महत्सु गुणसारेषु दोषान्वेषणधीर्मुधा
श्रीमद्वादिराजतीर्थश्रीमत्पूज्यचरणविरचिता युक्तिमल्लिका
परमात्मनः जन्ममरण-दुःख, क्षुत्पिपासा, पारतन्त्र्य, चिन्ता, लेप, छेदवेधस्पृहादिदोषाभावसमर्थनम्
शुद्धिसौरभम्
युक्तिमल्लिका
महत्सु गुणसारेषु दोषान्वेषणधीर्मुधा ।।
अनन्तगुणहृद्योऽपि निरवद्यो न किं हरिः ।। १ ।।
सुरोत्तमटीका
श्रीमद्वादिराजतीर्थचरणारविन्दचंचरीक सुरोत्तमभिक्षुविरचितायां युक्तिमल्लिकाटीका शुद्धिसौरभम्
अधुना ग्रन्थकारः भगवतो निर्दोषत्वसमर्थनाय शुद्धिसौरभसर्वस्वमारभते । तत्रादौ लोकनीत्या निर्दोषत्वं समर्थयते ।। महत्स्विति ।। गुणसारेषु गुणश्रेष्ठेषु महत्सु महापुरुषेषु दोषान्वेषणधीर्मुधा व्यर्था । मुधेत्युपलक्षणम् । नरकहेतुतयाऽनर्थदा च । यदा सत्सु विद्यमानस्यापीषद्दोषस्य दर्शनं नरकाद्य-नर्थहेतुः । तदा किमु वाच्यमवद्यगन्धविधुरे हरौ दोषानुदर्शनं महतोऽनर्थस्य हेतुरिति भावः । तर्हि यत्र गुणास्तत्र दोषा इति न्यायस्य का गतिरिति चेत् भगवति भग्नव्याप्तिकत्वाद्दुर्न्यायनैव गतिरित्याह ।। अनन्तगुणहृद्योऽपीति ।। हरिः अनन्तगुणहृद्योऽपि निरवद्यः किं न भवत्येवेत्यर्थः । हरिरित्यनेन भगवतो निर्दोषत्वे सकलदोषनिर्हरणसमर्थत्वरूपयुक्तिं सूचयति ।। १ ।।
सत्यप्रमोदटीका
श्री सत्यप्रमोदतीर्थश्रीचरणविरचिता विवृतिः
अनन्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
मूलरामं सदा वन्दे चतुराननपूजितम् ।। १ ।।
अनुव्याख्याऽमृताऽम्भोधिर्यदास्यान्निःसृतोऽमरान् ।
नरान् करोति तं वन्दे पूर्णबोधं जगद्गुरुम् ।। २ ।।
यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।
लभन्ते मानुषा नूनं तान् जयादिगुरून्भजे ।। ३ ।।
हयग्रीवपदाम्भोजभृङ्गराजायितान्तरान् ।
वादिराजगुरून्वन्दे ज्ञानभक्त्यादिसिद्धये ।। ४ ।।
प्रणम्य सदभिज्ञार्यपादोपान्तरजःकणान् ।
शुद्धिसौरभसर्वस्वं विवृणोमि यथामति ।। ५ ।।
पूर्वसौरभे श्रुतीनां प्रामाण्यं समर्थ्य तद्बलेन नारायणाख्यस्य परब्रह्मणो गुणपूर्णत्वं प्रतिपादितम् । तदेव निर्दोषत्वसमर्थनेनोपपादयितुं शुद्धिसौरभ-सर्वस्वमिति पूर्वेणास्योपपाद्योपपादकभावलक्षणसङ्गतिः स्वस्मिन्नेकवाक्यता च । तत्रादौ
‘यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः’
इत्यनुव्याख्यानोक्तं प्रतिजानीते महत्स्विति । मूलरूपेऽवताररूपेषु च । अन्वेषणधीः विप्रतिपन्नः दोषवान् चेतनत्वात् चैत्रवत् इत्यादिकुयुक्त्या साधनप्रयासः । मृषा निरर्थकः । गुणसारेषु गुणेषु सारः स्वातन्त्र्यं तद्वत्सु । हेतुगर्भविशेषणमिदम् । तदनेन परकीययुक्तेः कालात्ययापदिष्टत्वं स्वातन्त्र्या-भावोपाधिदुष्टत्वं चाभिप्रैति । तदेव व्यनक्ति अनन्तेति । अपिः समुच्चये । उभयरूपोऽपि हरिः । किं न प्रमाणसिद्ध इति शेषः । ‘गुणाः श्रुताः सुविरुद्धाश्च’ इत्यादिश्रुतिभिरिति भावः । हरिरित्यनेन प्रेप्सावत्त्वेन अनन्तान् गुणान्स्वस्मिन्नाहरति जिहासावत्त्वेनाशेषान्यवद्यानि स्वस्मात्परिहरति चेति युक्तिद्वयं सूचयति।।१ ।।
युक्तिमल्लिका
योऽसौ लघीयसो दोषो नासौ दोषो गरीयसः ।
अपि संहृत्य निखिलमपवादी किमच्युतः ।। २ ।।
सुरोत्तमटीका
पुनरपि लोकनीत्यैव सकलजगत्संहारेऽपि हरेर्निर्लेपत्व-मेवेति साधयति ।। योऽसाविति ।। लघीयसस्संप्रज्ञातसमाधिस्थयोगिनः योऽसौ दोषस्सन्ध्यापरित्यागादिः । असौ गरीयसः असंप्रज्ञातसमाधिस्थ-योगिनः दोषो न । अल्पस्य यो दोषस्स महतो दोषो नेति यावत् । लोकेऽप्येवं चेत् अलौकिकोऽच्युतः न कर्मणा लिप्यते पापकेनेत्यादि श्रुतेः क्रूरकर्मकरणेऽपि पापलेपाख्यच्युतिरहितः निखिलं संहृत्यापवादी किं नैवेत्यर्थः । प्रत्युत सृजस्यवस्यत्सिन तत्र सज्जस इत्यादिना स्तुत्य एवेति भावः । इदमपि पूर्वार्धोक्तलोकनीतेरुदाहणम् । एतेनैव रावणहनने रामस्य ब्रह्महत्यादिकमपि गर्भस्रावेणैव निरस्तं वेदितव्यम् ।। २ ।।
सत्यप्रमोदटीका
लघीयसः नियम्यस्य । गरीयसः गुणदोषनियाम-कस्य । अपवादी हिंसादोषभाक् । अच्युत इत्यनेन ‘अच्युतो यो गुणैर्नित्य-मेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तित’ इति भगवत्पादोक्तयुक्तिं सङ्गृह्णाति ।। २ ।।
युक्तिमल्लिका
यद्भावि तद्भवत्येव यदभावि न तद्भवेत् ।
कल्पान्ते तल्पकल्पं यत्पत्रमासीन्न पादपः ।। ३ ।।
सुरोत्तमटीका
नारायणस्याविनाशित्वं अनुत्पन्नत्वं च कैमुत्येन साधयितुं नीत्यन्तरमाह ।। यद्भावीति ।। यद्भावीत्यादिना पूर्वार्धोक्तनीति-द्वयस्याप्युदाहरणमाह ।। कल्पान्त इति ।। कल्पान्ते ब्रह्मकल्पान्ते ब्रह्मप्रलय इति यावत् । यद्यस्मात्तल्पकल्पं हरेश्शय्यासमानं पत्रं वटपत्रमासीत् । इयं यद्भावीत्यस्योदाहरणम् । पादपः वटवृक्षः नासीदिति सम्बन्धः । यदभावी-त्यस्येदमुदाहरणम् । एवं चास्य पत्रस्य पादपानपेक्षत्वादनुत्पन्नत्वं प्रलये सत्त्वादविनाशित्वं च सूचितम् । यदा पत्रस्याविनाशित्वादिकं तदा किमु वाच्यं पत्रशायिनो हरेरिति भावः ।। ३ ।।
सत्यप्रमोदटीका
‘नैषा तर्केण मतिरापनेया’ इति श्रुत्युक्तं, भगव-द्विषयिण्या मतेस्तर्कागोचरत्वं साधयति यदिति । यत् शास्त्रैकगम्यं प्रमेयम् । भावि श्रुतिप्रमितम् । तत् भवत्येव । न दुस्तर्कबलेनापलापमर्हति । यद् अभावि श्रुतिप्रमितं न भवति न तद्भवेत् दुस्तर्कबलेन न साधनार्हम् । उभयत्र दृष्टान्तः कल्पान्त इति । अयमाशयः । कल्पान्ते प्रलये श्रीहरेः पादपरहिते लक्ष्म्यात्मके वटपत्रे शयनं श्रुतिप्रमितम् । तत्र, विमतं, पत्रं न भवितुमर्हति, पादपरहितत्वात् व्यतिरेकेण चूतपत्रवत् इति पत्रस्यैवापलापो न दुर्युक्तिबलेन साधनार्हः । एवं विमतं पादपोपेतम् पत्रत्वात् इति अविद्य-मानपादपसाधनं वा कुयुक्त्या न सम्भवि । किन्तु युक्त्योरेव श्रुत्या बाध इति भावः ।। ३ ।।
युक्तिमल्लिका
कृतिर्न कारणे यस्य तस्य कार्यं कुतो भवेत् ।
लये सतः प्रागभावाभावान्न हि हरेर्भवः ।। ४ ।।
सुरोत्तमटीका
प्रकारान्तरेणानुत्पन्नत्वं साधयितुं नीतिमाह ।। कृति-रिति ।। यस्य कारणे विषये कृतिः प्रयत्नो न । तस्य कार्यं कुतो भवेत् न कुतोऽपि । कारणविषयकप्रयत्नमकुर्वतः कार्यं च नेति लोकनीतिः । हि यस्मादेव तस्माल्लये प्रलये सतः विद्यमानस्य नारायणस्य प्रागभावाभावात् प्रागभावाख्य-कारणाभावात् भवः उत्पत्तिर्न । हरेरुत्पन्नत्वं वदता तदुत्पत्तिकारणीभूततत्प्राग-भावेऽपि कृतिः कर्तव्या । सा चोक्तरीत्याऽशक्यत्वेन नास्ति चेत् उत्पत्तिकथनं व्याहतमिति भावः ।। ४ ।।
सत्यप्रमोदटीका
हरिः, कार्यो न भवति, कारणगोचरकृत्यभावात् इति वक्तुं व्यतिरेकव्याप्तिमाह कृतिरिति । यस्य कुलालादेः । कारणे विषय-सप्तमी । उपादानादिगोचरा । कार्यं घटादिकम् । यत्कार्यं तदुपादानादिगोचर-कृतिजन्यमिति यावत् । न चासिद्धिरित्याह प्रागभावेति । एतच्च कारण-सामान्योपलक्षणम् । प्रागभावस्यैवाभावे पूर्ववृत्तित्वघटितकारणत्ववत्सद्भावस्य असम्भवादिति भावः । हरिः कारणसामान्यशून्यः प्रागभावाभावात् । गगनवत् । हरिः प्रागभावाभाववान् प्रलये सत्त्वात् तद्वदेवेति च प्रयोगावभि-प्रेतौ ।। ४ ।।
