प्रधानसदृशाकारवर्णाधिष्ठानदर्शने
प्रतिकूलतर्कपराहतिः
युक्तिमल्लिका
प्रधानसदृशाकारवर्णाधिष्ठानदर्शने ।
तथा तथा भ्रमोऽपि स्यान्नान्यथा यत्र कुत्रचित् ।। ५४४ ।।
सुरोत्तमटीका
परपक्षे कल्पनागौरवमेव प्रदर्शयति ।। प्रधानेति ।। प्रधानं सत्यरजतसर्पादिकम् । सर्पघटादिभ्रमे आकारसादृश्यस्याप्यपेक्षितत्वा-त्सोऽपि गृहीतः । प्रधानसदृशाकारवर्णं यदधिष्ठानं शुक्तिरज्ज्वादि । तद्दर्शने । तथा तथा भ्रमः । रजतसाम्ये रजतभ्रमः रज्ज्वादिसाम्ये रज्ज्वादिभ्रमः ।।५४४।।
सत्यप्रमोदटीका
एतावता दृग्दृश्ययोराध्यासिकसम्बन्धाङ्गीकारेण जगतो मिथ्यात्वसाधनं न सम्भवतीत्युपपादितम् । इदानीं मिथ्यात्वसाधकपरोक्तहेतूनां प्रतिकूलतर्कपराहतिं समर्थयिष्यमाणः, उपोद्घातमाह प्रधानेति । अनेन ‘अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना । न भ्रान्तिर्भवति क्वापि स्वप्रमायादि- केष्वपि’ इति भगवत्पादीयं वचनं प्रमाणयति ।। ५४४ ।।
युक्तिमल्लिका
पृथुबुध्नोदराकारघटवर्णशिवादिके ।
घटभ्रमस्तथैवोर्ध्वे स्थाण्वादौ पुरुषभ्रमः ।
रजताकारसदृशवर्णे तु रजतभ्रमः ।। ५४५ ।।
सुरोत्तमटीका
तदेव दर्शयति ।। पृथ्विति ।। ५४५ ।।
सत्यप्रमोदटीका
प्रधानाधिष्ठानयोः सादृश्यं सर्वथाऽपेक्षितमित्येतत् दृष्टान्तैरुपपादयति पृथ्विति । तदुक्तं भगवत्पादैः ‘न हि सत्यशुक्तेः सत्य-रजतस्य तयोः सादृश्यस्य चाभावे भ्रान्तिर्भवति’ इति ।। ५४५ ।।
युक्तिमल्लिका
विचित्राकारवर्णानामनन्तानन्तधर्मिणाम् ।
शुद्धब्रह्मण्यधिष्ठाने विश्वविभ्रमसिद्धये ।
स्वभावसिद्धा सिद्धाऽभूज्जगदाकारवर्णता ।। ५४६ ।।
सुरोत्तमटीका
अस्त्वधिष्ठानस्य प्रधानसदृशाकारवर्णता । प्रकृते किमागतमित्यत आह ।। विचित्रेति ।। अनन्तानन्तवर्णानामनन्तानन्तधर्मिणां महीमहीधरसरित्समुद्रघटपटादिधर्मिणाम् अधिष्ठाने आरोपाधिष्ठान इति सम्बन्धः । स्वभावसिद्धा अनारोपिता । जगदाकारवर्णता जगतः आरोप्यमाण जगतः तत्प्रधानभूतजगदन्तरस्य वायोर्य आकारोवर्णश्च तत्समानाकारवर्णते-त्यर्थः । अनन्तानन्तजगदारोपस्याधिष्ठानभूतं ब्रह्मपरमार्थत एव जगत्सदृशा-नन्तानन्तवर्णाकारभरितं भवेदिति भावः ।। ५४६ ।।
सत्यप्रमोदटीका
प्रकृतोपयोगमाह विचित्रेति । धर्मिणामित्यनन्तरं आरोपस्येति शेषः । अधिष्ठाने इत्यनेन सम्बन्धः । शुद्धेति विशिष्टस्य मिथ्या-त्वेनाधिष्ठानत्वानुपपत्तेः । स्वभावसिद्धा सत्या । भ्रान्तिकल्पितत्वे, अधिष्ठाना-न्तरापेक्षयाऽनवस्थया मूलक्षतेः । अनेन निराकारस्य शुद्धस्याधिष्ठानत्वं वदतः परस्य व्याघातो दोषोऽप्युक्तो ध्येयः ।। ५४६ ।।
युक्तिमल्लिका
अधिष्ठानमनारोप्यं तवैवावश्यकं मते ।
ब्रह्मणः पारमार्थ्यं हि न सिद्ध्येदन्यथा तव ।। ५४७ ।।
निरधिष्ठानकभ्रान्तिवादिता च भवेद्ध्रुवम् ।
अधिष्ठानं हि शुद्धं ते व्यावहारिकविभ्रमे ।। ५४८ ।।
सुरोत्तमटीका
अधिष्ठानवर्णाकारादेः पारमार्थ्यम् अधिष्ठानसत्यत्व-वादिनस्तवैवापेक्षितम् । अतो नास्माभिः पृथक्प्रयतितव्यमित्याह ।। अधिष्ठानमिति ।। अन्यथा अधिष्ठानस्याप्यारोपितत्वे निरधिष्ठानकभ्रान्ति-वादिता बौद्धतेत्यर्थः । व्यावहारिक विभ्रमे व्यावहारिकस्यविभ्रमे । हिशब्देन शुक्त्यादिसविकल्पकप्रमाबाध्यस्य प्रातिभासिकस्य व्यावहारिकाधिष्ठानत्व-सम्भवेऽपि ब्रह्मप्रमैकबाध्यस्य व्यावहारिकस्य निर्विकल्पकरूपचरमप्रमा-विषयीभूतं शुद्धं ब्रह्मैवाधिष्ठानमिति परप्रसिद्धिं सूचयति ।। ५४७,५४८ ।।
सत्यप्रमोदटीका
तवेति अधिष्ठानत्वान्यथाऽनुपपत्त्या ब्रह्मणः पारमार्थ्यं वदत इत्यर्थः ।। न चेच्छून्यवादप्रवेशः स्यादित्याह निरधिष्ठानेति । अधिष्ठानस्य आरोपितसत्ताऽधिकसत्ताकत्वनियमाङ्गीकारेणापि अधिष्ठानस्य शुद्धत्वं पारमार्थिकत्वं च तवावश्यकमित्याह अधिष्ठानमिति । व्यावहारिक-विभ्रमे व्यावहारिकस्य विभ्रमे । व्यावहारिकवियदादिविषयकविभ्रमे । बाधिकायाश्चरमप्रमायाः परमार्थशुद्धविषयकत्वाङ्गीकारादिति भावः ।। ५४७,५४८ ।।
युक्तिमल्लिका
सोपाधिकभ्रमेऽपि स्यादुपाधेस्तादृगात्मता ।
पीतः पीतेन पित्तेन तिक्तस्तिक्तेन तेन हि ।। ५४९ ।।
सुरोत्तमटीका
सोपाधिकभ्रमत्वाङ्गीकारेऽपि ब्रह्मणो जगदाकारत्वं न मुञ्चतीत्याह ।। सोपाधिकेति ।। तादृगात्मना भ्रमप्रकारीभूताकारगुण-सदृशाकारगुणवत्तेत्यर्थः । पीतः शङ्खे पीत इति भ्रम इत्यर्थः । पीतेन पीतवर्णेन । पित्तेन पित्ताख्योपाधिना भवतीत्यर्थः । तिक्तः गुडस्तिक्त इति भ्रमः । तिक्तेन तिक्तरसयुक्तेन । तेन पित्तेन ।। ५४९ ।।
सत्यप्रमोदटीका
तादृगात्मता भ्रमे भासमानवर्णादिसदृशवर्णादिमत्त्वम् । पीतवर्णोपेतनायनपित्तरूपोपाधिना । पीतः । शङ्खः पीत इति भासते । तेन आस्यगतपित्तेन तिक्तः । गुडः तिक्तः इति भ्रमो भवतीत्यर्थः ।। ५४९ ।।
युक्तिमल्लिका
तवोपाधिरविद्यैव तत्राकारादिकल्पितम् ।
उपाध्यन्तरशून्यत्वान्निरुपाधिकमेव तत् ।। ५५० ।।
सुरोत्तमटीका
तव मते उपाधिः जगदारोपोपाधिः । तत्र अविद्यायाम् । अविद्याया एव कल्पितत्वादिति भावः । तत् अविद्यायां कल्पितमाकारवर्णादिकम् ।। ५५० ।।
युक्तिमल्लिका
तन्निष्ठनियताकारभ्रान्त्यै ब्रह्म भवेत्तथा ।
अतो जगद्भ्रमायाभूद्ब्रह्मैव जगदन्तरम् ।। ५५१ ।।
सुरोत्तमटीका
तन्निष्ठनियताकारभ्रान्त्यै अविद्यानिष्ठनिरुपाधिकनियत जगद्भ्रमहेतुभूतनानाकारवर्णरसादिभ्रान्त्यै । तथा आरोप्यमाणाविद्यानिष्ठा-कारादिसदृशाकारादिप्रधानीभूतजगदन्तरसदृशाकारवच्चेत्यर्थः । निरुपाधिकभ्रमे अधिष्ठानस्यैव प्रधानसादृश्यनियमात् जगद्भ्रमस्यौपाधिकत्वेऽपि तद्भ्रमसिद्ध्यर्थ-मुक्तरीत्या यदुपाधौ जगदङ्गीकार्यं तस्य निरुपाधिकभ्रमसिद्धत्वेनानन्त-तस्तद्भ्रान्त्यर्थमेवाधिष्ठानभूते ब्रह्मणि पारमार्थिकजगदन्तरं प्रधानीभूतजगदन्तरं चाङ्गीकार्यम् । एवं च सोपाधिकभ्रमत्वाङ्गीकारेऽपि परस्य जगच्चतुष्टयकल्पनया कल्पनागौरवम् । बकबन्धप्रयासश्चाधिकोऽभूत् । अस्मदुक्तदोषपरिजिहीर्षा तु शीर्षापगमेऽपि न भवतीति भावः । अतः द्विप्रकारकभ्रमेऽपि ब्रह्मणि जगदन्तरस्यावश्यकत्वात्
।। ५५१ ।।
सत्यप्रमोदटीका
तथा च जगद्भ्रमस्यौपाधिकत्वोपगमेऽपि न सत्य-जगदन्तराङ्गीकारापत्तिदोषनिस्तार इति निरूपयति तवेत्यादिना । अविद्यैवेष्टा । आरोपिते भासमानाकारसदृशाकारवत्त्वम् उपाधेरावश्यकमित्युक्तम् । अविद्याया अपि कल्पितत्वात् तत्राकारसिद्ध्यर्थं पुनः उपाध्यन्तरंवा तादृशाकारोपेतं अधिष्ठानान्तरं प्रधानान्तरं च वा स्वीकर्तव्यम् । न चाविद्याभ्रमस्य अन्य उपाधिः परमतेऽस्तीत्याह उपाध्यन्तरशून्यत्वादिति । अतः निरुपाधिकभ्रमे क्लृप्तं सत्यजगदन्तरद्वयं अधिष्ठानप्रधानभूतम् अङ्गीकार्यम् । तथा च जगदारोपार्थं द्वयं, अविद्यारोपार्थं च द्वयं इति सत्यजगच्चतुष्टयाङ्गीकार आपन्नः । एवं च वृश्चिकभिया पलायमानस्याशीविषमुखे निपात इति भावः । अतः भ्रमस्य सोपाधिकत्वनिरुपाधिकत्वरूपपक्षद्वयेऽपि ब्रह्मात्मकसत्य-जगदङ्गीकारस्यावश्यकत्वात् ।। ५५१ ।।
युक्तिमल्लिका
ममास्तु तज्जगत्सत्यं मनोरथरथोपमम् ।
इदं जगत्तवैवास्तु मिथ्यामिथ्यात्ववादिनः ।। ५५२ ।।
सुरोत्तमटीका
तज्जगत् ब्रह्मणि त्वयाङ्गीकृतं जगत् । मनोरथरथोपमं इदं जगत् । अत एव मिथ्या मिथ्याभूतम् । तवैवास्त्विति सम्बन्धः । मिथ्यात्ववादे ब्रह्मणि सत्यजगदन्तरस्याङ्गीकर्तव्यत्वात् कल्पनागौरवम् । सत्यत्ववादे तु ब्रह्मणि जगदन्तरस्याकल्प्यत्वात् कल्पनालाघवम् । ममास्तु तज्जगदिति परपरिहासाय वा अस्यैव जगतः विश्वरूपस्य हरेः पादाद्य-वयवलोमनखाद्याश्रितत्वाद्वोक्तमिति भावः ।। ५५२ ।।
सत्यप्रमोदटीका
