पक्वो वातापिदेहोऽपि भिक्षोश्शाकादिरूपतः

तत्र भोग्यान्नपायसादीनां नित्यत्वम्

युक्तिमल्लिका

पक्वो वातापिदेहोऽपि भिक्षोश्शाकादिरूपतः ।

रक्षःशक्त्या यथापूर्वं लक्ष्यते तत्क्षणे किल ।। ४२४ ।।

सुरोत्तमटीका

 वैकुण्ठान्तःपुरस्थमुक्तभोग्यान्नपायसादीनां नित्यत्वमुप-पादयति ।। पक्व इति ।। भिक्षोर्भिक्षार्थमागतस्य भोजनार्थे रक्षश्शक्त्या पक्वी-भूतस्य पाचकस्य राक्षसस्य शक्त्या तत्क्षणे वातापे आगच्छेतील्वलोक्तिक्षणे । किलेत्यनेन इल्वलाख्यो ज्येष्ठोऽसुरस्स्वतपस्सामर्थ्येन स्वकर्मनिष्ठस्य वातापेः करचरणाद्यङ्गं सर्वं छित्वा नानाशाकादिरूपपाकं च कृत्वा स्वगृहं प्रत्यागता-नतिथीन्भोजयति । तदनन्तरमरे वातापे आगच्छेत्याह्वाने कृते सति तदुदरं निर्भिद्य तत्तद्भुक्तमांसैरेव पूर्ववत्सम्पन्नाकारस्सन्यथापूर्वं स्वज्येष्ठसमीपे तिष्ठति । पुनस्तेषां सर्वभूतशरीरस्थमांसं स्वयं भक्षयति । अनेन प्रकारेण दिने दिने बहुब्राह्मणवधे कृते सति कुपितोऽगस्त्यमुनिरागत्य पूर्वातिथिवदेव भुक्त्वा पुनराह्वाने जीर्णो वातापिरिति स्वोदरे संस्तभ्य तं तत्रैव मारितवानिति पौराणिकप्रसिद्धिं सूचयति ।। ४२४ ।।

सत्यप्रमोदटीका

 मुक्तैर्निरन्तरं भुज्यमानानामपि पायसादीनां नैव क्षयः किन्तु यथापूर्वमेवावस्थानं भगवतोऽचिन्त्यशक्त्येत्यत्र कैमुत्यन्यायमाह पक्व इति । भगवद्दत्तसामर्थ्येन वातापिरपि राक्षसः भुक्तोऽपि भोक्तृणां शरीरस्थ-मांसादिना पुनः पूर्ववद्देहवान् भूत्वा निष्क्रमणाय क्षमो यदा तदा भगवदनु-ग्रहातिशयभाजनानाम् अत एव सत्यसङ्कल्पानां मुक्तानां तथाविधा शक्तिरिति किं वाच्यमिति भावः । अत्र स्कन्धपुराणोक्ता कथाऽनुसन्धेया ।। ४२४ ।।

युक्तिमल्लिका

अतो मौक्तं समस्तं च वस्तु भुक्तं च तैः पुनः ।

तथैव तिष्ठेत्तन्नित्यं स्याच्चाजं लिङ्गदेहवत् ।। ४२५ ।।

सुरोत्तमटीका

 अतश्छिन्नभुक्तदेहस्य यथापूर्वमवस्थानदर्शनात् । अजं जननरहितम् ।। ४२५ ।।

सत्यप्रमोदटीका

 जन्मराहित्यमात्रे दृष्टान्तो लिङ्गदेहवदिति ।।४२५।।

युक्तिमल्लिका

सर्वस्सर्वेशशक्त्यैव श्रुत्युक्तार्थः समर्थ्यते ।

अन्यैरघटितं योऽसौ घटयेदणुगो महान् ।। ४२६ ।।

सुरोत्तमटीका

 यः परमात्मा अणुगः परमाणौ स्थितः । महांस्तत्रापि ब्रह्माण्डाधारविग्रहवान् । अल्पकासुरशक्त्या नष्टस्य पुनरुत्थानेऽघटितघटक-भगवच्छक्त्या मौक्तपदार्थानामनाद्यनन्तत्वं भोज्यत्वादिकं च सुतरां घटयितुं शक्यमिति भावः ।। ४२६ ।।

सत्यप्रमोदटीका

 घटयेदिति । तदुक्तं सुधायां ‘नन्वीश्वरशक्तिरपि कथम् । यावत् प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः’ इति ।। ४२६ ।।