प्रागुक्तज्ञानतामात्रं सर्वज्ञत्वेन यत्ततः
आनन्दमयाधिकरणार्थः परभाष्यस्योत्सूत्रत्वम्
युक्तिमल्लिका
प्रागुक्तज्ञानतामात्रं सर्वज्ञत्वेन यत्ततः ।
न चेद्घटादिवृत्तेश्च ज्ञानत्वात्स्यादलक्षणम् ।। ४४ ।।
सुरोत्तमटीका
ततः एवं स्वयमेव व्याख्यानात् । प्रागुक्तज्ञानतामात्रं ज्ञानमित्यत्रोक्त ज्ञानत्वमात्रमित्यर्थः । सर्वज्ञत्वेऽनयत्नीतवती । पूर्वोक्त-ज्ञानत्वमेव सर्वज्ञत्वं यथा भवति तथाकरोदिति भावः । एवं व्याख्यानाकरणे को दोष इत्यत आह ।। नचेदिति ।। ४४ ।।
सत्यप्रमोदटीका
‘मनु अवबोधने’ इति धातोर्भावे असुन्प्रत्यये विहिते मन इति ज्ञानमिति चैकार्थता भवति । अत्र ज्ञानं ब्रह्मेति लक्षणेऽभिहिते सकलचेतनसाधारण्यादलक्षणमेतदित्याशङ्कायां नावबोधमात्रं ज्ञानमिह विवक्षितम् । किन्तु सकलपदार्थसामान्यविशेषविषयकमित्यतो नातिव्याप्ति-रि’ति सुधोक्तिमनुरुध्याह यत इत्यादिभिस्त्रिभिः । ज्ञानशब्दस्य वेत्तृत्वार्थत्वा-द्वृत्तिज्ञानेऽतिव्याप्तिशङ्काऽनवकाश इत्याह न चेदिति ।। ४२-४४ ।।
युक्तिमल्लिका
सृष्ट्युक्त्याप्राप्तसार्वज्ञलक्षणस्येदमीरणम् ।। ४५ ।।
सुरोत्तमटीका
ननु सूत्रोक्तजन्मादि हेतुत्वाख्य लक्षणेषु अस्याभावात् कुतश्श्रुतिरिदं लक्षणमुदाजहारेत्यत आह ।। सृष्टीति ।। सृष्ट्युक्तया सकल-जगत्सृष्ट्युक्तया । सकलजगत्स्रष्टृत्वादिनाऽर्थात्प्राप्तं यद्भगवतस्सार्वज्ञ्यन्त देवलक्षणं तस्येरणं कथनम् । सर्वज्ञत्वात्तस्यैव जगत्स्रष्टृत्वादिकं नान्यस्येति स्वोक्तलक्षणस्थिरीकरणाय प्रकरणद्वयेन सार्वज्ञ्यं वर्णितवतीति भावः ।।४५।।
सत्यप्रमोदटीका
जन्माद्यष्टके विज्ञानस्यापरिगणितत्वशङ्कां निराह सृष्टीति । तदुक्तं कर्मनिर्णये ‘बुद्धिपूर्वकं सर्वकर्तृत्वात्सर्वज्ञत्वादयो गुणा उक्ता’ इति । तट्टीकायां च ‘कर्तृत्वं च कार्यकारकक्रियाफलाभिज्ञानतदिच्छा-प्रयत्नपूर्वकः स्पन्दः । ततः सर्वकर्तेत्युक्ते सर्वज्ञः’ सत्यकामः सत्यसङ्कल्पः समस्तशक्तिसमन्वित एवोक्तो भवतीति कथं नानेन ब्रह्मणः सगुणत्व-सिद्धिरि’ति ।। ४५ ।।
युक्तिमल्लिका
आनन्दमयवाचाऽन्ते स्वोक्तानन्तत्वमेव सा ।
जगौ किल तदानन्त्यमानन्दादिगुणैर्न किम् ।। ४६ ।।
सुरोत्तमटीका
आनन्दमय प्रकरणेन मन्त्रवर्णान्तोक्तानन्तत्वाख्यलक्षणं प्रपञ्चयतीत्याह ।। आनन्दमयेत्यादिना ।। अन्ते मन्त्रवर्णव्याख्यानान्ते । सा श्रुतिः । तत्तस्मादानन्दमयप्रकरणेन प्रपञ्चनात् । आनन्दं प्रागुक्तं आनन्त्यमिति वा । आनन्दादि गुणैर्न किं भवत्येव । अन्ते प्रोक्तानन्तत्व लक्षण-स्यान्तिमेनानन्दमयप्रकरणेन प्रपञ्चनात् आनन्दादि गुणपूर्णत्वमेवानन्तत्वं न परोदीरितसकलवस्त्वैक्यम् । उक्तप्रपञ्चन प्रकरणासङ्गतत्वात् । प्रत्युत स इदं सर्वमसृजत तत्सृष्ट्वातदेवानुप्राविशत् । तदनुप्रविश्येति स्वसृष्टजगदनुप्रवेशस्यैव कथनेनोत्तरविरुद्धत्वाच्चेति भावः ।। ४६ ।।
सत्यप्रमोदटीका
मन्त्रवर्णे अन्ते प्रोक्तस्यानन्तत्वलक्षणस्यैव विवरणं आनन्दमयप्रकरणेनान्तिमेनेति सुस्पष्टमेवेत्याह किलेति । अतोऽनन्तशब्दस्य गुणतः अपरिच्छेद एवार्थः न त्वेव परोक्तः वस्त्वभिन्नत्वरूपः प्रकरण-विरोधादित्याह तदिति ।। ४६ ।।
युक्तिमल्लिका
यद्यानन्दो भवेन्नासौ कथं सृज्यं सृजेदिति ।
श्रुत्युक्तं सा जगौ सृष्ट्यै पूर्णानन्दाख्यलक्षणम् ।। ४७ ।।
सुरोत्तमटीका
अस्यापि लक्षणस्य प्राथमिक लक्षणसङ्गतिं श्रुत्यैवाह ।। यदिति ।। अर्थतस्सङ्गृहीतया कोह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यादिति श्रुत्या उक्तं पूर्णानन्दाख्यलक्षणम् । सृष्ट्यै प्रागुक्तसृष्टि समर्थनाय । सा मन्त्रवर्णश्रुतिः । जगौ अनन्तमिति वाचा जगौ । साऽऽनन्द-मय श्रुतिः । तदेवपूर्णानन्दत्वलक्षणं प्रपञ्चयित्वा जगाविति च योजना ।।४७।।
सत्यप्रमोदटीका
‘महानन्दत्व एवास्य हेतुः कोऽन्यादिति स्फुटम्’ इति अनुव्याख्यानोक्तं आह यदीति । श्रुत्युक्तं=श्रुत्या सोपपत्तिकं समर्थितम् । विष्णोरनानन्दत्वे जगतो निश्चेष्टकत्वप्रसञ्जनेनेति भावः ।। ४७ ।।
युक्तिमल्लिका
सृष्ट्याद्यष्टकमध्यस्थज्ञानमोक्षप्रदत्वयोः ।
उपयुक्ततया चैतद् द्वयं सूत्रकृतो मतम् ।। ४८ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि मनोमय प्रकरणत्रयोक्त लक्षणद्वयस्य सङ्गतिमाह ।। सृष्टीति ।। सृष्ट्याद्यष्टकस्य सृष्टिस्थितिसंहारनियमन ज्ञानाज्ञान-बन्धमोक्षाख्याष्टकस्य मध्येस्थितौ यौ ज्ञानमोक्षौ तत्प्रदत्वयोः ज्ञानप्रदत्व-मोक्षप्रदत्वाख्यलक्षणयोरित्यर्थः । एतद्द्वयं सर्वज्ञत्वपूर्णानन्दादि गुणभरित-त्वाख्य लक्षणद्वयम् । सूत्रकृतः व्यासस्य मतमभिप्रेतम् । स्वस्य सर्वज्ञत्वाभावे कथं भगवतः ज्ञानप्रदत्वं स्वस्य पूर्णानन्दत्वाभावे कथं पूर्णानन्दाख्यमोक्ष-दातृत्वं च युक्तं स्यात् । अतो जन्माद्यष्टकमध्यस्थोक्त लक्षणद्वयसमर्थक-सर्वज्ञत्वपूर्णानन्दत्वाख्यलक्षणयोरपि सूत्रकृदभिमतत्वाच्छ्रुतिरपि तत्प्रपञ्चनं कृतवतीति जन्मादिकारणत्वाख्य सौत्रलक्षणसङ्गतिर्वेति भावः ।। ४८ ।।
सत्यप्रमोदटीका
एतद् द्वयमिति ज्ञानप्रदत्वोपयुक्ततया मनोमयविज्ञान-मयप्रकरणाभ्यां सर्वज्ञत्वं मोक्षप्रदत्वोपयोगितया आनन्दमयप्रकरणेव आनन्द-परिपूर्णत्वं इत्येवं लक्षणद्वयमिति योज्यम् ।। ४८ ।।
युक्तिमल्लिका
व्याप्तत्वसर्वशक्तत्वदयालुत्वादिका गुणान् ।
सृष्ट्यर्थान्सङ्ग्रहीतुं सा प्रागनन्तगुणान् जगौ ।। ४९ ।।
सुरोत्तमटीका
ननु तर्हि श्रुत्यापि सत्यं ज्ञानमानन्दं ब्रह्मेत्येव वक्तव्यम् । अनन्तपदेन गुणपूर्णत्वं किमर्थमुक्तमित्यत आह ।। व्याप्तत्वेति ।। आदिपदेनेच्छा प्रयत्नादि गुणास्संगृह्यन्ते । सृष्ट्यर्थान्सृष्टिप्रयोजनकान्सृष्ट्युप-युक्तानित्यर्थः । प्राक्प्रथमप्रस्तावे । सकलजगत्स्रष्टुर्हि सर्वव्याप्तत्वसर्वशक्तत्व-दयालुत्वसिसृक्षादि गुणा अपेक्षिताः । तेषां सर्वेषामपि संग्रहाय श्रुतिरनन्त-पदेनानन्दादि गुणानन्त्यमेवोक्तवती नत्वानन्दमात्रमिति भावः ।। ४९ ।।
सत्यप्रमोदटीका
‘कर्तृत्वात्सगुणं’ इति प्रागुक्तदिशा सृष्टिरनन्त-गुणानाक्षिपतीत्याह व्याप्तत्वेति ।। ४९ ।।
युक्तिमल्लिका
तत्तत्पूर्त्यै तत्र चैकं गुणं पूर्णमवर्णयत् ।। ५० ।।
सुरोत्तमटीका
तर्हि प्रपञ्चनसमये आनन्दमयपदेनानन्दमात्रस्य कुत-स्संकीर्तनमित्यत आह ।। तत्तदिति ।। तत्तत्पूर्त्यैतेषाङ्गुणानां पूर्त्यै । तत्र गुणसमुदाये । एकमानन्दाख्यम् । सकलगुणानामपि पृथक्पृथक्पूर्णता समर्थने ग्रन्थगौरवभिया सकलगुणाग्रेसरमानन्दाख्यगुणं गुणान्तरोपलक्षणतया पूर्णमवर्णयदिति भावः ।। ५० ।।
सत्यप्रमोदटीका
अनन्तशब्दस्य सकलगुणपरिपूर्णत्वार्थकत्वे तत्प्रपञ्चनपरेणानन्दमयप्रकरणेन इतरगुणप्रहाणेन आनन्दगुणमात्रस्य पूर्णता कुतोऽभ्यधायीत्यतः उपलक्षणतयेत्यवेहीत्याह तत्तदिति । कण्ठतस्तद्ग्रहणं च सकलगुणमूर्धन्यत्वात्, ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति’ इति श्रुत्या तेन सर्वगुणपूर्तिलक्षणस्य भूमत्वस्य स्वत एव लाभाच्चेति भावः ।। ५० ।।
युक्तिमल्लिका
जन्मादिकर्तृतोक्त्या च सूत्राभिप्रेतलक्षणम् ।
गुणानन्त्यं किल हरेस्ततोऽप्यानन्त्यमाह सा ।। ५१ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि गुणानन्त्यकथनस्योपयोगमाह ।। जन्मादिति ।। सूत्राभिप्रेतलक्षणं जन्मादिसूत्राभिप्रेतलक्षणं हरेर्गुणानन्त्यं किलेति योजना । आदिसूत्रे पूर्णत्वाभिधायक ब्रह्मपदप्रयोगात् उत्तरत्रचाध्याय शेषेण सकलपदसमन्वयद्वाराऽनन्तपदवाच्यानन्तगुणपूर्णत्वस्यैव समर्थनाच्च सूत्रकृतोप्यनन्तगुणपूर्णत्वमेव ब्रह्मलक्षणमभिमतम् । जन्मादिकारणत्वलक्षणं तु तस्या सम्भावनापरिहाराय सम्भावकतयोक्तमिति प्राचां संप्रदायं किलेत्यनेन स्मारयति । ततोप्युक्तविधया मुख्यलक्षणत्वादपि । आनन्त्यं गुणानन्त्यम् । सा मन्त्रवर्णश्रुतिः ।। ५१ ।।
सत्यप्रमोदटीका
ततोऽपि । जन्मादिहेतुत्वलक्षणस्य ब्रह्मशब्दोक्त-प्रधानभूतगुणपूर्णत्वलक्षणसम्भावकत्वादपि ।। ५१ ।।
युक्तिमल्लिका
यद्यप्येकैकसुगुणसम्पूर्तिरपि लक्षणम् ।
जीवात्यन्तविभेदाय तथापि बहुकीर्तनम् ।। ५२ ।।
सुरोत्तमटीका
नन्वनन्तगुणपूर्णत्वं लक्षणमिति वदतोपि एकैक गुण-पूर्णत्वमपि लक्षणमभिप्रेतम् । आनन्दाख्यगुणपूर्णत्वमात्रस्यापि भगवतो-न्यत्राभावेनातिव्याप्त्यादिदोषाभावात् । एवं चानन्तगुणपूर्णत्वं वदन्त्याऽनन्त-श्रुत्याऽनन्तलक्षणानि किमर्थमभिहितानीत्यत आह ।। यद्यपीति ।। तथाप्येकैकगुणपूर्तेर्लक्षणत्वेऽपि जीवेभ्योत्यन्त विभेदायात्यन्तवैलक्षण्यायेत्यर्थः। बहुकीर्तनं बहुलक्षणकथनम् । एकैकलक्षणेन भगवतस्सजातीय विजातीय व्यावृत्तिसिद्धावप्यनन्तप्रकारैर्जीवेभ्योत्यन्तवैलक्षण्यबोधनायानन्तगुणपूर्णत्वाख्य लक्षणकथनमिति भावः ।। ५२ ।।
सत्यप्रमोदटीका
नन्वनेकलक्षणोक्तिवैयर्थ्यम् । एकैकस्य व्यभिचारा-भावादित्यत आह जीवात्यन्तविभेदायेति । संवादेन भेदज्ञाने दाढर्््य-सम्पादनायेत्यर्थः । विभवादपीति ज्ञेयम् ।। ५२ ।।
युक्तिमल्लिका
पृथक्पृथग्लक्षणतां वक्तुं वाऽनन्तविस्तृतेः ।
अशक्त्या वा सर्वसिद्ध्यै तत्राद्यगुणशोधनम् ।। ५३ ।।
सुरोत्तमटीका
उपादाने एकगुणसङ्ग्रहस्योक्तानुवादपूर्वकं प्रयोजनान्तर-मप्याह ।। पृथक्पृथगिति ।। पृथक्पृथक् लक्षणतां एकैक गुणपूर्तेरपि लक्षणतां वक्तुं वेत्येकं निमित्तम् । अनन्तविस्तृतेः अनन्तगुणपूर्णत्वविस्तारस्याशक्तया-वेत्यपरम् । सर्वशुद्ध्यै सर्वेषां गुणानां पूर्णत्व शोधनाय । तत्र गुणसमुदाये । आद्यगुण आनन्दः ।। ५३ ।।
सत्यप्रमोदटीका
एवं तर्हि अतिदाढर्््यार्थं विशिष्य प्रत्येकं अनन्त-लक्षणोक्तिः स्यादित्यतः श्रुतेस्तत्र सामर्थ्याभावादेव नैवमित्याह पृथगिति
।। ५३ ।।
युक्तिमल्लिका
गुणास्सर्वेऽपि सिद्धास्स्युरानन्दस्य प्रपञ्चने ।
इत्यानन्दमयं स्तौति सर्वेयं वाऽन्तिमस्तुतिः ।
यदियं षट्प्रकरणी गुणानेवागृणात्प्रभोः ।। ५४ ।।
सुरोत्तमटीका
तदेवविशदयति ।। गुणा इति ।। इत्यनेन हेतुना । सर्वा आत्मन आकाश इत्यादिका आनन्दमय प्रपञ्चनान्ता षट्प्रकरणीयं श्रुतिः अन्तिमस्तुतिः अन्तिमस्य अनन्तपदोक्तान्तिमलक्षणस्यस्तुतिर्वा प्रपञ्चनरूपा-वेत्यर्थः । यद्यस्मात् गुणान्जगत्स्रष्टृत्वादिगुणान् अगृणात् अस्तौदिति योजना । सत्यपदोदितं प्रथमलक्षणं प्रकरणत्रयेण प्राक्प्रतिपाद्य ज्ञानपदोक्त-द्वितीय लक्षणं प्रकरणद्वयेन तदनन्तरं प्रतिपाद्य पुनरनन्तपदोदित सकलगुण-पूर्णतां प्रतिपादयितुं षष्ठप्रकरणान्ता सर्वापीयं श्रुतिः सिंहावलोकनन्यायेन प्रवृत्ता । पञ्चषान्गुणान्प्रस्ताव्येयमेव दिगन्यत्रापीत्युपरता च । अतः प्रस्ताव-प्रपञ्चनयोर्न वैषम्यमिति भावः ।। ५४ ।।
सत्यप्रमोदटीका
