अतिस्पष्टी-करणाय श्रुतेः प्रवृत्तिरिति सूचितम् ।। ८४७,८४८ ।।

सत्यप्रमोदटीका

 ‘एवं प्रधानस्य परमात्मनो ज्ञानादप्रधानं ज्ञातमिव भवति’ । ‘यथा सौम्येत्याद्यपि सादृश्यकथनं’ इति भगवत्पादोक्ती अनुरुध्याह यदेति । सार्वज्ञम् अपरप्रपञ्चस्यैव परायत्तत्वज्ञापनेन प्रपञ्चज्ञानाज्जायमानं तदधिकं फलं च । निदर्शनत्रयं दार्ढ्यार्थम् ।। ८४७, ८४८ ।।

युक्तिमल्लिका

इत्येव वाच्यः श्रुत्यर्थो नोचेत्कुप्येदियं कृतिः ।

हयग्रीवप्रसादोत्थसामर्थ्यकृतकौतुका ।। ८४९ ।।

सुरोत्तमटीका

 नो चेत् सर्वविज्ञानेन विज्ञातुः सार्वज्ञाख्यफलसिद्धि-प्रतिपादिका नो चेत् । परं दूषयेदित्यर्थः । स्वकीयकृतेः परदूषणे कथं शक्तिरित्यत आह ।। हयग्रीवेति ।। ८४९ ।।

सत्यप्रमोदटीका

 कृतकौतुका । पररीत्याऽर्थवर्णनेऽपि प्रपञ्चस्य सत्यत्वनित्यत्वसमर्थनकौशलवती । कृतिः युक्तिमल्लिका

।। ८४९ ।।

युक्तिमल्लिका

श्रुत्या द्वितीयमात्रस्य निषेधे सति ते मते ।

अत्यन्ताभावोऽपि नेति द्वितीयं पुनरापतेत् ।। ८५० ।।

सुरोत्तमटीका

 इदानीमेकमेवाद्वितीयमिति श्रुत्या भावाभावात्मक-द्वितीयमात्रनिषेधः क्रियते वा उत भावत्वेन सकलभावानामेव निषेधः क्रियते वा, अथवा सकलभावानां स्वरूपस्यापि निषेधः क्रियते वा ब्रह्मव्यतिरिक्त सकलभावस्वरूपाणामेव निषेधः क्रियते वेत्यादि विकल्पं मनसि निधाय क्रमेण दूषयति ।। श्रुत्येत्यादिना ।। द्वितीयमात्रस्य भावाभावात्मकद्वितीय-मात्रस्य । अत्यन्ताभावोऽपि नेति कृत्वा द्वितीयं भावरूपद्वितीयं पुनरापतेदिति सम्बन्धः। अभावाभावस्य भावात्मकत्वात् अत्यन्ताभावनिषेधे भावात्मकं द्वितीयं बलात्सिद्ध्येदिति भावः । उपलक्षणं चैतत् । भावनिषेधे च तद-भावोऽप्युर्वरितः स्यात् । भूतले घटाभावनिषेधकाले घटदर्शनेन घटनिषेधे च घटाभावदर्शनेनोभयनिषेधस्त्वसम्भावित एवेत्यपि द्रष्टव्यम् ।। ८५० ।।

सत्यप्रमोदटीका

 ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुतौ अद्वितीयपदस्य प्रपञ्चानिषेधकत्वं दशधा साधयति श्रुत्येत्यादिना । द्वितीयमात्रस्य भावस्य अभावस्य च । द्वितीयं भावरूपम् । एवं भावोऽपि नेति द्वितीयं अभावात्मकं च आपतेदित्यपि ध्येयम् । उभयनिषेधस्य व्याहतत्वेनासम्भव एवेति हृदयम् ।। ८५० ।।

युक्तिमल्लिका

भावस्यैव निषेधे सत्यभावाभावसम्भवात् ।

तदाकारेण सकलं द्वितीयं पुनरापतेत् ।। ८५१ ।।

सुरोत्तमटीका

 द्वितीयं दूषयति ।। भावस्येति ।। तदाकारेण अभावा-भावाकारेण । भावनिषेधेऽपि अभावाभावरूपेण तस्यैवावस्थानसम्भवादिति भावः ।। ८५१ ।।

सत्यप्रमोदटीका

 तदाकारेण अभावाभावाकारेण । सकलमिति अभावस्यानिषेधात् भावस्य रूपान्तरेण पुनरापाताच्चेति सर्वं भावाभावरूपं इत्यर्थः ।। ८५१ ।।

युक्तिमल्लिका

भावस्वरूपमात्रस्यासत्त्वात्तस्यापि बाधने ।

ब्राह्म्याश्चितोऽपि बाधेन द्वितीयं पुनरापतेत् ।। ८५२ ।।

सुरोत्तमटीका

 तृतीयं दूषयति ।। भावस्वरूपेति ।। भावस्वरूपमात्रस्य येन केनाप्याकारेण भावत्वाकारेण विशिष्टस्य सकलभावस्वरूपस्येत्यर्थः । असत्त्वान्मिथ्यात्वात् तस्य भावस्वरूपस्य । ब्राह्म्याः परब्रह्मसम्बन्धिन्याः । भावमात्रनिषेधे ब्रह्मचितोऽपि निषेधप्रसङ्गेन ब्रह्मैव न स्यात् । तथा च ब्रह्मप्रमाख्यबाधकाभावेन द्वितीयं जगत् पुनरापतेदिति भावः ।। ८५२ ।।

सत्यप्रमोदटीका

 भावस्वरूपमात्रस्य भावत्वेन अभावाभावरूपत्वेन च इति उभयाकारस्य । पुनः ब्रह्मण एवाभावेन ब्रह्मप्रमाबाध्यत्वस्य जगतोऽ-सम्भवात् इति भावः । पूर्वं निषेधाभावात् इदानीं निषेधकाभावादिति विशेषः ।। ८५२ ।।

युक्तिमल्लिका

ब्रह्मरूपस्य भावस्यानिषेधे तद्गुणाम्बुधेः ।

अबाधसम्भवेन त्वद्द्वितीयं पुनरापतेत् ।। ८५३ ।।

सुरोत्तमटीका

 चतुर्थं दूषयति ।। ब्रह्मरूपस्येति ।। तद्गुणाम्बुधेः ब्रह्मणः सार्वज्ञादिगुणाम्बुधेः । अबाधसम्भवेन आवयोर्मते गुणगुणिनोरभेदेन तस्यापि ब्रह्मरूपभावतया बाधाभावसम्भवेनेत्यर्थः । एतादृश गुणसमुदायस्यापि मायावादिना निषेध्य द्वितीयकोटौ प्रक्षेपात्त्वद्द्वितीयमित्युक्तम् ।। ८५३ ।।

सत्यप्रमोदटीका

 सम्भवेन गुणानां ब्रह्मस्वरूपत्वस्य त्वयाऽप्यभ्युप-गमात् । आनन्दबोधे औतिग्रन्थे तथोक्तेः ।। ८५३ ।।

युक्तिमल्लिका

एकशेषेण तद्बाधे पुनर्ज्ञाननिषेधनात् ।

ब्रह्मणो जडताऽऽपत्त्या द्वितीयं पुनरापतेत् ।। ८५४ ।।

सुरोत्तमटीका

 ननु ब्रह्मगुणयोरभेदे अभिन्नयोर्घटकरीरयोरेकशेषत्व-दर्शनेन प्रकृते एकशेषत्वप्राप्त्यै प्राधान्यात्तद्धर्मिण एवावशेषे परिशेषगुणानामेव बाध इत्यत आह ।। एकशेषेणेति ।। जडप्रमायाः बाधकत्वासम्भवात् द्वितीयं पुनरापतेदिति भावः । उपलक्षणं चैतत् । करीरस्य घटगुणत्वाभावेन घटतन्मात्रत्वादस्त्वेकशेषः । गुणगुणिनोस्तु भेदाभेदवादिनस्तव मते भेद-सद्भावात् मम मते विशेषसद्भावान्नैकशेष इत्यपि द्रष्टव्यम् ।। ८५४ ।।

सत्यप्रमोदटीका

 एकशेषेण ब्रह्मावशेषेण गुणानामेव बाधे । स्वरूप-त्वेन, एकस्य धर्मिणोऽवशेषः धर्ममात्रस्य बाधः इत्येतदसम्भवि इति दोषे सत्येव दोषान्तरमाह ज्ञानेति । जडतेति ज्ञातृत्वाभावस्यैव जडत्वरूपत्वादिति भावः । जडप्रमाया बाधकत्वासम्भवादिति पूरणीयम् ।। ८५४ ।।

युक्तिमल्लिका

श्रुत्यबाधे वेदरूपं द्वितीयं पुनरापतेत् ।

श्रुतेर्बाधे त्वबाध्यं तद्द्वितीयं पुनरापतेत् ।। ८५५ ।।

सुरोत्तमटीका

 पुनरपि प्रकारद्वयेन द्वितीयापत्तिमुपपादयति ।। श्रुतीति ।। अबाध्यं मिथ्याभूतवेदस्य बाष्पारोपितधूमवत् प्रमाजनकत्वासम्भवेन बाधकप्रमा-भावादबाध्यम् । तत् जगत् ।। ८५५ ।।

सत्यप्रमोदटीका

 श्रुतेः भावरूपत्वेऽपि तदबाधे । अबाध्यमिति वन्ध्यासुतवचस इव श्रुतेः बाधनासमर्थत्वादिति भावः ।। ८५५ ।।

युक्तिमल्लिका

विश्वान्यद्ब्रह्म नाशास्यं द्वितीयस्यैव दूषणे ।

तच्छेषेऽन्यस्य तन्न्यायाद्द्वितीयं पुनरापतेत् ।। ८५६ ।।

सुरोत्तमटीका

 किं च द्वितीयशब्दस्य सर्वनामशब्दत्वेन जगतो द्वितीयं ब्रह्मापि भवति । एवं च सकलद्वितीयस्यापि निषेधे ब्रह्मणोऽपि निषेधः स्यात् । प्रामाणिकत्वेन ब्रह्मणो निषेधायोगात्ततः सङ्कोचे तत एव प्रपञ्चादपि सङ्कोचस्स्यात् । श्रुतेश्चाप्रामाणिकशून्यनिर्गुणादिद्वितीयनिषेधपरत्वं स्यादित्याह ।। विश्वान्यदिति ।। तच्छेषे ब्रह्मणः शेषे तन्न्यायात् अन्यस्य जगतोऽपि शेषे सति द्वितीयं पुनरापतेदिति सम्बन्धः । तन्न्यायादिति वदता सदेवेदमग्र आसीदिति प्राग्ब्रह्मणः प्रस्तुतत्वात्तत्सङ्कोचश्चेत्तत्रैव इदमग्रे अस्याग्र इति इदं पदेन जगतः अग्रपदेन कालस्यैव प्रस्तुतत्वात्कालादिप्रपञ्चादपि सङ्कोचः स्यादिति सूचितम् ।। ८५६ ।।

सत्यप्रमोदटीका

 द्वितीयस्य विश्वापेक्षया द्वितीयस्य ब्रह्मणः । अन्यस्य ब्रह्मापेक्षया द्वितीयस्य विश्वस्य । तन्न्यायादिति सर्वनामाद्वितीय-शब्दस्य बुद्धिस्थब्रह्मण इव ‘इदमग्रे’ इति पूर्ववाक्यप्रकृतत्वेन विश्वस्यापि परामर्शसाम्यादिति भावः ।। ८५६ ।।

युक्तिमल्लिका

अभावस्य यथा रक्षा वाक्यप्रामाण्यगुप्तये ।

तथा भावस्य रक्षायां द्वितीयं पुनरापतेत् ।। ८५७ ।।

सुरोत्तमटीका

 द्वितीयपक्षे दूषणान्तरं वदन्पुनर्द्वितीयापत्तिमेवोपपाद-यति ।। अभावस्येति ।। ८५७ ।।

