अनादितोऽनुवृत्तेन सत्त्वेन सहितं जगत्
भाविबाधशङ्कानिरासः
युक्तिमल्लिका
अनादितोऽनुवृत्तेन सत्त्वेन सहितं जगत् ।
न भाविबाधबाध्यं स्याद्ब्रह्मवत्परमार्थसत् ।। ७६० ।।
अनुवृत्तिरनुच्छेदस्सत्ता चास्तीति वेद्यता ।
तदा तदास्तीति बुद्धिर्यन्नष्टेष्वपि विद्यते ।। ७६१ ।।
सुरोत्तमटीका
हेतुगर्भमनुमानान्तरमाह ।। अनादित इति ।। अनेन विमतं जगत् न भाविबाधकबाध्यम् । अनादितोऽनुवृत्तसत्त्वसहितत्वात् ब्रह्म-वदित्यनुमानमुक्तं भवति ।। ७६०,७६१ ।।
सत्यप्रमोदटीका
अनादित इति । यथोक्तं ‘यथेदानीं तथा चाग्रे पश्चादप्येतदीदृशमि’ति गीतायां च ‘न चैव न भविष्यामः सर्वे वयमतः परमि’ति ।। ‘न च तस्योत्तरकालीनबाधाभावाग्राहकत्वमिति वाच्यम् । तदानीमबाध्यताग्रहणेनैव तत्सिद्धेरि’ति वादावलीं हृदि कृत्वाऽऽह तदेति ।। ७६०,७६१ ।।
युक्तिमल्लिका
शब्दमात्रेण दृष्टार्थो नान्यथीक्रियते बुधैः ।
प्रवाहयन्ति किं तीरं मञ्चं सञ्चारयन्ति किम् ।। ७६२ ।।
सुरोत्तमटीका
किञ्च आगम एव खलु भाविबाधकतया परेणोच्यते । सोऽपि न दृष्टार्थबाधकः किन्तु दृष्ट्या बाधितः स्वयमेवार्थान्तरं भजत इत्याह ।। शब्दमात्रेणेति ।। ७६२ ।।
सत्यप्रमोदटीका
प्रत्यक्षसिद्धस्य शब्दबाध्यत्वेऽतिप्रसङ्गावाह प्रवाहेति मञ्चेति च । तदुक्तं भगवत्पादैः ‘न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टमि’ति ।। ७६२ ।।
युक्तिमल्लिका
एकाभावेऽपरां वृत्तिमाश्रित्य तमबाधिते ।
अर्थे प्रवर्तयन्ति स्म दृष्टं मार्ष्टुं हि कः क्षमः ।। ७६३ ।।
सुरोत्तमटीका
तं आगमम् ।। ७६३ ।।
सत्यप्रमोदटीका
तं आप्तवाक्यम् । तदुक्तं भगवत्पादैः ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना । इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि’ इति ।।७६३।।
युक्तिमल्लिका
अतोऽबाधितमेवास्तु विश्वं सर्वसुखप्रदम् ।
वाक्यं च प्रतिवाद्युक्तरीत्याऽर्थं प्राप्य जीवतु ।। ७६४ ।।
सुरोत्तमटीका
अतः आगमस्य प्रत्यक्षबाधकत्वायोगात् ।। ७६४ ।।
सत्यप्रमोदटीका
सुखप्रदं सज्जनानामिति शेषः । वाक्यं सदागम-वाक्यम् । प्रतिवादी तत्त्ववादी । जीवतु मानं भवतु ।। ७६४ ।।
युक्तिमल्लिका
लोकमर्यादया रुद्धा न स्युश्चेद्वाक्यमूषिकाः ।
एको देवालयं गच्छेदन्यो देवस्य मस्तकम् ।
असदेवेदमग्रेऽभूदिति वाङ्नास्ति किं श्रुतौ ।। ७६५ ।।
सुरोत्तमटीका
ब्रह्मप्रतिबन्द्यापि वाक्यं न विश्वघातकमिति साहित्य-मुद्रयाऽऽह ।। लोकमर्यादयेति ।। बह्वर्थविसरणशीलत्वान्मूषिका इत्युक्तम् । एकः नेहनानेत्यादिरूपः । देवालयं भगवत्सन्निधानपात्रत्वाद्देवालयस्थानीयं विश्वम् । अन्यः असदेवेदमग्र आसीदित्यादिरूपः । देवस्य ब्रह्मणः । तदेव दर्शयति ।। असदेवेति ।। ७६५ ।।
सत्यप्रमोदटीका