सर्वगुणानां पूर्णान्दाविनाभावं प्रागुक्तं स्मारयति गुणा इति ।। प्रकारान्तरेण प्रकरणशुद्ध्या अनन्तत्वलक्षणविवरणपरेण अन्तिमेन आनन्दमयप्रकरणेन सर्वगुणपूर्णतालाभमाह सर्वेति । सर्वा इयं इति पदच्छेदः । बुद्धिसन्निहिता सृष्ट्यादिषट्प्रकरणी इत्यर्थः । अन्तिमस्तुतिः लक्षणेऽन्ते श्रुतस्य अनन्तत्वलक्षणस्य प्रपञ्चनरूपा । तत्कथमित्यत आह यदिति । गुणान् सत्यज्ञानपदोदितान् जगज्जन्मादिकर्तृत्वसर्वज्ञत्वादीन् । कतिपयगुणवर्णनं तु अनन्तगुणवत्त्वोपलक्षणाय दिग्दर्शनमात्रमिति भावः
।। ५४ ।।
युक्तिमल्लिका
साकारत्वविदुःखत्वाप्राकृतत्वास्तितादयः ।
एकैकाङ्गबृहत्त्वाद्याः किं न सिद्ध्यन्ति तत्स्तुतौ ।
यतः प्रियशिरस्त्वाद्या अपि तस्य स्तुतौ स्तुताः ।। ५५ ।।
सुरोत्तमटीका
किं चास्यां षट् प्रकरण्यामानुषङ्गिकतया गुणान्तर-स्तुतिरप्यस्ति । अतोपि न प्रस्तावप्रपञ्चयोर्वैषम्यमित्याह ।। साकारत्वेति ।। अन्नमयादिपञ्चरूपाणामपि तस्येदमेवशिर इत्यादिना शिरः पाण्याद्यवयव-समर्थनात् स वा एष पुरुष विध एवेत्यादिना स्पष्टं पुरुषविधत्वोक्तयाच साकारत्वम् । प्रियमेवेत्यवधारणात् विदुःखत्वम् । आनन्दरूपत्वकथनाद-प्राकृतत्वम् । अस्तिब्रह्मेति चेद्वेदेति अस्तिता । आदिपदेनात्मब्रह्माकाशादि पदबोध्यगुणाः । अन्नं हि भूतानां ज्येष्ठमित्यत्रोक्तभूतज्येष्ठत्वं विज्ञानन्देवा-स्सर्वेब्रह्मज्येष्ठमुपासत इत्यत्रोक्तदेवज्येष्ठत्वदेवोपास्यत्वे । यतोवाचोनिवर्तन्ते अप्राप्यमनसासहेत्यत्रोक्त वाङ्मनसागोचरत्वं शरीरे पाप्मनो हित्वा सर्वा-न्कामान्समश्नुत इत्यत्रपापनाशकत्वसर्वकामप्रदत्वादयो गुणाश्च सङ्ग्राह्याः । ब्रह्मपुच्छमिति पुच्छपदोक्तपादस्य पूर्णत्वोक्तयाऽर्थात्सर्वावयवानामपि बृहत्त्व-लाभात् एकैकांगबृहत्त्वाद्या इत्युक्तम् । अत्राप्याद्यपदेन मुदः प्रमुद आसत इत्यादिनोक्तमुदादिरूपत्वं ग्राह्यम् । तत्स्तुतौपादस्तुतौ । नन्विदमानन्दमयेन श्रूयत इत्यत आह ।। यत इति ।। यतः यस्मात् । तस्याऽनन्दमयस्य । अत्राप्याद्यपदेन मोददक्षिण पक्षत्वादिकं ग्राह्यम् ।। ५५ ।।
सत्यप्रमोदटीका
किं चात्र प्रकरणेषु न केवलमन्नमयादिशब्दनिर्वचन-मात्रलब्धानां किन्तु आनुषङ्गिकतयाऽम्नातानां सर्वेषां गुणानामेव संसिद्धिरिति निदर्शनाय लेशतस्तत्प्रकारं दर्शयति साकारत्वेत्यादिना । पुरुषविधत्वोक्त्या साकारत्वं, प्रियमेव शिरः इति अप्रियदुःखव्यावृत्त्या विदुःखत्वं, ‘विज्ञानं यज्ञं तनुते,’ ‘आनन्द आत्मा’ इत्यादिना ज्ञानानन्दरूपत्वोक्त्या अप्राकृतत्वं, पञ्चरूपमपि ब्रह्म जीवाद्भिन्नं अस्ति इति जानतां, ‘सन्तं एनं मुक्तियोग्यं सुखिनं विदुरि’ति पञ्चप्रकरण्या अर्थसङ्ग्राहके श्लोके फलकथनेन जीवात्यन्त-भेदं, पुच्छस्यापि पूर्णत्वोक्त्या स्वगतभेदवर्जितत्वं, आदिपदेन ‘सर्वमेव त आयुर्यन्ति’ इत्यादिना मोक्षहेतुत्वं इत्यादीनां गुणानां स्तुतिलाभो यथायथं विभावनीयः ।। ५५ ।।
युक्तिमल्लिका
यतस्सूत्रकृता मान्त्रवर्णिकं गीयते त्विति ।
प्रोक्तैकवाक्यता तस्मान्मन्त्रार्थोऽन्यः कथं वद ।। ५६ ।।
सुरोत्तमटीका
मन्त्रवर्णस्योत्तरप्रकरणस्य चयेयमेकवाक्यता कृतासान-स्वकपोलकल्पिता । किन्तु सूत्रकृतोप्यभिमतेति वक्तुं सूत्रमेवार्थतोदर्शयति ।। यत इति ।। यतः यस्मात् । मान्त्रवर्णिकङ्गीयतेत्वित्यनेन मान्त्रवर्णिकमेवच गीयते इति सूत्रं सङ्गृह्णाति । तु शब्दएवार्थेच शब्दार्थेच । मान्त्रवर्णिक-
मित्यनेन सम्बध्यते । तस्मात्सूत्र विरुद्धत्वात् । अन्यःमायावाद्युदीरितः ।।५६।।
सत्यप्रमोदटीका
अनन्तशब्दस्य गुणपूर्त्यर्थकत्व एव व्याख्येयस्य मन्त्रवर्णस्य व्याख्यानभूतपञ्चप्रकरण्याश्च सूत्रोक्तः एकवाक्यतालाभो नान्यथे-त्याह यत इति ।। ५६ ।।
युक्तिमल्लिका
एवं श्रुत्यर्थकुशलास्सर्वत्राप्येकवाक्यताम् ।
कुर्युस्त्वाचार्यवन्तश्चेत्तिरस्कुर्युर्न चेच्छतिम् ।। ५७ ।।
सुरोत्तमटीका
एवं च सूत्रानुकूलभाष्यकर्तृत्वात् आचार्यवान्पुरुषो वेदेत्युपनिषद्वाक्यस्य मध्वाचार्यवानित्येवार्थ इति सूचयन्स्वाचार्यचरणानु सारिणः टीकाकारादीन्स्तौति ।। एवमिति ।। सर्वत्र श्रुतिपुराणादिवाक्येषु । आचार्यवन्तश्चेदस्मदाचार्यवन्तश्चेते । नचेदस्मदाचार्यचरणानुसारिणो नचेत् श्रुतिं तिरस्कुर्युः पूर्वोत्तरं विरुद्धायोग्यार्थपरत्वेन योजयन्तीत्यर्थः ।। ५७ ।।
सत्यप्रमोदटीका
आचार्यवन्तः श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्नाः जयतीर्थादयः । अनन्तशब्दस्य वस्त्वपरिच्छेदमर्थं प्रजल्पतां वाक्य-भेददोषापत्त्या श्रुतितिरस्कारः स्फुट एवेत्याह न चेदिति ।। ५७ ।।
युक्तिमल्लिका
सूत्रोक्तसूचितान्येवं लक्षणानि श्रुतिस्सती ।
प्राक्प्रस्ताव्यपुनश्चैवं विचार्योपरता किल ।। ५८ ।।
सुरोत्तमटीका
श्रुत्यर्थकथनमुपसंहरति ।। सूत्रोक्तेति ।। सूत्रोक्तानि जन्मकारणत्वादीति सूचितानि सर्वज्ञत्वगुणपूर्णत्वादीनि सूत्रोक्तसूचितानि । एवमुक्तप्रकारेण । प्राक् मन्त्रवर्णे । पुनः उपरिषट् प्रकरण्यामित्यर्थः ।। ५८ ।।
सत्यप्रमोदटीका
सूत्रोक्तसूचितानि । जन्मादिसूत्रे उक्तानि तत्सूचि-तानि च । सती मीमांसान्यायोपकृतत्वात् प्रबला । प्रस्ताव्येत्यनेन उपक्रमः, विचार्य इत्यनेन अभ्यासादीनि उपरता इत्यनेन उपसंहारः इति तात्पर्य-लिङ्गान्युक्तानि ध्येयानि ।। ५८ ।।
युक्तिमल्लिका
प्राक्सर्वकर्तृतां पश्चात्तत्सिद्ध्यै सर्ववेत्तृताम् ।
सुखशक्तिकृपाद्याप्त्यै साऽन्ततोनन्ततां जगौ ।। ५९ ।।
सुरोत्तमटीका
उक्तमेव विशदयन् श्रुत्युक्तलक्षण क्रमस्य द्वेधाकारण-माह ।। प्राक्सर्वकर्तृतामिति ।। तत्सिद्ध्यै सर्वकर्तृत्वसिद्ध्यै । सुख शक्ति-कृपाद्याप्त्यै सर्वकर्तृत्वोपयुक्तसुखशक्तिकृपादि गुणपूर्णतायै । अन्ततः अन्ते । आद्यं जगत्कर्तृत्वं प्राक्प्रतिज्ञाय कर्तृत्वोपयुक्तज्ञानेच्छाप्रयत्नादिषु ज्ञानस्यादि-मत्वात् मध्येतत्प्रस्ताव्यां तेऽन्तिममुदाजहारेति भावः । मुखत इत्युत्तरश्लोकेच साक्षादुक्तस्य प्राक्कीर्तनम् । सूचितयोः पश्चात्कीर्तनमिति प्रकारान्तरेण क्रमो-वर्णितः । अत एववाशब्दः । द्वे सर्वज्ञत्वानन्तत्वे । साश्रुतिः ।। ५९,६० ।।
सत्यप्रमोदटीका
प्राक् सत्यपदेन । तत्सिद्ध्यै कर्तृत्वशरीरान्तर्गतत्वेनैव कर्मनिर्णयटीकोक्तरीत्या सिद्धामिति भावः । जगच्चेष्टकत्वाऽन्यथानुपपत्त्या तद्धेतुव्यपदेशादिति सूत्रोक्तन्यायेन सुखशक्त्योः; परप्रयोजनार्थं सृष्टिनिर्वाहाय कृपादेः आप्त्यै सिद्ध्यै । सा मन्त्रवर्णश्रुतिः । अनेन लक्षणत्रयस्य निर्देशक्रमे उपपाद्योपपादकत्वं निमित्तमुक्तं ध्येयम् ।। ५९ ।।
युक्तिमल्लिका
मुखतस्सूत्रकारोक्तं प्रागुक्तं ब्रह्मलक्षणम् ।
पश्चात्तत्सूचिते वा द्वे लक्षणे सान्वशिक्षत ।। ६० ।।
सत्यप्रमोदटीका
निमित्तान्तरमप्याह । मुखत इति ।। प्रागुक्तम् । सूत्रे कण्ठत उक्तं जगज्जन्महेतुत्वं आदौ सत्यपदेनोक्तम् । द्वे सर्वज्ञत्वानन्तत्वे ।।
युक्तिमल्लिका
इमां हि शास्त्रमर्यादामाचार्यस्तत्ववादिनाम् ।
वेद तस्मात्तदुदितं तत्त्वं नान्यदिति स्थितम् ।। ६१ ।।
सुरोत्तमटीका
अधुनास्वाचार्यं स्तौति ।। इमामिति ।। ६१ ।।
सत्यप्रमोदटीका
आचार्यः कश्छन्दसां योगमावेद इति श्रुत्युक्तः ‘क’शब्दवाच्यो भाविचतुर्मुखः ।। ६१ ।।
युक्तिमल्लिका
इतोऽप्यनन्तशब्दार्थो न परोदीरितो भवेत् ।
अनन्तमिति चैकत्र श्रुतिराह स्थलान्तरे ।। ६२ ।।
आनन्दमिति तत्स्थाने प्राह तेनात्र योग्यता ।
गुणस्यैवास्ति तत्त्यागे दोषस्स्यादिति तर्कये ।। ६३ ।।
सुरोत्तमटीका
श्रुत्यन्तर समाख्ययापि अस्मदुक्त एवानन्तशब्दार्थो नपरोदीरित इत्याह ।। इत इति ।। इतःवक्ष्यमाणनिमित्तात् । एकत्र तैत्तिरीय शाखायाम् । स्थलान्तरे सत्यं ज्ञानमानन्दं ब्रह्मेति शाखान्तरवाक्ये । तत्स्थाने अनन्तत्वस्थाने आनन्दमिति यतः प्राहेति योजना । तेन अनन्तत्वस्थाने आनन्दाख्य गुणकथनेन । अत्राप्यनन्तपदोदित तृतीयलक्षणे । गुणस्यैव आनन्दादि गुणस्यैव योग्यतास्ति । तत्त्यागेगुणत्यागे । अनन्तपदस्य आनन्दादि गुणपूर्णत्वार्थत्याग इत्यर्थः । दोष स्समाख्योल्लङ्घनाख्यदोषः । गुणत्यागे दोषस्स्यादिति लौकिकमर्यादयाध्वनिश्च ।। ६२,६३ ।।
सत्यप्रमोदटीका
स्थलान्तरे शाखान्तरे । तत्स्थाने अनन्तपदस्थाने । प्राहेत्यनेन ‘सत्यं ज्ञानमानन्दं’ इति समाख्याया निरवकाशत्वमुक्तम् । योग्यता समाख्यारूपप्रमाणविरोधाभावः । दोषः समाख्योक्तलङ्घनरूपः अनन्तगुणा-पलापदोषश्च ।। ६२, ६३ ।।
युक्तिमल्लिका
यतोऽस्त्येकपदस्यान्येष्वजहत्स्वार्थलक्षणा ।
आनन्दादिगुणैस्तस्मादानन्त्यं स्यादिदं प्रभोः ।। ६४ ।।
सुरोत्तमटीका
ननु शाखान्तरे आनन्द एव श्रूयते न गुणानन्त्यम् । अतः कथं समाख्ययेत्यत आह ।। यत इति ।। एकपदस्य काकेभ्योदधि-रक्ष्यतामित्यत्र काकपदस्य । अन्येषु दध्युपघातकमार्जालादिषु अजहत्स्वार्थ-लक्षणा स्वमुख्यार्थमपरित्यज्यान्यार्थेषु लक्षणास्ति लोके । तस्मादजहत्स्वार्थ-लक्षणायाः लोकसिद्धत्वात् । इदमानन्दपदबोध्यं आनन्दादि गुणैरानन्त्यं स्यादिति सम्बन्धः । आनन्दपदस्याजहत्स्वार्थलक्षणया गुणान्तरोपलक्षकत्वात् गुणानन्त्यमप्यर्थो भवत्येवेति भावः ।। ६४ ।।
सत्यप्रमोदटीका
शाखान्तरे उक्तस्य आनन्दपदस्य उपलक्षणतया अनन्तगुणपरत्वम् । अन्यथा श्रुत्योः परस्परं विरोधापत्तिः । अतो युक्तं वाक्ययोरन्योन्यसमाख्यात्वमित्याह यत इत्यादिना । अभ्युपगम्य चेदमुक्तम् । समाख्यावाक्ये आनन्दरूपैकगुणमात्रोक्तावपि परोक्तस्य वस्त्वपरिच्छेदार्था-नुपपत्तिरेवेत्यपि ध्येयम् ।। ६४, ६५ ।।
युक्तिमल्लिका
श्रुत्योरेकार्थतैवं स्यादन्यथा भिन्नवाक्यता ।। ६५ ।।
सुरोत्तमटीका
लक्षणाश्रयणे किं बीजमित्यत आह ।। श्रुत्योरिति ।। एवं लक्षणयात्रापि गुणानन्त्यकथने सत्येव । अन्यथा लक्षणानाश्रयणे । शाखान्तरे गुणकीर्तनात् तत्समाख्ययात्रगुणस्यैव प्राप्तिः । न वस्तुतोऽ-नन्तत्वस्य । एतत्समाख्ययाच शाखान्तरे लक्षणया गुणानन्त्यप्राप्तिरिति समाख्ययोः परस्परोपकारित्वमिति भावः । युक्तिवैभवप्रदर्शनायेदमुदितम् । वस्तुतस्तु शाखान्तरे गुणस्योक्तत्वादत्रापि गुणकथनमेवोचितं नान्यदित्ये-तावतैव परमुखस्य मुद्रितत्वादित्यपि द्रष्टव्यम् ।। ६५ ।।
युक्तिमल्लिका
नाल्पे सुखमिति श्रुत्या पूर्णत्वं सुखकारणम् ।
यदुच्यते ततो देशकालसद्गुणपूर्णता ।। ६६ ।।
आनन्दत्वस्य सिद्ध्यर्थं हेतुत्वेनेह कीर्त्यते ।
इति वा सङ्गतिर्वाच्या समाख्यावाक्ययोस्तयोः ।। ६७ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि समाख्यावाक्ययोस्सङ्गतिमाह ।। नाल्प इति ।। यद्यस्मात् । नाल्पेसुखमिति श्रुत्या अल्पे अपूर्णे सुखं नेत्यपूर्णे सुखनिषेधात् पूर्णत्वं सुखकारणमुच्यते । ततस्तस्मात् । इहतैत्तिरीयश्रुतौ । आनन्दत्वस्य शाखान्तरोक्तानन्दरूपत्वस्य हेतुत्वेन प्रयोजकत्वेन देशकाल-सद्गुण पूर्णता कीर्त्यत इति योजना । सङ्गतिर्हेतुहेतुमद्भावरूपा । एवमपि वाक्यभेदः परिहर्तुं शक्यत इति भावः ।। ६६,६७ ।।
