जरतीभिः कारुरहमश्वो वोढेति वाक्त्रयम्
सोमसूक्तेन मुक्तिस्वरूपनिर्धारणम्
युक्तिमल्लिका
जरतीभिः कारुरहमश्वो वोढेति वाक्त्रयम् ।
वक्ति वैकुण्ठिमाहात्म्यं तच्च किञ्चिद्विवृण्महे ।। ९४२ ।।
सुरोत्तमटीका
विष्णुलोकाख्यमुक्तेः मुक्तनानाजात्याक्रान्तत्वादि-माहात्म्यं तत्प्रापकमुख्यप्राणमाहात्म्यं प्राप्यभगवन्माहात्म्य च विस्तरेण प्रतिपादयतो मुमुक्षूणां देवर्ष्यादीनां प्रार्थनारूपस्य अत एवाद्यापि मुमूर्षूणां कर्णेजप्यमानस्य नानानमित्यादिवर्गचतुष्टयात्मकसोमसूक्तस्यार्थकथनार्थं जरतीभिरित्यादिरुत्तरो ग्रन्थसन्दर्भः । तत्र मन्दानामपि सुबोधाय वर्गस्थ-वाक्यान्युद्धृत्य तदर्थः कथ्यते ।।
नानानं वा उनो धियो विव्रतानि जनानाम् ।
तक्षारिष्टं रुतं भिषग्ब्रह्मासुन्वन्तमिच्छतीन्द्रायेन्दोपरिस्रव ।। १ ।।
जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् ।
कर्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दोपरिस्रव ।। २ ।।
कारुरहन्ततो भिषगुपलप्रक्षिणीनना ।
नानाधियोवसूयवोनुगा इव तस्थिमेन्द्रायेन्दोपरिस्रव ।। ३ ।।
अश्वो वोह्ला सुखं रथं हसनामुपमन्त्रिणः ।
शेपोरोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दोपरिस्रव ।। ४-१ ।।
शर्यणावतिसोममिन्द्रःपिबतु वृत्रहा ।
बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दोपरिस्रव ।। ५ ।।
आपवस्व विशांपत आर्जीकात्सोममीढ्वः ।
ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दोपरिस्रव ।। ६ ।।
पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् ।
तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दोपरिस्रव ।। ७ ।।
ऋतं वदन्नृतद्युम्नसत्यं वदन्त्सत्यकर्मन् ।
श्रद्धां वदन्त्सोमराजन्धात्रा सोमपरिष्कृत इन्द्रायेन्दोपरिस्रव ।। ८ ।।
सत्यमुग्रस्य बृहतः संस्रवन्ति संस्रवाः ।
संयन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दोपरिस्रव ।।९-२।।
यत्र ब्रह्मा पवमानच्छन्दस्या३वाचं वदन् ।
ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दोपरिस्रव ।। १० ।।
यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् ।
तस्मिन्मान्धे हि पवमानामृते लोके अक्षित इन्द्रायेन्दोपरिस्रव ।। ११ ।।
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ।। १२ ।।
यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।
लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ।। १३ ।।
यत्र कामानि कामाश्च यत्र ब्रध्नस्य विष्टपम् ।
स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ।। १४ ।।
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ।।१५-३।।
य इन्दोःपवमानस्यानुधामान्यक्रमीत् ।
तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दोपरिस्रव ।। १६ ।।
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः ।
सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दोपरिस्रव ।। १७ ।।
सप्तदिशो नानासूर्याः सप्तहोतार ऋत्विजः ।
देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न इन्द्रायेन्दोपरिस्रव ।। १८ ।।
यत्ते राजञ्छृतं हविस्तनसोमाभिरक्षनः ।
अरातीवामानस्तारीन्मोचनः किञ्चनाममदिन्द्रायेन्दोपरिस्रव ।। १९-४ ।।
यत्र तत्परमं पदं विष्णोर्लोके महीयते ।
देवैः सुकृतकर्मभिस्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ।। २० ।।
