न यत्र माया किमुतापर इत्यखिलेशितुः

वैकुण्ठलोकस्य लक्ष्मीमयत्वम्

युक्तिमल्लिका

न यत्र माया किमुतापर इत्यखिलेशितुः ।

पुरे कामक्रोधपूर्वकार्यस्याभावमञ्जसा ।। ३४९ ।।

किमुतेति वदन्योगी मायाऽभावाख्यहेतुना ।

कारणाभावरूपेण साधयामास यौक्तिकः ।। ३५० ।।

सुरोत्तमटीका

 इदानीं वैकुण्ठलोकस्य लक्ष्मीमयत्वं भागवतवाक्येन पञ्चरात्रवाक्येन च साधयति ।। न यत्रेत्यादिना ।। किमुतेति वदन् अपरे मायाजन्यकामक्रोधादयो नेति किमुतेति वदन्नित्यर्थः । योगी शुकः । मायाभावाख्यहेतुना यत्र वैकुण्ठे माया नेति पूर्ववाक्योक्तमायाभावाख्यहेतुना ।। ३४९,३५० ।।

सत्यप्रमोदटीका

 इतोऽपि नैषा जीवन्मुक्तिः । तत्र मायायाः कार्त्स्न्येन निषेधादित्याह नेति । पुरे वैकुण्ठे । अपरे मायाकार्या अयोग्य-कामक्रोधादयः । यौक्तिकः । मुक्ताः कामाद्यशेषदोषहीनाः तत्कारण-मायारूपप्रकृतिगुणातीतत्वात् । ‘गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् । जन्ममृत्युजराव्याधिविमुक्तोऽमृतमश्नुते’ इति स्मृतेः । इति युक्त्यनुसन्धाता शुकमुनिः

।। ३४९,३५० ।।

युक्तिमल्लिका

ईषन्मायावशेषं च दोषं स मनुते मुनिः ।

सिद्धेश्वरस्य किं स्वोक्तहेत्वसिद्धिर्मनःप्रिया ।

चण्डालाङ्गुलिसङ्गेऽपि चण्डालस्पर्श एव हि ।। ३५१ ।।

सुरोत्तमटीका

 सः मायाख्यकारणाभावेन तत्कार्यकामक्रोधाद्यभावे कैमुत्यं वदन्मुनिश्शुकः । ईषन्मायास्पर्शेऽपि मायास्पर्श एवेत्यत्र दृष्टान्तमाह ।। चण्डालेति ।। हि यस्मात्तस्मादीषन्मायास्पर्शोऽपि मायास्पर्श एव । अतो मायालेशासद्भावेऽपि मायाराहित्याख्यहेतोरसिद्धिस्स्यादिति योजना ।।३५१।।

सत्यप्रमोदटीका

 जीवन्मुक्तिपरत्वे तत्र मायालेशसद्भावेन हेतोः स्वरूपासिद्धिप्रसङ्गादित्याह हेत्विति । मायालेशसद्भावेऽपि मायास्पर्शा-वश्यम्भावेन मायाऽतीतत्वहेतोरसिद्धिर्दुष्परिहरैवेत्यत्र लोकदृष्टान्तमाह चण्डालेति ।। ३५१ ।।

युक्तिमल्लिका

कार्याभावस्य चाञ्जस्यं सर्वथाऽभाव एव यत् ।

अतोऽसौ कारणस्यापि सर्वथाऽभावमाक्षिपेत् ।। ३५२ ।।

सुरोत्तमटीका

 असौ नेति किमुतेत्युक्तस्सर्वथाकार्याभावः ।। ३५२ ।।

सत्यप्रमोदटीका

 सर्वथाऽभावः कार्यत्वावच्छिन्नाभावः । सर्वथाऽभावं कारणत्वावच्छिन्नाभावम् । आक्षिपेत् साधयेत् । विमतः मायात्वावच्छिन्ना-भाववान् तत्कार्यरागद्वेषादित्वावच्छिन्नाभाववत्वात् इति प्रयोगात् ।। ३५२ ।।

युक्तिमल्लिका

एवं च मायात्यन्ताभावस्थानं नित्यमुक्तताम् ।

चिद्रूपत्वं न किं लेभे जडं मायामयं हि ते ।। ३५३ ।।

सुरोत्तमटीका

 मायात्यन्ताभावस्थानी मायात्यन्ताभावाधारभूतो वैकुण्ठलोको नित्यमुक्ततां चिद्रूपत्वं च न लेभे किं लेभ एव । ननु मायाया-स्सर्वथाऽभावात् अस्तु नित्यमुक्तता चिद्रूपत्वं तु कुत इत्यत आह ।। जडमिति ।। ते मते ।। ३५३ ।।