सत्यप्रमोदटीका
मास्तु लक्षणा । आनन्दप्रयोजकतयैव गुणपूर्णत्वं संसिद्ध्यति । अतोऽपि समाख्यात्वं श्लिष्टम् । प्रयोज्यप्रयोजकभावश्च श्रुतिसिद्ध इत्याह नेति । ‘‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्’’ इति श्रुतिमनेनाभिप्रैति । अत्र निरुपपदेन सुखशब्देन शाखान्तरे आनन्दशब्देन च पूर्णसुखमेवोच्यते । यदनन्याधीनपूर्णानन्दसुखं स भूमा गुणतः पूर्णः इति व्यत्ययेनान्वयः । भूमैव सुखमित्यत्राप्येवम् । अल्पे अपूर्णे सुखं पूर्णसुखं नेति व्याप्त्युपपादनम् ।। ६६, ६७ ।।
युक्तिमल्लिका
सौन्दर्येण समग्रेण ज्ञानेन च बलेन च ।
पूर्णस्य ह्याप्तकामस्य विभोर्नित्यस्य च प्रभोः ।। ६८ ।।
सुखमेव भवेत्पूर्णं दुःखस्यावसरोऽपि न ।
तत्पूर्णसौख्यसिद्ध्यर्थमानन्त्योक्तिश्च शोभते ।। ६९ ।।
सुरोत्तमटीका
हेतुहेतुमद्भावमेवस्फोरयति ।। सौन्दर्येणेति ।। विभोः देशव्याप्तस्य । समग्रेणेति यथायोग्यं सम्बन्धः । अन्यत्स्पष्टम् । सौन्दर्यादि गुणभरितस्य सदासुखमेव भवेत् । दुःखस्यावसरोपि न । स्वस्मादधिक-सौन्दर्यादि गुणभरितपुरुषदर्शने सतीर्ष्यया स्वगुणह्रासादिनाजातचिन्तयावा एकस्मिन्देशे काले च सत्त्वेऽपि देशकालान्तरेऽभावचिन्तया वा दुःखं स्यात् । समग्रसौन्दर्यादि गुणभरितस्य तु केन निमित्तेन कदा दुःखं स्यात् । किंतु सर्वदा सुखमेव भवेत् । तत्तस्मात् । आनन्त्योक्तिः देशकालगुणपूर्णत्वोक्ति-श्शोभते शाखान्तरोक्तानन्दरूपत्वसाधकतया सङ्गच्छत इति समुदायार्थः ।। ६८,६९ ।।
सत्यप्रमोदटीका
प्रभोः स्वतन्त्रस्य गुणनियामकस्य । हेतुगर्भं विशेषणम् । तेनैव सर्वदा आनन्दादिसर्वगुणपूर्णत्वस्य दुःखादिदोषवर्जितत्वस्य च सिद्धेः । तदुक्तं अनुव्याख्याने,
‘‘यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः ।।’’ इति ।। ६८,६९ ।।
युक्तिमल्लिका
अतो देशाश्च कालाश्च गुणतश्चान्तशून्यता ।
श्रुत्युक्तं तदनन्तत्वं नान्यत्तत्त्वमिति स्थितम् ।। ७० ।।
सुरोत्तमटीका
अतः पूर्वोक्तयुक्तिभिः । तदनन्तत्वम् । तस्य ब्रह्मणः अनन्तत्वम् । अन्यत्सकलवस्त्वात्मकत्वं तत्वं नेति स्थितमिति सम्बन्धः ।।
सत्यप्रमोदटीका
अतः मन्त्रवर्णस्य षट्प्रकरण्याश्चैकवाक्यतासमर्थनेन ।। ७० ।।
युक्तिमल्लिका
अनन्तश्रुतितश्चैव ह्यनन्तगुणता यतः ।
सिद्धा ततश्च नैर्गुण्यवादो मोदाय नेष्यते ।। ७१ ।।
सुरोत्तमटीका
एवं परोदीरितैक्यार्थखण्डनेन स्वाभिमतार्थकथने सत्यानु षङ्गिकतयाऽतीत सौरभद्वयार्थोपि सिद्ध इत्याह ।। अनन्तेति ।। अनन्तगुणत्व-सिद्ध्यागुणसौरभसङ्गतिः । नैर्गुण्याख्यदोषदूषणेन शुद्धिसौरभ सङ्गतिश्च द्रष्टव्या ।। ७१ ।।
सत्यप्रमोदटीका
‘अनन्तगुणता सिद्धेत्यनेन गुणसौरभेण, नैर्गुण्यवादो मोदाय नेष्यते’ इत्यनेन शुद्धिसौरभेण, च अस्य सौरभस्य सङ्गतिरुक्ता ध्येया ।। नञः अभावो विरोधश्चार्थौ । तथा च सुखाभावः, सुखविरोधिदुःखाप्तिश्च-नैर्गुण्यवादस्य फले उक्ते भवतः ।। ७१ ।।
युक्तिमल्लिका
किञ्चोक्तरीत्या देशाश्च कालाश्च गुणतस्तथा ।
नान्त इत्युदिते सर्वदेशकालगुणैस्सदा ।
सम्बन्ध इति शब्दस्य शक्यार्थस्त्वेक एव च ।। ७२ ।।
सुरोत्तमटीका
पूर्वं ब्रह्मणस्सकलदेशकालेष्वाश्रितत्वं सकलसद्गुणा-धारत्वं चानन्तशब्दस्य पर्यवसितोर्थ इत्यङ्गीकृत्य सकलगुणाधारत्ववत् सकल-वस्त्वाधारत्वमपि कुतोनोच्यत इत्यस्य द्वेधापरिहार उक्तः । अधुना सकल-देशकालगुणसम्बन्ध एवानन्तशब्दस्य पर्यवसितोर्थो नतुक्वचिदाहितत्वं कस्यचिदाधारत्वं चेति वदन् वस्तुतोनन्तत्वस्य प्रकारान्तरेणापि द्वेधा गतार्थतां वक्तुमारभते ।। किञ्चेत्यादिना ।। शब्दस्यानन्तशब्दस्य । शक्यः पर्यवसितः । अन्यत्स्पष्टम् ।। ७२ ।।
सत्यप्रमोदटीका
स्वमते व्याप्तित्रयोक्तिर्नान्योन्यं गतार्था परमते तु नैवमिति वक्तुमुपक्रमते किं चेत्यादिना । तथा हि । स्वमते, देशतः अनन्त इत्येवोक्तौ क्षणे, कालतः अनन्त इत्येवोक्तौ परमाणौ, उभाभ्यामानन्त्योक्तौ अव्याकृताकाशादौ अतिव्याप्तिपरिहाराय गुणत आनन्त्योक्तिरर्थवती । परमते तु प्रष्टव्यम् । वस्तुतः अनन्त इत्युक्ते देशतः कालत इत्यत्रेव सकलवस्तु-सम्बन्ध इत्यर्थः प्रायपाठानुरोधिनः तावदेष्टव्यः ।। ७२-७४ ।।
युक्तिमल्लिका
स च योग्यतया धर्मेऽधर्मधर्मित्वमिष्यते ।
संयोगो देशकालाभ्यामिति सर्वस्य संमतम् ।। ७३ ।।
सुरोत्तमटीका
स च सम्बन्धः । योग्यतया धर्मधर्मिणोर्धर्मधर्मिभावस्य द्रव्ययोस्संयोगस्यैव सम्भावितत्वेनेत्यर्थः ।। ७३ ।।
युक्तिमल्लिका
एवं च वस्तुतोऽप्यस्य नान्त इत्युदिते सति ।
सर्वैश्च वस्तुभिस्सिद्ध्येत्सदा सम्बन्ध एव हि ।। ७४ ।।
सुरोत्तमटीका
एवं च देशकालगुणसम्बन्धस्यैवानन्तशब्दार्थत्वे । अस्य ब्रह्मणः ।। ७४ ।।
युक्तिमल्लिका
स च कुण्डपटादौ चेत्संयोगो देशकालवत् ।। ७५ ।।
सुरोत्तमटीका
सः वस्तुसम्बन्धः ।। ७५ ।।
युक्तिमल्लिका
तत्तद्गुणक्रियाद्यैश्चेत्केषाञ्चिद्वादिनां मते ।
संयुक्तसमवायादिः स्यात्सम्बन्धोऽपरेऽपि वा ।। ७६ ।।
सुरोत्तमटीका
तत्तद्गुणक्रियाद्यैः तेषां तेषां घटपटादीनां गुणक्रियाद्यैर-परस्संयोगो वा ।। ७६ ।।
युक्तिमल्लिका
अयं च देशव्याप्त्युक्त्या गतार्थत्वान्न सार्थकः ।। ७७ ।।
सुरोत्तमटीका
अयं च द्विविधवस्तुसम्बन्धश्च देशव्याप्त्युक्तया सकल-देशसम्बन्धोक्तयागतार्थत्वात् सार्थकोन । सकलदेशसम्बन्धकथने तदन्तर्गत घटपटादि सम्बन्धोप्युक्त प्रायो व्यर्थश्चेति न पृथग्वाच्य इति भावः ।। ७७ ।।
सत्यप्रमोदटीका
तत्र वस्तुशब्देन किं कुण्डपटादीनि द्रव्याणि विवक्षितानि उत तद्गतगुणक्रियादीनि, आहोस्विद्भगवन्निष्ठसद्धर्मा एव । नाद्यौ इत्याह स चेति । स च सम्बन्धः द्रव्यैः संयोगः गुणक्रियादिभिश्च संयुक्त-समवायोऽपरो वा भवतु । सः देशतः व्याप्तत्वोक्त्यैव सिद्ध इति तेन पुनर्वस्तुतोऽनन्तत्वोक्तिर्गतार्थैव ।। ७५-७७ ।।
युक्तिमल्लिका
यदि स्वनिष्ठसद्धर्मैस्सम्बन्धः शुभवस्तुभिः ।
तदा स्याद्धर्मधर्मित्वं तच्चानन्त्यं गुणेन हि ।
अतस्तन्न पृथक्प्रोचुस्तत्त्वज्ञास्तत्त्ववादिनः ।। ७८ ।।
सुरोत्तमटीका
अथ यदि वस्तुशब्देन सार्वज्ञादिभगवद्गुणा एवोच्यन्ते तदाप्युत्तरमाह ।। यदीति ।। शुभवस्तुभिस्स्वनिष्ठसद्धर्मैस्सम्बन्ध इति योजना । तदाधर्मधर्मित्वं धर्मधर्मिभाव एव सम्बन्धस्स्यात् । भगवन्निष्ठसार्वज्ञादि शुभगुणरूपवस्तुभिर्भगवतश्च धर्मधर्मिभाव एव सम्बन्धो वक्तुमुचितो न संयोगादिः । स च घटादिवस्तु सम्बन्धवन्नगतार्थो नापि व्यर्थः । देशकाल-संयोगवत्सम्बन्धमात्रलाभेऽपि भगवता सहधर्मधर्मिभावाख्यसम्बन्धस्य प्रागनुक्तत्वेन गतार्थत्वाभावात् । शोभनगुणसम्बन्धरूपतया भगवतो महिमापादकत्वेन सार्थकत्वाच्च । तच्च गुणैस्सहधर्मधर्मित्वं नामगुणेनानन्त्यं गुणानन्त्यमेव हि । अतः ईदृशवस्तुतोऽनन्तत्वस्य गुणानन्त्यरूपत्वात् । तद्वस्तुतोनन्तत्वम् । इदं च देशकालव्याप्तत्वाभ्यां न गतार्थम् । तादृश-देशकालयोरेवाभावात् । एवं देशतोऽनन्तस्य विभोरपि क्षणस्यानित्यतया कालतोऽनन्तत्वाभावात् । नित्यतया कालतोनन्तस्यापि परमाणोर्देशतोऽ-नन्तत्वाभावाच्च न मिथो गतार्थता । अतस्सुष्ठूक्तं देशतः कालतो गुणतश्चान्तशून्यत्वमनन्तत्वमिति ।। ७८ ।।
सत्यप्रमोदटीका
न तृतीयः इत्याह तच्चेति । तथा च घट्टकुटी-प्रभातन्यायः इति भावः । तत् वस्तुतोऽनन्तत्वम् । वस्तुतोऽनन्तत्वोक्तिस्तव सर्वथाऽनर्थजनन्येव इति निष्टङ्कितमिति प्रघट्टिकार्थः ।। ७८ ।।
युक्तिमल्लिका
धनैः पूर्णस्तदैव स्याद्धनं च बहुलं यदि ।
तद्गुणैःपूर्णतावाचा गुणानां पूर्णताप्यभूत् ।। ७९ ।।
सुरोत्तमटीका
इदानीं गुणानां प्रत्येकमानन्त्यं युक्तितस्साधयति ।। धनैरिति ।। धनं च यदि बहुलं स्यात् तदैवधनैः पूर्णस्स्यादिति यत्तत्तस्माद्देश-कालव्याप्तभगवन्मूर्तेरेकांशेप्येकैकगुणस्याभावे तत्रैवगुणानन्त्या भावप्रसङ्गात् व्यापकरूपरसादिगुणानां व्याप्यवृत्तित्वावश्यंभावाच्च प्रत्येकं गुणानन्त्यमपि कथं न युक्तिः साधयेत् । वक्ष्यति चैतद्ग्रन्थकारः स्वयमेव ।। ७९ ।।
सत्यप्रमोदटीका
समस्तगुणसम्पूर्णमिति गीतातात्पर्यस्य टीकायां, समस्तेत्यनेनापौनरुक्त्याय ‘सम्पूर्णमिति गुणानां प्रत्येकं सम्पूर्णतामाह’ इत्युक्तम् । तदिदानीं स्मृतियुक्तिभ्यां समर्थयति धनैरित्यादिना । मणिरत्न-कनकादिषु अन्यतमस्यैव बहुत्वे धनेन पूर्ण इत्येव लोको व्यवहरति । न तु धनैरिति । धनैरित्युक्ते तु प्रत्येकं मण्यादीनां धनानां बहुलत्वं ज्ञायते । एवं गुणेन पूर्ण इत्युक्तौ यत्किञ्चिदेकतमस्यैव पूर्णता लभ्येत । तावन्मात्रं मा लाभि इति गुणैरित्युच्यते । एवं एकैकशः अपूर्णैर्गुणैः साहित्यमात्रविवक्षायां समस्तगुण इत्येव वक्तुमुचितम् । न तु समस्तगुणसम्पूर्ण इति । गुणैः समस्तः सम्पूर्ण इत्युक्तौ तु न केवलं गुणानां समस्तत्वलक्षणं आनन्त्यं किं नाम प्रत्येकं ज्ञानानन्दादीनां अपि तथात्वं लभ्यते इत्याह गुणानामिति ।। ७९ ।।
युक्तिमल्लिका
अनन्तगुण इत्युक्त्वा प्रागसङ्ख्या गुणान्स्मृतिः ।
गुणांश्च पूर्णान्सैवाह ह्यनन्तो गुणतस्त्विति ।। ८० ।।
सुरोत्तमटीका
इदानीं युक्तयुपोद्बलकं मय्यनन्तगुणेऽनन्ते गुणतोनन्त-विग्रह इति भागवतवचनमर्थतोगृहीत्वा व्याख्याति ।। अनन्तगुण इति ।। अनन्तगुणे गुणतोऽनन्ते अनन्तविग्रहे मयि इति पदयोजना । तत्र प्राक्प्रथमं स्मृतिः अनन्तगुणे इति विशेषणेन गुणानामवधिशून्यत्वस्यासङ्ख्यातत्वे पर्यवसानादसङ्ख्यान्गुणानुक्त्वा पुनस्सैवगुणतोऽनन्त इति गुणांश्च पूर्णानाह । तुशब्देनान्यथापौनरुक्त्यात् एवं विशेषोऽवश्यमङ्गीकार्य इति सूचयति ग्रन्थकारः । गुणतः गुणैः प्रत्येकमनन्त इति शब्दार्थः । एवमर्थाकथने पूर्व-विशेषणेनैव गतार्थमिदं विशेषणं स्यात् । तस्माद्गुणानां प्रत्येकमानन्त्य-मेवोत्तरविशेषणाल्लब्धमिति भावः ।। ८० ।।
सत्यप्रमोदटीका
स्पष्टस्मृतिबलादप्येवमित्याह अनन्तेति । स्मृतिः ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’ इति भागवतम् ।। ८० ।।
युक्तिमल्लिका
महद्गुणत्वादिति च महत्तामाह तां गुणे ।
महत्त्वं त्वपरिच्छित्तिरिति सर्वे विदुर्बुधाः ।। ८१ ।।
सुरोत्तमटीका
उक्तार्थे वाक्यान्तरं च प्रमाणयति ।। महद्गुण-त्वादिति ।। महद्गुणत्वाद्यमनन्तमाहुरिति च भागवतवाक् गुणे गुणसमुदाये महत्तामाह । महत्त्वं त्वपरिच्छित्तिस्तस्माद्गुणानां प्रत्येकमप्यपरिच्छिन्नत्व रूपपूर्णत्वसिद्धिरिति भावः ।। ८१ ।।
सत्यप्रमोदटीका
प्रत्येकं गुणानां अपरिच्छिन्नत्वलक्षणं महत्त्वं स्पष्टं अभिदधत् स्मृत्यन्तरं चाह महदिति । ‘यमनन्तमाहः’ इति वाक्यशेषः । आहुरिति प्रयोगबाहुल्यकथनेन विद्वद्रूढिरप्यत्र प्रमाणमुक्तं ध्येयम् । महत्त्व-मिति । अपरिच्छिन्नाकाशे एव महाकाशशब्दप्रयोगादिति भावः ।। ८१ ।।