अधिष्ठानभूतं अत एव सत्यं त्वयाङ्गीक्रियमाणं ब्रह्मात्मकं जगदेकम् । अपरं त्वयाऽऽरोपितत्वेन मिथ्याभूतं जगदपरम् । द्वयोर्मध्ये आद्यं, सतां मनोरथरथोपमम् अर्थक्रियासमर्थं, जगत् मम अस्तु । ब्रह्मात्मकम् इति पररीत्या । वस्तुतस्तु ‘इदं हि विश्वं भगवानिवेतरं यतो जगत्स्थानविरोधसम्भवः’ इति स्मृत्युक्तदिशा ब्रह्मस्वामिकं इत्येव तात्पर्यार्थः । अपरं मिथ्यात्ववादिनः तवास्तु । तत्रान्नपानादीनां अर्थक्रियाऽसमर्थत्वेन अभावेन तव नित्योपवासात् ‘क्षुत्क्षामान्’ इत्युक्तरीत्या तमःसाधनत्वात् । सत्यत्ववादिनः ब्रह्मप्राप्तिरूपो मोक्षः । आरोपितत्वं वदतो मायिनः ‘असत्य-मप्रतिष्ठं ये जगदाहुरनीश्वर ।। मामप्राप्यैव कौन्तेय ततो यान्त्धमां गतिम्’ इति स्मृत्युक्तं तम एव । इत्येवं फलभेदमाह ममेति तवेति च ।। ५५२ ।।
युक्तिमल्लिका
पटस्थले घटभ्रान्तिर्घटदेशे पटभ्रमः ।
न क्वापि विद्यते वस्तुव्यत्यासो विभ्रमस्य हि ।। ५५३ ।।
सुरोत्तमटीका
प्रतीतिनियमान्यथानुपपत्त्यापि ब्रह्मणि नियताकारो वा जगत्सत्यत्वं वाच्यमित्याह ।। पटेति ।। वस्तुव्यत्यासः उक्तविधया वस्तु-व्यत्यासः ।। ५५३ ।।
सत्यप्रमोदटीका
परन्यायेनैव जगतः पारमार्थिकत्वं सिषाधयिषुः पराभिमतं भ्रमस्वरूपं विवेचयति पटेति । जगत्प्रतीतेर्नैयत्यं तावदस्ति घटस्थले एवघटस्य, पटस्थले एव च पटस्य इत्येवम् । न तु पुनः व्यत्यासेन, घटस्थले पटस्य प्रतीतिः पटस्थले घटस्य इत्येवंरूपा
।। ५५३ ।।
युक्तिमल्लिका
तत्तदा स्याद्यदि ब्रह्म तत्र तत्रैव तादृशम् ।
स्वयमस्ति न चान्यत्र ततो भ्रान्तिश्च तादृशी ।। ५५४ ।।
अधिष्ठानानुसारेण तत्र तत्रैव जायते ।
इति वा स्वस्वहेतूत्थाः पदार्थास्तत्र तत्र हि ।। ५५५ ।।
सन्ति स्वभावतस्तस्मात्तत्र तत्रैव तादृशी ।
मतिर्व्यत्यासतो नेति व्यवस्थाऽऽश्रयणेन वा ।
इतस्तृतीयः पन्थास्तु न मुरारेश्च विद्यते ।। ५५६ ।।
सुरोत्तमटीका
तद्वस्तुव्यत्यासं विना तत्तत्पदार्थज्ञानम् । ब्रह्ममिथ्यात्व-पक्षेऽधिष्ठानभूतं ब्रह्म । तादृशं घटभ्रमस्थले घटसदृशाकारम् । पटभ्रमस्थले पटसदृशाकारमित्यर्थः । तादृशी अधिष्ठानब्रह्मसदृशी । सत्यत्वपक्षे स्वस्व-हेतूत्थाः तन्तुमृदादिस्वकारणजाताः । तस्मात् घटप्रमास्थले घटस्यैव विद्य-मानत्वात् पटप्रमास्थले पटस्यैव विद्यमानत्वात् । इति व्यवस्थाश्रयणेन वा प्रतीतिनियमो वक्तव्य इत्यर्थः । इतः मिथ्यात्वपक्षोक्ताधिष्ठानसारूप्यनियमात् सत्यत्वपक्षोक्तस्वस्वकारणनियतकार्यनियमाच्च । मुरारेस्तृतीयः पन्था इति लोके वदन्ति । अतः न मुरारेरित्युक्तम् । मुरारिनामा कश्चिन्मिश्रः । तेनाप्यत्र तृतीयपक्षोन्नयनं कर्तुं न शक्यमित्यर्थः ।। ५५४–५५६ ।।
सत्यप्रमोदटीका
तदेतस्य नैयत्यस्य पररीत्योपपत्तिप्रकारमनुवदति तदिति ब्रह्म घटाधिष्ठानम् । तत्रैव घटदेशे एव तादृशं घटाकारम् । स्वयमस्ति अधिष्ठानवत् तदाकारस्यापि सत्यत्वावश्यंभावात् । नान्यत्र पटदेशे । भ्रान्तिः घटभ्रान्तिः । तादृशी घटदेशे एव घटाकारा ।।
तादृशीत्युक्तमेव विशदयति अधिष्ठानेति । सिद्धान्ते प्रतीतिनैयत्ये हेतुमाह स्वस्वहेतूत्था इति । तत्र तत्र स्वोपादानप्रदेश एव । पदार्थाः सन्ति इत्युत्तरेणान्वयः । स्वभावतः सत्यत्वादेव । इतः प्रागुक्तप्रकारद्वयादन्यः पन्थाः प्रकारः । मुरारेरित्यपहासः । ‘मुरारेस्तृतीयः पन्थाः’ इत्याभाणक-विषयस्य अस्वप्रकाशानुव्यवसायमुपेत्य प्रामाण्यस्वतस्त्ववादिनो मुरारिमिश्र-स्यापि
।। ५५४–५५६ ।।
युक्तिमल्लिका
पक्षद्वयेऽपि नास्माकं हानिरुक्तप्रकारतः ।
शुद्धं जगत्पूर्वपक्षे जडं पक्षान्तरे जगत् ।। ५५७ ।।
सुरोत्तमटीका
शुद्धं ब्रह्मचैतन्यात्मकम् । पूर्वपक्षे मिथ्यात्वपक्षे । पक्षान्तरे सत्यत्वपक्षे । कार्यनियमेनैव प्रतीतिनियमस्य सिद्धत्वेन ब्रह्मात्मक-जगतोऽनपेक्षणादित्यर्थः ।। ५५७ ।।
सत्यप्रमोदटीका
हानिः सत्यत्वस्येति शेषः । मायिरीत्या ब्रह्मात्मका-धिष्ठानभूतजगत्सत्यत्वसिद्धेः । अस्मत्पक्षे स्वातन्त्र्यैक्यपरत्वमाश्रित्य । स्वस्व-कारणजन्यत्वपक्षे तु सत्यत्वस्य निराबाधत्वात् इत्येवमुक्तप्रकारतः । तदेव स्मारयति शुद्धमिति । ब्रह्मात्मकं अत एव सत्यम् । पूर्वपक्षे मायिपक्षे । तद्रीत्या अधिष्ठानभूतचैतन्यात्मकत्वे सत्यत्वस्य कथञ्चिदहानेः । पक्षान्तरे स्वस्वकारणजन्यत्वेन दृश्यमानमेव जडं जगत् सत्यभूतं इति सिद्धान्ते ।।५५७।।
युक्तिमल्लिका
मिथ्या चेत्तद्भवेत्प्रातिभासिकं क्षणिकत्ववत् ।
इदानीमेव बाधेन तत्रारोपोऽपि बाधितः ।
तदा सत्यं जगदिदं भवेन्मम निराकुलम् ।। ५५८ ।।
अधिष्ठानान्तराभावात्कथं ब्रह्मणि कल्पितम् ।
भवेत्तन्न ह्यधिष्ठानपारंपर्यं च ते मते ।। ५५९ ।।
सुरोत्तमटीका
द्वयोर्जगतोः सत्यत्वायोगात् एकस्य मिथ्यात्वं वक्तव्य-मिति चेत् । सत्यम् । तथापि जडजगन्न मिथ्या किं तु ब्रह्मात्मकं जगदेव मिथ्येत्यत्र युक्तिमाह ।। मिथ्या चेदिति ।। तज्जडजगतो मिथ्यात्वाय कल्प्यमानब्रह्मात्मकं जगत् । क्षणिकत्ववत् ब्रह्मण्यारोपितक्षणिकत्ववत् । प्रातिभासिकं भवेत् । मिथ्यात्वेऽपि अपशदमिथ्यात्वयोग्यं स्यादित्यर्थः । इदानीं संसारदशायां बाधेन त्वया मया कदापि नास्तीति निषिध्यमानत्वेन । तत्र जगदाकारसदृशाकारसहिते ब्रह्मणि । आरोपः मदीयजडजगदारोपः । बाधितः युक्तिबाधितः । प्रधानसादृश्याभावात् भ्रमनियमयोग्यनियताकाराभावा-च्चानुपपन्न इत्यर्थः । इदमस्य ग्रन्थकारस्य कौशलम् । यद्बहुविधचर्चायामपि स्वाभिमत पक्ष एव पर्यवसानम् । तदा आरोपबाधे । अधिष्ठानान्तराभावात् एतद्ब्रह्मातिरिक्ताधिष्ठानाभावात् । अगत्याऽधिष्ठानान्तराङ्गीकारेऽपसिद्धान्त इत्याह ।। न हीति ।। ५५८,५५९ ।।
सत्यप्रमोदटीका
मायिरीत्याऽपि चैतन्यात्मकत्वेऽपि सत्यत्वसिद्धिरिति यदुक्तं तत्र बाधकमाशङ्क्य निराकरोति मिथ्या चेदिति । निराकारे शुद्धे प्रतीयमानस्य जगदाकारस्य मिथ्यात्वमुच्यते, अतः आरोपिताकारेण न सत्यत्वसिद्धिः इति परेण यद्युच्यते इत्यर्थः । परिहरति प्रातिभासिकमिति । आपद्यते इति शेषः । तत्र हेतुः इदानीमेव भ्रमकाले एव । बाधेन विरुद्धाकारप्रतिभासेन । ब्रह्मणः चेतनत्वप्रत्यक्त्वादिना । जगतः जडत्व-पराक्त्वादिना ।। तदुक्तं वादावल्यां ‘न आत्मा जगदारोपाधिष्टानम् । अविषयत्वात् । तद्विरुद्धतया प्रतीयमानत्वात्’ इति । तथा च आरोपः प्रातिभासिकः, मिथ्येति यावत् । इदानीमेव बाधात् ब्रह्मणि प्रतीयमान-क्षणिकत्ववत् ।। जगत् सत्यं बाधितारोपकत्वात् आत्मवत् इति प्रयोगो ध्येयः।। नन्वधिष्ठानचैतन्यस्यापि न सत्यत्वम् । येन तदात्मकत्वेनापि जगतः सत्यत्व-सिद्धिरित्यत आह अधिष्ठानान्तराभावादिति । सत्यभूतेत्युपस्कर्तव्यम् । तस्यापि मिथ्यात्वे अपसिद्धान्तः अनवस्था च । तत् ते मते न इत्यन्वयः ।। ५५८,५५९ ।।
युक्तिमल्लिका
मायासृष्टिर्न नियता मन्त्रशक्त्यवसायतः ।
फणीकुर्यान्मणीकुर्यात्तृणीकुर्याच्च तत्पुनः ।। ५६० ।।
अयं तु नियतारोपो रूप्यसर्पभ्रमादिवत् ।
उक्ता व्यवस्था तत्प्रार्थ्या सुस्थोऽनर्थस्ततस्तव ।। ५६१ ।।
सुरोत्तमटीका
रजतसर्पादिभ्रमवत् जगद्भ्रमस्यापि व्यवस्थितभ्रमत्वात् प्रधानाधिष्ठानसादृश्यादिनियमः । मायासृष्टेस्त्वव्यवस्थितभ्रमत्वान्न तदपेक्षणम् । अतोऽपि नेयं मायासृष्टिरित्याह ।। मायेति ।। सा मायासृष्टिः । मन्त्रशक्ती-त्युपलक्षणम् । औषधशक्तिश्च ग्राह्या । तत् मायाविना प्रदर्शितमौषधादिकम् । फणीकुर्यात् पूर्वं सर्पत्वेन प्रदर्शयेत् । मणीकुर्यात् पुनस्तदेव मणित्वेन प्रदर्शयेत् । तृणीकुर्यात् तृणत्वेन प्रदर्शयेत् । एवमन्यदपि द्रष्टव्यम् । यत एवं मन्त्रौषध-बलोत्पन्नत्वेन एकत्रैव नानाप्रकारा । अतो मायासृष्टिर्न नियतेति पूर्वेणान्वयः । अतस्तत्र सादृश्यानपेक्षणं न दोषाय जगद्भ्रमस्तूक्तविधया परमते नियतत्वात् अधिष्ठानसादृश्यादेव भवतीति भावः । एतेन जगत्सृष्टिर्न मायासृष्टिः नियत-प्रतीतिकसृष्टित्वात् । घटादि सृष्टिवदिति मायासृष्ट्रत्वेनापि न मिथ्यात्वमिति सूचितम् ।। ५६०,५६१ ।।
सत्यप्रमोदटीका
सार्वजनीनानुभवसिद्धं नियतप्रतीतिकत्वं मायासृष्टिपक्षे विरुध्यत इत्याह मायेति । फणीकुर्यात् सर्पत्वेन दर्शयेत् । एवमुत्तरत्रापि ।। भ्रमेषु क्वचिन्नियतप्रतीतिकत्वं कुत्रचिदनियतप्रतीतिकत्वम् इत्यवान्तरविभाग-सद्भावेऽपि, प्रधानाधिष्ठानसादृश्यरूपसत्यत्रितयसापेक्षत्वनियमः सर्वभ्रम-साधारण इत्याह उक्ता व्यवस्थेति । तदुक्तं तत्त्वनिर्णये ‘मायामयी सृष्टिरपि तत्सदृशस्यान्यस्य विद्यमानत्व एव दृष्टा । द्रव्यत्वादिसादृश्ययुतं किञ्चि-दधिष्ठानमाश्रित्यैव च’ इति । अनर्थः सत्यत्रितयाङ्गीकाररूपः।।५६०,५६१।।