मर्यादया ‘पूर्वोत्तराविरुद्धः प्रमाणान्तराविरुद्धश्च शास्त्रार्थः’ इत्येवंरूपया । मूषिकाः क्वचिन्नानार्थकत्वेन कुत्रचिद्वृत्यन्तरैः कुत्रचित् पदच्छेदनिर्वचनादिवैचित्र्येण विरुद्धार्थप्रतिपादनावकाशवत्त्वेन प्रत्यक्षवत् नियतसञ्चाररहिताः । एकः ‘सत्यं ज्ञान’मित्यादिरूपः वेदः । देवालयं ब्रह्मणः सत्यत्वं गच्छेत् बोधयेत् । अन्यः असदेवेत्यादिरूपः । मस्तकं छेत्तुमिति शेषः । देवस्य सत्यत्वमेवापलपेदिति यावत् ।। ७६५ ।।
युक्तिमल्लिका
घटो नेति निषेधे तु बाधस्ते नैव सिद्ध्यति ।
प्रध्वंसप्रागभावाभ्यामपि नेत्युक्तिसम्भवात् ।। ७६६ ।।
सुरोत्तमटीका
ते तव ।। ७६६ ।।
सत्यप्रमोदटीका
कल्पमानमपि बाधकं किं घटो नेत्याकारकः, उत घटः सत्यो न इत्येवंरूपः । आद्यो न मिथ्यात्वसाधकः । ध्वंसप्रागभाव-बोधस्यापि सम्भवादित्याह घट इति ।। ७६६ ।।
युक्तिमल्लिका
सत्यो नेति निषेधे तु बाधोऽयं स्यान्न चान्यथा ।
तादृङि्नषेधो नैवास्ति वेदे वा वैदिकेषु वा ।। ७६७ ।।
सुरोत्तमटीका
तादृक् – सत्यो नेत्याकारकः ।। ७६७ ।।
सत्यप्रमोदटीका
द्वितीयस्तु अनुपलम्भान्नास्त्येवेत्याह सत्य इति ।। ७६७ ।।
युक्तिमल्लिका
किन्त्वद्वितीयं नेहास्तीत्याकारः परमस्त्यसौ ।
तस्मान्न वर्तमानस्ते बाधोऽयं श्रूयते क्वचित् ।। ७६८ ।।
भाविबाधकशङ्कायाः किं कारणमुदीरय ।। ७६९ ।।
सुरोत्तमटीका
असौ जगन्निषेधः ।। ७६८,७६९ ।।
सत्यप्रमोदटीका
नेह नानास्तीत्यादिवाक्येष्वाद्यैव गतिरित्याह किन्त्विति ।। किं कारणमिति प्रत्यक्षविरोधो वा अनुमानागमविरोधो वा । न द्वितीयः । तयोः प्रत्यक्षबाधनासामर्थ्यात् । नाद्यः । सत्यः स्तंभो भवत्येवेति तेन सत्यत्वस्यैवावधारणात् ।। ७६८,७६९ ।।
युक्तिमल्लिका
बाधशङ्का तु मिथ्यात्वशङ्कां कुर्यान्न निश्चयम् ।
न चेत्तयैव सच्च स्याद्यत्सा को(ट््योर्वि)ट््यविरोधिनी ।। ७७० ।।
सुरोत्तमटीका
किञ्च भाविबाधकशङ्कया न मिथ्यात्वनिश्चय इत्याह ।। बाधशङ्केति ।। तयैव बाधशङ्कयैव । यत् यस्मात् । सा शङ्का(अ)विरोधिनी मिथ्यात्वस्यैक कोट्योल्लेखे तद्विरुद्धसत्यत्वमपरकोट्योल्लिखन्तीत्यर्थः ।।७७०।।
सत्यप्रमोदटीका
अस्तु वा शङ्का । तथाऽपि तावन्न मिथ्यात्वनिश्चय इत्याह बाधेति । शङ्कयाऽप्यन्यतरकोटिनिश्चये तयैव सत्यत्वनिश्चयोऽप्यस्तु इत्याह न चेदिति ।। ७७० ।।
युक्तिमल्लिका
त्रैकालिकनिषेधोऽपि न स्वरूपेण ते मते ।
नशृृङ्गवदसत्त्वाप्त्या ततस्सत्त्वनिषेधनम् ।
बाधोऽवश्यं त्वया वाच्यस्स तु न श्रूयते क्वचित् ।। ७७१ ।।
सुरोत्तमटीका
ननु मास्तु सत्यं नेति जगतो निषेधः किन्तु त्रैकालिक-निषेध एव बाधो भविष्यतीत्यत आह ।। त्रैकालिकेति ।। सः सत्त्वनिषेधः । स इत्युपलक्षणम् । प्रागुक्तयुक्तया त्रैकालिकनिषेधोऽपि न श्रूयत इति द्रष्टव्यम् । इदमुक्तं भवति । विश्वं नास्तीति निषेधो घटो नास्तीतिवन्न मिथ्यात्वप्रयोजको बाधः । त्रैकालिकनिषेधोऽप्यसत्त्वापादकत्वान्न परमते बाधः । न चासौ श्रूयते । सत्यत्वनिषेधस्तु बाधः स्यात् । अश्रुतत्वान्न जगति स वक्तुं शक्यः । अतः कथं बाधशङ्केति ।। ७७१ ।।
सत्यप्रमोदटीका
