अविद्यमानो भेदोऽयं यद्युपास्त्यर्थमुच्यते

मिथ्योपासनायाः खण्डनम्

युक्तिमल्लिका

अविद्यमानो भेदोऽयं यद्युपास्त्यर्थमुच्यते ।

तर्हि त्र्यक्षस्सहस्राक्षः सहस्राक्षस्त्रिलोचनः ।। १३८८ ।।

कुतो न कीर्त्यते ध्यातुं तस्माद्यद्वस्तु यादृशम् ।

तत्तथैव वदेद्वेदो ध्यातुं वा द्रष्टुमेव वा ।। १३८९ ।।

सुरोत्तमटीका

यच्चासम्भावनाविपरीतभावनानि वृत्त्यर्थं मननोपासने इति वदन्परः पुनरविद्यमानस्यैवोपासनां वक्ति । तच्च न केवलमुक्तविधया स्वमतविरुद्धं किं तु युक्तिश्रुतिस्मृति विरुद्धं चेत्याह ।। अविद्यमान इति ।। तस्मात् तत्तद्रूपवैपरीत्येन तेषां तेषां ध्यानाकथनात् । द्रष्टुमेवेति वदताऽतत्त्वो-पासनया तत्वदर्शनं च विरुद्धमिति सूचयति ।। १३८८,१३८९ ।।

सत्यप्रमोदटीका

 यदुक्तं विवरणे ‘श्रवणमङ्गि । प्रमाणस्य प्रमेयाद्यवगमं प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्य तदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रपद्येते इति । तदेवं अङ्गाङ्गीभावेन समानविषयकत्वा-वश्यम्भावेऽपि निदिध्यासनापरपर्यायध्यानस्य अविद्यमानविषयकत्वं श्रवणस्य विद्यमानविषयकत्वं चाहुः । भेदस्य च अविद्यमानत्वं केवलमुपासनार्थं तदुक्तिर्भेदश्रुतिषु इति सङ्गिरन्ते । तदेतदपाकर्तुं उपक्रमते अविद्यमाने-त्यादिभिः । तस्मादिति तदुक्तमनुव्याख्याने (४१५) ‘न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् । किमु सर्वोत्तमो विष्णुरि’ति ।। १३८८, १३८९ ।।

युक्तिमल्लिका

सत्यं वदेति योऽन्यस्याऽप्यसत्योक्तिं निवारयेत् ।

स वेदः सर्वमर्यादारक्षको नानृतं वदेत् ।। १३९० ।।

सुरोत्तमटीका

 अनृतं ध्यानार्थमविद्यमानम् । परेषामनृतकीर्तनं निवारयन्वेदस्स्वयं कथमनृतं कीर्तयेदिति भावः ।। १३९० ।।

सत्यप्रमोदटीका

 नेति ‘नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः’ इति प्रमाणात् ।। १३९०, १३९१ ।।

युक्तिमल्लिका

यो यो देवो यया कृत्या येन लिङ्गेन यैर्गुणैः ।

वर्तते श्रुतिरप्येषा तं तं ब्रूते तथा तथा ।

न व्यत्यासात्क्वचिद्वक्ति ततस्सत्यव्रतैव सा ।। १३९१ ।।

सुरोत्तमटीका

 ततः व्यत्यासेनाकथनात् । सा श्रुतिः ।। १३९१ ।।

युक्तिमल्लिका

किञ्चोपास्त्यै भिदोक्तिश्चेदैक्योक्तिश्च कथं न ते ।

उपासीतेति तु पदं नोभयत्रापि दृश्यते ।। १३९२ ।।

सुरोत्तमटीका

 उभयत्र तत्त्वमसीत्यादौ द्वा सुपर्णेत्यादौ च ।।१३९२।।

सत्यप्रमोदटीका

 उभयत्र ‘तत्त्वमसि द्वा सुपर्णेत्यत्र ।। १३९२ ।।

युक्तिमल्लिका

कल्पना चेत्क्व सा न स्याद्वस्तुतस्त्वैक्यमेव ते ।

सर्वप्रत्यक्षतो बाधादुपास्यं स्यादसद्धि तत् ।। १३९३ ।।

सुरोत्तमटीका

 सा कल्पना । तत् प्रमाणबाधितमैक्यम् । अविद्यमान-स्यैवोपासनमिति मते ऐक्यस्यैवोपास्यत्वं न्याय्यम् । सर्वानुभवबाधितत्वेन तस्यैवाविद्यमानत्वात् । न तु भेदस्येति भावः ।। १३९३ ।।

सत्यप्रमोदटीका

 उपस्थितेति पदं द्वासुपर्णेति श्रुतौ कल्प्यते इति चेदैक्यवाक्येऽपि कल्प्यताम् । किञ्च ऐक्यवाक्य एव प्रमाणविरुद्धे तत् कल्पनं न्याय्यमित्याह सर्वेति ।। १३९३, १३९४ ।।

युक्तिमल्लिका

अनृतात्पातकं वक्ति यो वेदो न स कुत्रचित् ।

वदेदनृतमन्यार्थमिति मन्यामहे वयम् ।। १३९४ ।।

सुरोत्तमटीका

 किं च नानृतात्पातकं परमित्यनृतस्य महापापरूपत्वं वदन्वेदः कथमनृतं वदेदित्याह ।। अनृतादिति ।। १३९४ ।।

युक्तिमल्लिका

न चेन्मोहार्थमनृतं वेदो वक्तीति वादिनः ।

बौद्धाद्याः केन दूष्यन्ते भूष्यन्ते वा श्रुतेर्गुणाः ।। १३९५ ।।

सुरोत्तमटीका

 न चेत् अनृतमवदन्नचेत् वेदस्याप्यनृतप्रतिपादकत्व-मस्त्विति चेत्यर्थः । गुणाः प्रामाण्यादयः ।। १३९५ ।।

युक्तिमल्लिका

श्रुतेरनृततां क्वापि वदतीति वचस्तु यत् ।

श्रुतिप्रामाण्यरक्षायै तदन्यार्थं वदेद्बुधः ।। १३९६ ।।

सुरोत्तमटीका

 ननु नेदं यदिदमुपासत इति श्रुतिः स्वयमेवोपास्यमानं अविद्यमानं वदति । अतः श्रुत्या कथितमपि कथं नानृतमित्यत आह ।। श्रुतेरिति ।। तत् नेदं यदिदमुपासत इति वाक्यम् ।। १३९६ ।।

सत्यप्रमोदटीका

 यत् ‘नेदं यदिदमुपासत’ इति वचः । तदित्यनेन सम्बन्धः ।। १३९६ ।।

युक्तिमल्लिका

अतो नेदं यदिदमित्यादिवाक्यं न बाधकम् ।

वाच्योऽन्योर्थः श्रुतेर्गुप्त्यै त्वयापि च मयापि च ।। १३९७ ।।

सुरोत्तमटीका

 अतः अनुकूलार्थतया योजयितुं शक्यत्वेन सावकाश-त्वात् । प्रागुक्तश्रुतियुक्तीनां निरवकाशत्वाद्वा । श्रुतेर्गुप्त्यै श्रुतिप्रामाण्यरक्षायै । उपास्यमानस्याविद्यमानत्वे उपासनापादोक्त सकलश्रुतीनामप्रामाण्यप्रसङ्गात् इदमेव वाक्यमन्यथा योजनीयमिति भावः ।। १३९७ ।।

सत्यप्रमोदटीका

 अतः श्रुतिप्रामाण्यरक्षायै । अन्योऽर्थ इति । तदुक्तं ता. चन्द्रिकायां (११७) श्रुतेः श्रद्धालुना श्रुत्योर्विषयभेदेन तात्त्विकविषय-त्वस्यैव वक्तव्यत्वाच्चेति ।। १३९७ ।।

युक्तिमल्लिका

उपासनार्थं धनवान्किमनुश्रियते त्वया ।

अधनो वा नरः कश्चित्स्वानुभूतिं विचारय ।। १३९८ ।।

विषनिर्हरणे शक्तो ध्यातव्यो गरुडस्त्वया ।

सर्पदष्टेन किमुत काकोलूकादिपक्षिणः ।। १३९९ ।।

विघ्नध्वंसाय विघ्नेशो विद्याप्त्यै शारदा त्वया ।

मृत्युञ्जयो मृत्युजित्यै कुतस्संसेव्यते वद ।। १४०० ।।

सुरोत्तमटीका

 बहुधा स्वानुभवविरुद्धं चाविद्यमानस्योपासनमित्याह ।। उपासनार्थमिति ।। अविद्यमानोपासनेन फलप्राप्तिश्चेत् धनप्राप्त्यर्थमधनस्य सेवैवकर्तव्येति भावः ।। १३९८-१४०० ।।

सत्यप्रमोदटीका

 लोकानुभवविरुद्धा चैषा प्रक्रियेत्याह उपासनार्थमिति ।। १३९८-१४०० ।।

युक्तिमल्लिका

अविद्यमानस्सविता सन्ध्योपास्त्यै किमीर्यते ।

स्वामानतां स्वयं कर्तुं किमुन्मत्तवचः श्रुतिः ।। १४०१ ।।

सुरोत्तमटीका

 स्वामानताम् । वेदामानतां स्वयं नेदं यदिदमित्यादि-रूपा ।। १४०१ ।।

सत्यप्रमोदटीका

 उन्मत्तवचः । अहं मूक इति वचः ।। १४०१, १४०२ ।।

युक्तिमल्लिका

सत्यं वदेति या वाणी वक्ति धर्मानुशासनम् ।

असत्यं किल सा वक्ति ध्यातुं सर्वत्र सर्वदा ।। १४०२ ।।

सुरोत्तमटीका

 सत्यं वदेति वाक्यतात्पर्यविरोधाच्च नेदं यदिदमिति वाक्यं न स्वार्थपरमित्याह ।। सत्यमिति ।। सा नेदं यदिदमित्यादिरूपा

।। १४०२ ।।

युक्तिमल्लिका

यन्न प्रतीके न हि स इत्थं सूत्रकृतैव हि ।

अविद्यमानस्योपास्तिर्न क्वाप्यस्तीति साधितम् ।। १४०३ ।।

सुरोत्तमटीका

 ब्रह्मसूत्रविरुद्धं चाविद्यमानोपासनमित्याह ।। यन्नप्रतीक इति ।। यत् यस्मात् ।। १४०३ ।।

सत्यप्रमोदटीका

 ‘न प्रतीके न हि सः’ इति सूत्रकृता अविद्या-मानोपासना प्रतिषिद्धा चेत्याह यत इति ।। १४०३ ।।

युक्तिमल्लिका

यतः प्रतीकं नैवात्मा तत आत्मत्वभावना ।

न तत्रेति हि सूत्रार्थस्तवापि च ममापि च ।। १४०४ ।।

सुरोत्तमटीका

 यतः स आत्मा परमात्मा प्रतीकं वागादिप्राणान्तप्रतिमा नैव ततः प्रतीकस्यात्मत्वाभावात् आत्मत्वभावना परमात्मत्वभावना । तत्र प्रतीके ।। १४०४ ।।