युक्तिमल्लिका
अधिष्ठानं प्रधानं च समसत्ताकमेव हि ।
दृश्यते रजतारोपे सर्पारोपादिकेषु च ।। ५६२ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि मिथ्यात्वमतेऽपि जगत्सत्यतां साध-यति ।। अधिष्ठानमिति ।। ५६२ ।।
सत्यप्रमोदटीका
सत्तात्रैविध्यवादेऽपि अधिष्ठानप्रधानयोः समसत्ताकत्वं आरोप्यापेक्षयाऽधिकसत्ताकत्वं च क्लृप्तमित्याह अधिष्ठानमिति।।५६२ ।।
युक्तिमल्लिका
सदृशं च तदन्योऽन्यं नियतभ्रमसिद्धये ।
अत एव प्रधानं तदारोप्यादधिकं यतः ।। ५६३ ।।
तद्बाधेऽपि न तद्बाधो दोषः काचादिरेव च ।
तथाविधो यतो दृष्टस्त्रितयं तद्भ्रमेऽपि सत् ।। ५६४ ।।
इयं विभ्रममर्यादा स्वीकार्या लोकसंमता ।
दृष्टस्यास्य परित्यागे स्याददृष्टस्य कल्पना ।। ५६५ ।।
सुरोत्तमटीका
तदधिष्ठानं प्रधानं च । तत् आपणस्थरजतादिकम् । तद्बाधे आरोपितरजतबाधे । न तद्बाधः अधिष्ठानप्रधानबाधो नेत्यर्थः । तथाविधः अधिष्ठानप्रधानसदृशः । आरोप्यमाणादधिकसत्ताकः तद्बाधेऽप्य-बाध्य इत्यर्थः । त्रितयम् । अधिष्ठानप्रधानदोषाख्यं कारणत्रयम् ।। ५६३–५६५ ।।
सत्यप्रमोदटीका
नियतेति । अनियतभ्रमेऽपि किञ्चित्सादृश्यमावश्यक-मिति पूर्वोक्ततत्त्वनिर्णयवाक्यादवधेयम् । अत एव आरोप्यापेक्षयाऽधिक-सत्ताकत्वादेव ।।
तद्बाधेऽपि आरोप्यस्य बाधेऽपि । तद्बाधः अधिष्ठानप्रधानयोः बाधः । उक्तबाधाभावं भ्रमकारणदोषेऽप्यतिदिशति तथाविधः इति । त्रितयमित्युप-लक्षणम् । अज्ञानं, बाधकज्ञानं, भ्रमः, द्रष्टा, देहेन्द्रियादिकं, दोषः, संस्कारः इत्येतेषामपि सत्यत्वमावश्यकमिति ध्येयम् । अत्र विस्तरः न्यायामृते ‘मिथ्यात्वहेतूनां प्रतिकूलतर्काः’ इति भङ्गे (१/२५) ।।
भ्रमरूपकार्यं प्रति उक्तानां सत्यभूतानाम् कारणत्वेन तदनङ्गीकारे अकारणकार्योत्पत्तिरूपबाधकं स्यादित्याह इयं हीति । अदृष्टकल्पना अकारणकार्योत्पत्तिरूपा ।। ५६३–५६५ ।।
युक्तिमल्लिका
तद्विश्वभ्रमसिद्ध्यर्थं प्रधानं जगदन्तरम् ।
अधिष्ठानब्रह्मसमसत्ताकं स्यादनिच्छतः ।
दोषोऽपि तादृक्कल्प्यस्स्यादुक्तो दोषो न चेद्भवेत् ।। ५६६ ।।
सुरोत्तमटीका
तत् । तस्मात् अधिष्ठानप्रधानदोषाणां साम्यस्य भ्रममात्रे दृष्टत्वेन वैषम्यकरणायोगात् । न चेत् अस्य प्रमेयस्य परित्यागे । त्रयाणां मध्ये एकस्यैव पारमार्थिकत्वाङ्गीकार इत्यर्थः ।। ५६६ ।।
सत्यप्रमोदटीका
अनिच्छतः ‘पिण्याकयाचनार्थं गतस्य खारीतैल-प्रदानप्रतिज्ञावत्’ इति वादावल्युक्तरीत्येत्यर्थः । तादृक् अधिष्ठानसमसत्ताकं पारमार्थिक इति यावत् । न चेत् उक्तसर्वेषां वा तेषामेकतमस्यापि वा सत्यत्वानङ्गीकारे ।। ५६६ ।।
युक्तिमल्लिका
व्यावहार्यं प्रधानं चेदधिष्ठानं च तादृशम् ।
बलात्स्यात्सदृशे ते हि कुतो विसदृशे वद ।। ५६७ ।।
अधिष्ठानान्तरं वाच्यमधिष्ठानभ्रमे यदि ।
तदा प्रधानभ्रान्तौ च स्यात्प्रधानान्तरं तव ।। ५६८ ।।
सुरोत्तमटीका
नन्वङ्गीक्रियते प्रधानभूतं जगदन्तरम् । तदपि व्यावहारिकमेवेति चेत् । न । तस्याप्यारोपे पुनः प्रधानान्तरस्यापेक्षितत्वे-नानवस्थाप्रसङ्गात् । जगन्मिथ्यात्वस्याद्याप्यसिद्धत्वेनाप्रामाणिकानवस्थाया दोषत्वात् । तथापि चक्षुषीनिमील्य वदन्तं प्रत्याह ।। व्यावहार्यमिति ।। ५६७,५६८ ।।
सत्यप्रमोदटीका
ननु यदुक्तं भ्रमस्य सत्यप्रधानोपेतत्वं नियतमिति न तद्युक्तम् । तथा हि । न तावत्प्रधानं भ्रमे स्वरूपेणोपयुज्यते । अज्ञात-रजतस्यापि रजतारोपप्रसङ्गात् । नापि तज्ज्ञानम् । ज्ञानस्य चिरविनष्टस्य कारणत्वानुपपत्तेः । किन्तु तत्संस्कार एव । स च भ्रमेणाप्युपपद्यते । अतः प्रधानस्य व्यावहारिकसत्यत्वेऽपि भ्रमोपपत्तिरिति । तदेतत्प्रतिबन्द्या दूषयति अधिष्ठानं चेति । बलात् व्याप्तिबलात् । हि यस्मात् । ते अधिष्ठानप्रधाने । सदृशे समसत्ताके इति व्याप्तिः । ननु अधिष्ठानस्य व्यावहारिकत्वं न युक्तम् । तथा सति आरोपार्थं तस्याप्यधिष्ठानान्तरं कल्पनीयं स्यात् । एवं तस्याप्येव-मित्यनवस्था स्यादिति चेत्समं प्रधानेऽपीत्याह तदेति मूलक्षतेरभावान्ना-नवस्थेति चेन्न प्रपञ्चभ्रमस्य अप्रमितत्वात् ।। ५६७,५६८ ।।
युक्तिमल्लिका
पूर्वं पूर्वं प्रधानं चेत्कार्ये कार्ये ममापि हि ।
उपादानमधिष्ठानं तद्भागास्तस्य तस्य च ।। ५६९ ।।
सुरोत्तमटीका
कार्ये कार्ये जगति । पूर्वं पूर्वम् अतीतमतीतं जगत् । प्रधानं चेदिति सम्बन्धः । तदुपादानं तत्तत्कार्योपादानं कपालादिकम् । तद्भागाः तस्य कपालस्य पूर्वपूर्वभागाः । तस्य तस्य उत्तरोत्तरकार्यस्य ।। ५६९ ।।
सत्यप्रमोदटीका
पूर्वोत्तरप्रधानयोः कार्यकारणभावः उपेयते चेत् । तत्तत्कार्यस्य तत्तत्कारणमेवाधिष्ठानमिति अधिष्ठानेऽपि तथा स्यादित्याह उपादानमिति । भागाः उपादानानि ।। ५६९ ।।
युक्तिमल्लिका
इदमेव ह्यधिष्ठानं प्रतीतेरनुसारतः ।
न ब्रह्म नेह नानेति तत्र विश्वाप्रतीतितः ।। ५७० ।।
सुरोत्तमटीका
प्रतीतेः स्वस्वोपादानाभिन्नतया तस्य तस्य कार्यस्य प्रतीतेः । ब्रह्म न घटाद्यारोपाधिष्ठानं न । तदात्मकतयाऽप्रतीतेः । न ह्ययं घट इत्युक्ते ब्रह्मघट इति वा ब्रह्मणि घट इति वा कोऽपि लोकः प्रत्येति । मम त्वयं घट इत्युक्ते एतत्कपालात्मको घट इति वा कपाले घट इति वाऽर्थः सर्वस्यापि संमतः । युक्त्यन्तरं चाह ।। नेहेति ।। तत्र ब्रह्मणि । लटा पराभिमतभ्रमकाल एव ब्रह्मणि जगदभावस्यैव व्युत्पन्नस्य प्रतीयमानत्वात् ।। ५७० ।।
सत्यप्रमोदटीका
एवं सति अयं घट इति भ्रमप्रतीतिरपि अनुकूलिता स्यात् । नहि कोऽपि अयं घटः इति उक्ते ब्रह्म घट इति वा ब्रह्मणिघट इति वा प्रत्येति । उपादानस्यैवाधिष्ठानत्वपक्षे तु कपालो घट इति वा कपाले घट इति प्रतीतिः लोकसिद्धा सिद्धेत्याह इदमेवेति । ब्रह्मणि विश्वं इति प्रतीतिस्तु नेह नानास्तीति श्रुत्यैव प्रतिषिद्धेत्याह नेति ।। ५७० ।।
युक्तिमल्लिका
ब्रह्म वा व्यावहार्यं स्यादधिष्ठानं तदंशकः ।
तस्य स्युस्तत्तदंशाश्च तस्य तस्य प्रधानवत् ।। ५७१ ।।
सुरोत्तमटीका
पराभिमताधिष्ठानस्यैव व्यावहारिकत्वं तदर्थं परंपरां चोपपादयति ।। ब्रह्मेति ।। ब्रह्म वा व्यावहार्यमधिष्ठानं स्यादिति सम्बन्धः । तदंशकाः ब्रह्मावयवाः । तस्य ब्रह्मणस्स्युः । आरोपाधिष्ठानम् । तत्तदंशाः तस्य तस्यांशस्यांशाः पूर्वपूर्वांशाः । तस्य तस्योत्तरोत्तरांशस्य । न च ब्रह्मणो निरंशत्वं वाच्यम् । सहस्रशीर्षेत्यादिना तस्यापि सांशत्वप्रतीतेः । स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नीति होवाचेति श्रुत्या स्वस्यैव स्वाधिष्ठानत्व-प्रतिपादनाच्च ।। ५७१ ।।
सत्यप्रमोदटीका
पूर्वपूर्वब्रह्मांशा एव उत्तरोत्तरेषामधिष्ठानानि सन्तु इति रीत्यन्तरमाह तदंशक इति ।। यद्यपि नायं परस्य पन्थाः, तथाऽपि युक्ति-रसिकतया प्रौढिवादेनात्र प्रस्ताव्यचर्चित इति ध्येयम् । यदि यः कोऽपि परः वैयात्यात् ‘सहस्रशीर्षा’ इति श्रुत्या सांशत्वं, ‘स भगवः कस्मिन् प्रतिष्ठितः स्वे महिमि्न’ इति श्रुत्या साधिष्ठानत्वं च परिकल्प्य एवं प्रत्यवतिष्ठेत तर्हि प्रधानस्यापि तथा स्यादिति पूर्वोक्तप्रतिबन्दीस्थिरीकरणार्थं इति ज्ञातव्यम् ।। ५७१ ।।
युक्तिमल्लिका
निरधिष्ठानता तु स्यात्सर्वथा तस्य वर्जने ।
अन्यथा निरधिष्ठानो भ्रमस्स्याद्रजतभ्रमः ।। ५७२ ।।
अथवा जडमात्रस्य ब्रह्माधिष्ठानमस्तु ते ।
ब्रह्मणो जीव एवास्तु यत्सोऽहमिति ते भ्रमः ।। ५७३ ।।
मिथो जीवैक्यवादे च जीवो जीवान्तरस्य भूः ।
एवं चानन्तजीवस्ते भूयासुर्भ्रमभूमयः ।। ५७४ ।।
सुरोत्तमटीका
ननु कपालादीनां मिथ्यात्वात् कथमधिष्ठानत्वमित्यत आह ।। निरधिष्ठानतेति ।। तस्याधिष्ठानस्य । अन्यथा मिथ्याभूतस्याधिष्ठानत्वं न चेत् ।। अधिष्ठानान्तरमप्याह ।। मिथ इति ।। जडानां जीवे आरोपः । जीवस्य तु जीवान्तरे । तस्य पुनर्जीवान्तरे । एवं वाऽधिष्ठानपरंपरा स्यादिति भावः । भ्रमभूमयः आरोपाधिष्ठानानि ।। ५७२–५७४ ।।