युक्तिमल्लिका
यथास्ति देशादानन्त्ये देशस्याप्यन्तशून्यता ।
तथा गुणेनानन्त्येऽपि गुणस्याप्यन्तशून्यता ।। ८२ ।।
वाच्यावश्यं न चेत्तस्य गुणतोऽनन्ततैव न ।
न ह्यल्पबलवान्मर्त्यो बलेनानन्त उच्यते ।। ८३ ।।
सुरोत्तमटीका
उक्तार्थेऽन्तरङ्गयुक्तिं चाह ।। यथास्तीति ।। यथादेशा-दानन्त्ये देशस्याप्यन्तशून्यतास्तितथेत्युत्तरेणान्वयः । अवश्यं वाच्येति पदसम्बन्धः । विपक्षे बाधकमाह ।। नचेदिति ।। नचेद्गुणानां प्रत्येकमानन्त्यं नचेत् । तस्य भगवतः नसिद्ध्येदिति शेषः । तत्र दृष्टान्तमाह ।। नहीति ।। ८२,८३ ।।
सत्यप्रमोदटीका
प्रकृतिर्देशतोऽनन्तेत्युक्तिनिर्वाहाय देशस्यैव ताव-दानन्त्यं उररीकरणीयम् । यथोक्तं न्यायामृते अनन्तश्रुत्यर्थभङ्गे ‘यथा देशाद्य-परिच्छेदाभिप्रायेण आकाशोऽनन्त इत्युक्ते देशादेराकाशतुल्यतया सत्त्वे सत्येव तदपरिच्छेदमात्रं सिद्धयति’ इत्यादि । एवं गुणतोऽनन्त इति प्रयोगनिर्वाहायैव प्रत्येकं गुणस्यानन्त्यं स्व्रीकर्तव्यमिति युक्त्यन्तरमुक्तार्थे आह यथेति ।। व्यतिरेकनिदर्शनेन उक्तं न्यायं द्रढयति न हीति ।। ८२,८३ ।।
युक्तिमल्लिका
गुणसङ्ख्यावधिर्नेति योऽनन्तगुण ईरितः ।
स एव गुणतोऽनन्तः प्रत्येकं गुणपूर्तितः ।। ८४ ।।
इत्येव वाच्यस्स्मृत्यर्थो न चेत्स्यात्पुनरुक्तता ।
तत्सिद्धास्स्मृतियुक्तिभ्यां गुणाः पूर्णाः पृथक्पृथक् ।। ८५ ।।
सुरोत्तमटीका
तुशब्देन प्राक्सूचितां पौनरुक्तयाख्ययुक्तिं स्पष्टमाह ।। गुणेति ।। उक्तार्थमिदं पद्यम् । तत्तस्मात्स्मृतियुक्तिभ्यां गुणाः पृथक्पृथ-क्पूर्णास्सिद्धा इति फलितकथनम् ।। ८४,८५ ।।
सत्यप्रमोदटीका
‘मय्यनन्तगुणे’ इति स्मृतौ अनन्तगुणे इति गुण-तोऽनन्तविग्रहे इति च द्विवारमनन्तगुणशब्दोऽनन्तशब्दनिर्वचनाय प्रयुक्तः । अत एकः गुणसङ्ख्याया निरवधित्वं अपरः प्रत्येकं गुणपूर्तिं चाभिधत्ते इति अवश्यमङ्गीकार्यम् । अन्यथा पौनरुक्त्यापत्तेरिति वक्ति गुणेति । फलितमाह तदिति ।। ८४, ८५ ।।
युक्तिमल्लिका
न चेत्स क्वचिदज्ञस्स्यात्कदाचिद्वाज्ञतापतेत् ।
तद्देशकालव्याप्तस्य धर्मव्याप्तिर्बलादपि ।। ८६ ।।
सुरोत्तमटीका
युक्तयन्तरं चाह ।। न चेदिति ।। नचेज्ज्ञानादि-गुणादेशकालव्याप्ता न भवन्ति चेत् सः देशकालव्याप्तो भगवान्क्वचिद्देशेऽज्ञ-स्स्यात् । कदाचित्कस्मिंश्चित्कालेवाऽज्ञस्स्यात् । तत्तस्माद्बलात् युक्तिबलात् देशव्याप्तस्य भगवतोज्ञानमपि देशव्याप्तं न भवति चेद्भगवानपि क्वचिद्दशे ज्ञानी कस्मिंश्चिद्देशे सर्वथाज्ञानाभावाज्जडश्चस्यात् । इदानीं ज्ञानी कालान्तरे सर्वज्ञानाभावाज्जडश्चस्यात् । जडतापरिहारायाल्पमपि ज्ञानमङ्गीक्रियते चेत् ज्ञानं च व्याप्तं स्यादित्युभयतः पाशारज्जुरिति भावः ।। ८६ ।।
सत्यप्रमोदटीका
किं च गुणानां प्रत्येकं परिच्छिन्नत्वं कुत इति प्रष्टव्यम् । गुणिन एव परिच्छिन्नत्वात् उत गुणानां संयोगवदव्यावृत्तित्वात् । नाद्यः इत्याह तद्देशकालव्याप्तस्येति । बलात् व्याप्तिबलात्, धर्मिणो यावती व्याप्तिः धर्मस्यापि तावती, यथा घटगतरूपस्य, इति दर्शनादिति भावः । उपलक्षणतया ज्ञानरूपगुणस्य परिच्छिन्नत्वोक्तौ बाधकमाह न चेदिति । देशतः परिच्छिन्नत्वोक्तौ क्वचिदिति कालतः परिच्छेदोक्तौ कदाचिदिति विवेको द्रष्टव्यः ।। ८६ ।।
युक्तिमल्लिका
किं संयोगवदन्येऽपि गुणा रूपरसादयः ।
अव्याप्यवृत्तयो धर्मिव्याप्तौ व्याप्ता गुणाश्च तत् ।। ८७ ।।
सुरोत्तमटीका
किञ्च संयोगशब्दव्यतिरिक्तारूपरसाद्यास्सर्वे गुणा-व्याप्यवृत्तय इति सर्ववादिनो वदन्ति । एवं च देशकालव्याप्तस्य भगवतो रूपरसाद्याः कथं न देशकालाव्याप्ता इत्याह ।। किमिति ।। अव्याप्यवृत्तयः किमिति सम्बन्धः । तत्तस्मात् संयोगव्यतिरिक्त धर्माणां धर्मिणि व्याप्यवृत्ति-त्वात् धर्मिव्याप्तौ गुणाश्च व्याप्ता इति योजनीयम् ।। ८७ ।।
सत्यप्रमोदटीका
न द्वितीय इत्याह किमिति । किं आक्षेपे । संयोग-वदिति परमतेनोक्तम् । स्वमते तस्याप्यव्याप्यवृत्तित्वानङ्गीकारात्
।। ८७ ।।
युक्तिमल्लिका
सङ्कोचानौचित्यतश्च गुणतोऽनन्तता त्वियम् ।
बहुत्वाच्च महत्त्वाच्च गुणानामिति गम्यते ।। ८८ ।।
सुरोत्तमटीका
पूर्वमनन्तगुणेगुणतोनन्ते इति विशेषणद्वयसार्थक्यायार्थ-द्वयमुक्तम् । वस्तुतस्त्वेकेनैव विशेषणेनार्थद्वयं सिद्ध्यतीत्याह ।। सङ्कोचेति ।। इदं गुणतोनन्तता सङ्कोचानौचित्यतः सङ्कोचस्यानौचित्यात् अनुचितत्वात् । गुणानां महत्त्वात् देशकालानवच्छिन्नत्वात् बहुत्वात् सङ्ख्याविच्छेद-राहित्याच्चेति गम्यते । अनन्ता गुणा यस्येति विग्रहे गुणानामन्ताभावोहि अनन्तशब्दार्थः । अन्तश्च सङ्कोचे कारणाभावात् योग्यतया देशात्काला-त्सङ्ख्यातश्चेति गुणानां देशानन्त्यं कालानन्त्यं सङ्ख्यानन्त्यं चैकेनैव विशेषणेन सिद्ध्यतीति भावः ।। ८८ ।।
सत्यप्रमोदटीका
वस्तुतस्तु गुणतोऽनन्त इत्येतावन्मात्रोक्त्यैव ‘मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति न्यायेन गुणानां सङ्ख्ययेव देशकालाभ्या-मपि निरवधिकत्वं सिद्ध्यत्येव । समाख्यास्मृत्युदाहरणं तु उपष्टम्भकतयैवेत्याह सङ्कोचेति । अनौचित्यत्वतः=उक्तन्यायविरोधादित्यर्थः ।। ८८ ।।
युक्तिमल्लिका
अपरिच्छिन्नधर्माणां तत्सत्यानां खधर्मिवत् ।
परिच्छिन्नत्वदज्ञानकल्पितत्वकथा वृथा ।। ८९ ।।
सुरोत्तमटीका
धर्माणां व्याप्तिकथनात् लब्धं फलद्वयमाह ।। अपरि-च्छिन्नेति ।। तत्तस्मात् धर्मिवद्ब्रह्मवदपरिच्छिन्नधर्माणां अपरिच्छिन्नत्वा-त्तद्वदेवसत्यानां च परिच्छिन्नेन त्वदभिमताज्ञानेन कल्पितत्व कथावृथेति योजना । एवं च व्याप्यवृत्तयो भगवद्धर्मा व्याप्ता भवितुमर्हन्ति । व्याप्त-धर्मिकत्वे सति व्याप्यवृत्तित्वात् । गगनस्थमहापरिमाणवत् । विमता भगवद्धर्माः पारमार्थिकाः । व्याप्तत्वाद्ब्रह्मवत् । विमता भगवद्धर्मा अज्ञानक-ल्पिता न भवन्ति अपरिच्छिन्नत्वाद्ब्रह्मवदिति चानुमानत्रयमनेनोक्तं भवति । ततश्च धर्माणां व्याप्तत्वप्रसाधनेन ब्रह्मवत्सत्यत्वमज्ञानाकल्पितत्वं चेति फलद्वयं सिद्धमिति भावः ।। ८९ ।।
सत्यप्रमोदटीका
अपरिच्छिन्नधर्माणां यावद्द्रव्यभाविनां देशकाल-समव्याप्तत्वात् अभिन्नानामिति भावः । यथोक्तं तत्त्वविवेके ‘यावद्वस्तु न भेदवत्’ इति । तट्टीकायां च ‘यत्पुनर्यावद्द्रव्यभावि तत्र भेदो नास्ति । किन्त्वत्यन्ताभेद एवेति’ । तत् तस्मात् । अपरिच्छिन्नधर्माणां परिच्छिन्नत्व-कथा, सत्यानां त्वदज्ञानकल्पितत्वकथा इति यथाक्रममन्वयः । द्वन्द्वान्ते श्रूयमाणः त्वप्रत्ययः प्रत्येकमभिसम्बध्यते । यद्वा परिच्छिन्नं यत् कल्पकत्वे-नाभिमतस्य तवाज्ञानं तेन कल्पितत्वकथा इति योज्यम् । सत्यस्य कल्पितत्व-मेव नेति भावः । परिच्छिन्नत्वदज्ञानेति परमतेन स्वरूपकथनम् । यद्वा अज्ञानकल्पितत्वं नाम तदुपादेयत्वं परमतेऽभिप्रेतम् । अज्ञानं च परिच्छिन्नम् । अन्यथा ब्रह्मवत्तन्निवृत्यनुपपत्त्यापातात् । न हि परिच्छिन्नस्य अज्ञानस्य अपरिच्छिन्नधर्मोपादानत्वं सञ्जाघटीति । उपादानोपादेययोः समानदेशता-नियमादिति दूषणं द्रष्टव्यम् ।। ८९ ।।
युक्तिमल्लिका
अमायिको हरिस्सिद्धस्तद्धर्मा अप्यमायिकाः ।
अणुभ्योऽखिलजीवेभ्यो विभेदश्च विभोरभूत् ।। ९० ।।
सुरोत्तमटीका
अज्ञानाकल्पितत्वेपि मायया कल्पितत्वं स्यादिति मायाज्ञानयोर्भेदवादिनश्शङ्काप्यनेनैव निरस्तेत्याह ।। अमायिक इति ।। मायायाः परिच्छिन्नत्वाद्धर्मिणो हरेस्तद्धर्माणां चोक्तरीत्याऽपरिच्छिन्नत्वात्कथं मायिकत्वमपीति भावः । तत्तस्मादपरिच्छिन्नत्वादिति वा । अनेनैव भेदसौरभ-फलं च सिद्धमित्याह ।। अणुभ्य इति ।। विभोर्देशकालव्याप्तस्य ।। ९० ।।
सत्यप्रमोदटीका
अज्ञानसामान्यकल्पितत्वनिरासेन तद्विशेषमाया-कल्पितशङ्का गर्भस्रावेणैव निरस्तेत्याह अमायिक इति । विभोः व्याप्तस्य । हेतुगर्भं विशेषणम् । तथा विभोः स्वतन्त्रस्य गुणपूर्णस्य । तदनेन जीवेश्वरौ धर्मिसमसत्ताकभेदवन्तौ, अणुत्वमहत्व, स्वातन्त्र्यपारतन्त्र्यादिविरुद्धधर्माधि-करणत्वात् इति प्रयोगः सूचितः । अणुभ्य इत्युपलक्षणम् । व्याप्तेभ्यः परतन्त्रेभ्यः रमाऽव्याकृताकाशप्रकृत्यादिभ्यः एवं मध्यमपरिमाणेभ्यो भूभू-धरादिभ्यो भेदसिद्धिरपि निष्प्रत्यूहा ।। ९० ।।
युक्तिमल्लिका
विरूद्धधर्मध्रौव्येण भेदोऽपि ध्रुवतामगात् ।
अतोऽनन्तश्रुतिर्वादद्वयस्याप्युत्तरं ददौ ।। ९१ ।।
सुरोत्तमटीका
विरुद्धधर्माणामभेदविरोधिसार्वज्ञादिभगवद्धर्माणां ध्रौव्येण देशतः कालतश्च ध्रुवत्वेन । अतस्सर्ववस्त्वात्मकत्वाख्यपराभिलषितार्थ खण्डनात् गुणसिद्धेर्गुणपूर्णत्वार्थस्थापनेन गुणानां सिद्धत्वात् तत एवान्ते जीवेश्वरयोः पारमार्थिकभेदस्य च सिद्धत्वादित्यर्थः । वादद्वयस्यैक्य वादनैर्गुण्यवादाख्यवादद्वयस्य ।। ९१ ।।
सत्यप्रमोदटीका
न च विरुद्धधर्मत्यागेनाभेदप्रत्याशा । प्रमाणसिद्धानां ध्रौव्येण त्वद्दुरभिलषिताविवक्षामात्रेण तत्त्यागायोगादेवेत्याह विरुद्धेति ।। यथोक्तं चन्द्रिकायां
निर्दोषश्रुतिसाक्षिभ्यां प्रमिते ब्रह्मजीवयोः ।
सर्वशक्त्यल्पशक्तित्वे मिथ्येति च न युज्यते ।। इति ।
वादद्वयस्य अत्यन्तभेदस्य स्थापनेन अभेदवादस्य भेदाभेदवादस्य च । यद्वा गुणानन्त्यसाधनेन नैर्गुण्यवादस्य अष्टगुणवत्त्वाभिधायकतार्किकवादस्य इत्यादि बोध्यम् । ददौ । समस्तगुणसम्पूर्णं इति गीतातात्पर्ये नारायणं विशिंषन् भाष्यकारः । श्रुतिरिति कर्तृत्वोपचारस्यकरणेऽपि निरवकाशत्वरूपातिशय-स्फोरणाय ।। ९१ ।।
युक्तिमल्लिका
तत् त्रिवर्णं पदमिदं त्रिविक्रमपदोपमम् ।
पराजयाय दैत्यानां जयाय च सतामभूत् ।। ९२ ।।
सुरोत्तमटीका
अनन्तश्रुत्यर्थकथनमुपसंहरति ।। तत् त्रिवर्णमिति ।। तत्तस्मातत्रिवर्णमिदं पदमनन्ताख्यपदं त्रिविक्रमपदोपमं त्रिविक्रमस्य हरेः पादोपमम् । त्रिविक्रमत्वेन त्रिवर्णत्वेन चोभयोरुपमा । अथवाऽनन्तपदस्याप्य- कारनकारतकाराख्यवर्णत्रय सहितत्वम् । हरिपादस्यापि तलनखोपरिभागेषु रक्तशुभ्रनीलाख्य वर्णत्रयसहितत्वमित्युभयोरुपमा द्रष्टव्या ।। ९२ ।।
सत्यप्रमोदटीका
त्रिवर्णं त्र्यक्षरम् । अन्यत्र रक्तशुभ्रनीलाख्यवर्णत्रयो-पेतम् । इदं पदं अनन्ताख्यम् । पदोपमं चरणसदृशम् । त्रिविक्रमेति ‘त्रीणि पदा विचक्रमे’ इति श्रुतिं सूचयति । दैत्यानां मायावाद्यादीनां अन्यत्र बल्या-दीनाम् । पराजयाय निग्रहाय अन्यत्र ऐश्वर्यभ्रंशाय । सतां तत्त्ववादिनां अन्यत्र इन्द्रादीनाम् । जयाय सिद्धान्तस्थापनाय अन्यत्र त्रैलोक्यैश्वर्यलक्षणोत्कर्ष-सिद्धये । तदुक्तं श्रुतौ ‘वसु स्पार्हमुत जेतोत दाता’ इति । अनेन भेदसौरभोपक्षेपोऽपि कृतो ज्ञेयः ।। ९२ ।।
युक्तिमल्लिका
सर्वोपनिषदामर्थं निर्णेतुं बादरायणः ।
निर्ममे ब्रह्मसूत्राणि सूचनात्सूत्रमुच्यते ।। ९३ ।।
सुरोत्तमटीका
