किं चाज्ञानस्य विज्ञानमहमित्येव देहिनाम्

अज्ञानस्य ब्रह्माश्रितत्व भङ्गः

युक्तिमल्लिका

किं चाज्ञानस्य विज्ञानमहमित्येव देहिनाम् ।

आशा ब्रह्माश्रिताज्ञाने पश्य किं केन सङ्गतम् ।। ७३ ।।

सुरोत्तमटीका

 प्रकारान्तरेणाप्यज्ञानवादं दूषयति ।। किञ्चेति ।। अहमित्यज्ञानस्य विज्ञानं देहिनामेवेति सम्बन्धः । अहमज्ञो मामन्यं च न जानामीति वदन्तो लौकिका एव पुरुषाः । नत्वलौकिकस्सर्वज्ञो भगवा-नप्येवमाह । अतः प्रत्यक्षं जीवेष्वेवाज्ञानं साधयति । ब्रह्माश्रिताज्ञाने परस्याशा अहमज्ञ इति प्रत्यक्षाद्ब्रह्मण्यज्ञानं सिद्ध्यतीत्यभिसन्धिः । तथा च प्रमाणमन्यत्र प्रमेयमन्यत्रेत्यसङ्गतिरेव । अतो ब्रह्मैव स्वाज्ञानवशात्संसर-तीत्यादि प्रमेयमप्यसङ्गतमेवेति भावः ।। ७३ ।।

सत्यप्रमोदटीका

 आरोपासम्भवात्परमतेऽज्ञानं निराकृत्य, आश्रया-सम्भवादपि तन्निराकरोति किञ्चेत्यादिभिः । तथा हि । अज्ञानं खल्वाश्रय-सद्भावेन व्याप्तम् । आश्रयश्च ब्रह्म वा जीवो वा वक्तव्यः । तत्र न ताव-द्ब्रह्माश्रयः सम्भवति । प्रमाणाभावात् । न च वाच्यं अहमज्ञः इति प्रत्यक्षमेव तत्र प्रमाणमिति । यतः अत्राहमर्थो जीव एव ।

अहमित्येव यो वेद्यो स जीव इति कीर्तितः ।

 स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोरि’ति

तत्वनिर्णयोदाहृतपरमश्रुतेः । तथा च जीवाश्रिताज्ञानसाधकस्यैतस्य प्रत्यक्षस्य ब्रह्माश्रिताज्ञानसाधनायोपन्यासोऽसङ्गत एवेत्याह किमिति ।। ७३ ।।

युक्तिमल्लिका

ऐक्यात्तदेव चेद्ब्राह्ममन्योन्याश्रयता तदा ।। ७४ ।।

सुरोत्तमटीका

 ऐक्याज्जीवब्रह्मणोरैक्यात्तदेव जीवाज्ञानप्रत्यक्षमेव ब्राह्मं ब्रह्मसम्बन्धि ब्रह्माज्ञानप्रत्यक्षं चेदिति सम्बन्धः । तदाऽन्योन्याश्रयता स्यादित्यर्थः ।। ७४ ।।

सत्यप्रमोदटीका

 ननु ब्रह्मैवाज्ञानवशाज्जीवभावमापद्यते । अतस्त-योरैक्यान्नासङ्गतिरिति चेदज्ञानसिद्ध्युत्तरकालीनैषा कल्पना । अन्यथाऽ-न्योन्याश्रयापत्तेरित्याह ऐक्यादिति ।। ७४,७५ ।।