सत्यप्रमोदटीका
ननु उपादानानामेव अधिष्ठानत्वं न युक्तम् । तेषामपि मिथ्यात्वादिति चेन्नायमस्ति तव नियमः यत् सत्यस्यैवाधिष्ठानत्वमिति । मिथ्याभूतानामेव रज्जुशुक्तिकादीनां अधिष्ठानत्वाभ्युपगतेः । प्रत्युत त्वन्मते सत्यस्य ब्रह्मण एव ज्ञानाविषयत्वात् सामान्यतो ज्ञातत्वविशेषतोऽज्ञातत्वादि-धर्मशून्यत्वात् अधिष्ठानत्वं दुर्घटमित्याह अन्यथेति ।।
पक्षान्तरमुट्टङ्कयति अथवेति ।। जडमात्रस्येति । मात्रशब्देन जीवानां व्यवच्छेदः । जीव एवास्तु इत्यनन्तरं अधिष्ठानमित्यनुकर्षः । तथाच जीवस्य ब्रह्माहम् इति प्रतीतिरुपपन्ना सम्पद्यते । ननु जीवस्य मिथ्यात्वेन अधिष्ठा-नान्तरं वाच्यं इति चेत्सत्यम् । जीवान्तरस्य तथाभावोऽस्तु । नन्वेवं चैत्रे मैत्रस्यारोपितत्वे चैत्रस्य अहं मैत्र इति धीः स्यादिति चेत् स्यादेव मिथो जीवैक्यवादे इत्याह जीव इति । भूः अधिष्ठानम् । भूमयः अधिष्ठानानि ।। ५७२–५७४ ।।
युक्तिमल्लिका
यदि भीर्ब्रह्महत्याया भीतो भव जगत्क्षयात् ।
अब्रह्मवादितापीष्टा तव भाट्टानुसारिणः ।। ५७५ ।।
सुरोत्तमटीका
उभयोरपि दोषत्वं स्फोरयितुं ब्रह्महत्यायाः जगत्क्षया-दित्युक्तम् । भाट्टानुसारिणः निरीश्वरभाट्टानुसारिणः ।। ५७५ ।।
सत्यप्रमोदटीका
ननु ब्रह्मण आरोपितत्वोक्तौ तद्धत्यादोषः इति चेन्मा भैषीः । शशविषाणवदप्रामाणिकस्य तव ब्रह्मणो हत्याया एवाभावात् । प्रत्युत प्रमितस्य जगतो मिथ्यात्वोक्तौ जगद्धत्यादोषस्तु वज्रलेप इत्याह यदीति । भाट्टमतानुसारिणः । ‘व्यवहारे भट्टनयः’ इति अङ्गीकुर्वतः निरीश्वरभाट्ट-पृष्ठलम्बिनः ।। ५७५ ।।
युक्तिमल्लिका
ब्रह्मवादा जगद्वादैस्सह यान्तु वनान्तरम् ।
प्रकारद्वयतो लघ्वी सर्वत्रैकप्रकारता ।। ५७६ ।।
सुरोत्तमटीका
ब्रह्मसत्यतावादस्य का गतिरित्यत आह ।। ब्रह्मवादा इति ।। प्रकारद्वयतः ब्रह्मणस्सत्यत्वं जगतो मिथ्यात्वमिति प्रकारद्वयात् । सर्वत्र ब्रह्मणि जगति च । एकप्रकारता मिथ्यात्वम् ।। ५७६ ।।
सत्यप्रमोदटीका
वनान्तरं शून्यवादरूपमतान्तरानुसारेण निषेधविषय-ताम् । एकप्रकारता सर्वं मिथ्या इत्येवंरूपा ।। ५७६ ।।
युक्तिमल्लिका
लोके सत्तासाम्यदृष्टेरधिष्ठानप्रधानयोः ।
कल्प्यमेतत्समस्तं च विपरीते विपर्ययः ।। ५७७ ।।
सुरोत्तमटीका
कुत एवमधिष्ठानपरंपराकल्पनमित्यत आह ।। लोक इति ।। अधिष्ठानप्रधानयोस्सत्तासाम्यदृष्टेरिति सम्बन्धः । एतत्समस्तं प्रधान-परम्परावत् अधिष्ठान पारम्पर्यम् । विपरीते अधिष्ठानस्य सत्यत्वेन परम्परा-नपेक्षणे । विपर्ययः जगतोऽपि तदनपेक्षणमित्यर्थः । अप्रामाणिकप्रधान-परम्परामादाय जगतो मिथ्यात्वकल्पने ब्रह्मणोप्यधिष्ठानपरम्परामादाय मिथ्यात्वं कल्प्यते । उभयोरपि सत्तासाम्यस्य लोके दृष्टत्वात् । सत्यत्वेतु द्वयोरपि सत्यत्वं स्यात् । वैषम्यकथनेऽदृष्टकल्पनेति भावः ।। ५७७ ।।
सत्यप्रमोदटीका
‘कल्पनाया आरोप्यसदृशसत्याधिष्ठानप्रदानपूर्वकत्वं व्यापकम् । तच्चात्र नास्ति । इति व्याप्यकल्पनाऽपि नास्ति’ इति वादावल्युक्तमनुरुध्य निगमयति लोक इति ।। ५७७,५७८ ।।
युक्तिमल्लिका
आरोप्यमाणादधिकसत्ताकत्वं यतस्त्रिषु ।
लोकसिद्धं भ्रमे व्याप्तं तदभावे तु न भ्रमः ।
व्यापकस्य निवृत्तौ च किं स्याद्व्याप्यस्य वर्तनम् ।। ५७८ ।।
सुरोत्तमटीका
एतदेव विशदयति ।। आरोप्यमाणादिति ।। त्रिषु अधिष्ठानप्रधानदोषेषु । ननु लोकेऽपि प्रधानादीनां व्यावहारिकत्वमेव मम मते तन्त्रं नत्वारोप्यमाणादधिकसत्ताकत्वमिति चेत् तर्ह्यधिष्ठानशुक्तिशकलादेरपि तदेव तव मते तन्त्रमिति जगदारोपाधिष्ठानं ब्रह्मापि व्यावहार्यं स्यात् । तत्राप्यधिष्ठानपरंपरासौलभ्यं तूक्तमेव । यदिचाधिष्ठानभूतब्रह्मणः पारमार्थ्या-याधिष्ठानमात्रे व्यावहारिकत्वमात्रं नालम् । किंत्वारोप्यमाणादधिकसत्ताकत्व-मेव प्रयोजकमिति वदसि । तर्हि प्रधानादावपि तदेव तन्त्रं स्यात् । वैषम्य-करणे कारणाभावादिति भावेनोक्तम् आरोप्यमाणादधिकसत्ताकत्वं यतस्त्रिष्विति ।। ५७८ ।।
युक्तिमल्लिका
किञ्च दोषोऽपि कोऽत्र स्यादिति चिन्त्यं विवेकिभिः ।। ५७९ ।।
सुरोत्तमटीका
अपि च दोषेणैव भ्रमो न स्वत इत्यप्रामाण्यपरतस्त्व-वादिनः परस्यापि संमतम् । दोषश्च जगद्भ्रमे परमतेऽविद्यैव । तस्याश्च दोषत्वं विचार्यमाणे न युक्तिसहम् । एवं च दोषामूलज्ञानविषयत्वादपि जगत-स्सत्यत्वमेव न्याय्यमित्याह ।। किञ्चेति ।। अत्र जगद्भ्रमे ।। ५७९ ।।
युक्तिमल्लिका
अविद्यमानमेवार्थं भ्रमकाले तु यस्स्थिरः ।
प्रदर्शयति लोकस्य स दोष इति गीयते ।
करणेषु यथा काचो यथाऽर्थेष्वतिदूरता ।। ५८० ।।
सत्यप्रमोदटीका
दोषानुसन्धानरूपकारणाभावान्न जगज्ज्ञानं भ्रम इति समर्थयितुं दोषस्वरूपं निर्धारयति अविद्यमानमिति । यत्सद्भावे करणाभि-मतं विपरीतं ज्ञानं जनयति स दोष इत्युक्तं भवति । काच इत्युपलक्षणम् । अनुमाने असिद्ध्यादिः । शब्दे ज्ञातज्ञापकत्वादिः । एवं अतिदूरतेत्युपलक्षणम् । अनुमागमयोः प्रमाणविरुद्धत्वादिः इत्यवगन्तव्यम् ।। ५८० ।।
युक्तिमल्लिका
उपादानं तवाज्ञानं तन्तुवत्कार्यकारकम् ।
भ्रमकाले तु यन्नश्येत्कं पश्येत्तस्य दोषताम् ।। ५८१ ।।
सुरोत्तमटीका
दोषलक्षणमाह ।। अविद्यमानमिति ।। उपादानं जगदुपादानम् । एवं च प्रागविद्यमानस्य जगतस्सत्ता सम्बन्धाख्यो-त्पत्तिहेतुत्वात् भ्रमकालेऽविद्यमानार्थदर्शयितृत्वाख्यदोषलक्षणमविद्यायां न घटत इति भावः । अत एव भ्रमोपादानत्वेऽपि मनस इव न दोषता । भ्रमकाले स्थिरत्वाभावाच्च न दोषत्वमित्याह ।। भ्रमकाल इति ।। घटपटादिभ्रमकाल इत्यर्थः । यदज्ञानम्
।। ५८१ ।।
सत्यप्रमोदटीका
एवं च भ्रमे परस्य अविद्यैव दोष इष्टः । न च तथा सम्भवति । अज्ञानस्य प्रपञ्चोपादानत्वाभ्युपगमात् न तस्य प्रपञ्चभ्रमं प्रति निमित्तकारणभूतदोषत्वम् । भ्रमे निमित्तकारणं च तदुच्यते यत्सद्भाव एव भ्रमरूपकार्योत्पत्तिः यन्निवृत्तौ च तद्ध्वंसः । अज्ञाने तु न तदुभयमस्ति । किन्तु वैपरीत्यमेवेत्याह भ्रमकाल इति ।। ५८१,५८२ ।।
युक्तिमल्लिका
यत्प्रवृत्तौ भ्रमस्यापि प्रवृत्तिस्स्यात्पदे पदे ।
यन्निवृत्तौ निवृत्तिश्च भ्रमस्य स हि पण्डितैः ।। ५८२ ।।
दोष इत्युच्यतेऽनीदृगज्ञानं ते जगत्त्रये ।
कथं दोषो भवेत्पश्य प्रतिकर्मव्यवस्थितिम् ।
न चेत्तन्तुः पटे दोषो मृद्दोषो मृण्मये भवेत् ।। ५८३ ।।
सुरोत्तमटीका
ननु भ्रमकाले स्थिरत्वाभावे कुतो न दोषत्वमित्यत आह ।। यत्प्रवृत्ताविति ।। यस्य दोषस्य प्रवृत्तौ संपत्तावित्यर्थः । तेऽज्ञानम् । जगत्त्रये अनीदृक् भ्रमकाले सम्पत्तिमत् न । किन्तु भ्रमकाले निवृत्तिमदेव । अतो भ्रमानुपयोगिनस्तस्य कथं दोषत्वमिति भावः । ननु भ्रमकालेऽज्ञानस्य कुतो नाश इत्यत आह ।। पश्येति ।। प्रतिकर्मव्यवस्थितिं घटवृत्या घटाधिष्ठानचैतन्यावरकाज्ञाननिवृत्तौ सत्यां तच्चैतन्यं तस्य घटस्य मानमिति या विषयव्यवस्थापिका प्रक्रिया तामित्यर्थः । कर्मपदस्य विषयवाचित्वात् । अत्र ह्यविद्यानिवृत्त्युत्तरकाल एव भ्रम इति स्पष्टं प्रतीयते । तस्मान्नानुक्तोपालम्भ इति भावः । न चेत् उपादानस्य दोषत्वाभावो न चेत् ।। ५८२,५८३ ।।
सत्यप्रमोदटीका
प्रतिकर्मव्यवस्थितिम् । यदिन्द्रियनिर्गतान्तःकरण-परिणतया वृत्त्या यदवच्छिन्नचैतन्यावरकमज्ञानं यदा निवर्तते स एव तदानी-मेव तं प्रत्येव विषय इत्येवंरूपाम् । तदुपादानस्यापि तद्भ्रमं प्रति दोषत्वाङ्गीकारे अतिप्रसङ्गमाह न चेदिति।। ५८३ ।।
युक्तिमल्लिका
किञ्च कुड््येन वस्त्रेण तमसा वाऽऽवृते घटे ।
ज्ञानमात्रनिरोधेन न प्रमा नापि चाप्रमा ।। ५८४ ।।
सुरोत्तमटीका
आवरणत्वेचाज्ञानस्य भ्रमप्रमारूपज्ञानमात्रप्रतिबन्ध-कत्वमेव न्याय्यम् । भ्रमहेतुत्वरूपदोषत्वं कथं स्यादित्याह ।। किञ्चेति
।। ५८४ ।।
सत्यप्रमोदटीका