सत्यप्रमोदटीका

 तत्रापि सः अर्थः मान्यः । यथाऽऽह ‘न प्रतीके-ष्वात्मममतिं बध्नीयात् । न हि उपासकः प्रतीकानि’ इति ।।१४०४,१४०५।।

युक्तिमल्लिका

तस्मादविद्यमानस्य भेदस्योत्कीर्तनं श्रुतौ ।

उपासनार्थमिति यन्मतं तत्त्वविगर्हितम् ।। १४०५ ।।

सुरोत्तमटीका

 तस्मात्प्रतीकेऽविद्यमानात्मत्वोपासनस्य नेति निषेधेन विद्यमानोपासनस्यैव सूत्रतात्पर्यसिद्धत्वात् ।। १४०५ ।।

युक्तिमल्लिका

स्थूलोपास्तावरुन्धत्यास्ताराप्यारात्स्थितेक्ष्यताम् ।

भेदोपास्त्या त्वभेदस्य विरुद्धस्य कथं दृशिः ।। १४०६ ।।

सुरोत्तमटीका

 ननु स्थूलारुन्धतीन्यायेन शाखाग्रचन्द्रन्यायेन चाविद्य-मानस्याप्युपासनं विद्यमानप्राप्त्युपायभूतं दृष्टमिति चेत् । अत्र प्रष्टव्यम् । किं स्थूलताराया एवारुन्धतीत्वोपासनात् सूक्ष्मतारारूपारुन्धतीप्राप्तिर्दृष्टा । शाखाग्रस्यैव चन्द्रत्वोपास्त्या च चन्द्रत्वप्राप्तिर्दृष्टेति मन्यसे उत सूक्ष्म-तारायास्स्थूलतारा समीपस्थत्वात् सम्यग्दृश्यमानस्थूलतारां प्राक्प्रदर्श्य क्रमेण सूक्ष्मतारामपि दर्शयन्ति । चन्द्रस्य शाखाग्राभिमुख्येन सूक्ष्मतया स्थितत्वात् द्व्रीभूतं स्थूलं शाखाग्रं प्राक्प्रदर्श्य पश्चात्तमपि दर्शयन्तीति ब्रूषे । नाद्यः । दृष्टान्तासिद्धेः । नहि स्थूलतारामेवारुन्धतीत्वेन कोप्युपदिशति । नवा-शाखाग्रमेव चन्द्रत्वेन । तथा सति तावतैव चरितार्थतया पुनस्सूक्ष्मतारा-दर्शनोत्कण्ठाया एव कुण्डितत्वात्तद्दर्शनप्रसक्तेरेवाभावप्रसङ्गात् । किं तु मन्त्रिदर्शनस्य राजदर्शनानुकूलत्ववत् एतद्दर्शनस्यापि दर्शनानुकूलत्वादेव प्रागिदमुपदिशन्ति । उपासते च । अतो नेदमविद्यमानोपासनस्य निदर्शनम् । अस्तु वा कथञ्चिदयं दृष्टान्तस्तथापि तव दार्ष्टान्तिकाननुगुण एव । त्वया स गुणे निर्गुणत्वोपासनस्य भेदेऽभेदत्वोपासनस्य चाप्यनङ्गीकारात् । अङ्गीकारे चाभेदस्यैवोपास्यत्व प्रसङ्गे न त्वदभिलषितासिद्धेश्च । द्वितीयेपि नेमौ दृष्टान्तौ तवानुगुणौ । स्थूलतारायाः शाखाग्रस्य च सूक्ष्मताराद्यविरुद्धत्वेन प्रत्युत पूर्वोक्त दृष्टान्तेन तद्दर्शनानुकूलत्वाच्च युक्तं तदुपासनम् । तव तु सगुणस्य निर्गुण विरोधित्वेन भेदस्य चाभेदविरोधित्वेन कथमेतदुपासनेन तत्प्राप्तिः । नह्यन्धकारदर्शनेन प्रदीपप्राप्तिः क्वापि दृष्टा । किं तु प्रदीपानुकूलवन्ह्युपास-नेनैव । अतस्तवादृष्टकल्पनमपहार्यमेवेत्याह ।। स्थूलेति ।। आरात्समीपे । उपलक्षणं चेदमविरुद्धा चेत्यपि ग्राह्यम् ।। १४०६ ।।

सत्यप्रमोदटीका

 यदपि जल्पितं सविशेषभेदोपासना निर्विशेषाभेद-साक्षात्कारस्य द्वारमिति । यथाऽऽह

निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

 ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैरि’ति

तदपि निराह स्थूलेति । तत्र समीपस्थत्वात् द्वारत्वसम्भवेऽपि प्रकृते अभेदाभावात्मकस्य विरुद्धस्य द्वारत्वमसम्भवीत्याह विरुद्धस्येति ।।१४०६।।

युक्तिमल्लिका

सोपासनैव तां स्थूलां किमण्वीकृत्य दर्शयेत् ।

किं वा भिन्नकटाहस्याप्यभेदो भेदचिन्तया ।। १४०७ ।।

सुरोत्तमटीका

 विरुद्धोपास्त्या तद्विरुद्ध फलाप्तौ दृष्टान्तद्वयमाह ।। सेति ।। सा स्थूलतारोपासना । तां ताराम् । स्थूलत्वोपासनया सैव ताराऽण्वीभवति चेत् स गुणत्वोपास्त्या तदेव सगुणं निर्गुणीभवतीत्यस्येदं निदर्शनं स्यात् । न च तदस्ति । एवं भिन्नकटाहस्थ भेदस्यैव पौनः पुन्येन चिन्तया भागवद्वयस्यैकीभावाख्याभेदो यदि स्यात् तदाभेदोपास्त्या अभेद-प्राप्तिः संभाव्येतापि । नैतदपि दृष्टम् । अतो विरुद्धोपास्त्या तद्विरुद्ध-फलप्राप्तिरसम्भावितैवेति भावः ।। १४०७ ।।

सत्यप्रमोदटीका

 यदि पुनस्तदेव तदिति उपदेशः तर्हि तथा ज्ञातवतो विरोचनस्येव सूक्ष्मज्ञानेच्छानिवृत्तिरेव स्यात् । सूक्ष्मोपदेशः पश्चादनाकांक्षित एव । तज्ज्ञानस्य तज्ज्ञानहेतुत्वासम्भवः एव । न हि उपासना अघटितघटना-शक्तिमती येन स्थूलामपि स्वसामर्थ्येनाण्वीकुर्यादित्याह सेति । तथा सत्यति-प्रसङ्गमाह किमिति ।। १४०७ ।।

युक्तिमल्लिका

उत्कर्षश्चेदुपास्य स्यान्मिथ्यार्थोऽपि मते तव ।

नीचजीवोच्चताहेतुस्तादृगैक्यं न नो भिदा ।। १४०८ ।।

अविद्यमानभेदस्य नोपासा तेन शोभते ।

अविद्यमानमेवैक्यमुपास्यं स्यात्सुखेन ते ।। १४०९ ।।

सुरोत्तमटीका

 किं च मनुष्यस्येन्द्रत्वोपासनवत् नीचस्योत्कर्षप्राप्तौ मिथ्याभूतत्वेप्युपास्य इति ब्रह्मदृष्टिरुत्कर्षादित्यत्र भवद्भाष्यकृतैवभाषितम् । एवं च नीच जीवस्योच्च ब्रह्मत्वप्रापकमैक्यमेव मिथ्याभूतत्वेप्युपास्यं स्यात् । नीच-जीवस्य सुतरां नीचत्वप्रापकजीवब्रह्मभेदस्य कथं मिथ्याभूतस्याप्युपास्तिरित्याह ।। उत्कर्ष इति ।। उत्कर्षस्स्याच्चेदित्यर्थः । तादृक् उत्कर्षप्रापकम् । नोस्माकं भिदा न । तादृशीनेत्यर्थः । अतः कथं मिथ्याभूतस्याप्युपास्तिरिति भावः ।। १४०८,१४०९ ।।

सत्यप्रमोदटीका

 मते तवेति यदाह ‘क्षत्तरि खलु राजदृष्टिः क्रियते । नतु राज्ञि क्षत्तुदृष्टिरिति । तादृक् नीचे उच्चत्वबुद्धिः । नः अस्मदभिमता भिदा भेदोपासना न त्वदुक्तानुसारिणी । अतः त्वत्प्रक्रियया ऐक्यस्यैवोपासनं तेन च मिथ्यात्वं युक्तमिति भावः

।। १४०८, १४०९ ।।

युक्तिमल्लिका

यदि ध्यानाय मिथ्यार्थं प्रथयेत्प्रथिता श्रुतिः ।

तदा दृष्ट्यै तवैक्यं च मिथ्यार्थं न कुतो वदेत् ।। १४१० ।।

सुरोत्तमटीका

 किं च ध्यानायाविद्यमानभेदोक्तौ दर्शनायाप्यविद्यमान-मेवैक्यमैक्यश्रुत्या कथ्यताम् । द्विधा कल्पनायां गुरुत्वात् । कार्यकारणयोर्द्वै-रूप्यस्यायुक्तत्वादद्वितीयश्रुतेः पक्षपाताभावाच्च । घटवृत्त्याऽज्ञाननिवृत्त्यङ्गी-कारात् । मिथ्याभूतरजतदृष्ट्यापि तात्कलिकानन्ददर्शनाच्च । द्विविधमुक्तेश्च मिथ्याभूतैक्यदर्शनेनापि सम्भवात् । एवमप्येकस्य सत्यत्वे वक्तव्ये जगद्रक्षक-तया निर्वैरस्य भेदस्यैव तदस्तु । उपास्ततया प्रथमोपस्थितत्वेन लाघवाच्च । नत्वैक्यस्येत्याह ।। यदीति ।। तद्वृत्त्या ऐक्यापरोक्षज्ञानेन । तया मिथ्या-भूतैक्यस्य दृष्ट्या । प्रागुक्तयामिथ्याभूतभेदोपास्त्या । दृशिः ऐक्यापरोक्ष-ज्ञानम् । मिथ्यार्थदर्शनस्य मोक्षासाधकत्वे न्यायसाम्यादेतदपि न स्यादिति भावः ।। १४१०-१४१२ ।।

सत्यप्रमोदटीका

 किञ्च मिथ्याभूतभेदोपासनेन सत्यैक्यदृष्टिर्भवतीति ते मतम् । तथा माऽस्तु कार्यकारणयोर्वैरूप्यप्रसङ्गात् । अद्वितीयश्रुतिः भेदमिव अविद्यमानमेवैक्यमुपदिशतीत्यस्तु । तस्यान्यतरपक्षपाताभावात् । एवं च मिथ्याभेदोपासनेन मिथ्यैक्यदृष्टिः तेन च अविद्यानिवृत्तिः इत्यस्तु । घटवृत्त्या घटाविद्यानिवृत्तिरिव । तथा चोक्तवैरूप्यमपि परिहृतं भवति । कृतं भेदस्यैवा-विद्यमानत्वग्रहणदुर्व्यवसानेनेत्याह यदीत्यादिभिः ।। १४१० ।।