युक्तिमल्लिका
नाभिजन्मा विधिस्तस्य क्रोधाज्जातस्त्रिलोचनः ।
नारायणो मूलरूपी जातः कस्माद्विचार्यताम् ।। ५ ।।
सुरोत्तमटीका
हरेर्जन्माभावे सर्वजनसंप्रतिपन्नं युक्त्यन्तरं चाह ।। नाभिजन्मेति ।। तस्य हरेर्नाभिजन्मा विधिः त्रिलोचनः क्रोधजन्मेति यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भव इति भारते प्रसिद्धः । मूलरूपी नारायणः कस्मात्पुरुषाज्जात उत्पन्नः न कस्मादपि । विचार्यतां लोके वेदे च । कृष्ण-रामादीनां वसुदेवादिभ्यो जनिं वदन्नप्यज्ञो लोकः मूलरूपिणो नारायणस्य न कस्यचित्सकाशाज्जनिं वदतीत्यतो मूलरूपीत्युक्तम् । तस्यापि जनकोऽस्ति चेत् ब्रह्मादीनामिव लोके वेदे च प्रसिद्धिः स्यात् । सर्वत्राप्यप्रसिद्धस्य च शशविषाणवदभाव एव जनकाभावाज्जनेरप्यभाव इति भावः ।। ५ ।।
सत्यप्रमोदटीका
प्रलये स्वरूपेण सतोऽपि सृष्टौ जीवानामिव देह-सम्बन्धरूपा जनिः स्यादिति मन्दाशङ्कां परिहरति नाभीति । देहसम्बन्धार्थं देहोत्पत्तिर्वाच्या । असता सम्बन्धायोगात् । न च जनकं विना देहोत्पत्तिः सम्भाविनी । जनको भवन् विधिर्वा स्यात् त्रिलोचनो वा । अन्येषामनन्तर-भाविनामनाशङ्क्यत्वात् । न च तावुभावपि जनकौ सम्भवतः । हरेरेव सम्भूतत्वात् । ‘यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भव’ इति भारतोक्तेः । एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ इति श्रुतेश्च । तथा च प्रयोगः । नारायणः जनिरहितः जनकरहितत्वात् । न चावताररूपेष्वसिद्धिः । ‘पूर्णा-त्पूर्णमुदच्यते’ इति श्रुतेः तेषामपि मूलरूपेणात्यन्ताभेदादित्याशयः ।। ५ ।।
युक्तिमल्लिका
अतोऽभूद्देहलीदीपः प्रलये सत्त्वमीशितुः ।
कल्पान्ते यल्लयं रुन्धे कल्पादौ जन्म च प्रभोः ।। ६ ।।
सुरोत्तमटीका
प्रलये सतः प्राभगावाभावात् न जनिरित्युक्तम् । अधुना प्रलये सत्त्वेन जन्ममरणयोरुभयोरप्यभावः सिद्ध्यतीत्याह ।। अत इति ।। यद्यस्मादीशितुर्नारायणस्य प्रलये सत्त्वं कल्पान्ते ब्रह्मकल्पान्ते कल्पादौ ब्रह्म-कल्पादौ प्रभोर्जन्म चेति सम्बन्धः । अतः देहलीदीपः गृहस्यान्तर्बहिः प्रकाशकदेहलीदीपोपमोऽभूत् । देहलीदीपवदुभयसाधकोऽभूदिति भावः । सर्वस्य लयेऽप्यलीनत्वात् सर्वोत्पत्तेः पूर्वं विद्यमानत्वाच्च हरेर्जन्ममरणाभाव इति फलितोऽर्थः ।। ६ ।।
सत्यप्रमोदटीका
अतः प्रागभावशून्यत्वात् प्रध्वंसशून्यत्वाच्च । देहली-दीपः उभयत्र अन्धकारनिवर्तको यथा, तथा भगवतो जन्ममरणसद्भाव-विषयकोभयमोहनिवर्तकः । ईशितुः स्वयं जगतः सृष्टिसंहारयोः समर्थस्य । रुन्धे अत्यन्ताभावप्रतियोगिनं स्थापयति ।। ६ ।।
युक्तिमल्लिका
पूर्णप्रवृत्तिरन्यार्था न वै पूर्त्यर्थमात्मनः ।
तटाकोत्सिक्ततोयैः किं तटाकस्यैव पूरणम् ।। ७ ।।
सुरोत्तमटीका
जगत्सृष्ट्यादौ प्रवर्तमानस्यापूर्णता स्यादित्याशङ्क्य परार्थं प्रवर्तमानस्य नापूर्तिरित्यत्र युक्तिमाह ।। पूर्णेति ।। पूर्णस्य सदापरि-सम्बन्धः । यथापरिपूर्णतटाकोत्सिक्ततोयेन केदारादीनामेवोपजीवनं तथा पूर्णस्य हरेः प्रवृत्तिरन्येषां स्वर्गनरकमोक्षतमोरूपफलदानायेति भावः ।। ७ ।।
सत्यप्रमोदटीका
‘सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः’ इति भगवत्पादोक्तिमनुरुध्य परमात्मनः सृष्ट्यादौ प्रवृत्तिः परप्रयोजनार्थैवेति लौकिकदृष्टान्तोक्त्या निरूपयति पूर्णेति । पूर्णस्य आनन्दोद्रेकवतः । प्रवृत्तिः सृष्ट्यादिविषयिणी । वै इत्यनेन ‘आप्तकामस्य का स्पृहा’ इति प्रमाणप्रसिद्धिं द्योतयति । न चैवं स्पृहासामान्यनिषेधे प्रवृत्त्यनु-पपत्तिः । स्वप्रयोजनस्यैव निषेधेन परप्रयोजनार्थतायाः अङ्गीकारात् । तदुक्तं अनुव्याख्याने ‘आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयदि’ति । एतदाह अन्यार्थेति । तदुक्तं सुधायां ‘दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमाना’ इति । ‘सदा प्रवृत्तिरीशस्य स्वभावादेव केवलं’ इति अनुव्याख्यानोक्तिमनुरुध्याह ‘तटाकेति’ । तदुक्तं तत्रैव सुधायां ‘यथा लोके ज्वलनपवनादीनां तथेशस्यापि सदा सृष्ट्यादौ केवलं प्रयोजनेन विना स्वभावादेव प्रवृत्तिः प्रमिता’ इति । अत्र पवनादीत्यादिपदेन उदकादीनां तिर्यग्गमनादिप्रवृत्तेः सङ्ग्रहः ।। स्वभावमात्रतः प्रवृत्तौ तटाकोदकदृष्टान्तः । उदकस्य जडस्य प्रयोजनोद्देशितायाः अप्रसङ्गात् ।। ७ ।।
युक्तिमल्लिका
सुखस्यानन्तरं दुःखं भ्रमो न प्रमया सह ।
न हि पूर्णसुखज्ञानो दुःखभ्रान्त्यवकाशवान् ।। ८ ।।
सुरोत्तमटीका
हरेर्निर्दुःखत्वं भ्रमरहितत्वं च युक्त्या साधयितुमाह ।। सुखस्येति ।। हि यस्माद्दुःखत्वं सुखस्यानन्तरं न तु सुखेन सह । सुख-स्यानन्तरं दुःखं दुःखस्यानन्तरं सुखमिति वचनात् । यद्यपि पादे मे वेदना शिरसि सुखमित्यस्ति तथापि यदवच्छेदेन यदा सुखं तदवच्छेदेन तदा न दुःखमिति नियमस्य न भङ्गः । प्रमया सह नेति सम्बन्धः । अत्रापि यदंशे प्रमा तदंशेन भ्रम इति नियमो विवेक्तव्यः । तस्मात्पूर्णसुखज्ञानः पूर्णे सुख-ज्ञाने यस्येति विग्रहः । ज्ञानपदेन सम्यग्ज्ञानमुच्यते सर्वत्र सर्वदा पूर्णसुख-ज्ञानवानित्यर्थः । दुःखभ्रान्त्यवकाशवान् दुःखभ्रांत्योरवकाशवान्नेति सम्बन्धः । भगवति सुखसम्यग्ज्ञानयोः कदाप्यनपगमात् सुखादौ च श्रुत्युक्तन्यायेन दुःखभ्रमयोरसम्भवान्न तयोरवकाशः । विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतेरिति भावः
।। ८ ।।
सत्यप्रमोदटीका
‘प्रच्युतोऽशेषदोषैः सदा पूर्तितः इति भगवत्पादोक्तिं गुणपूर्णत्वनिर्दोषत्वयोः प्रयोज्यप्रयोजकभावोपपादनेन समर्थयते सुखस्येति । सुखस्य नित्यपूर्णसुखस्य । अनन्तरं दुःखं दुःखात्यन्ताभावसामानाधि-करण्यमिति यावत् । एवं यत्र नित्यपूर्णप्रमा तत्र भ्रमात्यन्ताभाव इत्यपि व्याख्येयम् । व्याप्तिमुक्त्वाऽनुमानप्रयोगमाह नेति । परमात्मा नित्यनिर्दुःखः नित्यपूर्णसुखत्वात्; नित्यं भ्रमरहितः नित्यपूर्णप्रमावत्त्वात् व्यतिरेकेण जीववत् । एतदुपलक्षणम् । नित्यनिर्दोषः नित्यपूर्णगुणत्वात् इति तात्पर्यं ध्येयम् ।। ८ ।।
युक्तिमल्लिका
प्राग्जन्मार्जितदुष्कर्म दुःखमूलं ध्रुवं नृणाम् ।
न कर्मणा वर्धते यो नो कनीयान्कुतोऽस्य तत् ।। ९ ।।
सुरोत्तमटीका
हरेर्दुःखाद्यभावे यक्त्यन्तरं चाह ।। प्राग्जन्मेति ।। नृणां प्राग्जन्मार्जितदुष्कर्म दुःखमूलं दुःखस्य मूलं कारणं ध्रुवमित्यनेन ‘पुण्येन पुण्यं लोकं न यति पापेन पापमित्यादि श्रुतिसिद्धतां सूचयति । दुःखपदेन भ्रमोऽप्युपलक्ष्यते । यः परमात्मा’ कर्मणा पुण्यकर्मणा न वर्धते कर्मणा पापकर्मणा च कनीयान्नीचः दुःखभ्रान्त्यादिना नीचतां प्राप्त इत्यर्थः । नो न भवति । अस्य ‘नकर्मणा वर्धते नोकनीयानि’ति श्रुतेः पापलेपरहितस्य नारायणस्य तद्दुःखभ्रान्त्यादिकं कुतः न कुतोऽपि । कारणाभावे कार्यस्याप्य-भावादिति भावः ।। ९ ।।
सत्यप्रमोदटीका