सत्यप्रमोदटीका

 एतद्वाक्येन प्रमितत्वान्नाभावस्य निषेधश्चेत्पूर्ववाक्ये सलिलकालादिप्रपञ्चस्यापि प्रमितत्वान्न तस्यापि निषेधो युक्त इत्याह तथेति ।।

युक्तिमल्लिका

अन्योन्याभावरूपत्वाद्भावाद्भिन्नं भवन्मते ।

भेदपञ्चकरूपं च द्वितीयं पुनरापतेत् ।। ८५८ ।।

सुरोत्तमटीका

 दूषणान्तरमप्याह ।। अन्योन्येति ।। अस्मन्मते अन्योन्याभावे घटादिभावस्वरूपत्वस्यापि विद्यमानत्वाद्भवन्मते भावभिन्न-मित्युक्तम् ।। ८५८ ।।

सत्यप्रमोदटीका

 भवन्मते अन्योन्याभावस्य धर्मिस्वरूपत्वमनङ्गी-कर्तुर्मते ।। ८५८ ।।

युक्तिमल्लिका

दशप्रमतिनामा मे गुरुस्त्रिदशतोचितः ।

योऽदीदिशद्दोषमेकं दूष्येषु दशसु प्रभुः ।। ८५९ ।।

सुरोत्तमटीका

 दशसु पक्षेषु एकस्यैव दूषणस्येदानीं कौशलमाचार्यस्यैव न ममेत्याशयेन तं स्तुवन् अनयैव शक्त्या तस्य देवत्वं चोपपादयति ।। दशेति ।। त्रिदशतोचितः त्रिदशपदवाच्यदेवत्वोचितः । एकं दशसु प्रयुञ्जन् त्रीन् दोषान् दशसु सुतरां प्रयुञ्ज्यात् । अतस्त्रयो दोषा दशसु यस्येति व्युत्पत्त्या त्रिदशत्वं तस्य कैमुत्यसिद्धमित्युत्प्रेक्षितम् ।। ८५९ ।।

सत्यप्रमोदटीका

 एकं दोषं दशसु प्रयोगरूपं एवमीदृशं कौशलं यो ममान्वग्रहीत्स दशप्रमतिर्गुरुः त्रिदशतोचितः इति तं स्तौति दशेति । त्रयो दोषा दशसु यस्य इति त्रिदशः देवः, तस्य भावः तदुचितः । एकं अपि दोषं दशस्वेवं प्रयुञ्जानः त्रीन् दशसु प्रयुङ्क्ते इति एतत् कैमुत्यसिद्धमिति भावः ।। ८५९ ।।

युक्तिमल्लिका

किञ्च द्वितीयाज्ञानस्य कार्यत्वाद् ब्रह्मणो जगत् ।

तृतीयं तेन गौर्दोग्ध्री विद्यते तेन काचन ।। ८६० ।।

सुरोत्तमटीका

 किं च न विद्यते द्वितीयं यस्येति त्वदभिमतसमासे ब्रह्मप्रतियोगिक द्वितीयनिषेधरूपे त्वदभिमतार्थे चानादिकालमारभ्य ब्रह्मण्येव विद्यमानत्वाङ्गीकारात्तव मते ब्रह्मणो द्वितीयमज्ञानमेवेति तस्यैव निषेधः स्यात् । न त्वज्ञानकार्यतया तृतीयस्य जगतः । एवं च तव ब्रह्माश्रिता ज्ञानस्यैव खण्डनात्तदभावे जगत्यज्ञानकार्यत्वरूपमिथ्यात्वखण्डनाच्च श्रुतिस्तवैव द्वेधाप्यनिष्टदायिन्यभूत् । मम तु मदनभिमतप्रमेयद्वयस्यापि निवारणात् द्वेधाप्यनुकूलैवेत्याह ।। किं चेति ।। द्वितीयाज्ञानस्य द्वितीयं यदज्ञानन्त-स्येत्यर्थः । तेन कारणेन । गौः गौरिव गौः वेदरूपागौरित्यर्थः । दोग्ध्री नेत्युपलक्षणम् । उक्तविधया ममेष्टदोग्ध्री तवानिष्टदोग्ध्री चेत्यपि द्रष्टव्यम्

।। ८६० ।।

सत्यप्रमोदटीका

 द्वितीयेति अनादितस्तत्सम्बन्धित्वादिति भावः । तेन अज्ञाननिषेधे अज्ञानकार्यत्वस्यापि निषेधात् सिद्धेन जगत्सत्यत्वेन निमित्तेन । गौः ‘अद्वितीयं’ इति श्रुतिः एवमन्याऽपि । न दोग्ध्री न मिथ्यात्वबोधिका, प्रत्युत त्वदनिष्टसत्यत्वस्यैव प्रतिपादिका ।। ८६० ।।

युक्तिमल्लिका

यदखण्डार्थवादी त्वं तृणखण्डं च नादिशः ।

तैलं धूलिषु निक्षिप्तं पिण्याकं भस्मसात्कृतम् ।

निषेधो न निषेध्यं न केन वा गौर्जिजीविषेत् ।। ८६१ ।।

सुरोत्तमटीका

 वेदस्य गोत्वेन वर्णनात्तेनैव निदर्शनेन परसिद्धान्तस्य हेयतां स्वसिद्धान्तस्योपादेयतां चोपपादयति ।। यदिति ।। यद्यस्मात् तृणखण्डं तृणं च खण्डं च तृणखण्डम् । तृणं यथा कश्चिन्न दिशति तथा अखण्डं ब्रह्म स्वप्रकाशतया सिद्ध्यद्वाक्यस्यार्थतयानादिशः । तृणस्य खण्डं यथा न दिशति तथा ब्रह्मणो विशेषणतया खण्डभूतमैक्यं चाखण्डवादित्वाद्वाक्यस्यार्थतया-नादिश इति भावः । तैलं गवां पुष्ठ्यर्थे दीयमानतैलमिव वाक्यप्रामाण्यरक्षणाय विचाराख्यमथने कृते सति पर्यवसितोर्थऽनिषेधः धूलिषु निक्षिप्तं धूलिषु निक्षिप्ततैलमिव सर्वमिथ्यात्ववादेन नाशित इति भावः । पिण्याकं तैलं गृहीत्वा बहिष्क्रियमाणं पिण्याकमिव वाक्येन निरस्यमानं जगदिति भावः । तदेव दर्शयति ।। निषेधो न निषेध्यं नेति ।। गौः गोसदृशी वेदवाक् ।। ८६१ ।।

सत्यप्रमोदटीका

 अखण्डार्थवादी संसर्गासङ्गिचिन्मात्रवादी । तृण-खण्डम् ऐक्यम् । तैलं निषेधः । पिण्याकं निषेध्यं जगत् । इत्येतानि सर्वाणि वाक्यार्थतया न स्वीकृतानि । स्वीकारे अखण्डार्थत्वहानेः । तथा च वाक्यस्य संसर्गाबोधकत्वे नैरर्थक्यलक्षणमप्रामाण्यं दुष्परिहरमिति भावः ।। ८६१ ।।

युक्तिमल्लिका

एवं निराशास्ताः सर्वाः क्रन्दन्त्यो वाजिनोऽनुगाः ।

वाजिकिङ्करमध्वाख्ययोगीन्द्रेण पदे पदे ।। ८६२ ।।

दत्तग्रासाः सतां वृन्दारण्यमेत्य कृतोत्सवाः ।

गोविन्दमेव परितः प्रापुरित्यतिमङ्गलम् ।। ८६३ ।।

सुरोत्तमटीका

 ताः वेदवागाख्यगावः । क्रन्दन्त्यः ये अभितो वेदादि-द्रोहकारिणः पुरुषस्यापदे स्थाने अन्धे तमसि पातयितुं योग्याः । ये च रामाख्य परदेवतावन्तो न भवन्ति अन्नेष्वेव जागृधुः प्रेत्यस्तेनेभ्यः प्रनः अस्मान्माब्रूहीति मानस्तेनेभ्य इत्यादिश्रुत्या हयग्रीवं प्रत्याक्रोशं कुर्वत्यः । वाजिनः हयग्रीवस्य । यथा चोरैरुपहृता गावः स्वग्राममलभमानाः ग्रामं प्रति गच्छन्तं मार्गज्ञमश्वमनुसृत्य गच्छन्ति तथा स्वार्थदर्शकं हयग्रीवमनुसृत्यैव गच्छन्त्य इत्यर्थः । आहारप्रदःक इत्यत आह ।। वाजिकिङ्करेति ।। यथा अश्वरक्षकः पुरुषः अश्वग्रासादेकदेशं पदे पदे क्रन्दन्तीनां गवामपि कृपया दिशति तथा हयग्रीवकिङ्करमध्वाख्ययोगीन्द्रेण वेदा अपि पदेपदे निरवधिक-सर्वज्ञस्य हयग्रीवस्यैवानुभवयोग्यज्ञानानन्दादि दिव्यगुणानां एकदेश एव यतो वाचो निवर्तन्त इति श्रुत्या दत्तो ग्रासो यासान्ताः । मध्वमुनिना हयग्रीव-गुणस्तोमप्रतिपादनेन प्रमाणीकृता इति भावः ।

वृन्दारण्यं वृन्दाख्यारण्यम् । अरण्य एव साधुभिरुपनिषदां पठ्यमानत्वा-द्वृन्दसहितारण्यं वा । गोयोग्यवृन्दावनमिति ध्वनिः । प्रापुः वृन्दावने गावो गोविन्दमिव इमा अपि मूर्तिमत्यः गोविन्दमेव परितस्तुष्टुवुरिति भावः । ननु कथं तर्हि अथ योन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवमिति भेदोपासकानां निन्देति चेत् न । अभेदस्यानुपास्यत्वमङ्गीकुर्वता त्वयापि उपासनाकाले भेदोपास्तेरेवाङ्गीकृतत्वेन तवैव निन्दाप्रसङ्गात् । तथा चायं श्रुत्यर्थः स्यात् । यः अन्यां वस्तुत एव भिन्नां देवताम् अन्योऽसा-वन्योहमस्मीति उपास्ते तया अविद्यमानं वक्ति न तु वेद वेदनविषयं न करोति । सः यथा पशुरेवमिति श्रुत्यर्थस्य पदसंपदैव लाभात् । अथवा ब्रह्म-नामकविष्णूपास्तिः प्रागुक्ता । अथ यः अन्यां विष्णोरन्यां शिवादिदेवताम् उपास्ते द्वारतया अन्योऽसौ स्वामी अन्योऽहं दासोऽस्मीति । स न वेद यथा पशुरेवमिति । अन्योसौ वैष्णवकुलोत्पन्नः अन्योहं शैवकुलोत्पन्न इति वा । अन्योसौ विष्णुः शैवानामसम्बन्धी अन्योहं शैवो विष्ण्वसम्बन्धीति वा मत्वा उपास्ते सः न वेद यथा पशुरेवमिति शैवशाक्तादिनिन्दापरं वाक्यं स्यात् । अन्यदेवतापदस्यैतदुपनिषत्प्रतिपाद्यदेवता तोन्यदेवताया एव उक्तौ स्वारस्यात् ।

न च वाच्यं तदिदमपि एतर्हि य एवं वेदाहं ब्रह्मास्मीति इदं सर्वं भवतीति वाक्ये ऐक्यवेदनस्यैवोक्तिरिति । ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति ततोऽपि पूर्ववाक्ये प्रस्तुतब्रह्मैव तदिदमिति परामृश्य एवमिति प्रागुक्तब्रह्मवेदनप्रकारेणैव वेदनोक्तेरहमस्मीति पदयोरपि हातुं योग्यं हं, तन्न भवतीत्यहं सदा अस्तितया मीयमानमस्मीति च व्युत्पत्त्या अन्तर्यामितया सर्वाहेयस्य आसीदित्युक्त्या अतीतकालसत्तामात्र प्रतीति-निरासाय सदा अस्तितया प्रमीयमाणस्य च ब्रह्मण एव ग्राह्यत्वेन त्वदभि-लषितजीवैक्यस्यानवकाशात् । अवश्यं चैतदेवम् ।

