कर्मणो यदि तत्कर्म स्वानिष्टं कुरुते कुतः

जीवानां कालकर्मादीनां च अस्वातन्त्र्यम् । अतः स्वतन्त्रो हरिरेव जन्मादिकर्ता ।

युक्तिमल्लिका

कर्मणो यदि तत्कर्म स्वानिष्टं कुरुते कुतः ।

अनाद्यनिष्टकर्माणि करोत्यन्यवशो ध्रुवम् ।। ७२३ ।।

सुरोत्तमटीका

 स्वस्यैव स्वतन्त्रकर्तृत्वे स्वतन्त्रकर्त्रीश्वराभिन्नत्वे च स्वानिष्टदुःखादिकरणायोगात् । तर्हि ईशानपेक्षपुण्यपापादिकर्मवशादेव जनन-मरणादिकं जायतामिति मीमांसकमतमनूद्य दूषयति ।। कर्मण इति ।। तत् जीवप्रवर्तकतयाऽङ्गीकृतम् । स्वानिष्टं स्वस्य दुःखाद्यनर्थहेतुभूतं ब्रह्महननादि-कर्म । न तावत्तदेव कर्म स्वकर्तारं प्रेरयति । आत्माश्रयात् । रागद्वेषादि-दोषवशाच्चेत् । तर्हि कर्मण इति मतं गतम् । स्वेनैव स्वजिह्वादंशने क्रियमाणे तयोरप्ययोगाच्च । न हि जिह्वायां दोषः तद्दंशने रागो वा कस्यचिदस्ति ।

किञ्च अपराधिनि विप्रे द्वेषोद्रेकात् तदीयधनवनितादौ रागोद्रेकाच्च विप्रहनने प्रवृत्तिरिति वदता ततोऽप्यतिशयितराजयातनानरकयातनादौ द्वेषो-द्रेकात् कीर्तिस्वर्गादौ रागोद्रेकाच्च सज्जनस्यैव कुतो न निवृत्तिः कथ्यते । अतः प्रवर्तकनिवर्तकयोरुक्तविधया साम्येऽपि बलात्कारेण तं तत्र प्रवर्तयितुं लाघवा-दीश्वरस्यैवाङ्गीकर्तुमुचितत्वाच्च ।

पुरुषान्तरेष्वदृष्टरागद्वेषादेरत्रैवोत्पत्तौ कारणं च वक्तव्यम् । कर्मण एव तदिति चेत् पुनरन्योन्याश्रयः । प्राचीनकर्मान्तरादिति चेत् न । कर्मणो जडत्वेन स्वनरकाद्यनर्थसाधनतया ज्ञाते तस्मिन्कर्मणि बलाद्गृहीत्वा यातयितुं स्वतन्त्रचेतनस्यैव कस्यचिदङ्गीकार्यत्वात् । न हि घटकारणीभूतापि मृत्पिण्डादिपरम्परा स्वयमेव दण्डं गृहीत्वा चक्रमावर्तयन्ती घटं करोति । अनादित्वेन समाधानस्य तत्रापि कर्तुं शक्यत्वात् । किन्तु घटमात्रकरणे स्वतन्त्रकुलालादिचेतनान्तरे सत्येव । एतदेवाभिप्रेत्योक्तम् ।। अनादीति ।। किञ्चानन्तान्यपि तानि कर्माणि स्वानिष्टानि स्वकृतानि च भवेयुः । अनिष्ट-मूलकर्मणामप्यनिष्टत्वावश्यंभावात् । परकृतकर्मणां स्वफलदायकत्वायोगाच्च । एवं चानिष्टभूतस्य तस्य कर्मसमुदायस्य करणाय विष्टिगृहीतस्य कर्मकरण इव कर्मातिरिक्तः प्रयोजकोऽन्योऽवश्यमङ्गीकार्यः । नहि विष्टिगृहीतस्य कर्मैव तत्कर्म कारयति । न वा पूर्वपूर्वदिने बलात्कारितं भारोद्वहनाख्यकर्मै-वोत्तरोत्तरभारोद्वहन कर्म कारयति । न वा तदीयदुष्कर्ममात्रं किंतु तस्मा-द्विष्टिगृहीतपुरुषकृत भारोद्वहनादिकर्मसमुदायात् तेन पूर्वं पूर्वं कृत दुष्कर्म-समुदायात्तस्माद्विष्टिगृहीतपुरुषाच्चान्य एव बलात्कारयिता कश्चिदधिकृत पुरुषोऽपेक्षणीयः । एवं च न कथं कर्मणो जीवाच्चातिरिक्तेश्वरसिद्धिः । एतदपि सूचयितुं प्रथमवाक्ये जीवो विष्टिगृहीत इत्युक्तम् । अस्मिन्नपि वाक्ये अनिष्टपदं प्रत्युक्तम् ।। ७२३ ।।