युक्तिमल्लिका

ऐक्यसिद्धौ भवेदज्ञं ब्रह्म तस्याज्ञतावशात् ।

जीवभावे भवेदैक्यं ततोऽन्योन्याश्रयो न किम् ।। ७५ ।।

सुरोत्तमटीका

 तामेव दर्शयति । ऐक्यसिद्धौ जीवब्रह्मणोरैक्यसिद्धौ ब्रह्मजीवाज्ञानप्रत्यक्षात् स्वयमप्यज्ञमज्ञानाधिकरणं भवेत् । तस्य ब्रह्मणः अज्ञतावशात् जीवभावे जीवत्वे जाते सति ऐक्यं जीवैक्यं भवेत् । परमते ब्रह्मणोऽज्ञानवशाज्जीवभावे जातेहि जीवैक्यम् । अनेनाज्ञानाकल्पित-स्स्वाभाविको जीवश्चेत्कथं तेनैक्यं सम्भाव्येतापीति सूचितम् । तथा च ब्रह्मण्ज्ञाने सिद्धे तस्योपजीव्यैक्यसिद्धिः । जीवैक्ये सिद्धे जीवाज्ञानप्रत्यक्षमेव ब्रह्म न प्रत्यक्षमिति तस्मिन्ब्रह्मण्यज्ञानसिद्धिरित्यन्योन्याश्रय इति भावः । वस्तुतस्तु नेदं मायावादिनां मतम् । तैर्व्यावहारिकभेदेन तत्तद्व्यवहारासंकर-स्यैवाङ्गीकारात् अन्यथा जीवाज्ञानमतं ब्रह्माज्ञानमतमिति मतद्वैविध्यमेव न सिद्ध्येत् । उपाधेः प्रतिबिम्बपक्षपातित्वं वदता तेन बिम्बधर्माः प्रतिबिम्बे आनेतुं शक्यन्ते न तु प्रतिबिम्बधर्मो बिम्बे । नहि प्रतिमुखमालिन्यं मुखेऽपि व्यवह्रियते । अतो जैवव्यवहारस्य ब्रह्मण्यानयनं स्वमतविरुद्धमित्यपि द्रष्टव्यम् । वक्ष्यति चैतद्ग्रन्थकारस्स्वयमेव ।। ७५ ।।

युक्तिमल्लिका

तान्यहं वेद सर्वाणीत्युक्तया कृष्णस्य सर्वदा ।

अस्ति सर्वज्ञताध्यक्षं न त्वज्ञानापरोक्षधीः ।

मनसा ध्यातमेवार्थं वदेद्वाचा किलाखिलः ।। ७६ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि जैवप्रत्यक्षं न ब्रह्मणि नेतुं शक्यत इति साहित्यमुद्रयोपपादयति ।। तान्यहमित्यादिना ।। उक्त्या गीतोक्त्या । सर्वज्ञ-ताध्यक्षं सर्वज्ञोऽहमिति प्रत्यक्षम् । अज्ञानापरोक्षधीः अज्ञोऽहमित्यपरोक्षधीः न त्विति योजना । सर्वज्ञत्वासर्वज्ञत्वाभ्यां विरुद्धधर्माभ्यां व्यावहारिकभेद-मङ्गीकुर्वन्परोऽपि इदमङ्गीकरोत्येव । उपपादनं तु युक्तिवैभवादिति द्रष्टव्यम् । अखिलो जनः मनसा ध्यातमपरोक्षीकृतं वाचा वदेत् । किलेत्यनेन यद्धि मनसा ध्यायति तद्वाचा वदतीति श्रुतिं सूचयति । वाचा वदतो मानसोऽनु-भवः कथं ज्ञात इत्याशङ्कापरिहारार्थमिदम् ।। ७६ ।।

सत्यप्रमोदटीका

 किञ्चेश्वरस्य सर्वज्ञत्वं तत्प्रत्यक्षेणैव सिद्धम् । अतो न तत्राज्ञानं शक्यकल्पनं इत्याह तान्यहमिति । वेद इति क्रियासातत्ये लट् तेन सर्वदेत्युपपन्नम् । ननु परचित्तवृत्तेरप्रत्यक्षत्वात्कथमस्माकं तत्प्रत्यक्षसिद्धिरित्यत आह उक्त्येति । वचनलिङ्गकानुमानेनेत्यर्थः । ईश्वरः सार्वज्ञप्रत्यक्षवान् । तद्व्यवहर्तृत्वात् इति प्रयोगो ध्येयः । न चाप्रयोजकतेत्याह मनसेति । यद्यपि व्यवहारेण व्यवहर्तव्यज्ञानमात्रं सिध्यति । न तु तस्य प्रत्यक्षात्मकत्वमपि । तथाऽपीश्वरज्ञानस्य स्वरूपेन्द्रियैरभिव्यज्यमानत्वस्य प्रमितत्वेन प्रत्यक्षात्म-कत्वमेव सिध्द्यति । यद्यपि ईश्वरस्य मुक्तानां च प्रमा शब्दादिभिरप्यभि-व्यज्यते । अन्यथा तान् प्रति शब्दव्यवहारवैकल्यं स्यात् । तथाऽपि न तेषां स्वातन्त्र्येणाभिव्यञ्जकता । किन्तु स्वरूपज्ञानाभिव्यञ्जकस्वरूपेन्द्रिय-सहकारितैव । अत्र विस्तरोऽभिनवताण्डवे ‘स्वमते प्रत्यक्षप्रमानिरूपण’ भङ्गे । तदेतदभिप्रेत्योक्तं अध्यक्षमिति ।। ७६ ।।

