श्रुतबाधितसंत्यागे भाष्यं दुर्भाष्यमेव ते
उभयतः पाशारज्जवः
युक्तिमल्लिका
श्रुतबाधितसंत्यागे भाष्यं दुर्भाष्यमेव ते ।
श्रुतबाधितसंवादे भाष्यं दुर्भाष्यमेव ते ।। ५९८ ।।
सुरोत्तमटीका
एवञ्चोभयतः पाशारज्जुः परस्य गलं बध्नातीत्याह ।। श्रुतबाधितेति ।। श्रुतबाधितसन्त्यागे श्रुतस्याऽपाततः श्रुत्यर्थतया प्रतीतस्य बाधितस्य प्रत्यक्षादि प्रमाणबाधितस्य चार्थस्य सन्त्यागे । ईदृशैक्यमिथ्यात्वा-देरेव त्याज्यत्वप्रसङ्गेन तत्प्रतिपादकभाष्यं दुर्भाष्यं स्यादित्यर्थः । श्रुतबाधित-संवादे आपाततश्श्रुतस्य बाधितस्य चार्थस्य संवादेंऽगीकारे । भाष्यम् आकाशाद्यधिकरणार्थप्रतिपादकभाष्यम् । तत्र श्रुतबाधित सन्त्यागस्यैव त्वयापि वाच्यत्वात् । एवञ्चोभयतः पाशारज्जुरिति भावः ।। ५९८ ।।
सत्यप्रमोदटीका
एकादशभिः श्लोकैः उभयतः पाशारज्जुभिः परं बध्नाति श्रुतेत्यादिना । श्रुतं आपाततः ऐक्यमिथ्यात्वादिकं तच्च तद् बाधितं च सकलप्रमाणैः । तादृशस्यार्थस्य संत्यागे सर्वसिद्धान्तहान्यापत्त्या भाष्यं दुर्भाष्यमेव । तादृशस्यार्थस्य संवादे स्वीकारे मीमांसाया एव नैरर्थक्येन भाष्यं पुनर्दुर्भाष्यमेव ।। ५९८ ।।
युक्तिमल्लिका
यदीश्वरोऽसमर्थस्स्यात्कथं सर्वं जगद् भवेत् ।
यदीश्वरस्समर्थस्स्यात्कथं सर्वं जगद् भवेत् ।। ५९९ ।।
सुरोत्तमटीका
बहुपाशबद्धगलत्वे परस्य मूकतैव स्यादित्याशयेन बह्वीरुभयतःपाशारज्जूराह ।। यदीश्वर इत्यादिना ।। सर्वं महदादिकम् । भवेत् उत्पद्येत । महासामर्थ्याभावे ईश्वरस्य महीमहीधरादिजगत्कर्तृत्वायोगात् । कर्तुरभावे च कार्यायोगादिति भावः । द्वितीययोजनिकायां तर्हि स ईश्वरः सर्वं ब्रह्मादिसकल चेतनाचेतनात्मकं जगत् कथं भवेत् । तदभिन्नः कथं स्या-दित्यर्थः । समर्थासमर्थयोश्च राजराष्ट्रयोरिवैक्यायोगादिति भावः ।। ५९९ ।।
सत्यप्रमोदटीका
कथं तस्मादिति पूरणीयम् । असमर्थस्य स्रष्टृत्वा-योगात् अन्यस्य च कर्तुरभावात् तदभावे च कार्यजगदुत्पत्त्यनुपपत्तेः । द्वितीययोजनिकायां समर्थः जगदिति सामानाधिकरण्यम् । निर्विकारस्य समर्थस्य सतः स्वेच्छया जगदात्मना भवनासम्भवात् । ‘सच्च त्यच्चाभवत्’ इति तु अन्तर्यामिबहुरूपभवनार्थकमेवेति हृदयम् ।। ५९९ ।।
युक्तिमल्लिका
यदीश्वरो महेशस्स्यादनीशत्वं कथं भजेत् ।