युक्तिमल्लिका

घटवृत्त्येव तद्वृत्याऽप्यविद्यानाश इष्यताम् ।

मिथ्यार्थदृष्ट्याऽप्यानन्दः किं न तात्कालिको नृणाम् ।

अतस्तयाऽपि मुक्तिः स्याद्यथा प्रागुक्तया दृशिः ।। १४११ ।।

सत्यप्रमोदटीका

 न च मिथ्यादृष्ट्या फलसिद्धिरदृष्टेति शङ्क्यम् । मिथ्याभूतरूप्यदृष्ट्या तात्कालिकानन्दानुभवस्यापि दर्शनात् । इत्याह मिथ्येति ।। १४११ ।।

युक्तिमल्लिका

द्वयोरेकस्य सत्यत्वे निर्वैरस्यास्तु लाघवात् ।

अभेदस्ते जगद्धन्ति भेदः सर्वं च रक्षति ।। १४१२ ।।

सत्यप्रमोदटीका

 एवमपि अन्यतरस्य सत्यत्वपक्षपाते भेदस्य सत्यत्व-मेवाङ्गीकारार्हं निर्वैरत्वात् । तत्कुतः इत्यत आह अभेद इति।।१४१२ ।।

युक्तिमल्लिका

सर्वमस्मीत्युपासीतेत्यैक्योपास्तिस्तव श्रुता ।

भेदर्क्च नस्तथा नाह त्वन्नयस्त्वां निहन्त्यहो ।। १४१३ ।।

सुरोत्तमटीका

 किं च सर्वमस्मीत्युपासीत तद्व्रतमिति छान्दोग्योपनिषदि ऐक्यस्यैवोपास्यतया कथनात् उपास्यतयोक्तस्य मिथ्यात्वमिति त्वदुक्तन्यायेनैव तवैक्यं मिथ्याभूत् । न तु भेदः । भेदर्चि तादृशपदाभावादित्याह ।। सर्वमिति ।। भेदकर्् भेदप्रतिपादिकाऋक् । तथा उपासीतेति ।। १४१३ ।।

सत्यप्रमोदटीका

 तव ऐक्योपास्तिः । त्वदभिमतैक्यस्यैवोपास्यत्वम् । श्रुता ‘सर्वमस्मीत्युपासीत तद्व्रतं’ इति छान्दोग्ये । नः भेदर्क्च अस्म-दभिमतभेदप्रतिपादिका ऋक् तु । तथा न श्रुता । ‘सर्वं भिन्नमित्युपासीत’ इत्येवंरूपाया ऋचः क्वाप्यभावात् । त्वन्न्यायः उपास्यं मिथ्या इति न्यायः । त्वां निहन्ति त्वदभिमतैक्यस्यैव मिथ्यात्वं सम्पादयति ।। १४१३ ।।

युक्तिमल्लिका

किञ्चोपास्या यदि भिया तया सिद्धं समीहितम् ।

तं यथोपासते देवं तथैव भवतीति हि ।। १४१४ ।।

श्रुत्या मुक्तावुपास्यस्य यत्सत्त्वमवधार्यते ।

तस्मादुपास्यो भेदोऽयं मुक्तौ चासीन्निराकुलः ।

अत एव मृषोपास्तिर्न चकास्ति श्रुतेर्मते ।। १४१५ ।।

सुरोत्तमटीका

 अपि च तं ‘यथा यथोपासते तथैव भवतीति’ श्रुतौ उपास्यावस्थायाः तथैव भवतीति फलभूतमुक्तावप्यवधारणात् त्वदुक्तन्यायेनैव भेदस्य मुक्तिकालीनत्वप्राप्त्या मदभीष्टसिद्धिरर्थादनयैव श्रुत्या मिथ्याभूतोपास-नस्य निवारितत्वात् त्वदभीष्टासिद्धिश्चेत्याह ।। किं चेति ।।१४१४,१४१५।।

सत्यप्रमोदटीका

 किञ्चोपासनायाः फलविधायिनी ‘यथा यथा उपासते तथैव भवती’ति श्रुतिः उपासनाफलयोरेकरूपतामवधारयति । एवं च भेदोपासनया सिध्यन् मोक्षकालीनः भेदः पारमार्थिक एव सेत्स्यतीत्याह निराकुल इति ।। १४१४,१४१५ ।।

युक्तिमल्लिका

ततोनुपास्यं नैर्गुण्यं न कदापि भवेन्नृणाम् ।

सगुणं तु सदोपास्यं स्वयं च सगुणो भवेत् ।। १४१६ ।।

सुरोत्तमटीका

 ततः उपास्यस्यैवमुक्तिकालीनत्व श्रवणात् । नैर्गुण्यमित्युपलक्षणमैक्यं चेत्यपि ग्राह्यम् । अनुपास्यमिति हेतुगर्भं विशेषणम् । तथैव भवति न त्वन्यथेत्यवधारणबलेनानुपास्याकारस्य मुक्तावसम्भवा-दनुपास्यत्वस्य परेणाङ्गीकाराच्चेति भावः।।१४१६ ।।

सत्यप्रमोदटीका

 नैर्गुण्यं तत एव ऐक्यं अनुपास्यम् । सगुणत्वे ऐक्यायोगात् । तेन प्रकृतोपसंहारः । अनुपास्यमिति हेतुगर्भं विशेषणम् । यस्मात् त्वया नैर्गुण्यं तत एवैक्यं चोपास्यतया नाङ्गीकृतं तस्मात् तदुभयं कदाऽपि मोक्षेऽपि न भवेत् । यथा यथोपासते तथैव भवतीति श्रुतेः । त्वयाङ्गीकृतभेदोपासनं तु सगुणोपासनमेव । अतः तदुपासनेन मोक्षेऽपि श्रुत्यनुसारेण सगुण एव भवतीत्याह सगुण इति । सगुणः स्वरूपभूत-तत्तद्योग्यानन्दादि शुभगुणाविर्भाववान् ।। १४१६ ।।

युक्तिमल्लिका

मुक्तौ च स्वस्य नैर्दोष्यं यदवश्यमपेक्षितम् ।

अतोऽज्ञानक्लेशनाशजन्माद्यं न स्मरेद्धरौ ।

इति सिद्धं ततोऽवद्य शून्योऽप्यासीद्रमापतिः ।। १४१७ ।।

सुरोत्तमटीका

 भगवतो जननादिदोषराहित्यं चैतच्छ्रुतिबलादेव सिद्ध-मित्याह ।। मुक्तौ चेति ।। अतः निर्दोषतयोपासितस्यैव हरेर्नैर्दोष्य प्रापकत्वस्याप्येतच्छ्रुतिसिद्धत्वात् ।। १४१७ ।।

सत्यप्रमोदटीका

 मुक्ताविति । ‘प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे’ इति भगवत्पादोक्तेः ।। १४१७ ।।

युक्तिमल्लिका

अनुपास्यमतत्त्वं च कुतो वक्ति श्रुतिः क्वचित् ।

तस्मादापाततो दोषश्रुतिवद्भाति या श्रुतिः ।

साऽप्युपास्या गुणार्थैव न दोषार्थेति चागतम् ।। १४१८ ।।

सुरोत्तमटीका

 तस्मान्निर्दोषस्यैवोपास्यत्वात् । अनुपास्यस्य मोक्षैक फलश्रुतौ कथनायोगाच्च ।। १४१८ ।।

सत्यप्रमोदटीका

 तस्मादापाततः इति । ‘चिन्त्या अचिन्त्याश्च तयैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः’ । इति श्रुतेः ।। १४१८ ।।

युक्तिमल्लिका

उपास्त्यनर्हमैक्यं ते न मोक्षे नापि संसृतौ ।

उपास्त्यभावान्मुक्तौ न नेदानीमावृतत्वतः ।। १४१९ ।।

सुरोत्तमटीका

 इदानीं संसारे । आवृतत्वतः अज्ञानावृतत्वात् ।। १४१९ ।।

सत्यप्रमोदटीका

 उपास्त्यनर्हत्वेन उपास्त्यभावात्, उपासानफलयोरेक-रूपतायाः स्थितेरैक्यं मुक्तौ न एवं आवृतत्वात्संसारेऽपि नेति त्वद्रीत्यैव कदाऽपि ऐक्यस्य अनवस्थितिरेवेत्याह उपास्तीति ।। १४१९ ।।

युक्तिमल्लिका

तस्मादुपास्यं सगुणं ब्रह्मैवासीद्धि निर्मलम् ।

मुक्तिदत्वाद्विमुक्तिश्च तस्यासादृश्यमित्यपि ।। १४२० ।।

तथैवेति वदन्ती सा श्रुतिराह ततोऽपि मे ।

भिदैव सुस्था ब्रह्मैक्यं पदाहतमभूत्तव ।। १४२१ ।।

सुरोत्तमटीका

 ततः मुक्तावपि सादृश्यविधानात् । पदाहतं तथैवेति पदेन निराकृतम् । उपास्यादन्याकारस्य मुक्तौ तेन पदेन निराकरणात्

।। १४२०,१४२१ ।।

सत्यप्रमोदटीका

 निर्मलमित्यनेन शबलस्य व्यवच्छेदः ।। १४२०, १४२१ ।।

युक्तिमल्लिका

उपास्योपासकत्वस्य मुक्तावप्यनुवर्तनम् ।

तथैवेति हि सर्वस्याप्यवधृत्या श्रुतिर्जगौ ।। १४२२ ।।

सुरोत्तमटीका

 अनयैव श्रुत्या मुक्तावुपास्योपासकभावस्यापि सिद्धि-रित्याह ।। उपास्येति ।। तं यथा यथोपासते तथैव भवतीति श्रुत्या सांसारि-कोपासनावस्था सदृशसर्वावस्थाया अपि सदृशार्थक तथैवेति पदेन मुक्तौ विधानात् ध्यानाङ्गप्राकृतदेहसदृशाप्राकृतदेहस्य प्राकृतानन्दपुलकसदृशा प्राकृतानन्दपुलकादेः प्राकृतोपासना सदृशा प्राकृतोपासनस्य प्राकृततत्कृतत्व सदृशाप्राकृततत्कृतत्वस्य च मुक्तजीवेषु सिद्धेः । सर्ववेदान्तप्रत्ययं चोदनाद्य-विशेषात् इति सूत्रात्सर्वश्रुत्यर्थोपासक ब्रह्मणस्तथैवेति श्रुतेर्मुक्तावप्यर्थात्प्रा-कृतोपासनयोपास्यत्ववदप्राकृतोपासनयापि भगवत उपास्यत्वसिद्धिश्चेति भावः । एवं च प्राकृत देहस्यापि मुक्तौ प्रसक्तिरिति शङ्कागर्भस्रावेणैव गता ।। १४२२ ।।