युक्तिमल्लिका

अतस्सर्वज्ञताध्यक्षहर्यक्षस्य गुहामिमाम् ।

अज्ञानाध्यक्षहरिणी जैवी नैव विविक्षति ।। ७७ ।।

सुरोत्तमटीका

 अतः भगवतः सार्वज्ञप्रत्यक्षसिद्धेः सर्वज्ञता प्रत्यक्षाख्य-हर्यक्षस्य सिंहस्य गुहां भगवद्धृदयगुहां जैवी जीवसम्बन्धिनी अज्ञानप्रत्यक्ष-मृगी । विविक्षति प्रेवष्टुमिच्छति । यथा सिंहगुहां हरिणी प्रवेष्टुं न शक्नुते तथा निरवद्यभगवत्प्रत्यक्षेण सर्वज्ञतया सिद्धे भगवन्मनसि अज्ञोऽहमिति जीवप्रत्यक्षं नाज्ञानमाधातुं शक्नुत इति भावः । बलात्केनचिन्नीता चेत् प्रबलप्रत्यक्षबाधिता अप्रामाण्याख्यमरणं हरिणीव प्राप्नुयादिति भावः ।। ७७ ।।

सत्यप्रमोदटीका

 ‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चने’ति भगव-त्पादोक्तिमनुरुध्योपसंहरति अत इति । सर्वज्ञताऽध्यक्षस्य स्वप्रत्यक्षसिद्ध-सार्वज्ञाश्रयस्य ब्रह्मणः इति यावत् । हर्यक्षस्य नृसिंहस्य भगवतः । गुहां स्वरूपम् । अज्ञताऽध्यक्षहरिणी जीवप्रत्यक्षसिद्धा हरिणीवन्नीचे जीवे स्थिताऽज्ञता इति यावत् । न विविक्षति न सम्बध्नाति । तदुक्तं न्यायामृते

सर्वं हि यो विजानाति तस्य कुत्रापि नाज्ञता ।।

 न हि यो यद्विजानीते स तत्राज्ञानवान्भवेत्’ इति ।। ७७ ।।

युक्तिमल्लिका

प्रत्यक्षमेषयोर्युद्धे तच्चैक्यं जम्बुकायते ।

तस्माद्ब्रह्माश्रिताज्ञानप्रत्यक्षं मरणेऽपि न ।। ७८ ।।

सुरोत्तमटीका

 प्रत्यक्षमेषयोस्सर्वज्ञत्वासर्वज्ञत्वविषयकप्रत्यक्षमेषयोः । मेषयोरित्युक्त्योभयोरपि प्रत्यक्षयोस्स्वस्वविषये स्वार्थसाधनसामर्थ्यं सूचयति । हरिणीति परसदननिविष्टः को लघुत्वं न यातीति न्यायेन भगवद्गुहाप्रवेशभीरु-त्वादेवोक्तम् । नतु स्वविषयेऽप्यसामर्थ्यादिति भावः । तयोर्युद्धे ब्रह्मण्यज्ञान-मानेतुं न मुञ्चामि जीवे सार्वज्ञमानेतुं न मुञ्चामीति परस्परकलहे । प्रबल-प्रत्यक्षद्वयसिद्धसार्वज्ञासार्वज्ञरूपविरुद्धधर्माक्रान्तयोरिति फलितोऽर्थः । ऐक्यं त्वयोच्यमानजीवब्रह्मैक्यं जम्बुकायते जम्बुकवदाचरति । यथामेषयोश्शिर-स्ताडनसमये रक्ताशया तन्मध्ये पतितः जम्बुको म्रियते तथा विरुद्धप्रत्यक्ष सिद्धसार्वज्ञासार्वज्ञाख्यव्यावर्तकधर्मप्रतिहतमैक्यं च तयोरुभयोर्मुण्डने सति जीवामीत्यागतं स्वयमेव नश्येदित्यर्थः । प्रमाणसिद्धभेदयोरैक्यस्यैवायोगादन्य-प्रत्यक्षस्यान्यत्राकर्षणं दुश्शकमिति हृदयम् । उपसंहरति ।। तस्मादिति ।। मरणेऽपि न मरणपर्यन्तं शास्त्रपर्यालोचने कृतेऽपि न साधितुं न शक्यत इत्यर्थः ।। ७८ ।।

