असुरान् दमयन्नुग्रान् सुरान् शान्तांस्तथोन्नयन्
जीवत्रैविध्यम्
युक्तिमल्लिका
असुरान् दमयन्नुग्रान् सुरान् शान्तांस्तथोन्नयन् ।
परावृणक्ति पूर्वेषां सख्यानि त्वरया परैः ।। २२३ ।।
एतीति वेदे तमसि दैत्यानां श्रूयते व्यथा ।
यदृच्छाकृततन्मोक्षप्रयत्नच्छेद एव च ।। २२४ ।।
देवानामूर्ध्वलोकश्च वीप्सया नियमोऽपि च ।
अतः सर्वविमोक्षश्च सर्वैक्यञ्च कथं वद ।। २२५ ।।
सुरोत्तमटीका
श्रुत्यन्तरेणापि सर्वमोक्षाभावमैक्याभावं च साधयति ।। असुरानिति ।। अनेन ‘‘शृृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । एधमानद्विुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् । परा पूर्वेषां सख्यावृणक्तिवितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीरिन्द्र-श्शरदस्तर्तरीती’’ति श्रुतिवाक्यद्वयं सङ्गृह्णाति ।। अस्यार्थः । वीरः अध्यवसितान्तगामी । इन्द्रः परमैश्वर्यसम्पन्नश्रीनारायणः । अग्रमुग्रं विश्व-द्रोहितया क्रूरं क्रूरं दैत्यजनं दमायन्दमयन् अन्धतमसि निक्षिप्य पीडयन् । पुनरावृत्तिशून्यतया दमनस्य दीर्घकालीनत्वसूचनाय दीर्घोच्चारम् । तेनान्ध-तमस्येव दमनं लभ्यते । उग्रपदोपस्थितादुग्रादन्यमन्यं शान्तं सज्जनसमूहं अतिनेनीयमानस्सांसारिकक्लेशानतिक्राम्य स्वीयवैकुण्ठादिलोकमतिशयेन नयन् । जीवन्मुक्तिदशातोऽतिशयसूचनाय नेनीयमान इत्युक्तम् । जीवानां परस्परभेदं मुक्तानां च स्वस्माद्भेदं च सूचयितुमन्यमन्यमित्युक्तम् । अन्यथा शान्तं शान्तमित्यवक्ष्यत् । एधमानद्विट् स्वस्वयोग्यतामतिक्रम्य पुण्यकरणादिना वर्धमानं द्वेष्टि अधिकपुण्यं येन केनाप्युपायेन नाशयतीति स तथोक्तः । अनेन जीवायोग्यस्वसमानाधिकमाहात्म्यशिक्षणेन स्वतोऽतिनीचतत्तद्योग्यमहिम्न-स्सदारक्षणेन च कदाप्यैक्यायोगं सूचयति । उभयस्य तमसि मुक्तौ च स्वेन प्रापितद्विविधजीवसमुदायस्य राजा स्वामी न तु कदापि तदैक्यवानित्यर्थः । शृृण्वे पुराणादिषु श्रूयते । श्रुतिस्स्वोक्तार्थे श्रुतिवाक्यान्तराणि स्मृतिवाक्यानि च प्रमाणयितुमेवमाह । अन्यथा ते राजा इत्यवक्ष्यत् । स्वविरोध्यैक्यवचनेषु विभक्तिव्यत्यासादिगतिसूचनाय प्रयोगव्यत्यासः ।
मनुष्यान्विशो मध्यममानुषप्रजाः । कदाचिन्नीचमार्गे कदाचिदुच्चमार्गे च प्रवेशं सूचयितुं विश इति विशेषणम् । तानपि स्वदत्तफलभोगदशायामपि स्वर्गनरकभूम्याख्यलोकत्रय एव चोष्कूयते प्रवर्तयति । चुक्प्रवर्तन इति धातोः । लिङ्गदेहभङ्गात्पूर्वं स्वर्गनरकादौ प्रवर्तनस्य शुभाशुभकर्मभ्यां शुभजीवेष्वपि सम्भवादेषां फलतया विशिष्योक्तिर्न घटते । अतो लिङ्गभङ्गोत्तरकालीनमेवेदं प्रवर्तनम् । भगवद्भक्तिद्वेषनिमित्तकफलकथन एतषामपिमिश्रद्वेषभक्तिपरिपाक-निमित्तफलस्यैव कथनीयत्वाच्च । स्वयोग्यसाधनसम्पत्तावपि सुखदुःखानु-भवात्मकसंसारस्यैव फलतया स्थिरीकरणेन पूर्वोक्तफलद्वयाद्वैजात्यसूचनाय क्रियान्तरम् । संसाररूपफलविवादाभावान्नात्र श्रुत्यादेस्सूचनं च । अत्राप्यु-भयस्योभयस्वभावभरितस्य