यदीश्वरोऽप्यनीशस्स्यादनीशत्वं कथं भजेः ।। ६०० ।।
सुरोत्तमटीका
महेशस्सर्वेश्वरः । अनीशत्वं नीचजीवत्वम् । भजेत् अङ्गीकुर्यात् । उच्चपदवीपरित्यागेन नीचपदवीस्वीकारस्य क्वाप्यदर्शना-दितिभावः । द्वितीय योजनिकायाम् । अनीश हे नीचजीव । त्वं त्वद्वदनी-शन्तं कथम् भजेः । श्रवणमननाद्युपासनया पूजयेरित्यर्थः । समानयोगक्षेम-योस्सेव्यसेवकभावायोगादिति भावः ।। ६०० ।।
सत्यप्रमोदटीका
अनीशत्वं नीचजीवैक्यम् । कथं भजेरिति । अनीश-भजनेन प्रयोजनाभावात् ।। ६०० ।।
युक्तिमल्लिका
यदि सत्या हरेर्धर्माः कथमैक्यं न बाधितम् ।
यद्यसत्याहरेर्धर्माः कथमैक्यं न बाधितम् ।। ६०१ ।।
सुरोत्तमटीका
ननु भगवन्निष्ठविरुद्धमहेशत्वादिधर्माणां मिथ्यात्वादैक्यं घटत इत्याशङ्कानिरासायाह ।। यदि सत्या इति ।। धर्माः महासामर्थ्यमहेशत्व सार्वज्ञादयः । भगवन्निष्ठविरुद्धधर्माणामबाधितत्वे ऐक्यबाधावश्यंभावादिति भावः । द्वितीययोजनिकायां हरिधर्माणां बाधितत्वे सर्वज्ञस्य भावस्सार्वज्ञ्य-मितिवत् एकस्य भाव ऐक्यमिति व्युत्पत्तेस्साम्येन तन्निष्ठ जीवैक्यस्यापि हरिधर्मत्वाविशेषात् त्वद्रीत्या भावरूपधर्मनिषेधकत्वाभिमत निर्गुणश्रुतेरैक्येऽपि बाधकत्वाविशेषात्कथमैक्यं न बाधितमित्यर्थः
।। ६०१ ।।
सत्यप्रमोदटीका
सत्या इति । सत्यविरुद्धधर्माधिकरणयोरैक्यायोगात् । असत्या इति ऐक्यस्यापि धर्मत्वाविशेषेण बाधावश्यम्भावात्।।६०१ ।।
युक्तिमल्लिका
अभेदान्नैक्यबाधश्चेत्कथं धर्मस्य बाधनम् ।
अभिन्नधर्मबाधश्चेत्कथं धर्मस्य बाधनम् ।। ६०२ ।।
सुरोत्तमटीका
ननु निर्गुणश्रुत्या भिन्नभावरूपधर्ममात्रनिषेधेनैक्यस्य चाभेदाङ्गीकारात्कथं बाधनमित्याशंक्य तर्हि सार्वज्ञादिधर्माणामपि । नेह-नानास्ति किञ्चन । एवं धर्मान्पृथक्पश्यन्नित्यादिश्रुत्याऽभेदाङ्गीकारात्समं समाधानमित्याह ।। अभेदादिति ।। धर्मस्य सार्वज्ञादिधर्मस्य । जात्येक-वचनम् । अभिन्नधर्मबाधश्चेत् । अभिन्नानामपि सार्वज्ञादिधर्माणां बाधोऽङ्गी-क्रियते चेत् । अत्रापि तदेवोत्तरमित्याह ।। कथं धर्मस्येति ।। धर्मस्य सार्वज्ञादिधर्मस्यैव । सर्वं वाक्यं सावधारणमिति न्यायात्कथं बाधनम् । किन्तु त्वदैक्यस्यापि बाधनं स्यादित्यर्थः । अभिन्नधर्मबाधाङ्गीकारेऽभिन्नधर्मत्वा-विशेषात्सार्वज्ञ्यवद्भवदैक्यं च बाधितं स्यादिति भावः । अथवा कथं धर्मस्यैव बाधनम् । अभिन्नयोरेक बाधेऽपरबाधस्याप्यावश्यकत्वेन बाधितधर्माभिन्न-धर्मिभूतब्रह्मणोऽपि बाधनं स्यादित्यर्थः ।। ६०२ ।।