सत्यप्रमोदटीका

 प्रत्यक्षे मेषाविव तयोः । युद्धे सहानवस्थानलक्षण-विरोधे । एकाश्रयैकविषयकज्ञानाज्ञानयोर्विरोधादित्याशयः । तत् विरुद्ध-धर्मत्यागेन त्वयाऽऽशास्यमानम् । अयं आशयः । ब्रह्मणः प्रत्यक्षं तत्सार्वज्ञं गोचरयति । जीवस्य प्रत्यक्षं तु जीवस्यैवाज्ञानं आलम्बते । ततश्चैतयोर्भिन्न-विषयकत्वात् विरोध एव नास्ति । त्वया तु मायिना अविद्यमानमेव सर्वज्ञताऽज्ञतयोरेकाधिकरणत्वं प्रकल्प्य ततः विशिष्टैक्ये विरोधशङ्कामुत्थाप्य भागत्यागलक्षणया उभे प्रत्यक्षे अप्रमाणीकृत्य चिदैक्यं आशास्यते । यथा जम्बुकः सुहृदोर्मेषयोर्मिथो युद्धमुत्पाद्य तन्मरणे सति तद्रुधिरपानमाशास्ते तद्वत् । वस्तुतः भृत्यः अज्ञो जीवः स्वामिना सर्वज्ञेन ब्रह्मणा ऐक्यचिन्तन-लक्षणं विरोधं नैव विदधाति । येन भागत्यागलक्षणावसरः । किं नाम ‘द्वा सुपर्णा सयुजा सखायौ’ इति श्रुतिसिद्धसख्येनैव तमनुवर्तते । सुहृदोर्मेषयो-र्युद्धस्यैवाभावे कुहकगोमायोर्यथा न दुराशापूर्तिस्तथा मायिगोमायोस्तवापि न ऐक्यदुर्मनोरथसिद्धिरिति ।। मरणेऽपि नेति । तवेति शेषः । विरुद्धधर्मयोर्या-वद्धर्मिभाविनोस्तत्तत्स्वरूपत्वेन कस्यामप्यवस्थायां न सम्भवति । तदुक्तं भगवत्पादैः ‘घटते न कुतश्चने’ति ।। ७८ ।।

युक्तिमल्लिका

प्रत्यक्षेणाज्ञतासिद्धौ ब्रह्मणो ज्ञानरूपिणः ।

अविद्यादुर्घटत्वेन घटना स्यात्कथञ्चन ।। ७९ ।।

सुरोत्तमटीका

 ज्ञानरूपे ब्रह्मणि कथमज्ञानं घटत इति शङ्कापरिहाराय दुर्घटत्वमविद्याया भूषणं न तु दूषणमिति यत्परेणोक्तं तदपि निर्मूलमित्याह ।। प्रत्यक्षेणेति ।। ज्ञानरूपिणो ब्रह्मणः अज्ञतासिद्धौ अज्ञानसिद्धौ सत्याम् अविद्यादुर्घटत्वेन घटना ज्ञानाज्ञानयोरेकत्रावस्थासंपादनम् ।। ७९ ।।

सत्यप्रमोदटीका

 ननु, यदुक्तं ‘अखिलसंवेत्तुरज्ञता न घटत’ इति तदयुक्तम् । अविद्यावशादेव दुर्घटस्यापि घटनोपपत्तेः । ‘अन्योन्याश्रयादीनां चाविद्याया भूषणत्वोपगमात् । तदुक्तं अविद्याया अविद्यात्वमिदमेवात्र लक्षणम् । यद्विचारासहिष्णुत्वं अन्यथा वस्तु सा भवेदि’ति । अनवस्थाऽऽदि-दूषणानां तत्स्वरूपोपपादकत्वेन तदपलापकत्वायोगादिति । मैवम् । स्यादप्येतदेवं यदि अविद्यास्वरूपमेव सिद्धं भवेत् । तदेव न सम्भवति आश्रयानुपपत्तेरित्युच्यमानत्वात् । स्वरूपस्यैवासिद्धौ दुर्घटघटनास्वभाव-कल्पनमनवसरदुःस्थमित्याह प्रत्यक्षेणेत्यादिना ।। ७९ ।।