अयं वर्गचतुष्टयार्थः । हे इन्दो इन्दुनामकपवमान यत्र विष्णुलोके नः अस्माकं जनानाम् अस्मज्जातीयानां पूर्वमुक्तनानाविधजीवानां धियः बुद्धेः नानानं नाना नानाविधम् अनम् अननम् । ऋचां त्वः पोषमास्ते स तत्र पर्येतीत्यादि वाक्यानुसारेण ऋक् पाठसामगानपुराणपठनहरिध्यानं परितो गमनादिचेष्टा अस्ति उ एव । वै प्रसिद्धम् । यत्र मुक्तौ नः जनानां वि विविधानि आनन्दोद्रेकेण क्रियमाणत्वाद्विशिष्टानि च व्रतानि यज्ञदीक्षितादि-व्रतानि सन्ति उ सन्त्येव । अस्यार्थस्य श्रुतिपुराणादौ प्रसिद्धि द्योतनार्थम् अत एवावधारणार्थं चेदमव्ययद्वयम् । यत्र मुक्तौ तक्षा मुक्तकारुः रिष्टं मुक्तिस्थानस्थचिन्मयवृक्षपक्षिपक्षादिभ्यो लीलया पतितं वंशशररत्नादिखण्डं गरुडादिखण्डं च मुक्तानां लीलोचितरत्नमयकार्मुकादि करणाय इच्छति । भिषक् मुक्तवैद्यः तेषामेव खण्डानां स्वस्वस्थाने कदाचित्पुनः सन्धानाय रुतं लीलया क्रियमाणसन्धानकरणमन्त्रस्वरं इच्छति । अत एव कारुभिष-ग्व्यापारयोः सहैव ग्रहणम् । यत्र ब्रह्मा यज्ञशालास्थितो ब्रह्मा सुन्वन्तं सोमाभिषवणं कुर्वन्तं ऋत्विजं इच्छति । अत्रापि पुनर्लतापोषणाय भिषज उपयोगाद्देहलीदीपन्यायेन मध्ये तस्य ग्रहणम् । तत्र इन्द्राय परमैश्वर्यसंपन्नाय । अत एव सकलमुक्तानामीशाय परमात्मने तत्सेवार्थमित्यर्थः । मां परिस्रव परितः प्रापय । तपि भगवान् मुक्तानामिन्द्र एव न तु मुक्ताभिन्न इति सूचनाय इन्द्रपदम् । तत्सेवार्थमेव मम तत्र प्रापणं न तु केवलं भोगार्थमिति सूचनाय चतुर्थी । प्रेरणमात्रेण नाहं गन्तुं शक्तः । किन्तु त्वया सहैव गन्तव्यमिति सूचनाय परिस्रवेति प्रयोगश्चेति द्रष्टव्यम् ।। १ ।।
अप्रसिद्धत्वादुत्वादुत्तरार्धप्रमेयं पुनरपि विशदयति ।। जरतीभिरिति ।। यत्र मुक्तौ जरतीभिः अनाद्यनन्तकालमारभ्य बहुवर्षजीवित्वाज्जरतीभिः वृद्धाभिः ओषधीभिः फलपाकान्तवंशशरादिभिः । शकुनानां पक्षिणां पर्णेभिः पत्रैः द्युभिः कान्तिमद्भिः अश्मभिः रत्नैः सह कार्मारः कारुः हिरण्यवन्तं मध्ये मध्ये पुंखादौ च सुवर्णखचितालङ्कारवन्तं चापं रथं शरादिकं च इच्छति कर्तुमिच्छति । तत्र मां परिस्रवेति तु पूर्ववदेव ।। २ ।।
ननु मुक्तौ कार्मारादयः कथं सन्तीत्यत आह ।। कारुरिति ।। यत्र मुक्तौ अहं मुक्त्यनन्तरमपि कारुः कारुत्वजात्याक्रान्त एवास्मीति त्वष्टुर्वचनमिदम् । भिषक् अश्विन्यादिदेवसमूहो भिषक् वैद्यजात्याक्रान्त एवास्ति । उपलप्रक्षिणी लीलार्थं पट्टणे पट्टणालङ्कारेऽपि युक्तपदार्थानामवश्यमपेक्षितत्वाच्चोपलक्षेपणोप-युक्तयन्त्रविशेषः । नाना चापविशेषदारुतंत्वादिरूपेण नानाप्रकाराऽस्ति । यत्र नानाधियः जीवानां तत्रापि परस्परं भिन्नत्वाद्भिन्नबुद्धियुक्ताः जीवेश्वरभेदे बुद्धिमन्तो वा । वसूयवः वसवः । परवस्तु नारायणं सदा युञ्जन्तीति वसूयवो मुक्ता वा वयं सर्वे अनुगा इव हरेरनुगमनशीला इवातस्थिम आवर्तेमहि । मध्ये उपविष्टं नारायणं परिवारतया सेवमानानां सर्वदा अनुगमनाभावात् भूमा-ववतारसमयेऽपि तस्यानुगमनाभावादनुगा इवेत्युक्तम् । यथा प्रभोरनुगन्तारोऽपि तदाज्ञाधारिणः तथा वयमपि तदाज्ञाधारिण इत्यत्र तात्पर्यम् । तत्र मामित्यादि पूर्ववत् ।। ३ ।।
यत्र मुक्तौ अश्वः सुखं यथा भवति तथा रथं वोह्वा वोढा प्रापयिता । स्त्रीभिर्वा यानैर्वेति वचनात् । लसद्विमानावलिभिर्नभस्वतामिति भागवतोक्त्या च मुक्तानां रथस्थतया गमनसद्भावात् रथस्य चाश्वेनैव नेतव्यत्वात् मुक्तोऽश्वः मुक्तानां इन्द्रादीनां रथम् आनन्दोद्रेकेणैव नयति । दुःखलेशमात्रमपि तस्य नास्तीति भावेन सुखमित्युक्तम् । शेपः शेपौ स्थूलाण्डवन्तौ अर्श आदिभ्य इति सूत्रात् । ज्ञानानन्दमयत्वेनातिमण्डलत्वात्फकारस्य पकारः । रोमण्वन्तौ सर्वाङ्गेषु रोमवन्तौ । भेदौ भिन्दत इति व्युत्पत्त्या परस्परं शिरस्ताडनं कुर्वन्तौ मेषौ । उपमन्त्रिणः हरेः