अहमस्मीति पदाज्जीवग्रहणे प्रागुक्तप्रकारार्थकैवंपदस्य व्याकोपप्रसङ्गात् । एष त आत्मान्तर्यामी, य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मानं वेदेति चाभ्यासेन सतात्पर्यसयुक्तिकनिरवकाशोत्तरवाक्यव्याकोपात् । जीवब्रह्मणोर-भेदाभिप्राये ब्रह्मवदहमित्युल्लिख्यमानजीवानामपि सत्त्वावश्यंभावेन ब्रह्म वा इदमग्र आसीदिति ब्रह्मस्थितिमात्रप्रतिपादकपूर्ववाक्यकोपाच्च । त्वयापि जीवत्वयोग्यब्रह्मचिन्मात्रस्यैव तदासत्त्वाङ्गीकारेण जीवभावापन्नचैतन्यानां सृष्टेः पूर्वमभावस्यापरिहारात् । तेषामपि तद्रूपेण तदैव सत्त्वे अहं ब्रह्मास्मीति तदुक्तेरेव सकलजीवोक्तित्वात् पुनः एतर्हि य एवं वेदेत्यादिवाक्यानां वैयर्थ्य-प्रसङ्गादेतर्हीत्युक्तेदानीन्तन जीवाभेदस्य त्वद्रीत्यैवायोगाच्च । अहमस्मीति पदयोरप्रसिद्धार्थ कथनस्योपनिषदोरहस्यविद्यात्वघटनाय ब्रह्मवाक्ये अपूर्वार्थतया सिद्धानुवादकत्वदोषपरिहाराय प्रागुक्तभेदवाक्यविरोधपरिहारायोत्तमपुरुषाहं पदबलादेव स्वत्वलाभेनात्मानमेवेत्यस्य वैयर्थ्यपरिहाराय चावश्यकत्वात् । एवं च योन्यां सकलजीवेभ्यो भिन्नां परदेवताम्, अन्योऽसौ विष्णुर्ब्रह्मशब्दार्थः अहमस्मिशब्दार्थश्चान्यो जीव इति मत्वा अहं ब्रह्मास्मीति प्रागुक्तवाक्ये जीव इति मत्वा अहं ब्रह्मास्मीति प्रागुक्तवाक्ये जीवाभिन्नतया उपास्ते न स वेद यथा पशुरिति च पूर्वोत्तरवाक्यानुगुणो वाक्यार्थः स्यात् । अतः पूर्वोत्तर वाक्यार्थमनालोच्य जीवाभेदमङ्गीकुर्वतो गर्वनिवारणायेदं वाक्यं प्रवृत्तम् । एवं तर्हि स इदं सर्वं भवतीति सर्वभावापत्त्याख्यफलोक्तिः कथमिति चेन्न कथञ्चित् । इदं मुमुक्षोर्मनसि मोक्षरूपतया सदा विद्यमानं सर्वं नानाविध-विषयभोगं भवति प्राप्नोतीति फलस्यैव श्रुत्या प्रतिपादनात् । भूप्राप्ताविति धातुव्याख्यानात् । परस्मैपदं तु फलस्य पराधीनत्वज्ञापनार्थम् । पशुपक्ष्यादि-सकलजगदाकारेण परिणामाख्यसंसाररूपसर्वभावस्य ब्रह्मविद्याफलत्वायोगात् ।

न च वाच्यं सर्वनिवृत्तिरत्राभिप्रेतेति अपदार्थत्वात् अवाक्यार्थत्वात् मुख्ये सम्भवत्यमुख्यायोगात् । तस्मात्सर्वमभवदिति वाक्ये सृष्टेः पूर्वकालीनब्रह्मणि सकलजगदाकारेण परिणामस्यैव परेणापि वक्तव्यत्वेन प्रक्रमविरोधाच्च । न हि तदापि तस्य सर्वनिवृत्तिरेव फलं संसारस्यैवाभावप्रसङ्गात्सकलजगदाकारेण परिणामाख्यप्रमेये प्रमाणाभावप्रसङ्गाच्च । अहं मनुरभवमित्यादि वामदेव वाक्ये सर्वभावाख्यसर्वत्वस्य स्पष्टमुक्ततया पूर्वोत्तरवाक्येष्वपि तस्यैव वक्तव्यत्वाच्च । वस्तुतस्तु पदानामनुपमर्देनार्थकथने दैवासुरसंपद्विभागयोगाख्य गीताध्यायवद-भेदवादिनां निन्दार्थं भेदवादिनां प्रशंसार्थं च तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत् तद्यो देवानां प्रत्यबुध्यत स एव तदभवत् तथर्षीणां तथा मनुष्याणां तथैव तत्पश्यन्नृषिर्वाम-देवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति । तस्य हन देवाश्च नाभूत्या ईशत आत्मा ह्येषां स भवत्यथ योऽन्यां देवतामुपास्तेऽन्योसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां च यथा ह वै हवः पशवो मनुष्या भुंज्युरेवमेकैकः पुरुषो देवान् भुनक्त्येकस्मिन्नेव पशावादीयमाने प्रियं भवति किमु बहुषु । तस्मादेषां तन्नप्रियं यदेतन्मनुष्या विद्युरिति खण्डोऽयं प्रवृत्तः । तथा हि । तत् उपरि वक्ष्यमाणं प्रमेयमाहुः पूर्वाचार्याः इति वेदद्रष्टुर्वचनम् ।

ब्रह्मविद्यया औतविषयशब्दश्रवणमात्रजन्यया औतसाक्षात्काररूप-स्वाभिमतब्रह्मविद्यया सर्वं नानाविधपशुपक्ष्यादिरूपं जगत् भविष्यन्तः उपर्यपि भवितुं योग्यं व्युत्पन्नमात्रस्योक्तब्रह्मविद्यया अनादिकालमारभ्य सर्वभावाख्य-संसारप्राप्तिवद्ब्रह्मप्रलयेऽपि सर्वभावाख्यसंसारमेव प्राप्स्यन्त इति यावत् । अथ योन्यां देवतामुपास्त इत्युत्तरवाक्यबलादिहाभेदवादिन इत्यतो मनुष्याः मनु अवबोधन इति धातोर्भगवतोऽधस्तादेवबोधनयोग्यास्तामसा जनाः यत् मन्यन्ते आलोचयन्ति तदाहुरिति पूर्ववाक्यार्थः ।

किं तदालोचनमित्यतः प्राप्तं किमु तद्ब्रह्मेति वाक्यम् । तद्ब्रह्म अस्माभि-रहंत्वेन ज्ञायमानं ब्रह्म अवेत्किमु अस्मद्वद्ब्रह्माभेदम् अज्ञासीत्किम् । यस्मा-त्कारणात्तद्ब्रह्मापि सर्वं सकलजगदाकारेण परिणतमभवत् । यथा ब्रह्मविद्यायां सत्यामेवास्माकम् अयं संसार आपतितः तथा ब्रह्मणोऽपि ईदृग्ज्ञाने सत्येव संसार आपतितः किमिति प्रश्नवाक्यार्थः ।

ब्रह्म वा इदमग्र आसीदित्युत्तरवाक्यमारभ्य तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीतीति वाक्यपर्यन्तं तेषु कस्यचित्प्रौढस्योत्तरम् । इदमग्रे ब्रह्मासीद्वै तद्ब्रह्मात्मानमेवाहं ब्रह्मास्मीत्यवेदज्ञासीत् । अस्माकमपि विद्यमानं ब्रह्मज्ञानं सर्वज्ञस्य ब्रह्मणः कथं न स्यादिति भावः । तस्माज्ज्ञानस्य विद्यमानत्वात्त-द्ब्रह्मापि सर्वं सर्वाकारेण परिणतमभवत् । अस्मद्ब्रह्मापि ज्ञाने सत्येव संसरतीत्युक्तं भवति । तद्ब्रह्म यो देवानां मध्ये प्रत्यबुध्यत स तदेव सर्वमेवाभवत् । देवो वा ऋषिर्वा मनुष्यो वा सर्वेऽपि ज्ञाने सत्येव संसरन्तीति भावः । तमेव सर्वभावं वामदेववाक्येन अहं मनुरभवमित्यादिना विवेचयति । तत् तस्मात्सर्वत्रापि ज्ञाने सत्येव संसारस्य दृश्यमानत्वात् । एतर्ह्यपि इदानीमिदं ब्रह्म यः अयं ब्रह्मास्मीत्येवं वेद इदं सर्वं भवति । न त्वस्मा-त्संसारान्मुच्यते । तस्माद्रोचनार्थं फलश्रुतिरिति न्यायेन स्वोक्तब्रह्मविद्यायाम् अस्मान्प्रवर्तयितुमेवास्मदार्येणेदृक्फलमुक्तम् । न तु कदापि भविष्यति । किं तु नीवीमोक्षो हि मोक्ष इत्यमरकोक्तगुरूपदेशानुसारेण वनिताविषयानुभव एवाद्वैतभावनायाः फलम् । अतो वयमपि तैरेव चोक्तगुप्तपटलानुसारेण शाक्तादिमतमवलंब्य मधुपानरतोत्सवादावेव निरता भवाम इति यन्मन्यन्ते । तदाहुरिति पूर्वेणान्वयः। इदानीं श्रुतिरेषां मिथ्याज्ञानिनामन्धन्तम एव फलमित्याह ।। तस्य हेति ।। देवाश्चाभूत्यै सर्वैश्वर्याभावाय अभूत्यै पुनर्भवन-शून्यान्धतमसे वा नेशत इति न ईशत एवेति भावः । किमर्थं देवानां तेषु द्वेष इत्यत उक्तम् ।। आत्मा हीति ।। एषां देवानां सः एभिर्मिथ्याज्ञानिभिः स्वाभिन्नतयोपासितो नारायणः आत्मा स्वामी भवति । स्वस्वामिद्रोहित्वात् द्वेषं कुर्वन्तीति भावः ।

दुर्मतमनूद्य तेषामनर्थं चोक्त्वा श्रुतिर्भेदवादिनं स्तौति ।। अथेत्यादिना ।। अन्योऽसौ विष्णुः अहं तु जीवोऽन्योऽस्मीति यो देवतामन्यां स्वभिन्नामुपास्ते सः भेदज्ञानी यथा पशुः प्रागुक्तो मिथ्याज्ञानी एवं न वेद तच्छ्रुत्यादाववमानं कृत्वा विषयलंपटो न भवति किन्तु दुर्विषयेषु विरक्तः श्रुत्युक्तमुक्तिमेव साधय-तीति भावः । भेदज्ञानिन एव गुणानाह । स देवानां पशुः कामधेनुरित्यादिना । मनुष्याः मनुष्यान्भुंज्युः भोजयेयुः आनन्दयेयुः । ननु इदानीं भेदज्ञानिनो जन्मान्तरे कर्मवशादभेदवादिकुले जनिश्चेत्का तस्य गतिरित्यत आह ।। तस्मादिति ।। तस्माद्भेदवादिनां देवपशुत्वात् एषां यत्र कुत्राप्युत्पन्नानां भेदज्ञानिनां मनुष्याः मनुष्यरूपपशवः प्रागुक्तमिथ्याज्ञानिनः यत्प्रमेयं विद्युः चर्चितवन्तः । तन्न प्रियम् । तथा चाप्रियभूततदीयदुर्बोधं श्रुत्वा तानुपेक्ष्य वैष्णवमतमेवावलम्बमानो भवति । स्वभोजकपशुत्वात्तेषु तथा देवाः कृपयतीति भावः । इदं च गीतावाक्ये कृष्णवाचकगोविन्दपदप्रयोगान्मूलकृतैव सूचितम् ।। ८६२,८६३ ।।