ते मते इति ।। नः स्वरूपत्वेन शून्यमतप्रवेशभियेति भावः । सत्त्वनिषेधनम् । पारमार्थिकत्वाकारेण निषेधः । न क्वचिदिति । नेहनानास्तीत्यादिषु तद्बोधकपदाभावात् ।। ७७१ ।।
युक्तिमल्लिका
किञ्च त्रिकालनास्तित्वं बाधः किल भवन्मते ।
नास्त्यद्वितीयमित्यादौ वर्तमानार्थकोऽस्ति लट् ।
न विद्यते द्वितीयं च यस्य तद्ध्यद्वितीयकम् ।। ७७२ ।।
सुरोत्तमटीका
त्रैकालिकनिषेधस्याश्रुतत्वं स्मारयति ।। किञ्चेति ।। ७७२ ।।
सत्यप्रमोदटीका
न केवलं पारमार्थिकत्वनिषेधकपदाभावः, किं नाम त्रैकालिकनिषेधबोधकपदमपि नास्तीत्याह किञ्चेति । तदेव विग्रहप्रदर्शनेन स्फोरयति न विद्यत इति ।। ७७२ ।।
युक्तिमल्लिका
अतो द्वेधाऽपि बाधस्ते श्रुतेर्हृदयशोधने ।
नास्ति तद्बाध एवायं नाभूदस्ति भविष्यति ।। ७६३ ।।
सुरोत्तमटीका
तत् तस्मात् त्रिकालनास्तित्वस्य क्वाप्यश्रवणात् ।। ७७३।।
सत्यप्रमोदटीका
अतः पारमार्थिकत्वेनेति वा त्रैकालिकेति वा निषेधस्य विशेषणस्य क्वाप्यश्रवणात् ।। ७७३ ।।
युक्तिमल्लिका
न हीदानीं वर्तमानवेदादन्योऽपि कश्चन ।
भविष्यन्नास्ति ते वेदो बाधोऽयं यत्र गीयते ।। ७७४ ।।
सुरोत्तमटीका
यत्र भविष्यद्वेदे । अतो भाविबाधकशङ्कापि न घटत इति भावः ।। ७७४ ।।
सत्यप्रमोदटीका
भविष्यन्नास्ति इति । वेदानां अनादिनित्यादिति भावः ।। ७७४ ।।
युक्तिमल्लिका
निर्विकल्पकरूपैव चरमापि प्रमा तव ।
न तत्र नास्तिताबोधो बाधोऽतः क्व भविष्यति ।। ७७५ ।।
विमता जगती सेयं सत्यैव परमार्थतः ।
अबाध्यत्वाद्यथा ब्रह्मेत्यनुमा तन्न बाध्यते ।
त्रेधापि बाधायोगेन बाधायोग्यं यतो जगत् ।। ७७६ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि भाविबाधकशङ्कां निवारयति ।। निर्विकल्पकेति ।। तत् तस्मात् । उक्तविधया बाधस्यैवाभावात् । न बाध्यते असिद्ध्याख्यदोषेण बाधितविषयत्वाख्यदोषेण च दूष्यत इत्यर्थः । त्रेधा विश्वं सत्यं नेत्याकारेण, विश्वं कालत्रयेऽपि नेत्याकारेण, विश्वं कालत्रये सन्नेत्याकारेणेत्यर्थः । यत इत्यस्य पूर्वेणान्वयः ।। ७७५,७७६ ।।
सत्यप्रमोदटीका
निर्विकल्पेति । हेतुगर्भम् । अबाध्यत्वात् बाधा-योग्यत्वात् । असिद्धिं परिहरति त्रेधाऽपीति ।। ७७५,७७६ ।।
युक्तिमल्लिका
विश्वं सत्यमिति स्पष्टं सत्यत्वं गर्जति श्रुतिः ।
विश्वं मिथ्येति विस्पष्टं मिथ्यात्वं कुत्र कथ्यते ।। ७७७ ।।
सुरोत्तमटीका
न केवलं सत्यं नेत्यस्याश्रुतत्वं प्रत्युत सत्त्वस्यैव श्रुतत्वमस्तीत्याह ।। विश्वं सत्यमिति ।। किं च सत्यत्वश्रुतिवद्विश्वं मिथ्येति स्पष्टश्रुत्यभावाच्च न मिथ्यात्वमित्याह ।। विश्वं मिथ्येति ।। ७७७ ।।
सत्यप्रमोदटीका
स्पष्टमिति विद्यारण्येनापि सत्यमित्यस्यानारोपितमिति व्याख्यानादिति भावः ।। ७७७ ।।
युक्तिमल्लिका
तिलानुन्मथ्य कस्तैलं घृते सत्यपि साधयेत् ।
किं श्रौतसत्यतां त्यक्त्वा मिथ्यात्वायोक्तिपीडनैः ।। ७७८ ।।
सुरोत्तमटीका
स्पष्टसत्यत्वश्रुतौ सत्यामैक्यश्रुत्यन्यथानुपपत्त्या मिथ्यात्व कल्पनन्तु नोचितमिति साहित्यमुद्रयाऽऽह ।। तिलानिति ।। दार्ष्टान्तिकेऽपि योजयति ।। किमिति ।। ७७८ ।।