इदानीं ब्रह्मसूत्रमर्यादया जीवेश्वरभेदादिकं सप्रपञ्चं साधयितुमारभते ।। सर्वोपनिषदामिति ।। अस्यार्थस्स्पष्ट एव ।। ९३ ।।
सत्यप्रमोदटीका
अत्र मायी प्रत्यवतिष्ठते । अनन्तशब्दस्य न गुणपूर्णत्वमर्थः । न चानन्दमयशब्दसमाख्यया तत्सिद्धिः । स्यादेवं यदि स शब्द आनन्दप्राचुर्यमभिचक्षीत । न चैवम् । तस्य कोशवाचित्वादेव । सूत्रे तत्पदस्य ब्रह्मणि समन्वयोक्तिरप्ययुक्ता । तत्प्रकरणस्थे श्लोके ब्रह्मणः आनन्दमयपुच्छत्वेन ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्याम्नानात् । तदेवावयवोऽवयवी चेत्यसामञ्जस्यप्रसङ्गात् । श्रुतिसूत्रयोश्च श्रुतेरेव प्राधान्येन तद्विरोधे ‘गुणे त्वन्यायकल्पने’ति न्यायेन सूत्राणां कथञ्चिद्योजनीयत्वात् । अत आनन्द-मयस्याब्रह्मत्वेन न तत्समाख्यया अनन्तशब्दस्य गुणपूर्णत्वार्थकत्वं किन्तु मदुक्तरीत्या वस्त्वपरिच्छेदात्मकत्वमेवेति । तदेतदपाकर्तुं यत् श्रुतेः सूत्रापेक्षया प्राधान्यमित्युक्तं तत् तावत् प्रमाणविरोधादेव दूषयति सर्वेत्यादिभिः अन्वगा-दित्यन्तैः सप्तभिः श्लोकैः । निर्णेतुमिति । ‘पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा’ इति ‘शब्दजातस्य सर्वस्य यत्प्रमाणञ्च निर्णय’ इति च स्मृतेरित्याशयः । ननु कतिपयैः सूत्रैः कथमनन्तवेदार्थनिर्णय इत्यतः उक्तं सूचनादिति । विश्वतोमुखत्वादल्पाक्षरत्वाच्चेत्यर्थः ।। ९३ ।।
युक्तिमल्लिका
अतस्तत्सूचितं ग्राह्यं किं पुनस्सकृदीरितम् ।
तदभ्यस्तं समस्तं तु चूडारत्नायते विदाम् ।। ९४ ।।
सुरोत्तमटीका
अतस्सूत्रस्य सूचकत्वात् । तदभ्यस्तं तेन सूत्रेणा-सकृदुक्तम् । विदां विदुषाम् ।। ९४ ।।
सत्यप्रमोदटीका
अतः सूचितस्यापि सूत्रार्थत्वात् । तदभ्यस्तं सप्तभिः सूत्रैः समर्थितम् ।। ९४ ।।
युक्तिमल्लिका
निर्णायकानुसारेण निर्णेयस्य गतिं विदुः ।
अध्वनीनस्य स ह्यध्वा यो दीपेन प्रदर्शितः ।। ९५ ।।
सुरोत्तमटीका
निर्णायकानुसारेण निर्णायक ब्रह्मसूत्रानुसारेण । निर्णेयस्योपनिषदादेः । तत्र दृष्टान्तः ।। अध्वनीनस्येति ।। अध्वनीनस्य-पांथस्य । दीपेनेत्युपलक्षणम् । सूर्येण वा निशिचेद्दीपेनदिवाचेत्सूर्येणेत्यर्थः । उभयोरप्यन्धकारनिमित्त संशयविपर्यय निरासकत्वात् । एवं वादिविवादादिना प्राप्तसंशयादिनिरासकत्वेन व्यासाख्यसूर्यस्य प्रभास्थानीयेन सूत्रेणोपनिषदा-देरप्यर्थाख्यमार्गोनिर्णेय इति भावः ।। ९५ ।।
सत्यप्रमोदटीका
निर्णयापेक्षया निर्णायकस्य प्राबल्यमिति न्यायं विद्वत् संमत्या दृष्टान्तोक्त्या च द्रढयति निर्णायकेति । अध्वा निर्णेयः, दीपः निर्णायकः । दीपोऽपि सूत्रवत्संशयादिनिरासक इति युक्तं तस्योपमानत्वम् । संशयादिनिरासेन अनुग्राहिकाया इतिकर्तव्यतायाः करणापेक्षयाऽपि प्राबल्यं प्रदानसूत्रे गुरुप्रसादस्य शिष्यप्रयत्नापेक्षया बलवत्त्वव्युत्पादनेन निर्णीतमित्याह हीति ।। ९५ ।।
युक्तिमल्लिका
चोरः प्रदीपनाशं च कामयेत्कामुकोऽपि वा ।
राज्ञ्या राजगृहं रात्रौ यान्त्या सोर्थ्यः पदे पदे ।। ९६ ।।
सुरोत्तमटीका
सूत्रमुल्लङ्घ्योपनिषदामर्थकथनमन्यापदेशेन निन्दय-न्सूत्रानुसारि व्याख्यां स्तौति ।। चोर इति ।। सः दीपः । अन्यत्स्पष्टम् । यथाऽयोग्यार्थकामुकत्वात्तदर्थमन्धकारापेक्षौ चोरकामुकौ प्रदीपनाशङ्कामयतः । तथापूर्वोत्तरविरुद्धतयोपनिषदामयोग्यस्वकपोलकल्पितार्थकथकाः परं सूत्र-मुल्लङ्घयन्ति । यथा च स्वयोग्यं राजगृहं रात्रौ यान्तीराज्ञीपदेपदेदीपमर्थयते । तथापूर्वोत्तराविरुद्धतया स्वयोग्यनारायणाख्य भर्तृगुणान्प्रतिपादयन्ती उपनिषदा- दीनां व्याख्या च पदेपदे तत्त्वमित्यादि पदे पदे तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवदित्यादि सूत्राख्यदीपान्कामयत इत्युभयत्रापि ध्वनितोप्यर्थोग्राह्यः ।।९६।।
सत्यप्रमोदटीका
चोरः मायी । प्रदीपनाशं सूत्रार्थापलापम् । यदुक्त-मभियुक्तैः ‘अचूचुरद्वेदसमूहवाहं ततो महातस्करमेनमाहुरि’ति । कामुकः गुणपूर्णत्वापलापेन ब्रह्मात्मैक्यकामुकः । कीचकवदयोग्यार्थदुरभिलाषी । राज्ञ्या श्रुत्या । राजगृहं विष्णोः सर्वोत्कर्षम् । यान्त्या प्रतिपादयन्त्या । रात्रौ दुर्भाष्यसन्तमससन्ततौ । सः सूत्राख्यानुग्राहकः । पदे पदे स्वघटकानन्त-वैदिकपदानां समन्वयसिद्ध्यर्थम् । तदुक्तं सुधायां ‘ब्रह्ममीमांसाशास्त्रानुपकृता हि वेदादयो विष्णोरवाचकास्तदुपकृताश्च तद्वाचका भवन्तीति’ ।। ९६ ।।
युक्तिमल्लिका
अतस्सूत्रं तिरस्कृत्य यः श्रुत्यर्थमतत्ववित् ।
वक्ति स श्रुतिसुन्दर्याः कण्ठात्सूत्रं जिहीर्षति ।। ९७ ।।
सुरोत्तमटीका
अतस्सूत्राणामुपनिषदर्थनिर्णायकत्वात् । अतत्ववित् श्रुतितत्वार्थाज्ञानी सः उत्सूत्रयत्किञ्चिदर्थ कथकः कण्ठात् अर्थकथकतया-कण्ठस्थानीय वाक्यात् सूत्रं ब्रह्मसूत्रं जिहीर्षति दूरीकर्तुमिच्छति । अन्यत्र सूत्रं कण्ठसूत्रम् । तथाचोत्सूत्रभाष्यभाषितः उपनिषद्वाक्यार्थोपि चण्डालगीत-वदश्राव्यः । सूत्रानुसारिभाष्यप्रतिपादितस्तूपनिषद्वाक्यार्थः मङ्गलस्त्रीशोभन-वाक्यवत्सुश्राव्य इति भावः ।। ९७ ।।
सत्यप्रमोदटीका
अतः सूत्राणामेव अनुग्राहकत्वेन प्राधान्यात् सूत्रं गुणपूर्णत्ववर्णनपरं आनन्दमयाधिकरणं तिरस्कृत्य कोशपरतया अन्यथा योजयित्वा, अतत्ववित् विपरीतज्ञानी, सः मायी कण्ठात्सूत्रं महातात्पर्य-विषयीभूतम् । विष्णोर्गुणोत्कर्षरूपमर्थं जिहीर्षति अपलपितुमीहते ।। ९७ ।।
युक्तिमल्लिका
उपकर्तर्यपकृतिः कृतघ्नस्यैव शोभते ।
धर्मवक्त्री कथं जह्यात्सूत्रं स्वार्थकृते कृतम् ।। ९८ ।।
सुरोत्तमटीका
प्रकारान्तरेणाप्युत्सूत्रभाष्यकारमपहसति ।। उपकर्तरीति ।। उपकर्तर्युपकारिणि अपकृतिरपकारः कृतघ्नस्य कृतं परेण कृतमुपकारं हन्तीति कृतघ्नः तस्य स्वोपकारिसूत्रमुल्लङ्घयंस्तद्भाष्यकारोपि तादृश इति भावः । धर्मवक्त्री धर्मं चरेति परान्प्रत्यपि धर्मं वदन्तीश्रुतिः स्वार्थकृतेस्वनिर्णयार्थम् । श्रुतिस्तुधर्मज्ञास्वोपकारि सूत्रानुसारेणैवार्थं ब्रूयादिति भावः ।। ९८ ।।
सत्यप्रमोदटीका
उपकर्तरि स्वभाष्यमूलभूतसूत्रकारे । अपकृतिः तद्विरुद्धभाषित्वं कृतघ्नस्य मायिनः । धर्मवक्त्री धर्मव्यवस्थापनपरा‘नहि धर्मादिसिद्धिःस्यान्नित्यवाक्यं विना क्वचिदि’त्युक्तेः । जह्यात् तद्विरुद्धार्थं वर्णयेत् ।। ९८ ।।
युक्तिमल्लिका
सतीमप्यसतीं कर्तुं चकमे दशकन्धरः ।
सा वायुतनयादेशैस्तृप्ता तन्मार्गमन्वगात् ।। ९९ ।।
सुरोत्तमटीका
इदानीं परकीयभाष्यकारं प्रकारान्तरेण दूषयन्नेव स्वभाष्यकारमन्यापदेशेन स्तौति ।। सतीमिति ।। सतीं पतिव्रतां सीताम् । एवं निर्दुष्टार्थवक्त्रीं श्रुतिं दुष्टार्थे नयन् भाष्यकारोपि तादृश इति ध्वनितोर्थः । रावणेनबलान्नीतापि सीता वायुतनयादेशैर्हनूमदुक्तिभिः तन्मार्गं हनूमदुक्त-राममार्गम् । एवं परैरन्यार्थेबलान्नीतापि श्रुतिर्वायोरवताररूपमध्वाचार्यभाष्या-द्युक्तिभिस्तदुक्तमार्गेण श्रीनारायणगुणानेव प्रतिपादयेदिति भावः ।। ९९ ।।
सत्यप्रमोदटीका
सतीं भगवता बादरायणेन प्रणीतां मीमांसाकृतिं असतीं कर्तुं असाधुनिबन्धतमसावकुण्ठितत्वेन अप्रणीतामिव कर्तुं दशकन्धरः दशजिह्वः बहुव्याहतभाषी इति यावत् मायी । चकमे इत्यनेन तस्य दुष्कामनामात्रं तु तत्र; न पुनरर्थसिद्धिरित्याह सेति । वायुतनयस्य मध्वस्य उपदेशैः भाष्यवचनैः । तन्मार्गं तत्प्रदर्शितं भगवदवयवावयविनोः अत्यन्ता-भेदरूपमर्थं अन्वगात् सज्जनान् समशिक्षयन् । अन्यत्र दशकन्धरः रावणः । वायुतनयः रामवचोनयः हनूमान् तस्य आदेशैः रामसन्देशरूपवचोभिः
।। ९९ ।।
युक्तिमल्लिका
ब्रह्मशब्दबलात्पुच्छमेव ब्रह्मेति दुर्धियः ।
श्रुतिस्सूत्राध्वनाऽऽनन्दमयं ब्रह्मर्चिशंसति ।। १०० ।।
सुरोत्तमटीका
इदानीं परकीयभाष्यस्य बलात्कारं श्रुतिसूत्रवायुतनया-देशरूपमध्वभाष्याणामेकप्रकारतां चाऽऽनन्दमयाधिकरणे शृृङ्गग्राहितया प्रदर्श-यति ।। ब्रह्मेति ।। ब्रह्मपुच्छंप्रतिष्ठेत्यत्रोक्तब्रह्मशब्दबलात् पुच्छं पादाख्या-वयवः । मायावादिनोहि सूत्रं श्रुतिं चोल्लङ्घ्यानन्दमयस्य कोशतयाऽब्रह्मतां वर्णयन्तः तत्पुच्छस्यैव ब्रह्मतां वदन्ति । श्रुतिस्तु तदप्येषश्लोको भवतीति स्वोक्तानन्दमये पूर्वप्रस्तावितानन्दमयादाविव श्लोकं प्रमाणयन्ती सूत्राध्व-नानन्दमयोभ्यासादिति श्रौतमर्यादया ऋचि अस्तिब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरिति श्लोके आनन्दमयमेव ब्रह्मशंसति । अतश्श्रुतिसूत्रयोस्सूत्रानुसारि भाष्यकारस्य चैकोमार्गः । उत्सूत्रभाष्यकारस्यत्व परोमार्ग इति प्रागुक्तं सर्वं न प्रतिज्ञामात्रमिति भावः ।। १०० ।।
सत्यप्रमोदटीका
आनन्दमयनयस्य मायिभाष्यं सूत्रविरोधितया दुर्भाष्यमिति समर्थयते ब्रह्मेत्यादिना । दुर्धियः मायिनः वदन्तीति शेषः । पुच्छमेव नत्वानन्दमयं अवयविनं इत्येवकारार्थः । निराह श्रुतिरिति । सूत्राध्वना आनन्दमयोऽभ्यासादिति आनन्दमयस्य अवयविनोऽपि ब्रह्मत्व-प्रतिपादकसूत्रानुसारेण । ऋचि ‘असन्नेव स भवति’ इत्यादिश्लोके ।। १०० ।।
युक्तिमल्लिका
प्राक्प्रस्ताव्यानन्दमयं श्लोके तत्रोदिते श्रुतिः ।
द्विरुक्तब्रह्मशब्देन कथं ब्रह्म न तं जगौ ।। १०१ ।।
सुरोत्तमटीका
ननु श्लोकेऽपि पुच्छस्यैव ब्रह्मतोच्यते । नत्वानन्द-मयस्येति शङ्कां मूलग्रन्थे परिहृतामपि स्वग्रन्थसाफल्याय पुनरपि युक्तिभि-र्निराकरोति ।। प्रागिति ।। तत्र स्वप्रस्तावितानन्दमये द्विरुक्तब्रह्मशब्देन असद्ब्रह्मेति अस्तिब्रह्मेति द्विवारमुक्तशब्देन । तं आनन्दमयम् ।। १०१ ।।
सत्यप्रमोदटीका
प्राक् ‘अन्योन्तर आत्माऽऽनन्दमयः’ इत्युपक्रमे । आनन्दमयं अवयविनम् । तत्र अवयविनि विषये । उदिते श्लोके इति । ‘तदप्येष श्लोको भवति’ इत्यत्र तत् इत्यनेन तत्र उक्ते अर्थे आनन्दमयावय-विविषये इति स्पष्टमुक्तेः श्लोकप्रकरणयोरेकार्थत्वं सिध्यतीति भावः । द्विः=द्विवारं ‘असद्ब्रह्मेति’ अस्ति ब्रह्मेति’ इत्येवम् ।। १०१ ।।
युक्तिमल्लिका
श्लोकश्लोक्यो यतोऽन्यत्र सर्वत्राङ्गीकृतोऽत्र च ।
श्लोक्योऽङ्ग्येव यदि ब्रह्मशब्दशक्त्याऽपकृष्यते ।। १०२ ।।
तर्ह्येकस्य द्वयोश्शक्त्या स्यादङ्गिन्येव कर्षणम् ।
द्वयोर्हि शक्तिर्महती चतुर्भिस्सङ्गहीतयोः ।। १०३ ।।
सुरोत्तमटीका