सत्यप्रमोदटीका

 ‘तथैव भवती’ति श्रुतौ सादृश्योक्त्या मुक्तावपि स्वामिभृत्यभावेन उपास्योपासकभावोऽनुवर्तते इति एवं सादृश्यं, एवं देवानां बहुगुणैः ब्रह्मणा त्वखिलैरित्येवं उपासनायां तारतम्येन संसारिष्वानन्द-तारतम्यस्येव ‘श्रोत्रियस्य चाकामहतस्य’ इत्युक्तदिशा तत्रापि मुक्तौ तारतम्यं, इत्येवं प्रमाणाविरुद्धं सादृश्यं ऊहनीयम् । तदेतदाह सर्वस्येति ।। १४२२ ।।

युक्तिमल्लिका

यतस्सारूप्यमोक्षोऽयं सर्वोपास्ति कृतां श्रुतः ।

अतस्सालोक्यसामीप्यसायुज्येषु च स ध्रुवः ।। १४२३ ।।

सुरोत्तमटीका

 प्रमेयान्तरं च सिद्धमित्याह ।। यत इति ।। अयं एतच्छक्तः । सारूप्यमोक्षः उपास्त्यनुसारेण स्वस्याप्याकार गुणादि सादृश्य-रूपफलश्रवणात् । सर्वोपास्तिकृतां सर्वेषामुपास्तिकृतामधिकारिणां यतश्श्रुतः । उपास्तिर्हि मुमुक्षूणां सर्वेषामपेक्षिता एवं चैतच्छ्रुत्यैव सर्वेषां सारूप्यमोक्षोऽपि श्रुत इत्यर्थः । अन्त इत्युत्तरेणान्वयः । सः सारूप्यमोक्षः ।। १४२३ ।।

सत्यप्रमोदटीका

 एवं ‘उपास्ते’ इति सामान्यप्रयोगेण चतुर्विधमोक्ष-भाजामपि ‘तथैव भवति’ इत्युक्तः पूर्वोक्त इत्थम्भावः साधारण इति ज्ञापितो भवतीत्याह यत इति ।। १४२३ ।।

युक्तिमल्लिका

श्रुतिरेषा बलवती सर्वश्रुत्युक्तसम्पदम् ।

स्वज्ञातिरक्षणोद्युक्तानापहर्तुं विमुञ्चति ।। १४२४ ।।

सुरोत्तमटीका

 बलवती फलरूपतात्पर्यलिङ्गवत्त्वात्प्रबला । सर्ववेदान्त प्रत्ययं चोदनाद्यविशेषादिति सूत्रात् सर्वश्रुत्यर्थोपासक ब्रह्मणस्तथैवेति श्रुते-र्मुक्तावपि सर्वश्रुत्यर्थोपासकत्वावश्यंभावस्यापि सिद्धेः सर्वश्रुत्युक्त संपद-मित्युक्तम् । अपहर्तुं अविद्यमानत्वोक्त्यानिराकुर्तुम् । उपासितगुणसदृशगुणानां मुक्तेषु श्रवणादुपास्ये सुतरान्तत्सिद्धिः । तत्वज्ञानस्यैव मौक्तफलहेतुत्वादिति भावः ।। १४२४ ।।

सत्यप्रमोदटीका

 बलवती सावधारणेन फलकथनरूपतात्पर्यलिङ्ग-वत्त्वेन च । सर्वाः याः श्रुतयः उपासने फले च तारतम्यं अभिधात्र्यः ताभिरुक्तां साधनफलयोस्तरतमभावेन सदृशरूपतां सम्पदं अपहर्तुं मिथ्यार्थ-परतया अन्यथयितुं तदुक्तं भाष्ये (३,,३)

ज्ञानं चोपासनं चैव मुक्तावानन्द एव च ।

 यथाधिकारं देवानां भवत्येवोत्तरोत्तरं’ इति ।। १४२४ ।।

युक्तिमल्लिका

उपासते हि यदिदं नेदं ब्रह्मेति तु श्रुतिः ।

उपास्यमानप्रतिमा नैव ब्रह्मेति शंसति ।। १४२५ ।।

सुरोत्तमटीका

 तर्हि नेदं यदिदमुपासत इति श्रुतेः कोऽर्थ इत्यत आह ।। उपासत इति ।। उपास्यमानप्रतिमा ध्यानार्थं रचिता मनोमयी भगवत्प्रतिमा । बाह्या च सुवर्णादिरचिता कृष्णरामादि भगवत्प्रतिमा । अर्चादिनोपास्यमाना साक्षाद्भगवतः अपरोक्षज्ञानात्पूर्वं द्रष्टुमशक्यत्वात् स्वबिम्बमूर्तेः प्रतिमामेव मनसा विरचय्य ध्यायन्ति ।। १४२५ ।।

सत्यप्रमोदटीका

 

यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् ।

 तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते’

इति उमां प्रति शङ्करवाक्यम् । तत्र उपास्यस्य मिथ्यात्वं, ततश्च उपासनाया मिथ्याभूतार्थविषयकत्वं मुखतः प्रतीयते । तन्निराह उपासते इत्यादिभिः । प्रतिमा मानसवासनापरिणतवस्त्वित्यर्थः । सन्निधानात् ब्रह्मप्रतिबिम्बभूतम् । नैव ब्रह्मेति ॐ तथाऽन्यत्प्रतिषेधात् ३.२.३७ इति सूत्रे प्रतिषेधात् ।। १४२५ ।।

युक्तिमल्लिका

ब्रह्मणस्सन्निधानाच्च तदुपास्तिर्दिदृक्षताम् ।

राजद्वारोपास्तितोऽपि राज्ञः स्याद्धि प्रसन्नता ।। १४२६ ।।

सुरोत्तमटीका

 तत्प्रतिमारूपं ब्रह्मसन्निधानवदेव न तु साक्षाद्ब्रह्मेत्यर्थः । अन्योपास्त्याऽन्यप्रतीतौ दृष्टान्तमाह ।। राजद्वारेति ।।१४२६ ।।

सत्यप्रमोदटीका

 एवं तर्हि ब्रह्मसाक्षात्कारार्थिनः कुतस्तदुपासते इत्यतो ब्रह्मानुग्रहद्वारा तद्दर्शनोपायत्वादित्याह ब्रह्मण इति । तदुक्तं ‘ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम्’ इति । तत्र लौकिकदृष्टान्तः राजेति ।। १४२६ ।।

युक्तिमल्लिका

उपासते सदा भोगैर्नरा यदुदरम्भराः ।

जीवरूपमिदं ब्रह्म नेत्यर्थं चाह सा श्रुतिः ।। १४२७ ।।

सुरोत्तमटीका

 जीवब्रह्मणोर्भेदप्रतिपादकत्वात् इयं श्रुतिरस्माकमेवानु-कूला । न तवेति भावेन श्रुतेरर्थान्तरमाह ।। उपासत इति ।। भोगैः यत् जीवचैतन्यं उपासते सेवन्ते तर्पयन्तीत्यर्थः । इदं जीवरूपं जीवचैतन्यम् ।। १४२७ ।।

सत्यप्रमोदटीका

 श्रुतेः अनुगुणमर्थान्तरमाह उपासत इति । भोगैः फलपुष्पादिसमर्पणैः । यत् राजादिकं जीवचैतन्यम् । उदरम्भरा इति निन्दनेन मा गृधः कस्य चिद्धनं इति निषेधो ज्ञाप्यते । तत् ब्रह्म न ।। १४२७ ।।

युक्तिमल्लिका

तव त्वतिविरुद्धस्योपास्त्यैव स्यात्कथं फलम् ।

महाविरुद्धमग्न्यर्थी किमम्बुमथनं चरेत् ।

किं वा शुक्तेरुपास्त्यैव रूप्यप्राप्त्या धनी भवान् ।। १४२८ ।।

सुरोत्तमटीका

 भेदोपास्त्यादिना अभेदादि प्राप्तिः विरुद्धत्वान्न भवतीत्ये तद्दृष्टान्तेनोपपादयति ।। तव त्विति ।। फलं विरुद्धफलम् । भेदोपास्त्याऽ-भेदप्राप्तिरित्यर्थः । महाविरुद्धमम्बुमथनमिति सम्बन्धः । अम्बुमथनेनाग्नि-प्राप्तेरदर्शनात् विरुद्धोपास्त्या तद्विरुद्धफलं क्वापि न भवतीति भावः । निदर्शनान्तरमप्याह ।। किं वेति ।। १४२८ ।।

सत्यप्रमोदटीका

 निर्विशेषसाक्षात्कारस्य सविशेषोपासनं द्वारामिति परप्रक्रियाऽत्यन्तं विरुद्धा इति सदृष्टान्तमाह अग्नीति शुक्तेरिति च ।।१४२८।।

युक्तिमल्लिका

किञ्च शाखाग्रचन्द्रैक्यं ध्यातव्यं किल ते मते ।

स्थूलैवारुन्धतीत्वेन ध्येया सूक्ष्मत्वसिद्धये ।

एवं चैक्यमुपास्यं वा भेदो वाभूद्विचारय ।। १४२९ ।।

सुरोत्तमटीका

 त्वद्दृष्टान्तेनैवाविद्यमानैक्यस्योपास्यत्वमागतं न तु भेदस्येत्याह ।। किं चेति ।। स्थूलातारा ।। १४२९ ।।

सत्यप्रमोदटीका

 स्थूलारुन्धतीदृष्टान्तः त्वत्प्रतिकूल एव । यथा तत्र स्थूलताराया अरुन्धतीनक्षत्रस्यैक्यं चिन्त्यते तथा अत्रापि ऐक्यमेव उपासनाविषय इत्यापातादित्याह किं चेति ।। १४२९ ।।

युक्तिमल्लिका

स्थूलभास्वरताराया ध्याने सूक्ष्माल्पभास्वरा ।

तारैव दृश्यते व्योम नीरूपं न हि दृश्यते ।। १४३० ।।

सुरोत्तमटीका

 सगुणोपास्त्या निर्गुणप्राप्तौ च नायं दृष्टान्तोऽभू-दित्याह ।। स्थूलभास्वरेति ।। १४३० ।।

सत्यप्रमोदटीका

 स्थूलतारायाः सूक्ष्मनक्षत्रस्य चोभयेषां शुक्लभास्वरं रूपमस्तीति तद्दर्शनयोः द्वारद्वारिभाव इति वक्तुं युक्तम् । एवं सगुणोपासनं सगुणदर्शनस्यैव द्वारं भवेत् । नत्वेव निर्गुणस्येत्याह स्थूलेति ।। १४३०, १४३१ ।।