सत्यप्रमोदटीका

 एतेनैव अनन्तासनश्वेतद्वीपवैकुण्ठाख्यलोकत्रयस्य ‘त्रिपादस्यामृतं दिवि’ इति श्रुत्युक्तं चित्प्रकृत्यात्मकत्वं द्योतमानत्वनिमित्तेन सिद्धमित्याह एवं चेति । मायात्यन्ताभावस्थानं कर्तृ, हेतुगर्भं विशेषणम् । तथा च वैकुण्ठादित्रयं स्थानं, नित्यमुक्तचित्प्रकृत्यात्मकम्, अत एव प्रलयेऽप्यलीनं मायात्यन्ताभाववत्त्वात् व्यतिरेकेण पृथिव्यादिलोकवत् । इति अनुमानं ‘चित्प्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ’ इति छान्दोग्य-भाष्योदाहृतप्रमाणानुगृहीतमत्रानुसन्धेयम्

।। ३५३–३५५ ।।

युक्तिमल्लिका

तल्लक्ष्म्यात्मकलोकोऽपि सोऽभूद्यन्नित्यमुक्तचित् ।

लयेऽप्यलीना सैवैका तत्पतिर्यत्पुरःपतिः ।। ३५४ ।।

सुरोत्तमटीका

 तत्तस्मात् । स वैकुण्ठलोकः । यद्यस्मात् । लये प्रलये । सा लक्ष्मीः । ब्रह्मलयेऽप्यलीनाया लक्ष्म्या एव नित्यमुक्तचैतन्यत्वसम्भवा-न्नित्यमुक्तचैतन्यात्मको लोको लक्ष्म्यात्मक एव भवेदिति भावः । तत्पति-र्लक्ष्म्याः पतिः । पुरो वैकुण्ठपुर्याः । यद्यपि नित्यमुक्तचेतनत्वं हरेरप्यस्ति । तथापि तस्य वैकुण्ठपतिरित्येव श्रवणान्न वैकुण्ठरूपत्वम् । किन्तु वैकुण्ठ-पतेस्तस्य पत्न््नया लक्ष्म्या एव तद्रूपत्वमुचितमिति भावः ।। ३५४ ।।

युक्तिमल्लिका

एवं च युक्तितो वैकुण्ठादिलोकाश्चिदात्मकाः ।

लक्ष्म्यात्मकाः सत्यरूपा नित्याश्चासन्नसंशयः ।। ३५५ ।।

वैकुण्ठं नाम लोकं तद्दिव्यं षड्गुणसंयुतम् ।

अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ।। ३५३ ।।

नित्यसिद्धैः समाकीर्णं त्व(चि)न्मयैः पाञ्चकालिकैः ।

सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभम् ।। ३५७ ।।

वापीकूपतटाकैश्च वृक्षषण्डैश्च मण्डितम् ।

अप्राकृतं सुरैर्वन्द्यमयुतार्कसमप्रभम् ।। ३५८ ।।

प्रकृष्टसत्त्वराशित्वात्कदा द्रक्ष्यामि चक्षुषा ।

इत्थं वैकुण्ठनगरीमस्तौषीच्चतुराननः ।। ३५९ ।।

सुरोत्तमटीका

 युक्तितस्स्मृतिमूलयुक्तितः । अत्रैते प्रयोगाः । विमतो वैकुण्ठलोकश्चिदात्मको भवितुमर्हति । मायामायामययोरन्यतरत्वरहितत्वा-द्ब्रह्मवत् । विमतो वैकुण्ठलोकस्सत्यो नित्यश्च भवितुमर्हति । मायामायामय-योरन्यतरत्वरहितत्वाद्ब्रह्मवत् । विमतो वैकुण्ठलोकस्सत्यो नित्यश्च भवितुमर्हति चिद्रूपत्वाद्ब्रह्मचैतन्यवज्जीवचैतन्यवद्वा । विमतो वैकुण्ठलोको लक्ष्म्यात्मको भवितुमर्हति भगवद्भिन्नत्वे सति नित्यमुक्तचैतन्यात्मकत्वाद्व्यतिरेकेण जीव-वद्घटवद्वा ।। ३५५–३५९ ।।