समीपे सेवायोग्यप्रधानपुरुषस्य ब्रह्मेन्द्रादेर्मुक्तसमूहस्य हसनां हासं सुखं सुखेनैव वोढारौ प्रापयितारौ । यथा संसारे ब्रह्मसभाया-मिन्द्रसभायां च कदाचित्तयोः परिहासदशायां तत्तल्लोकस्थौ ज्ञानिभूतमेषौ युद्धं कुरुतः तथा मुक्तावप्यानन्दोद्रेकेणैव युद्धं कृत्वा तयोर्हासं जनयत इति भावः । इत् इत्थं मुक्तावपि कारुभिषगोषध्यश्वमेषादीनां स्वस्वाजात्युचितलीलावत् मण्डूकः वाः उदकम् इच्छति, यानस्थानामागमनसमये तीरस्थो मण्डूकः उदकं प्रवेष्टुमिच्छतीति भावः । तत्र मामित्यादि पूर्ववत् ।। ४–१ ।।
यत्र मुक्तौ आत्मनि बलं दधानः महद्वीर्यं करिष्यन् वृत्रहा इन्द्रः अस्येन्द्रस्य मुक्तेर्भावित्वात्करिष्यन्निति भाविप्रयोगः । शर्यणावति, शीर्यते सोमरसोऽनयेति व्युत्पत्त्या शर्यणा सोमरससाधकदशापटी । तद्वति पात्रे स्थितं सोमं सोमरसं मुक्तैर्लीलया क्रियमाणयज्ञेपिबतु । पास्यतीति यावत् । व्यत्ययो बहुलमिति वचनात् । तत्र मामित्यादिपूर्ववत् ।। ५ ।।
दिशांपते हे सोम सोमाभिमानित्वात्सोमपदवाच्य पवमान आर्जीकात् सोमरसार्जकात् । ऋत्विजः रसस्रवणार्थं सोमलतां पेषयतः ऋत्विज इत्यर्थः । सुतः अभिमन्यमानलताद्वारा अभिस्रवणमभितः स्रवणं प्राप्तः । अत एव मीढ्वः रससेचनशीलस्त्वं मुक्तावपि मन्दवायुरूपेण रससूक्ष्मांशं संगृह्य दिशि दिशि स्थितमुक्तान् प्रति सेचनशीलो वा । अत एव दिशां दिशिदि-शिस्थितमुक्तानां पत इत्युक्तम् । ऋतवाकेन यथार्थज्ञानसूक्तेन सत्येन ज्ञानपूर्वककर्मणा । ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विकाकृतिरिति वचनात् । श्रद्धया तपसा च सह आसमन्तात् पवस्व पवनं कुरु । पवनं करिष्यसीति यावत् । मुक्तिस्थमन्दानिलं प्रेरयन् मुक्तिस्थाने सर्वत्र मुक्तब्रह्मरूपेण सञ्चरिष्यसि । मुक्तावप्यन्तः प्राकाराद्बहिः तत्रस्थ जीवन्मुक्तान् आनन्दयन् वायुरूपेण यत्र मुक्तौ सञ्चरति स एनान् ब्रह्म गमयतीति श्रुतेः । तत्र मामित्यादिपूर्ववत् ।। पवमानस्य माहात्म्यकथनमिदम् ।। ६ ।।
सूर्यस्य दुहिता यमुना । पर्जन्यवृद्धं पर्जन्यः वृद्धो येनेति व्युत्पत्त्या जलदानेन पर्जन्याभिवृद्धिकरं तं संसारे स्वपतित्वेन वृतं वरुणम् । यत्र मुक्तौ महिषं पतिम् । आ सम्यक् अभरत् बिभृतवती । गन्धर्वाः अर्वागन्धर्वोऽश्व इत्यभिधानात् । संसारे वरुणाधीनतया स्थिता यागयोग्याश्वाः तं वरुणं यत्र मुक्तौ प्रत्यगृह्णन् स्वामित्वेन गृहीतवन्तः । मुक्तावपि तदधीनतयैव स्थिता इति भावः । तं संसारे सोमरसाभिमानिवरुणम् । यत्र मुक्तौ सोमे मुक्तसोमल-तायाम् । रसं रसस्वामित्वाद्रसशब्दवाच्यम् आदधुः कृतवन्तः । तत्रेत्यादि पूर्ववत् ।। ७ ।।
हे ऋतद्युम्न ऋतं यथार्थज्ञानमेव द्युम्नं द्रविणं यस्य तत्सम्बुद्धिः हे ऋतद्युम्न । सत्यकर्मन् सत्यानां यथार्थज्ञानपूर्वकयागादिक्रियाणां कर्म यस्य तत्संबुद्धिः । राजन् मुक्तानामधिपते हे सोम सोमाभिमानित्वात्सोमपदवाच्य वायो त्वं यत्र मुक्तौ । सोम मुक्तौ विद्यमानचिन्मयसोमरसाभिमानित्वात्सोमपदवाच्य । त्वं ऋतं वदन् सत्यं वदन् श्रद्धां वदन् धात्रा ब्रह्मरूपेण परिष्कृतः अलङ्कृत-स्तिष्ठसि । वायोः मुक्तौ ब्रह्मरूपेणैवावस्थानस्य शास्त्रसिद्धत्वादिदमुक्तम् । तत्रेत्यादि पूर्ववत् ।। ८ ।।
हे हरे विशेषसन्निधानवत्त्वाद्धरिशब्दवाच्य पवमान उग्रस्य शत्रूणां भयङ्करस्य । बृहतः अधिकारिषु सर्वोत्तमस्य यस्य तव आज्ञया संस्रवाः सम्यक् स्रवणशीला नद्यः संस्रवन्ति सम्यग्वहन्ति । रसाः मधुरादिरसाः रसिनः रसवतः पदार्थान् संयन्ति प्राप्नुवन्ति । स त्वं यत्र मुक्तौ ब्रह्मणा ब्रह्मरूपेण पुनानः पावयंस्तिष्ठसि । सत्यं इदं वचनमयमर्थार्थं न । तत्रेत्यादिपूर्ववत् ।। ९ ।।