यतः यस्मात् । अन्यत्रसर्वत्रान्नमयादिचतुष्के । श्लोकेन स्वोक्तार्थेनिरूपितमन्त्रेण श्लोक्यः स्तुत्यः अङ्गीशिरः पाण्यादिपञ्चाङ्गवत्त्वेन निरूपितः अवयवी अन्नमयादिरेव । नतु तस्यैकदेशोङ्गम् । अन्नाद्वैप्रजाः प्रजायन्ते इत्यन्नमयश्लोके प्राणं देवा अनुप्राणन्तीति प्राणमयश्लोके यतोवाचो-निवर्तन्त इति मनोमयश्लोके विज्ञानं ब्रह्मचेद्वेदेति विज्ञानमयश्लोकेच स्पष्ट-मन्नमयाद्यङ्गिनामेव श्रूयमाणत्वात् । ततस्तस्मात् अन्नमयादिचतुष्टयेऽङ्गिन एवश्लोकश्लोक्यत्वात् अत्रचानन्दमयप्रकरणेऽपि श्लोकश्लोक्योङ्ग्येव । नत्व-वयवः । प्रायपाठविरोधात् । सोयमङ्गिन्येवन्याय प्राप्तोपि श्लोकः यदि ब्रह्मशब्दशक्तया पुच्छेश्रुतब्रह्मशब्दशक्तयाऽपकृष्यते पुच्छविषयतया योज्यते । तर्ह्येकस्य पुच्छे श्रूयमाणैकब्रह्मशब्दस्य द्वयोरङ्गिविषयकमन्त्रे श्रूयमाणब्रह्म-शब्दयोः अङ्गिनि आनन्दमये ब्रह्मणः आनन्दमयस्य पुच्छमिति तत्पुरुष-समासेन सोयमानन्दमयो ब्रह्म तस्य पुच्छमिति वाऽपकर्षः अपकर्षणमेव स्यात् । किं तत्पुच्छमिति शङ्कायास्तु मोदप्रमोद समानयोगक्षेमतया सुख-विशेषवाचकमुत्पदमध्याहृत्य मुदेव पुच्छमित्युत्तरं दातव्यम् । अस्मदुक्त-मेवापकर्षणं न्याय्यमित्याह ।। द्वयोरिति ।। एकस्माद्द्वयोश्शक्तिर्महतीहि इत्येकोन्यायः । चतुर्भिः उक्तरीत्या एकाङ्गे अपकर्षणरहितैश्चतुर्भिश्श्लोकै-स्सङ्गृहीतयोरित्यपरायुक्तिः । पूर्वोक्तश्लोक चतुष्टयेऽदृष्टस्सोयमपकर्षः कथमत्रैव कर्तव्य इति भावः ।। १०२,१०३ ।।
सत्यप्रमोदटीका
श्लोक्यः प्रतिपाद्यः । अन्यत्र सर्वत्र=इतरेषु अन्न-मयादि चतुर्षु प्रकरणेषु । अङ्गीकृतः=अङ्ग्येवेत्यत्रापि उपस्कर्तव्यम् । अतः इति लभ्यते । अत्र च आनन्दमयश्लोकेऽपि । अङ्गी एव अङ्गीकर्तव्य इति शेषः । प्रायपाठानुरोधात्, ‘तदप्येष’ इति स्पष्टोक्तेश्चेति भावः । एवमपि यदि ब्रह्मशब्द शक्त्या पुच्छे ब्रह्मपदप्रयोगादिति यावत् । अपकृष्यते=अङ्गाङ्गिनो-र्भेदं परिकल्प्य ब्रह्मशब्दः अङ्गिनः प्रच्याव्य अङ्गविषयतया योज्यते । तर्हि अङ्गाङ्गिनोरभिन्नयोरुभयत्र ब्रह्मपदसम्बन्धसम्भवेऽपि अन्यतरस्मिन्नेव तद्योजनीयमिति दुराग्रहे एकस्य पुच्छे श्रुतस्यैकब्रह्मशब्दस्य । द्वयोः शक्त्या अङ्गिनि पूर्वोक्तरीत्या द्विवारं पठितब्रह्मशब्दसमभिव्याहारशक्त्या, अङ्गिन्येव कर्षणं=आकृष्य योजनं न्याय्यमिति शेषः । तत्र युक्तिद्वयं आह द्वयोरिति । सकृत्प्रयोगात् द्विवारं प्रयोगस्य बलवत्वादिति भावः । चतुर्भिरिति अन्न-मयादिषु चतुर्षु प्रकरणेषु अङ्गिन एव श्लोके वर्णितत्वात् अत्रापि तस्यैव प्रकारस्य अनुसर्तव्यादिति भावः ।। १०२, १०३ ।।
युक्तिमल्लिका
दृढसूत्रनिबद्धस्य कथं चास्यापकर्षणम् ।
उत्कर्षो ह्यस्मदर्थे स्यादपकर्षस्त्विहोच्यते ।। १०४ ।।
सुरोत्तमटीका
दृढं सूत्रे ब्रह्मसूत्रेनिबद्धस्य ब्रह्मशब्दाभ्यासादिति आनन्दमयेनिबद्धस्यास्य श्लोकस्येत्यन्यायुक्तिः । प्रकारान्तरेणापि श्लोकस्य पुच्छेऽपकर्षण मनुचितमित्याह ।। उत्कर्ष इति ।। अस्मदर्थे अस्माभिरुच्यमाने पुच्छस्थब्रह्मशब्दस्याङ्गिन्याकर्षण रूपार्थे उत्कर्षस्स्याद्धि । अधोभागेस्थित शब्दस्योर्ध्वभागे आकर्षणस्य ऊर्ध्वं कर्षणमिति वा उच्चेश्रेष्ठेङ्गिनिकर्षणमिति वा उत्कर्षरूपत्वादिति भावः । त्वयात्वपकर्षः ऊर्ध्वभागेश्रेष्ठेचाङ्गिनि स्थितस्य श्लोकस्याधोभागे पादे आकर्षणं क्रियते । अतस्त्वदुक्तेर्थेऽपकर्षोजायते । अस्मदर्थेतूत्कर्षः । स एव श्लाघ्य इति भावः ।। १०४ ।।
सत्यप्रमोदटीका
इतश्चैवमित्याह । दृढेति । आनन्दमयं पक्षीकृत्य सूत्रकृता ब्रह्मशब्दो हेतुकृतः । तस्य हेतोः पक्षादन्यत्र त्वद्रीत्याऽपकर्षणे स्वरूपासिद्धो हेतुः स्यादिति आक्षिपति कथमिति । आनन्दमयशब्दस्य पक्षगतस्य पुच्छब्रह्मणि लक्षणेति त्वदीयभाष्यं तु सूत्रविरुद्धमिति त्वयैवाभ्युप-गतमिति तिरस्कारार्हमेवेति भावः । सर्वथाऽस्मदुक्त एवार्थः श्लाघ्य इत्याह उत्कर्ष इति । श्रेष्ठे, ऊर्ध्वभागे पठिते च अङ्गिनि आकर्षणं योजनमिति हृदयम् । अपकर्षः निकृष्टे अधोभागे पठिते च पुच्छे योजनम् । उच्यते त्वयेति शेषः । इदं प्रतिबन्दीग्रहणमात्रम् । वस्तुतस्तु द्वयोरपि पूर्णयोरङ्गाङ्गिनोरप-कर्षोत्कर्षावेव नेति बोध्यम् ।। १०४ ।।
युक्तिमल्लिका
सर्वोत्कृष्टा च विद्येयमुत्कर्षं सहते परम् ।
अपकर्षेऽपि ते कोशस्यैकदेशं विशेन्न सा ।। १०५ ।।
सुरोत्तमटीका
किञ्च सर्वोत्कृष्टेयं विद्याऽऽनन्दमयविद्यापरं केवल-मुत्कर्षमेवसहते । नापकर्षम् । अतोविद्यास्वरूपपर्यालोचनयाचयोग्यं योग्येन संबध्यत इति उत्कर्ष एव कार्य इति भावः । प्रतिबन्दीप्रदर्शनायेदमुदितम् । वस्तुगत्यानापकर्षोनाप्युत्कर्षः परमात्मनि लोमनखादीनामपि परब्रह्मत्वा-त्तस्यतस्य ब्रह्मताप्रतिपादकं वाक्यं तत्र तत्रयोज्यम् । परपक्षे दूषणान्तरं चाह ।। अपकर्ष इति ।। सा ब्रह्मशब्दसहिता श्लोक रूपश्रुतिः । ते मते कोशस्य जडकोशरूपस्यानन्दमयस्यैकदेशमंशभूतं अत एव जडं पादं न विशेत् । कोशस्य जडत्वेन तदेकदेशभूतपादस्यापि जडत्वावश्यंभावात् तद्ब्रह्मत्व प्रतिपादिका न स्यादिति भावः । उपलक्षणं चैतत् । पुच्छे श्रूयमाणोपि ब्रह्मशब्दः कथं तत्र योजनीय इत्यपि द्रष्टव्यम् ।। १०५ ।।
सत्यप्रमोदटीका
इयं आनन्दमयविद्या । सर्वोत्कृष्टा सर्वापेक्षिता-नन्दरूपगुणपूर्णत्वस्य परमात्मनः प्रतिपादनपरत्वात् । केवलं पूर्वोक्त-निर्वचनानुरोधेन उत्कर्षमेव सहते । त्वद्भाष्यरीत्या तु जडकोशत्वकथने विद्याया निकृष्टत्वं तत्रापि तदेकदेशपुच्छत्वकथने निकृष्टतरत्वं चोपद्यते । न तद्युक्तिसहम् । न खलु स्वयं योग्या सती विद्या आत्मनोऽयोग्यतरत्वापादकं जडपुच्छप्रतिपादनपरत्वं जातु समीहेतेति भावः ।। १०५ ।।
युक्तिमल्लिका
अतः श्रुतेस्सूत्रकृतश्चैको मार्गो निरर्गलः ।
खलस्य सूत्रभाष्यार्थप्रवृत्तस्यापरो भवेत् ।
निमित्तसाम्येऽप्येकत्र पक्षपाताद्दुराग्रही ।। १०६ ।।
सुरोत्तमटीका
अतः अङ्गिनि श्रूयमाणश्लोकस्यान्यपरत्वायोगात् । निरर्गलः निर्बाधः एकः आनन्दमयस्य ब्रह्मत्वरूपः । अपरः पुच्छस्यैव ब्रह्मतारूपः । सूत्रभाष्यार्थं प्रवृत्तस्येति साक्षाच्छतार्थदूषकः कथं तद्भाष्यकार इत्यपहासार्थमुदितम् । खलत्वमुपपादयति ।। निमित्तेति ।। निमित्तस्या-नुपपत्तिरूपनिमित्तस्य साम्येऽपि पक्षद्वयसाधारण्येऽपि अङ्गस्यैव ब्रह्मतोक्तेः कथमङ्गिनो ब्रह्मत्वमितिवत् अङ्गिनः अब्रह्मतायां कथं तदेकदेशस्याङ्गस्य ब्रह्मत्वमिति पक्षद्वयेप्यनुपपत्तिसाम्येपीत्यर्थः । एकत्र अङ्गस्यैव ब्रह्मतायां पक्षपाताद्दुराग्रही । दुराग्रहग्रस्तत्वात्खल इति भावः ।। १०६ ।।
सत्यप्रमोदटीका
अतः सूत्राणां श्रुत्यनुग्राहकत्वात् । श्रुतेः तन्मुख्याभिमानिन्या लक्ष्म्याः । सूत्रकृतः तत्पतेः बादरायणस्य च एको मार्गः अन्योऽन्यानुकूलभावः, निरर्गलः विरोधासहिष्णुः । खलस्य तयोरन्योन्यं दूरीकरणदुरीहादूषितस्य रावणस्येवेति ध्वनिः । अपरः श्रुतेः सूत्राद्वियोजन-दुरुद्यमः । तदुक्तमनुव्याख्याने ‘ब्रह्मताऽवयवेऽपि स्यात्तथाऽवयविनि स्वतः’ इत्यादिना ।। निमित्तसाम्येऽपि अवयवावयविनोः ब्रह्मशब्दप्रवृत्तिनिमित्त-पूर्णत्वसाम्येऽपि ।। १०६ ।।
युक्तिमल्लिका
उभयोर्ब्रह्यताऽयोगादेकत्यागो यदीष्यते ।
सर्वस्य ब्रह्मता तर्हि केन वा घोषिता भुवि ।
शिष्यो ब्रह्म गुरुर्ब्रह्म सर्वं ब्रह्म जगत्किल ।। १०७ ।।
सुरोत्तमटीका
शङ्कान्तरमनूद्यदूषयति ।। उभयोरिति ।। उभयो-रङ्गाङ्गिनोर्ब्रह्मताया अयोगात् । एकत्यागः अङ्गिब्रह्मत्वत्यागः । सर्वस्य चेतनाचेतनात्मकसकलजगतः ब्रह्मता केननिमित्तेन । सर्वं खल्विदं ब्रह्मेति श्रुत्या सर्वस्य ब्रह्मतामाघोषयन्कस्माद्द्वयोर्ब्रह्मत्वाद्विभेषीति भावः । तदेव विशदयति ।। शिष्य इति ।। १०७ ।।
युक्तिमल्लिका
मोदानन्दप्रमोदानि न ब्रह्म किल चिन्मये ।
ब्रह्मणस्मुखरूपत्वे सुखस्य ब्रह्मता न किम् ।। १०८ ।।
सुरोत्तमटीका
दुःखिनो जीवस्य जडस्य घटादेश्च ब्रह्मताऽसम्भाविता । आनन्दमयस्य सुखरूपब्रह्मतायां न काप्यनुपपत्तिरिति सूचनाय मोदेत्यादिक-मुक्तम् । चिन्मये ज्ञानमये । अनुपपत्त्यभावमेवोपपादयति ।। ब्रह्मण इति ।। सुखरूपं ब्रह्मेति त्वयाप्युच्यते ।। तर्हिसुखस्य सुखात्मकानन्दमयस्य ।।१०८।।
सत्यप्रमोदटीका
एकस्य अवयविनो ब्रह्मत्वत्यागः । अयमाशयः । भेदो मिथ्या भेदत्वादिति युक्त्या सर्वप्रमाणसिद्धभेदमात्रापलापिनः मायिनः अवयवावयविभेदसत्यत्वकथने हेतोर्व्यभिचारः स्फुट एव इत्यपहसनीयैषा स्वव्याघातकरी प्रक्रियेति ।। १०७,१०८ ।।
युक्तिमल्लिका
आनन्दं ब्रह्म कं ब्रह्मेत्यादि वेदों न किं श्रुतः ।। १०९ ।।
सुरोत्तमटीका
आनन्दमयस्य ब्रह्मत्वं साक्षाच्छतं चेत्याह ।। आनन्द-मिति ।। १०९ ।।
सत्यप्रमोदटीका
आनन्दमिति श्रुतौ आनन्दस्य पूर्णत्वमुक्त्वा तस्यैव ब्रह्मत्वोक्तेश्चानन्दमयस्य ब्रह्मत्वं सिद्धमित्याह आनन्दमिति
।। १०९ ।।
युक्तिमल्लिका
विरुद्धजीवब्रह्मैक्ये यस्याशा भूयसी तव ।
अङ्गाङ्गिनोः कुतो नैक्यमेकजातीययोर्वद ।। ११० ।।
सुरोत्तमटीका
नन्वङ्गस्य ब्रह्मतायामङ्गि ब्रह्म अधिकरणमेव स्यात् । न तु ब्रह्म आधाराधेयभावस्य विरुद्धतयैकस्मिन्नयोगादित्यत आह ।। विरुद्धेति ।। सर्वज्ञत्वाल्पज्ञत्वादिनात्यन्तविरुद्धजीवब्रह्मैक्ये । यस्य तवेति सम्बन्धः । एकजातीययोः अवयविनोज्ञानानन्दमयत्वे तदवयवानामपि ज्ञानानन्दमयत्वा-वश्यम्भावात् एकप्रकारयोरित्यर्थः । अत्यन्तविरुद्धयोरैक्यं वदता उक्तरीत्या एकजातीययोरङ्गाङ्गिनोरैक्यं कुतो न कथ्यते । आवयोर्मते उपादानोपादेय-तयाऽभिन्नयोरपि मृद्घटयोरेवावयवावयविभावदर्शनात् अङ्गाङ्गिभावोपि नाभेद-विरोधीति भावः ।। ११० ।।
सत्यप्रमोदटीका
किं च ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुतौ एकशब्देन स्वगतो भेदो निषिध्यते इति त्वयैव ‘वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः’ इत्यादिना व्याख्यातत्वेन अत्र पुनरङ्गाङ्गिनोर्भेदकल्पनं स्वव्याहतमित्याह ओति ।। ११० ।।
युक्तिमल्लिका
केशस्य ब्रह्मता दृष्टा केशवस्यापि किं न सा ।। १११ ।।
सुरोत्तमटीका
किं चाङ्गाङ्गिभावापन्नयोर्मूलरूप नारायणतत्केशरूप-कृष्णावतारयोरुभयोरप्यैक्य ब्रह्मत्वाधाराधेयभावदर्शनात् आनन्दमयेप्यङ्गाङ्गिनो र्द्वयोरपि ब्रह्मत्वादौकानुपपत्तिरित्याह ।। केशस्येति ।। १११ ।।
सत्यप्रमोदटीका
केशस्येति ।। यथोक्तमनुव्याख्याने,
‘‘ब्रह्मताऽवयवेऽपि स्यात्तथाऽवयविनि स्वतः ।
यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला ।।
दर्शिता चैव पार्थाय निस्मीमाः शक्तयोऽस्य हि ।’’ इति ।
केशस्य कृष्णस्य । ‘परम्ब्रह्म परन्धाम पवित्रं परमं भवान्’ इति गीतोक्तेः । ‘सर्वमेतदृतं मन्ये यन्मां वदसि केशव’ इति च ।। १११ ।।
युक्तिमल्लिका
पुच्छस्य ब्रह्मतायां तु मध्यस्याब्रह्मता कथम् ।
मृत्पुच्छं मृण्मयस्योक्ष्ण इत्यज्ञाभाणकं स्मर ।। ११२ ।।
सुरोत्तमटीका
युक्त्यन्तरेणाप्यानन्दमयस्याब्रह्मतानोचितेत्याह ।। पुच्छस्येति ।। मध्यस्यानन्दमयस्य । उक्ष्णःवृषभस्य । आभाणकं किं वदन्ती । यथामृण्मय पुच्छवृषभयोरुभयोरपि मृदात्मकत्वं लोके दृष्टम् । तथानन्दमय पुच्छयोरुभयोरपि ब्रह्मतैव वाच्या । नत्वेकस्य ब्रह्मताऽपरस्याब्रह्मतेति भावः ।। ११२ ।।
सत्यप्रमोदटीका