‘न मां कर्माणि लिम्पन्ति’ इति गीतोक्तं असङ्गत्व-माह प्रागिति । प्राग्जन्मेत्युपलक्षणम् । ‘अत्युत्कटैः पुण्यपापैरिहैव फल-मश्नुते’ इति स्मृतेः एतज्जन्मापि ग्राह्यम् । नृणामित्यनेन अपरोक्षज्ञानिनां व्यावृत्तिः । ज्ञानेन तेषां सञ्चितदुष्कर्मणां नाशश्रवणात् । नित्यापरोक्षी-कृतात्मस्वरूपस्य भगवतो लेपाभावः किमु वक्तव्य इत्याह न कर्मणेति । तत् लेपप्रयुक्तं दुःखादिकम् । ‘असङ्गो ह्ययं पुरुष’ इति श्रुतेः ।। ९ ।।
युक्तिमल्लिका
क्षुत्पिपासादि मर्त्यानामप्यामुक्तेर्न सर्वदा ।
बृहच्छरीरः किं भुंक्ते ब्रह्माण्डं यस्य रोमसु ।। १० ।।
सुरोत्तमटीका
इदानीं नवनीतभक्षणादिना हरेः क्षुत्पिपासादिशं कामा-भूदित्यत्र युक्तिमाह ।। क्षुत्पिपासादिति ।। आमुक्तेर्मुक्तिपर्यन्तम् । मुक्त्यनन्तरं मर्त्यानामपि नेत्यर्थः । नित्यमुक्तस्य नारायणस्य नेति किमु वक्तव्यमिति भावः । युक्त्यन्तरं चाह ।। बृहच्छरीर इति ।। यस्य रोमसु ब्रह्माण्डं तिष्ठति । सः बृहच्छरीरः व्याप्तमहामूर्तिर्नारायणः किं भुङ्क्ते न किमपि । तदुदरपूरक-पदार्थस्य कुत्राप्यभावात् । ब्रह्माण्डाधारव्याप्तशरीरत्वस्य असिद्धिशङ्कापरिहाराय बृहच्छरीरो विमिमान ऋक्वभिर्युवा कुमारः प्रत्येत्याहवमिति श्रुतौ प्रसिद्धबृह-च्छरीरपदग्रहणमिति ज्ञातव्यम् । ननु तर्हि तत एव स्वयोग्यान्नपानाद्य भावात् सर्वदा क्षुत्पिपासादीति चेन्न । तथा सति शरीरकार्श्यादेरप्यावश्यकत्वेन श्रुत्युक्तबृहच्छरीरत्वस्य विशेषेण मिमान इति विमिमानपदोक्तज्ञानातिशयस्य युवेत्युक्तयौवनस्य आहवं प्रत्येतीत्युक्तरणरङ्गधीरत्वस्य पूर्वार्धर्चोक्तनवति-पदोक्तप्रधानदेवताप्रवर्तकत्वस्य एको दाधार भुवनानि विश्वा कोटिब्रह्माण्ड-विग्रह इत्यादिश्रुतिस्मृत्युक्तब्रह्माण्डावनशक्तेश्चायोगात् । अस्तु तर्हि मूलरूपस्य हरेः क्षुत्पिपासाद्यभावः सूक्ष्मरूपस्य कृष्णस्य कथं तदभाव इति चेत् । न । विजृंभितवदनस्य तस्याप्युदरे यशोदया महीमहीधरादिसकलजगतो दृष्टत्वेन बृहच्छरीरत्वापरिहारात् । अतो यत्किञ्चिदेतत् ।। १० ।।
सत्यप्रमोदटीका
परमात्मनः क्षुधादिराहित्यं कैमुत्येन साधयति क्षुदिति । आदिपदेन जन्ममृत्युजरादिकं ग्राह्यम् । सर्वदा मुक्तेरनन्तरम् । मर्त्यानामपि यदनुग्रहेण तत्परिहारः तस्य नित्यमुक्तस्य भगवतस्तदभावः किमु वक्तव्य इति भावः । तदुक्तं भगवत्पादैः
‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ।।
अशनायादिकानन्ये तत्प्रसादात्तरन्ति हि’
इति ।। किं भुंक्ते भोगेन न तस्य स्वप्रयोजनम् इत्यर्थः । ‘अनश्न-न्नन्योऽभिचाकशीति’ इति श्रुतेः ‘निरन्नोऽपि बलेन भूयान्’ इति स्मृतेश्च । तथा च, ‘किमि’त्यनेन भोगस्य बलहेतुत्वमेव प्रतिक्षिप्यते न भोगमात्रम् । तस्य ‘अत्ति च भूतानि’ इति श्रुत्या ‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु’ इति स्मृत्या च प्रमितेः । बृहच्छरीर इति हेतुगर्भं विशेषणम् । तेन ‘परो मात्रया तन्वा वृधान’ इति श्रुत्युक्तमात्रापरत्वरूपपरिपूर्णत्वसूचनेन भोगजन्य-फलाभावे हेतुरुक्तो भवति । बृहच्छरीरत्वमेव स्फोरयति ब्रह्माण्डमित्यादिना । रोमस्वित्यनन्तरं उपजीवनेन समाश्रितमिति शेषः । एवं च स्वयं जगदुप-जीव्यस्य अन्नमयस्य कुत एवाशनायाऽऽदिकमिति युक्तिरुक्ता ध्येया ।। १० ।।
युक्तिमल्लिका
महान्हि रक्षकोऽल्पस्य महान्तं स न रक्षति ।
उद्दधार मही(मेतां)मादौ वराहस्तं दधार कः ।। ११ ।।
सुरोत्तमटीका
अधुना गरुडगमनाद्धरेरन्याधीनत्वशङ्कां निवारयितुं युक्तिमाह ।। महान्हीति ।। महान्कृष्णः अल्पस्य गरुडादेः रक्षकः सोऽल्पको गरुडादिर्महान्तं कृष्णं न रक्षति हि । हीत्यनेन लोकेऽप्यल्पकस्यैव महदधी-नत्वं प्रसिद्धमिति सूचयति । स्पष्टमन्तरङ्गं दृष्टान्तमाह ।। उद्दधारेति ।। वराहः एतां महीं उद्दधार जलमध्यनिमग्नां उद्धृतवान् । तं वराहं को दधार न कोऽपि । महत्तरमप्युद्धरणेऽन्यानपेक्षस्य कुतोऽन्यत्र तदपेक्षा किंतु गरुडादिषु कृपयैव तानारुह्य गच्छतीति भावः । उपलक्षणमेतत् । अनन्तब्रह्माण्डधारकस्य च हरेः को धारक इत्यपि द्रष्टव्यम् ।। ११ ।।
सत्यप्रमोदटीका
विष्णुः जगद्धारको तदपेक्षया महत्त्वात् पितृवत् । जगत्, न विष्णोर्धारकं तदपेक्षया अल्पत्वात् अर्भकवत् इति युक्ती अभिप्रेत्य उभयत्र व्याप्ती आह महानित्यादिना । ‘एष सेतुर्विधरणः’ ‘एको दाधार भुवनानि विश्वा’ इति श्रुत्यनुगृहीतवान्न कश्चित्क्षुद्रोपद्रवः । हेतूकृतं महत्त्वं वराहावतारचरित्रेणाभिनीय दर्शयति उद्दधारेति । न च द्वितीयहेतोर्गरुडादौ व्यभिचारः । साध्ये स्वातन्त्र्येणेति विशेषणस्य विवक्षितत्वात् । विशेषित-साध्यस्य च गरुडादौ सद्भावात् । ‘भर्ता सन् म्रियमाणो बिभर्ति’ इति श्रुतेः गरुडस्यापि विष्णुनैव स्वातन्त्र्येण धृतत्वात् । यथोक्तं सुमध्वविजये ‘ननु स प्राणपतिर्बभार तं च’ इति । तदेतदभिप्रेत्योक्तं ‘तं दधार क’ इति ।। ११ ।।
युक्तिमल्लिका
महान्तो हि कथां कर्तुं सञ्चरन्ति तथा तथा ।
अनन्तासनतः पुत्राऽऽनेता नीताबलः किल ।। १२ ।।
सुरोत्तमटीका
मूलरूपे दुःखाद्यभावं प्रसाध्यावताररूपेष्वपि तं युक्त्या-साधयितुमाह ।। महान्त इति ।। कथां लोके स्वचरितवर्णनरूपकथां कर्तुं विस्तृतां कर्तुम् । यदा यदा यथा चरितव्यं तथा तथा सञ्चरन्तीत्यन्वयः । यथा पुरुषः दुःखाभावेऽपि दुःखिवत् परनिरपेक्षत्वेऽपि सापेक्षवच्च जनसङ्ग्रहाय स्वात्मानं प्रदर्शयति । तथा रामोऽपि सीताकृते दुःखादिकं प्रदर्शितवान् । न तु वस्तुतो दुःखीति भावः । तत्र हेतुः । कृष्णरूपेणा-नन्तासनतः ब्राह्मणपुत्राऽऽनेता रामः नीताबलः किल नीता रावणेन नीता अबला सीता यस्य सः नीताबलः किल । किलेत्यस्वरसे । पञ्चविंशति कोटियोजनान्तरितानन्तासनतः घटिकामात्रेण एकाकितया विप्रपुत्रानयन-समर्थस्य लीलया तीर्णसप्तसमुद्रासप्तद्वीपघनोदकाख्यमहासमुद्रस्य च शत-योजनाभ्यन्तरितलङ्काप्रदेशतः सीतानयनादेरशक्यतया दुःखकरणकपि-सङ्ग्रहणसेतुबन्धनादिनिर्बन्धः कथं सम्भावित इति भावः ।। १२ ।।
सत्यप्रमोदटीका
तथा तथा इति श्रवणेन यथा यथेत्यध्याहार्यम् । यथा सतां स्मृतिकीर्तनप्रणतिभिर्विमुक्तिर्भवेत्तथा सञ्चरन्ति चरित्रं कुर्वन्ति । तत्र दृष्टान्तः अनन्तासनतः पुत्राऽऽनेतेति । अनेन कृष्णावतारेऽनन्तासनाद्ब्राह्मण-पुत्राऽऽनयनेनार्जुनादीनां तत्त्वज्ञानोत्पत्तिर्जातेति कथां ज्ञापयति । तदुक्तं भागवते ‘यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितमि’ति । एवं यथा असुराणां मोहो भवेत्तथा सञ्चरन्ति । तत्र निदर्शनं नीताबलः किलेति । नीता अपहृता अबला सीता यस्य सः श्रीरामचन्द्रः । किलेत्यपहासे । तदुक्तं भागवते
‘मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः ।
कुतोऽन्यथा स्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्ये’ति ।
अनेकावतारकथानिदर्शनेन सर्वेऽप्यवतारा निर्दोषा इति ज्ञापयति । तथा च यत्र क्वचिदज्ञानादिप्रदर्शनं मोहार्थमेवेति भावः ।। १२ ।।