हे पवमान यत्र मुक्तौ छन्दस्यां छन्दः सम्बन्धिनीं वाचं वदन् ब्रह्मा ग्राव्णा सोमलतापेषणोपयुक्ताश्मना । स्रुतेन सोमेन सोमरसेन आनन्दं सोमरसपातॄणामिन्द्रादीनां स्वरूपानन्दं जनयन् प्रादुर्भावयन् । सोमे सोमलता प्रधानत्वात्सोमशब्दवाच्ये यज्ञे महीयते सर्वैः पूज्यते तत्रेत्यादिपूर्ववत् ।।१०।।
यत्र मुक्तौ अजस्रं सर्वदा ज्योतिस्तिष्ठति । वैकुण्ठलोकप्रकाशस्य लक्ष्मी-स्वरूपत्वेनानाद्यनन्तत्वद्योतनायाजस्रमित्युक्तम् । यस्मिन् लोके वैकुण्ठलोके स्वः सुखं हितं निहितम् । हे पवमान अमृते न विद्यते मृतं मरणं यत्रेत्य-मृतशब्दवाच्ये । अक्षिते अनाद्यनन्तकालेऽपि क्षयरहिते । तत्रत्यजनानां मरणाभावद्योतनायाद्यं विशेषणम् । लोकस्यैव स्वरूपतो नाशाभावद्योतनाय द्वितीयमिति विवेकः । तस्मिन् लोके । यद्यपीदं लोकपदं सामान्यपदम् तथापि परिशिष्टे विष्णोर्लोक इति स्पष्टोक्तेः तत्रापि वैकुण्ठस्यैव वाचकम् । मान्धेहि निक्षिप । त्वं च इन्द्राय इन्द्रमुद्दिश्य । परिस्रव अस्मदादिमुक्तानादाय परितो गच्छ । मान्धेहीति पृथगुक्तेरस्मिन्वाक्ये यथास्थितैव योजना ।। ११ ।।
यत्र वैकुण्ठलोके वैवस्वतः यमः । राजा प्रजारञ्जक एव न भीषकः । तत्रत्यप्रजानां मृत्युभयरहितत्वादिति भावः । यत्र वैकुण्ठलोके दिवः स्वर्गस्य अवरोधनं अन्तःपुरस्त्रीजनः अस्ति । यत्र यह्वन्तीः परितो गच्छन्त्यः । अमूः आपः अभिमानिदेवताः सन्ति तत्र मां अमृतं मुक्तं कृधि कुरु । त्वं चेन्द्राय परिस्रव ।। १२ ।।
त्रिनाके दुःखरहितत्वान्नाकशब्दवाच्यवैकुण्ठानन्तासनश्वेतद्वीपाख्य लोकत्रयवत्त्वात् त्रिनाकशब्दवाच्ये । त्रिदिवे त्रयः दिवः सदा प्रकाशमान-सूर्येन्द्वग्न्याख्याः यत्रेति व्युत्पत्त्या त्रिदिवशब्दवाच्ये । यत्र मुक्तौ दिवः ज्योतीरूपमुक्तसमूहस्य अनुकामम् इच्छानुसारेण चरणं सञ्चरणम् अस्ति । यत्र मुक्तौ ज्योतिष्मन्तःलोकाः त्रिनाकपदेन सूचिताः सन्ति । तत्रेत्यादि पूर्ववत् ।। १३ ।।
यत्र मुक्तौ कामाः स्वयोग्यविषयेच्छाः । निकामाः नितरां काम्यन्त इति निकामा विषयाश्च सन्ति । अन्यथा सत्यसङ्कल्पत्वाभावप्रसङ्गात् । यत्र मुक्तौ ब्रध्नस्य सूर्यस्य विष्टपं स्थानम् । यत्र मुक्तौ स्वधा च स्वधाशब्दवाच्यपितृपत्नी चशब्देन स्वाहाशब्दवाच्याग्निपत्नी च । तृप्तिश्चास्ति । तत्रेत्यादि पूर्ववत्
।। १४ ।।
यत्र मुक्तौ भगवतो मध्यदक्षिणपक्षवामपक्षशिरोरूपाः तत्प्रतिबिम्ब-भूतजीवानां पञ्चावयवरूपाश्च । आनन्दाः मोदाः मुदः प्रमुदश्च । आप्ताः भगवतो निरवधिकसंपूर्णाः । अन्येषां यथायोग्यं संपूर्णाः आसते । यत्र कामस्य इच्छायाः कामाः काम्याः विषयाश्च आप्ताः आसते । पूर्वोक्तविषय-निरपेक्षसुखचतुष्टयात् पञ्चमस्य विषयाभिव्यंग्यप्रियनामक सुखस्य व्यञ्जक-विषयसापेक्षतया विजातीयत्वात्पार्थक्यकथनम् । तत्रेत्यादिपूर्ववत् ।।१५–३।।
हे सोम पवमान यः परमात्मा इन्दोः पवमानस्य ते तव अनुधामानि अनुकूलस्थानानि अक्रमीत् आक्रम्य तस्थौ । देहेऽपि यत्र पवनोऽत्रेत्यादि-नोक्तस्य यत्र यत्र मुख्यप्राणस्तिष्ठति तत्र तत्र हरिरपि तिष्ठतीति नियमस्य प्रामाणिकत्वसूचनायेदमुदितम् । यश्च ते मनः अविध्यत् । मनोन्तःसर्वदा तिष्ठतीत्यर्थः । तं सुप्रजाः उत्तमजीवाः इति मदुक्तप्रकारेण आहुः । न केवलमिदं महिमद्वयं मयैव कथ्यते । किन्तु इममेव महिमानं सर्वेऽपि सज्जना वदन्तीति भावः । तस्मै इन्द्राय मां परिस्रव ।। १६ ।।