सत्यप्रमोदटीका

 एवं ‘चिच्चेत्ये केनचिन्नियते अपर्याप्तशक्त्यादि-मत्त्वात्’ इति तत्त्वोद्योतटीकोक्तानुमाने पक्षस्य जीवस्य ईशाधीनतां प्रसाध्य चेत्यशब्दार्थान्तर्गतकर्मणोऽपि उपलक्षणतया तत्साधयति कर्मण इति । तत्कर्म इदानीं क्रियमाणं स्वानिष्टसाधनं कर्म । कर्मणः पूर्वकर्मनिमित्तात् । इति यदि पक्षः तर्हि इति योज्यम् । पृच्छति कुत इति । तत्कर्म इति आवर्तते । पूर्वं एतत्कर्मनिमित्ततयाऽभ्युपगतं कर्म इत्यर्थः । कुतः कुरुते । कस्मात् कृतवान् । तत्रापि पूर्वं पूर्वं दुष्कर्मनिमित्तं वक्तव्यम् । तथा चानवस्था । पूर्वपूर्वकर्मणामपि जडत्वेन अस्वातन्त्र्याद्यविशेषेण निमित्तत्तत्वानुपपत्तिदोष-स्तदवस्थ इति । फलितमाह अनादीति । अन्यवशः अस्वतन्त्रजीवजडान्यस्य हरेर्वशः । ध्रुवमित्यनेन ‘स हि कर्ता’ इति वैदिकप्रसिद्धिं प्रमाणयति । तदुक्तं भगवत्पादैः ‘न च कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः’ इति

।। ७२३ ।।

युक्तिमल्लिका

नित्यो जीवो स्वतन्त्रश्चेदनित्यं कर्म जन्मनि ।

स्थितौ लये परापेक्षमन्याधीनं कथं न तत् ।। ७२४ ।।

सुरोत्तमटीका

 अपि च असत्सु दुष्कर्मपरंपरानियमस्य सत्सु सत्कर्म-परम्परानियमस्य च कर्मातिरिक्तः कश्चिन्नियामको वक्तव्यः । तत्तद्योग्य-तावशात्तथा तथा जायत इति चेत् न । जीवेषु योग्यायोग्यविभागस्य परेणा-नङ्गीकारात् । अगत्या तदङ्गीकारे किमपराद्धं लघुनेश्वरेण । जीवगतयोग्यताया जीववदस्वतन्त्रतया परनियम्यत्वावश्यंभावाच्च । नित्यस्य चेतनस्य च जीवस्य स्वातन्त्र्याभावेन कर्मसाचिव्याङ्गीकारे अनित्यस्य जडस्य च कर्मणः सुतरां स्वातन्त्र्यायोगेन उभयोरपि नियामकः कश्चिदीशो बलात्सिद्ध्यतीत्याह ।। नित्य इति ।। तत् कर्म ।। ७२४ ।।

सत्यप्रमोदटीका

 कैमुत्येन कर्मोपलक्षितजडस्येशाधीनतां साधयति नित्यः इति । ‘अनित्यत्वं देहहानिर्दुःखप्रप्तिरपूर्णता’ इति चतुर्विधनाशेषु मध्ये देहहान्यादिनाशोपेतत्वेऽपि स्वरूपतो नित्यः । अनित्यं स्वरूपत एव नाशोपेतम् । न चैवं नित्यजडानामीशाधीनत्वासिद्धिः । वियदधिकरणन्यायेन तेषामपि पराधीनविशेषावाप्त्यादेर्विद्यमानत्वादिति भावः