युक्तिमल्लिका
मूलं यो वेत्ति कस्तस्य पत्रं सन्दर्शयेत्तरोः ।
यस्सर्वगो न सोऽयोगी तस्य दुःखप्रथा वृथा ।। १३ ।।
सुरोत्तमटीका
रीत्यन्तरेणापि हरेर्दुःखाभावमुपपादयति ।। मूलमिति ।। यस्तरोर्वृक्षस्य मूलं वेत्ति तस्य पत्रं कस्सन्दर्शयेदिति लौकिकाभाणकम् । तद्वदेव रामेऽपीति भावेनोक्तम् ।। य इति ।। यः रामः सर्वगः सर्वव्याप्तः स कथमयोगी सीतावियोगवान् । सर्वगत्वमूलं जानतः सीतावियोगाख्यतद्विपरीत-पत्रप्रदर्शनं कथं शोभत इति भावः । तस्यायोगरहितस्य या दुःखप्रथा साऽपि वृथा अवियोगाख्यसुखमूलविरुद्धदुःखाख्यपत्रमपि निर्मूलमेवेति भावः । अनेन वियोगाभावसमर्थनेन परिच्छिन्नत्वदोषोऽपि परिहृत इति द्रष्टव्यम् ।। १३ ।।
सत्यप्रमोदटीका
धर्मिग्राहकप्रमाणसिद्धोऽर्थो न युक्त्याभासप्रदर्शनेन प्रच्यावनार्ह इत्यत्र लौकिकमाभाणकं वक्ति मूलमिति । प्रकृतोपयोगमाह य इति । अयं भावः । परमात्मा श्रुतिभिः सिध्यन् ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी’ति सर्वव्याप्तत्वेनैव ‘निरनिष्टो निरवद्य’ इति निर्दुःखत्वेनैव च संसिद्धः । तत्र, रामः दुःखी सीतावियोगवत्त्वात् इति कुयुक्त्या तस्य दुःख-प्रथा दुःखसाधनप्रयासः वृथा बाधितः । यः सर्वगः सर्वव्यापी सः न अयोगी, वियोगवान् न भवतीति वियोगवत्त्वहेतुश्चासिद्धः । अतो धर्मिग्राहक-मानविरुद्धोऽयं हेत्वाभास इति ।। १३ ।।
युक्तिमल्लिका
सीताकृतानि व्यसनानीश्वरस्य कुतोऽस्य हि ।
स्त्रीकृतं कश्मलं रामो नाश्नुवीतेति च स्फुटम् ।
श्रीमद्भागवते प्रोक्तं निरवद्यस्ततः प्रभुः ।। १४ ।।
सुरोत्तमटीका
अस्मिन्नर्थे मूलभूतं
मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं प्रभोः ।
कुतोऽन्यथास्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्येति
वाक्यं पूर्वार्धेन उत्तरार्धेन ‘न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्तेहि दुःखं भगवान्वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचिदिति वाक्यं चार्थतस्संगृह्णाति ।। सीतेति ।। मर्त्येष्ववतारो मर्त्याव-तारः । स्वे स्वतन्त्रे । आत्मन् आत्मनि व्याप्ते स्वस्वरूपे रमत इति सम्बन्धः । सीताकृतानि व्यसनानि वियोगादीनि कुतस्स्युर्न कुतश्चिदित्यर्थः । आत्मवतां मनोजयवतां अधीश्वरः स आत्मा परमात्मा दुःखं न भुङ्क्तेवै इत्यनेन निरनिष्टो निरवद्य इति श्रुतिप्रसिद्धिं सूचयति । स्त्रीकृतं कश्मलं नाश्नुवीत सीतानिमित्तं कश्मलं विलापादिकमित्यापातार्थः स्त्रीकृतं स्त्रीसङ्गा-ज्जातं कश्मलं रेतस्स्खलनादिरूपजुगुप्सामिति तत्वार्थोऽपि कश्मलपदप्रयोगात् स्त्रीति सामान्यपदप्रयोगाच्च लभ्यते । यस्मादिति भागवते प्रोक्तं तत इति सम्बन्धः ।। १४ ।।
सत्यप्रमोदटीका
सीताकृतानि सीतावियोगकृतानि । मध्यमपदलोपी समासः । अस्य ‘अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नाम’ इति प्रमाणेन निर्दोषत्वेन प्रमितस्य । ईश्वरस्य सुखदुःखनियमनसमर्थस्य । स्त्रीकृतमित्युत्तरार्धेन ‘न स्त्रीकृतं कश्मलमश्नुवीत’ इति श्लोकं सङ्गृह्णाति । राम इत्यनेन ‘रमतः स्व आत्मन्’ इति भागवतश्लोकोक्तं स्वस्मिन्नेव रमत इति राम इति निर्वचनं सूचयति । सर्वव्यापितया दुःखकारणवियोगेन रहितस्य स्वयं दुःखनियामकस्य च कुतो दुःखसम्भव इति हृदयम् । ततः उक्त-प्रमाणेभ्यः ।। १४ ।।
युक्तिमल्लिका
यत्पञ्चमशिरश्छेदो बबाधेऽपि कपालिनम् ।
तद्वधेऽप्यनघो योऽन्ते स किं रक्षोवधेऽघवान् ।। १५ ।।
सुरोत्तमटीका
विप्रजात्युत्पन्नरावणवधाद्रामस्य ब्रह्महत्यादोषोऽभूदिति शङ्कां दूरीकर्तुमाह ।। यत्पञ्चमेति ।। यस्य चतुर्मुखस्य पञ्चमशिरश्छेदः कपालिनमपि श्रीमहादेवमपि ब्रह्महत्यारूपेण बबाधे पीडयामास । तामेव पीडां प्रदर्शयितुं कपालीत्युक्तम् । करस्य ब्रह्मकपालमेव पीडासूचकमिति भावः । यः रामरूपी नारायणः अन्ते ब्रह्मप्रलये । तद्वधेऽपि तस्य ब्रह्मणो वधेऽपि अनघः ब्रह्महत्याख्यदोषरहितः । सः रक्षोवधे रक्षोरूपब्राह्मणा-भासवधे । अघवान्किं नैवेति सम्बन्धः । एतेनैव ब्रह्महत्यापरिहाराय लिङ्ग-प्रतिष्ठा कृतेत्येतदपिपरिहृतम् । स्वब्रह्महत्या परिहारासमर्थस्य शिवस्य परब्रह्महत्या परिहर्तृत्वस्य सुतरामयोगात् । किंतु सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहतीति स्मृत्या निरीक्षणमात्रेण ब्रह्महत्यानिरसनसमर्थे तव सेतौ मम पितृवधनिमित्तमहाब्रह्महत्यापरिहाराय नित्यं वसामीति शिवेन प्रार्थितस्तत्र प्रतिष्ठापितवानित्येव युक्तमिति भावः।।१५ ।।
सत्यप्रमोदटीका
यदिति । यस्य कार्यब्रह्मणश्चतुर्मुखस्य । पञ्चमशिरसः अवयवमात्रस्य । छेदः छेदमात्रं न तु अवयविन एव हत्त्येति हृदयम् । कपालिंन रुद्रम् । बबाधे पापसम्पर्केण पीडयामास । तत एव तत्पापापनोदाय कपालिनं कपालभृतं अकरोदिति आवृत्त्या योज्यम् । ‘शितिकण्ठः कपालभृत्’ इत्यमरः । तद्वधे तस्य चतुर्मुखब्रह्मणो वधेऽपि संहारेऽपि नत्ववयवमात्रच्छेदे इति हृदयम् । यः श्रीरामचन्द्रः । अनघः पापलेपरहितः ‘असङ्गो ह्ययं पुरुष’ इति श्रुतेः । सः श्रीरामचन्द्रः । रक्षोवधे रक्षसः राक्षसस्य । विश्रवसो जातत्वमात्रेण उपचारतो ब्राह्मणेतिव्यवहारविषयस्य रावणस्य । वधे संहारे । अघवान् किं नैव लेपवानिति भावः । अयमाशयः । ब्राह्मणवर्णस्य मुख्याभि-मानिनश्चतुर्मुखस्य हननेऽपि यो न दोषभाक् तस्य रामस्य ब्राह्मणाभास-रावणहननेन कुत एव दोषः । ‘ब्राह्मणो न हन्तव्य’ इति निषेधो रुद्रादि-संसारिजीवजातमेव स्पृशति न मुक्तं, न त्वेव नित्यमुक्तं परमात्मानमिति ।। १५ ।।
युक्तिमल्लिका
शक्तोऽपि राजा भृत्यस्य हस्तं सङ्गृह्य गच्छति ।
स्वर्नीतगर्दभश्वादेर्लङ्का शङ्काऽऽस्पदं किल ।। १६ ।।
सुरोत्तमटीका
ननूक्तरीत्या रामः समर्थश्चेत्कुतस्तर्हि सेतुमकरोदिति शङ्कां लोकनीत्यानिवारयति ।। शक्तोऽपीति ।। तथा रामोऽपि लीलया सेतुं कृत्वा तेन गतवानिति भावः । उत्तरार्धं तु तदनङ्गीकारे बाधकत्वेन योज्यम् । गर्दभश्च श्वा च आदिर्येषान्ते गर्दभश्वादयः । ते स्वः स्वर्गं नीता येन तथोक्तः ।ब्रह्मलोकपर्यन्तमनन्यापेक्षया सर्वप्राण्युन्नयनसमर्थस्य कथमत्रान्या-पेक्षेति भावः।।१६ ।।
सत्यप्रमोदटीका
सेतुनिर्माणमपि रामेण न स्वप्रयोजनार्थं किन्तु तद्दर्शनेन रुद्रादीनां ब्रह्महत्यापापापनोदार्थमेव । ‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्म-हत्यां व्यपोहति’ इति स्मृतेः । ‘लोकवत्तु लीलाकैवल्यमि’ति सूत्रानुसारेण स्वस्य तु लीलामात्रमेवेत्याह शक्तोऽपीति । तदुक्तं तद्भाष्ये ‘पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः’ इति । ससैन्यस्य सेतुं विता लङ्कां प्रति गमनेऽ-शक्तत्वशङ्कां धिक्करोति स्वरिति । अत्र स्वःपदं मोक्षपरं न प्रसिद्धस्वर्गपरम् । ‘यन्न दुःखेन सम्भिन्नं’ इत्यादिनिर्वचनात् । ‘समायात समायात ये ये मोक्षपदेच्छवः’ इत्यभियुक्तोक्तेः । आदिपदेन तत्काले मोक्षसाधनसम्पूर्तिमतां ग्रहणम् । तथा च संसारसमुद्रतरणे स्वयं सेतुभूतस्य क्षुद्रसमुद्रतरणेऽसामर्थ्य-शङ्काऽपहसनीयेत्याह किलेति ।। १६ ।।