ननु सोमसूक्तेऽस्मिन्कथं मुख्यप्राणस्य प्रार्थनमित्यतः स एव मुख्यतः सोमलताभिमानित्वान्मुख्यः सोमः । चन्द्रस्त्ववान्तराभिमानित्वादमुख्यसोम इति प्रतिपादयन् सोमयागादिनिवृत्तिकर्मसाध्यं मोक्षं मुख्यप्राणं प्रति प्रार्थयते ।। ऋष इति ।। मन्त्रकृताम् ऋष्यादीनां स्तोमैः नमस्य नमसो योग्य नमस्कार्येत्यर्थः । कश्यप कात् परमात्मनः प्राप्यस्य शंपदवाच्यसुखस्य योग्याः कश्याः मुक्तियोग्याः । तान्पातीति कश्यपऋषे सर्वज्ञ पवमानप्रायपाठविरोधेन ऋष्यन्तरस्यात्राग्राह्यत्वादुक्त एवार्थः । गिरः वेदपुराणादिवाचः । उद्वर्धयन् अपव्याख्याप्रत्याख्यानेन यथास्थितार्थकथनेन च वर्धयन् वीरुधां सोमलतानां पतिः मुख्यस्वामी यो भवान् राजानं चन्द्रं सोमं सोमलताया अवान्तराभि-मानित्वात्सोमपदवाच्यम् । जज्ञे जनयामास । मुख्यसोमस्य मुख्यप्राणस्य चन्द्रेप्वष्टरूपेण सहजननमस्तीति सूचनाय जज्ञ इत्युक्तम् । हे इन्दो स त्वं इन्द्राय मां परिस्रवति योजना ।। १७ ।।
यत्र मुक्तौ दिशः दिगभिमानिदेवाः सप्त सन्ति । कल्पे कल्पे मुक्ताः एकादशसङ्ख्याकाः नानासूर्याश्च सन्ति । होतारः अग्निष्टोमादि प्रधानभूतसप्त-क्रतुषु होतारः सप्त सन्ति । आदित्याः इन्द्रस्यैवाज्ञया अदित्या पुत्रत्वेन वृताः देवाः सप्त तेषु प्रधानका इति वचनात् मरुद्गणेषु प्रधानभूताः प्रवहाद्याः ये सप्त मरुतश्चसन्ति । हे इन्दो सोम नः इन्द्राय परिस्रव । तेभिः सह अभिरक्ष । अस्मानपि भगवत्समीपं प्रापयित्वा तेषां पुञ्जे प्रवेश्य रक्षेति भावः ।। १८ ।।
हे राजन्सोम यद्यस्मात्ते तव त्वामुद्दिश्येत्यर्थः । हविः शृृतं पक्वं कृतम् । तेन कारणेन नः अभिरक्ष । अरातिवा अरातिं शत्रुं वायति कंपयतीति अरातिवाः । वोविधूनने इति सूत्रात् वाजनं कंपनम् । रातिं रक्षणं वापयति प्रापयतीति अरातिवा । वा गतिगन्धनयोरिति धातोः । आममत् आमं चक्र-कृततापरहितं पुरुषं मथ्नातीति आममत् । अतप्ततनूर्नतदामो अश्नुत इति श्रुतेः । यः परमात्मा नः अस्मान् मातारीत् अतारीत् । अतिक्रम्य गतवान् । यश्च परमात्मा नः अस्माकम् । मो मा किं न भवति किम् । भवत्येव अस्माकं स्वामीति यावत् । यश्च परमात्मा नो अस्माकं मते किञ्चन जगत् मो मा न भवति । सकलजगद्भिन्न इति वा । नो इति वत् मो इत्यपि निषेधार्थक-मव्ययमस्ति । अतः श्रुतिरुभयथाप्यवददिति ज्ञातव्यम् । हे इन्दो पवमान तस्मै इन्द्राय नः परिस्रवेति सम्बन्धः ।। १९–४ ।।
यत्र विष्णोर्लोके तत् विष्ण्वाख्यं परमं उत्तमं पदं पद्यत इति व्युत्पत्त्या सकलमुक्तगम्यं वस्तु सुकृतकर्मभिः सुष्टुकृतयज्ञादिकर्मभिः देवैः महीयते । हे इन्दो तत्र माममृतं कृधि । इन्द्राय परिस्रव ।। २० ।।
इममेवार्थं ग्रन्थगौरवभयाल्लेशतो दर्शयामीति भावेनोक्तम् ।। तच्च किञ्चिद्विवृण्मह इति ।। ९४२ ।।
युक्तिमल्लिका
कार्मारः कारुजातीयो यत्र मुक्तौ हरेः पुरि ।
जरतीभिः प्रवृद्धाभिरोषधीभिश्चिदात्मभिः ।। ९४३ ।।
वंशादिभिर्ध्वजं चापं बाणवेणुरथादिकम् ।
क्रीडायै रचितं दिव्यं शकुनानां पतत्रिणाम् ।। ९४४ ।।
पर्णैः पत्रैः शिखण्डाद्यैर्द्युभिर्द्योतनकारिभिः ।
अश्मभिश्चित्ररत्नैश्च चित्रितं पुनरिच्छति ।
हिरण्यवन्तं कर्तुं च तत्र माममृतं कृधि ।। ९४५ ।।
सत्यप्रमोदटीका
मुक्तिस्वरूपनिरूपणपरं सोमसूक्तं लेशतो व्याख्याति जरतीभिरित्यादिना । ‘जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् । कार्मा-रोऽश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परिस्रव’ इति वाक्यं व्याचष्टे कार्मार इति । जरतीभिः प्रवृद्धाभिः चिद्रूपत्वात् शाश्वतीभिः । पुनरिच्छति इति । ‘स्वेच्छया करोति न वा । बन्धप्रत्यवाययोरभावात्’ इति भाष्यात्
।। ९४१–९४५ ।।
युक्तिमल्लिका
प्रायपाठबलादत्राप्येतद्वाक्यं किलोह्यते ।
परिस्रव स्रावयेन्दो तत्र मामिति वा भवेत् ।। ९४६ ।।