सत्यप्रमोदटीका

 निराशाः स्वरूपैक्यं वर्णयितुमकल्पाः । क्रन्दन्त्यः अप्रामाण्यं परिजिहीर्षवः । वाजिनः सादृश्यैक्यस्वातन्त्र्यैक्यपरतया प्रामाण्य-परिरक्षणप्रकारमुपदिशतः ‘तद्गुणसारत्वात्तु तद्व्यपदेशः’ इत्यादिसूत्रजातस्य । वाजिकिङ्करः सूत्रभाष्यकारः । तेन रचितभाष्येण दत्तग्रासाः कल्याणगुण-रूपक्षीरदोहनेन समन्वयलक्षणाभिषेकाङ्गतामापादिताः । सतां सात्त्विक-प्रकृतीनां वृन्दारण्यं सूत्रानुग्रहेण विष्णुबोधनेन अपरविद्यात्वदुर्दशापरिहारेण परविद्यात्वमहिमानं गोविन्दं यादवकृष्णं वासिष्ठकृष्णं च । ‘अथ योऽन्यां देवतामुपास्ते’ इत्यादिश्रुतीनां पररीत्यैव काम्यकर्मादिनिन्दापरत्वेन ऐक्य-बोधकत्वाभावः भेद ब्र.सू. ग्रन्थे सुनिपुणमुपपादितस्तत्रैवानुसन्धेयः ।। ८६२,८६३ ।।

युक्तिमल्लिका

ईशात्सर्वेश्वराद्विष्णोरपेतस्य ततः प्रभोः ।

ब्रह्मणस्तु द्वितीयोऽपि ब्रह्मण्यभिनिवेशतः ।। ८६४ ।।

निर्गुणाख्येऽभिमानेन भयं भवति यन्नृणाम् ।

विपर्ययो स्मृतिश्च स्यान्मुकुन्दब्रह्ममोचनात् ।। ८६५ ।।

सुरोत्तमटीका

 भयं द्वितीयाभिनिवेशतस्स्यादीशादपेतस्य विपर्ययो स्मृतिः । यन्माययाऽतोबुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मेति भागवत-श्लोकस्य प्राग्व्याख्यातस्यापि सविस्तरमर्थान्तरमाह ।। ईशादिति ।। ब्रह्मणः ब्रह्मशब्दवाच्यात् प्रभोः ततः विष्णोर्द्वितीये भिन्ने निर्गुणाख्ये ब्रह्मणि । मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् । उद्विग्नबुद्धेरसदात्म-भावाद्विश्वात्मना यत्र निवर्तते भीरिति प्राचीनश्लोके स्पष्टं विष्णोः प्रस्तुतत्वात् । अत एवोत्तरश्लोके ईशपदेनोदित इति सूचनाय तत इत्युक्तम् । अभिनिवेशत इत्यस्यार्थकथनमभिमानेनेति । यद्यस्मात् ।। ८६४,८६५ ।।

सत्यप्रमोदटीका

 ‘भयं द्वितीयाभिनिवेशतः स्यादि’ति श्लोकः (भा.११–२–२७) भेदसौरभे (श्लो.३६०–३७१) चर्चितः । अधिकं चाह ईशादिति । द्वितीये निर्गुणाख्ये । अभिनिवेशतः अभिमानेन भयं तमः ।। ८६४, ८६५ ।।

युक्तिमल्लिका

सगुणस्य द्वितीयं हि निर्गुणं स्यान्न चापरम् ।

निरर्थोऽसि निरर्थाख्यभेदकं यदि मुञ्चसि ।। ८६६ ।।

सुरोत्तमटीका

 द्वितीयशब्देन निर्गुणमेव कुतो ग्राह्यमित्यत आह ।। निरर्थोऽसीति ।। निर्गुण इत्यत्र विद्यमानस्य निराख्योपसर्गस्यार्थं गुणराहित्य-रूपमर्थं भेदकं विरुद्धधर्मरूपतया सगुणाद्व्यावर्तकम् । एकमेवाद्वितीयमिति वाक्ये द्वितीय शब्देन भिन्नमेव ग्राह्यम् । अत्र च पूर्वोत्तरश्लोकेषु अच्युत-नारायणादिपदैः सगुणस्य विष्णोरेव प्रस्तुतत्वात्ततो विरुद्धधर्मवन्निर्गुणमेव द्वितीयं भवितुमर्हतीति भावः ।। ८६६ ।।

सत्यप्रमोदटीका

 निरर्थाख्येति निराख्योपसर्गार्थेत्यर्थः (भे.सौ.३७५) ।। ८६६ ।।

युक्तिमल्लिका

द्वितीयकोटिस्थेशात्ते द्वितीयं स्यात्तदेव हि ।। ८६७ ।।

सुरोत्तमटीका

 तर्ह्यल्पज्ञत्वादिना विष्णोर्विरुद्धधर्माक्रान्ता ब्रह्मरुद्रा-दयोऽत्रत्यद्वितीयशब्देन कुतो नोच्यन्त इति चेत् सत्यम् । अस्माभिस्तेष्वपि सर्वोत्तमत्वाग्रहमोचनाय तेऽप्यर्थतयाङ्गीक्रियन्ते । तथापि सगुणनिर्गुणयोरत्यन्त साक्षाद्विरुद्धत्वेन सगुणद्वितीयता निर्गुण एव मुख्येति भावेनेदमेवोपात्तम् । परस्य तु मते विष्णुब्रह्मादीनां सर्वेषामपि द्वितीयकोटिस्थतया विष्णोर्द्वितीयं तत्कोटिविरुद्धनिर्गुणमेव स्यात् न तु तत्कोटिमध्यपतितं किञ्चित् । अतः परेणात्र द्वितीयशब्देन निर्गुणमेव वक्तव्यम् । एवं च परप्रक्रिययैव पराभिमत निर्गुणस्य घातकत्वादिदं पद्यं परस्य बाधकमेव न तु साधकमित्याह ।। द्वितीयकोटिस्थेशादिति ।। तदेव निर्गुणमेव । हीत्यनेन ब्राह्मणकोटितो द्वितीयश्शूद्र एव स्यात् न तु ब्राह्मणेष्वेव कश्चिदिति प्रसिद्धिं सूचयति ।। ८६७ ।।

सत्यप्रमोदटीका

 द्वितीयकोटिस्थेति (भे.सौ.३७६–३७८) ।।८६७।।

युक्तिमल्लिका

अतो भक्त्या तमेवेशं भजेद्यश्च गुरुर्भुवि ।

देवता च भवेत्तादृशाचार्ये यत्नवान्बुधः ।

इति वाक्यार्थमालोच्य त्यजान्यद्भज नः प्रभुम् ।। ८६८ ।।

सुरोत्तमटीका

 तमेवेशं नारायणाख्यमेवेश्वरं गुरुदेवतात्मेत्यस्यार्थमाह ।। यश्चेति ।। यः मध्वमुनिः भुवि गुरुश्च भवेत् तत्वोपदेष्टृत्वात् । देवता च भवेत् । वाय्वाख्य देवतारूपत्वात् । तादृशाचार्ये यत्नवानिति गुरुदेवतात्मेति पदस्यार्थ इति भावः । अनेन आत्मा जीवे धृतौ यत्ने स्वभावे परमात्मनि इत्यभिधानात् गुरुश्च सा देवता च गुरुदेवतायामात्मा यस्येति समासः सूचितो भवति । इदं च नानाचार्याणामेव लोके विद्यमानत्वात् तान्विहायमध्वमुनेस्तन्मतानुवर्तिनां च चरणानुसरणं ज्ञानार्थिभिः कर्तव्यमिति सूचनार्थम् । अन्यथा गुर्वा-त्मेत्येवावक्ष्यत् । मध्वमतानुवर्तिनामेव वायुस्तुत्या तन्नत्यादिप्रयत्नदर्शनात् तस्यैवात्र ग्रहणमुचितमिति सूचनायात्मपदम् । अन्यत् निर्गुणादिकम् ।।८६८।।

युक्तिमल्लिका

अविद्यमानो ह्यत्यन्तासन्नपि द्वयशब्दितः ।

द्वितीयो निर्गुणाख्यात्मा ध्यातुर्नैर्गुण्यवादिनः ।। ८६९ ।।

दुर्धिया भाति तत्त्वं तु तन्न किन्त्वच्युताभिधः ।

अस्मात्पद्यद्वयात्पूर्वपद्ये स्पष्टोदितः किल ।

उपर्युपरि चक्राङ्कोऽधोऽधो नारायणश्च यः ।। ८७० ।।

सुरोत्तमटीका

 इदानीम् अविद्यमानो ह्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथो यथा । तत्कर्मसंकल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं यतस्स्यादिति श्लोकस्यार्थमाह ।। अविद्यमान इति ।। तत् निर्गुणं, पूर्वपद्ये मन्ये कुतश्चिदिति प्राथमिकपद्ये । अच्युताभिधः स्पष्टोदितो यः अच्युतपदेन स्पष्टमुदित इत्यर्थः । उपर्युपरि उपर्यध्यधसः सामीप्य इति सूत्रात् अव्यवहितोपरितने । ‘शृृण्वन् सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन्विलज्जो विचरेदसङ्ग’ इति पद्ये यश्चक्राङ्कः चक्रम् अङ्को यस्यसः चक्राङ्कः । रथाङ्गपाणिपदोदित इत्यर्थः । अधोधः अस्मात् पद्यद्वयादव्यवहितपूर्वभागे विद्यमाने ‘कायेन वाचा-मनसेन्द्रियैर्वा बुद्ध्यात्मना वाऽनुसृतस्वभावः । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तदिति’ पद्ये यः नारायणः नारायणपदोदितः स एव तत्वमिति सम्बन्धः । कथोपक्रमपद्ये मध्यस्थितपद्ये उपसंहारपद्ये च हरावेव प्रसिद्धश्रुतिद्वयेन लिङ्गेन च नारायणस्यैव स्थाप्यतया प्रस्तुतत्वात्स एव परमतत्वं निर्गुणं तूक्तविधया एतदध्यायप्रमेयविरुद्धत्वान्न तत्वमिति भावः ।। ८६९,८७० ।।

सत्यप्रमोदटीका

 अविद्यमानो हीति (भे.सौ.३७९–३८१) ।। ८६९–८७१ ।।

युक्तिमल्लिका

दैवत्वे नासदीशादेर्वा द्वयस्य ग्रहाच्च भीः ।

गुरुत्वेन तु तत्सेवाऽसूचिपूर्वविशेषणात् ।। ८७१ ।।

सुरोत्तमटीका

 अविद्यमानो ह्यवभाति हि द्वय इति चरणस्यार्थान्तरमाह ।। दैवत्वेनेति ।। आदिपदेन ब्रह्मादयो गृह्यन्ते । तेषां निर्गुणवत्सर्वथा अविद्यमानत्वस्यासंमतत्वाद्दैवत्वेन परदैवत्वेन असदीशादेरित्युक्तम् । द्वयस्य विष्णोर्भिन्नतया द्वयपदोदितस्य । उपलक्षणं चैतत् । भयं द्वितीयाभिनिवेशत इति पद्ये द्वितीयपदोदितस्येत्यपि द्रष्टव्यम् । तत्सेवा रुद्रब्रह्मादीनां सेवा । पूर्वविशेषणात् गुरुदेवतात्मेति विशेषणात् । गुरुदेवतायां प्रयत्नवत्त्वस्य तत्रोदितत्वादीशादिदेवानामपि गुरुदेवतात्वसद्भावात् गुरुत्वेन सेवा कर्तव्या । परदेवतात्वेन भजनं तु कदापि न कर्तव्यमिति भावः ।। ८७१ ।।