आवरणाभिमतं भावरूपाज्ञानं ज्ञानसामान्योत्पत्ति-प्रतिबन्धकं ज्ञानविशेषभ्रमहेतुरिति परोक्तिः महोन्मादविलास इत्याह किञ्चेति । कुड््यं व्यवहितमावरणं, वस्त्रं सम्बद्धं, तमः सत्यपि सन्निकर्षे ज्ञानोत्पत्ति-विघटकमिति विवेकः । कार्यानुत्पादप्रयोजकत्वं सर्वथा प्रतिबन्धकसामान्य-लक्षणम् । तथा च ज्ञानसामान्योत्पत्तिप्रतिबन्धकं ज्ञानविशेषभ्रमहेतुश्चेति सुस्फुटो व्याघातः
।। ५८४,५८५ ।।
युक्तिमल्लिका
तस्मादावरणाज्ञानं स्याज्ज्ञानप्रतिबन्धकम् ।
भ्रमहेतुः कथं दोषो भावाज्ञानमिदं वद ।। ५८५ ।।
सुरोत्तमटीका
तस्मात् आवरणस्य ज्ञानमात्रप्रतिबन्धकत्वदर्शनात् । भावाज्ञानं भावरूपाज्ञानम् । ज्ञानप्रागभावरूपस्याज्ञानस्य ज्ञानहेतुत्व-दर्शनाद्भावेत्युक्तम् ।। ५८५ ।।
युक्तिमल्लिका
तददोषस्य दोषत्वभ्रमो यस्तव चेतसि ।
तत्र दोषो भवेच्छब्दभावाज्ञानं परं तव ।। ५८६ ।।
सुरोत्तमटीका
तत् तस्मात् उक्तविधयाऽज्ञानस्य दोषत्वायोगात् । तत्र अदोषाज्ञानस्य दोषत्वभ्रमे । शब्दभावाज्ञानं आवरणशब्दस्वभावाज्ञानम्
।। ५८६ ।।
सत्यप्रमोदटीका
अपहसति तदिति तस्मादित्यर्थः । अदोषस्य भ्रमोत्पत्तिप्रतिबन्धकस्य दोषत्वभ्रमः भ्रमोत्पत्तिहेतुत्वभ्रमः । यस्य मायिनः । शब्दभावः आवरणरूपशब्दस्य यथार्थोऽभिप्रायः । तदज्ञानं, तद्विषयक-विपरीतज्ञानम् ।। ५८६ ।।
युक्तिमल्लिका
तस्माद्योग्यप्रधानादेरभावान्न जगन्मृषा ।। ५८७ ।।
सुरोत्तमटीका
उपसंहरति ।। तस्मादिति ।। आदिपदेनाधिष्ठानं दोषश्च गृह्यते ।। ५८७ ।।
सत्यप्रमोदटीका
तस्मात् व्यापकाभावात् । व्याप्यं जगन्मृषात्वं भ्रान्तिकल्पितत्वमपि न ।। ५८७ ।।
युक्तिमल्लिका
अतीतकल्पेऽतीतं यत्प्रधानं तज्जगत्तव ।
तत्संस्कारेण चेदानीमारोप्यन्ते घटादयः ।
इति वाच्यं नष्टदृष्टेरदृष्टत्वाद्भ्रमान्तरे ।। ५८८ ।।
सुरोत्तमटीका
युक्तयन्तरेणापि प्राचीनजगतः प्रधानत्वं दूषयति ।। अतीतेति ।। प्राचीनजगतःप्रधानत्वं वदता तत्स्मृतिजन्य एवायं भ्रमो वक्तव्यो नतु तदनुभवजन्यः । कल्पान्तरे नष्टस्य तस्यास्मिन्कल्पे द्रष्टुमशक्यत्वादित्याह ।। तत्संस्कारेणेति ।। तस्य प्राचीनजगतः संस्कारेण संस्कारजन्यस्मृत्येत्यर्थः । इदानीमस्मिन्कल्पे । नष्टदृष्टेः नष्टप्राचीनकल्पीयजगद्दृष्टेः । भ्रमान्तरे कल्पान्तर- भ्रमे । एतत्कल्पीयभ्रम इति यावत् । अदृष्टत्वात् अदर्शनात् । अयुक्तत्वा-दित्यर्थः ।। ५८८ ।।
सत्यप्रमोदटीका
‘पूर्वपूर्वप्रधानारोपस्य उत्तरोत्तरप्रपञ्चारोपे प्रधान-त्वादिति चेन्न असत्त्वात्’ इति वादावल्युक्तं समर्थयते अतीतेति । एवं वदता कल्पादिकालीनभ्रमस्य पूर्वकल्पीयप्रधानसंस्कारः कारणं वाच्यं इत्याह तत्संस्कारेणेति ।। तत्र हेतुः नष्टदृष्टेरिति । भ्रमान्तरे अनुभूयमानारोपस्थले सर्वत्र । नष्टदृष्टेः नष्टपदार्थदर्शनस्य । अदृष्टेः सन्निकर्षायोगेनासम्भवात् ।। ५८८ ।।
युक्तिमल्लिका
यतोऽनुभूयमानस्यैवारोपोऽयमभून्न ते ।
भ्रमोऽन्योऽयं प्रधानस्य संस्कारोद्बोधजो ध्रुवम् ।। ५८९ ।।
सुरोत्तमटीका
अयमिदानींतनजगदारोपः । ततः अयं भ्रमोऽन्यः अनुभूयमानारोपादन्यः । कस्तर्हीत्यत आह ।। प्रधानस्येति ।। स्मर्यमाणारोप इत्यर्थः ।। ५८९ ।।
सत्यप्रमोदटीका
गृह्यमाणारोपस्थले प्रधानस्य विद्यमानताया नियत-त्वात्, प्रकृते च तदसम्भवात् अयं प्रपञ्चभ्रमः गृह्यमाणारोपादन्यः स्मर्यमाणारोप इत्येव वाच्यं गत्यन्तराभावादित्याह ध्रुवमिति ।। ५८९ ।।
युक्तिमल्लिका
भ्रमहेतुस्स संस्कारो यदि जीवेषु जृंभते ।
जातिस्मरत्वसिद्ध्यर्थं तपांस्यासंस्तदा वृथा ।। ५९० ।।
सुरोत्तमटीका
सः कल्पान्तरातीतजगद्विषयकः जृम्भते अस्मिन्काले उद्बुध्यते । तदा कल्पान्तरीयसकलसंस्काराणामस्मिन्कल्पे उद्बोधे । कल्पान्तरीयजगतः प्रधानत्वम् अनुभूयमानारोपस्थलीयरजतादिवदपि न घटते । चिरकालविनष्टस्येदानीं चक्षुषाऽनुभवायोगात् । नापि स्मर्यमाणारोप-स्थलीयापणस्थरजतादिवत् । जन्मान्तरीयस्मरणेप्यसमर्थानां जीवानां कल्पान्तरीयजगत्स्मरणे सुतरामसामर्थ्यात् । अतो द्वेधाऽपि न तस्य प्रधानत्व-मिति भावः ।। ५९० ।।
सत्यप्रमोदटीका
अस्तु तथेति चेत्तत्रातिप्रसङ्गमाह जातिस्मरत्वेति । ‘हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः’ इति जन्मान्तरस्मरणार्थं गजेन्द्रस्य तपः, तथा ‘एवं पुरा धारणयाऽत्मयोनिः नष्टां स्मृतिं प्रत्यवरुह्य तुष्यन् । तथा ससर्जेदममोघदृष्टिर्यथाऽप्ययात्प्राग्व्यवसायबुद्धिः’ इति चतुर्मुखस्य तपः इत्येवं तपांसि तैस्तैः कृतानि तपांसि, निरर्थकानि स्युः । त्वद्रीत्या सर्वेषां जीवानां पूर्वकल्पीयस्य इदानीन्तनारोपं प्रति प्रधानस्य स्मरणस्य स्वत एव सिद्धेरित्याह वृथेति
।। ५९० ।।
युक्तिमल्लिका
संस्काराधारमनसोऽसत्त्वाच्च न स वर्तते ।
घटावच्छिन्नचैतन्ये तत्संस्कारात्कथं भ्रमः ।। ५९१ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि प्रधानस्मरणासम्भवमुपपादयति ।। संस्कारेति ।। सः संस्कारः । तत् तस्मात् । संस्काराधारत्वं मनस एवेति संमतम् । घटावच्छिन्नचैतन्यस्य च देहाभावान्न मनोऽप्यस्ति । तदेव च परमते भ्रमः । अतः कथमसौ भ्रमः । स्मर्यमाणारोप इति भावः ।। ५९१ ।।
सत्यप्रमोदटीका
असत्त्वात् प्रलयेऽभावात् । सः संस्कारः । न वर्तते निराधारस्यावस्थानायोगादिति भावः ।। ५९१ ।।
युक्तिमल्लिका
ज्ञानोपादानमनसस्संस्काराधारतोचिता ।
अन्यत्रानुभवोऽन्यत्र संस्कार इति को वदेत् ।। ५९२ ।।
सुरोत्तमटीका
ननु मनस एव संस्काराधारत्वं कुत इत्यत आह ।। ज्ञानेति ।। ५९२ ।।
सत्यप्रमोदटीका
ज्ञानोपादानेति ‘ह्रीर्धीर्भीः सर्वं मन एवे’ति श्रुतेः । उचिता उपादानोपादेययोः समानाश्रितत्वनियमात् । नियमानङ्गीकारेऽति-प्रसङ्गमाह अन्यत्रेति ।। ५९२ ।।
युक्तिमल्लिका
तत्संस्काराद्ययोगेन संस्कारस्य तिरस्कृतेः ।
दोषस्य दूषणाच्चैव सत्यमासीज्जगत्त्रयम् ।। ५९३ ।।
सुरोत्तमटीका
उपसंहरति ।। तदिति ।। तत् तस्मात् उक्तन्यायात् । संस्कारस्य तिरस्कृतेः निराकरणात् । दोषस्य दूषणात् । चशब्दे- नाधिष्ठानखण्डनाच्च । संस्काराद्ययोगेन प्रधानसंस्काराधिष्ठानदोषाणामयोगेन जगत्त्रयं सत्यमासीदिति योजना ।। ५९३ ।।
सत्यप्रमोदटीका
तत् तस्मात् । संस्कारादीत्यादिपदेन प्रधानाधिष्ठान-सादृश्यादिग्रहणम् । तिरस्कृतेः चैतन्याश्रितत्वस्येति शेषः । दोषस्य अज्ञानस्य । दूषणात् आवरणाभिमतस्य ज्ञानकारणत्वानुपपत्तिव्युत्पादनेनेति भावः ।।५९३।।
युक्तिमल्लिका
विमतोऽयं प्रपञ्चस्तदनारोपित एव हि ।
आरोपहेतुशून्यत्वाद्यथा ब्रह्मेति साध्यते ।। ५९४ ।।
सुरोत्तमटीका
एवं चेदमनुमानं सिद्धमित्याह ।। विमत इति ।।तत् तस्मात् उक्तन्यायेनोपपादितादारोपहेतुशून्यत्वादिति सम्बन्धः।।५९४ ।।
सत्यप्रमोदटीका
एवम् असिद्धेः अप्रयोजकतायाश्च परिहृतत्वेन सिद्ध-मनुमानमाह विमत इति ।। ५९४ ।।
युक्तिमल्लिका
दृष्टानुसारवैरूप्ये नष्टारोपकथा वृथा ।
इत्यारोपलतामूलं सिक्तमुष्णेन वारिणा ।। ५९५ ।।
सुरोत्तमटीका
लोकसिद्धारोपकारणाभावेप्ययमारोपो भवतु को दोष इत्यत आह ।। दृष्टेति ।। आरोपकथा आरोपस्य कथा । जल्पकथादावारोप-साधनायानुमाननिरूपणमित्यर्थः । दृष्टानुसारं त्यजतः स्वानुमानेऽपि शुक्ति-रूप्यवदित्यादिदृष्टान्तस्यापि वक्तुमशक्यत्वात् कथायामनधिकार एव स्यादिति भावः । इति पूर्वोक्तप्रकारेण ।। ५९५ ।।
सत्यप्रमोदटीका
दृष्टानुसारवैरूप्ये शुक्तिरूप्यभ्रमे दृष्टो यः प्रकारः सत्याधिष्ठानप्रधानसादृश्यादिपूर्वकत्वं तदपलापेन, प्रपञ्चारोपसाधनायानुमान-प्रयोगे । त्वदुक्तानुमानेष्वपि व्याप्तिपक्षधर्मतयोरपि दृष्टानुसारेणैव वक्तव्यतया तयोरेवासिद्धेः आरोपसाधनाय त्वया प्रवर्तिता कथा वृथा निष्प्रयोजना ।। लता आरोपसाधनाय प्रयुक्ता युक्तिः । उष्णेन वारिणा अनुमांगवैकल्यरूपदोषेण । सिक्ता आभासतां नीता । यद्वा दृष्टः, कथाहेतुः यः, प्रमाणैः साधनीयं तर्कैश्च दूषणीयं इत्येवं प्रकारः, तदनुसरणवैरूप्यात् जगदारोपकथने तदन्तः-पातिप्रमाणानामपि मिथ्यात्वेनासाधकत्वप्राप्त्या, नष्टारोपकथा नष्टानां ‘त आसुराः स्वयं नष्टा जगतः क्षयकारिण’ इति गीतोक्तदिशा आसुरस्वभावानां मायावादिनां कथा वृथा कथकत्वमेव न सम्भवति । इति हेतोः आरोपलतायाः मूलं साधकत्वं उष्णेन वारिणा सिक्ता वन्ध्यासुतवचस इव साधनबाधनाक्षमतां प्राप्ता । तदुक्तं अनुव्याख्याने ‘अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता’ इति ।। ५९५ ।।