सत्यप्रमोदटीका
तिलान् सिकतासु आरोपितानिति हृदयम् । घृतं तिरस्कृतम् । तैलस्याप्यलाभः । परस्य नैराश्यं परमं सुखमिति ध्वनिः । यदग्रे स्वयमेव वक्ष्यति शिलानामेव पेषणमिति ।। ७७८ ।।
युक्तिमल्लिका
श्रौतोऽर्थो मे तवाऽऽर्थार्थश्रुत्यै वृत्त्यन्तरं दिशेत् ।
यत्पृथ्वौरसपुत्रस्य दत्तपुत्रस्तु दत्तभुक् ।। ७७९ ।।
सुरोत्तमटीका
आर्थार्थश्रुत्यै आर्थिकार्थतया मिथ्यात्वप्रतिपादकश्रुत्यै । वृत्त्यन्तरम् अर्थान्तरम् । इदमपि साहित्यमुद्रया रञ्जयति ।। यदिति ।। यत् यस्मात् । औरसपुत्रस्य स्वोदरादेव जातपुत्रस्य । दत्तपुत्रः अन्यद्वारोत्पन्न-पुत्रः । दत्तभुक् औरसपुत्रेण दत्तभूमिमात्रभुक् । एवमिहापि साक्षाच्छ्रुत्यै-वोक्तार्थश्श्रुतेरौरसार्थत्वान्न चालयितुं शक्यः । आर्थिकार्थस्तु अनुमानफल-रूपतयाऽमुख्यत्वात् । सत्यत्वश्रुतेरनुकूलार्थ एव पर्यवस्येत् । स्पष्टसत्यत्व-श्रुतिविरोधात् । ऐक्यश्रुतेरन्यथानुपपत्तिर्नमिथ्यात्वमाक्षिपेत् । किन्तु सत्य-त्वानुकूलसादृश्याद्यर्थकत्वमेवाक्षिपेत् । विश्वं मिथ्येत्येव साक्षान्निरवकाश-श्रुतिरस्ति चेन्न हातुं शक्या । ऐक्यश्रुत्यन्यथानुपपत्तिस्तु सिंहो देवदत्त इत्या-दाविव सादृश्यार्थकतयापि परिहर्तुं शक्यत्वान्न मिथ्यात्वस्यैव साधिकेति भावः
।। ७७९ ।।
सत्यप्रमोदटीका
श्रौतः स्वरसतया वृत्तिमहिम्नैव लब्धः । श्रुतेः औरसपुत्रसमः । आर्थार्थः तत्त्वमस्यादिश्रुतीनां जीवब्रह्मैक्यमविद्यमानमेवार्थं परिकल्प्य तदन्यथाऽनुपपत्त्या कल्प्यमानः विरुद्धगुणमिथ्यात्वरूपोऽर्थः । अत एव बलादानीतो दत्तपुत्र इव पित्र्यधनस्यानर्हः । श्रुत्यै ऐक्यश्रुत्यै । अर्थान्तरं सादृश्याद्यैक्यरूपम् । पृथु औरसपुत्रस्य इति पदविभागः । पृथु पितुः सर्वस्वं धनम् । दत्तभुक् तदविरोधेन तेनापवर्जितभैक्ष्यान्नभुक् ।। ७७९ ।।
युक्तिमल्लिका
किञ्चेदं ते तिलाकारशिलानामेव पेषणम् ।
रतो यत्नेऽपि महति मिथ्यात्वं न श्रुतिर्जगौ ।। ७८० ।।
सुरोत्तमटीका
इदं श्रुत्या मिथ्यात्वकथनम् । कुत इत्यत आह ।। यत इति ।। उक्तविधया शतशः प्रयत्नेऽपि नेह नानेत्यादिश्रुतितो मिथ्यात्वा-लाभादिति भावः ।। ७८० ।।
सत्यप्रमोदटीका
दृष्टान्तं स्पष्टयति किं चेति । आक्षेपकं स्वरूपैक्य-मेवाप्रमितं शिलाशकलारोपिततिलोपमम् । आक्षेप्यं मिथ्यात्वं प्रमाणविरुद्धम् । अनुपपादकं च । स्वरूपभूतानां विरुद्धधर्माणां निषेधे जीवेश्वरस्वरूप-योरेवाभावापत्त्या कयोरैक्यं श्रुतिर्वदेदिति भावः । अतोऽङ्गविकलोऽय-मर्थापत्त्याभासः ।। ७८० ।।
युक्तिमल्लिका
असन्नासीदिति व्यर्थं य(द)द्यसत्सर्वथाऽप्यसत् ।
स्वरूपकीर्तनेनैव तदसत्त्वस्य सिद्धितः ।
सत्त्वप्रसक्त्यभावाच्च व्यर्थं तस्य निषेधनम् ।। ७८१ ।।
यदीदानीं न तत्तुच्छं तदानीं किं निषिध्यते ।
तदानीं नेति वचनमिदानीं सत एव हि ।। ७८२ ।।
सुरोत्तमटीका