युक्तिमल्लिका

तत्तेषां निर्गुणादीनां प्राप्त्यै कर्मादिकं चरत् ।

बुधो निरुन्ध्याद्धि मनो विष्णावेव नियोजयेत् ।। ८७२ ।।

सुरोत्तमटीका

 तत्कर्मसङ्कल्पविकल्पकं मन इत्यस्यार्थमाह ।। तदिति ।। तत्तस्मात् तेषां निर्गुणानां, कर्माणि परदेवतात्वेन श्रवणमननध्यानयजनादि-कर्माणि । तेषां कर्मणां संकल्पविकल्पकं संकल्पविकल्पं च कुर्वदित्यस्य तात्पर्यकथनं, तेषां निर्गुणादीनां प्राप्त्यै कर्मादिकं चरदाचरत् मन इति । तस्मादिति तु तदित्यस्यावृत्त्याऽध्याहारेण वा उक्तम् ।। ८७२ ।।

सत्यप्रमोदटीका

 ‘तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यात्’ इत्युत्तरार्धस्यार्थमाह तदिति तेषां कर्म इति विग्रहः । तेषां निर्गुणभावादीनां षष्ठ्यर्थः सम्बन्धः प्राप्त्युद्देश्यकत्वम् । चरत् मनः इति सम्बन्धः । सर्वेन्द्रियेषु प्रधानत्वात् कर्माद्यनुष्ठानमपि तत्सङ्कल्पपूर्वकत्वादेवमुक्तिः । निरुन्ध्यात् असदुपासनातो निवर्तयेत् । विष्णौ नियोजयेदिति आवृत्त्या योजना ।।८७२।।

युक्तिमल्लिका

मुकुन्दादच्युताख्याच्च ततः स्यादभयं किल ।

असतः सत्त्वशून्यस्य निर्गुणस्यात्मभावनात् ।। ८७३ ।।

उद्विग्नबुद्धेः पक्षिश्वाद्यात्मना भीरभूद्धिया ।

विश्वान्तः पातिरुद्रादेर्वा भीर्विश्वस्वभावतः ।। ८७४ ।।

सा यत्राच्युतपादाब्जोपासनायां निवर्तते ।

सर्वात्मना विश्वपदमित्थं पञ्चार्थवद्ध्रुवम् ।। ८७५ ।।

सुरोत्तमटीका

 मन्ये कुतश्चिदिति श्लोकस्यार्थमाह ।। मुकुन्दादिति ।। अच्युताख्यात्ततो मुकुन्दादिति सम्बन्धः । अच्युतस्य पादांबुजोपासनम् अकुतश्चिद्भयं मन्य इत्यस्य तात्पर्यकथनमिदम् । असच्चिदात्मभावादित्यस्यार्थ-माह ।। असत इति ।। सत्त्वशून्यस्य अत्यन्तासत इत्यर्थः । स्वात्मभावनात् परमात्मत्वभावनात् । उद्विग्नबुद्धेः पुरुषस्य विश्वात्मनेत्यस्यार्थमाह ।। पक्षीति ।। विःपक्षी । श्वा सारमेयः । अस्य चोपलक्षणत्वात् विश्वात्मनेत्यस्य पक्षिश्वाद्यात्मनेत्युक्तम् । अत्र च विश्वपदस्यावृत्त्या पक्षिश्वादिरूपं यद्विश्वं हीनयोन्यात्मकं यज्जगदित्यपि ग्राह्यम् । तद्रूपेण या भीरभूत् निर्गुणभावनया रुद्रादीनां परदेवताभावनया च हीनयोनीः प्राप्य दुःखादि भयं लोकोऽनुभवति सा यत्राच्युतपादाब्जोपासनायां विश्वात्मना सर्वप्रकारेण निवर्तत इति योजना ।

विश्वात्मना भीरित्यस्यार्थान्तरमाह ।। विश्वान्तःपातिरुद्रादेरिति ।। विश्वात्मना जननमरणादिभयग्रस्तजगत्स्वभावेन या भीः भस्मासुरादितोऽभूत् तदपि भयं यत्र मुक्तिसाधनाच्युत पादाब्जोपासनायां विश्वात्मना सर्वात्मना निवर्तत इत्यपि योजना । इदं चोपलक्षणम् । असतो निर्गुणस्य आत्मभावनात् जीवत्वेन भावनात् पक्षिश्वादिजगदात्मना या भीः सा चाच्युतपादाब्जोपासने कृते सति मुक्तात्तद्भक्तान्निवर्तते अच्युतान्निवर्तत इति किं वक्तव्यमित्यपि योजना द्रष्टव्या । इदं च योजनाद्वयं जननमरणादिदोषग्रस्तत्वात् परैः परदैव-तयोच्यमानं रुद्रब्रह्मादिकं निर्गुणं च न परदेवतेति सूचनार्थम् । उक्तमर्थं सङ्गृह्णाति ।। विश्वपदमिति ।। इत्थं पञ्चार्थवत् द्वन्द्वसमासेन आवृत्त्या च अर्थद्वयवत् यथास्थितपदेनार्थत्रयवदित्यर्थः ।। ८७३–८७५ ।।

सत्यप्रमोदटीका

 ‘अभयं ततः स्यादिति भागस्य व्याख्यानं मुकुन्दादिति । ‘उद्विग्नबुद्धेरसदात्मभावाद्विश्वात्मना यत्र निवर्तते भीः’ इत्येतद्व्याख्याति असतः इति । उद्विग्नबुद्धेः’ ‘न च रमन्त्यहो असदुपासन-याऽऽत्मनः’ इति अनर्थहेतुत्वोक्तेः । विश्वात्मना इत्यस्य पञ्चधा अर्थमाह पक्षिश्वेति विश्च श्वा चेति द्वन्द्वः । हीनयोन्यात्मनेत्यर्थः । विश्वपदस्यावृत्त्या हीनयोन्यात्मकजगतः सकाशादित्यप्यर्थः । रुद्रादेः भस्मासुरादितः यद्भयं सा सर्वात्मना अनन्यचेतसा मुकुन्दोपासनया सर्वात्मना सामग्रयेण निवर्तते ।। ८७५ ।।

युक्तिमल्लिका

नोचेत्सार्वजनीनोक्तित्यागो निर्हेतुको भवेत् ।

वादीभपञ्चवक्त्राभमदो विश्वपदं ततः ।। ८७६ ।।

सुरोत्तमटीका

 नो चेत् विश्वपदं पक्षिविश्वादिनी च जगत्स्मारकं नो चेत् । सार्वजनीनोक्तित्यागः सर्वात्मनेत्युक्तित्यागः । यद्वा उक्तविधया अयमध्यायो निर्गुणादिनिराकरणपरो नो चेत् निर्गुणादीनामेव प्रतिपादकं चेदिति यावत् । सार्वजनीनोक्तित्यागः सर्वजनप्रसिद्धाच्युतादिपदत्यागः । उक्तविधया बह्वर्थवत्त्वात् विश्वपदं स्तौति ।। वादीभेति

।। ८७६ ।।

सत्यप्रमोदटीका

 सार्वजनीनोक्तिः विश्वात्मना इत्यस्य सर्वात्म-नेत्यर्थवचनम् । यद्वा ‘मन्येऽकुतश्चिद्भयमच्युतस्ये’त्यत्र अच्युतपदोक्तिः । पञ्चवक्त्राभं पञ्चार्थप्रतिपादकत्वात् सिंहसदृशम् ।। ८७६ ।।

युक्तिमल्लिका

अत्र षण्मतधर्माणां मध्ये मध्वमताध्वना ।

अकुतश्चिद्भयं मन्ये तदेवेत्यनुशास्ति तत् ।। ८७७ ।।

सुरोत्तमटीका

 अत्र नित्यधा इत्यत्र विद्यमानात्रपदस्यार्थमाह ।। अत्रेति ।। षण्मतधर्माणां षण्णां सिद्धान्तिनामभिमतधर्माणाम् । तदेव अच्युतपदांबुजोपासनमेव । अस्य धर्मस्य मध्वमुनिनैव प्रपञ्चितत्वात् मध्वमता-ध्वनेत्युक्तम् । तत्तस्मात् इतरैः क्रियमाणधर्माणां तत्कर्मसंकल्पविकल्पकमिति श्लोके विनिन्दितत्वात् ।। ८७७ ।।

सत्यप्रमोदटीका

 अत्रेत्यस्यार्थः षण्मतधर्माणां मध्ये इति । मध्वमता-ध्वनेति अच्युतपादाम्बुजोपासनस्यैव मध्वमतत्वात् । ‘स्वमातरं परित्यज्य श्वपाकीं वन्दते यथा । तथा हरिं परित्यज्य येऽन्यं देवमुपासते’ इति कृष्णा-मृतमहार्णवोक्तेः । तत् अच्युतपादाम्बुजोपासनम् ।। ८७७ ।।

युक्तिमल्लिका

नित्यमित्युक्तितो मुक्तौ चोपास्तिमनुशास्ति सः ।

पादाम्बुजोक्त्या चाकारं सौन्दर्यादिगुणानपि ।। ८७८ ।।

सुरोत्तमटीका

 एतच्छ्लोकस्थपदैः सिद्धं प्रयोजनान्तरमप्याह ।। नित्यमिति ।। सः उपदेष्टा कविनामक ऋषिः ।। ८७८ ।।

सत्यप्रमोदटीका

 सः जायन्तेयः कविमुनिः ।। ८७८ ।।

युक्तिमल्लिका

प्राचीनपद्यं तद्रीत्या सर्वं निर्णेयमुत्तरम् ।

पुञ्जं भयानां भुञ्जानं तं जानन्को भयं जयेत् ।। ८७९ ।।

सुरोत्तमटीका

 तद्रीत्येति तच्छब्दबलात् यत्प्राचीनपद्यमिति ग्राह्यम् । उत्तरं पद्यम् । तं निर्गुणादिपदार्थं, भयभोक्तृत्वस्य प्रागुपपादितत्वाद्भयानां पुञ्जं भुञ्जानमित्युक्तम् । एतद्वाक्यबलादेव प्रागुपलक्षणया निर्गुणविषये योजनान्तरं कृतम् ।। ८७९ ।।

सत्यप्रमोदटीका

 प्राचीनपद्यं मन्येऽकुतश्चिदिति पद्यं (११–२–३३) उत्तरं द्वितीयाभिनिवेशतः इति पद्यं (११–२–३७) भुञ्जानं स्वयं संसार-भयग्रस्तं रुद्रादिकम् ।। ८७९ ।।

युक्तिमल्लिका

यं भीर्बिभेति तं भीरुः सम्भजेत्स्तंभसम्भवम् ।

इति प्राचीनपद्यस्य हृदयं हृदयो हि ते ।। ८८० ।।

सुरोत्तमटीका

 भीरपि यं बिभेतीति वचनात् यं नारायणं प्रति भीर्बिभे-तीत्युक्तम् । नरसिंहे प्रह्लादादिभयहारित्वस्य प्रसिद्धत्वात् स्तम्भसम्भवमित्युक्तम् । ते तव हृदयः हृदः अयःस्थानीयम् अभेद्यमित्यर्थः ।। ८८० ।।

सत्यप्रमोदटीका

 ‘भीरपि यं बिभेति’ इति भागवतवाक्यम् । भीः दुर्गा । बिभेति इवेति योज्यम् । ‘नोपेयाय शङ्किता’ इत्यत्र शङ्कितेवेति तात्पर्योक्तेः । आज्ञाऽनुसारिणी इति भावः । ‘स्तम्भसम्भवं’ प्रह्लादभयभञ्जकं नृसिंहम् । हृदयं तात्पर्यार्थः । हृदः मतस्य अयः संहारहेतुः शरः ।। ८८० ।।