युक्तिमल्लिका
स्वयं भीरुर्गभीरस्य स्वभावं भावयेत्स्ववत् ।
नखभिन्नाब्जजाण्डस्य चिन्ता हन्तासुरात्किल ।। १७ ।।
सुरोत्तमटीका
सुग्रीवसख्यापेक्षणात् रामस्य रावणाद्भीरिति लोकवार्तां नीत्या परिहरति ।। स्वयं भीरुरिति ।। भीरुर्भयशीलः । गभीरस्य स्वाभीते-र्निगूहनाय भीरुनटनां कुर्वतः पुंसः स्वभावं स्ववत् स्वस्वभाववत् भावयते । भीरुरित्येव मन्यत इत्यर्थः । तत्कुत्र दृष्टमित्युक्तम् ।। नखभिन्नाब्जजाण्ड-स्येति ।। नखेन भिन्नं अब्जजाण्डं ब्रह्माण्डं येन सः । भूलोके स्थित्वा नखमात्रेण शतकोटियोजनप्रमाणसौवर्णब्रह्माण्डखर्परभेदनसमर्थस्येत्यर्थः । असुरात् शतयोजनान्तरितलंकास्थरावणात् चिन्ता किम् । हन्ताश्चर्यम् । अतः पूर्वार्धोक्तनीतेरिदमेवोदाहरणमिति भावः ।। १७ ।।
सत्यप्रमोदटीका
भीरुः स्वयं । स्वभावत एव चिन्ताऽऽकुल आसुर-स्वभावः । ‘चिन्तामपरिमेयान्तां प्रलयान्तां समाश्रिताः’ इति गीतायामासुर-स्वभावोक्तेः । गभीरस्य अगाधमहिम्नः सर्वोत्तमस्य । स्ववत् स्वात्मदृष्टान्तेन स्वभावं भावयेत् तस्मिन् स्वगतं चिन्तादोषं आरोपयेदिति यावत् । नख-भिन्नाब्जजाण्डस्येत्यनेन ‘वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहे’त्यादि-भागवतोक्तिं तत एव ‘अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनाति’ इति तत्रैवोक्तं मुकुन्दाभिधस्य हरेः सर्वोत्तमत्वं च ध्वनयति । अयमाशयः । ब्रह्मणो वरादेव हि रावणस्य बलम् । स ब्रह्मैव यस्य त्रिविक्रमावतारे पादप्रक्षालनेन पूजकः तादृशस्य समाधिकरहितस्य रामचन्द्रस्य कुतो रावणवधे चिन्तेति ।। १७ ।।
युक्तिमल्लिका
कुक्षौ यस्याखिला लोका लक्ष्यन्ते, स्म शिशोः किल ।
जननं मरणं चास्य न युक्तं युक्तिविन्मते ।। १८ ।।
सुरोत्तमटीका
इदानीं कृष्णावतारस्य निर्दोषतां समर्थयते ।। कुक्षा-विति ।। यस्य शिशोः । लक्ष्यन्ते स्म अलक्ष्यन्त । मात्राजृंभमाणे मुखद्वारा अदृश्यन्त । किलेति पुराणप्रसिद्धिं द्योतयति । अस्य कृष्णस्य युक्तिविन्मते जननं मरणं च न युक्तमिति योजना । उदरस्थब्रह्माण्डस्योत्पत्तिं विनोत्पत्तेर्विनाशं विना नाशस्य युक्तिबाधितत्वात् । ब्रह्माण्डोदरस्य तस्य सूक्ष्मतरमातृगर्भप्रवेशायोगाच्च । सामर्थ्यविशेषात् घटत इति चेत् तर्ह्येतादृशमहासमर्थस्य कथं जननमरणादिदोषो घटत इति भावः ।। १८ ।।
सत्यप्रमोदटीका
एवमेव कृष्णावतारोऽपि निर्दोष एवेति समर्थयति कुक्षाविति । लक्ष्यते स्म मात्रा यशोदयेति शेषः । ‘सा तत्र ददृशे विश्वं जगत् स्थास्नु च स्वं दिशः’ इति भागवते प्रसिद्धिमाह किलेति । न युक्तं युक्तिविरुद्धम् । कृष्णो, न यशोदाजठरस्थः, तदपेक्षयाऽधिकपरिमाणवत्त्वात् । यो यदवधिकातिशयोपेतपरिमाणवान् नासौ तत्स्थः । यथा मेरुर्न सर्षपस्थः । कृष्णो न यशोदासमुद्भवः तत्पूर्वभावित्वात् । न चासिद्धिः । कृष्णः यशोदाऽपेक्षया पूर्वभावी तत्पूर्वभाविजगदाश्रयत्वात् । हेतुश्च यशोदाऽध्यक्षसिद्ध इति । एवं सर्वलयेऽप्यलीनस्य मरणाभावोऽपि युक्तियुक्त इति भावः ।।१८।।
युक्तिमल्लिका
न हि कल्पान्तसमयो यस्स्वर्गारोहणक्षणः ।
न च कल्पादिकालोऽसौ यत्रावातरदच्युतः ।। १९ ।।
सुरोत्तमटीका
एतदेव विवेचयति ।। नहीति ।। कृष्णस्य यस्स्वर्गा-रोहणक्षणः सः कल्पान्तसमयः ब्रह्मणश्शतवर्षावसानकालः । ब्रह्मप्रलय इति यावत् । नहीति सम्बन्धः । यद्युदरस्थब्रह्माण्डस्य कृष्णदेहस्य स्वर्गारोहण-कालेनाशस्स्यात्तर्ह्ययमेव ब्रह्मप्रलयकालस्स्यादिति भावः । यत्र कालेऽच्युतः अवातरत् अवततार । असौ कालः कल्पादिकालः ब्रह्मसृष्टेरादिकालो नेति सम्बन्धः । यदि कृष्णावतारकाले कृष्णस्योत्पत्तिस्स्यात् । तदोदरस्थब्रह्माण्ड-स्याप्युत्पत्त्यवश्यंभावेनाऽयमेव कल्पादिकालस्स्यात् । अतो जननमरणे नास्य शङ्कितुमपि शक्ये इति भावः ।। १९ ।।
सत्यप्रमोदटीका
उभयत्र विपक्षे बाधके आह न हीति । न चेति च । यदि कुक्षिस्थाखिललोकस्य कृष्णस्य स्वर्गारोहणक्षण एव मरणं तदा तदैव कल्पान्तकालीनः लोकप्रलयः स्यात् । तर्कस्य विपर्ययपर्यवसानं न हीति । एवं यदि प्रादुर्भावक्षण एव जननं तदा तदैव कल्पादिकालीना लोकसृष्टिः प्रसज्येत । तत्र विपर्ययपर्यवसानं न चेति । अतो जननमरणाभावसाधक-युक्त्योर्नाप्रयोजकता
।। १९ ।।
युक्तिमल्लिका
यद्विप्रांघ्रयङ्कनं वैकुण्ठस्थमूर्तेर्हि वक्षसि ।
तदेव देवकीगर्भजातस्य किल वक्षसि ।। २० ।।
सुरोत्तमटीका
युक्त्यन्तरेण कृष्णस्योत्पत्तिं दूरीकरोति ।। यदिति ।। यत् विप्रांघ्रेः भृगुचरणस्यांकनं श्रीवत्स इति यावत् । वैकुण्ठस्थमूर्तेर्वक्षसि तिष्ठति हि । हीत्यनेन पुराणप्रसिद्धिं द्योतयति । तदेव तच्छ्रीवत्सांकनमेव देवकीगर्भजातस्य वक्षसि किल । किलेत्यनेन श्रीवत्सलक्ष्मंगलशोभिकौस्तुभ-मिति वाक्यं स्मारयति ।। २० ।।
युक्तिमल्लिका
अतस्तदेव हि भवेदिदं रूपं न चापरम् ।
न चेत्कुप्यन्ति योधानां कलाकुशलमन्त्रिणः ।। २१ ।।
सुरोत्तमटीका
अतस्तद्देहस्थितपादचिह्नस्यैतद्देहेऽपि विद्यमानत्वात् । मध्ये देवकीदेहं प्रविश्य गर्भस्थितशिशोर्वक्षसि विप्रेणाकृतत्वादिति भावः । हीत्यनेन तदानींतनचिह्नस्येदानीमपि विद्यमानत्वे स एवायं भवेदिति लौकिकप्रसिद्धिं सूचयति । तदेव दर्शयति ।। न चेदिति ।। योधानां भटानां कला कुशलमन्त्रिणः कलानाम योधानामंगे विद्यमानव्रणाद्युपशमे सति जातचिह्नं नीलिमादिकं च । तस्यां कलायां सत्यां स एवायं नोचेदन्योऽयमिति विवेचने समर्था इत्यर्थः ।। २१ ।।
सत्यप्रमोदटीका
किञ्च वैकुण्ठस्थस्य भगवन्मूर्तेर्जन्ममरणे नैव स्त इति तावत् प्रमितम् । श्रीकृष्णावतारश्च तदभिन्न इति कथं तस्य ते स्तामिति वक्तुं तयोरभेदं स्थापयति द्वाभ्याम् यदिति । श्रीकृष्णदेहः विष्ण्वभिन्नः इत्यत्र तद्वृत्त्यसाधारणस्वरूपलक्षणं श्रीवत्सं अत्र पश्यतो वसुदेवस्य प्रत्यभिज्ञैव प्रमाणमित्याह विप्राङ्घ्रयङ्कनमिति । श्रीवत्सचिह्णमित्यर्थः । तस्यागन्तुकत्व-शङ्कां वारयति गर्भजातस्येति । प्रादुर्भूतमात्रस्येत्यर्थः । हीत्यनेन ‘श्रीवत्सलक्ष्मं गलशोभिकौस्तुभमि’ति भागवतोक्तिं प्रत्यभिज्ञायां प्रमाणयति । न चेयं प्रत्यभिज्ञा भ्रान्तिः । बाधकाभावात् । एवमेव भ्रान्तित्वाङ्गीकारेऽतिप्रसङ्गमाह न चेदिति । कला व्रणोपशमानन्तरमनुवर्तमानं नीलिमादिचिह्नम् । तद्दर्शनेन कुशलमन्त्रिणः सोयं योध इति प्रत्याभिजानन्ति । कुप्यन्ति स्वप्रत्यभिज्ञाया भ्रान्तित्वं न सहन्ते । अयं पुनर्विशेषः । तत्र कलायां कालतः किञ्चिदन्यथा-भावेन सोऽयमिति निरवधारणा प्रत्यभिज्ञा । अत्र पुनः सर्वात्मनैकप्रकारत्वेन श्रीवत्सस्य सावधारणा सेति । तदिदमाह ‘तदेवे’ति ‘तदेव ही’ति च एवकारद्वयेन ।। २१ ।।
युक्तिमल्लिका
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ।। २२ ।।
सुरोत्तमटीका