युक्तिमल्लिका

एवं च सगुणोपास्त्या निर्गुणेक्षोपमानसा ।

यद्ध्येयस्सगुणोऽत्रापि प्राप्योऽपि स गुणो यतः ।। १४३१ ।।

सुरोत्तमटीका

 सा स्थूलतारोपासनेन सूक्ष्मताराप्राप्तिः । यत् यस्मात् । अत्र स्थूलारुंधतीदृष्टान्ते ।। १४३१ ।।

युक्तिमल्लिका

अस्माकं तु मनोरूपप्रतिमास्थूलभास्वरा ।

उपास्यमाना स्तान्तस्थां ज्ञानानन्दमयप्रभाम् ।। १४३२ ।।

अतिसूक्ष्मां हरेर्मूर्तिं दर्शयेदिति वादिनाम् ।

तवोपमैवानुपमा बलमासीद्विवेचने ।। १४३३ ।।

सुरोत्तमटीका

 अतस्त्वद्दृष्टान्तोऽप्यस्माकमेवानुकूल इत्याह ।। अस्माक- मिति ।। ज्ञानानन्दमयी प्रभा यस्यास्सा ताम् । अप्राकृतकान्तिमतीमित्यर्थः । अनुपमा असदृशी तवोपमैव बलमासीदिति सम्बन्धः ।। १४३२,१४३३ ।।

सत्यप्रमोदटीका

 मन्मते नैष दोष इत्याह अस्माकमिति । अनुपमेति उद्देश्यभूतोपमाया विशेषणम् । न बलमिति विधेयस्य । तेन न स्त्रीलिङ्गा-नुपपत्तिः ।। १४३२,१४३३ ।।

युक्तिमल्लिका

अरणीस्थानलप्राप्तिररण्योर्मथने यथा ।

तथानुकूलान्यसेवाऽप्यन्यप्राप्त्यै भवेन्मम ।

तुहिनानुसृतिः किं स्याद्दहनप्राप्तये वद ।। १४३४ ।।

सुरोत्तमटीका

 अनुकूलान्यप्राप्त्या तदनुगुणा फलप्राप्तिर्दृष्टा । न तु विरुद्धोपास्त्या तद्विरुद्धफलप्राप्तिरित्यत्र मन्दानामपि बोधाय पुनरपि दृष्टान्ता-वाह ।। अरणीस्थेति ।। १४३४ ।।

सत्यप्रमोदटीका

 अनुकूलस्यैव द्वारभावः नतु प्रतिकूलस्येत्युभयत्र दृष्टान्तमाह अरणीति तुहिनेति च ।। १४३४ ।।

युक्तिमल्लिका

गुरोश्चरणकैङ्कर्यं गुरुकैङ्कर्यमेव यत् ।

अतस्तत्प्रतिमाध्यानमपि तद्ध्यानमेव नः ।। १४३५ ।।

सुरोत्तमटीका

 किं च यथा गुरोश्चरण सेवापि देहाधिष्ठातृ गुरुसेवैव तथा हरिप्रतिमा सेवापि प्रतिमासन्निहितहरिसेवैव । अतोऽपि न कुचोद्याव-काश इत्याह ।। गुरोरिति ।। १४३५ ।।

सत्यप्रमोदटीका

 तद्ध्यानमेव तस्य तत्र सन्निहितत्वेन फलप्रदत्वादिति भावः ।। १४३५ ।।

युक्तिमल्लिका

एवं चात्मैव सेव्योऽभूद्ध्यातव्योऽभूत्स एव हि ।

श्रुतयः स्मृतयस्तस्मादुपास्यं प्राहुरीश्वरम् ।। १४३६ ।।

सुरोत्तमटीका

 स एव आत्मैव ।। १४३६ ।।

सत्यप्रमोदटीका

 श्रुतयः स्मृतयश्चेति ‘‘आत्मानमेव लोकमुपासीत’’ ‘‘नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासत’’ इत्यादयः ।। १४३६ ।।

युक्तिमल्लिका

अधिष्ठानतया तत्र ह्युपास्यं यदमुख्यतः ।

न तद्ब्रह्मेति च प्राहुर्मुख्योपास्यं च तं जगुः ।। १४३७ ।।

सुरोत्तमटीका

 हि यस्मात् । तत्र साधिष्ठानभगवदुपासने । अमुख्यतः उपास्यं यदधिष्ठानम् । तदधिष्ठानम् । तं ईश्वरम् । एवं च यदधिष्ठानं अमुख्यतयोपासते इदं ब्रह्म न । किं तु तदेव मुख्योपास्याधिष्ठातृ-भगवच्चैतन्यमेव त्वं ब्रह्मविद्धीति श्रुतेरर्थस्संपन्नः ।। १४३७ ।।

सत्यप्रमोदटीका

 ‘न प्रतीके न हि सः’ इति सूत्रोक्तमाह अधिष्ठान-तयेति । तथा च नामि्न ब्रह्मेत्युपासीत इत्येवार्थः ।। १४३७ ।।

युक्तिमल्लिका

वस्तुतस्सूक्ष्मतारायास्समीपस्थेति लौकिकः ।

स्थूलां तारां दर्शयन्ति तद्भावं तत्र को वदेत् ।। १४३८ ।।

सुरोत्तमटीका

 किं च स्थूलताराया अरुन्धतीत्वेन शाखाग्रस्य च चन्द्रत्वेनोपास्तौ मिथ्योपासनमाशास्येतापि सैव नास्तीत्याह ।। वस्तुत इति ।। तद्भावः सूक्ष्मतारात्वम् । तत्र स्थूलतारायाम् ।। १४३८ ।।

सत्यप्रमोदटीका

 द्वारमपि द्वारत्वेनैवोपदिशति न तु तदेव तदिति । अतो मिथ्योपास्तेर्न कोऽपि दृष्टान्त इत्याह वस्तुतस्त्विति ।। १४३८ ।।

युक्तिमल्लिका

शाखाग्रदेशे नेन्दोश्च स्यादादेशो विवेकिनाम् ।

शाखाग्रैक्यं तु को वक्ति मिथ्योपास्तिः क्व तेऽस्ति तत् ।। १४३९ ।।

सुरोत्तमटीका

 तत् तस्मात् । इन्द्रचन्द्रेति यं कञ्चिद्राजानं स्तुवन्तोपि गौण्या इन्द्रादिवदैश्वर्य संपत्तिमेवाभिप्रयन्ति । इन्द्राद्यैक्यं तु मनसापि न स्मरन्ति । अतो मिथ्योपास्तौ न किञ्चिन्निदर्शनम् ।। १४३९ ।।

सत्यप्रमोदटीका

 क्वेति धनिकानां इन्द्रचन्द्राद्युक्तिस्तु प्रशंसामात्रं न तु द्वारतया तवैक्याभिप्रायेण इति भावः ।। १४३९ ।।

युक्तिमल्लिका

किञ्चैवमप्युपास्येऽस्मिन्भेदे स्याद्ब्रह्मणोऽन्यता ।

मिथ्यात्वं तु कुतो हेतोरघटो नास्ति किं पटः ।। १४४० ।।

सुरोत्तमटीका

 अपि च इदमुपास्यं ब्रह्म नेति श्रुतिः उपास्यस्य ब्रह्मणोन्यत्वरूपमब्रह्मत्वमेवाह । न तु मिथ्यात्वम् । एवं चैतच्छ्रुति बला-न्नोपास्यस्य मिथ्यात्वसिद्धिः । किं तु तव विवेकस्यैव मिथ्यात्वसिद्धिरित्याह ।। किं चेति ।। उपास्ये त्वयोपास्यतयोक्ते । अघटः घटादन्यः ।। १४४० ।।

सत्यप्रमोदटीका

 अस्तु वा भेदः उपास्यः भिन्नस्य मिथ्यात्वं कुतः । अघटः पटः घटाद्भिन्नः इति ज्ञातः इत्येतावता पटस्य मिथ्यात्वमित्याह किञ्चेति ।। १४४० ।।

युक्तिमल्लिका

उपासते तु यदिदं नेदं ब्रह्मेति तु श्रुतिः ।

यदुपास्यं न तद्ब्रह्मेत्याह तन्नास्तिता कुतः ।। १४४१ ।।

सुरोत्तमटीका

 तन्नास्तिता उपास्यनास्तिता ।। १४४१ ।।

सत्यप्रमोदटीका

 तथा च श्रुत्या उपास्यस्य ब्रह्मभिन्नत्वमेवायाति न मित्थात्वमित्याह उपासत इति ।। १४४१ ।।

युक्तिमल्लिका

न चेत्तद्विदितादन्यदेवेति श्रुत्युपक्रमात् ।

ज्ञेयं च ब्रह्म नेति स्तां ज्ञानोपास्ती मृषार्थयोः ।। १४४२ ।।

सुरोत्तमटीका

 न चेत् उपास्यब्रह्मणोऽन्यत्वं न चेत् । अन्यत्वोक्त्या उपास्यस्य मिथ्यात्वमेवोच्यते चेदित्यर्थः । तद्विदितादन्यदेवेत्यनेन अन्यदेवत-द्विदितादथो अविदितादिति वाक्यं गृह्णाति । उपास्यं ब्रह्म नेतिवत् ज्ञेयं च ब्रह्म नाभूदिति हेतोः ज्ञानोपास्ती द्वे अपि मृषार्थयोः ताम् । मिथ्याभूत-स्योपासनवत् ज्ञानमपि मिथ्याभूतस्यैव स्यात् । उपास्यादन्यद्ब्रह्म विदितादन्यत् ब्रह्मेति वाक्ययोस्समानार्थकत्वात् । उपास्यं ब्रह्म नेत्युक्तेपि उपास्यादन्य-द्ब्रह्मेत्यर्थस्यैव पर्यवसानादिति भावः ।। १४४२ ।।

सत्यप्रमोदटीका

 नेदं यदिदं उपासते इत्यत्र उपास्याद्भिन्नत्वोक्तिमात्रेण यदि उपास्यं मिथ्येति ब्रूषे तर्हि ‘अन्यदेव विदितात्’ इति तत्रैव ब्रह्मणः ज्ञेयादन्यत्वोक्त्या ज्ञेयस्यापि मिथ्यात्वप्राप्त्या ज्ञानोपासने उभे अपि मिथ्याभूतार्थविषयके स्यातामित्याह न चेत्

।। १४४२ ।।

युक्तिमल्लिका

सामस्त्याज्ञानमात्रेण ज्ञेयादन्यद्यदीष्यते ।

तर्ह्युपास्यादन्यदस्तु समस्तोपास्त्यशक्तितः ।। १४४३ ।।

सुरोत्तमटीका

 शङ्कते ।। सामस्त्येति ।। उत्तरमाह ।। तर्हीति ।। १४४३ ।।

सत्यप्रमोदटीका

 यदि अविदितात् इत्यतः प्राक् साकल्येनेति पदं अध्याहृत्य साकल्येनावेद्यं ब्रह्मेत्यर्थो वर्ण्यते तर्हि उपासते इत्यतः पूर्वमपि तत्पदाध्याहारेण साकल्येनोपास्यं नेत्येवम्भावो वर्ण्यतां इत्याह समस्तोपास्त्य- शक्तित इति । सामस्त्येन ब्रह्मोपास्तावन्येषामशक्तितः इत्यर्थः ।। १४४३ ।।