त्रैकालिकनिषेधसत्यत्वनिषेधाख्यमिथ्यात्वस्याश्रौतत्वेऽपि नासदासीन्नो सदासीदिति श्रुत्या सदसदभावकालेऽपि तम आसीदिति अज्ञानस्य स्थितिकथनात्तस्य सदसद्वैलक्षण्यं सेत्स्यतीत्याशङ्कां परिहरति ।। असन्नेति ।। स्वरूपकीर्तनेन असदिति स्वरूपकीर्तनेन । तदसत्त्वस्य असतोऽसत्त्वस्य । श्रुतावसत्पदेन केवलमत्यन्तासदेवोच्यते चेत् असत्पदेनैव तस्याभावसिद्धेः पुनर्नासीदिति व्यर्थमिति भावः । तस्य असतः ।। ७८१,७८२ ।।
सत्यप्रमोदटीका
‘नासदासीन्नो सदासीत्तदानीम्’ इति श्रुतिः सद-सन्निषेधकालीनावस्थितिं तमःशब्दिताज्ञानस्य प्रतिपादयति । तेन अज्ञानस्य सदसद्विलक्षणत्वरूपमिथ्यात्वं पारिशेष्येण सिध्यतीति परस्याशां विफलयति असदित्यादिना । ‘न च भावाभावविलक्षणं क्वचिदागमो वक्ति’ इति तत्त्वोद्योत वचनमनुरुध्याह असदिति । असदिति शब्देनैव अविद्यमान इत्यर्थलाभे पुनर्नासीदिति निषेधस्तव व्यर्थ इति भावः ।। सर्वथाऽविद्यमानस्य तदानीमिति कालविशेषे विशिष्य निषेधोऽप्ययुक्त इत्याह यदिति । इदानीं सत्त्वानुज्ञापकत्वात्तव प्रतिकूलश्चेत्याह तदानीमिति ।। ७८१,७८२ ।।
युक्तिमल्लिका
अनुवादकवाक्यं ते स्वार्थस्यासाधकं किल ।
सर्वसिद्धानुवादोऽयं कमर्थं साधयेत्तव ।
यत्प्रसिद्धा वायुरन्तरिक्षं चासदिति श्रुतिः ।। ७८३ ।।
अतः श्रौतमतज्ञत्वं युक्तिज्ञत्वं च बालिशे ।
यदसत्तत्तवाऽप्यद्धा नासीदित्याह सा श्रुतिः ।। ७८४ ।।
सुरोत्तमटीका
सर्वसिद्धानुवादः सर्वसिद्धत्यासतोऽत्यन्ताभावस्य श्रुत्या-कथनम् । अर्थम् असद्वैलक्षण्याख्यार्थम् । अनुवादेऽसाधकत्वस्य परेणाङ्गी-कारादिति भावः । यत् यस्मात् । प्रसिद्धा माध्यन्दिनोपनिषदि । अतः मायावादिनि श्रुतिमतज्ञत्वयुक्तिज्ञत्वयोरभावात् । बालिशे बालके मूर्खे वा । असदविद्यमानं यच्छ्रुतिज्ञत्वं युक्तिज्ञत्वं तत्तवापि मायावादिनोऽपि नासीत् इति सा नासदासीदिति श्रुतिराहेति सम्बन्धः । नासदासीदिति श्रुतिः प्रलयेऽ-त्यन्तासतोऽभावं वैयर्थ्यान्न वक्ति । किं तु वाय्वन्तरिक्षाख्यं भूतद्वयम् । उक्त-माध्यन्दिनश्रुतिसमाख्यया इदानीं सम्भावितसत्त्वं प्रलये नासीदित्याह । यदि चासत एवाभावो वक्तव्य इति परस्याग्रहः तदा मूर्खेषु असत् यच्छ्रुतिमतज्ञत्वं युक्तित्वं च तन्मायावादिन्यपि नासीदित्येव श्रुतेरर्थ इति परपरिहासः ।। ७८३,७८४ ।।
सत्यप्रमोदटीका
न च कुवादप्राप्तस्य प्रतिषेधः । असदस्तीति वादिन एवाभावादित्याह सर्वेति । तथा चैषोऽनुवादस्तव मते श्रुतेरप्रामाण्य एव पर्यवस्यति ।। श्रुतेः प्रमाणानुगुणमर्थं स्वमतेनाह यदिति । ‘यदन्यद्वायोरन्त-रिक्षाच्चैतत्सदि’ ति माध्यन्दिनश्रुतेः । वाय्वन्तरिक्षौ अव्यक्तत्वादसदिति भावः ।। एवं सत्यपि प्रमाणविरोधे तदविगणय्य दुराग्रहवशो यदि त्वं श्रुतेः सदसद्वैलक्ष्यण्यरूपमपार्थं परिकल्पयसि तर्हि श्रुत्यभिमानिनी देवता प्रकु-पिताऽनेनैव वाक्येन त्वां निन्दतीत्याह अत इति । यत् लोके बालिशे मूर्खे श्रुत्यर्थज्ञानं युक्तिज्ञानं चोभयमसत् तत् तवापि मायावादिनः न आसीत् ।। ७८३,७८४ ।।