सत्यप्रमोदटीका
ऐक्यवदेव धर्मत्वाविशेषात् सार्वज्ञादीनां बाधाभावः तत एव ब्रह्मस्वरूपत्वं चाङ्गीकर्तव्यम् । अन्यथा औतहान्यापत्तेः । ऐक्यस्य ब्रह्मस्वरूपत्वं च ‘एकधाऽनुद्रष्टव्यमि’ति श्रुत्यर्थतया परेणोररीकृतम् । एवमपि ऐक्यवदेव ब्रह्माभिन्नत्वेऽपि सार्वज्ञादिधर्माणां बाधाङ्गीकारेऽतिप्रसङ्गमाह अभिन्नेति । धर्मस्य एवेत्युपस्कर्तव्यम् । किन्तु धर्मिणो ब्रह्मणोऽपि बाधः स्यात् इत्याशयः
।। ६०२ ।।
युक्तिमल्लिका
अभेदान्न गुणाश्चेत्स्युः कथमैक्यं भवेत्तव ।
अभेदेऽपि गुणाश्चेत्स्युः कथमैक्यं भवेत्तव ।। ६०३ ।।
सुरोत्तमटीका
अभेदात्सार्वज्ञ्यादिगुणानां ब्रह्माभेदाङ्गीकारात् । गुणाः सार्वज्ञादिगुणाः । न स्युः न स्युरेव । अभेदाङ्गीकारे एकतरमात्रपरिशेषा-वश्यम्भावेन गुणानामभाव एव स्यादिति चेदित्यर्थः । उत्तरमाह ।। कथमैक्य-मिति ।। अभेदे एकतरमात्र परिशेषप्रसङ्गेन ब्रह्मैवास्ति नापरमिति न्यायस्य ब्रह्माभिन्नतयाऽङ्गीकृते त्वदैक्येऽपि साम्येन तवैक्यं कथं भवेदित्यर्थः । अथवा गुणाः गुणभूताः धर्मभूता इत्यर्थः । न स्युः । अभिन्नयोर्धर्मधर्मिभावः कथं स्यादित्यर्थः । तर्हि तवैक्यमपि कथं स्यात् । हरेस्सार्वज्ञमितिवद्धरेरैक्यमित्य-बाधितधर्मधर्मिभावव्यवहारस्योभयत्र साम्याद्धर्मभूतमैक्यमपि कथं स्यादित्यर्थः । धर्मतया सार्वजनीनव्यवहार विषयस्यापि धर्मत्वाभावे रूपरसादीनामपि धर्मत्वाभावप्रसङ्ग इति भावः । उपलक्षणं चैतत् । अत्यन्तं भेदाभावेऽभेदेपि धर्मधर्मिभावाख्यविशेषाभावे च घटकलशादिशब्दवद्ब्रह्मैक्यादिशब्दानामपि पर्यायत्वप्रसङ्ग इत्यपि द्रष्टव्यम्
।। ६०३ ।।
सत्यप्रमोदटीका
जीवब्रह्मैक्यवदेव स्वरूपयोः सापेक्षत्वनिरपेक्षत्वे क्वचित्प्रतीतत्वाप्रतीतत्वे अस्येदमिति सम्बन्धितयाऽवभासोऽपर्यायशब्दवाच्यत्वं इत्यादिवैचित्र्यं द्रष्टव्यं’ इति वादावल्युक्तं समाधिमभिधास्यन्नाक्षिपति अभेदादिति । गुणाश्चेन्न स्युरिति । ‘ब्रह्मण आनन्द’ इत्यादिधर्मधर्मिभाव-सम्बन्धावभासापर्यायशब्दवाच्यत्वादयो