सत्यप्रमोदटीका

 गुणत्रयविवर्जितमिति । ‘न वर्तते यत्र रजस्तम-स्तयोः सत्त्वं न मिश्रं’ इति अनुव्याख्यानव्याख्यानसुधायां ‘रजःप्रभृतीनाम-वृत्तिर्नाम बन्धकतया व्यापाराभावः’ इति निरूपितमत्र विभावनीयम् ।। एवं तत्र वाक्यार्थचन्द्रिका ‘ननु ब्रह्माण्डान्तः सर्वत्र परिणामभूतानां रजः-प्रभृतिगुणानां व्याप्तत्वाद्ब्रह्माण्डान्तःस्थत्वाद्भगवल्लोकस्य कथं तेषामवृत्ति-रित्यतः स्वरूपेण सतामपि तेषां केनचिद्विशेषेणावृत्त्यनुपपत्तेर्नानुपपत्ति-रित्यभिप्रेत्य तथाऽवृत्तिमाह रज आदीनामिति’ इति ।। त्वन्मयैः त्वमेव मयः प्रकृष्टो येषां तैः । ‘मायेत्युक्ता प्रकृष्टत्वात् प्रकृष्टं हि मयाऽभिधं’ इति तत्त्वनिर्णयोक्तेः ।।  प्रकृष्टेति प्रकृष्टानां संसारान्मुक्तानां सत्त्वानां पशु-पक्ष्यादीनां प्राणिनां राशिः समूहः यत्र तथाभूतत्वात् ।। ३५५–३५९ ।।

युक्तिमल्लिका

पञ्चरात्रे चतुर्वक्त्रस्तोत्रेष्वाद्यमिदं किल ।। ३६० ।।

सुरोत्तमटीका

 चतुर्वक्त्रस्तोत्रेषु चतुर्वक्त्रैः कृतस्तोत्रचतुष्टयेषु ।।३६०।।

सत्यप्रमोदटीका

 चतुर्वक्त्रस्तोत्रेषु चतुर्भिर्मुखैः कृतेषु चतुर्षु स्तोत्रेषु ।। ३६० ।।

युक्तिमल्लिका

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणा ।

इत्युक्ते षड्गुणः पूर्णज्ञानविज्ञानशक्तिमान् ।। ३६१ ।।

संयुतत्वोक्तितश्चाभूत्सम्यग्युक्तो हि तैर्गुणैः ।

अप्राकृतः सुरैर्वन्द्यो लोकोऽसौ न ह्यचेतनः ।। ३६२ ।।

सुरोत्तमटीका

 षड्गुणो वैकुण्ठलोकः शक्तिमान् अभूदिति सम्बन्धः ।। ३६१,३६२ ।।

सत्यप्रमोदटीका

 विशेषणानि यथायथं श्रीपतौ तदधिष्ठिते लक्ष्म्यात्मक- लोके च अनुयन्ति ।। ३६१–३६३ ।।

युक्तिमल्लिका

विशेषणत्रयं ह्येतच्छ्रियः श्रीशस्य चोचितम् ।

अतोऽपि श्रीपतेर्लोकः श्रीरूपोऽयं भवेद्ध्रुवम् ।। ३६३ ।।

सुरोत्तमटीका

 एतद्विशेषणत्रयं षड्गुणसंयुतत्वाप्राकृतत्वसुरवन्द्य-त्वाख्यम् ।। ३६३ ।।

युक्तिमल्लिका

पठन्सहस्रनामानि शम्भुब्रह्मोर्ध्वधामगः ।

इति यं धूर्जटिः स्तौति किं तद्धाम विचार्यताम् ।।३६४।।

सुरोत्तमटीका

 पठन्धूर्जटिरिति सम्बन्धः । यं लोकं स्तौति शम्भु-ब्रह्मणोरूर्ध्वत्वेन स्तौति ।। ३६४ ।।

सत्यप्रमोदटीका

 ऊर्ध्वेति ब्रह्मरुद्रापेक्षया गुणैरुत्कृष्टलक्ष्म्यात्मकेत्यर्थः ।। ३६४ ।।

युक्तिमल्लिका

शम्भुब्रह्मोर्ध्वता धाम्नस्ताभ्यामुत्तमतैव हि ।

अहङ्कारात्मकाच्छंभोर्ब्रह्मणो महदात्मकात् ।

न हि वैकुण्ठपूरुर्ध्वं तद्गुणैरेव सोपरि ।। ३६५ ।।

सुरोत्तमटीका

 ताभ्यां शम्भुब्रह्मभ्याम् । ननु शम्भुब्रह्मभ्यामूर्ध्वभागे स्थितत्वादेवोर्ध्वत्वमस्तु । उत्तमत्वं कुत इत्यत आह ।। अहंकारात्मका-दिति ।। तत्तस्मात् ।। ३६५ ।।