युक्तिमल्लिका
आरोपयोग्याधिष्ठानशून्यत्वात्परमार्थसत् ।
ब्रह्मवज्जगदेतत्स्यादिति सर्वं समञ्जसम् ।। ५९६ ।।
सुरोत्तमटीका
आरोपहेतुशून्यत्वादित्यत्र प्रधानशून्यत्वाद्दोषशून्यत्वा-दधिष्ठानशून्यत्वादिति हेतुत्रयं सूचयितुम् अधिष्ठानशून्यत्वमात्रेणापि जग-त्सत्यतां साधयति ।। आरोपेति ।। अधिष्ठानशून्यत्वस्यास्मिन्नेव ग्रन्थे समर्थितत्वादस्यैवानुमानस्योदाहरणम् ।। ५९६ ।।
सत्यप्रमोदटीका
अधिष्ठानशून्यत्वादित्युपलक्षणम् । प्रधानशून्यत्वात् सादृश्यशून्यत्वात् इत्यादिकं प्रत्येकं प्रयोक्तव्यम् । शुक्तिरूप्यादिकं व्यतिरेक-दृष्टान्तः ।। ५९६ ।।
युक्तिमल्लिका
दृष्टानुसारवैरूप्ये सत्यं जगदभून्मम ।
दृष्टानुसारसारूप्ये सत्यं जगदभून्मम ।। ५९७ ।।
सुरोत्तमटीका
एवं चोभयतः पाशारज्जुरपि परस्य गलं बध्नातीत्याह ।। दृष्टानुसारेति ।। दृष्टानुसारवैरूप्ये भ्रममात्रे दृष्टकारणत्रयवैपरीत्ये परेणाङ्गीकृते सत्यत्ववादिनाऽपि शुक्तिरजतादौ मिथ्यात्वेन सह दृष्टदृश्यत्वस्यापि जगति सत्यत्वेन सहदर्शनाख्यवैपरीत्यस्य वक्तुं शक्यत्वेन सत्यं जगदभूदिति सम्बन्धः । द्वितीयपक्षेऽप्यारोप्यमाणाधिकसत्ताकद्रष्टृदेहेन्द्रियगेहभूम्यादीनां दर्शनेन जगद्भ्रमेऽपि तत्सारूप्यावश्यम्भावेन देहगेहादिजगतस्सत्त्वसिद्धेरिति भावः ।। ५९७ ।।
सत्यप्रमोदटीका
वैरूप्ये सत्यत्वसिद्धिप्रकार उक्तः । सारूप्ये लोके अधिष्ठान, प्रधान, सादृश्य, दोष, देहेन्द्रिय, बाधकज्ञानसंस्कारभ्रमादीनां आरोप्यादधिकसत्ताकत्वस्वैव दृष्टत्वेन तेषां, तत्समानन्यायेन जगतः, सत्यत्व-सिद्धिरित्युभयतः पाशारज्जुः परस्येत्याह दृष्टेति ।। ५९७ ।।
युक्तिमल्लिका
घटोऽहमिति न भ्रान्तिरनानुभविकत्वतः ।
घटोऽयमिति चेद्भ्रान्तिस्स्वस्मिन्नासौ घटभ्रमः ।। ५९८ ।।
स्वस्याहंत्वेन भास्यत्वनियमादावयोर्मते ।
अन्यत्र नैक्यभ्रान्तिस्सा तद्भेदस्य स्फुटत्वतः ।। ५९९ ।।
सुरोत्तमटीका
असौ अयमित्याकारकः । स्वस्मिन्न स्वस्मिन्नय-मित्युल्लेखस्याप्यनानुभविकत्वादित्यर्थः । उभयत्राप्यनानुभविकत्वस्यैव दूषण-त्वात् इयमप्युभयतः पाशारज्जुः । तदेव दर्शयति ।। स्वस्येति ।। प्रमेयस्य प्रागुपपादितत्वेऽपि सङ्गृह्य कथनार्थं किञ्चिद्विशेषकथनार्थं च पुनरारम्भः । सा अयं घट इति प्रतीतिः । अन्यत्र चैतन्यादन्यत्र देशकालादौ । तद्भेदस्य देशकालादिभेदस्य । ऐक्याविषयत्वेच न भ्रान्तिः । धर्म्यारोपस्य धर्म्यन्तरा-भेदविषयत्वनियमादिति भावः ।। ५९८,५९९ ।।
सत्यप्रमोदटीका
प्रतीतेः स्वरूपं त्रेधा विविच्य सर्वथा तस्या भ्रान्तित्वं दुर्घटमित्याह घट इति । घटोऽहमिति प्रतीतिरनुभवपराहता । अयं घट इति प्रतीतिस्तु अधिष्ठानचैतन्यमनुल्लिखन्ती न चैतन्ये घटस्यारोपितत्वे प्रमाण-मित्याह स्वस्मिन्निति । असौ अयं घट इत्याकारकः । स्वस्मिन् चैतन्ये ।।
चैतन्यस्य अहंशब्देनैवोल्लेख उभयवादसिद्ध इत्याह स्वस्येति । अतः इदंशब्दो देशकालावेवोल्लिखति न चैतन्यम् । अन्यत्र देशकालयोः । स्फुट-त्वतः भ्रमकाल एव प्रतीयमानत्वात् । तथात्वेऽपि भ्रमत्वे भ्रमस्यानिवृत्ति-प्रसङ्गः ।। ५९८,५९९ ।।
युक्तिमल्लिका
अन्यत्र सत्त्वमर्थश्चेन्न भ्रान्तिस्सा प्रमैव हि ।
अभ्रान्तिसिद्धा सत्ता स्यात्स्वस्मिन्नेव घटस्य हि ।। ६०० ।।
सुरोत्तमटीका
अन्यत्र देशकालादौ । सत्त्वमेवार्थः प्रतीतेर्विषयः । अभेदोल्लेखित्वं माऽस्त्विति भावः । मम मते अधिष्ठानादन्यत्र सत्त्वं नास्त्ये-वातः सोऽपि भ्रम एवेत्यत आह ।। अभ्रान्तीति ।। स्वस्मिन्नधिष्ठानचैतन्ये । अस्ति तावदधिष्ठानचैतन्ये घटः । तस्य चोक्तविधया त्रेधाऽपि भ्रान्त्य-योगेनाभ्रान्तिसिद्ध एव स घटोऽभूदिति भावः ।। ६०० ।।
सत्यप्रमोदटीका
अतः ‘अयं घट’ इति प्रतीतिः देशकालयोः सत्तामेव घटस्योल्लिखति । सा च प्रमैवेत्याह अन्यत्रेति । चैतन्ये घट इति प्रतीतिरपि सामानाधिकरण्यस्याभावेन न धर्म्यारोपविषयिणी ।। ६०० ।।
युक्तिमल्लिका
अहमर्थे ह्यधिष्ठाने यतो नायमिति भ्रमः ।
अयं घट इति भ्रान्तिः कथं तामुल्लिखेत्ततः ।। ६०१ ।।
घटोऽयमिति वृत्तिश्चेद्दृश्याध्यासो गतो दृशि ।
नीरूपब्रह्मणश्चक्षुर्वृत्तौ भानविरोधतः ।। ६०२ ।।
अधिष्ठानब्रह्मघटभ्रमरूपा न साऽप्यभूत् ।
घटावच्छिन्नमप्यभ्रं चक्षुषा न हि दृश्यते ।। ६०३ ।।
सुरोत्तमटीका
अस्तु वा धर्म्यन्तरस्य घटादेस्स्वनिष्ठ(घटा)तदभेद-विषयिणी अधिष्ठानचैतन्यरूपैवायं घट इति भ्रान्तिः । तथापि स्वानुल्लेखित्वेन पराभिमतस्य स्वस्मिन्नारोपितत्वस्य नेयं साधिकेत्याह ।। अहमर्थ इति ।। अहमर्थे अहमित्येवोल्लिख्यमानार्थे । ततः अधिष्ठान अयमित्युल्लेखायोगात् । ताम् अधिष्ठानचितम् । अधिष्ठानदृग्रूपभ्रान्तिः अधिष्ठानदृग्रूपा स्वस्मिन्घट-भ्रान्तिः । अधिष्ठानोल्लेखशून्यत्वाच्च नायं चिति घटभ्रम इति भावः । इदमभिनवं दूषणम् । उत्तरं तु श्लोकद्वयं व्याख्यातप्रायम् ।। ६०१६०३ ।।
सत्यप्रमोदटीका
अयमिति प्रतीतौ चैतन्यस्योल्लेखो नास्त्येवेत्याह कथमिति ।। वृत्तिरेवायं घटः इत्येवमाकारा चैतन्यघटयोरभेदमुल्लिखतीति पक्षे प्रागुक्तं दोषं स्मारयति दृशीति । तथा च दृग्दृश्ययोराध्यासिकसम्बन्धस्या-तन्त्रत्वापातः । भानविरोधतः भानासम्भवात् ।। रूपवद्वस्त्ववच्छेदेनापि नीरूपब्रह्मणो न चक्षुर्वृत्तौ भानं आकाशे तददृष्टेरित्याह अभ्रमिति ।। ६०१६०३ ।।
युक्तिमल्लिका
वृत्त्याऽज्ञानविनाशे हि ब्रह्मणस्स्फुरणं तव ।
वृत्तिः प्रथमसम्भूता कालाद्येवावलम्बते ।। ६०४ ।।
सुरोत्तमटीका
अभिनवं दूषणान्तरं चाह ।। वृत्येति ।। अविद्या-निवर्तकत्वेन प्रागेवोत्पन्नाऽयं घट इत्यपरोक्षवृत्तिः आवृतं चैतन्यं कथमय-मित्युल्लिखेत् । नीरूपब्रह्मोल्लेखस्य दुराग्रहगृहीतेन त्वयाऽङ्गीकारेऽप्यावृत-पदार्थस्य चाक्षुषापरोक्षप्रतीतावुल्लेखायोगात् । अतस्सर्वानुभवसिद्धैतद्देशकाल-वृत्तित्वमेव सा अयमित्युल्लिखेत् । एवं चायं घट इति वृत्तिरपि न ब्रह्मणि घटारोपे प्रमाणम् ।। ६०४ ।।
सत्यप्रमोदटीका
तव अज्ञानस्य विषयाश्रितत्वेनावरकत्वमिति वादिनः। तथा च वृत्तेरुत्पत्तिसमये चैतन्यस्यावृतत्वेन न सा तद्विषयिणी । कालाद्येव साक्ष्युन्नीतौ देशकालावेव । अवलम्बते विषयीकरोति ।। ६०४ ।।
युक्तिमल्लिका
इत्यारोपकुठाराग्रे क्रूरा धारैव दुर्घटा ।
स्वच्छविश्वद्रुमच्छेदः कर्तुं तत्केन शक्यते ।। ६०५ ।।
सुरोत्तमटीका
साहित्यमुद्रयोपसंहरति ।। इतीति ।। धारा अधिष्ठान-चैतन्यविषयत्वरूपधारा ।। तत् तस्मात् ।। ६०५ ।।
सत्यप्रमोदटीका
चैतन्यस्य निर्धर्मकस्याधिष्ठानत्वमेव दुर्घटम् । दूरे वृत्तेरधिष्ठानविषयत्ववार्ता । अतः आरोपरूपकुठार एव नास्ति । कुत-स्तस्याग्रधारा । कुतस्तरां तस्याः क्रूरत्वरूपबाधकत्वम् । विश्वद्रुमस्य छेदलक्षणबाध इति भावः ।। ६०५ ।।
युक्तिमल्लिका
घटोऽयमिति धीर्दृक्चेन्नाधिष्ठानभ्रमस्तव ।
घटोऽयमिति वृत्तिश्चेन्नाधिष्ठानभ्रमस्तव ।। ६०६ ।।
सुरोत्तमटीका
अत्राप्युभयतः पाशरज्ज्वा परं बध्नाति ।। घटोयमिति ।। दृक् अधिष्ठानचैतन्यरूपा दृक् । अधिष्ठानभ्रमः अधिष्ठाने स्वस्मिन्भ्रमः । युक्तिस्तूभयत्रापि प्रागुक्तैव ।। ६०६ ।।
सत्यप्रमोदटीका
दृक् चेत् चैतन्यं चेत् । अयं इत्युल्लेखोऽनुभव-विरुद्धः । वृत्तिश्चेत् न नीरूपचैतन्यस्य तद्विषयत्वम् ।। ६०६ ।।
युक्तिमल्लिका
अनारोपितवस्तुत्वाद्विश्वं स्यात्परमार्थसत् ।
ब्रह्मवद्बाधकोक्तीनामन्यार्थत्वं च तद्बलात् ।। ६०७ ।।
सुरोत्तमटीका