युक्तिमल्लिका

यस्मादुपास्तिमेवाह मुक्त्यै मुनिपरम्परा ।

तस्मान्मिथ्योपास्तिवार्ता हृत्स्था गर्तेऽपतत्तव ।। ८८१ ।।

सुरोत्तमटीका

 अनेनैव श्लोकेन प्रयोजनान्तरमपि सिद्धमित्याह ।। यस्मादिति ।। ८८१ ।।

सत्यप्रमोदटीका

 मिथ्योपास्तिवार्ता उपासना अविद्यमानार्थविषया इति प्रजल्पः ।। ८८१ ।।

युक्तिमल्लिका

एकैकस्यापि पशुपक्ष्यादिभावेन देहिनः ।

नानात्वं संसृतावेव मुक्तावेकप्रकारता ।। ८८२ ।।

सुरोत्तमटीका

 किञ्च यावत्स्याद्गुणवैषम्यं तावन्नानात्वमात्मनः । नानात्वमात्मनो यावत्तावदस्यास्वतन्त्रता । यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत्समुपासीरंस्ते मुह्यन्ति शुचार्पिता इति भागवतवाक्ये सार्ध-श्लोकोक्तस्य मुक्तौ नानात्वाभावान्याधिपतित्वाभावादेरुत्तरश्लोकोत्तरार्धे स्पष्टं विनिन्दितत्वेन पूर्वपक्षतया अग्राह्यत्वान्मुक्तौ नानात्वं न सद्वितीयत्वं न अन्याधिपतिमत्त्वं नेत्याद्यर्थप्रतिपादकतया प्रतीत निरवकाशमुक्तिविषय-वाक्यानामपि संसार इव पश्वादिभावेन नानात्वस्य द्वितीयजन्मवत्त्वेन सद्वितीयत्वस्यास्वाभाविकान्याधिपतिमत्त्वेन अन्याधिपतिमत्त्वस्य चाभाव एवार्थो वक्तव्यो न तु यथाश्रुत एवार्थः । एतदप्युपलक्षणम् । मुक्तावकुत-श्चिद्भयमित्यस्यापीश्वरादन्यस्माद्भयाभावोऽर्थो द्रष्टव्यः न तु यथाश्रुत ऐक्यार्थ इत्यपि ग्राह्यम् । किमु वक्तव्यम् उक्तविधया सावकाशस्य भयं द्वितीयाभि-निवेशत इत्यादि वाक्यस्येति भावेनाह ।। एकैकस्येति ।। नानात्व-मित्युपलक्षणम् । द्वितीयजन्मवत्त्वेन सद्वितीयत्वमपि द्रष्टव्यम् । मुक्तौ तु एतद्राहित्यमेव नानात्वसद्वितीयत्वयोरभावः ।। ८८२ ।।

सत्यप्रमोदटीका

 ‘यावत्स्याद्गुणवैषम्यं इत्यादिश्लोकद्वयं उत्तरत्रोदाहृतं (श्लो.७९२,७९३) तत्र सार्धश्लोकः निषेधार्थं परमतानुवादः । तदुक्तं जन्माधिकरणसुधायां परकृतानुवादो हि पुराणकर्तुर्द्वेधा सम्भवति । निराकरणार्थं वा यथा ‘यावत्स्याद्गुणवैषम्यम्’ इत्यादि इति । भागवत-तात्पर्येऽपि तथैव व्याख्यातम् । एवं स्थिते, यत्र क्वापि मुक्तौ नानात्वस्य अस्वातन्त्र्यस्य ईश्वरस्य च अभावप्रतिपादकवाक्यानां न प्रतीतार्थ एव तात्पर्यं किन्तु प्रमाणानुगुणेऽर्थान्तर एवेत्याशयेन तादृशार्थान्तरं दर्शयति एकेति । नानात्वं नाम न भेदः किन्तु कर्मवशात्संसार इवास्वाभाविकानेकदेह-प्राप्तिरित्यर्थः ।। ८८२ ।।

युक्तिमल्लिका

राजादि तुच्छं म्लेच्छादेरीश्वरस्यापि तन्त्रता ।

संसृतौ स्याद्विमुक्तो तु स्वभावेश्वरतन्त्रता ।

नापरस्य ततो मुक्तिरेव प्रार्थ्या विवेकिभिः ।। ८८३ ।।

इत्याह भगवान्व्यासो यस्माद्भागवते स्फुटम् ।

ततोऽप्यभवमन्विच्छन्नुपासीताच्युतं प्रभुम् ।। ८८४ ।।

सुरोत्तमटीका

 राजादीत्यनेनास्वाभाविकाधिपतिमत्त्वमभिप्रेतम् । तदभावश्च मुक्तावनन्याधिपतित्वम् । आनुषङ्गिकतया सिद्धं प्रयोजनान्तरं चाह ।। तत इति ।। ततः नानायोन्यादिसत्त्वेन संसारस्यासारत्वात् । पूर्वपक्ष-सिद्धान्तभावस्य स्पष्टत्वात्स्फुटमित्युक्तम् ।। ८८३,८८४ ।।

सत्यप्रमोदटीका

 अस्वातन्त्र्यं न इत्यस्य ‘ॐ अत एव चानन्याधि-पतिः’ इति सूत्रोक्तदिशा न्यायविवरणोक्तं ‘न च परगृहगतत्वादस्य राजगृह-गतस्येव स्वाधमा अपि कदाचिदीशते’ इति स्वाधमवशत्वराहित्यमेवार्थः इत्याह राजादीति । स्वभावेश्वराः स्वरूपत एव स्वोत्तमाः तदुक्तं न्याय-विवरणे ‘मुक्तानां पतयो देवा देवानां च प्रजापतिः । तस्य विष्णुर्न चैवेदं पारावर्यं विनश्यति’ इति ।। तदेतदाह ईश्वरेति ।। ८८३, ८८४ ।।

युक्तिमल्लिका

धर्मान्भागवतान्पृष्टः कविर्वादिविवादतः ।

भगवन्तं च तद्धर्मं विविच्येत्थमवर्णयत् ।। ८८५ ।।

सुरोत्तमटीका

 श्लोकार्थकथनमुपसंहरति ।। धर्मानिति ।। भागवतान् भगवत्सम्बन्धिनः । भागवतधर्मपरिज्ञानाय भगवज्ज्ञानमप्यपेक्षितमित्यतः भगवन्तं तद्धर्मं चेत्युक्तम् ।। ८८५ ।।

सत्यप्रमोदटीका

 भगवन्तमिति भगवत्स्वरूपनिर्धारणं विना भागवत-धर्मस्वरूपस्य निरूपणासम्भवादिति भावः । भगवन्तं विविच्य अच्युत-नारायणरथाङ्गपाणिहरीत्यादिभिर्नामभिः निर्दिश्य । तद्धर्मं विविच्य पादाम्बुजोपासनं श्रवणादिनवभक्तिः, समर्पणं इत्यादिना निर्गुणोपासनतः पृथक्कृत्य ।। ८८५ ।।

युक्तिमल्लिका

अच्युतो भगवांस्तस्योपास्तिर्धर्मो महान्किल ।

भगवत्यर्पणं च स्यात्तद्धर्मोऽखिलकर्मणाम् ।। ८८६ ।।

सुरोत्तमटीका

 को भगवान्कस्तद्धर्म इति विवेचनं कृतवानित्यत आह ।। अच्युत इति ।। तस्य अच्युतस्य उपास्तिः शास्त्राभ्यासरूपा ध्यानरूपा च महान् सकलधर्मेभ्यः श्रेष्ठः । अखिलकर्मणां कायिकवाचिकमानसिकादि नित्यनैमित्तिककर्मणाम् । तद्धर्मः भगवद्धर्मः । अच्युत एव भगवान् तदुपासनमेव मुख्यधर्मः । स्वकृतनित्यनैमित्तिककर्मणां भगवत्यर्पणं चावान्तर-धर्म इति मन्ये कुतश्चिदिति श्लोके कायेनेति श्लोके च निर्णीतवान् । प्रथम-प्रोक्तत्वात् फलनिरूपणात् नित्यं कर्तव्यत्वोक्तेः शृृण्वन् सुभद्राणीत्युपसंहार-श्लोकेन अस्यैव विवृतत्वाच्च प्रथमश्लोकोक्तमुपासनमेव मुख्यो धर्मः । तदभावात् द्वितीयश्लोकोक्तो हर्यर्पणरूपोधर्मो भगवदुपासनाङ्गभूतधर्म इत्यवर्णयदिति भावः ।। ८८६ ।।

सत्यप्रमोदटीका

 ‘मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासन-मि’त्युक्तमाह उपास्तिरिति । नारायणायेति समर्पयेदित्युक्तं निष्कामकर्म अधमप्रसादसाधनत्वात्तच्छ्रवणाङ्गम् इत्याह तद्धर्म इति ।। ८८६ ।।

युक्तिमल्लिका

विमतो विष्णुरेवैको भगवानभयत्वतः ।

व्यतिरेकेण नाशादिभयग्रस्तजडादिवत् ।

भक्ताभयकरत्वाद्वा भगवान्स महाप्रभुः ।। ८८७ ।।

विमतो निर्गुणादिर्न भगवान्सभयत्वतः ।

अन्वयेनैव स भयचैत्रमैत्रादिजीववत् ।। ८८८ ।।

विमतं विष्णुभजनं धर्मो भागवतो भवे ।

भवभीभङ्गहेतुत्वाद्व्यतिरेकेण भुक्तिवत् ।। ८८९ ।।

विमता निर्गुणाद्यर्चा धर्मो भागवतो न सा ।

भयहेतुत्वतः कुम्भीपाकसाधनपापवत् ।। ८९० ।।

इति पञ्चानुमानानि सोऽभिप्रैति कविः कविः ।। ८९१ ।।

सुरोत्तमटीका

 योगिषु कविनामकयोगिवचनत्वात् युक्तिगर्भाश्चैते श्लोका इति भावेन तत्सूचितयुक्तीश्च दर्शयति ।। विमत इत्यादिना ।। एत-त्स्मृतिसमाख्यया एकमेवाद्वितीयमिति श्रुतिरपि गङ्गैवेयमितिवत् सदेवेति सावधारणप्रयोगबलात् सच्छब्दमुख्यार्थभूतसत्त्वघटितस्य शास्त्रमपकृष्य शयीतेति एको नारायण आसीदिति च प्रलयप्रतिपादकवचनबलात् वटपत्र-शायिनो नारायणाभिधसगुणब्रह्मणः प्रस्तावात् । तदैक्षतेत्युत्तरवाक्येऽपि ईक्षतिकर्मव्यपदेशात्स इति सूत्रानुसारेण ईक्षणाख्यचक्षुर्व्यापारकथनेन साकार-ब्रह्मणस्तस्यैव प्रारम्भाच्च स्वप्रकरण प्रतिपाद्यसगुणस्य स्थिरीकरणाय मध्ये देहलीदीपन्यायेन दुर्मतप्रसक्तस्य सगुणद्वितीयनिर्गुणस्य निषेधपरैव न तु जग-न्निषेधपरा जठरीकृतलोकयात्र इत्यादिवचनैः प्रलयकालेऽपि भगवज्जठरान्त-र्लोकसत्त्वेन निषेधायोगादिति युक्तमुत्पश्यामः ।। ८८७–८९१ ।।

सत्यप्रमोदटीका

 अभयत्वतः अच्युतशब्दोक्तचतुर्विधनाशरहितत्वतः । जडादिवत् नित्यातादृशचिच्चैत्यवत् । अभयकरत्वतः अकुतोभयमिति, विश्वात्मना यत्र निवर्तते भीः इति परां शान्तिमुपैति इत्यादिवर्णनात् ।। निर्गुणादिः गुणपूर्तिरूपगुणरहितरमाब्रह्मादिः । सभयवत्त्वतः इति । भयं च रमायां नित्यशुश्रूषुत्वम् । चतुर्मुखस्य विष्णुप्रीत्यर्थं प्रदर्शनं इतरेषां भीषाऽस्माद्वातः पवते इत्यादि श्रुत्युक्तं यथायथं ध्येयम् ।। भव इति । मुक्तौ तु न चोदनात्मकः । किन्त्वानन्दस्वरूपेण तिष्ठतीति भावः । भुक्तिवत् अनिवेदितभोजनवत् ।। निर्गुणाद्यर्चा सर्वोत्तमत्वगुणरहितानां परिवारतां विना प्रधानतः पूजा ।। ८८७–८९१ ।।