सत्यप्रमोदटीका

 सा पूः ।। ३६४,३६५ ।।

युक्तिमल्लिका

ब्रह्मादयो बहुतिथमिति भागवतोक्तितः ।

ब्रह्मादिभ्यो गुणैरुच्चा यच्छ्रीरेव हरेः प्रिया ।

एवञ्च लक्ष्मीरूपत्वं लोकस्य न कथं वद ।। ३६६ ।।

सुरोत्तमटीका

 ब्रह्मादयो बहुतिथमित्यनेन

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष

कामा यथोक्तविधिना भगवन्प्रपन्नाः ।

सा श्रीस्स्ववासमरविन्दवनं विहाय

यत्पादसौभगमलं भजतेऽनुरक्ता ।।

इति भागवतवाक्यं सङ्गृह्णाति । भगवन्निति धर्मं प्रति धरायास्सम्बुद्धिः । अस्मिन्हि श्लोके ब्रह्मादिभ्यो लक्ष्म्या उत्तमत्वं प्रतिपाद्यते । तस्याश्च नारायणस्य । अतश्शम्भुब्रह्मोर्ध्वत्वेनोच्यमानं वैकुण्ठाख्यं धाम लक्ष्म्यात्मक-मेवेति भावः ।। ३६६ ।।

सत्यप्रमोदटीका

 उक्तोत्कृष्टत्वे भागवतं प्रमाणयति ब्रह्मादय इति । ‘यदपाङ्गमोक्षकामा यथोक्तविधिना भगवत्प्रपन्नाः सा श्रीः’ इत्यादिवाक्यशेषः ।। ३६६ ।।

युक्तिमल्लिका

हरेरनुव्रता एव मुक्तास्तत्रापि ते किल ।

सर्वे चतुर्बाहवश्च श्यामकोमलमूर्तयः ।। ३६७ ।।

मणिप्रवेकाभरणा निष्ककण्ठाः सुवर्चसः ।। ३६८ ।।

श्रीवत्सकौस्तुभाभावात्पूर्णशक्त्याद्यभावतः ।

विलक्षणाः परं सर्वेऽप्याकारे सदृशाः किल ।। ३६९ ।।

जगद्व्यापारवर्जं च विना श्रीवत्सकौस्तुभौ ।

इति सूत्रे भागवते चोक्त्या विष्णोर्विलक्षणाः ।। ३७० ।।

सुरोत्तमटीका

 अस्तु वैकुण्ठस्य मायातिदूरत्वं लक्ष्म्यात्मकत्वं च । तथापि प्रकृते किमायातमित्यत आह ।। हरेरिति ।। अनेन

न वर्तते यत्र रजस्तमस्तयोस्सत्वं च मिश्रं न च कालविक्रमः ।

‘‘न यत्र माया किमुता परे हरेरनुव्रता यत्र सुरासुरार्चिताः ।

  श्यामावदाताश्शतपत्रलोचनाः पिशङ्गवस्त्रास्सुरुचस्सुपेशसः ।

  सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणास्सुवर्चसः ।

  प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।

  भ्राजिष्णुभिर्यत्परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।

  विद्योतमानप्रमदोत्तमाभिस्सुविद्युदभ्रावलिभिर्यथा नभः ।

  श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ।।’’

इति भागवतश्लोकानर्थतस्सङ्गृह्णाति ।। ३६७–३७० ।।

सत्यप्रमोदटीका

 मुक्तस्थानवर्णनपरान् अनुव्याख्यानोदाहृतान् भागवतश्लोकानर्थतः सङ्गृह्णाति हरेरित्यादिना ।

न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ।

श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ।

प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।

भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।

विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः ।

श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ।।

असुराः साधवः सन्ति । अवदाताः निर्मलाः । उन्मिषदिति । रश्मिमद्रत्नप्रवरहाराभरणाः इत्यर्थः ।। सारूप्यं न सर्वात्मनेत्याह श्रीवत्सेति । ‘श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं’ इति तद्धारकत्वस्य परमात्मनः स्वरूप-लक्षणत्वोक्तेः ।। विलक्षणाः ‘सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः’ इति । इत्युक्तभगवद्धर्मविलक्षणधर्माः । नित्यम् अतादृशा इत्यर्थः ।। ३६७–३७० ।।