।। ७२४ ।।

युक्तिमल्लिका

यत इत्येकवचनादेको दाधार चेत्यलम् ।

स्पष्टश्रुतेर्न कर्माणि कर्मद्वारा न चेतनाः ।

अनन्तः सर्वजगतां कर्तारो लाघवादपि ।। ७२५ ।।

सुरोत्तमटीका

 अनन्तानां जीवानां कर्मणां च कर्तृत्वे कर्तुरेकत्व-प्रतिपादकश्रुतिविरोधं दर्शयन् श्रुत्युपस्कारकलाघवाख्ययुक्तिविरोधं च दर्शयति ।। यत इति ।। अनेन यतो वा इमानि भूतानि जायन्त इति श्रुतिं गृह्णाति । न च वाच्यं तसिलन्तप्रयोगेऽस्मिन्येभ्य इत्यपि वक्तुं शक्यत्वात् न कर्तुरेकत्वं सिद्ध्येदिति । वाक्यशेषे येन तदिति च स्पष्टैकवचनान्तप्रयोगपङ्क्तिपतितत्वेन आदावेकवचनस्यैव न्याय्यत्वात् । अधीहि भगवो ब्रह्मेति एकस्य ब्रह्मण एवोपक्रान्ततया अत्राप्येकस्य तस्य च ब्रह्मण एव प्रतिपाद्यत्वाच्च । अन्यथा अपृष्टपरिभाषणत्वप्रसङ्गात् । य उ त्रिधात्विति वक्ष्यमाणसंहितावाक्ये विष्णुसूक्तबलेन द्यावापृथिवीधारकत्वलिङ्गबलेन स्पष्टमेकत्वोक्त्या च एकस्य धारकपुरुषस्य विष्णोरेव वक्तव्यत्वात् । वाक्यद्वये च जगद्धारकसमाख्यया एकार्थस्यैव वक्तव्यत्वात् निश्चितनिरवकाशानुसारेण सन्दिग्धसावकाशस्य योज्यत्वाच्च विष्णोरेव ब्रह्मत्वसिद्धेः । अत एव ग्रन्थकारस्य न प्रकृता सङ्गति-र्नापि वाक्यार्थयोर्वैयधिकरण्यं मुक्तावपि यत्प्रयंत्यभिसंविशन्तीति ब्रह्मणः प्राप्यत्वप्रवेश्यत्वोक्त्या समित्युपसर्गबलेन मुख्यप्रवेशस्यैव वक्तव्यतया बहूनामे-वाभितः प्रवेशसम्भवेन विशन्तीति बहुवचनसम्भवाय मुक्तिकालीनैक्यस्यैव शङ्कितुमशक्यत्वात् व्यावहारिकभेदमादाय यदद्वैतवादिनाहिताकरणादि-समाधानं तदपि निरस्तम् । न केवलं युक्तिप्रोद्बलितश्रुतिसिद्धं कर्तुरेकत्वं किन्तु साक्षात्कर्तुरेकत्व प्रतिपादिकैव श्रुतिरस्तीत्याह ।। एको दाधारेति ।। य उ त्रिधातुपृथिवीमुतद्यामेको दाधार भुवनानि विश्वा इति श्रुतिं गृह्णाति ।। ७२५।।

सत्यप्रमोदटीका

 यत इति ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतौ इति उपस्कर्तव्यम् । न चास्य येभ्य इत्यर्थकत्वं शङ्क्यम् । येन, यदिति वाक्यशेषानुसारेण निश्चयोपपत्तेः । स्पष्टश्रुतेश्चैवमित्याह एक इति । लाघवा-दपि ईश एव कर्ता इति शेषः । तथा च ‘केनचिन्नियते’ इति साध्यकानुमाने किंपदस्यार्थः अपर्याप्तशक्त्यादिहेतूनां पक्षधर्मत्वबलात् स्वतन्त्रो हरिरेवेति लाघवयुक्त्या श्रुत्याऽपि सिद्ध्यतीति भावः ।। ७२५ ।।

युक्तिमल्लिका

लोकेऽदृष्टद्वारकर्तृमात्रात्क्वापि क्रियाऽजनेः ।

कृतिपूर्वककर्तैव कर्ताऽन्यस्तूपचारतः ।

अन्यथा कन्यकायाः स्याद्भर्तापि पितृवत्पिता ।। ७२६ ।।

सुरोत्तमटीका

 अदृष्टद्वारा जीवानामेव जगत्कर्तृत्वपक्षेऽप्यदृष्ट-कल्पनाख्य दूषणं चाह ।। लोक इति ।। क्वापि घटपटादिकार्ये क्रियाऽजनेः जन्मरूपक्रियाया अजनेः घटपटादिकार्येषु भोजकादृष्टद्वारा कर्तृभूतयज्ञदत्त-देवदत्तादिषु सत्स्वपि कृतिपूर्वककर्तृकुलालकुविन्दादिव्यतिरेकेण घटपटादि-कार्यादृष्टेः महीमहीधरादिकार्येऽपि कृतिपूर्वककर्तापि कश्चिदपेक्षितः । अन्यथा अदृष्टकल्पनाप्रसङ्गात् । न च वाच्यमङ्कुरादिकार्ये कृतिपूर्वकर्तुरदर्शनात् पटादौ दृष्टोऽपि कृतिपूर्वकर्ता न कारणमिति । अपसिद्धान्तात् । कुलालादेरकारणत्वे तद्व्यतिरेकेणापि क्वचित् घटोत्पत्तिप्रसङ्गाच्च । अनन्यथासिद्धनियतपूर्वभाववतः कुलालादेरकारणत्वे तादृशकारणान्तरस्याप्यकारणत्वापत्तेरकारणकार्योत्पत्ति-प्रसङ्गाच्च ।