युक्तिमल्लिका
सन्नासीदिति वाक्चाह सत्तेनेदं वचस्त्विति ।। ७८५ ।।
सुरोत्तमटीका
सन्नासीदिति श्रुतिरपि यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सदिति तस्यामेवोपनिषदि विद्यमानवाक्यानुसारेण सत्पदवाच्यं वाय्वन्तरिक्षातिरिक्त-पृथिव्यादिभूतत्रयमपि प्रलये नासीदित्याह । यदि च सदेव नासीदिति वक्तव्यमिति तवाग्रहः तदा सत्पदवाच्यब्रह्मणो नास्तित्वस्य त्वद्रीत्यैवा-सम्भवात् असम्भवदर्थकं शास्त्ररूपं ते वच एव सत् समीचीनं नासीदित्याहेति परपरिहासः । वदसि चेत् उपनिषत्समाख्ययाऽर्थं वद । नो चेत्त्वदभि-लषितार्थद्वयस्याप्युक्तरीत्या युक्तिविरुद्धत्वात् विरोधमजानतस्तव निन्दनमेव खण्डद्वयस्याप्यर्थ इति भावः ।। ७८५ ।।
सत्यप्रमोदटीका
अत एव दुराग्रहिणस्तव इदं व्याख्यानं नो सत् समीचीनं नो आसीदिति ।। ७८५ ।।
युक्तिमल्लिका
सच्छब्दार्थो जगच्चेत्स्यात्स्वान्यत्वं तर्हि सिद्ध्यति ।
इष्टासिद्धिरबाध्यत्वरूपसत्त्वानिषेधनात् ।। ७८६ ।।
सुरोत्तमटीका
सन्नासीदित्यत्र परमते कथं युक्तिविरोध इत्यत आह ।। सच्छब्देति ।। ७८६ ।।
सत्यप्रमोदटीका
नो सदासीदित्यंशस्य परपरिकल्पितमर्थान्तरमुपक्षिप्य तेनैव तं परिहसति सदिति । अयमाशयः । सन्निषेधकालीनावस्थितिमत्त्वेन त्वया सद्वैलक्षण्यं साधयितुं प्रक्रान्तम् । तत्र वक्तव्यं सच्छब्दार्थो जगद्वा ब्रह्म वा विवक्षितम् । नाद्य इत्याह स्वान्यत्वं इति । स्वनिषेधकालीनावस्थित्या स्ववैलक्षण्यमेव सिध्येत् । न तु अबाध्यवैलक्षण्यरूपं बाध्यत्वम् । तथा च त्वदिष्टासिद्धिः ।। ७८६ ।।
युक्तिमल्लिका
सद्ब्रह्मैव भवेत्तस्माद्यद्वैलक्षण्यमीप्सितम् ।
नासीत्तदा तच्च किल यद्ब्रह्म परमार्थसत् ।। ७८७ ।।
सुरोत्तमटीका
तस्मात् जगतः स्वस्यैव स्ववैलक्षण्ये अबाध्यवैलक्षण्या-सिद्धेः । यद्वैलक्षण्यं यस्य ब्रह्माणो वैलक्षण्यम् ।। ७८७ ।।
सत्यप्रमोदटीका
द्वितीये ब्रह्मणो निषेध एव, नो सदासीदिति वाक्यार्थो निष्पन्नः ।। ७८७ ।।
युक्तिमल्लिका
हन्त मिथ्याऽभवद्ब्रह्म सत्यं जगदभूदिदम् ।
यदावयोर्मते नास्ति निरधिष्ठानकभ्रमः ।। ७८८ ।।
सुरोत्तमटीका
यत् यस्मात् । तस्मात्सत्यं जगदभूदिति पूर्वेणान्वयः । प्रलये ब्रह्मणोऽसत्त्वे मिथ्यात्वावश्यंभावात् निरधिष्ठानकभ्रमस्य चायोगात् ब्रह्मारोपायैव जगत्सत्यत्वसिद्धिरिति भावः ।। ७८८ ।।
सत्यप्रमोदटीका
किं तत इत्यत आह हन्तेति । अधिष्ठानस्य ब्रह्मण एवासत्त्वे निरधिष्ठानभ्रमस्यानङ्गीकारात् जगत् सत्यमेवाभूदिति ।। ७८८ ।।
युक्तिमल्लिका
अर्थान्नार्थान्तरं सिद्धमनर्थोऽयं महानभूत् ।। ७८९ ।।
सुरोत्तमटीका
अर्थान्तरं जगतस्सदसद्वैलक्षण्यम् । अनर्थः ब्रह्मणः प्रलयेऽभाव एव ।। ७८९ ।।
सत्यप्रमोदटीका
फलितमाह ।। अर्थादिति ।। अर्थापत्तेः । अर्थान्तरं मिथ्यात्वम् ।। अनर्थः जगतः सत्यत्वम् ।। ७८९ ।।
युक्तिमल्लिका