युक्तिमल्लिका

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।

इति गीतासु ये प्रोक्तास्त एते योगिनः किल ।। ३७१ ।।

सुरोत्तमटीका

 एवं च भागवतोक्तं संसारदशायाम् । श्रीवत्सकौस्तुभौ विना विद्यमानैष्षोडशकलाभिर्विमानिभिर्मुक्तदेवैरुपासीनमित्युक्त्या मुक्तस्वरूप-निरूपकसूत्रे मुक्तानां जगत्सृष्ठ्यादिव्यापारशून्यत्वोक्तया चानुभूयमानत्वात् ज्ञानैकसाध्यं शुकवामदेवादीनां जीवन्मुक्तिदशायां च न साधारणान्य-स्वयोग्यबहुतरभगवद्धर्माकारसादृश्याख्यसारूप्यमेव गीतोक्तं साधर्म्यमपि । न तु सर्वधर्मसाधर्म्यमिति भावेनाह ।। इदं ज्ञानमिति ।। एते भागवतोक्ताः । अत एव गीतायामपि सर्वसादृश्यं नेति सूचनाय स्वयोग्यभगवद्धर्मसदृश-धर्मान्तरोपलक्षणतया सर्गप्रलयाभावयोरेव निरूपणम् ।। ३७१ ।।

सत्यप्रमोदटीका

 किञ्चित्साधर्म्यमेवेत्यत्र गीतां संवादयति इदमिति ।। ३७१,३७२ ।।

युक्तिमल्लिका

एवं च जननाभावान्मरणाभावतस्तथा ।

जडदेहाद्यभावाच्च दुःखाभावाच्च सर्वदा ।। ३७२ ।।

ज्ञानानन्दमयाकारा नित्यं च सुखभुक्त्वतः ।

मुक्तिर्विलक्षणा बन्धाज्जीवाः सर्वे द्वयोः समाः ।

त्रिविधाः सन्ति संसारे शुद्धा एव विमुक्तिगाः ।। ३७३ ।।

सुरोत्तमटीका

 एतदेव दर्शयति ।। एवं चेति ।। इदं च चतुर्बाहुत्वा-द्याकाराभरणादिसादृश्यस्याप्युपलक्षणम् । द्वयोर्बन्धमोक्षयोः । इयांस्तु विशेष इत्याह ।। त्रिविधा इति ।। त्रिविधाः मुक्तियोग्यास्तमोयोग्या नित्यसंसारिण-श्चेति । शुद्धाश्शुभजीवाः ।। ३७२,३७३ ।।

सत्यप्रमोदटीका

 योगिन इत्यनेन ज्ञानानन्दमयाकारा इत्येतत्सम्ब-न्ध्यते । स्वरूपानन्दस्याभिव्यक्तिर्मुक्तौ । तदभावो बन्धे इति हेतोर्मुक्ते-र्बन्धाद्वैलक्षण्यमित्याह नित्यमिति । जीवाः मुक्तियोग्याः देवर्षिप्रितृपनरा इति तत्त्वसङ्ख्यानोक्ताः । ‘इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च’ इति कथनेन लब्धमर्थमाह समा इति । उभयेऽपि पञ्चधैवेत्यर्थः । त्रिविधाः इति ‘त्रिविधा जीवसङ्घास्तु देवमानुषदानवा’ इति भगवत्पादोदाहृतभविष्य-त्पर्ववचनात् ।। ३७३ ।।

युक्तिमल्लिका

अश्वो मान्यो गजो मान्यो धेनुर्मान्या दिवौकसाम् ।

वृक्षः कल्पतरुर्मान्यः सर्पो मान्यो हरेः प्रियः ।। ३७४ ।।

सुरोत्तमटीका

 पशुपक्ष्यादियोनीनां हीनयोनित्वं स्वर्गस्थजगत्पूज्यपशु-पक्ष्यादिनिदर्शनेन परिहरन् वैकुण्ठपुरेपि पुरोचिताप्राकृतज्ञानानन्दात्मकनाना-जीवसद्भावमनुभवारूढं करोति ।। अश्व इत्यादिना ।। अश्व उच्चैश्श्रवाः । गज ऐरावतः । धेनुः कामधेनुः । सर्पश्शेषः ।। ३७४ ।।