जीवजातस्य राजेति ग्राह्यम् । अत्र पूर्ववन्नियम-सूचकवीप्साभावादेतेषामपि फलनियमसूचनाय बहुवचनम् । पूर्वेषां पूर्वोक्ता-सुराणां सख्या स्वप्रीतिसाधनयजनाध्ययनादिशुभकर्माणि परावृणक्ति विष्णु-वैष्णवद्रोहादिकं कारयित्वा च्छिनत्ति । वृवचूछेदन इति धातोः । अनेन महतापि प्रयत्नेनाधमानां नोर्ध्वगतिरिति सूचयति । वितर्तुराणो विशेषेण त्वरमाणः । दययैव त्वरा । न पुनराशया नापि क्लेशावहेति सूचनाय छान्दसप्रयोगः । अपरेभिर्देवैस्सख्यान्येति । अनेन योग्यानां कल्यादिकृतविघ्नैर्न कदापि स्वर्गफलप्राप्तौ प्रतिबन्ध इति सूचयति । असुराणां दमनयोग्यस्थानस्य प्रागनुक्तत्वात्तत्सूचनायानानुभूतीरवधून्वान इत्युक्तम् । न विद्यतेऽनुभूति-र्भगवदनुभवो यासां ता अनानुभूतयः ताः राक्षसततीरवाऽधस्ताद्धून्वानः पातयन्नित्यर्थः । भीषणताडनादिना मध्ये मार्गमपि भयेनाङ्गपरिकम्पनायान्तर-भक्तमपि बहिर्भीत्या स्वचरणं स्वभटचरणं जिघृक्षंतमपि तं बलान्मोचयतीति सूचनाय धून्वान इत्युक्तम् ।
अधोगतियोग्यदुर्विषयानुभवस्य देवतान्तरानुभवस्य च तेष्वेव पूर्णतया निषेधायोगेन निषिध्यमानोऽनुभवः परिशेषाद्भगवदनुभव एव । योग्यजीवेष्वपि प्रमादादिना कादाचित्काननुभवसम्भवादयोग्येष्वेव सार्वकालीनाननुभवसूचनाय संहितायां स्वरदैर्घ्यम् । इन्द्रः परमात्मा । पूर्वीरनादिकालमारभ्य वर्तमाना-श्शरदस्संवत्सरांस्तर्तरीति । एवमेवातिशयेन तरति । पूर्वीरित्युक्त्या तर्तरीतीति लटा च तरणे सर्वदाप्यप्रतिहतत्वरूपातिशयार्थकयङ्लुङन्तप्रयोगेण च कालत्रयेऽप्यस्य नियमस्य न भङ्ग इति सूचयति । इममेवार्थं सङ्क्षेपतो दर्शयन् श्रुतितात्पर्यमाह ।। यो वाग्धून्वन्दुराशयादित्यन्तेन ग्रन्थेन ।। अपरैर्देवैः ।। २२३–२२५ ।।
सत्यप्रमोदटीका
श्रुत्यन्तरेण जीवानाम् अनादियोग्यतां त्रैविध्यं, तदनुसारेण फलं, परमात्मनस्तत एवावैषम्यं इत्यादिकं साधयति असुरा-नित्यादिभिः । ‘शृृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । एधमान-द्विुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् । परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति । उभयलिङ्गाधिकरणे एतदर्थसङ्ग्राहकं भाष्यं ‘असुरान् दमयन् विष्णुः स्वपदं च सुरान्नयन् । पुनः पुनर्मनुष्यांस्तु सृतावावर्तयत्यसौ इति भविष्यत्पर्वणि’ इति । एवं अनुव्याख्याने ‘अनादियोग्यतां चैव कलिवाणीश्वरावधिम् । को निवार-यितुं शक्तो युक्त्यागमबलोद्धतामि’ति ।
श्रुतिद्वयस्यार्थःन्यायसुधायां विवृतः । ‘वीरः’ अध्यवसितान्तगामी । इन्द्रः परमेश्वरः । उग्रमुग्रं सर्वान् दुष्टप्रकृतीन् । दमयन् नित्यनरकं प्रापयन् । अन्यमन्यं सर्वान् सत्स्वभावान् । अतिनेनीयमानः संसारं भृशमतिक्रामयन् । स्वयोग्यतातिरेकेणैधमानं द्वेष्टीत्येधमानद्विट् । शृण्वे श्रूयते । कुतः उभयस्य देवासुरवर्गस्य राजा यतः । किञ्च मनुष्यान् विशः प्रजाः चोष्कूयते नित्यं परिवर्तयति’ । परा पूर्वेषाम् अतीतमन्त्रे पूर्वेषां