युक्तिमल्लिका

आत्मा वेत्येकवाक्योक्ते ज्ञानोपास्ती कथं द्वयोः ।

अनन्तोपास्ति विधयो बाध्यं तेनोक्तिमात्रतः ।। १४४४ ।।

सुरोत्तमटीका

 आत्मा वेत्यनेन ‘आत्मावा ओ द्रष्टव्यश्श्रौतव्यो मन्तव्यो निदिध्यासितव्य’ इति वाक्यं गृह्णाति । द्रष्टव्य इत्यादि विशेषणपद चतुष्टयेपि आत्मेति विशेष्यपदस्यैवयोजनीयत्वादिति भावः । उक्तिमात्रतः केवलं त्वद्वचनमात्रेण । श्रौतानेकविधीनां वादिवाक्यमात्रेण बाधायोगादिति भावः ।। १४४४ ।।

सत्यप्रमोदटीका

 आत्मेति ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इत्येकस्मिन्वाक्ये दर्शनं निदिध्यासनं चेति ज्ञानोपास्ती विधीयेते । तत्र एकस्यैव आत्मशब्दवाच्यस्य ज्ञेयत्वे सत्यत्वं उपास्यत्वे तु मिथ्यात्वं इति विरुद्धं द्वैरूप्यं न घटते । अतः अनन्तानां उपासनाविधायक-वाक्यानां त्वदुक्तिमात्रेण मिथ्योपासनार्थकत्वं न युक्तमिति भावः ।।१४४४।।

युक्तिमल्लिका

अतः श्रुतिस्मृतिशतैर्विहितोपास्तिगौरवात् ।

अन्यार्थमनुकूलं वा भजेदर्थमियं श्रुतिः ।। १४४५ ।।

सुरोत्तमटीका

 अन्यार्थं उक्तविधया जीवब्रह्मभेदार्थम् । अनुकूलं उक्तविधया उपास्यमानसत्यत्वानुकूलमर्थं वा ।। १४४५ ।।

सत्यप्रमोदटीका

 इयं श्रुतिः नेदं यदिदमुपासते इति श्रुतिः ।।१४४५।।

युक्तिमल्लिका

साक्षिसिद्धमिदं जीव ते रूपं ब्रह्म नोप ते ।

यदास तत्परं ब्रह्मेत्याह सेयं श्रुतिः किल ।। १४४६ ।।

सुरोत्तमटीका

 श्रुतेरर्थान्तरं चाह ।। साक्षीति ।। हे जीव साक्षिसिद्धं इदं ते रूपं ब्रह्मन् । किं तु ते उप समीपे व्याप्ततया त्वद्धृधि तव परितश्च य आस तत्परं ब्रह्मेति श्रुतिराहेति सम्बन्धः । किलेत्यनेनास्मिन्नर्थे उपनिषद्भाष्य संमतिं सूचयति ।। १४४६ ।।

सत्यप्रमोदटीका

 तलवकारभाष्योक्तं श्रुतेरर्थान्तरमाह साक्षीति । हे जीव इदं दुःखित्वबद्धत्वादिना साक्षिप्रमितं जीवचैतन्यं ब्रह्म न । किन्तु यत् ते उप आस यत् ‘सयुजौ’ इति श्रुत्युक्तदिशा तव समीपे एकस्थानस्थितं आस्ते तदेव परं ब्रह्मेति ।। १४४६, १४४७ ।।

युक्तिमल्लिका

तस्माज्जीवेशभेदस्य साधिकेयमभूच्छ्रुतिः ।

उपास्यस्य तु मिथ्यात्वं निर्निमित्तमभूत्तव ।। १४४७ ।।

सुरोत्तमटीका

 तस्मादुक्तार्थस्य पदशक्तिलभ्यत्वात् ।। १४४७ ।।

युक्तिमल्लिका

तृणं दग्धुं न शक्तोग्निर्मरुच्चालयितुं किल ।

गतागतोक्तिप्रत्युक्तिव्यापारैश्चेतनौ हि तौ ।

अशक्तमेवं चैतन्यं देवानामस्ति तद्धृदि ।। १४४८ ।।

विलक्षणतमं ह्येतच्चैतन्यद्वितयं यदा ।

सुराणामपि हृद्यस्ति नराणां हृदि का कथा ।। १४४९ ।।

सुरोत्तमटीका

 किं च स्वशक्त्यैवदैत्याजिता इति देवमनसि स्थित-महंकारं मोचयितुं यक्षरूपेणागतं भगवन्तं विचारयितुं अग्निः कोणाधि-पतिर्वायुश्चेति द्वौदेवौ प्रेषितौ तेन स्थापितं शुष्कतृणमपि दग्धुं चालयितुं च न शक्तौ किल । तौ च उत्तरप्रत्युत्तराभ्यां चेतनौ । एवं च एकत्रनिर्णीत-श्शास्त्रार्थोपरत्रापीति न्यायेन सकलजीवदेहेष्वपि अशक्तं जीवचैतन्यमस्तीति तलवकारोपनिषद्बलादेव सिद्धम् । बहुशोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजये देवा अमहीयध्व-मिति । पुनः पार्वत्युपदेशेन सर्वशक्तं देवासुरयुद्धे कृष्णरामादिवद्बहिर्योद्धृ-ब्रह्मरूपस्याश्रौतत्वेन सर्वदेवां तर्यामिरूपस्यैवा विष्टभूतवद्योद्धृत्वस्यार्थतः प्राप्तत्वात् ईश्वरचैतन्यमपि सर्वदेहेष्वस्तीति तस्यामेवोपनिषदि प्रतिपादितम् । एवं च सुशक्ता शक्तचैतन्ययोर्द्वयोश्श्रुत्या श्रौतार्थापत्त्या च सिद्धं जीवेश्वरभेदं कथं तवोपास्तिर्हन्यादित्याह ।। तृणमित्यादिना ।। किलेत्यनेन तन्नशशाक-दग्धुं तन्नशशाकवातुमिति वाक्यंस्मारयति । तत् तस्मात् दाहादावसामर्थ्यात् । देवानां हृदि ।। १४४८,१४४९ ।।

सत्यप्रमोदटीका

 तलवकारोपनिषद्युक्ता कथा जीवब्रह्मभेदं संस्थाप-यतीत्याह । अग्निरित्यादिना । अग्निमरुदादिदेवा अपि तत्प्रेरणां विना तृणदाहचालनादावप्यशक्ताः । यक्षस्य परमात्मनः अन्तर्यामिणः प्रभावेणैव तैरसुराः पराजिता इति स्पष्टं तत्र वर्ण्यते । एवं श्रुतियुक्तिसिद्धो भेदः नोपास्यत्वमात्रेण बाधमर्हतीति भावः ।। १४४८-१४५० ।।

युक्तिमल्लिका

विरुद्धार्थक्रियाकारि वैलक्षण्यमिदं तयोः ।

कथं ह्युपास्त्या मिथ्या स्यात्किमुपास्तिर्विषाङ्कुरः ।। १४५० ।।

सुरोत्तमटीका

 विरुद्धार्थक्रियाकारिशक्तत्वाशक्तत्वाख्यविरुद्धक्रिया-कारि । वैलक्षण्यं भेदः । उपास्त्येति मिथ्यात्वे उपास्तिमेव हेतुं कुर्वतां श्रुति-युक्त्यादिकं नास्तीति सूचितम् । मास्तु प्रमाणं उपास्तिशक्त्यैव मिथ्यात्व-मस्त्वित्याशङ्कां सोपहासं परिहरति ।। किमिति ।। १४५० ।।

युक्तिमल्लिका

यथा यथा ज्ञानिनस्तमधीश्वरमुपासते ।

वस्तुस्थित्या तथैवासौ भवतीशो न चान्यथा ।। १४५१ ।।

इत्येकवचनान्तस्य भवतीत्यस्य सत्त्वतः ।

अर्थोऽयमपि च श्रौतो मिथ्योपास्तिस्ततोऽपि न ।। १४५२ ।।

सुरोत्तमटीका

 अधुना तं यथा यथोपासत इति श्रुतेस्सयुक्तिकमर्थान्तरं वदन्साक्षादुपास्यस्यैव सत्यत्वं स्थिरीकरोति ।। यथा यथेति ।। उपासत इति बहुवचनबलाज्ज्ञानिन इत्युक्तम् । स इत्यस्यार्थकथनं असावीश्वर इति । एवकारस्यार्थकथनं न चान्यथेति ।। १४५१,१४५२ ।।

सत्यप्रमोदटीका

 श्रुतेरर्थान्तरं वदन् उपास्यस्य सत्यत्वं स्थिरीकरोति यथेति । उपासते इति बहुवचनस्य भवति इत्येकवचनस्य चैककर्तृत्वेऽनुपपत्त्या उपासते इत्यत्र तं इति भवतीत्यत्र असौ इति पदं अध्याहृत्यार्थो वर्णनीय इत्याह तमिति असाविति च । तथैव उपासनानुसारेण भिन्नः सविशेष एव न तु पुनः अभिन्नो निर्विशेषश्चेत्याह वस्तुस्थित्या इति ।। १४५१,१४५२ ।।

युक्तिमल्लिका

प्राग्विभक्तेर्विपरिणत्यर्थोऽत्र तु यथा श्रुतः ।

त्रयोर्थास्सर्ववेदेष्वित्यस्ति यद्व्यासशासनम् ।। १४५३ ।।

सुरोत्तमटीका

 संभावितानेकार्थकथनमपि पूर्वाचार्याभिप्रेतमेवेत्याह ।। त्रय इति ।। १४५३ ।।

सत्यप्रमोदटीका

 त्रयोऽर्थाः इति ‘त्र्यर्थतां श्रुतिषु वित्त’ इति वचनात् ।। १४५३ ।।

युक्तिमल्लिका

अहो न च रमन्त्येते तथैवात्महनश्च ते ।

उपासते ये त्वसत्यमित्याह श्रुतिगीतिका ।। १४५४ ।।

सुरोत्तमटीका

 न च रमंत्यहो असदुपासनया आत्महनो जना इति श्रुतिगीतावचनेनापि विनिन्दितमसदुपासनमित्याह ।। अहो इति ।। आत्महनः परमात्महनः ।। १४५४ ।।

सत्यप्रमोदटीका

 ‘न च रमन्त्यहो असदुपासनया आत्महनो जनाः’ इति श्रुतिगीतिकायां मिथ्योपासनस्य निन्दितत्वाच्च न पराभिमतः श्रुत्यर्थ इत्याह अहो इति ।। १४५४ ।।