सत्यप्रमोदटीका

 अत्र रामानुजीया आहुः । ‘स्वरूपतः श्वसूकरत्वं श्लाघ्यमित्यत्र नियामकाभावादि’त्यादि । तत्खण्डयति अश्व इत्यादिभिः । नियामकाभावोऽसिद्धः । ‘पारावतान्यभृतसारसचक्रवाकदात्यूहहंसशुकतित्तिरि-बर्हिणां यः’ इत्यादिना नानाजातीयानां वैकुण्ठे सद्भावस्य भागवते वर्णितत्वात् ‘ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखान्येव’ इति ब्रह्मवैवर्ते, कल्याणतरं रूपं कुरुते इत्यादिश्रुतिषु च तेषां श्लाघ्यत्वस्य वर्णितत्वादित्यभिप्रेत्याह मान्य इति । दिवौकसामित्येतत्प्रत्येकम् अश्व इत्यादिना सम्बन्ध्यते । स्वर्गे विद्यमानाः प्राकृतदेहसम्बन्धवन्तोऽपि यदा श्लाघ्याः किमु तदा अप्राकृतविष्णुलोकस्था इत्याह पूज्यतेति ।। ३७४–३७७ ।।

युक्तिमल्लिका

पक्षी विष्णुरथो मान्यो लोको मान्यो हि योऽर्थ्यते ।

स्त्रियश्चाप्सरसो मान्याः श्वानावपि च नाकिनाम् ।।३७५।।

सुरोत्तमटीका

 लोकः अमरावत्याख्यो लोकः । अर्थ्यते यज्ञादिभिः प्रार्थ्यते ।। ३७५ ।।

युक्तिमल्लिका

मान्यौ किल श्यामनामा शबलाख्यश्च यः श्रुतः ।

भूलोके स्थितपश्वादेः स्वर्गलोके स्थिते यदा ।। ३७६ ।।

सुरोत्तमटीका

 श्रुतः यौतेश्वानौ यमरक्षितारौ चतुरक्षौ पथि रक्षीनृ-चक्षसावित्यादिश्रुतिप्रतिपादितः । स्वर्गलोकस्थिते पश्वादौ।।३७६ ।।

युक्तिमल्लिका

पूज्यता प्राकृतेऽप्यर्थे तदा विष्णोस्त्रिधामसु ।

स्थितानां शुद्धसत्त्वानां ज्ञानानन्दस्वरूपिणाम् ।

श्रुतिस्मृतीतिहासाद्यैः स्तुतानां किं न पूज्यता ।। ३७७ ।।

उत्तरोत्तरवस्तूनामुत्तमोत्तमतोचिता ।

मुकुन्दनगरीस्थानां मुक्ततैव गुणोचिता ।। ३७८ ।।

सुरोत्तमटीका

 यदा श्यामशबलाख्यौ श्वानावपि वैश्वदैविके कर्मण्य-द्यापि गृहस्थैर्देवता पङ्क्तावेव पूज्येते तदा किमु वक्तव्यं स्वर्गस्थयोन्यंतरपूज्यतेति भावेनोक्तं पूज्यता प्राकृतेऽप्यर्थ इति । प्राकृते हीनप्रकृत्यंशनिर्मिते । अर्थे श्वानाख्यार्थे

।। ३७७,३७८ ।।

युक्तिमल्लिका

दिव्या दिव्यतटाकेषु दिव्या दिव्यवनेषु च ।

दिव्या दिव्यनगर्यां च दिव्यज्ञानसुखात्मकाः ।। ३७९ ।।

मत्स्याद्या मृगपक्ष्याद्या हस्त्यश्वरथपूर्वकाः ।

अर्थास्तत्तदलङ्कारमत्स्यकूर्मादिरूपिणः ।

विष्णोराकृतिवत्स्वस्थाः सन्ति चेत्सन्तु किं तव ।।३८०।।

सुरोत्तमटीका

 तत्तदलङ्कारास्तत्तद्वनसरोवराद्यलङ्काराः । मत्स्य-कूर्मादिरूपिणो मत्स्यकूर्माद्यवतारवतः ।। ३७९,३८० ।।

सत्यप्रमोदटीका

 विष्णोराकृतिवत् । मत्स्यादिरूपवत् । तत्र हेतुः दिव्यज्ञानसुखात्मका इति । अप्राकृतत्वमात्रे दृष्टान्तः ।। ३८० ।।