सुरोत्तमटीका
तद्वाक्यं तत्र माममृतं कृधीति वाक्यम् । यथास्थित-पदयोजनापि घटत इत्याह ।। परिस्रवेति ।। ९४६–९५० ।।
सत्यप्रमोदटीका
‘तत्र माममृतं कृधि’ इति मुमुक्षोर्वायुं प्रति प्रार्थनं सर्वत्रोह्यम् इत्याह प्रायपाठादिति । यद्वा ‘इन्द्रायेन्दो परिस्रव’ इति यथास्थितं योजना । इन्दो पवमान, इन्द्राय परमैश्वर्यशालिनः परमात्मनो नित्यसेवार्थं परि तमुद्दिश्य मां स्रव स्रावय प्रापय इत्यर्थोऽग्रे व्यक्तः । (श्लो.९५९) ।। ९४६ ।।
युक्तिमल्लिका
यत्र कारुरहं त्वष्टा यत्रास्ते जातितो भिषक् ।
यत्रोपलक्षेपणी च न नानानाविधः किल ।। ९४७ ।।
नानाधियस्तारतम्यबुद्धयो वसवोऽखिलाः ।
विचित्रवसुयुक्ता वा मुक्ताः सर्वेऽनुगा इव ।। ९४८ ।।
वयं तस्थिमकृष्णस्य तत्र माममृतं कृधि ।
अवतारेऽनुगमनाभावात्सर्वेऽनुगा इव ।। ९४९ ।।
सत्यप्रमोदटीका
‘कारुरहं ततो भिषगुपलप्रक्षिणीनना । नानाधियो वसूयवोऽनुगा इव तस्थिमेन्द्रायेन्दो परिस्रवे’ति वाक्यं व्याख्याति यत्रेति । मुक्तावपि इदानीमिव कारुकर्मणैव त्वां परिचरिष्यामि इति त्वष्टृप्रार्थनम् । ‘त्वष्टारं रूपाणि विचिन्वन्तं’ इति तत्स्वाभाव्यात् । एवं भिषगहं इति अश्विनौ । तथा तत्तद्देवाः । उपलक्षेपणी पट्टणालङ्कारोपयुक्तवस्तुविशेषः । वसवः वसुगणा देवाः । अर्थान्तरमाह विचित्रेति । अनुगा इवेति । परिवारतया सर्वदा मध्ये उपविष्टं नारायणं सेवमानानां सर्वदा अवतार-समयेऽपि अनुगमनाभावात् इवेत्युक्तम् ।। ९४७–९४९ ।।
युक्तिमल्लिका
यत्र विष्णोः समीपस्थसामन्तस्य प्रधानिनः ।
उपमन्त्रिपदोक्तस्य मुक्तशक्रादिरूपिणः ।। ९५० ।।
रथं ज्ञानानन्दमयमश्वो मुक्ततुरङ्गमः ।
सुखं सुखेनैव वोढा पर्यक्प्रापयिता किल ।। ९५१ ।।
सुरोत्तमटीका
ज्ञानानन्दप्रधानं दर्शनाय सुखकरं चेत्यर्थः ।। ९५१ ।।
सत्यप्रमोदटीका
‘अश्वो वोढा सुखं रथं हसनामुपमन्त्रिणः । शेपो रोमण्वन्तौ भेदो वारिन्मण्डूक इच्छतीन्द्रायेन्दो परिस्रव’ इति वाक्यं विवृणुते यत्रेति । सुखं सुखकरम् ।। ९५०, ९५१ ।।
युक्तिमल्लिका
रोमण्वन्तौ रोमवन्तौ मेषौ ज्ञानशरीरिणौ ।
तौ भेदौ पुरतस्तस्य मिथस्ताडनकारिणौ ।। ९५२ ।।
सुरोत्तमटीका
तस्य मेषद्वयस्य ।। ९५२ ।।
सत्यप्रमोदटीका
भेदौ परस्परं परिहासार्थं शिरस्ताडनं कुर्वन्तौ । न तु विरोधेन । तदुक्तं भाष्ये ‘नानाविधा जीवसङ्घा विमुक्तौ न चैव तेषां ब्रह्मधियां विरोधः । दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेरि’ति ।। ९५२ ।।
युक्तिमल्लिका
सुखं सुखेनैव दुःखं वैराद्यं तु न किञ्चन ।
मुक्तत्वात्तस्य शेपोऽण्डं महत्सुखमयं सदा ।। ९५३ ।।
हसनां मन्त्रिणस्तस्य वोढारौ यत्र लीलया ।
यद्भिन्त इति भेदौ च स्यातां भेदनकारिणौ ।। ९५४ ।।
सुरोत्तमटीका
महच्छ्रेयः अखण्डसुखं सुखमयमिति प्राचीनसुख-पदावृत्त्या अर्थान्तरकथनम् । अस्मिन्पक्षे शेषः पदस्य यथास्थितविभक्तिरेवेति गुणः ।। ९५३,९५४ ।।
युक्तिमल्लिका
यदित्थं यत्र मण्डूका वाः सरोवरवारि च ।
इच्छन्ति चित्सुखाकारास्तत्र माममृतं कृधि ।
जात्येकवचनं चेदमेकभेकं सरः क्व तत् ।। ९५५ ।।
सुरोत्तमटीका
यद्यस्मात् ।। ९५५ ।।
सत्यप्रमोदटीका
वारि उदकं प्रवेष्टुमिति शेषः । एतेन मुक्तावपि स्वस्वजातिस्वभावानुवृत्तिः स्वेच्छयेति ज्ञाप्यते ।। ९५५ ।।
युक्तिमल्लिका
एवं नानाविधा मुक्ता यत्र तत्रामृतं कृधि ।
इत्युक्त्या तद्गजीवानां मुक्तत्वं सुतरामभूत् ।। ९५६ ।।
सुरोत्तमटीका
तद्गजीवानां लोकस्थमण्डूकादिजीवानाम् ।। ९५६ ।।
युक्तिमल्लिका
तदुत्तरर्चां चर्चा च किञ्चित्किञ्चिद्विविच्यते ।
अमृते अक्षिते यत्र लोके सुकृतकर्मभिः ।