मृदिति ।। दृष्टान्ते अवयवावयविनोर्भेदाभेदसद्भावेऽपि अभेदमात्रमुपादाय दृष्टान्तोक्तिरिति मन्तव्यम् ।। ११२ ।।
युक्तिमल्लिका
किं च त्यजसि चेदेकं पूर्वं त्यज भजापरम् ।
साक्षात्सूत्रविरुद्धार्थे मतिरासीत्कथं तव ।
उत्सूत्रभाष्यं दुर्भाष्यं लक्षणज्ञान्विचारय ।। ११३ ।।
सुरोत्तमटीका
युक्तयन्तरं चाह ।। किं चेति ।। एक मुभयोर्ब्रह्मत्वा-योगादेकं त्यजसिचेदित्यर्थः । पूर्वं पूर्वोक्तं पुच्छम् । अपरं श्लोकोक्तमानन्दमयं भज ब्रह्मतयाऽङ्गीकुरु । सूत्रविरुद्धार्थे सूत्रस्य विरुद्धेऽर्थे पुच्छब्रह्मत्वे । उत्सूत्रभाष्यं सूत्राननुकूलभाष्यम् । लक्षणज्ञा‘‘न्सूत्रार्थो वर्ण्यते यत्र पदै-स्सूत्रानु(का)सारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुरिति’’ भाष्यलक्षणज्ञान् ।। ११३ ।।
सत्यप्रमोदटीका
उपसंहारस्योपक्रमापेक्षया प्राबल्यपर्यालोचनयाऽपि आनन्दमयस्यैव ब्रह्मत्वं सिध्यति न तु त्वद्रीत्या पुच्छस्येत्याह किं चेति । पूर्वं प्रकरणे पूर्वप्रतिपादितं पुच्छस्य ब्रह्मत्वम् । अपरं उपसंहारश्लोके ब्रह्मशब्दा-भ्यासेन समर्थितं आनन्दमयस्य ब्रह्मत्वम् । एवं सति सूत्रविरोधोऽपि तव परिहृतः स्यदिति वक्ति साक्षादिति ।। मतिः दुर्मनस्त्वम् । कथमिति मृदूक्तिः । वस्तुतस्तु ‘तस्मिन्दुर्मनसि तदेव शोभनं स्यात्’ इत्यभियुक्तवचनेन तव तामसस्वरूपानुरूपैव दुर्मतिरिति हृदयम् । उत्सूत्रेति । तदुक्तं ‘स्वसूत्र-जातस्य विरुद्धभाषी’ तद्भाष्यकारोऽहमिति ब्रुवन्यः’ इति वर्णयतः लक्षण-ज्ञानान् सुमध्वविजयकृत इति भावः
।। ११३ ।।
युक्तिमल्लिका
क्रीडतेऽनन्तरूपैर्यस्तांश्चैकीकुरुते प्रभुः ।
तदा मूलं न किं ब्रह्म तानि रूपाणि वा न किम् ।। ११४ ।।
सुरोत्तमटीका
युक्तयन्तरेणाप्युभयो र्ब्रह्मता नविरुद्धेत्याह ।। क्रीडत इति ।। अनन्तरूपैर्मत्स्यादिभिः । ताननन्तावतारान् । एकीकुरुते । श्वेतद्वीपस्थपद्मनाभमूर्त्यासहावतारसमाप्त्यनन्तरमेकीकुरुते । मूलं मूलरूपम् । नकिं ब्रह्मनकिम् ।। ११४ ।।
सत्यप्रमोदटीका
क्रीडते ‘अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः’ इति भाष्योक्तेः । एकीकुरुते ‘पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’ इति श्रुतेः ।। ११४ ।।
युक्तिमल्लिका
पादौ ब्रह्म करौ ब्रह्म मध्यं ब्रह्म शिरो हरेः ।
ब्रह्मैवेदं सर्वमिति श्रुत्या ह्येषोऽर्थ ईरितः ।। ११५ ।।
सुरोत्तमटीका
भगवतस्सर्वावयवानामपि ब्रह्मत्वे मूलीभूतां परैः कवलीकृतां श्रुतिमुद्धरति ।। पादौ ब्रह्मेति ।। हरेरिति प्रत्येकं सम्बन्धः । ब्रह्मैवेदं सर्वमिति ब्रह्मप्रतिपादिकायां श्रुतौ ब्रह्मणः करचरणादीनामेव सन्निहितत्वेन प्रस्तुतत्वात्प्रस्तुतपरित्यागे च कारणाभावात् इदं सर्वमित्यनेन तच्चरणादिकमेव परामृश्यते । अन्तरङ्गत्वाच्च । न तु बहिरङ्गं असन्निहितं च जगदिति भावेनोक्तं पादौ ब्रह्मेत्यादि । एषः सर्वस्य हरिपादाद्यवयवस्य ब्रह्मतारूपोर्थः । इमां शास्त्रमर्यादामजानतां मायावादिनां मुखग्रासीभूताया-श्श्रुतेरुद्धारोयमिति ज्ञातव्यम् ।। ११५ ।।
सत्यप्रमोदटीका
‘सर्वं खल्विदं ब्रह्म’ इति श्रुतिं प्रकृतानुरूपार्थे प्रमाणयति पादाविति ।। ११५ ।।
युक्तिमल्लिका
आब्रह्माण्डं हि पादोऽस्य रोम्णि ब्रह्माण्डराशयः ।
शिशोर्मुखे जगत्सर्वं किं न पूर्णं परात्मनः ।। ११६ ।।
सुरोत्तमटीका
हरेस्सर्वावयवानां ब्रह्मत्वे प्रत्यक्षं च प्रमाणयति ।। आब्रह्माण्डमिति ।। आब्रह्माण्डं ब्रह्माण्डखर्परपर्यन्तम् । अस्य नारायणस्य । अयं चार्थत्रिविक्रमावतारे सर्वैर्दृष्टः । रोम्णि ब्रह्माण्डराशय इत्येतत्कोटि ब्रह्माण्डविग्रह इति वासुदेवसहस्रनाममध्यस्थभगवन्नामार्थद्रष्टृभिः
आण्डकोशोबहिरयं पञ्चाशत्कोटिविस्तृतः ।
दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवदिति
भागवतवाक्यार्थद्रष्टृभिश्च ब्रह्मरुद्रादिभिर्दृष्टम् । शिशोश्शिशुरूपस्य विजृम्भणं कुर्वतः कृष्णस्य । इदं च यशोदया दृष्टम् । परात्मनः परमात्मनः । पादरोममुखादिषु किं पूर्णं न सर्वमपि पूर्णमेव ब्रह्मैवेति यावत् । पुच्छस्यैव ब्रह्मतावादिनोपि श्रुतिबलात् बृहबृहिवृद्धाविति धातोर्महावृद्धिरूपपूर्णत्वस्यैव ब्रह्मशब्दार्थत्वात् किं न पूर्णमित्युक्तम् ।। ११६ ।।
सत्यप्रमोदटीका
ज्ञानिनां प्रत्यक्षाच्च पादरोममुखाद्यवयवानां प्रत्येकं पूर्णतामाह ।। आब्रह्माण्डमिति ।। पाद इति त्रिविक्रमावतारदर्शिनां बल्या-दीनां, रोम्णीति वराहरूपदर्शनश्चतुर्मुखस्य, शिशोरिति च यशोदायाः प्रत्यक्षाणि क्रमेणोक्तार्थे प्रमाणान्यनुसन्धेयानि ।। ११६ ।।
युक्तिमल्लिका
आनन्दमयमध्यानन्दो ब्रह्मेति किं न सा ।
सहेतुकं ब्रह्मभावमाह संशयनुत्तये ।। ११७ ।।
सुरोत्तमटीका
प्रबलश्रुत्यन्तरविरोधं चाह ।। आनन्दमयमध्यस्येति ।। आनन्द आत्मेत्युक्तानन्दाख्यमध्यस्येत्यर्थः । सा तैत्तिरीयश्रुतिरेव । आनन्दो ब्रह्मेति व्यजानादिति भृगुवल्यां सहेतुकं आनन्दाद्ध्येव खल्विमानिभूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति ब्रह्म-लक्षणाख्यहेतुसहिततया ब्रह्मभावं संशयनुत्तयेनाऽऽह किम् । मध्यस्येत्या-पातार्थमादायोक्तम् । वस्तुगत्या ब्रह्मवल्लीस्थान्नमयादि प्रकरणपञ्चकोक्तान्नमय प्राणमय मनोमय विज्ञानमयानन्दमयानामेवास्यां भृगुवल्यामपि तस्मा एतत्प्रोवाचेति एतत्पदेनपरामृश्यान्नादिशब्दैराख्यानात् आनन्दादि पदैरपि सूत्रे स्पष्टोक्तसूचितानामानन्दमयादीनामेव सहेतुकं ब्रह्मत्वोपदेश इति द्रष्टव्यम् । अतो नकेवलं सूत्रपरित्यागी परकीयभाष्यकारः । उक्तविधया प्रबलबहुतर-श्रुतित्यागीचेति न वैदिकसभासु श्लाघायोग्यः ।। ११७ ।।
सत्यप्रमोदटीका
अन्तरङ्गज्ञापकम् निरवकाशमाह आनन्दमयेति ।। भृगुवल्ल्यां खलु ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’ इति आनन्दस्य जगत्सृष्ट्यादिलक्षणहेतुकथनेन ब्रह्मभावः समर्थितः । स एवानन्दः ब्रह्मवल्ल्यां आनन्दमयस्य ‘आनन्द आत्मा’ इति आत्मशब्दितमध्यदेह उक्तः । भृगुवल्ल्यां ‘तस्मा एतत् प्रोवाच’ इति प्रत्येकं अन्नादिरूपाणां एतच्छब्देन ब्रह्मवल्लीस्थरूपाणामेव परामर्शः स्फुटमवगम्यते । तेन उभयोरपि प्रकरण-योरेकवाक्यतया एकस्थानत्वमवसीयते । तेन तत्रोक्त आनन्दः, अत्रोक्तः आनन्दमयश्चैक एवेति संसिध्यति । तथा च आनन्दमयस्यैव आनन्दमयो मध्यदेह इति अवयवावयविनोरैक्यं यदा सिद्धम् तदा समानन्यायेन पादभूत-ब्रह्मण आनन्दमयत्वे संशय एव नास्कन्दतीत्याह सहेतुकमिति ।। ११७ ।।
युक्तिमल्लिका
अङ्गस्य पूर्णतायां हि किं वाच्याऽङ्गिनि पूर्णता ।
पदस्थौल्यादतिस्थौल्यं किं नास्तीभकलेवरे ।। ११८ ।।
सुरोत्तमटीका
इदानीं परप्रक्रियामूलयुक्तिबलादेवानन्दमयस्य ब्रह्मतां साधयति ।। अङ्गस्येति ।। अङ्गस्य पुच्छपदोदितपादरूपांगस्य । अङ्गिनि तादृशपञ्चाङ्गभरितानन्दमये । तत्र दृष्टान्तमाह ।। पदस्थौल्यादिति ।। ११८ ।।
सत्यप्रमोदटीका
प्रौढिवादेन आनन्दमयस्य परिपूर्णतायां परप्रक्रिययैव सिद्धां युक्तिमाह अङ्गस्येति । आनन्दमयः अवयवी, पूर्णः, पूर्णावयवत्त्वात् यदवयवः यथाभूतः तदवयव्यपि तथाभूतः यथा स्थूलपादोपेतः गजकलेवरोऽपि स्थूलः इति प्रयोगोऽवगन्तव्यः । अत्र दृष्टान्तेऽवयवावयविनोर्भेदाभेदौ । दार्ष्टान्तिके तु अत्यन्ताभेदः । तेन दृष्टान्ते अवयविनोऽवयवापेक्षयाऽतिशय-स्थौल्यरूपातिशयवत्त्वेऽपि, दार्ष्टान्तिके ब्रह्मणि उभयोरपि एकविधमेव निरतिशयम् पूर्णत्वमिति विशेषोऽवगन्तव्यः । आनन्दमयस्य पूर्णतासिद्धिस्तु निष्प्रत्यूहा । तच्च परस्यानिष्टमेव ।। न चासिद्धिः । पादस्य ब्रह्मत्वेन पूर्णतायाः परेणैवाङ्गीकारात् ।। ११८ ।।
युक्तिमल्लिका
पुच्छे ब्रह्मपदादन्यन्न ब्रह्म यदि ते मते ।
तर्ह्यनानन्दता पुच्छे मध्यस्यानन्दताश्रुतेः ।। ११९ ।।
क्रयविक्रयपक्षे स्यादुभयोश्च द्विरूपता ।
तदुत्सूत्रस्वभावत्वादेव सूत्रविसर्जनम् ।। १२० ।।
सुरोत्तमटीका
किं च पुच्छे ब्रह्मपदश्रवणात् मध्यस्याब्रह्मतायां मध्ये आनन्दपदश्रवणात्पुच्छस्यानानन्दत्वं स्यात् । अन्योन्यविनिमये तयोरप्यु-भयरूपतासिद्धेत्याह ।। पुच्छ इति ।। अन्यत् मध्यम् । तत्तस्मात् युक्तिश्रुति-बाधितत्वात् । उत्सूत्रस्वभावत्वात् उद्गतं सूत्रं यज्ञोपवीतं तत्स्वभावत्वात् । सूत्ररहितसन्यासवेषधारित्वादित्यर्थः । सूत्रविसर्जनं ब्रह्मसूत्रविसर्जनम् ।।११९,१२० ।।
सत्यप्रमोदटीका
ते मते अङ्गि अङ्गाद्भिन्नं इति मते । अन्यत् अङ्गिः-अङ्गान्तरम् वा । अङ्गाङ्गिनोर्भेदे अङ्गानामपि परस्परं भेदः बलादापतति यतः तर्हि पादमध्यदेहयोर्भेदस्यापि अङ्गीकर्तव्यताऽऽपत्या । श्रुतेः ‘आनन्द आत्मा’ इति श्रुतेः । पुच्छस्य मध्यदेहभिन्नस्य पादस्य । मध्यस्य आनन्दत्वे अपरिहार्यम् । तच्च तवानिष्टमिति त्वन्न्यायस्त्वामेव हन्तीति भावः ।। यदि पुनरुक्तदोषपरिहाराय अङ्गयोरभेदमुपगम्य पुच्छस्य आनन्दरूपताम् ब्रूयाः तर्हि अङ्गाङ्गिनोरप्यभेदापत्त्या आनन्दमयस्य ब्रह्मतासिद्धिः । तत् श्रुतिसूत्रयो-र्विरोधगन्धस्याभावात् । सूत्रविसर्जनम् सूत्रस्य निर्निमित्तम् अप्रामाण्य-कल्पनम् । उत्सूत्रस्वभावात् न केवलं कपटयतिवेषधारणेन किं नाम तत्पूर्वमपि गोदावरीतरणसमये अनादरेण यज्ञोपवीतप्रहाणाच्च । तदुक्तम् मणिमञ्जर्यां ‘‘नदीं तर्तुमवातरत् । तस्या ओघैर्हृते ब्रह्मसूत्रे तामुत्ततार सः । मां त्वं त्यजसि चेत्सूत्र त्वां प्रागेवाहमत्यजमि’’त्यादि ।। ११९,१२० ।।
युक्तिमल्लिका
यस्त्वं समन्वयाध्यायात्पादमेकं व्ययोजयः ।
तस्यानन्दमयात्पुच्छविच्छेदे किं भयं च तत् ।। १२१ ।।
सुरोत्तमटीका
बहुसूत्रविरुद्धभाषिणः एकसूत्रविरुद्धभाषित्वं किमपूर्व-मित्याह ।। यस्त्वमिति ।। समन्वयाध्यायात् तत्तुसमन्वयादिति प्रतिज्ञात समन्वयप्रतिपादकप्रथमाध्यायात् । एकं पादं चतुर्थपादम् । व्ययोजय-स्साङ्ख्यमतनिराकरणपरतयाभिन्नार्थमकरोः । पुच्छविच्छेदे पुच्छस्य विजातीयत्वकरणे आनन्दमयसूत्रविरुद्धभाषित्व इति यावत् । अथवा पादविच्छेदकारित्वं परस्य स्वभाव इति श्लोकेनानेनोक्तम् ।। १२१ ।।
सत्यप्रमोदटीका
उत्सूत्रस्वभावत्वं स्थलान्तरेऽपि तत्प्रदर्शनेन द्रढयति यस्त्वमिति । समन्वयाध्यायान्तर्गतस्यापि चतुर्थपादस्य साङ्ख्यमतनिराकरण-परतया भाषितत्वादिति भावः । उत्सूत्रं अत्र आनन्दमयस्य पादच्छेदः तत्र समन्वयाध्यायात् चतुर्थपादच्छेदःइति सूत्रविरुद्धदुर्भाषणं तव स्वभाव एव न प्रमादमूलं इति भावः ।। १२१ ।।
युक्तिमल्लिका
प्राचीनचुम्बने मन्द दन्तभङ्गस्तवोचितः ।
न व्यासस्य खलश्रेणीदन्तभङ्गकृतो हरेः ।। १२२ ।।
सुरोत्तमटीका