न स्युरिति भावः । परिहरति कथ-मिति । ब्रह्मण ऐक्यमिति सम्बन्धावभासादीनां ऐक्येऽपि सत्त्वात्तत्रापि त्वदुक्तानुपपत्तयः प्रसरन्त्येवेति भावः । कस्तर्हि परिहार इत्यतः मन्मते विशेषाङ्गीकारेण स सुलभ इत्याह अभेदेपि । मन्मत इति शेषः । त्वन्मते तु उक्तानुपपत्तयो वज्रलेपायिता इत्याह तवेति । निर्विशेषवादिन इत्याशयः ।। ६०३ ।।
युक्तिमल्लिका
श्रुत्युक्तं यदि तत्त्वं स्यादद्वैतस्य न तत्त्वता ।
श्रुत्युक्तं यद्यतत्त्वं स्यादद्वैतस्य न तत्त्वता ।। ६०४ ।।
सुरोत्तमटीका
पूर्वमैक्यस्यापि ब्रह्मधर्मत्वेन तत्समानयोगक्षेमत्वान्न सार्वज्ञादिधर्माणां मिथ्यात्वम् । एवञ्च विरुद्धधर्माक्रान्तयोर्न कदाप्यैक्यमिति प्रतिबन्द्या समर्थितम् । इदानीं श्रुतिसिद्धत्वाच्च न सार्वज्ञादिधर्ममिथ्यात्वम् । अतश्च नैक्यमित्यपि तत्प्रतिबन्द्यैव समर्थयते ।। श्रुत्युक्तमिति ।। श्रुत्युक्तं सर्वं यदि तत्वं स्यात्तदा श्रुत्युक्तसार्वज्ञादीनामपि तत्वताया अवर्जनीयत्वात् विरुद्ध धर्माक्रान्तयोर्ब्रह्मजीवयोरद्वैतस्य न तत्वता । श्रुत्युक्तं सर्वं यद्यतत्वं स्यात्तदाऽद्वैतस्यापि श्रुत्युक्तत्वाविशेषाद्धर्मबाधकत्वेनाभिमतनिर्गुण श्रुतेरुक्त-रीत्योभयत्र साम्याच्छत्युक्तत्वाविशेषेण निर्गुणत्वस्याप्यतत्वता साम्याच्चाद्वैतस्य न तत्वतेति योजना । श्रुत्युक्तं यत्किञ्चिद्यदि तत्वं स्यात्तदा श्रुत्युक्तत्वा-विशेषादुक्तरीत्याबाधक विशेषाभावाच्च सार्वज्ञादीनामपि तत्वताऽपरिहाराद-द्वैतस्य न तत्वता । श्रुत्युक्तं यत्किञ्चिद्यद्यतत्वं स्यात्तदा श्रुत्युक्तत्वाविशेषा-द्बाधकत्वेनाभिमतस्योभयत्र साम्याच्चाद्वैतस्य न तत्वतेति वा योजना ।।६०४।।
सत्यप्रमोदटीका
किञ्च श्रुत्युक्तं तत्त्वं न वा । आद्ये आह औतस्येति । द्वा सुपर्णेत्यादि निरवकाशसुबहुश्रुतिबाधितत्वादिति भावः । द्वितीय आह औतेति । प्रमाणविषयो हि तत्त्वम् । औपनिषदस्य ब्रह्मणस्तदैक्यस्य च प्रमाणान्तरेण न तावत्सिद्धिः सम्भाविनी । अतः श्रुत्यैव तत्सिद्धिरेष्टव्या । तदुक्तमपि चेदतत्त्वं इति उच्येत तर्हि निष्प्रमाणकत्वादद्वैतस्य अतत्त्वतैवेति भावः।।६०४ ।।
युक्तिमल्लिका
यदि ज्ञानं हरेस्सत्स्यान्न ज्ञाता ज्ञानवानसौ ।