युक्तिमल्लिका

अतो विनिन्दितामेतां कथं वक्ति श्रुतिस्सती ।

तेनोपास्यं समस्तं च सत्यमित्यागतं बलात् ।। १४५५ ।।

सुरोत्तमटीका

 श्रुतिः नेदं यदिदमुपासत इति श्रुतिः । तेन असदुपासनाविनिन्दनेन ।। १४५५ ।।

युक्तिमल्लिका

ध्यानाय मननं तस्मै श्रवणं दर्शनाय तत् ।

इति तेऽपि मतं तस्माद्दृष्टिध्यानेन भिन्नयोः ।। १४५६ ।।

सुरोत्तमटीका

 श्रवणमनननिदिध्यासनापरोक्षज्ञानानां त्वयाप्येक-विषयत्वाङ्गीकारादपसिद्धान्तश्चेत्याह ।। ध्यानायेति ।। तस्मै मननाय । तत् श्रवणम् ।। १४५६ ।।

सत्यप्रमोदटीका

 अपसिद्धान्तं च परस्याह ध्यानायेति । तस्मै मननाय’ श्रवणजं ज्ञानं पूर्ववृत्तं’ इति सुधोक्तेः । तत् श्रवणं दर्शनायेति ते मतं इत्यन्वयः । स्वमते शब्दस्यापरोक्षज्ञानहेतुताया दूषितत्वात् (न्याया.३। ९। प.६३५) स्वमते तु निदिध्यासनमेवाङ्गि श्रवणं तु तदङ्गमित्यन्यदेतत् । श्रवणध्यानदर्शनानां समानविषयकत्वं हि परस्य सिद्धान्तः ।। १४५६ ।।

युक्तिमल्लिका

न चेत्तवाश्रुतध्यानमश्नुते क्षणमेव वा ।

आपतेत द्वयं चापि न युक्तं नापि ते मतम् ।। १४५७ ।।

सुरोत्तमटीका

 न चेत् ध्यानापरोक्षज्ञाने एकस्य न चेत् । श्रवणदर्शन-योरेकविषयत्वे अश्रुतस्य ध्यानम् । सत्यार्थदर्शनानुगुणसत्यार्थ श्रवणस्या-सत्यार्थध्यानाननुगुणत्वात् । एवमेव श्रवणध्यानयोरेक विषयत्वे अश्रुतस्येक्षण-मिति भावः ।। १४५७ ।।

सत्यप्रमोदटीका

 न चेत् ध्यानापरोक्षयोः समानविषयकत्वं न चेत् ।। १४५७ ।।

युक्तिमल्लिका

श्रवणं करणं तत्त्वसाक्षात्कारश्च तत्फलम् ।

श्रवणादेव च ध्यानं तत्रान्योऽर्थः कुतोऽपतत् ।। १४५८ ।।

सुरोत्तमटीका

 तत्र ध्याने ।। १४५८ ।।

सत्यप्रमोदटीका

 अन्यः अर्थः श्रवणाविषयः मिथ्याभूतः ।।१४५८।।

युक्तिमल्लिका

किञ्चासम्भावनोच्छित्यै मननं किल ते मते ।

ध्यानं च विपरीतार्थभावनोच्छित्तये किल ।। १४५९ ।।

तद्ध्यानं विपरीतार्थविषयं चेत्कथं ततः ।

विपरीतार्थविषयभावनोच्छिद्यते वद ।। १४६० ।।

सुरोत्तमटीका

 प्रकारान्तरेणाप्यपसिद्धान्तमाह ।। किं चेति ।। १४५९,१४६० ।।

सत्यप्रमोदटीका

 विपरीतेति । श्रवणाद्विपरीतेत्यर्थः ।।१४५९,१४६०।।

युक्तिमल्लिका

न चेदुन्मत्तवार्ता स्याच्छास्त्रवार्ता तवाखिला ।। १४६१ ।।

सुरोत्तमटीका

 नचेत्सत्यस्योपासनं न चेत् । पूर्वोत्तरविरुद्धभाषित्वा-दिति भावः ।एतदेवाभिप्रेत्य प्रागस्माभिस्संगतिकाले कथितम्।।१४६१ ।।

सत्यप्रमोदटीका

 उन्मत्तवार्ता पूर्वोत्तरविरोधात् सकलप्रमाणविरोधा-दपसिद्धान्ताच्च ।। १४६१ ।।

युक्तिमल्लिका

तन्निर्गुणार्थश्रवणे ध्यानं निर्गुणगोचरम् ।

त्वयापि सर्वथा वाच्यं न चेदङ्गाङ्गितैव न ।। १४६२ ।।

सुरोत्तमटीका

 तत् स्वग्रन्थ एवोक्तत्वात् दूषणान्तरं चाह ।। न चेदिति ।। न चेत् ध्यानश्रवणयोरेकविषयता न चेत् । अङ्गाङ्गिता । ध्यान-स्याङ्गिता श्रवणस्याङ्गतेत्यर्थः ।। १४६२ ।।

सत्यप्रमोदटीका

 अङ्गाङ्गिता त्वन्मते श्रवणस्याङ्गिता ध्यानस्याङ्गता । वस्तुगत्या वैपरीत्यम् । सर्वथा समानविषयकत्वमावश्यकमेवेति भावः ।। १४६२ ।।

युक्तिमल्लिका

यतः फलैक्ये सति सा बोध्यैक्ये च फलैकता ।

सत्यार्थश्रवणे तस्मात्सत्यार्थस्यैव भावना ।। १४६३ ।।

सुरोत्तमटीका

 एतदेवोपपादयति ।। यत इति ।। सा अङ्गाङ्गिता । फलवत्सन्निधावफलं ह्यङ्गं अफलं फलान्तररहितमित्यर्थः । सर्वथाऽफलत्वेऽ-कार्यत्वप्रसङ्गादिति भावः । बोध्यैक्ये बोध्यस्य श्रवणविषयस्य ध्यानविषयस्य च ऐक्ये । विषयप्रतिपादनेनैव दार्ढ्याख्य फलजनकयोः प्रमाणद्वययोरेक-विषयत्वनियमदर्शनादिति भावः । तस्मात् श्रुतस्यैव भावयितुं शक्यत्वात्

।। १४६३ ।।

सत्यप्रमोदटीका

 फलं त्वन्मते निर्विशेषसाक्षात्कारः । बोध्यः निर्विशेषम् । तथा च श्रवणस्य तद्विषयकत्वे ध्यानस्यापि भेदोपासनं त्वन्मते दुर्घटम् । श्रवणस्य मिथ्यार्थत्वं व्यापकं, तच्च त्वया नाङ्गीकृतम् । तच्च व्यावर्त-मानं ध्यानस्य मिथ्यार्थकत्वं व्यावर्त्य सत्यार्थकत्वं व्यवस्थापयति । एवं च भेदस्योपास्यत्वेऽपि सत्यत्वमेव सिद्ध्यतीत्याह तस्मादिति ।।१४६३,१४६४।।

युक्तिमल्लिका

मिथ्यार्थश्रवणे तु स्यान्मिथ्यार्थस्यापि भावना ।

तस्मादुपास्यो भेदोऽस्तु सत्योऽप्यस्तु श्रुतीरितः ।। १४६४ ।।

सुरोत्तमटीका

 तस्मात्सत्यश्रवणे सतय्पासन नियमात् । मिथ्याश्रवणस्य त्वयाप्यनङ्गीकारात् ।। १४६४ ।।

युक्तिमल्लिका

उपास्तेरेव बलतो मिथ्यात्वं तु तवापि न ।

अतः पूर्वोक्तवेदर्चोऽप्यापातार्थो न यौक्तिकः ।। १४६५ ।।

सुरोत्तमटीका

 उपास्तेर्विपरीतभावनानिवारकोपास्तेः । अतः असत्यो-पासनस्यायोगात् । पूर्वोक्तवेदः नेदं यदिदमिति वेदः । आपातार्थः उपास्य-मिथ्यात्वम् ।। १४६५ ।।

सत्यप्रमोदटीका

 ऋक् ‘नेदं यदिदं’ इत्यादिका ।। १४६५ ।।

युक्तिमल्लिका

योग्यार्थे तां निनीषोस्ते गुरुरासीज्जगद्गुरुः ।

अतो भेदश्रुतेरर्थं न भेत्तुं कोऽपि शक्नुयात् ।। १४६६ ।।

सुरोत्तमटीका

 तां श्रुतिं जगद्गुरुः श्रीमुख्यप्राणः । योग्यार्थस्य त्वयापि वक्तव्यत्वात् अस्मदाचार्योक्तप्रकारेणैव श्रुतेरर्थं वदेति भावः ।।१४६६,१४६७ ।।

सत्यप्रमोदटीका

 ते गुरुः इति तेन त्वया अकामेनापि मद्भाष्यकृदुक्तः अर्थ एव उपेयः इति भावः ।। १४६६ ।।

युक्तिमल्लिका

पदद्वयाविरुद्धोऽयं श्रुत्यर्थः केन चाल्यते ।

तत्पदाभ्यां विरुद्धं तु तदैक्यं चलनोचितम् ।। १४६७ ।।

सत्यप्रमोदटीका

 तत्त्वमसीति वाक्यस्य भेदे निरवकाशत्वं, ऐक्ये तु सादृश्यादिपरत्वेन सावकाशत्वं इत्याह पदद्वयेति ।। १४६७ ।।

युक्तिमल्लिका

पश्येज्जीवो यदा रुग्मवर्णं कर्तारमीश्वरम् ।

पुरुषं ब्रह्मपितरं तदा त्यक्त्वा तमोऽञ्जनम् ।

विधूय सकलं कर्म परं साम्यमुपैति च ।। १४६८ ।।

सुरोत्तमटीका

 अधुना ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदाविद्वान्पुण्यपापेविधूयनिरंजनः परमं साम्यमुपैती’ति श्रुतेरर्थ-पर्यालोचनायां सर्वं मध्वमत रहस्यं तस्य पारमार्थिकता च सिद्धेत्याह ।। पश्येदिति ।। कर्तृपदसूचित कर्तृकार्यभावेन ईशपदसूचितस्वामिभृत्यभावेन च सकलजीवभेदस्य ब्रह्मयोनिपदे न च चतुर्मूखाख्यजीवभेदस्य च श्रुत्यैव सयुक्तिकं साधितत्वाज्जीवेश भेदस्येत्युक्तम् ।भेदसापेक्षसाम्यस्यैव फलतया कथनात् मुक्तस्यापि च भिन्नतामित्युक्तम्।।१४६८,१४६९ ।।

सत्यप्रमोदटीका

 ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्म-योनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इति श्रुतिं अर्थतोऽनुवदति पश्येदिति ।। १४६८ ।।