बाधकोक्तीनां नेहनानेत्यादिबाधकोक्तीनाम् । ब्रह्मवत् असदेवेदमग्र आसीदिति बाधकोक्तिग्रस्तब्रह्मवत् । तद्बलात् अनारोपितत्व-बलात् ।। ६०७ ।।
सत्यप्रमोदटीका
अनारोपितवस्तुत्वात् सम्प्रतिपन्नभ्रान्तपदार्थेतरत्वात् । बाधकोक्तीनां बाधकत्वेन पराभिमतानां नेहनानाऽस्ति किञ्चनेत्यादीनाम् । वस्तुतो बाधकत्वमेव न सम्भवति । ‘न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टं’ इति तत्त्वोद्योतवचनात् । ‘दृष्टस्य वस्तुनो बलवद् दृष्टिं विना नान्य-द्बाधकमि’ति च । अन्यार्थत्वं स्वगतभेदराहित्यरूपम् ।। ६०७ ।।
युक्तिमल्लिका
चक्षुरादीन्द्रियैर्बाह्यैर्बहिष्ठोऽर्थो यदीक्ष्यते ।
घटोऽयमित्यादिरूपं तदा ज्ञानं विदुर्बुधाः ।। ६०८ ।।
इदमंशो नानुमितौ न शाब्द्यामपि विद्यते ।
अपरोक्षे परं स स्याद्बाह्याक्षैर्बाह्यवस्तुनः ।। ६०९ ।।
स्वाङ्गस्थभूषणादीनां चक्षुषा वीक्षणेऽपि हि ।
ममेदमिति वा ज्ञानं मयीदमिति वा भवेत् ।। ६१० ।।
साक्षाच्च साक्षिणा वेद्ये साक्ष्याधारे च वस्तुनि ।
अहं सुखी मम सुखमहं जानाम्यहं यते ।। ६११ ।।
अहमिच्छामीति वा धीस्सर्वानुभवशोधने ।
गौरोहमित्यादिरूपो भ्रमोऽपि किल ते मते ।। ६१२ ।।
सुखवानहमित्येव सुप्तावपि मतिः किल ।
अज्ञोऽहमिति हि भ्रान्तिरज्ञानस्यापि ते मते ।। ६१३ ।।
तस्मात्प्रमायां भ्रान्तौ वा जाग्रत्स्वप्नसुषुप्तिषु ।
अहमित्युल्लिखेत्साक्षी स्वात्मानं नान्यथा क्वचित् ।। ६१४ ।।
अतोऽयं घट इत्याद्या वृत्तिः प्रात्यक्षिकी ध्रुवम् ।
दृग्दृश्ययोगायोगाद्यैस्सा भ्रान्तिर्नाभवत्तव ।। ६१५ ।।
अधिष्ठानचिदात्मैव भ्रमो वाच्यो भवन्मते ।
स चाहं घट इत्याद्याकारवांत्स्यान्न चान्यथा ।। ६१६ ।।
सुरोत्तमटीका
अयमित्यनुभवस्य प्रात्यक्षिकघटपटादिविषयतां चैतन्यस्य चाहमित्येवानुभवविषयतां च बहुशः प्रयोगं प्रदर्श्यानुभवारूढं करोति ।। चक्षुरादीति ।। ६०८–६१६ ।।
सत्यप्रमोदटीका
अयमित्युल्लेखः बाह्यवस्त्वपरोक्षज्ञानैरेव । साक्षिणा त्वान्तरपदार्थानां अहं सुखी इति मम सुखं इत्याद्युल्लेखः । अतः ‘अयं घटः’ इति घटस्य देशकालसम्बन्धमेव गृहणाति न तु चैतन्ये घटस्य तादात्म्यारोपं येन घटस्य मिथ्यात्वप्रत्याशा इति समर्थनाय उभयत्र बहून् लौकिकप्रयोगा-नभिनीय दर्शयति चक्षुरादीत्यादिभिः । इदमंशो नानुमिताविति अयं वह्निरिति साध्यसिद्धेरननुभवात् । शाब्द्यामिति इदं ‘सत्यं ज्ञानमनन्तमि’ति अनुल्लेखात् । सः इदमिति निर्देशः ।।
कथं तर्हि बाह्यप्रत्यक्षेऽपि गौरोऽहमिति धीरित्यत औपचारिकोऽयं प्रयोगः मन्मते कृष्णं वस्त्रमितिवत्प्रमैव । तदुक्तं न्यायामृते (१/५७) ‘कृशोऽहं कृष्ण इत्यादौ कार्श्यादिर्देहसंस्थितः । पुत्रादिस्थितकार्श्यादिवदात्मन्युपचर्यते’ इति । त्वन्मते तु प्रत्यक् चैतन्य एव देहधर्मः गौरत्वमध्यस्तमिति सर्व-थाऽऽन्तरविषयकप्रत्यय एव अहमित्युल्लेख इत्यनेकनिदर्शनैर्द्रढयति सुख-वानित्यादिभिः ।। प्रात्यक्षिकी बाह्येन्द्रियजन्या । दृगिति अधिष्ठानचित एव दृग्रूपत्वात् ।। ६०८–६१६ ।।
युक्तिमल्लिका
अनानुभविकत्वाद्यैर्भ्रमोऽप्येष न शोभते ।
अनारोपितमेवातो जगदासीन्न संशयः ।। ६१७ ।।
सुरोत्तमटीका
अतः वृत्तेर्भ्रमत्वस्य परेणानङ्गीकारात् । चैतन्यरूपत्व-स्यानानुभविकत्वाच्च ।। ६१७ ।।
सत्यप्रमोदटीका
अतः वृत्तावारोपानङ्गीकारात् चैतन्ये तदननुभवाच्च ।। ६१७,६१८ ।।
युक्तिमल्लिका
घटोऽहमिति या भ्रान्तिस्सा पशोश्च न दृश्यते ।
नाहं घट इति ज्ञानं मूढस्याप्यस्ति चेतसि ।
किं ब्रह्म मूढतो मूढं घटोऽहमिति यस्य धीः ।। ६१८ ।।
पशोरप्यहमित्यस्ति सदा ज्ञानमनाकुलम् ।
घटब्रह्म सदाऽज्ञानकलङ्काद्विकलं किल ।। ६१९ ।।
पशुश्च स्वगृहं वेत्ति वत्सं वनतृणादिकम् ।
घटब्रह्म घटं वेत्ति न पटं वेत्ति कर्हिचित् ।
पटब्रह्म पटं वेत्ति नान्यत्किल कदाचन ।। ६२० ।।
सुरोत्तमटीका
परप्रक्रियाया अनानुभविकत्वमेव प्रपञ्चयति ।। घटोऽह-मित्यारभ्यदोषे भीतिः कथं न त इत्यन्तेन ग्रन्थेन । यस्य ब्रह्मणः
।। ६१८–६२० ।।
सत्यप्रमोदटीका
पशोरपि निकृष्टं मायिब्रह्म इत्येतत्प्रपञ्चयति पशोर-पीत्यादिभिः । अज्ञानातिशयान्निकृष्टत्वमाह न पटमिति।। ६१९,६२० ।।
युक्तिमल्लिका
तत्र तत्र स्थितं ब्रह्म तं तमर्थं किलोल्लिखेत् ।
नैवान्यदुल्लिखेत्स्वार्थोल्लेखनं च न सर्वदा ।। ६२१ ।।
स्वयोग्यबहुवेत्तृत्वं बालानां च सदैव हि ।
किं ब्रह्म सर्वतः श्रेष्ठं बालादपि च बालिशम् ।। ६२२ ।।
सुरोत्तमटीका
तत्र तत्र स्थितं तत्तत्पदार्थाधिष्ठानतया स्थितम् । स्वार्थोल्लेखनं स्वार्थभूतघटाद्युल्लेखनम् ।। ६२१,६२२ ।।
सत्यप्रमोदटीका
घटमात्रोल्लेखिनो घटब्रह्मणः स्वविषयकस्य घटान्यपट विषयकस्य च ज्ञानस्याभावाद्बालेभ्योऽपि बालिशत्वमित्याह तत्रेति
।। ६२१,६२२ ।।
युक्तिमल्लिका
तुच्छानां पशुपक्ष्यादिजीवानां कृपया किल ।
तस्याज्ञानं विनाश्यं स्यात्तदोन्मिषति नान्यदा ।। ६२३ ।।
सुरोत्तमटीका
तस्य घटाद्यधिष्ठानभूतब्रह्मणः । पशुपक्ष्यादीनामपरोक्ष-वृत्त्या ब्रह्मणोऽज्ञाननिवृत्त्यङ्गीकारादिति भावः ।। ६२३ ।।
सत्यप्रमोदटीका
वृत्तिरेवाज्ञानविरोधिनी न चैतन्यमिति प्रक्रियां गर्हयति तुच्छानामिति । कृपया तत्तदन्तःकरणवृत्त्या ।। ६२३,६२४ ।।
युक्तिमल्लिका
जडैव मानसी वृत्तिर्जडार्थविषया सती ।
तदज्ञानं तिरस्कुर्यात्स्वच्छा न ब्रह्मचित्किल ।। ६२४ ।।
सुरोत्तमटीका
तदज्ञानं ब्रह्माज्ञानम् ।। ६२४ ।।
युक्तिमल्लिका
शुकादयो यं प्रपन्नास्स प्रपन्नो जडं किल ।
अहो जडस्य विज्ञानादजडाज्ञानभीर्भवेत् ।
अजडं तु दृढज्ञानं नाज्ञानं भीषयेत्किल ।। ६२५ ।।
वेदा एव ज्ञापयन्ति नेन्द्रियाणीति यं श्रुतिः ।
स्तौति ब्रह्मादिदेवाश्च नेक्षन्ते यं स्वचक्षुषा ।
स मूढैः पशुपक्ष्याद्यैश्चक्षुषा दृश्यते किल ।। ६२६ ।।
श्रुतिस्मृतिविरुद्धेयं सर्वानुभवबाधिता ।
प्रक्रिया विक्रिया कस्मादुररीक्रियते त्वया ।। ६२७ ।।
किं ब्रह्मणाऽपराद्धं ते नीचादपि च नीचताम् ।
यत्तस्य सर्वदा ब्रूषे दोषे भीतिः कथं न ते ।। ६२८ ।।
सुरोत्तमटीका
जडं मानसापरोक्षज्ञानम् । प्रपन्नः स्वाज्ञाननिर्हरणाय शरणं प्राप्तः ।। ६२५–६२८ ।।
सत्यप्रमोदटीका
प्रपन्नः स्वाज्ञाननिर्हरणाय तदपेक्षावान् । विज्ञानात् इत्यस्य विपरीतलक्षणया करणमात्रत्वेनोपचारेणैव ज्ञानपदविषयादित्यर्थः । दृढज्ञानं ज्ञप्तिरूपत्वेन ज्ञानपदमुख्यविषयः ।। स्वचक्षुषा स्वातन्त्र्येणेति पूरणीयम् । चक्षुषा दृश्यते तज्जनितवृत्त्या विषयीक्रियते । अन्यथा तया तदा-वरणापगमासम्भवात् ।। कस्मादिति तामसस्वरूपजृम्भितं परतत्वप्रद्वेषं विना इति शेषः
।। ६२५–६२८ ।।
युक्तिमल्लिका
नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोकदृष्टिविकल्पना ।। ६२९ ।।
त्वमाद्यः पुरुषस्साक्षादीश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ।। ६३० ।।
इति भागवते प्रोक्ता माया भ्रमकरीश्वरे ।
यस्मान्निषिद्धा तेनेदं कथं मायामयं जगत् ।। ६३१ ।।
सुरोत्तमटीका
अर्थसन्निकर्षजन्यापरोक्षवृत्तेरपरोक्षवृत्त्येकनिवर्त्या-ज्ञानावृतब्रह्मचैतन्यस्य च प्रागेवापेक्षिततत्तदर्थारोपरूपत्वस्य युक्तिविरुद्धत्वा-द्विश्वं सत्यमित्यादिश्रुतिविरुद्धत्वाच्च न जगतो मिथ्यात्वमित्युक्तम् । इदानीं मायाख्याविद्याया एव स्मृत्या स्पष्टं ब्रह्मणि निषेधात् न ब्रह्मचैतन्यस्य जगदारोपरूपत्वम् । नापि जगतो मायिकत्वाविद्यकत्वापरपर्यायं मिथ्यात्व-मित्याह ।। नमस्तुभ्यमिति ।। तत्राद्यं दशमस्कन्धस्थं वरुणवाक्यम् । द्वितीयं प्रथमस्कन्धस्थमर्जुनवाक्यम् । प्रोक्ता लोकदृष्टिर्विकल्पनेति वाक्यशेषेण प्रोक्ता । निषिद्धा न यत्र श्रूयत इति निषिद्धा । भागवत इत्येतदत्रापि सम्बध्यते । अथवा प्रोक्ता ब्रह्मभ्रमहेतुत्वेन परेण प्रोक्ता भागवते निषिद्धेत्येव योजना । मायामयमित्युपलक्षणम् । आविद्यकमित्यपि द्रष्टव्यम् ।। ६२९–६३१ ।।
सत्यप्रमोदटीका