सुष्ठु चीर्णनिवृत्ताख्यमुक्तिसाधनकर्मभिः ।। ९५७ ।।
देवैर्महीयते विष्णोः परमं तत्पदं सदा ।
तत्रामृतं मां कृधीन्दो पवमानेष्टदायक ।। ९५८ ।।
इन्द्राय परमैश्वर्यसम्पन्नाय परिस्रव ।
परितः स्रावयेन्द्रं तमुद्दिश्य प्रापयाशु माम् ।। ९५९ ।।
णिचोंऽतर्नीतता तस्य सह प्राप्तिविवक्षया ।
इत्यर्थानां मुमुक्षूणां कर्णेऽद्यापि जपन्ति याम् ।। ९६० ।।
सत्यप्रमोदटीका
अमृते इति लोकस्थानां मरणं नास्तीति भावः । अक्षिते इति लोकस्यैव स्वरूपतो नाशाभाव इत्यर्थः । अतो न पुनरुक्तिः । मन्त्रस्थस्य ‘सत्येन’ इति पदस्यार्थः सुकृतकर्मभिरिति । ‘सत्यं यथार्थविज्ञानं सत्यं तत्पूर्विका कृतिरि’ति वचनात् ।। ९५७–९६० ।।
युक्तिमल्लिका
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।। ९६१ ।।
इति श्रुतेः शिरः पाणिद्वयमध्यांघ्रिरूपिणः ।
प्रियमोदप्रमोदानन्दमुदाख्याः सदासते ।। ९६२ ।।
सत्यप्रमोदटीका
यत्रेति मन्त्रवाक्यम् । प्रिया इत्यपि ग्राह्यम् ।। ९६१,९६२ ।।
युक्तिमल्लिका
कामाप्तिव्यक्ततत्सौख्यं यतस्तेषां मनःप्रियम् ।। ९६३ ।।
सुरोत्तमटीका
कामाप्तिव्यक्तं, तत्सौख्यं तेषां मुक्तानां प्रियाख्यं सौख्यं यतस्तेषां मनः प्रियं अतस्तथोच्यते ।। ९६३,९६४ ।।
सत्यप्रमोदटीका
तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ इति उपनिषदनुसारेण व्याख्याति इतीति । अनुव्याख्याने (४-२-१) उदाहृतोऽयं श्लोकः । अत्र सुधा ‘आनन्दादिशब्दाः सुखविशेषाणां वाचकाः कामस्य कामाः इच्छाया विषयाः । आप्ताः पर्याप्ताः । कृधि कुरु इति वायुं प्रति प्रार्थनमि’ति । उपकारजं प्रियम् । प्रकृष्टाप्रकृष्टविषयोत्थौ मोदप्रमोदौ । स्वरूपभूत आनन्दः ।। ९६३ ।।
युक्तिमल्लिका
आनन्दमयरूपस्य हरेः सारूप्यमीयुषः ।
मुक्तांश्च तादृशाकारान्सर्वान्शंसति सा श्रुतिः ।। ९६४ ।।
प्रत्येकं बहुतां यस्मादानन्दादेश्च सा जगौ ।
एवं च तत्सरूपाणां मुक्तानामाकृतेर्बलात् ।। ९६५ ।।
आनन्दमयपादस्य ब्रह्मपुच्छमिति श्रुतिः ।
पूर्णमुद्रूपतामेव प्राह पूर्वसमाख्यया ।। ९६६ ।।
सुरोत्तमटीका
बहुताम् आनन्दाश्च मोदाश्चेत्यादिना बहुताम् । एवम् आनन्दादीनां बाहुल्योक्तिबलेन मुक्तानामप्यत्र ग्राह्यत्वात् । तत्सरूपाणां तस्य विष्णोः समानरूपाणाम् । आकृतेः बलात् युक्तिबलात् । पञ्चानन्दरूपतां जगाविति पूर्वेणान्वयः ।। पूर्णमुद्रूपतां संपूर्णमुदाख्यानन्दविशेषरूपताम् । पूर्वसमाख्यया यजुर्वेदात् पूर्वं विद्यमानऋग्वेदस्थैतद्वाक्यसमाख्यया । तस्मिन्नेव पूर्वोक्तमोदादि सुखसमाख्यया वा ।। ९६५,९६६ ।।
सत्यप्रमोदटीका
तादृशेति तेन मुक्तजीवनिष्ठानां प्रियादीनां भगव-न्निष्ठानन्दविशेषप्रतिबिम्बत्वं ज्ञाप्यते । मुदः इत्यादिना तद्वन्तो मुक्ता उच्यन्ते । तेन तेषां बहुत्वं ज्ञायते इत्याह बहुतामिति । बलात् तदधीनत्वतत्सादृश्य-हेतोः । पूर्वसमाख्यया ऋग्वेदसमाख्यया ।। ९६४-९६६ ।।
युक्तिमल्लिका
प्रियादिपूर्णतां तत्तच्छ्रुतिरेतत्समाख्यया ।
शंसतीत्येव सिद्धोऽर्थो नोचेद्व्यर्थाऽत्र तत्कथा ।। ९६७ ।।
सुरोत्तमटीका
तत्तच्छ्रुतिः तस्य प्रियमेव शिर इत्यादिश्रुतिः । एत-त्समाख्यया ब्रह्म पुच्छमिति श्रुतिसमाख्यया शिरःपाण्यादीनां सुखरूपत्व-सिद्धिः । पादस्य ब्रह्मपदेन पूर्णत्वकथनात् शिरःपाण्यादीनामपि पूर्णत्वसिद्धिः । अन्यथैकरूपस्थपञ्चावयवानां वैरूप्यप्रसङ्ग इति भावः । अत्र मुक्तप्रकरणे । तत्कथा मुदाख्यसुखकथा ।। ९६७ ।।
सत्यप्रमोदटीका
एतत्समाख्यया ब्रह्म पुच्छमिति श्रुतिसमाख्यया । शंसति पादस्य ब्रह्मशब्देन पूर्णत्वकथनात् । नो चेत् बिम्बभूतस्य आनन्द-मयस्य शिरः करमध्यदेहचरणानां आनन्दपरिपूर्णत्वज्ञापनाभिप्रायाभावे । अत्र मुक्तप्रकरणे । तत्कथा मोदादिसुखविशेषशंसनम् ।। ९६७ ।।