युक्तिमल्लिका

इति जीवेशभेदस्य साक्षात्कारेण हि श्रुतिः ।

परमं मोक्षमाचष्ट मुक्तस्यापि भिन्नताम् ।। १४६९ ।।

न ह्यञ्जनाख्यतमसः कर्मणोः पुण्यपापयोः ।

क्षयः परमसाम्यं च महामोक्षमृते भवेत् ।। १४७० ।।

सुरोत्तमटीका

 अवान्तरमोक्षत्वशङ्कां परिहरति ।। नहीति ।। १४७० ।।

सत्यप्रमोदटीका

 अनया श्रुत्या सिद्धान्तसकलप्रमेयसिद्धिप्रकारमाह इतीत्यादिभिः । भेदस्येति । कर्तृत्वईशत्वपुरुषत्वलक्षणपूर्णत्वचतुर्मुखयोनि-त्वादिविरुद्धधर्मकथनेनेति भावः । मोक्षस्य परमत्वसिद्धिप्रकारमाह न हीति अञ्जनं अविद्याख्यं तमः । पुण्यपापविधूनने विशेषः ‘तदधिगम’नय-भाष्यटीकाऽनुसारेणावसेयः ।। १४६९,१४७० ।।

युक्तिमल्लिका

साकारस्य सवर्णस्य कर्तुस्सर्वेश्वरस्य च ।

साक्षात्कारोऽस्य भेदादेः किं न साक्षात्कृतिर्वद ।। १४७१ ।।

सुरोत्तमटीका

 भेदादेरस्येति सम्बन्धः । अस्याकारवर्णकर्तृत्वेशत्व ब्रह्मपितृत्वाख्य धर्मसमुदायस्य । विशिष्टसाक्षात्कारे विशेषण साक्षात्कार-स्याप्यवश्यकत्वादिति भावः ।। १४७१ ।।

सत्यप्रमोदटीका

 अस्य भिन्नस्य । भेदादेः आदिपदेन अकारादि भेदकधर्माणां ग्रहणम् । किं न इति । तेषां तत्स्वरूपत्वादिति भावः ।।१४७१।।

युक्तिमल्लिका

यदा तदेतिशब्दाभ्यां पारम्पर्यनिषेधनात् ।

साक्षान्मोक्षोपयोगित्वं ज्ञानस्यास्य निगद्यते ।। १४७२ ।।

सुरोत्तमटीका

 यस्मिन्काले दर्शनं तस्मिन्काले साम्यमुपैतीत्युक्त्यादर्शन मोक्षकालयोरव्यवधानलाभात् पारंपर्यनिषेधनादित्युक्तम् । अस्य ज्ञानस्य भेदाकारादिज्ञानस्य ।। १४७२ ।।

सत्यप्रमोदटीका

 साक्षादिति । ‘स्वोदयात्फलदं ज्ञानं’ इत्युक्तेः । प्रसादस्तु ईश्वरगतः न अधिकारिनिष्ठः इति भावः ।। १४७२ ।।

युक्तिमल्लिका

अतस्साकारतावर्णः कर्तृत्वेशत्वपूर्वकः ।

महिमा ब्रह्मपितृता भिदा चाबाध्यतामगात् ।। १४७३ ।।

यतस्साम्यं द्वयोरेव ततो मोक्षेऽपि भिन्नता ।। १४७४ ।।

सुरोत्तमटीका

 अतः साक्षान्मोक्षोपयोगि ज्ञानविषयत्वात् ।। १४७३,१४७४ ।।

सत्यप्रमोदटीका

 अतः मोक्षोपयोगिज्ञानविषयत्वात् ।।१४७३,१४७४।।

युक्तिमल्लिका

एवं च तत्त्ववाद्युक्ततत्त्वसर्वस्वमेव हि ।

तत्त्वमासीदतत्त्वस्य दर्शनान्न हि मुक्तता ।

अतोऽपि शङ्का पङ्कस्य नावकाशोऽत्र कश्चन ।। १४७५ ।।

सुरोत्तमटीका

 शङ्कापङ्कस्य बाधादिशङ्कापङ्कस्य । अत्र द्वासुपर्णेति श्रुत्याप्रतिपादितभेदे । एतच्छ्रुतिसमाख्यया साप्यबाधितभेदपरैवेति भावः ।। १४७५ ।।

सत्यप्रमोदटीका

 अत्र भेदे तत्पारमार्थ्ये च ।। १४७५ ।।

युक्तिमल्लिका

भिन्नाभिन्नादिकल्पोक्तदूषणैर्भेददूषणम् ।

जात्युत्तरं हि तत्सर्वं यत्खण्डनकृताकृतम् ।

व्यावहारिकभेदस्याप्यपलापप्रसङ्गतः ।। १४७६ ।।

सुरोत्तमटीका

 प्राक् भेदे क्रियमाणभिन्नादिविकल्पस्य दूषणस्य च ऐक्येपि वक्तुं शक्यत्वात् स्वव्याहतिरित्युक्तम् । अधुना एवं विकल्प्य भेददूषणे कृते स्वाङ्गीकृत व्यावहारिकत्वस्यापि भङ्गप्रसङ्गात् स्वव्याहतिरित्याह ।। भिन्नाभिन्नादीति ।। १४७६ ।।

सत्यप्रमोदटीका

 पूर्वं अभेदपक्षेऽपि समानः प्रसङ्ग इत्युक्तम् । व्यावहारिकभेदपक्षेऽपि इत्युक्तेः पूर्वोक्ताद्भेदः ।। १४७६ ।।

युक्तिमल्लिका

भेदभेदेऽनवस्थानमभेदे चैकशेषता ।

भेदाभेदे विरोधश्चेत्येतद्धि तव दूषणम् ।। १४७७ ।।

सुरोत्तमटीका

 प्राग्विकल्पानां दूषणानां च स्पष्टमनुक्तत्वात् इदानीमाह ।। भेदभेद इति ।। भेदस्य धर्मिणस्सकाशात् भेद इत्यर्थः।।१४७७ ।।

सत्यप्रमोदटीका

 तद्दूषणप्रकारं खण्डनसौकर्यायानुवदति भेदभेद इति तदुक्तं वादावल्यां ‘तत्तद्भेदस्य भेदान्तरभेदेऽनवस्थानादि’ति । एकशेषता । इत्युपलक्षणम् । सम्बन्धितया प्रतीतिः अपर्यायशब्दवाच्यत्वं इत्यादि सकल-भेदव्यवहारानुपपत्तयो ग्राह्याः । अतः चतुर्थप्रकारस्य अनिर्वचनीयत्वस्य सिद्धिरिति परस्य हृदयम् ।। १४७७ ।।

युक्तिमल्लिका

आत्माश्रयानवस्थाद्यैर्दोषैर्भेदस्य दूषणे ।

व्यावहारिकताऽप्यस्य कथं स्याद्या मता तव ।। १४७८ ।।

सुरोत्तमटीका

 भेदभिन्नधर्मिणः पुनर्भेदात् भिन्नत्वकथने आत्माश्रय-प्रसक्त्या अभेदपक्षे आत्माश्रयदोषस्यापि सत्त्वात् आत्माश्रयानवस्थादि दूषणै-रित्युक्तम् । अस्य भेदस्य । या व्यावहारिका ।। १४७८,१४७९ ।।

सत्यप्रमोदटीका

 यदि भेददर्शनं वास्तवं स्यात् तर्हि अन्योन्याश्रयादिकं स्यात् इति खलु आपादनीयम् । तत्र च व्याप्तिवैधुर्यमिति वादावल्युक्तदूषणे स्थिते तस्य स्फुटत्वाद्दोषान्तरमाह । व्यावहारिकतेति । तथा च प्रतितर्क-पराहतिः ।। १४७८ ।।

युक्तिमल्लिका

किं घटः पटहेतुस्ते पटो वा घटहेतुकः ।

किं स्वयं स्वोपरिघटः किं स्याद्घटपरम्परा ।। १४७९ ।।

तद्व्यावहारिकेऽप्यर्थे दोषा न स्युरिमे कथम् ।। १४८० ।।

सुरोत्तमटीका

 तत् तस्मात् घटादि व्यावहारिकपदार्थेष्वप्यात्माश्रयादे-र्दोषत्वस्य त्वयाप्यङ्गीकारात् । अर्थे भेदरूपेऽर्थे ।। १४८० ।।

सत्यप्रमोदटीका

 व्यावहारिकत्वेऽपि उक्तदोषाणां न परिहार इत्याह । किं घटः इति । उत्पत्तौ दोषमुक्त्वा प्रवृत्तावप्याह किं स्वयमिति

।। १४७९-१४८१ ।।

युक्तिमल्लिका

अतस्ते व्यवहाराय समाधानं हि यद्भवेत् ।

तदेव पारमार्थ्येऽपि समाधानं भविष्यति ।। १४८१ ।।

सुरोत्तमटीका

 व्यवहाराय भेदे व्यावहारिकत्वव्यवहाराय । पारमार्थ्ये भेदपारमार्थ्ये । भेदस्य मिथ्यात्वात् अनवस्थादिकं न दोष इति त्वयापि न वक्तुं शक्यम् । मिथ्याभूतघटेष्वेव एषां दोषत्वाङ्गीकारात् । प्रकारान्तरेण परिहारे ममापि स एव परिहारो भविष्यतीति भावः ।। १४८१ ।।

युक्तिमल्लिका

किञ्च ते परमार्थैक्ये विकल्पो दूषणानि च ।

भवन्त्येतानि सर्वाणि ततस्तच्च मरिष्यति ।। १४८२ ।।

सुरोत्तमटीका

 प्रागुक्तस्वव्याहतिं च स्मारयति ।। किं चेति ।। तत् ऐक्यम् ।। १४८२ ।।

सत्यप्रमोदटीका

 स्वाभिलषितस्याभेदस्याप्यसिद्धेरिति उक्तं स्मारयति इदं चोपलक्षणम् । ब्रह्मण्यपि प्रपञ्चाद्भिन्नं अभिन्नं वा इत्यादि विकल्पदोषाः समा एवेति वादावल्युक्तं च ग्राह्यम् । ततश्च ब्रह्मापि अनिर्वचनीयं स्यादिति ।। १४८२ ।।

युक्तिमल्लिका

मृतसञ्जीवनं तत्र यत्स्याद्भेदेऽपि तद्भवेत् ।

अतो यत्किञ्चिदेवैतदिति सर्वं मनोरमम् ।। १४८३ ।।

सुरोत्तमटीका

 तत्रैक्ये । एतत् विकल्पो दूषणं च ।। १४८३ ।।

सत्यप्रमोदटीका

 यत् विशेषः । यत्किञ्चिदिति तदुक्तं उदयनेन ‘एतामेव जातिमवष्टभ्य शुष्कतर्कवादिनम् । बौद्धचार्वाकवेदान्तिनां बालव्यामोहहेतवः कण्ठकोलाहलाः’ इति ।। १४८३ ।।