युक्तिमल्लिका

तदसिद्धौ श्रौतसार्वज्ञस्यैवानुभवे सति ।

उपयन्तुरभावात्ते कुमारीभूषणं वृथा ।। ८० ।।

सुरोत्तमटीका

 अज्ञोऽहमिति प्रत्यक्षेण भगवति तस्याज्ञानस्यासिद्धौ प्रत्युत श्रौतस्य सर्वज्ञ इति श्रुतिसिद्धस्य । श्रौतस्येत्युपलक्षणम् । तान्यहं वेदसर्वाणि सर्वदृगुपद्रष्टेत्यादि स्मृतिसिद्धस्येत्यपि ग्राह्यम् । सार्वज्ञस्यानुभवे एव सति । एवपदेनाज्ञानानुभवं व्यावर्तयति । उपयन्तुः अविद्यामङ्गीकुर्वत इति यावत् । ज्ञानरूपे भगवति अज्ञानप्रवेशेहि दुर्घटत्वादिना भूषणं कर्तव्यम् । तस्यैवाभावादिति भावः । जीवेऽविद्यायास्त्वयैवानङ्गीकारात् । ब्रह्मणि च त्वदुक्तप्रत्यक्षस्याभावेन प्रवेशयितुमशक्यत्वात् उपयन्तुरभावादित्युक्तम् । ते तवाभिमताविद्याख्यकुमारीभूषणं दुर्घटघटकत्वाख्यकर्णभूषणं वृथा । अविद्याया दुर्घटघटकत्वशक्तिकल्पनं व्यर्थमेवेति भावः ।। ८० ।।

सत्यप्रमोदटीका

 अज्ञोऽहमिति जैवं प्रत्यक्षं न ब्रह्मणि अज्ञता-माधातुमलं व्यधिकरणत्वादिति समर्थितम् । किं तत इत्यत आह श्रौतेति । उपलक्षणं स्मार्तेत्यपि ग्राह्यम् । अनुभव एवेति सम्बन्धः । तेनाज्ञानानु-भवव्यवच्छेदः । उपयन्तुः वोढुः । अविद्यापक्षे आश्रयस्य । अभावादिति । आश्रयो भवन् जडो वा जीवो वा ब्रह्म वा भवेत् । नाद्यौ त्वयाऽनङ्गीकारात् । न तृतीयः दूषितत्वात् । तथा च यावद्विशेषाभावात्सामान्याभावः इति भावः । अभावादित्यनुवर्तते । अविद्याया इति शेषः । ततश्चाश्रयस्याभावाद्धेतोरविद्याया अप्यभावादसम्भवात् । कुमार्याः आश्रयरूपभर्तृरहिताया अविद्याया भूषणं अनवस्थित्यादिदूषणानां भूषणत्वमङ्गीकृत्योपपादनप्रयासः वृथा त्वत्समीहितैक्य- सिद्धये नावकल्पते । ते इत्यनेन स्वमते तु जीवाश्रितं अज्ञानमित्यङ्गीकारान्न कोऽपि दोष इति ध्वनयति । तदुक्तं ‘स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेदि’ति ।। ८० ।।

युक्तिमल्लिका

मायां व्युदस्य चिच्छक्त्येत्युक्तिश्वश्रूः क्षणे क्षणे ।

उदूढामपि तां कन्यां हन्यादेवेति मे मतिः ।। ८१ ।।

सुरोत्तमटीका

 उदूढां स्वरूपज्ञानस्याज्ञानाविरोधित्वमित्याद्यनृतवचनेन विवाहितां बलात्प्रवेशितामिति यावत् । यथा शूद्रीपरिणयनं ब्राह्मणस्य नोचितमिति न्यायं पामरब्राह्मणविषयं कृत्वा वैदिके ब्राह्मणे न दोष इति दत्तां शूद्रीमिव तां कन्याम् । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनीति भागवतोक्त्याख्यश्वश्रूः । एतादृशकुयुक्तिभिरज्ञानाख्यपङ्के निमज्जितस्य भगवतः तस्मादज्ञानादुद्धृत्य सर्वज्ञतया पुनः प्रसवात् श्वश्रूरित्युक्तम् । वरप्रसवित्रीहि श्वश्रूरित्युच्यते । चिच्छक्त्या मायां व्युदस्येति स्वरूपज्ञानशक्त्यैव मायानिर्हरण-सामर्थ्यस्य प्रतिपादकत्वात् क्षणेक्षणे तव कन्यामविद्यां हन्यात् । एतद्वचन-बलात्स्वरूपज्ञानस्यैवाज्ञान विरोधित्वकथनात् मायावाद्युक्तानृतवाचा प्रवेशिता-मपि तां परमात्मनो गृहादेव बहिष्कुर्यादिति भावः । न यत्र मायेति वैकुण्ठा-देरपि तयैव बहिष्कृतत्वात् । क्षणे क्षणे इत्यनेन न यत्र श्रूयते माया विलज्जमायेत्यादि वाक्यानि सूचयति ।। ८१ ।।