कपालद्वयसंयोगकरणमात्रेण कुलालस्यान्यथासिद्धिरिति चेत् न । कपालद्वयसंयोगस्यापि तद्विभागनाशोपक्षीणत्वप्रसङ्गेन विभागनाशस्य च जलस्रवणप्रतिबन्धकरणमात्रोपक्षीणत्वापत्तेः पुनरकारणकार्योत्पत्तिप्रसङ्ग-तादवस्थ्यात् । कपालद्वयसंयोगानन्तरमपि दण्डचक्रादिना पृथुबुध्नोदराकार-करणकण्ढपीढकरणादिना कुलालव्यापारदर्शनाच्च । एवमपि कुलालस्या-कारणत्वघटने कुम्भकारशब्दस्य त्वयैवोपनिपाताच्च । सन्दिग्धानुसारेण निश्चितस्यैव भङ्गे अनुमानमात्रोच्छेदप्रसङ्गाच्च । तस्मादपरिहार्यैवादृष्टकल्पना । कृतिपूर्वककर्तृत्वाभावे जगद्रूपकार्यत्वं न भवतीत्यत्र युक्तिमाह ।। कृतीति ।। अन्यः अदृष्टद्वारा कर्ता । अदृष्टस्य सर्वोत्पत्तिमन्निमित्तकारणत्ववददृष्टाधार-जीवानां तत्प्रसिध्यभावादिति भावः । विपक्षे बाधकं चाह ।। अन्यथेति ।। अन्यथा कृतिपूर्वककर्तृवत् अदृष्टद्वारककर्तुरपि मुख्यकर्तृत्वे अदृष्टद्वारा भार्याकर्तुर्भर्तुरपि पितृवत्पितृत्वं स्यात् । न च तद्युक्तम् । तस्मात्कृतिपूर्वककर्तैव मुख्यतः कर्तेति भावः ।। ७२६ ।।

सत्यप्रमोदटीका

 जीवानां अदृष्टात्तद्भोग्यक्षित्यङ्कुरादिकार्योत्पत्तिरित्ये-तावता न जीवानां तत्कर्तृत्वं सिद्ध्यति । उपादानादिगोचरापरोक्षज्ञान-चिकीर्षाकृत्याद्याश्रयस्यैव कर्तृपदार्थत्वात्, अन्यथाऽतिप्रसङ्गादित्याह लोक इति । अनेन तार्किकोक्तः आनुमानिकोऽशरीर ईश्वरः कर्तेत्यपि प्रत्युक्तम् । लोके चेष्टाश्रयशरीरवतां कुलालादीनामेव कर्तृत्वदर्शनेनाशरीरस्य तदीश्वरस्य कर्तृत्वायोगात् । तदुक्तं भगवत्पादैः ‘अकार्यत्वमुपाधिरित्युक्ते शरीरिजन्यत्व-मितरत्राप्युपाधिरित्युत्तरमि’ति ।। ७२६ ।।

युक्तिमल्लिका

अतो नामुख्यकर्त्रैव महाकार्यमिदं भवेत् ।

स्त्रिपुंसौ विनाऽपि स्यात्पुत्रः पुत्रेष्टिमात्रतः ।। ७२७ ।।

सुरोत्तमटीका

 अतः कृतिपूर्वककर्तुरेव मुख्यकर्तृत्वात् । इदं मही-महीधरादिकम् । घटाद्यल्पकार्यस्यापि कर्तृद्वयसापेक्षत्वे महाकार्यस्यास्य कथं कर्तृद्वयानपेक्षेति भावः । अदृष्टविशेषाद्भवतीत्यत आह ।। किमिति ।। पुत्रेष्टिमात्रतः पुत्रेष्टिजन्यादृष्टमात्रतः ।। ७२७ ।।

सत्यप्रमोदटीका

 लोके घटादावल्पकार्येऽपि कृत्याश्रय एव कर्ता सिद्धो यतः अत इति पूर्वेण सम्बन्धः । स्त्रीपुंसौ विना कृत्याश्रयेन विनेति भावः । पुत्रेष्टिमात्रतः अदृष्टहेतुकर्ममात्रतः ।तदुक्तं भगवत्पादैः ‘विना यत्नं न हठो नापि कर्म’ इति।।७२७ ।।