पूर्वनिर्दिष्टानामुग्राणां सख्या सख्यानि परावृणक्ति परित्यजति । अपरेभिः अपरैः साधुभिः सह सख्यानि वितर्तुराणः अतिशयेन त्वरमाणः एति । अनानुभूतीः सम्यगनुभवरहितान् अवधून्वानः अवमे संसारे वर्तयन् । इन्द्रः पूर्वीः शरदः अतीतसंवत्सरान् तीर्णः वर्तमानांश्च तर्तरीति । आगामिनश्च तरिष्यतीति ।। अत्र मन्त्रद्वयेन सुराणामनादितो भगवद्भजनाभावः नित्यनरकप्राप्तिश्च श्रूयते । देवानां सदा भगवद्भजनमोक्षावाप्तिश्च मनुष्याणां सदा संसार’ इति । एतत्सुधाऽनुरोधेन मन्त्रद्वयं व्याख्याति एतीति श्रुतिप्रतीकग्रहणम् । व्यथेति दमायन्नित्युक्तेः । तदुक्तं भाष्ये ‘असुरा आसुरेणैव स्वभावेन च कर्मणा । ज्ञानेन विपरीतेन तमो यान्ति विनिश्चयादि’ति । प्रयत्नच्छेद इति एधमानद्विडित्युक्तेः । तदुक्तं भाष्ये ‘अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयोग्यस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकाङ्क्षायां पतनमनुमीयते’ इति ।
नियम इति । तदुक्तं सूत्रे ‘तद्भूतस्य तु तद्भावः’ इति तद्भाष्ये च ‘नासुरा दैवीं न देवा आसुरीं न मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव जाति-मनुभवन्तीति नियमश्रुतेरि’ति ।। २२४–२२६ ।।
युक्तिमल्लिका
लोकप्राप्तिश्च येषां न तेषामैक्ये तु का कथा ।
राजोभयस्य स किल नोन्नीतैरप्यभेदवान् ।। २२६ ।।
सुरोत्तमटीका
येषामधमानां मध्यमानां च । सः परमात्मा । उन्नीतै-र्वैकुण्ठगमनायोर्ध्वं नीतैरप्यभेदवान्न ।। २२६ ।।
युक्तिमल्लिका
एधमानद्विडित्युक्त्या स्वात्मसाम्यं सहेत न ।
तस्माद्ब्रह्मत्वमेतेषां दुरापमिति मे मतिः ।
ईषद्वृद्धिं च यो द्वेष्टि स किं दद्यान्महोन्नतिम् ।। २२७ ।।
अतः श्रुतिसती भावसिद्धश्रीशानुभाववित् ।
तद्भावं भावयेन्नैव योऽवाग्धून्वन्दुराशयात् ।। २२८ ।।
सुरोत्तमटीका
महोन्नतिमैक्यघटनाय स्वसमोन्नतिम् ।। २२७,२२८ ।।
सत्यप्रमोदटीका
महोन्नतिमिति । ‘स्वकीयमिच्छमानं तु राजानो घातयन्ति हि’ इति भाष्योक्तेः ।। नैवेति ‘न देवपदमन्विच्छेत्कुत एव हरेर्गुणान्’ इति भाष्योक्तेः ।। २२७,२२८ ।।
युक्तिमल्लिका
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् ।
तान् दस्यून् विधुनोम्यज्ञ पूर्वस्माच्च पदादधः ।
इति भागवतोक्त्या च श्रुत्या चैतत्समर्थय ।। २२९ ।।
सुरोत्तमटीका
पुनरपि स्मृत्या श्रुत्या च सर्वमोक्षाभावं साधयति ।। आरुरुक्षन्तीति ।। ऊर्ध्वपदवीमारोढुमिच्छन्ति । मायाभिर्मायामेव स्फुटीकृत्य प्रवृत्तशास्त्रैरित्यर्थः । उत्सिसृप्सन्ति ऊर्ध्वं गन्तुमिच्छन्ति । दिवं स्वर्गं मोक्षं च । पूर्वस्मात्पदात्पूर्वं विद्यमानपातालादिस्थानात् । इदं च बलिं प्रतीन्द्रवाक्यम् । श्रुत्या मायाभिरुत्सिसृप्सत इन्द्रद्यामारुरुक्षतः । अवदस्यूरधूनुथा इतीन्द्रं प्रति वेदद्रष्टृऋषिणोक्तश्रुत्या । सानुस्वारद्वितीयाबहुवचनान्तोपरिस्थितरेफस्य पदकाले नकारत्वमिति वेदे नियमाद्दस्यूनधूनुथा इति पदच्छेदः । ‘‘धूञ् परिकंपन’’ इति धातोर्लिङ््यात्मनेपदमध्यमपुरुषैकवचनमिदम् ।। २२९ ।।