यदि ज्ञानं हरेर्न स्यान्न ज्ञाता ज्ञानवानसौ ।। ६०५ ।।
सुरोत्तमटीका
इदानीं पराभिमताज्ञानखण्डनायोभयतः पाशारज्जुमाह ।। = हरेर्ज्ञानं यदि सत्यं स्यात्तदा तज्ज्ञानस्य सर्वविषयत्वेन ज्ञातेषु सर्वपदार्थेषु पुनरज्ञानवान्न । यद्भातं न तदज्ञातमिति वदता त्वयापि ज्ञातेऽज्ञानानङ्गी-कारात् । हरौ किञ्चिज्ज्ञानसद्भावे तस्य सर्वविषयत्वापरिहारेण प्रथमपक्षाबहि-र्भावात् । ज्ञानमेव नास्तीति द्वितीययोजनिकायां ज्ञातम् । प्रातीतिकं प्रतीति-समसमयवर्तीति यावत् । यदज्ञानन्तद्वानित्यर्थः । सर्वथा हरेर्ज्ञानाभावेऽज्ञान-प्रतीतेरेव तस्मिन्नयोगादिति भावः ।। ६०५ ।।
सत्यप्रमोदटीका
परमतेऽज्ञानसम्भवमाह यदीति । समानाश्रयविषयक-योर्ज्ञानाज्ञानयोर्विरोधात् ब्रह्मणश्च सर्वज्ञंत्वात् सर्वस्यापि तेन ज्ञातत्वेन कुत्रापि विषये तस्याज्ञानं न घटते इति भावः । तदुक्तं ‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चने’ति । अथैतद्दोषपरिजिहीर्षया ब्रह्मणो ज्ञानं नाङ्गीक्रियते तर्हि तस्या-साधकत्वापत्त्या अज्ञानसिद्धिः न स्यात् । तन्मते साक्षिणो ब्रह्मण एव अज्ञानसाधकत्वात् । तथा हि तद्वचनं ‘आश्रयत्वविषयत्व भागिनी निर्विशेष-चितिरेव केवला’ इत्यादि । ज्ञानं ज्ञानविषयः अज्ञानं तद्वान् नेत्यर्थः ।। ६०५ ।।
युक्तिमल्लिका
यदि ज्ञानेऽपि चाज्ञानं न संसारो हरेरयम् ।
यदि ज्ञानेन चाज्ञानं न संसारो हरेरयम् ।। ६०६ ।।
सुरोत्तमटीका
पूर्वं यद्भातं न तदज्ञातमिति तत्प्रक्रियामनुरुध्योभयतः पाशारज्जुरुक्ता । इदानीं तत्प्रक्रियाननुसरणेनाप्युभयतः पाशारज्जुमाह ।। यदि ज्ञाने इति ।। ज्ञाने सत्येवाज्ञानं यदि हरावङ्गीक्रियते तर्ह्यनवच्छिन्नस्व स्वरूपानन्दानुभवस्याप्यविरोधेनायमानन्दानुभवादीनामविरोध्यज्ञानसम्बन्धः हरेस्संसारो न । समव्याप्तप्रकृतिसम्बन्धवत् जडसम्बन्धमात्रत्वाददोष इति भावः । द्वितीययोजनिकायान्तु सर्वज्ञे हरावज्ञानस्यैवायोगादज्ञानसम्बन्ध एव नाभूदित्यर्थः
।। ६०६ ।।
सत्यप्रमोदटीका
अथ सर्वज्ञस्याप्यज्ञानं सर्वज्ञत्वाविरोध्येव किञ्चि-दङ्गीक्रियते चेत् काममङ्गीक्रियतां तथा सति तस्य पारिभाषिकत्वापत्त्या हरेः संसारानापादकत्वादित्याह यदीति । अयं वास्तवाज्ञानकार्यो दुःखाद्यनु-भवरूपः । अज्ञानस्य ज्ञानविरोधित्वपक्षे आह यदीति । सर्वज्ञे हरौ तथाविधस्य संसारकारणस्याज्ञानस्यासम्भवादेव न संसार इति भावः ।।६०६।।