युक्तिमल्लिका

यावत्स्याद्गुणवैषम्यं तावन्नानात्वमात्मनः ।

नानात्वमात्मनो यावत्तावदीश्वरतन्त्रता ।। ८९२ ।।

यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् ।

य एतत्समुपासीरंस्ते मुह्यन्ति शुचार्पिताः ।। ८९३ ।।

इति भागवते स्पष्टं मुक्तावद्वैतमिच्छताम् ।

भेदादेः संसृतावेव सत्त्वं संसदि शंसताम् ।

मतं सर्वमनूद्यान्ते निषेधोऽपि विधीयते ।। ८९४ ।।

य एतत्पूर्वकथितं प्रमेयं समुपासते ।

तेऽन्धेतमसि शोकेन मूर्छां यान्तीति यज्जगौ ।। ८९५ ।।

अतो भागवतं सर्वं मुक्तौ चेश्वरतन्त्रताम् ।

भेदस्य च सदा सत्त्वं शास्तीत्येव मनोरमम् ।। ८९६ ।।

सुरोत्तमटीका

 भागवतवाक्यान्तरेणापि मायिमतं स्पष्टं विनिन्दित-मित्याह ।। यावत्स्यादिति ।। यद्यस्मात् ।। ८९२–८९६ ।।

सत्यप्रमोदटीका

 औतमिच्छतां इति अन्ते निषेधमनादृत्य स्वेच्छानु-सारेण व्याख्यातृणां आसुरप्रकृतीनामिति भावः । तैः कल्पितः अथ इत्थम् । गुणवैषम्यं सृष्टिः संसार इति यावत् । तथा च संसारदशायामेव भेदपारतन्त्र्य-भयानि भवन्ति । मुक्तौ परमात्माभेद एवेति । मूर्च्छां यान्तीति । तदनुभूय-मानात्युत्कटसंशोकश्रवणमात्रेण इतरान् मूर्च्छां प्रापयन्तीति भावः । तदुक्तं भाष्ये ‘श्रवणादेव मूर्च्छादिरधरस्य यतो भवेदि’ति । यत् यस्मात् अत इत्युत्तरेणान्वयः ।। ८९४–८९६ ।।

युक्तिमल्लिका

भगवत्परमेवाहुर्यतो भागवतं बुधाः ।

भगवान्भाग्यवांश्च स्यात्पूज्यश्च स्यान्न चापरः ।

अतोऽस्मिन्निर्गुणस्योक्तिरैक्योक्तिश्च न शोभते ।। ८९७ ।।

कदाचिन्नास्तितारूपं मिथ्यात्वं तु तवापि न ।

लयेष्वभावमात्रेण साध्यसिद्धिप्रसङ्गतः ।। ८९८ ।।

त्रिकालनास्तितारूपो योऽत्यन्ताभाव उच्यते ।

सत्तार्थकत्वाद्भूधातोरत्यन्तासत्त्वमेव तत् ।। ८९९ ।।

सुरोत्तमटीका

 भागवतशब्दपर्यालोचनयापि भागवते निर्गुणोक्तेश्चा-नवकाश एवेत्याह ।। भगवानिति ।। सखण्डपदत्वे ऐश्वर्यस्य समग्रस्येति वचनात् अखण्डपदत्वे च अत्रभगवान् भगवानिति शब्दो वृद्धैः प्रयुज्यते युज्यत इत्यभिधानात् पूज्यश्च स्यादिति विवेकः । अस्मिन् भागवताख्यग्रन्थे उपलक्षणं चेदम् । हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः । अध्यगान्मह-दाख्यानं नित्यं विष्णुजनप्रियमिति वचने हरेर्गुणश्रवणाशया भागवतश्लोकानां शुकेन पठितत्वोक्तेर्नैकस्मिन्नपि श्लोके निर्गुणस्यावकाशः नैर्गुण्याभावादेव न चिदैक्यस्य चावकाश इत्यपि द्रष्टव्यम् ।। ८९७–८९९ ।।

सत्यप्रमोदटीका

 भाग्येति । षड्गुणैश्वर्यसम्पत्तीत्यर्थः । निर्गुण-स्योक्तिरिति । अवाच्यस्य वचनं इत्यस्य व्याघातादेवेति भावः । अस्मि-न्नित्युपलक्षणं न कुत्रापीति भावः । तवापीति । ‘अविद्या सह कार्येण नासीदस्ति भविष्यति’ इति त्वत्सिद्धान्तादिति भावः ।। तत् पूर्वोक्त-स्यात्यन्ताभावस्य प्रतियोगित्वम् ।। ८९७–८९९ ।।

युक्तिमल्लिका

सत्त्वप्रत्यक्षबलतो यद्यसत्त्वं निवार्यते ।

प्रमारूपं तदध्यक्षं ब्रह्मणीवोभयं क्षिपेत् ।। ९०० ।।

सत्यप्रमोदटीका

 उभयम् असत्त्वं अनिर्वचनीयं च । तथा च प्रपञ्चः असदनिर्वचनीयान्यः पारमार्थिक इति यावत् । प्रमाविषयत्वात् ब्रह्मवदिति प्रयोगोऽभिप्रेतः ।। ९०० ।।

युक्तिमल्लिका

भ्रमरूपं यदि भवेत्सा ह्यतद्वति तस्य धीः ।

सत्त्वाभावस्यैव तर्हि द्विर्बद्धस्य सुबद्धता ।। ९०१ ।।

सत्यप्रमोदटीका

 सा प्रत्यक्षधीः यदि भ्रमः तर्हि सुतरां सत्त्वसिद्धि-रित्याह द्विरिति । भ्रमोत्पत्त्यर्थं सन्निकर्षघटकतया । अनन्तरं घटः सन्निति विषयीकरणेन चेति प्रकारद्वयेनेत्यर्थः । पारमार्थिकसत्त्वाभाव इत्युक्तिस्तु ब्रह्मदृष्टान्तकप्रमाणदृष्टत्वानुमानपराहता निर्मूला चेत्युपेक्षणीयैवेति भावः ।। ९०१ ।।

युक्तिमल्लिका

प्रत्यक्षं चार्थसंयुक्तचक्षुरादीन्द्रियैर्यदि ।

तर्हीन्द्रियाणामर्थानां संयोगोत्पत्तये पुरा ।

सत्ताऽपि वाच्या तच्छोच्या हन्ताऽभूदनुमैव ते ।। ९०२ ।।

सत्यप्रमोदटीका

 तदेवोपपादयति प्रत्यक्षमिति ।। ९०२ ।।

युक्तिमल्लिका

अतोऽसत्त्वनिरासायानीतप्रत्यक्षशक्तितः ।

त्रिकालनास्तितारूपमिथ्यात्वस्यापि बाधनात् ।। ९०३ ।।

सत्यप्रमोदटीका

 अपिशब्देन असत्त्वसमुच्चयः ।। ९०३ ।।

युक्तिमल्लिका

न चाम्बुना कर्णलग्नप्राचीनांबुनिवृत्तिमत् ।

अनुमा बाधितैवाभूत्सार्थोऽभूत्तस्करस्तव ।। ९०४ ।।

सत्यप्रमोदटीका

 अम्बुना तस्मिन्नेव विषये प्रमाणान्तरोपन्यासेन । कर्णलग्नं पूर्वं श्रुतं प्राचीनाम्बु समानविषयकं मानान्तरम् । न निवृत्तिमत् अप्रमाणं न भवति । किन्तु संप्लवेन दृढीकृतमेव भवतीति भावः । तस्करः अनुवादकत्वेन प्रामाण्यापहाराय प्रवृत्तः । सार्थोऽभूत् पूर्वप्रामाण्यस्थिरी-करणायैवाभूत् ।। ९०४ ।।

युक्तिमल्लिका

असन्निकृष्टाक्षजं तदसत्त्वस्यैव साधकम् ।

नृशिरःसङ्गि यच्चक्षुर्न तच्छृङ्गेण सङ्गवत् ।। ९०५ ।।

सत्यप्रमोदटीका

 तत् तस्मात् सन्निकर्षाभावेऽपि दोषप्रयुक्तभान-विषयत्वात् । सङ्गि दोषवशाद्गोचरयत् । नेति । असता सन्निकर्षासम्भवादिति भावः ।। ९०५ ।।

युक्तिमल्लिका

एवं चासन्निकृष्टाक्ष्णा शुक्तिरूप्यनिरीक्षणम् ।

असत्तां गमयेत्तस्य नत्वसत्तो विभिन्नताम् ।

अर्थापत्त्याऽप्यनर्थोऽभून्न त्वर्थोऽभूत्परस्य तत् ।। ९०६ ।।

सत्यप्रमोदटीका

 अर्थापत्त्या प्रतीत्यन्यथाऽनुपपत्त्या । प्रतीतेर्दोष-जन्यत्वात् अनर्थः विषयस्य असत्त्वमेव । न तु अर्थः असत्त्वप्रतिक्षेपः

।। ९०६ ।।

युक्तिमल्लिका

व्यावहारिकसत्ता च भ्रान्ताऽभ्रान्ता विकल्पने ।

असत्त्वसाधिका वा स्यात्स्याद्वा मिथ्यात्वबाधिका ।। ७०७ ।।

सद्विविक्तत्वमपि ते सत्त्वानाधारतैव यत् ।

अतस्तस्यापि साध्यत्वे स्यान्नृशृङ्गोपमं जगत् ।। ९०८ ।।

सत्यप्रमोदटीका

 भ्रान्ता भ्रमविषयश्चेत् असत्वसाधिकेति तथा च परस्यापसिद्धान्तः । अभ्रान्ता प्रमाविषयश्चेत् । मिथ्यात्वबाधिकेति । तथा च त्वत्सिद्धान्तानवक्लृप्तिः ।। ९०७, ९०८ ।।

युक्तिमल्लिका

अतो मिथ्यात्ववादेऽस्मिन्ब्रह्मान्यत्सकलं जगत् ।

असदेवाभवत्तेन माने स्याद्दूषणं बहु ।। ९०९ ।।

सत्यप्रमोदटीका

 माने त्वदुक्तमिथ्यात्वानुमाने ।। ९०९ ।।

युक्तिमल्लिका

साध्यबाधाश्रयासिद्धी स्वरूपासिद्धिरेव च ।

व्याप्यत्वासिद्धता च स्याद्दृष्टान्तासिद्धिरेव च ।। ९१० ।।

सत्यप्रमोदटीका

 मिथ्यात्वानुमानखण्डनोक्तान् दोषान् लेशतः सङ्गृह्णाति साध्यबाधेत्यादिना । प्रत्यक्षादिविरुद्धत्वात् बाधः । जगतोऽ-भावादाश्रयासिद्धिः। दृश्यत्वाभावादसिद्धिः ।। ९१० ।।

युक्तिमल्लिका

मानानुगस्य ते मानोऽप्यपसिद्धान्तदोषतः ।

भग्नः स्यात् सत्त्वमात्रस्य बाधे तस्य तु धर्मिणाम् ।

स्वस्वरूपेण चाबाधे सदद्वैतमतक्षतिः ।। ९११ ।।

सत्यप्रमोदटीका

 मात्रस्येति स्वरूपसत्त्वस्य व्यवच्छेदः ।। ९११ ।।

युक्तिमल्लिका

यथाऽबाध्यब्रह्मरूपं सदेकमभवत्तथा ।

जडाबाध्यजगद्रूपमपि यस्मादभूद्धि सत् ।। ९१२ ।।

स्वरूपस्यापि बाधे तु प्रागुक्तं दूषणं भवेत् ।

एवं चोभयतः पाशारज्जुर्बध्नाति ते गलम् ।। ९१३ ।।

सत्यप्रमोदटीका

 ‘सन्मात्रत्वं ब्रह्मणोऽपि तस्मात्तदपि नो भवेदि’ति अनुव्याख्यानोक्तमाह यथेति ।। प्रागुक्तम् अत्यन्तासत्त्वरूपम्