किं च युष्मदस्मत्प्रत्यय गोचरयोरित्यारम्भ भाष्य एव स्वाभिमत मङ्गलपरित्यागात् प्रथमत एवाबद्धकथनं तवैवोचितम् । सर्वज्ञस्य तु व्यासस्य प्राथमिके समन्वयारम्भ सूत्रे कथमबद्धकथनं युक्तमित्यन्यापदेशेनाह ।। प्राचीनेति ।। प्रथमचुम्बन इत्यर्थः । तवैवोचित इत्यनेन सन्यासितयाऽ-नभिमतनारी मुखचुम्बने मानुषत्वात् यस्ताड््यते दयितया प्रणयापराधादित्य-मरुकेत्वयैवोक्तत्वाच्चदन्तभङ्गः सम्भावित इति सूचयति । व्यासस्य त्वच्छेद्याभेद्यहरिरूपत्वात् खलश्रेणीदन्तभङ्गकारित्वाच्च जगद्ग्रासेऽपि नदन्त-भङ्गोन्याय्य इत्यापातप्रतीयमानदन्तभङ्ग शब्दार्थस्यायमपि भावः । ध्वनितोर्थस्तु सङ्गतिकथनकाल एवोक्तो द्रष्टव्यः ।। १२२ ।।
सत्यप्रमोदटीका
प्रथमसूत्रभाष्ये एव मायिना त्वयाऽयं स्वभावः विसङ्गतस्य अध्यासभाष्यस्य उद्वमनेन आविष्कृत इत्याह प्राचीनेति । अत्र उत्सूत्रभाषणेति वक्तव्ये चुम्बनेत्युक्तिः परनारीसङ्गकृतो मायिनस्ततस्यैव ‘यस्ताड््यते’ इत्याद्युक्तिं स्मारयति । दन्तभङ्गः महातमसि पातितस्य ‘पङ्क्ति-र्ग्राव्णां गरिम्णा ग्लपयति हि भवद्द्वेषिणो विद्वदाद्य’ इति वर्णितगुरुतरग्राव-ग्रामप्रहारेणेति पूरणीयम् । नियामकतया तत्रावस्थितस्य भगवतस्तु दुःखसाक्षित्वेऽपि न लेपप्रसक्तिरित्याह न व्यासस्येति । तदुक्तं ‘नरकेऽपि वसन्नीशो नासौ दुःखभुगीश्वरः’ इति ।। १२२ ।।
युक्तिमल्लिका
यद्यानन्दमयः कोशस्तत्पुच्छे ब्रह्मता कथम् ।
साकारस्य जडस्यास्य ब्रह्मता न हि ते मते ।। १२३ ।।
सुरोत्तमटीका
अधुना परमुखेनैव स्वाभिमतश्रुतेरतत्वावेदकत्वं वाचयति ।। यद्यानन्दमय इति ।। तत्पुच्छे कोशस्यैकदेशपुच्छे । तत्र हेतुमाह ।। साकारस्येति ।। पादतयासाकारत्वात् । अत एव जडत्वाच्चेति हेतुगर्भं विशेषणद्वयम् । न च साकारत्वमसिद्धम् । पुरुषविधश्रुत्यर्थपर्यालोचनया पुच्छपदेन साकारपादाख्यावयवस्यावश्यं भावात् । तथाच ब्रह्मणि ब्रह्मत्व प्रतिपादकत्वाच्छ्रुतिरतत्वावेदिकेति भावः ।। १२३ ।।
सत्यप्रमोदटीका
किं च पुच्छशब्दस्य पादो वाऽर्थः अधिष्ठानं वा । नाद्य इत्याह यदीति । विरुद्धधर्मवतोः सामानाधिकरण्योक्तैक्यायोगादिति भावः ।। १२३ ।।
युक्तिमल्लिका
अधिष्ठानतया ब्रह्मत्वोक्तावन्यत्र किं न सा ।। १२४ ।।
सुरोत्तमटीका
अधिष्ठानतया पादारोपाधिष्ठानतया ब्रह्मत्वोक्तौ पादे ब्रह्मत्वोक्तौ । अन्यत्रावयवान्तरेषु । सा एतादृशी । आरोपाधिष्ठानत्वस्य तत्रापि विद्यमानत्वात् । अस्मिन्नपि पक्षे श्रुतिरतत्वावेदिका । अवयवान्तरेषु त्वदभिलषिततत्वस्याकथनात् । कारणं विना मुख्यार्थभूतब्रह्मत्वरूपतत्वस्य त्यागात् । पुच्छस्यैवममुख्यब्रह्मत्वे श्रुतेस्सूत्रकाराभिमतानन्दमय मुख्यब्रह्मत्वा-विरोधित्वेन तदब्रह्मत्वाख्यत्वदभिलषित तत्वस्यासाधकतयात्वत्तत्ववेदकत्वा-भावात् । अमुख्यवृत्त्या ब्रह्मशब्दबोध्यस्यास्य पुच्छस्य मिथ्यात्वावश्यम्भावेन स्पष्टमतत्वावेदकत्वाच्च ।। १२४ ।।
सत्यप्रमोदटीका
न द्वितीय इत्याह अधिष्ठानतयेति । सर्वजगदारोपा-धिष्ठानस्य विशिष्य आनन्दमयकोशमात्राधिष्ठानोक्तेरयोगात् ।। १२४ ।।
युक्तिमल्लिका
यद्यानन्दमयो ब्रह्म पुच्छस्य ब्रह्मता कथम् ।
अभयोर्ब्रह्मताऽयोगे महान्किल तवाग्रहः ।। १२५ ।।
सुरोत्तमटीका
यदि च कोशत्वपक्षोक्तदोषपरिहारायानन्दमयो ब्रह्म । न तु कोश इत्यङ्गीक्रियते । तदापि पुच्छं ब्रह्मेति श्रुतिरतत्वावेदिनीत्याह ।। पुच्छस्येति ।। पुच्छस्याब्रह्मत्वे हेतुमाह ।। उभयोरिति ।। त्वदुक्तन्यायेनैवा-नन्दमयस्य ब्रह्मत्वे पुच्छस्य ब्रह्मतागतेति भावः ।। १२५ ।।
सत्यप्रमोदटीका
अथैतद्दोषपरिजिहीर्षया आनन्दमयः कोश इति पक्षं त्यक्त्वा ब्रह्मेति अस्मदुक्तं पक्षं अङ्गीकुर्याः तर्हि घट्टकुटीप्रभातन्याय इत्याह यदीति ।। १२५ ।।
युक्तिमल्लिका
अतोऽतत्वावेदिकेयं श्रुतिरासीत्तवैव हि ।
सूत्रकल्पद्रुमच्छेदे कुठारः क्वास्ति ते वद ।। १२६ ।।
सुरोत्तमटीका
अतः पक्षद्वयेऽपि तवश्रुतिरियमतत्वावेदिकैवासीदिति योजना । अस्त्वेवमतत्वावेदिका श्रुतिः प्रकृते किमायातमित्यत आह ।। सूत्रेति ।। श्रुतिबलाद्धिसूत्रमन्यथीक्रियते । श्रुतेरेवं त्वत्प्रक्रिययैवातत्वावेदकत्वेन गतत्वात्सूत्रोक्तार्थपरित्यागे न किं चित्कारणमिति भावः ।। १२६ ।।
सत्यप्रमोदटीका
अतः अर्थद्वयेऽपि पुच्छस्य त्वन्मते ब्रह्मताऽयोगात् । एवकारेण न स्वमते दोषलेशावकाशोऽपि इति लभ्यते । अङ्गाङ्गिनोरुभयोरपि पूर्णत्वेन भगवतो महिमातिशयस्यैव लाभात् । तथा च त्वन्मते श्रुतेरतत्वा-वेदकत्वेन कुण्ठितशक्तित्वात् न तद्बलेन सूत्रस्यान्यथाकरणं इत्याह सूत्रेति ।। कुण्ठितधारेण कुठारेण काष्ठस्यापि छेदनं असम्भावितं किमुत स्वरूपतः अच्छेद्यस्य कल्पद्रुमस्येति ध्वनिः ।। १२६ ।।
युक्तिमल्लिका
श्रुतौ महानादरस्ते सर्वे जानन्ति पण्डिताः ।
ब्रह्मण्याम्रेडितश्रुत्या तटस्थं यस्य लक्षणम् ।। १२७ ।।
सुरोत्तमटीका
श्रुतावादराभिमानेन सूत्रं दूषयन्तं परं परिहसति ।। श्रुताविति ।। यस्य प्रतिवादिनो मते आम्रेडितं बहुधाकथितं यतोवा इमानि भूतानि जायन्ते अन्नं ब्रह्मेति व्यजानात् अन्नाद्ध्येवखल्विमानि भूतानि जायन्त इत्यादिना षोढाब्रह्मण्याम्रेडितमिति भावः । लक्षणं ब्रह्मलक्षणम् । तटस्थमविद्यानिष्ठम् । तस्य तवेति पूर्वेणान्वयः ।। १२७ ।।
सत्यप्रमोदटीका
महान् आदर इति पदच्छेदो मुखतः । तदा काक्वा परिहासो बोध्यः । वस्तुतस्तु महाऽनादरः इति समस्तं पदम् । कर्मधारयः । आम्रेडितं बहुवारं कथितम् । तटस्थं अविद्यानिष्ठतया व्याख्यातम् । इदं चोपलक्षणम् ।। ‘न वेदा न वर्णाश्रमाचारधर्माः’ इति स्वरूपेणैव वेदानां मिथ्यात्वं, अबोधकत्वं, अतत्वावेदकत्वं च भाषमाणस्य यस्य इत्यपि योज्यम् ।। १२७ ।।
युक्तिमल्लिका
किञ्च श्रुतावादरश्चेत्पुच्छस्थब्रह्मतास्तु ते ।
अन्यस्याब्रह्मता कस्मात्स्वीकृता न हि सा श्रुता ।। १२८ ।।
सुरोत्तमटीका
अपि च श्रुतावादरवतासाक्षाच्छतं पुच्छस्य ब्रह्मत्व-मङ्गीक्रियताम् । श्रुतावश्रुतमानन्दमयस्या ब्रह्मत्वं कुतः कथ्यत इत्याह ।। किञ्चेति ।। अन्यस्यानन्दमयस्य । साऽन्यस्याब्रह्मता । अन्यदब्रह्मेति साक्षा-दुक्तेः पुच्छमेव ब्रह्मेति सावधारणत्वोक्तेश्चाभावात् । दशघटेषु सत्स्वयं घट इत्येकत्रव्यवहारे अन्यघटेष्वघटत्वादर्शनाच्चान्यस्याब्रह्मत्वमश्रौतमेवेति भावः ।। १२८ ।।
सत्यप्रमोदटीका
किं च ‘ब्रह्म पुच्छं’ इति श्रुतिः आनन्दमयस्य ब्रह्मत्वाभावं न श्रावयति । किं तु ‘अवयवी न ब्रह्म अवयवस्य ब्रह्मत्वात्’ इति युक्तिविरोधेनैव सूत्रस्य अन्यथीकरणं त्वयैष्टव्यम् । न त्वदुक्तरीत्या श्रुतिविरोधेनेत्याह द्वाभ्यां किञ्चेत्यादिना।।१२८ ।।
युक्तिमल्लिका
विशिष्यैकत्र यद्युक्तमर्थान्नान्यत्र तद्यदि ।
तर्हि युक्तिबलादेव ब्रह्मता न श्रुतेर्बलात् ।। १२९ ।।
सुरोत्तमटीका
शङ्कते ।। विशिष्येति ।। यद्धि प्रमेयं विशिष्यैकत्रोक्तं तदर्थादन्यत्र न भवेदिति योजना । इदमपि प्रागुक्तव्यभिचारेण दूषितमेव । तथापि युक्त्यन्तरेण पुनर्दूषयति ।। तर्हीति ।। आर्थिकार्थस्याश्रौतत्वादिति भावः ।। १२९ ।।
युक्तिमल्लिका
युक्तिस्तु दुर्बला साक्षात्सूत्रादाप्ततमोदितात् ।
अतस्तवेषुस्त्वां हन्ति गुणे त्वन्यायकल्पना ।। १३० ।।
सुरोत्तमटीका
ननु युक्तिबलादागतमपि प्रमेयं कुतोनाङ्गीक्रियत इत्यत आह ।। युक्तिस्त्विति ।। प्रबलप्रमाणविरोधेन युक्तिरेवाभासीकर्तव्या । श्लोकरूपश्रुतौ श्रवणादत्रैकस्यैव श्रवणमिति वक्तुं शक्यत्वादिति भावः । अतः युक्तेर्दुर्बलत्वात् । गुणेऽप्रधाने अन्यायकल्पना अप्रामाण्यकल्पना इति तवेषु स्त्वां हन्तीति सम्बन्धः । मायावादी हि श्रुतेः प्रबलत्वात्सूत्रस्य च पुंवाक्यतया दुर्बलत्वाच्छ्रुतिविरोधे सूत्रमेवहेयमित्यत्र गुणेत्वन्यायकल्पनेति न्यायं प्रमाणी-कृतवान् । अधुनादुर्बलयुक्तिबलादाप्ततमवाक्यत्वेनातिप्रबलसूत्रदूषणे प्रयत-मानस्य स्वस्य स्वोक्तन्याय एवस्वघातकोभूदिति भावः ।। १३० ।।
सत्यप्रमोदटीका
अस्तु तर्हि उक्तयुक्तिविरोधेनैव सूत्रबाध इत्यत आह युक्तिस्त्विति । दुर्बला=मृण्मयवृषभे अवयवावयविनोरभेदस्य दृष्टत्वेन भग्नव्याप्तिका, ‘वृक्षस्य स्वगतो भेद’ इत्यादिना ‘भेदत्रयं प्राप्तं निषिध्यते’ इत्यन्तेन त्वयैव भेदस्य निराकरणेन स्वव्याहता, ‘एवं धर्मान् पृथक्पश्यन् तानेवानुविधावति’ इत्यादि पूर्वोदाहृतश्रुतिस्मृतिविरुद्धा चेति साधनासमर्था । सूत्रकृता परमाप्ततमेन उदाहृतास्तु, ब्रह्मशब्दाभ्यासः, जगच्चेष्टकत्वं, मुक्तिहेतु-भूतज्ञानविषयत्वं, मान्त्रवर्णिकत्वं, मुक्तप्राप्यत्वं, इत्यादयो युक्तयः बहव आगमिकाश्च इति प्रबलाः । अतो हीनबलया त्वद्युक्त्या न सूत्रबाधः सम्भवति, किन्तु वैपरीत्यमेवोचितमित्याह अत इति । कल्पनेत्यनन्तरमितीति शेषः । इषुरित्यनेन सम्बध्यते ।। १३० ।।
युक्तिमल्लिका
यदेकत्र विनिर्णीतश्शास्त्रार्थो ह्यपरत्र च ।
इत्याहुरार्यास्तत्तेऽर्थः स्वार्थं व्यभिचरेदपि ।। १३१ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। यदिति ।। यद्यस्मात् एकत्र-निर्णीतश्शास्त्रार्थो परत्रापीति न्यायबलेनैकत्र विशिष्योक्तशास्त्रार्थस्यैवान्यत्रापि सङ्ग्राह्यत्वादिति भावः । अस्यैवन्यायस्योदाहरणतया प्रागस्माभिरपि व्यभिचारो दर्शितः ।। १३१ ।।
सत्यप्रमोदटीका
‘ननु गुणे त्वन्यायकल्पने’ति न्यायः श्रुतियुक्त्यो-र्विरोधस्थले एव निर्णीतः न युक्त्योः परस्परम् विरोधे इति मन्दाशङ्कां व्युदस्यति यदिति ।। सर्वप्रमाणसाधारण एवायं न्याय इति भावः ।। १३१ ।।
युक्तिमल्लिका
पादस्य ब्रह्मतोक्तौ हि सर्वस्य ब्रह्मता बलात् ।
यतो भवेत्ततस्तेऽर्थः प्रबलार्थहतो भवेत् ।। १३२ ।।
सुरोत्तमटीका
न्यायसंचारार्थमिदमुदितम् । प्रकृतप्रमेयं तु युक्तिबलादेव सिद्ध्यति । अत एकत्र विशिष्योक्तिरन्यथासिद्धेत्याशयवान्मृत्पुच्छं मृण्मय-स्योक्ष्ण इत्यत्रोक्त युक्तिमेवस्मारयति ।। पादस्येति ।। बलात् अङ्गाङ्गिनोरेक- प्रकारत्वयुक्तिबलात् । तेऽर्थः एकत्रोक्तावन्यत्राभावरूपोर्थः प्रबलार्थहतः प्रबलयुक्तेरर्थेन साध्येन हत इत्यर्थः ।। १३२ ।।
सत्यप्रमोदटीका
दृष्टान्ताभिमते मृद्गवादौ सर्वत्राभावात्सपक्षशून्यत्वा-त्त्वदुपन्यस्तो हेतुर्विरुद्धश्चेत्याह पादस्येति । बलात् अवयवावयविनोरभेद-दर्शनबलात् ।। १३२ ।।
युक्तिमल्लिका
एवं च युक्तिश्रैष्ठ्येऽपि यदग्रे सूत्रखण्डनम् ।
अर्थादुत्सूत्रभाष्यत्वमुत्तरत्रापि तद्वदेत् ।। १३३ ।।
सुरोत्तमटीका
किं चार्थादनर्थप्राप्तिर्न सूत्रकारस्यापि तु तवैवेत्याह ।। एवं चेति ।। युक्तिश्रैष्ठ्ये युक्तिसौन्दर्ये । अग्रेप्रथमतः यत्सूत्रमतः यत्सूत्रखण्डनं सूत्रस्य दूषणं तत्केवलं द्वेषादेवैकत्र सूत्रदूषणं अर्थादेकत्रहृद्गतद्वेषस्य प्रदर्शि-तत्वेनान्यत्रापि तदनुमानादुत्तरत्रापित्वद्भाष्यस्योत्सूत्रभाष्यत्वं वदेत् ज्ञापयेदिति योजना ।। १३३ ।।
सत्यप्रमोदटीका
उत्ररत्रापीति स्वभावस्यानपायादिति भावः । वदेदिति करणे कर्तृत्वोपचारः ज्ञापने असन्दिग्धत्वरूपातिशयद्योतनार्थः ।। १३३ ।।