युक्तिमल्लिका

श्रुत्या स्मृत्या च या वर्ण्या सा शून्या पूर्न वैष्णवी ।। ३८१ ।।

सुरोत्तमटीका

 पूः पुरी । वनोपवनसरोवरगृहगोपुराद्याक्रान्तवैकुण्ठ-नगरीति श्रुतिपुराणादौ प्रसिद्धम् । एतादृशी च नगरी तत्तदुचितसकलवस्तुभिः परिपूर्णैव भवेत् । अन्यथा शून्यनगरीत्वप्रसङ्गात् । तानि च वस्तूनि । मत्स्य-कूर्मवराहशिंशुमारादिरूपिणो हरेस्सकलजगत्पूज्यचिदानन्दमयदिव्याकार-वज्ज्ञानानन्दमयदिव्यरूपाणि चेति का हानिरिति भावः ।। ३८१ ।।

सत्यप्रमोदटीका

 श्रुत्या ॐ सङ्कल्पादेव तु तच्छ्रुतेः इति सूत्रोपात्तया स्मृत्या ‘अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु’ ‘तद्धाम परमं मम’ इत्यादि-कया ।। ३८१ ।।

युक्तिमल्लिका

पूर्णा पुरोचितैः सत्त्वैः सुपुरत्वाद्धरेः पुरी ।

यथा संप्रतिपन्नेति किं न स्यादनुमा मम ।। ३८२ ।।

सुरोत्तमटीका

 उक्तार्थेऽनुमानानि रचयति ।। पूर्णेत्यादिना ।। सम्प्रति-पन्ना अमरावती । शून्यपुरव्यवच्छेदाय सुपुरत्वादित्युक्तम् ।। दिव्यपुर्यां परमशोभनवस्तुलाभाय पुरोचितैरित्युक्तम् ।। ३८२ ।।

सत्यप्रमोदटीका

 हरेः पुरी वैकुण्ठस्था अयोध्या । पूर्णा गन्धमाल्या-दिभिः सङ्कल्पमात्रोपस्थितैः । सत्त्वैः मुक्तपशुपक्ष्यादिभिः । संप्रतिपन्ना रामचन्द्रेण परिपाल्यमाना अयोध्या । सुपुरत्वात् प्रत्यक्षेण परमात्म-नाऽधिष्ठितत्वात् । न च दृष्टान्तः साध्यविकलः । अयोध्यास्थानां गर्दभ-पिपीलिकादीनामपि सन्निहितनिश्चितमुक्तिपदत्वात् इति तात्पर्यनिर्णयोक्तेः

।। ३८२ ।।

युक्तिमल्लिका

स सत्त्वराशिर्मुक्तत्वव्याकोपस्य न कारकः ।

प्रकृष्टत्वाद्यथा विष्णोर्मत्स्याद्या व्यक्तिराशयः ।। ३८३ ।।

सुरोत्तमटीका

 सः वैकुण्ठपुर्यां विद्यमानः । सत्वराशिः प्राणिसमूहः ।। ३८३ ।।

सत्यप्रमोदटीका

 सः मुक्तौ विद्यमानः । सत्त्वराशिः पिपीलि-काऽऽदिः । मुक्तत्वव्याकोपस्य न कारकः । प्रकृतिबन्धरहिता एवेति यावत् । तदुक्तं तत्रैव ‘ते जरामृतिहीनाश्च सर्वदुःखविवर्जिताः । संसारमुक्ता न्यवसंस्तत्र नित्यसुखाधिकाः’ । यथा विष्णोरिति । सर्वत्र अधिकदृष्टान्तः इति । निर्दुःखत्वादिनैव साम्यम् ।। ३८३ ।।

युक्तिमल्लिका

प्रकृष्टश्च स संसारदूरत्वात्तद्वदेव हि ।

दुःखमेव हि संसारे ततः क्वानुपपन्नता ।

तच्च मायात्ययस्थानस्थत्वात्तद्वत्प्रसिद्ध्यति ।। ३८४ ।।

सुरोत्तमटीका

 सः सत्वसमूहः । तद्वत् भगवदवतारराशिवत् । ततो दुःखरूपसंसाराभावात् । तद्दुःखाख्यसंसारदूरत्वम् । मायात्ययस्थानस्थत्वा-न्मायात्यन्ताभावस्थाने वैकुण्ठे स्थितत्वात् । विरजानद्यां जीवबन्धकलिङ्ग-शरीरादिसंसारध्वंसनियमेन मायाध्वंसोचितस्थानस्थितत्वाद्वा । तद्वद्वैकुण्ठस्थ-भगवद्रूपवत् ।। ३८४ ।।