कृष्णदेहस्य नाशाभावे युक्तिमूलीभूतां स्मृतिं चाह ।। प्रदर्श्येति ।। लोकानां लोचनानि यस्मिन् तत् । स्वबिम्बं स्वदेहम् । अतप्ततपसां पुनः पुनर्द्रष्टुं तप्ततपोरहितानां अवितृप्तदृशां अनन्तलावण्य-पूर्णत्वेनालम्बुद्धिरहितनयनानां प्रदर्श्य स्वर्गारोहणपर्यन्तं दर्शयित्वा । स्वर्गारोहणसमये तदेव बिम्बमादाय अविमुच्येति यावत् । अन्तरधात् अदृश्योऽभूदिति श्लोकार्थः । उद्धवोक्तिं साक्षात्कृष्णादेव श्रुततत्वस्योद्धवस्य वचनम् । अस्य जननाभावस्य विस्तरः । तेनैव वपुषाऽद्य वामिति अमुना वपुषाऽनघेति उभयविधप्रत्यभिज्ञादियुक्तीनां बाहुल्यम् । कृष्णकाव्ये रुग्मिणीशविजये ।। २२,२३ ।।
सत्यप्रमोदटीका
अतप्ततपसां ततोऽप्यधिककालं स्वरूपदर्शनाय पर्याप्तं तपोऽननुष्ठितवताम् । नृणामित्यनेन सुराणां विषये नान्तर्धानमिति द्योत्यते । तदुक्तं ‘रूपेणैकेनास भूमावि’ति । आदायेति विशेषबलेन । देहदेहिनोर-भेदात् ।। स्वबिम्बं स्वदेहम् ।। २२ ।।
युक्तिमल्लिका
इति भागवते प्रोक्तामुद्धवोक्तिं न विस्मर ।
विस्तरोऽस्य प्रमेयस्य कृष्णकाव्ये प्रदृश्यताम् ।। २३ ।।
सत्यप्रमोदटीका
कृष्णकाव्ये रुक्मिणीशविजये । तथा च तस्य मरण-वार्ता भ्रान्तिमूलैवेति भावः ।। २३ ।।
युक्तिमल्लिका
ये पार्थरथसूतस्य विश्वरूपे रणात्पुरा ।
विलग्ना दशनाग्रेषु चूर्णीभूताश्च सर्वशः ।
दृष्टास्तच्छरवेगेन च्छेदो वेधः कथं प्रभोः ।। २४ ।।
सुरोत्तमटीका
इदानीं हरेश्छेदभेदाभावे युक्तिमाह ।। ये पार्थेति ।। ये भटा भीष्मादयः सर्वशः सर्वे । पार्थरथसारथेः कृष्णस्य विश्वरूपे दृश्यमाने सतीति यावत् । रणात्पुरा युद्धारम्भात्पूर्वमेव दशनाग्रेषु विश्वरूपस्य हरेर्दन्ता-ग्रेषु विलग्ना स्संहाराय दंशनसमये संलग्नाः केचन चूर्णीभूतमस्तकादयश्च दृष्टाः पार्थेन । केचिद्विलग्ना दंशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैरित्यादि गीता-वचनात्सिद्धोऽयमर्थः । तच्छरवेगेन तेषां चूर्णितानां दशनाग्रेण दष्टानां शरवेगेन प्रभोः कृष्णस्य च्छेदो वेधः कथम् । न कथञ्चित् । स्वयं प्रागेव तद्वदनग्रासतां प्राप्ताः कथं तमेव हरिं ताडयेयुः । ‘दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वर’मिति वचनेनाद्य प्रत्यक्षस्य दिव्यदृष्टिरूपतया बाधितुम-शक्यत्वेनातादृशद्वितीयप्रत्यक्षमेवाज्ञदृष्टितया बाध्यमिति भावः । एतेन प्रत्यक्ष-दृष्टवेधादेर्विद्धवन्मुग्धवच्चैवेति वचनमात्रेण कथं बाध्यत्वमिति शङ्का परिहृता । उक्तरीत्या वेधाद्यभावस्य ततोऽपि प्रबलपार्थप्रत्यक्षसिद्धत्वात् । अत एव ‘शितविशिखहतो विशीर्णदंशक्षतजपरिप्लुत आततायिनो मे’ इत्यादिवाक्यानि मोहकवाक्यतयोपेक्षणीयानि । शितविशिखा हता येन सः । वि निषेधे पृथग्भाव इति वचनाद्विशीर्णः अशीर्णः दंशः कवचोयस्य सः । एतेन विभिद्यमानत्वचीत्येतद्व्याख्यातप्रायम् । क्षतजपरिप्लुतः उभयपार्श्वे शरताडित-भटाङ्गस्रवत्क्षतजबिन्दुभिः परिप्लुत इत्यनुकूलार्थतया सङ्ग्राह्याणिवा । विभिद्य-मानत्वचि विलसत्कवच इत्यनयोर्विरोधाच्चास्मदुक्त एवार्थः ।। २४ ।।
सत्यप्रमोदटीका
‘छदेभेदादिकं तथा ।
प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयमि’ति
महाभारततात्पर्यनिर्णयोक्तं समर्थयते ‘ये’ इत्यादिना ‘श्रुतिस्तु’ इत्यन्तैः एकोनविंशतिश्लोकैः ।। ननु भीष्मेण
‘‘मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा’’
इति कृष्णस्य त्वक्छेदस्य कथितत्वेन कथं छेदो नेत्युच्यत इति शङ्कामादौ परिहरति ये इति । ये भीष्मादयः सर्वशः कौरवभटा रणात्पुरा पार्थरथसूतस्य कृष्णस्य दन्ताग्रेषु चूर्णीभूता विश्वरूपे पार्थेन दृष्टाः तेषां शरवेगेन तस्य प्रभोः छेदो वेधः कथमित्यन्वयः । ननु ‘मम निशितशरैर्विभिद्यमानत्वचि’ इति भागवतस्थभीष्मवाक्येन कृष्णत्वचि छेदः प्रत्यक्षतो दृष्ट इत्यवगम्यते । न चानुमानागमाभ्यां प्रत्यक्षबाधः सम्भवति । ‘क्व च प्रत्यक्षतः प्राप्तमनु-माऽऽगमबाधितमि’ति सिद्धान्तात् । अतः ‘प्रदर्शयति मोहाये’ति कथं प्रत्यक्षदृष्टस्य मोहत्वोक्तिः । भीष्मादयः न त्वक्छेदनसमर्थाः, रणात्पुरैव मृतप्रायत्वात् इति खल्वनुमानेनैव प्रत्यक्षबाधो वक्तव्य इति चेन्मैवम् । अभिप्रायानवगमात् । नात्र प्रत्यक्षस्य केवलेन अनुमानेन बाधोक्तिः अभि-प्रेता । किं नाम बलवत्प्रत्यक्षान्तरेण अनुगृहीतेनैव । तदेतदुक्तं पार्थेन दृष्टा इति । पार्थदृष्टिस्तु ‘दिव्यं ददामि ते चक्षुः’ इत्युक्तेर्बलवती । ‘भासस्तवोग्राः प्रतपन्ति विष्णो’ ‘निरनिष्टो निरवद्य’ इति धर्मिग्राहकप्रमाणानुगुणा । पूर्वं प्रत्यक्षं तु तत्प्रतिकूलत्वाद्दुर्बलम् । अतः दुर्बलस्याज्ञप्रत्यक्षस्य प्रबलेन ज्ञानिप्रत्यक्षेणैव बाधोक्तिरिति न कोऽपि सिद्धान्तविरोधः ।। २४ ।।
युक्तिमल्लिका
पिशाचाविष्टदेहेऽपि प्रायश्छेदो न दृश्यते ।
मन्त्रेण कुण्ठिता धारा न च्छिनत्ति नरान्हि यत् ।
हरेश्छेदश्श्रुतिप्रोक्तसार्वज्ञच्छेद एव तत् ।। २५ ।।
सुरोत्तमटीका
छेदभेदाद्यभावे युक्त्यन्तरमप्याह ।। पिशाचेति ।। यद्यस्मान्मन्त्रेण स्तम्भनमन्त्रेण । धारा असिधारा नरान्न च्छिनत्तिहि । हीत्यनेन लोकप्रसिद्धिं सूचयति । तत्तस्मात्कारणाद्धरेश्छेदः शस्त्रादिना । श्रुतिप्रोक्तं यत्सार्वज्ञं तस्य च्छेद एव । अल्पज्ञोऽपि पिशाचादिः शक्ति-विशेषाभिज्ञाताया मन्त्रविशेषाभिज्ञाताया वा परांगमपि छेत्तुं न मुञ्चति । हरेस्स्वांगस्यैव च्छेदे पिशाचादितोऽप्यकुशलत्वप्रसङ्गेन कथं न सार्वज्ञच्छेद इति भावः ।। २५ ।।
सत्यप्रमोदटीका
प्राय इत्यनेन कदाचित्स्तम्भकशक्त्यभिभवे छेदो भवत्यपीति कथनेन तच्छक्तेः परमात्माधीनता द्योत्यते । सार्वज्ञेति । कदाचि-न्मन्त्रविशेषाभिज्ञेन रक्षितस्य वा पिशाचेनाविष्टस्य वा देहस्यापि न छेदो यदा तदा किमु वक्तव्यं स्वयं नित्यसर्वज्ञस्येति भावः । प्रसक्तस्यापिछेदस्य स्तम्भकशक्त्या पिशाचेन वारणम् । कृष्णस्य तु आकाशवच्छेदानर्हतया तत्प्रसक्तिरेव नेत्ययं विशेषः ‘स च्छेद्यः केन वा वदे’त्यग्रे वक्ष्यते ।। २५ ।।
युक्तिमल्लिका
ब्रह्माण्डखर्परच्छेदे यन्नखाग्रच्छिदापि न ।
को युक्तिमांस्तस्य विष्णोश्छेदं सम्भावयेच्छरैः ।। २६ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। ब्रह्माण्डेति ।। यस्य परमात्मनः नखाग्रस्य घनतरब्रह्माण्डे छिद्रं कुर्वतो नखाग्रस्य । गच्छतो हि नरस्य च्छेद-योग्यस्य क्षुद्रशिलाताडनादिना नखच्छेदो दृश्यते । यस्य हरेर्नखाग्रं ब्रह्माण्ड-कटाहच्छेदनेऽपि नाच्छिद्यत । तस्य हरेरङ्गेछेदादिकमसम्भावितमिति भावः
।। २६ ।।
सत्यप्रमोदटीका
धेदस्यासम्भावितत्वं युक्तिभिरुपपाद्य छेदानर्हत्वमेव स्थापयति द्वाभ्यां ब्रह्माण्डेत्यादिना ।। २६,२७ ।।
युक्तिमल्लिका
रोमच्छेदो जगच्छेदो यद्रोम्णि निखिलं जगत् ।
नियन्ता योऽखिलच्छेत्तुः स च्छेद्यः केन वा वद ।। २७ ।।
सुरोत्तमटीका