नोसदासीदिदं वाक्यं परस्यानर्थकारकम् ।
इत्येवाह श्रुतेरंशो द्वितीयोऽप्येव पूर्ववत् ।। ७९० ।।
अन्तरिक्षाच्च वायोश्च यदन्यत्तत्सदित्यपि ।
यच्छ्रुतिस्स्वयमेवाह ततोऽप्येतदङ्गतम् ।। ७९१ ।।
सुरोत्तमटीका
असत् ब्रह्माभावकथनादमङ्गलम् । अत एव परस्या-नर्थकारकं चेदं वाक्यम् । प्रलये ब्रह्माभावकथकं वाक्यं नासीदिति पर-परिहासाय श्रुतेरर्थान्तर कथनमिदम् । अंशः पूर्वांशः । एषः अंशः । पूर्ववत् पूर्वोक्तरीत्यैव परिहासः । पूर्वांशस्य तु पूर्वोक्तरीत्या इदानीमुक्तरीत्या च परपरिहासोऽर्थ इति भावः ।। ७९०,७९१ ।।
सत्यप्रमोदटीका
पूर्ववच्छ्रुतेः परिहासमाह ।। नो सदासीदिति । तव वाक्यार्थः न समीचीन इति पूर्ववदर्थः ।। परोक्तोऽर्थः सुस्पष्टश्रुतिविरुद्ध इत्याह अन्तरिक्षादिति ।। ७९०,७९१ ।।
युक्तिमल्लिका
अहो बत महानेष प्रमादो धीमतामपि ।
यत्स्वोक्तवचनस्यार्थस्स्वेष्टब्रह्मविनष्टता ।
तमसस्त्वविनष्टस्य तदानीमवशिष्टता ।। ७९२ ।।
सुरोत्तमटीका
स्वपरमेष्टभूतब्रह्माभावप्रतिपादक स्वानिष्टभूततमस्सद्भाव प्रतिपादकवाक्ये बहुमानवन्तं परं परिहसति ।। अहो बतेति ।। तदानीं परब्रह्मणः प्रलयदशायाम् ।। ७९२ ।।
सत्यप्रमोदटीका
धीमतां दुर्बुद्धिमतां प्रमादः उन्मादः बतेत्यपहासः । उक्तरीत्या नो सदासीदित्यस्य ब्रह्मनिषेधकत्वम् । तम आसीदिति अज्ञानास्यावशिष्टत्वं च वदता ब्रह्म मिथ्या, अज्ञानं तत्कार्यं जगच्च सत्यमिति स्वयमेव व्याख्यानात् स्वेष्टघातिता स्वानिष्टकारिता चेति अहो उन्माद-विलसितमिति भावः ।। ७९२ ।।
युक्तिमल्लिका
अतः श्रुत्यर्थकुशलो भारतीपतिरेव नः ।
अन्यस्तद्भृत्यभृत्यश्चेन्मान्यो भवति कश्चन ।। ७९३ ।।
सुरोत्तमटीका
अतः पराचार्यवच्छ्रुतिस्वमतयुक्तिविरुद्धार्थाकथकत्वात् । स्वमूलरूपनाम्ना आचार्याणामाह्वानं सरसवाग्विलासवत्या भारत्याः पत्यु-रवतारस्य मध्वमुनेर्नेदं कौशलमपूर्वमिति सूचनार्थम् ।। ७९३ ।।
सत्यप्रमोदटीका
तद्भृत्यभृत्यः श्रीजयतीर्थार्यः । मान्य इति ‘गुरु-कारुण्यसरणिं प्रपन्ना मान्याः स्म’ इत्युक्तेः ।। ७९३ ।।
युक्तिमल्लिका
यदद्वैतपरं वाक्यं मिथ्यात्वमपि तेन ते ।
गौर्गोवत्सप्रसूरेव महिषाश्वप्रसूश्च किम् ।। ७९४ ।।
सुरोत्तमटीका
तत्वमस्याद्यैक्यवाक्ये श्रुत्या साक्षाज्जीवाभेदोऽर्था-न्मिथ्यात्वं च बोध्यत इति यत्परो वक्ति तच्च भेदसौरभादौ सविस्तरं निरस्त-मपि दृष्टान्तमुखेन दूषयितुं पुनराह ।। यदद्वैतेति ।। तेन वाक्येन । ते मते । मिथ्यात्वं जगन्मिथ्यात्वम् उच्यत इति योग्यतया सम्बन्धः । तदपि न युक्त-मित्यत्र दृष्टान्तमाह ।। गौरिति ।। प्रसूः माता । महिषाश्वयोरिव अभेद-मिथ्यात्वयोः परस्परविरोधात् कथमेकवाक्यबोध्यता । अतो वाक्यमनुकूल-मर्थान्तरं वदेदिति भावः ।। ७९४ ।।
सत्यप्रमोदटीका