।। ९१२,९१३ ।।

युक्तिमल्लिका

अन्यत्त्वं सदसद्भ्यां च यदि मिथ्यात्वमीर्यते ।

अप्रसिद्धं तदा साध्यं भवेद्धि प्रतिवादिनाम् ।। ९१४ ।।

दृष्टान्ते साध्यवैकल्यशल्यं चैव भवेत्तव ।

सत्त्वभ्रान्तिः सन्निकर्षशून्यप्रत्यक्षमेव च ।। ९१५ ।।

असत्त्वं स्थिरयेदुक्तविधया न निवारयेत् ।

अतः प्रसाध्यकाङ्गं च नासीदेतन्निदर्शनम् ।। ९१६ ।।

सत्यप्रमोदटीका

 दृष्टान्ते शुक्तिरूप्ये अत्यन्तासति ।। ९१४–९१६ ।।

युक्तिमल्लिका

किञ्चासत्त्वनिषेधेऽपि सत्त्वस्याभावमात्रतः ।

प्रागुक्तपञ्चदोषाणां नैवोद्धारो भवेत्तव ।। ९१७ ।।

सत्यप्रमोदटीका

 प्रागुक्तेति (श्लो.९१०) साध्यबाधादिपञ्चदोषेत्यर्थः ।। ९१७ ।।

युक्तिमल्लिका

बाष्पारोपितधूमस्य सत्त्वाभावेन केवलम् ।

असद्विलक्षणस्यापि किं नासिद्धिर्भवन्मते ।। ९१८ ।।

सत्यप्रमोदटीका

 असिद्धिदोषस्यानिस्तारं पराभ्युपगतिप्रदर्शनेन निदर्शयति बाष्पेति ।। ९१८ ।।

युक्तिमल्लिका

एवं च सद्विविक्तेषु रज्जुसर्पादिकेषु ते ।

असद्भिन्नेष्वपि यतस्तद्योग्यार्थो न दृश्यते ।। ९१९ ।।

सत्यप्रमोदटीका

 तत्तद्योग्यार्थः तत्तदुचितार्थक्रिया ।। ९१९ ।।

युक्तिमल्लिका

तत्सत्त्वरहितत्वाख्यमसत्त्वं सर्वसंमतम् ।

मिथ्यात्वमस्तु सर्वत्र पुनस्तस्यासतोऽन्यता ।

व्यर्था किमर्थं स्वीकार्या या व्याहत्या च दूषयेत् ।। ९२० ।।

सत्यप्रमोदटीका

 सत्त्वाभावेऽसत्त्वस्य नियतत्वात् पुनरसत्त्वनिषेधो व्याहत इत्याह तदिति ।। ९२० ।।

युक्तिमल्लिका

दोषे सत्येव दृश्यत्वं योगस्यायोग्यता तथा ।

असत्त्वस्यैव सिद्ध्यर्थं लिङ्गभूते न संशयः ।

उक्तासिद्ध्यादिदोषाणां तस्मान्नास्ति तवौषधम् ।। ९२१ ।।

सत्यप्रमोदटीका

 विमतं असत् दोषजन्यज्ञानविषयत्वात् सन्निकर्षा-योग्यत्वात् शशविषाणवत् इति प्रयोगं सूचयति दोष इति ।।९२१।।

युक्तिमल्लिका

व्यावहारिकसत्ता च प्रागुक्तेनैव वर्त्मना ।

न विकल्पसहा तस्मान्मिथ्यात्वाशां परित्यज ।। ९२२ ।।

सत्यप्रमोदटीका

 प्रागुक्तेति ७०७ तमे श्लोके उक्तेत्यर्थः ।। ९२२ ।।

युक्तिमल्लिका

किञ्च भेदे तव मतेऽप्यनादौ ज्ञाननाश्यता ।

त्वद्रीत्यैव न यस्मात्स्वोपादेयक्षयरूपिणी ।

अतोंऽशतो बाधिताऽभूत्त्वन्नयेनैव तेऽनुमा ।। ९२४ ।।

सत्यप्रमोदटीका

 यदि भेदः अज्ञानोपादानकः स्यात् तदाऽज्ञाननाशेन विलीयते । अनादित्वेनाज्ञानोपादेयत्वाभावान्नानादेर्भेदस्य निवृत्तिर्ब्रह्मवदेवेति भावः । अतः सत्यत्वेन तदंशे बाधश्चेति ।। ९२४ ।।

युक्तिमल्लिका

हा हन्त किन्ते स्खलनमन्धस्येव पदे पदे ।

अविद्योपादानता च तमसीव न दूषणम् ।। ९२५ ।।

सत्यप्रमोदटीका

 नेति । अज्ञानस्य सत्यत्वात्तत्कार्यत्वं सत्यत्वस्यैव साधकम् । अज्ञानमिथ्यात्वं तु कफोणिगुडायितम् ।। ९२५ ।।

युक्तिमल्लिका

अज्ञानस्यानुपादेयमज्ञानं सत्यमेव यत् ।

अज्ञानोपादानतया किं नश्छिन्नं ततो वद ।। ९२६ ।।

सत्यप्रमोदटीका

 तदेवाह अज्ञानस्यानुपादेयम् । अन्यथाऽज्ञान-परम्पराऽऽपत्त्याऽनवस्था स्यादिति भावः ।। ९२६ ।।

युक्तिमल्लिका

स्वात्यन्ताभावसाहित्यं विरोधाद्बाधितं तव ।

अविरोधे जगत्सत्त्वसिद्धेर्मम न दूषणम् ।। ९२७ ।।

सत्यप्रमोदटीका

 न दूषणं प्रतियोगिसत्त्वसहिष्णोरभावस्य पारिभाषि-कत्वादिति भावः ।। ९२७ ।।

युक्तिमल्लिका

किञ्चैवं सदसत्त्वाख्यपक्षस्याप्यविरोधतः ।

अनिर्वाच्यत्ववृक्षस्य मूलच्छेदोऽभवत्तव ।। ९२८ ।।

दृश्यध्यस्तत्वरूपं यद्द्वश्यत्वं तव संमतम् ।

साध्यावैशिष्ट्यदोषेण न तन्मिथ्यात्वसाधकम् ।। ९२९ ।।

सत्यप्रमोदटीका

 एवमिति । भावाभावयोर्विरोधाभावे इत्यर्थः । मूलच्छेदः चतुर्थप्रकारानुपपत्तिः । तृतीयप्रकारस्यैवं स्वीकारोपपत्तेः

।। ९२८, ९२९ ।।

युक्तिमल्लिका

हेतोरन्यतरासिद्धिश्च स्यादीदृशि साधने ।

बाध्यत्वं च ममासिद्धं केन साध्यं प्रसाध्यते ।। ९३० ।।

सत्यप्रमोदटीका

 बाध्यत्वं त्रैकालिकनिषेधप्रतियोगित्वरूपं त्वदभि-मतम् ।। ९३० ।।

युक्तिमल्लिका

नापि वृत्तिव्याप्यता ते मते भवति दृश्यता ।

सम्बन्धस्यानिरुक्त्या च ब्रह्मणि व्यभिचारतः ।

यतस्ते चरमा वृत्तिर्ब्रह्मचिन्मात्रगोचरा ।। ९३१ ।।

सत्यप्रमोदटीका

 अनिरुक्त्या विषयविषयिभावस्यानङ्गीकारात् वृत्तेः मिथ्यात्वेन तत्राध्यासासम्भवाच्च ।। ९३१ ।।

युक्तिमल्लिका

साक्षिवेद्ये शुक्तिरूप्ये त्वद्दृष्टान्तेऽप्यवर्तनात् ।

साक्षिवेद्याज्ञानपूर्वे भागासिद्धिप्रसङ्गतः ।। ९३२ ।।

सत्यप्रमोदटीका

 अज्ञानादीनां प्रातिभासिकत्वेन सन्निकर्षसापेक्षान्तः-करणवृत्तिव्याप्यत्वासम्भवात्तत्रासिद्धिरित्याह साक्षिवेद्येति

।। ९३२ ।।

युक्तिमल्लिका

कथञ्चिद्युक्तिवेद्यत्वाच्छ्रुतिवेद्यत्वतश्च तत् ।

वृत्तिव्याप्यं यदि तदा स्यादैक्ये व्यभिचारिता ।। ९३३ ।।

अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि ।

इत्युक्तेः शशशृृङ्गादौ त्वद्रीत्या व्यभिचारिता ।। ९३४ ।।

सत्यप्रमोदटीका

 व्याप्तिशक्तिरूपसन्निकर्षस्य युक्त्यागमवेद्यत्वस्य प्रातिभासिकेषु प्रतिभासमात्रशरीरत्वेनासम्भवात्कथञ्चिदित्युक्तम् । उपेत्यापि दोषान्तरमाह ऐक्य इति ।। ९३३, ९३४ ।।

युक्तिमल्लिका

वृत्त्याकाराकारितायां हेत्वसिद्धिश्च मे भवेत् ।। ९३५ ।।

सत्यप्रमोदटीका

 मे इति करणसामर्थ्येनैव विषयविषयिभावोपपत्ते-र्मयाऽन्तःकरणस्य बहिर्निर्गत्य विषयाकारभवनस्य अनङ्गीकारादिति भावः ।। ९३५ ।।

युक्तिमल्लिका

किञ्च दृश्यत्वजडतापरिच्छिन्नत्वपूर्वके ।

धर्मे सत्यपि शुक्तिस्ते न मिथ्या केन हेतुना ।। ९३६ ।।

तद्रूप्यस्यैव मिथ्यात्वे बाध एव प्रयोजकः ।

वाच्यस्त्वयाऽपि न त्वन्यः स तु नास्त्येव मन्मते ।। ९३७ ।।

सत्यप्रमोदटीका

 शुक्त्युपलक्षितवियदादेः बाधस्य सत्त्वग्राहिप्रमाण-विरोधादसम्भव इत्याह किञ्चेति ।। ९३६, ९३७ ।।

युक्तिमल्लिका

निष्प्रकारकधीपक्षे बाधस्तु भवतोऽपि न ।

नास्तित्वाकारबोधं यद्वाधमाहुर्विपश्चितः ।। ९३८ ।।

सत्यप्रमोदटीका

 मन्मते इति मुखतः । त्वन्मतेऽपि बाधो न सम्भव-तीत्याह निष्प्रकारकेति ।। ९३८ ।।

युक्तिमल्लिका

बाधबाधेऽपि बाधेन तदभावे स एव सन् ।

अतो मिथ्यात्ववादस्ते युक्तेर्मिथ्यात्वमानयत् ।। ९३९ ।।

सत्यप्रमोदटीका

 बाधस्य बाधः अस्ति न वा । नाद्यः प्रपञ्चस्य सत्यत्वापत्तेः । न द्वितीयः औतभङ्गापत्तेः अपरिहारात् इत्याह बाधेति ।। ९३९ ।।

युक्तिमल्लिका

सत्यत्ववादिनामेव सहायमकरोदहो ।

विस्तरस्त्वस्य सर्वस्य मूलशास्त्रे प्रदृश्यताम् ।। ९४० ।।

सत्यप्रमोदटीका

 मूलशास्त्रे मिथ्यात्वानुमानखण्डनतट्टीकादिषु ।।९४०।।

युक्तिमल्लिका

चर्चेयं पररीत्यैव परावद्याभिधित्सया ।

तन्मन्ये माध्वराद्धान्तं विद्वन्मकुटवर्धनम् ।। ९४१ ।।

सुरोत्तमटीका

 तत्तस्मात् उक्तविधया सकलभागवतवाक्यानामपि मध्वमतानुकूलत्वात् ।। ९४१ ।।