पुनरपि युक्तिद्वयमाह ।। रोमच्छेद इति ।। यद्यस्मा-द्रोम्णि भगवतो रोम्णि निखिलं जगदस्ति । तत्तस्माद्रोमच्छेदः कृष्णस्य रोमच्छेदो जगच्छेद एव । एवं च रोम्णां छेदोऽपि न घटते किमु अङ्गस्येति भावः । यः कृष्णः अखिलस्य समस्तस्य छेत्तुः छेदनकर्तुः पुरुषस्य नियन्ता नियामकः । यं नियामकं विना ‘न ऋते त्वत्क्रियते किं च नार’ इति श्रुत्या कोऽपि किमपि कर्तुं न शक्नोतीति यावत् । स कृष्णः केन पुरुषेण च्छेद्यः । न हि कोऽपि प्रेक्षावान्स्वांगं छिन्धीति परं प्रेरयेदिति भावः ।। २७ ।।
युक्तिमल्लिका
स्वाहारस्य हि विच्छेदे दक्षं पशुपतेरपि ।
अच्छेद्यमकरोद्यस्तु तस्य च्छेदं करोति कः ।। २८ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। स्वाहारस्येति ।। हि यस्मात्स्वाहा-रस्य याज्ञीयपश्वङ्गस्थवपाद्याहारस्य विच्छेदे विघ्न इति यावत् । यः परमात्मा दक्षप्रजापतिं पशुपतेर्महादेवस्यापि अच्छेद्यं छेदायोग्यम् । तस्य परमात्मनः । पशुसंज्ञपनात् पूर्वं रुद्रेण दक्षशिरश्छेदे कृते ममाहुतेरेव च्छेदो भविष्यतीति धिया एनं मा छिन्धीति भगवत्संकल्पमात्रेणैव शिवोऽपि तं छेत्तुमशक्तोऽ-भूत्किल । एवं चाप्रयत्नेनैव रुद्रस्यापि शक्तिस्तंभकं तं कश्छेत्तुं शक्त इति भावः ।। २८ ।।
सत्यप्रमोदटीका
न केवलं अच्छेद्यत्वरूपप्रवृत्तिनिमित्तधर्माश्रयत्वेन अच्छेद्यपदवाच्यः किं तु दक्षप्रह्लादादिगताच्छेद्यत्वं प्रति स्वातन्त्र्येणापि इत्याह षड्भिः स्वाहारेत्यादिभिः । तदुक्तं ‘स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणमि’ति । ‘अच्छेद्यमकरोद्यस्तु’ इत्यनेन स्वातन्त्र्यमुक्तं भवति ।। २८ ।।
युक्तिमल्लिका
आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।
छिन्दन्नपि तदुद्धर्तुं नाशक्नोत्त्र्यम्बकस्तदा ।। २९ ।।
शस्त्रैरस्त्रान्वितैरेनमनिर्भिन्नत्वचं हरः ।
विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ।। ३० ।।
सुरोत्तमटीका
अस्मिन्नर्थे प्रमाणतया भागवतस्थश्लोकत्रयमुदाहरति ।। आक्रम्येत्यादिना ।। तच्छिरः उद्धर्तुं कायादपहर्तुं तदा तस्मिन्समये । एनं दक्षम् । परं विस्मयमिति सम्बन्धः । मखे संज्ञपने याज्ञीयपशुत्वेन हिंसायां योगमुपायं दृष्ट्वा दक्षमेव यज्ञपशुं कृत्वा हन्मि तच्छिरसा हरेराहुतिं च दास्यामि तदा सुतुष्टो मच्छक्तिं न स्तंभयेदित्युपायं दृष्ट्वेति यावत् । तेन योगेन । अतः एतादृशशक्तिमत्त्वादच्युते किं चित्रं न किञ्चिदप्याश्चर्यमिति भावः ।। २९-३२ ।।
सत्यप्रमोदटीका
अन्वयव्यतिरेकाभ्यां च स्वातन्त्र्यनिश्चयः इति वक्तुं व्यतिरेकमाह नाशक्नोदिति । तदा परमात्मन इत्छाऽभावे ।। २९,३० ।।
युक्तिमल्लिका
दृष्ट्वा संज्ञपने योगं पशूनां स पतिर्मखे ।
यजमानपशोस्तस्य कायात्तेनाहरच्छिरः ।। ३१ ।।
सत्यप्रमोदटीका
अन्वयमाह दृष्ट्वेति । तेन भगवदिच्छानुगृहीतेनोपायेन ।। ३१ ।।
युक्तिमल्लिका
इति भागवते प्रोक्तमतश्चित्रं किमच्युते ।। ३२ ।।
सत्यप्रमोदटीका
अन्वयव्यतिरेकयोरागमिकत्वमाह इतीति । तथा च छेदस्य भगवदिच्छानुसारितोक्त्या छेदं प्रति स्वातन्त्र्यं समर्थितं ज्ञेयम् ।।३२।।
युक्तिमल्लिका
यत्कृपालेशतस्त्रातं प्रह्लादं किल रक्षसाम् ।
चिच्छिदुर्नास्त्रशस्त्राणि कश्छिन्द्यात्तं महाप्रभुम् ।। ३३ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। यत्कृपेति ।। रक्षसामस्त्रशस्त्राणीति सम्बन्धः । किलेत्यनेन सर्वजनप्रसिद्धिं द्योतयति ।। ३३ ।।
सत्यप्रमोदटीका
व्यतिरेके दृष्टान्तान्तरमाह यदिति ।। ३३ ।।
युक्तिमल्लिका
सन्ध्यर्थं हस्तिनपुरीं प्रविष्टं किल कौरवाः ।
न बद्धुमपि यं शेकुः कश्छिन्द्यात्तं महाप्रभुम् ।। ३४ ।।
सुरोत्तमटीका
पुनरपि युक्त्यन्तरमाह ।। सन्ध्यर्थमिति ।। यं विश्व-रूपिणं परमात्मानं बद्धुमपि न शेकुः । पुरस्तात्पार्श्वतः पृष्ठतः अन्तर्बहिश्च तत्सर्वत्र परिपूर्णत्वेन शस्त्रान्तरमपि विद्यमानत्वादिति भावः ।। ३४ ।।
सत्यप्रमोदटीका
यं अन्तर्बहिर्व्याप्तं विश्वरूपम् ।। पाशाद्बहिर्विद्यमानस्य पाशेन यथा न बन्धस्तथा शस्त्राणामन्तर्विद्यमानस्य न तैश्छेदोऽपीत्याह क इति ।। ३४ ।।
युक्तिमल्लिका
अतोऽज्ञजनमोहाय नटवद्दर्शयेत्परम् ।
सुधादृष्ट्यामृताशेषस्वसैन्योज्जीवनैकदः ।। ३५ ।।
सुरोत्तमटीका
उक्तार्थे युक्त्यन्तरं प्रमाणवचनेन सूचयन्नुपसंहरति ।। अत इति ।। अतः पूर्वोक्तरीत्या युक्तिबाधितत्वात् । नटवदैन्द्रजालिकवत् । दर्शयेच्छेदभेदादिकं सुधादृष्ट्या मृतानि अशेषस्वसैन्यानि कपिकटकानि तेषामुज्जीवनैकदः केवलोज्जीवनप्रदः । इदं वासुदेवसहस्रनामि्न रामावतार-प्रस्तावे विद्यमानम् । रामदृष्टिमात्रेण मृतसञ्जीवनसमर्थस्य कथं छेदभेदादिकं घटेतेति युक्तिं सूचयितुमेतेनैव नाम्ना विशिष्यनिर्देशः कृत इति ज्ञातव्यम् ।। ३५ ।।
सत्यप्रमोदटीका
‘प्रदर्शयति मोहाये’ति भगवत्पादीयोक्तिसमर्थनमुप-संहरति अत इति । सर्वावतारेष्वेवमेवेति ज्ञापयितुं रामावतारे महिमानमाह सुधेति ।। ३५ ।।
युक्तिमल्लिका
नटो नाट््यकृते नारी नार्येवाज्ञस्य किं दृशा ।। ३६ ।।
सुरोत्तमटीका
नटवदित्युक्तं विवेचयति ।। नट इति ।। नाट्यकृते नर्तनार्थं नारी स्त्रीवेषधारी अज्ञस्य दृशा नार्येव किं नेति सम्बन्धः । तथा हरिरपीति भावः ।। ३६ ।।
सत्यप्रमोदटीका
धर्मिग्राहकप्रमाणबाधादज्ञदृष्टिर्भ्रम एवेति दृष्टान्त-पुरस्सरमाह नट इति ।। ३६ ।।
युक्तिमल्लिका
गन्धस्य ज्ञापने चक्षुर्घ्राणानुसरणं चरेत् ।
उपनीतो यतो गन्धश्चक्षुषापि प्रकाश्यते ।। ३७ ।।
सुरोत्तमटीका
प्राक्प्रबलप्रत्यक्षविरोधेन वेधादिप्रत्यक्षस्य भ्रमत्वमुक्तम् । इदानीमुपजीव्यविरोधेनापि भ्रमत्वं सदृष्टान्तमुपपादयति ।। गन्धस्येति ।। आद्यपद्यं दृष्टान्तार्थम् । यथा स्वायोग्यगन्धज्ञापनाय चक्षुषोऽपि घ्राणमुप-जीव्यम् । तथा श्रौतार्थस्य श्रुत्येकसमधिगम्यार्थस्य ज्ञापने यद्यस्मान्मानानि श्रुतीतरप्रत्यक्षादिप्रमाणानि श्रुतिमुपजीवन्तीति सम्बन्धः । अतः उपजीव्यत्वात् ।। ३७,३८ ।।
सत्यप्रमोदटीका
अतीन्द्रियार्थविषये श्रुतिरेव प्रत्यक्षस्योपजीव्येति निरूपयितुं यन्मानं यद्विषयीकरणयोग्यं तत्तद्विषये तदितरमानोपजीव्यं यथा गन्धविषयीकरणयोग्यं घ्राणं सुरभिश्चन्दनखण्ड इति प्रत्यक्षजनने चक्षुष उपजीव्यमिति दृष्टान्तमाचष्टे गन्धस्येति ।। ३७ ।।
युक्तिमल्लिका
श्रौतार्थज्ञापने मानान्युपजीवन्ति यच्छतिम् ।
अतश्श्रुत्येकगम्येऽर्थे श्रुतिरेव बलीयसी ।। ३८ ।।
सत्यप्रमोदटीका
तत्त्वमस्यादिश्रुतेः यः सर्वज्ञ इत्यादिश्रुतिरप्युपजीव्ये-त्याशयेन मानानीत्युक्तम् । न केवलं प्रत्यक्षानुमाने इति भावः । यथोक्तं
‘सार्वज्ञादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ।।
ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी’ति ।। ३८ ।।
युक्तिमल्लिका
तद्विरुद्धं तु यन्मानमुपजीव्यविरोधतः ।
न स्वार्थसाधकं तस्मादज्ञदृङ्नेशदोषदृक् ।। ३९ ।।
सुरोत्तमटीका