युक्तिमल्लिका

न चेदुपादानमपि तद्वत्स्यादौपचारिकम् ।

दृष्टानुसारतस्तच्चेत्कर्ताऽपि स्यात्तथैव हि ।। ७२८ ।।

सुरोत्तमटीका

 उपादानप्रतिबन्द्या चोत्तरमाह ।। न चेदिति ।। तद्वत् औपचारिककर्तृवत् । अदृष्टजनकक्रियाहेतुभूतहविराद्युपादानेनैव जगज्जन्मापि स्यादिति भावः । दृष्टानुसारतः दृष्टघटादिकार्यानुसारतः । तत् परमाण्वादि मुख्योपादानम् । कर्ता कृतिपूर्वककर्ता ।। ७२८ ।।

सत्यप्रमोदटीका

 न चेत् अदृष्टाद्वारकस्य साक्षात्कार्याव्यवहित-पूर्ववर्तिनः कृत्याश्रयस्य कर्तृत्वं नोपेयते चेत् । अदृष्टद्वारकस्य औपचारिक-कर्तुर्जीवस्यैव कर्तृत्वमुपेयते चेदित्यर्थः । तद्वत् हविरादेरेव घटादिकं प्रत्यु-पादानत्वं स्यात् । तस्याप्यदृष्टद्वारा औपचारिकोपादानत्वात् । यत्किञ्चि-दुपादानभूतहविरादिगोचरज्ञानादेर्घटजनकादृष्टजनकत्वात् । लोके तत्रो-पादानत्वव्यवहारो नास्तीति तु कर्तर्यपि सममिति भावः ।। ७२८ ।।

युक्तिमल्लिका

अदृष्टमपि बीजाद्यं कल्प्यं फलबलाद्यथा ।

तथाऽदृष्टोऽपि कर्ताऽस्य कल्प्यः कोऽप्युरुशक्तिमान् ।। ७२९ ।।

सुरोत्तमटीका

 ननु दर्शनादस्तु कुलालादिः कर्ता । जगत्कर्तुरदर्शना-त्कथं कल्पनेत्यत आह ।। अदृष्टमपीति ।। फलबलात् अङ्कुराख्यफलबलात् । अस्य जगतः ।। ७२९ ।।

सत्यप्रमोदटीका

 ईश्वरः कर्ताऽनुपलम्भबाधित इति चेदङ्कुरोपादानमपि तथा । फलबलात्कल्पनं तूभयत्रापि सममित्याह अदृष्टमपीति । श्रुत्या ईश्वरस्य कर्तुरुपलम्भेन अनुपलम्भोऽसिद्धश्चेत्यपि ध्येयम् ।। ७२९ ।।

युक्तिमल्लिका

न च कालादिकं तस्य प्रेरकं जडवस्तुनः ।

स्वतःप्रवृत्त्ययोगेन प्रेर्यत्वात्कर्तृतोऽन्यतः ।। ७३० ।।

सुरोत्तमटीका

 अस्तु तर्हि जन्मादिमतः कर्मणः कोऽपि नियामकः । स चेश्वरो मास्तु । किं तु जन्मादिशून्यः कालादिरेव स्यात् । जगत्कर्ता स एव स्यादित्यत आह ।। न चेति ।। आदिपदेन प्रकृत्यादिकं गृह्यते । तस्य कर्मणः । कुत इत्यत आह ।। जडवस्तुन इत्यादिना ।। जडवस्तुनः कालादेः । अन्यतः कर्तृतः जडभिन्नचेतनकर्तृतः । जडत्वसाम्ये नित्यत्वमप्रयोजकं प्रत्युत सदाजडत्वे सदापरप्रेर्यत्वरूपनैच्यापादकं चेति भावः । उपलक्षणं चैतत् । उभयोरपि जडत्वेन नियम्यनियामकभावायोगाच्चेत्यपि द्रष्टव्यम् । अनेन कालचिन्तकमतं प्रधानस्यैव जगत्कर्तृत्वप्रतिपादकसाङ्क्यमतं च निरस्तं वेदितव्यम् ।। ७३० ।।

सत्यप्रमोदटीका

 कालादिकं आदिपदेन प्रकृतिस्वभावादिकं ग्राह्यम् । स्वतःप्रवृत्त्ययोगेनेति तदुक्तं भाष्ये (२२१) ‘अचेतनस्य स्वतः प्रवृत्त्यनु-पत्तेर्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ’ इति ।। ७३० ।।