युक्तिमल्लिका
यत्स्वाकृत्या मुकुन्दस्य मुक्ता निर्णिन्युराकृतिम् ।
तत्तीर्णसरितोऽप्येते तारकं न विसस्मरुः ।। ९६८ ।।
सुरोत्तमटीका
यद्यस्मात् एते मुक्ताः । तारकं नारायणम् ।। ९६८–८७१ ।।
सत्यप्रमोदटीका
निर्णिन्युः परमात्मा निरवधिकानन्दाकृतिः यथा-योग्यं पूर्णानन्दाकृत्युपेतमुक्तान् प्रति बिम्बभूतत्वात् इति स्वयं हेतूभूय इति भावः । तीर्णसरितः इति ‘इमां घोरामशिवां नदीं तीर्त्वा एतं सेतुमाप्य एतेनैव सेतुना मोदते प्रमोदते आनन्दी भवति’ इति भाष्योक्तेः । तारकस्य ‘ज्ञानिनां मोक्षदश्च सः’ इत्युक्तेः । न विसस्मरुः निरन्तरं स्मरन्ति । स्वभावादेव न तु प्रयोजनापेक्षयेति भावः ।। ९६८ ।।
युक्तिमल्लिका
यत्र ब्रह्मा च मुक्तोऽस्ति यत्र ब्रध्नस्य विष्टपम् ।
मुक्तसूर्यस्य सदनं यत्र वैवस्वतो यमः ।। ९६९ ।।
मुक्तः सन्रञ्जनात्तेषां राजा न तु भयङ्करः ।
दिवोऽवरोधनं यत्र स्वर्गान्तःपुरयोषितः ।। ९७० ।।
मुक्ताः सत्यः स्वर्गिभिस्तैर्मुक्तैः सह किलासते ।
मुक्तब्रह्मादिदेवानामास्थानी किल सा पुरी ।। ९७१ ।।
सत्यप्रमोदटीका
ब्रह्मा समुदायैकवचनम् । मुक्तब्रह्मगणाः । ब्रध्नस्य विष्टपं सूर्यस्यासनम् । यमः रञ्जकः न तु मृत्युप्रदत्वेन भीषकः । अवरोधनम् अन्तःपुरम् ।। ९६९–९७१ ।।
युक्तिमल्लिका
नित्यं यत्र किल ज्योतिः किं वाच्या तस्य नित्यता ।
निर्दुःखत्रिपुरीरूपा सापि नाकाभिधा किल ।। ९७२ ।।
सुरोत्तमटीका
यत्र ज्योतिरजस्रमित्यस्यार्थकथनम् ।। नित्यं यत्र किलेति ।। त्रिनाकपदस्यार्थकथनम् ।।निर्दुःखत्रिपुरीरूपेति ।।९७२ ।।
सत्यप्रमोदटीका
नित्यं लक्ष्मीस्वरूपत्वात् । त्रिपुरीति अनन्तासन-श्वेतद्वीपवैकुण्ठरूपेत्यर्थः । नाकाभिधा ‘ते ह नाकं महिमानः सचन्त’ इति प्रसिद्धा । कं सुखं, अकं दुःखं, तेन सर्वात्मना रहितं इति व्युत्पत्तेः । ‘यन्न दुःखेन संभिन्नम्’ इत्यादितल्लक्षणात् ।। ९७२ ।।
युक्तिमल्लिका
इतोऽन्या याऽदिमुक्तिः स्यात्सैव प्रार्थ्या मुमुक्षुभिः ।
प्रत्यृचं प्रार्थ्यमानेयं महामुक्तिर्न संशयः ।। ९७३ ।।
सुरोत्तमटीका
इतः एतद्वर्गचतुष्टयोक्तभगवल्लोकात् ।। ९७३–९७६ ।।
सत्यप्रमोदटीका
अन्या तमसा मुष्टदृष्टिभिः नानामतसमाश्रयात् कल्प्यमाना निर्विशेषभावादिरूपा ।। ९७३ ।।
युक्तिमल्लिका
एवं च पवमानस्य गुरुत्वे मुक्तिमीयुषाम् ।
बहुत्वे विष्णुसेवित्वे तल्लोकस्य क्षयोज्झितौ ।। ९७४ ।।
तत्प्राप्तेर्मुख्यमोक्षत्वे तत्र जात्यपरिक्षये ।
भेदस्य परमार्थत्वे तद्गानां मृतिवर्जने ।। ९७५ ।।
सत्यप्रमोदटीका
गुरुत्वे इत्यादि सप्तम्यन्तानां निःशङ्को भवेत्युत्तरे-णान्वयः । जात्यपरिक्षये स्वभावजातीनां मेषमण्डूकादीनाम् अवस्थितेः श्रौतत्वात् ।। ९७४,९७५ ।।
युक्तिमल्लिका
विष्णोः परमदैवत्वे तदन्यब्रह्मवर्जने ।
निःशङ्को भव दुर्मार्गं त्यज भक्त्या भज प्रभुम् ।
यद्वाङ्निरवकाशेयं तद्दोग्ध्यखिलमीप्सितम् ।। ९७६ ।।
सत्यप्रमोदटीका
इयं सोमसूक्तस्था पञ्चवर्गचतुष्टयात्मिका । ईप्सितं सर्वशास्त्रतात्पर्यार्थं पुरुषार्थचतुष्टयं च ।। ९७६ ।।
युक्तिमल्लिका
अतः शुभगुणांभोधिः शुद्धः सर्वविलक्षणः ।
सत्यविश्वाश्रयो मुक्तामुक्तेशो जयति प्रभुः ।। ९७७ ।।
सुरोत्तमटीका
सौरभपञ्चकार्थमनूद्य भगवन्तं स्तुवन् वस्तुनिर्देशाख्य-मङ्गलेन ग्रन्थमुपसंहरति ।। अत इति ।। ९७७ ।।
सत्यप्रमोदटीका
सौरभपञ्चकार्थं विशेषणपञ्चकेन क्रमेण सङ्गृह्णन् महातात्पर्यं दर्शयति अत इति । जयति सर्वोत्कृष्टो वर्तते । भक्तानां संसारम् अभिभवति मोक्षदानेन । उभयत्र हेतुः प्रभुः स्वतन्त्र इति ।। ९७७ ।।