सत्यप्रमोदटीका

 स्यादेतत् । अज्ञानं चिदाश्रितमित्यङ्गीक्रियते । स्वरूपज्ञानस्य चितोऽज्ञानाविरोधित्वान्नानुपपत्तिरिति । मैवम् । यतः त्वदङ्गीकार एव प्रमाणविरूद्धत्वादनुपपन्न इत्याह मायामिति । इदं च भागवतवचनम् । ‘कैवल्ये स्थित आत्मनी’ति वाक्यशेषः । अत्र च वाक्ये केवलस्य वृत्त्यसहकृतस्यैव स्वरूपज्ञानस्य चिच्छक्त्या मायाशब्दिताज्ञान-व्युदासो वर्ण्यते । अतः स्वत एवाज्ञानविरोधिन्याः चितो न अज्ञानाश्रयत्वं इति । इयं चोक्तिरुपलक्षणम् ।

न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते’

इत्याद्युक्तयोऽपि ग्राह्याः । श्वश्रूः ‘जनितोत विष्णोरि’त्यस्य सन्न्याय-रत्नावलीव्याख्यानोक्तरीत्या परमात्मनः सार्वस्वरूपस्य प्रादुर्भावयितृत्वात् जनित्री । क्षणे क्षणे प्रतिपदम् । उदूढामपीत्यपिपदेन उद्वाहशब्दितं सम्बन्धं गर्हयति । एवेत्येतत्कन्यामित्यनेनापि सम्बध्यते । कन्यामेव न कदापि उदूढाम् । उपयन्तुराश्रयस्याभावादित्युक्तम् । हन्यात् आश्रयाभावोपपादनमुखेन तत्सत्तां निराकुर्यात् ।। ८१ ।।

युक्तिमल्लिका

स्वानर्हालङ्कृतिं तस्यास्सहेत कथमैश्वरीम् ।

नापि जीवस्य योग्येयमन्योन्याश्रयदोषतः ।। ८२ ।।

सुरोत्तमटीका

 स्वानर्हालंकृतिं अविद्यातोऽपि विद्यारूपतया प्रबलाया-स्स्वस्या अप्यनर्हां दुर्घटघटकत्वाख्यालङ्कृतिम् । ऐश्वरीं कर्तुमकर्तुमन्यथाकर्तुं समर्थस्येश्वरस्यैव योग्यां तस्या अविद्यायाः कथं सहेत । ईश्वरादन्यत्र दुर्घट-घटकत्वं श्रुतिर्न सहत इति भावः । प्रमाणाभावात्प्रबलप्रत्यक्षविरुद्धत्वाच्च ब्रह्मण्यज्ञानं निराकृत्य परमते जीवेऽप्यज्ञानं न घटत इत्याह ।। नापीति

।। ८२ ।।

सत्यप्रमोदटीका

 स्वेति स्वस्याः अविद्यायाः । अनर्हां अङ्गीकर्तुं अशक्याम् । अलङ्कृतिं प्रमितस्य सर्वस्य घटनायां शक्तिम् । तस्याः दुर्घटैक-स्वभावत्वेन पराभ्युपगतायाः । कस्य तर्हि साऽर्हा इत्यत आह ऐश्वरीमिति । यद्वा स्वस्याः केवलायाः ईश्वरशक्त्यननुगृहीतायाः श्रुतेरपि । अनर्हां घटयितु-मशक्याम् । अलङ्कृतिं अणुत्वमहत्त्वादीनां ईश्वरनिष्ठानां समावेशोपपादन-शक्तिम् । कस्य तर्हि सा शक्तिरत आह ऐश्वरीमिति । तदुक्तं गुणसौरभे

प्रमाणदृष्टघटना कार्या सैव यथामति ।

 न शक्यते चेत्सर्वेशाचिन्त्यशक्त्यैव सेत्स्यती’ति ।।

वाचस्पत्यभिमतजीवाश्रिताज्ञानपक्षनिराक्रियामुपक्रमते नापीति ।। ८२ ।।