माया भ्रमकरी इति पदच्छेदः । अत्र श्लोकत्रयेण प्रागुक्तः श्रुतिस्मृतिविरोधो निरूप्यते । श्रूयते इत्यनेन स्मृतिः श्रुतिसंवाद-पुरस्सरं मायां निषेधति । प्रोक्ता इत्यतः पूर्वं अत्रैव वाक्यशेषे इति वा परेणेति वा पूरणीयम् । ‘नमस्तुभ्यं’ इतीदं दशमस्कन्धे वरुणवाक्यम् । ‘त्वमाद्यः’ इति प्रथमस्कन्धे अर्जुनवचनम् । अत्र भ्रमकरीति सामान्योक्त्या स्वाश्रयव्यामोहकरी परव्यामोहकरी चेत्यज्ञानसामान्यलाभः । तेनाविद्यकत्व-स्यापि निरासः । ‘साक्षादीश्वरः प्रकृतेः परः’ इत्यनेन ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं’ इति प्रमाणोक्तदिशाऽमायिकत्वलाभः । चिच्छक्त्या नतु परोक्तप्रकारेण वृत्त्युपरागमहिम्ना । कैवल्ये सर्वोत्कृष्टे स्वे महिमि्न । ‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं’ इति श्रुतेः ।। ६२९–६३१ ।।
युक्तिमल्लिका
न श्रूयत इति प्राह यत्स्वयं स्मृतिरूपिणी ।
स्वशक्त्या तन्मृतां मायां श्रुतिशक्त्याऽप्यमीमरत् ।। ६३२ ।।
सुरोत्तमटीका
यत् यस्मात् । तत् तस्मात् । सर्वापेक्षितप्रमाणभूत-स्मृतिरूपत्वात् ।। ६३२ ।।
युक्तिमल्लिका
यद्वा चिच्छक्तिनिर्दग्धमायाशङ्कास्थिभस्मनोः ।
उद्धाराय प्रभोस्तस्य दास्यौ मन्ये श्रुतिस्मृती ।। ६३३ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि श्रुतिस्मृत्योस्सङ्गतिमाह ।। यद्वेति ।। चिच्छक्त्या मायां व्युदस्येत्युक्तत्वात् भगवतस्स्वभूतज्ञानशक्त्यैव मायाया भस्मीकृतत्वात् न तन्निरासाय प्रमाणान्तरमपेक्षितम् । तर्हि श्रुतिस्मृत्योः किं कृत्यमित्यत आह ।। चिच्छक्तीति ।। चिच्छक्त्या निर्दग्धा या माया तस्याः मायिनं तु महेश्वरमिति तद्ग्रन्थोक्तशङ्का सैवास्थि । श्रुत्यर्थभ्रममूलत्वेनेष-त्प्रबलत्वात् । स्वरूपज्ञानस्याज्ञानाविरोधित्वेन भगवत्येव माया वर्तत इति या मायिनां शङ्का सैव भस्म । स्वकपोलकल्पितत्वेनातिदुर्बलत्वात् । न यत्र श्रूयत इति स्मृतौ तदुपात्तश्रुतौ च भ्रमहेतुमायाया एव भगवति निवारितत्वेन सृष्ट्यर्थं जगदुपादानप्रकृतिं कुलालो मृदमिव दोर्भ्यां गृह्णतो भगवतो मायित्वोक्ते-स्सूचितत्वेन प्राथमिकशङ्काया निरस्तत्वात् मायां व्युदस्येति वाक्ये स्वरूप-ज्ञानस्यैवाज्ञानविरोधित्वकथनेन द्वितीययशङ्काया अपि निरस्तत्वादुद्धाराये-त्युक्तम् । निवृत्तरजस्काः पञ्च स्त्रियस्संचिन्वन्तीति गृह्योक्तेः कर्त्रा दाहे कृतेऽप्यस्थिसञ्चयनादेः स्त्रीकार्यत्वादिदमुक्तम् । श्रुतित्वस्मृतित्वजात्या द्वयो-रपीतिहासपुराणः पञ्चमो वेदानां वेद इति वचनादन्तर्भेदविवक्षया पञ्चता चोचितेति हृदयम् । भगवतस्सर्वज्ञत्वाख्ययुक्तिशक्त्यैव मायाऽभावे सिद्धेऽपि दुर्जनशङ्कानिरासार्थमेव श्रुतिस्मृत्युदाहरणमिति भावः ।। ६३३ ।।
सत्यप्रमोदटीका
‘निरनिष्टो निरवद्यः’ ‘यः सर्वज्ञः सर्ववित्’ इति-प्रभृतिश्रुतिभिः ‘अज्ञाताऽखिलसंवेत्तुर्घटते न कुतश्चने’ति भगवत्पादीयवचनेन च प्रागेव निर्दग्धैव परमात्मन्यज्ञानशङ्कापिशाची । ‘निवृत्तरजस्काः पञ्च स्त्रियः सञ्चिन्वन्ति’ इति गृह्योक्तेः अस्थिभस्मसंचयः कार्यः । अस्थिभस्म-नामपि उत्सारणेन शङ्कानिश्शेषनिर्मूलनमेव उदाहृतश्रुतिस्मृतिरूपवाक्य-पञ्चकस्योद्देश इति साहित्यरसेन निरूपितप्रमेयं मधुरयति यद्वेति । दास्यौ गृह्योक्तदिशा पञ्च स्त्रियः ।। ६३३ ।।
युक्तिमल्लिका
ब्रह्माण्डान्तर्बहिर्भ्रान्तं किं महान्तो महेश्वरम् ।
संमानयन्ति ध्यायन्ति शृण्वते मन्वते सदा ।। ६३४ ।।
एकैकार्थभ्रान्तिमन्तमपि सन्तस्सभान्तरात् ।
निष्कासयन्ति निन्दन्ति किं ते स्वान्ते स्मरन्ति तम् ।। ६३५ ।।
सुरोत्तमटीका
पुनरपि भगवतो भ्रान्त्यसम्भवे स्मृत्युपस्कारकयुक्तीराह ।। ब्रह्माण्डेति ।। अन्तश्चतुर्दशलोकादिरूपेण बहिरावरणरूपेण च ब्रह्मण एव भ्रान्तिरिति परस्य सिद्धान्तः । अत एवमुक्तम् । महान्तः जीवन्मुक्तत्वेन ज्ञानवत्त्वात् पूज्यास्सनकादयः । तं महाभ्रान्तं महेश्वरम् ।। ६३४,६३५ ।।
सत्यप्रमोदटीका
भ्रान्तम् अहं घटादिब्रह्माण्डकोशः अहं आवरणं इत्येवं भ्रान्तिस्वरूपम् । महान्तः योगसिद्धा ब्रह्मादयः । तथा च, ब्रह्म भ्रमसामान्यशून्यं अखिलयोगिध्यानादिविषयत्वात् इति युक्तिः कथिता । विपक्षे हेतूच्छित्तिं बाधकमाह एकैकेति ।।६३४,६३५ ।।
युक्तिमल्लिका
सर्वार्थान्विपरीतांश्च बुद्धिस्सा पार्थ तामसी ।
इति गीतासु यः प्राह किं भ्रान्त्यै स्पृहयत्यसौ ।। ६३६ ।।
सुरोत्तमटीका
असौ विपरीतार्थदर्शनस्य तमोगुणकार्यत्वं वदन् सत्वगुणप्रवर्तकः कृष्णः ।। ६३६ ।।
सत्यप्रमोदटीका
असौ विपरीतज्ञानं तामसत्वेन गर्हयन् श्रीकृष्णः । एवं ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ इति बाधशून्यत्वेन प्रमितयथार्थज्ञान-स्वरूपश्च ।। न हि कोऽप्यनुन्मत्तः स्वयं निन्दिताय स्पृहयति इति भावः ।। ६३६ ।।
युक्तिमल्लिका
क्वापि योगोऽर्थसंयोगो योगिनां सर्वदर्शने ।
सोऽप्यर्थसत्तासापेक्षः किं तेषां नरि शृङ्गदृक् ।। ६३७ ।।
सुरोत्तमटीका
योगिनोऽपि प्राग्विद्यमानार्थतत्वज्ञानवन्तो न भ्रान्ताः । किमु ब्रह्मेति भावेनाह ।। क्वापीति ।। सर्वदर्शने सर्वार्थदर्शने । बहुशोऽर्थ-सन्निकर्ष एव तदिन्द्रियस्याप्यस्ति । क्वापि व्यवहितपदार्थदर्शने अतीन्द्रिय-पदार्थदर्शने च योग एवार्थसंयोग इत्यर्थः । सोऽपि योगोऽपि । ध्यानमेव हि योगः । तस्यापि प्रागर्थोऽपेक्ष्यत इति भावः । तत्र व्यतिरेकदृष्टान्तमाह ।। किमिति ।। तेषां योगिनाम् । नरि मनुष्ये । अर्थसत्ताभावादेव हि नशृृङ्गादि-ज्ञानाभावः । अतस्तज्ज्ञानमपि अर्थसत्तासापेक्षमिति हृदयम् ।। ६३७ ।।
सत्यप्रमोदटीका
क्वापि व्यवहितातीतानागतविप्रकृष्टादिविषये । योग एवार्थसंयोगः । समाधिलब्धपरिपाकातिशयः योगः । सर्वेति स्वयोग्यसर्वेत्यर्थः । सापेक्ष इति सम्बन्धसामान्यस्य सम्बन्धिद्वयसत्तासापेक्षत्वनियमात् । नियममेव व्यतिरेकमुखेनोपपादयति किमिति । दृक् ज्ञानम् ।। ६३७ ।।
युक्तिमल्लिका
तत्त्वज्ञानाय धर्मोऽस्तु युक्तिश्शक्तिश्च वर्तताम् ।
मिथ्यादृष्टिर्न तपसा किं कौर्मे रोम्णि दृङ्मुनेः ।। ६३८ ।।
सुरोत्तमटीका
धर्मादिसाधनसम्पन्नत्वाच्च न तेषां मिथ्यादृष्टिरित्याह ।। तत्वज्ञानायेति ।। शक्तिः तपश्शक्तिः । न हि मिथ्याज्ञानसंपादनाय धर्मा-द्याचरणं कुर्वन्ति । तत्रापि व्यतिरेकदृष्टान्तमाह ।। किमिति ।। कौर्मे कूर्म-सम्बन्धिनि । भगवद्भक्तानामपि योगिनां यदा न मिथ्यादृष्टिः । किं वाच्यं तदा भगवतो योगीश्वरस्येति भावः ।। ६३८ ।।
सत्यप्रमोदटीका
तत्त्वं अनारोपितं प्रमितिविषय इति यावत् तेन कूर्मरोमज्ञानव्यवच्छेदः । तपसेति प्रकृतापेक्षया । सार्वत्रिक एवायां नियमः इति भावः ।। ६३८ ।।
युक्तिमल्लिका
सत्यार्थ एव सन्मान्यो मिथ्यार्थो न महत्प्रियः ।
किं रज्जुसर्पालङ्कारः शुक्तिरूप्याचले शिवः ।। ६३९ ।।
सुरोत्तमटीका
किमाक्षेपे । सत्यसर्पालङ्कारः । सत्यरजताचलवर्ती । अतस्सत्यार्थ एव सन्मान्य इति भावः ।। ६३९ ।।
सत्यप्रमोदटीका
मान्यः उत्कर्षसिद्ध्यर्थमपेक्षणीयः । आरोपित-शङ्खचक्रादिप्रदर्शनेन पौण्ड्रकोऽपहसनीय एव जातो न मान्य इति व्यतिरेकोऽ-प्यनुसन्धेयः ।। ६३९ ।।
युक्तिमल्लिका
अयं घट इति ज्ञानं सर्वेषामस्तु मानसम् ।
देशकालस्थतेदन्ता तत्र त्वखिलसंमता ।। ६४० ।।
इयं धीश्च प्रमैवास्तु ब्रह्म श्रुत्युक्तसाधनैः ।
अन्ते निरीक्ष्यमेवास्तु किमप्रामाणिकोक्तिभिः ।। ६४१ ।।
सुरोत्तमटीका
सर्वेषामयं घट इति ज्ञानमिति सम्बन्धः । तत्र ज्ञाने । इदंता अखिलसंमता देशकालस्थताऽत्स्विति सम्बन्धः । अखिलसम्मतेत्यनेन इदमंशस्य ब्रह्मपरत्वोक्तौ सर्वानुभवविरोधं च दोषं सूचयति ।। ६४०,६४१ ।।
सत्यप्रमोदटीका
मानसं न तु चिद्रूपम् । तथा सत्यहं घट इत्यु-ल्लेखापत्तेः । अत एव इदंशब्देन नाधिष्ठानब्रह्मानुवेधः । देशेति पुरोदेश-वर्तमानकालसम्बन्धिता ।। प्रमैव बाधाभावात् । ब्रह्म नीरूपत्वाच्चाक्षुष-वृत्त्यविषयः । किमित्याक्षेपे । अनुभवानादरणे, असन् नृशृङ्गमित्यादौ असच्छब्देनाधिष्ठानानुवेधः कल्पनीयः स्यादिति भावः ।। ६४०,६४१ ।।