सत्यप्रमोदटीका
भागवतोक्त्या मायाभिर्जिगीषन्तं बलिं प्रतीन्द्र-वचनेन । आधिकारिकनये भाष्योक्ता मूलश्रुतिः ‘मायाभिरुत्सिसृप्सतः इन्द्र द्यामारुरुक्षतः । अव दस्यूरधूनुथा’ इति । अस्यार्थः टीकोक्तः ‘हे परमेश्वर त्वं कुविद्याभिरुत्तमत्वं प्राप्तुमिच्छतः स्वर्गमारोढुं चेच्छतो दस्यूनन्धेतमस्य-वाक्षिपः’ इति । दस्यून् अधूनुथा इति पदच्छेदः ।। २२९ ।।
युक्तिमल्लिका
असुराणामूर्ध्वलोकाप्राप्तिस्तमसि च स्थितिः ।
नियता श्रूयते सर्वमोक्षो दुर्वच एव तत् ।। २३० ।।
सुरोत्तमटीका
तत्तस्मात् । एवं च श्रुत्यैव सरसं दैत्यानामधोगति-निरूपणात्तेषामूर्ध्वगतिप्रतिपादकस्मृतिवाक्यानां ‘‘विरोधे त्वनपेक्षमि’’ति न्यायेनान्यार्थ एव वक्तव्य इत्यप्यनुसन्धेयम् ।। २३० ।।
सत्यप्रमोदटीका
सर्वमोक्षः ‘द्वेषाच्चैद्यादयो नृपाः’ इति भागवत-वचनादापाततः प्रतीयमानः । दुर्वचः उक्तनिरवकाशश्रुतिस्मृतिविरोधादिति भावः । ‘द्वेषं परित्यज्य’ इत्यादिप्रकारान्तरेण व्याख्येय इति भावः।। २३० ।।
युक्तिमल्लिका
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ।। २३१ ।।
सुरोत्तमटीका
गीतावाक्येनापि दैत्यानामधोगतिनियमं समर्थयते ।। मामात्मेति ।। आत्मपरदेहेषु भगवतो द्वेषो नाम उच्चस्य तस्य नीचस्वपरैक्य-भावनैव । तर्जनताडनादेस्तत्तज्जीवद्वेषत्वसम्भवेऽपि भगवद्द्वेषत्वायोगात् ।। २३१ ।।
युक्तिमल्लिका
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।। २३२ ।।
सुरोत्तमटीका
वीप्सयैवकारद्वयेन नियमोऽपि द्रष्टव्यः ।। २३२ ।।
युक्तिमल्लिका
इति कृष्णोऽपि गीतायामसुराणामधोगतिम् ।
स्वाप्राप्तौ नियमं चाह द्वेषिणां यत्पदे पदे ।
अतः पूर्वोक्तवाक्यार्थे समाख्येयं बलीयसी ।। २३३ ।।
सुरोत्तमटीका
यद्यस्मादियं गीतोक्ता बलीयसी स्पष्टत्वान्निरवकाश-त्वाच्च प्रबला ।। २३३ ।।
सत्यप्रमोदटीका
‘मामात्मेत्यनेनासुरस्वभावानामन्धतमसावाप्ति-पर्यवसानमभिधीयते’ इति सुधामनुरुध्यार्थमाह नियममिति । द्वेषिणाम् ऐक्यमनुसन्दधताम् ।। २३३ ।।
युक्तिमल्लिका
क्वाचित्कद्वेषिमोक्षोक्तिरपि भक्तान् जयादिकान् ।
शापादिना तथाभूतानुद्दिश्यैवेति शंसति ।। २३४ ।।
सुरोत्तमटीका
जयादिकान् आदिपदेन विजयचित्रकेतुभृगूर्वश्यादीनां सङ्ग्रहः । तथाभूतानासुरयोनिषु भूतान् ।। २३४ ।।
सत्यप्रमोदटीका
भक्तानिति यथोक्तं भागवततात्पर्ये । ‘अतो यद्य-सुरावेशात्कृतमेतेन दुष्कृतम् । अनादिभक्तो यस्मान्मे मोचयिष्ये ततस्त्वह-मि’ति ।। २३४ ।।
युक्तिमल्लिका
यद्वाङ्निरवकाशेयं तस्याश्चोक्तैव तद्गतिः ।। २३५ ।।
सुरोत्तमटीका
यद्यस्मात्तत्तस्मात्सावकाशादपि निरवकाशस्य प्रबल-त्वात् ।। २३५ ।।
सत्यप्रमोदटीका
इयम् उक्तानेकश्रुतिस्मृतिरूपा । निरवकाशा उपलक्षणम् । बहुत्ववती च । तदुक्तमनुव्याख्याने ‘वाक्यं श्रुतिविरोधेन स्व-विरोधेन चाञ्जसा । बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकमि’ति ।। २३५ ।।