सत्यप्रमोदटीका

 साम्यमेव विशदयति संसारदूरत्वादिति । अविवक्षितविशेषसंसारसंसर्गाभाववत्त्वात् । अभावश्च दृष्टान्ते अत्यन्ताभावः । पक्षे ध्वंसः । तच्च संसारदूरत्वम् । स्थानस्थत्वादिति । अत्रापि पूर्ववद्वि-वेक्तव्यम् । परमात्मनः नित्यं स्थितिः । मुक्तानां तु मुक्त्यनन्तरमिति ।।३८४।।

युक्तिमल्लिका

भिन्ना मिथः परेशाच्च मुक्ता विसदृशत्वतः ।

सत्त्वराशिर्यथाऽत्रत्यो यथा वा राजतद्भटौ ।। ३८५ ।।

सुरोत्तमटीका

 विसदृशत्वहेतुना वैकुण्ठस्थपशुपक्ष्यादिजीवानां परस्पर-भेदसाधनेऽत्रत्यस्सत्वराशिर्दृष्टान्तः । तेनैव हेतुना तत्रापि जीवपरयोर्भेदसाधने राजतद्भटौ दृष्टान्ताविति विवेकः । वैकुण्ठस्थानामेकजातीयानां मृगमीन-मनुष्यादीनामन्योन्यसमानाकाराणां बाह्यवैसादृश्याभावेऽपि स्वस्वरूपानन्दस्य स्वेन स्वेनैवानुभूयमानत्वलक्षणान्तरवैसादृश्यात्तेषामपि परस्परं भेदोऽनुमातव्यः ।। ३८५ ।।

सत्यप्रमोदटीका

 यथाऽत्रत्यः श्रीरामाधिष्ठितायोध्यास्थः । ‘गुणैश्च सर्वैरुदिताश्च सर्वे यथा यथा योग्यतयोच्चनीचाः’ इति निर्णयोक्तेः ।। ३८५ ।।

युक्तिमल्लिका

प्रकृष्टसत्त्वराशित्वादित्याह स्मृतिरेव यत् ।

प्रकृष्टः सत्वराशिश्च यस्यासौ हि तथाऽभिधः ।। ३८६ ।।

तत्कुतर्ककुवाक्येभ्यो न बिभ्यत्यनुमा इमाः ।

अतोऽनुमानमालेयं तामलङ्कुरुते पुरीम् ।। ३८७ ।।

सुरोत्तमटीका

 तद्वैकुण्ठस्थसत्वराशीनां प्रकृष्टत्वस्योक्तपञ्चरात्रवाक्येनैव सिद्धत्वात् । विमतस्सत्वराशिः प्राकृतो भवितुमर्हति सत्वराशित्वात्सांसारिक-सत्वराशिवदित्यादिकुतर्केभ्यो ब्रह्मातिरिक्तं किमपि नास्तीत्यादिकुत्सितवादि वाक्येभ्यश्च । ‘‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यत’’ इति भारतोक्त्या पञ्चरात्रस्य सर्वप्रमाणज्येष्ठत्वेन तदुक्तार्थस्य त्यागायोगादिति भावः ।। ३८६,३८७ ।।

सत्यप्रमोदटीका

 स्मृतिः पञ्चरात्रम् ।। माला आगमानुग्रहसौरभसमृद्धा ।। ३८६,३८७ ।।

युक्तिमल्लिका

श्रीरेव लोकरूपेण विष्णोस्तिष्ठति सर्वदा ।

अतो हि वैष्णवा लोका नित्यास्ते चेतना अपि ।। ३८८ ।।

सुरोत्तमटीका

 उक्तेऽर्थे स्पष्टं प्रमाणान्तरवचनद्वयमप्याह ।। श्रीरेवेति ।। अतश्श्रीरूपत्वात् । वैष्णवलोका विष्णुसम्बन्धित्वेन प्रसिद्धा वैकुण्ठानन्तासन-श्वेतद्वीपाख्यलोकाः । त्रिधामेति हि भगवतः पुण्यनाम ।। ३८८ ।।

सत्यप्रमोदटीका

 व्यत्ययः कर्मवेगेन अन्यथारूपम् । मुक्ताविति । ‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिरि’ति लक्षणवत्यामित्यर्थः ।। ३८८,३८९ ।।