औतपरं ‘तत्त्वमसि’ इत्यादिकम् । तेन वाक्येन । मिथ्यात्वं बोध्यते इति ते तव आशामात्रम् । तच्च विरुद्धमिति सदृष्टान्तमाह गौरिति । न ह्यक्षरबाह्यो वाक्यार्थो भवति इति भावः । न चानुपपत्त्या । तदभावादेव ।। ‘प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवादि’ति भगव-त्पादीयवचनात्सादृश्याद्यैक्यपरत्वेनाप्युपपत्तेः ।। ७९४ ।।
युक्तिमल्लिका
दृष्टा दृष्टविरोधे तु वाक्यस्यान्यार्थतैव हि ।
आगोपालाविपालं च यद्दृष्टं दृष्टमेव तत् ।। ७९५ ।।
सुरोत्तमटीका
तदेव दर्शयति ।। दृष्टेति ।। दृष्टविरोधे सिंहपुरुषयोर्दृष्ट-भेदविरोधे । एवशब्देन दृष्टभेदमिथ्यात्वं भेदकधर्ममिथ्यात्वं च व्यवच्छिनत्ति । तथा जीवपरमयोरैक्यघटनाय आविपालगोपालं दृष्टजीवेश्वरभेदस्य सर्वज्ञ-त्वाल्पज्ञत्वादिभेदकधर्माणां च न मिथ्यात्वं किन्तु दृष्टविरोधेनैक्यवाक्य-स्यैवार्थान्तरपरता । ततश्च नेदृशवाक्यैरपि जगन्मिथ्यात्वसिद्धिरिति भावः । एवं च सौरभसङ्गतत्वाच्च पुनर्वचनम् ।। ७९५ ।।
सत्यप्रमोदटीका
दृष्टं निर्दोषप्रमाणसिद्धम् । सर्वज्ञत्वादिभेदकधर्म-जातम् । दृष्टमेव त्वदविवक्षामात्रेण न त्यागार्हम् ।। ७९५ ।।
युक्तिमल्लिका
यत्र मिथ्याप्रपञ्चस्य वाक्यैर्वेदान्तगोचरैः ।
दृश्यमानमिदं सर्वमनित्यमिति चोच्यते ।। ७९६ ।।
इति पाद्मे महेशेन त्रिंशाध्याये किलोदितम् ।
अतो मिथ्येति वाग्विश्वस्यानित्यत्वं वदेत्परम् ।। ७९७ ।।
सुरोत्तमटीका
मिथ्यात्वप्रतिपादकवाक्यानामर्थान्तरं केवलं न मयै-वोच्यते किन्तु व्यासेनाप्युक्तमिति भावेन तद्वाक्यं पठति ।। यत्रेति । मिथ्या मिथ्यात्वम् । उच्यत इत्यस्यात्राप्यनुकर्षः । तत्र वेदान्ते उच्यत इति सम्बन्धः । अतः वेदव्यासेनैवोक्तत्वात् ।। ७९६,७९७ ।।
सत्यप्रमोदटीका
मिथ्योक्तेरन्यथागतिकथनाच्च न पराभिप्रेतोऽर्थः इत्याह यत्रेति । अनित्यमित्युपलक्षणम् । वृथात्वमित्यपि ज्ञेयम् । यथोक्तं न्यायामृते (१/३९) ‘मिथ्यात्वोक्तिस्तु’ वृथात्वात् । ‘मिथ्यैव व्यवसायस्ते’ इत्यादिवत् सदोषत्वाद्वा’ इति ।। ७९६,७९७ ।।
युक्तिमल्लिका
यदि रूप्यस्य मिथ्यात्वे मिथ्या दृश्यत्वतो जगत् ।
मेयत्वाद्धटवत्तर्हि घटोऽपि स्यात्पटस्तव ।। ७९८ ।।
अत्तृत्वात्पशुवन्मन्द शृङ्गं स्यात्तव मस्तके ।
पुरुषत्वान्मूकवत्ते मूकता स्याज्जितं परैः ।। ७९९ ।।
बाधाबाधानुसरणे शिष्यस्त्वं प्रतिवादिनः ।
बाधशङ्काख्यपङ्केन किं किं न स्याद्धि पङ्किलम् ।। ८०० ।।
सुरोत्तमटीका
विश्वमिथ्यात्वश्रुतिर्निराकृत्य विश्वं मिथ्यादृश्यत्वाच्छुक्ति-रूप्यवदित्यनुमानं प्रतिबन्द्या तावन्निराकरोति ।। यदीति ।। एवं च एतै-रनुमानैर्मिथ्यात्ववादिनः पशुत्वे मूकत्वे च जाते सत्यत्ववादिन एव जयोऽ-भूदिति भावः ।। बाधेन मदुक्तानुमानदूषणे विश्वसत्यत्वस्य सर्वजनसम्प्रति- पन्नत्वात्तेनैव त्वदनुमानमपि दुष्टं स्यादित्याह ।। बाधेति ।। ७९८–८०० ।।
सत्यप्रमोदटीका
दृश्यत्वानुमानं आभाससाम्येन दूषयति यदिति ‘सह-दर्शनमात्रेण न व्याप्तिरवसीयते’ इत्युक्तेः । मिथ्यात्वस्य सकलप्रमाणबाधात् नाभाससाम्यनिस्तार इत्याह बाधेति ।। ७९८–८०० ।।