युक्तिमल्लिका
यदीश्वरो जगद्व्यापी कथमैक्यं न बाधितम् ।
यदीश्वरो न तद्व्यापी कथमैक्यं न बाधितम् ।। ६०७ ।।
सुरोत्तमटीका
सिंहावलोकनन्यायेन पुनरप्यैक्यखण्डनायोभयतः पाशा-रज्जुमाह ।। यदीश्वर इति ।। व्यापकस्य हरेरणुना जीवेनैक्यायोगादिति भावः द्वितीययोजनिकायान्तु अव्यापकस्य हरेर्वैकुण्ठैकदेशमात्रवर्तित्वेन वैकुण्ठाति-दूरस्थितभूलोकगतस्य त्वदादेर्जीवस्यैक्यं कथं न बाधितम् । अणूनामपि जीवानां पुञ्जीभूयजगद्व्यापित्वात् तैस्सर्वैःकथमैक्यं न बाधितम् । वैकुण्ठा-परभागस्थितमुक्तजीवैश्च कथमैक्यं न बाधितमिति भावः ।। ६०७ ।।
सत्यप्रमोदटीका
आद्ययोजनिकायां ऐक्यमित्यनन्तरं अणुभिः जीवै-रित्युपस्कर्तव्यम् । विरुद्धधर्माधिकरणत्वेन भेदस्यैव प्रमितत्वादैक्यं बाधित-मेवेति भावः । द्वितीययोजनिकायां, न जगद्व्यापी किन्तु वैकुण्ठैकदेशभाग एव स्थितो यदीत्यर्थः । ऐक्यमित्यनन्तरं भिन्नदेशस्थितैर्जीवैरिति शेषः । न च वैकुण्ठ एव स्थितैर्मुक्तैस्तर्हि ऐक्यमस्त्विति वाच्यम् । तत्रापि भुवनैक-पतेर्भवनस्य भिन्नभागदेश एव सत्त्वादिति भावः ।। ६०७ ।।
युक्तिमल्लिका
ऋजुमार्गे गतोऽप्यन्धो घट्टकुट््यां निषीदति ।
वक्रमार्गे गतोऽप्यन्धो घट्टकुट््यां निषीदति ।। ६०८ ।।
गतेऽपि पृष्ठतोगत्वा कपोले ताडयेद्बली ।
आगतस्यापि मन्दस्य कपोले ताडयेद्बली ।
पक्षद्वयेऽप्येकदोषप्रसञ्जनमपीदृषम् ।। ६०९ ।।
सुरोत्तमटीका
ननु पक्षद्वयेऽप्येकेनैव दूषणेन कथं परस्य पात इत्या-शङ्कायां तस्य दौर्बल्यादस्माकं प्राबल्याच्चेति वक्तुं तदुपयुक्तां नीतिं सार्ध-पद्यद्वयेनाह ।। ऋजुमार्ग इति ।। घट्टकुठ््या्ं घट्टस्य विषमप्रदेशस्थितगेहे । शौल्किकगृह इत्यर्थः । अन्धत्वदोषेण यथा मार्गद्वयगमनेऽप्येकस्थले बला-त्प्रवेशस्तथा परस्य युक्त्यन्धतया पक्षद्वयेऽप्येकदूषणभागित्वमिति भावः । द्वितीयपद्ये तु भावस्स्पष्ट एव ।। ६०८,६०९ ।।
सत्यप्रमोदटीका
मायाया अनुपपत्तिरलङ्कार इति स्वीकृत्य स्वमतस्य दुष्टतां स्वयमेव ब्रुवाणस्य मायिनः सर्वत्राप्येवं उभयतः पाशारज्जवो दुष्परिहरा इत्येतल्लौकिकदृष्टान्तोक्तिपुरस्सरमाह ऋज्विति ।। ६०८,६०९ ।।