तद्विरुद्धं निरनिष्टो निरवद्य इत्यादिश्रुतिविरुद्धं मानं छेदवेधादिप्रत्यक्षम् । यद्यस्मादुपजीव्यश्रुतिविरोधतः स्वार्थसाधकं नेति सम्बन्धः । तस्मात् अज्ञदृक् अज्ञानिनां वेधादिप्रत्यक्षं ईशदोषदृक् ईश्वरस्य दोषसाधकदर्शनं नेति सम्बन्धः ।। ३९ ।।
सत्यप्रमोदटीका
दोषदृक् दोषे दर्शनरूपं प्रमाणम् ।। ३९ ।।
युक्तिमल्लिका
नहि मन्ददृशां दृष्ट्या रत्नस्यानर्घतागता ।
किन्तु मन्दैव दृग्रत्नपरीक्षाशास्त्रतो भवेत् ।। ४० ।।
सुरोत्तमटीका
उक्तार्थेऽन्तरङ्गं दृष्टान्तमाह ।। नहीति ।। मन्ददृशां रत्नपरीक्षाशास्त्रमजानतां दृष्ट्या शिलामात्रमिति दृष्ट्या अनर्घताऽमूल्यता गता नहीति सम्बन्धः । किंतु रत्नपरीक्षाशास्त्रतः दृक् अज्ञदर्शनमेव मन्दा भवेदिति योजना । अत्र शास्त्रेणैव प्रत्यक्षबाधदर्शनादयमन्तरङ्गदृष्टान्त इति ज्ञातव्यम् ।। ४० ।।
सत्यप्रमोदटीका
‘अनर्घं रत्नं’ इति ज्ञाने अनर्घत्वांशे रत्नशास्त्रमुप-जीव्यम् । प्रत्यक्षं तु रत्नस्वरूपमात्रं गोचरयति । विमतं रत्नं, न अनर्घं, शिलात्वात् इत्यनुमानं तु प्रतियोगिग्राहकत्वेन साध्यं प्रत्युपजीव्यं यद्रत्नपरीक्षा-शास्त्रं तेन बाधितत्वान्नानर्घत्वबाधनस्येष्टे इत्याह न हीति । प्रत्युत उपजीव्य-शास्त्रविरोधेनानुमानमेव बाध्यत इत्याह किंत्विति ।। ४० ।।
युक्तिमल्लिका
श्रुतिस्तु निरनिष्टोऽसौ निरवद्य इति प्रभुम् ।
स्पष्टमाचष्ट तत्कष्टं द्रष्टुमीष्टे क ईशितुः ।। ४१ ।।
सुरोत्तमटीका
उपजीव्यश्रुतिं स्पष्टमाह ।। श्रुतिस्त्विति ।। अनेन निरनिष्टो निरवद्य इति श्रुतिरर्थतो गृहीतेति द्रष्टव्यम् । स्पष्टमाचष्टेति पूर्वेणान्वयः । कः पुरुष ईशितुः कष्टं वेधादिरूपानिष्टं द्रष्टुमीष्टे समर्थो भवति न कोऽपीत्यर्थः ।। ४१ ।।
सत्यप्रमोदटीका
तत्कष्टं तस्य धर्मिग्राहकश्रुत्या छेदाद्यवद्यदूरत्वेन सिद्धस्य परमात्मनः कष्टं छेदादिकं अवद्यम् । द्रष्टुं साधयितुम् । ईशितुः गुणदोषनियामकस्य । हेतुगर्भं विशेषणम् । दोषगन्धेनापि अस्पृष्टस्य ।। ४१ ।।
युक्तिमल्लिका
न कर्मणा वर्धते यो नो कनीयान्परः प्रभुः ।
न भूत्यै नांहसो हत्यै तस्य यात्रा शिवार्चनम् ।। ४२ ।।
सुरोत्तमटीका
अधुना कैलासयात्रया कृष्णस्य लिङ्गप्रतिष्ठया रामस्य चाज्ञैरुच्यमाननैच्यं परिहर्तुमाह ।। नकर्मणेति ।। यः परः प्रभुः कर्मणा पुण्यकर्मणा न वर्धते । न कर्मणा वर्धत इति श्रुत्यंशग्रहणमिदम् । नो कनीयान् कर्मणा पापकर्मणा कनीयांश्च न । उभयत्राप्यन्वयदर्शनाय कर्मणेति पुण्यपापसाधारणवचनम् । तस्य कृष्णरामरूपिणो हरेः यात्रा कैलासयात्रा भूत्यै पुत्राद्यैश्वर्यप्राप्तये न । उक्तश्रुत्या पुण्येन वृद्ध्यभावोक्तेः । शिवार्चन-मंहसः ब्रह्महत्यारूपपापस्य हत्यै हननायनेति सम्बन्धः । पापेन कनीयस्त्वा-भावसाधकश्रुतिविरोधादेव । तस्मान्मनुष्यावतारे मनुष्यवन्नटनमेवेति भावः
।। ४२ ।।
सत्यप्रमोदटीका
तस्य कृष्णस्य, यात्रा कैलासं प्रतीति शेषः । भूत्यै पुत्रावाप्तिलक्षणैश्वर्याय । तस्य रामस्य शिवार्चनं सेतौ लिङ्गस्थापनम् । अहंसः रावणवधनिमित्तेन शङ्क्यमानपापस्य । उभयत्र हेतुः परः प्रभुरिति । परः सर्वोत्तमः प्रभुः पुण्यपापनियामकः । तत्र श्रुतिं प्रमाणयति । न कर्मणेति । कनीयान् ह्नासवान् । परिपूर्णस्य परस्य न वृद्धिह्नाससम्भव इत्याशयः।। ४२ ।।
युक्तिमल्लिका
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।। ४३ ।।
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति गीतावचनतस्समाधत्स्व मनस्सदा ।। ४४ ।।
सुरोत्तमटीका
गीतावाक्येनाप्युक्तसमर्थं समर्थयते ।। न मे पार्थेति ।। मे कर्तव्यं नास्तीति कैलासयात्राकारिणः कृष्णस्यैव वचनम् । अनवाप्तं प्रागप्राप्तं अवाप्तव्यम् उपरि प्राप्यं नैवेति सम्बन्धः । तथापि जनसंग्रहाय कर्मणि कैलासयात्रा सूर्यग्रहणे स्यमन्तपञ्चकयात्रा देवर्षितर्पणादिकर्मणि । उत्सीदेयुरिमे लोका न कुर्यां कर्मचेदहमित्युत्तरवाक्यान्नानवाप्तमवाप्तव्यमिति स्वफलनिषेधाच्च केवलं जनसंग्रहायेति गम्यते । अवशिष्टं तु स्पष्टम् । समाधत्स्व समाहितं कुरु ।। ४३,४४ ।।
सत्यप्रमोदटीका
कर्तव्यं इष्टसाधनम् । लिङाद्यर्थस्तु इष्टसाधनत्व-मेवेत्युक्तेः । वर्त एवेति अयोगव्यवच्छेदः । लोकसङ्ग्रहायेति भावः
।। ४३,४४ ।।
युक्तिमल्लिका
ईजे च भगवान्नामो यत्रास्पृष्टोऽपि कर्मणा ।
लोकस्य सङ्ग्रहायेशो यथाऽन्योऽघापनुत्तये ।
इति भागवतोक्त्या च स्वस्थचित्तस्सदा भव ।। ४५ ।।
सुरोत्तमटीका
उक्तार्थे भागवतवचनमाह ।। ईज इति ।। यत्र (श्य) स्यमन्तपञ्चके । कर्मणा पुण्यपापरूपेण । रामः परशुरामः । अत्र तु जन-सङ्ग्रहायेति स्पष्टम् । अन्यः मनुष्यादिः । अघापनुत्तये यथा तथा लोकस्य सङ्ग्रहाय फलवत्त्वमात्रे दृष्टान्तो न तु तद्वदघापनुत्तय इति भावः । भगवानीश इति च तत्र हेतुसूचनम् ।। ४५ ।।
सत्यप्रमोदटीका
ईशस्य प्रवृत्तिः परप्रयोजनार्थैवेत्यत्र भागवतं प्रमाण-यति ईज इति ।। ४५ ।।
युक्तिमल्लिका
अथापि भगवद्दोषं वृथा यो मनुते नरः ।
तं दोषेषुः शिलाक्षिप्तदारुप्रोतशरोपमः ।
श्रुत्याकृष्टगुणोत्सृष्टेर्धानुष्कमनुधावति ।। ४६ ।।
सुरोत्तमटीका
एवं श्रुतिस्मृतियुक्तिप्रत्यक्षाख्यप्रमाणत्रितयेनापि भगवतो निर्दोषत्वे सिद्धेऽपि यस्तं दोषिणं मनुते स निर्दोषमहापुरुषदूषणाख्यदोषेणांधे तमसि पात्यत इतीममर्थं सदृष्टान्तमुपपादयन्निर्दोषत्वसाधनमुपसंहरति ।। अथापीति ।। अथापि एवं निर्दोषत्वे सिद्धेऽपि । वृथा प्रमाणं विना । तं पुरुषं दोषेषुः दोषाख्यबाणः । शिलायां क्षिप्तः अग्रे दारुप्रोतः यश्शरस्त-स्योपमा यस्य सः । दोषेषुरिति सम्बन्धः । दोषसाधकत्वेनाभिमतप्रत्यक्षादी-नामयोवत्परगात्रभेदन सामर्थ्याभावस्योपपादितत्वाद्दारुप्रोतेत्युक्तम् । धानुष्कं प्रयोक्तारं त्वामेवोपधावति । त्वमेव दोषेण तमसि निपात्यस इति भावः । तत्र हेतुः श्रुत्याकृष्टगुणोत्सृष्टेरिति । श्रुत्या वेदेनाकृष्टा आनीतास्साधिता इति यावत् । हरेर्गुणाः अच्छेद्यत्वावेध्यत्वादयः तेषामुत्सृष्टेः परित्यागात् । श्रुति-प्रतिपादितनिर्दोषत्वाख्यगुणोत्सर्जनादिति भावः । इषुपक्षेतु आकर्णान्तमाकृष्ट-मौर्वीमोचनादिति द्रष्टव्यम् । दारुप्रोतशरः आकर्णान्तमाकृष्यमोचन एव धानुष्कमनुधावति । तद्वद्दोषेषुरप्युक्तभगवद्गुणविसर्जनात् त्वामेव यमदूतक-राहतखड्गशरवह्न्यादिभिश्छेद्यत्ववेध्यत्वदाह्यत्ववन्तं कृत्वा तमसि मज्जयतीति भावः ।। ४६ ।।
सत्यप्रमोदटीका
अथापि निर्दोषतायाः सकलप्रमाणप्रमितत्वेऽपि । वृथा दुराग्रहमात्रेण । श्रुतिः वेदः । इषुपक्षे कर्णः । आकृष्टाः साधिताः । अन्यत्र स्पष्टम् । गुणाः आनन्दादयः अन्यत्र ज्या। उत्सृष्टिः अपलापः । अन्यत्र मोचनम् । अनुधावति अविलम्बेन तमसि पातयति । अन्यत्र परावृत्य विध्यति । यथोक्तं ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेदि’ति ।।४६,४७।।
युक्तिमल्लिका
तस्मात्स्वमूलरूपे च स्वावतारेषु च प्रभुः ।
अवद्यगन्धविधुर इति सर्वं मनोरमम् ।। ४७ ।।
सुरोत्तमटीका
तस्मादित्युपसंहारः ।। ४७ ।।